Saturday, 29 January 2022
Complete Valmiki Ramayan श्रीमद्वाल्मीकियरामायण
श्रीमद्वाल्मीकियरामायण/1Baalkand/तपःस्वाध्यायनिरतंतपस्वीवाग्विदांवरम्/नारदंपरिपप्रच्छवाल्मीकिर्मुनिपुंगवम्/कोन्वस्मिन्साम्प्रतंलोकेगुणवान्कश्चवीर्यवान्/धर्मज्ञश्चकृतज्ञश्चसत्यवाक्योदृढव्रतः/चारित्रेणचकोयुक्तःसर्वभूतेषुकोहितः/विद्वान्कःकःसमर्थश्चकश्चैकप्रियदर्शनः/आत्मवान्कोजितक्रोधोमतिमान्कोऽनसूयकः/कस्यबिभ्यतिदेवाश्चजातरोषस्यसंयुगे/एतदिच्छाम्यहंश्रोतुंपरंकौतूहलंहिमे/महर्षेत्वंसमर्थोऽसिज्ञातुमेवंविधंनरम्/श्रुत्वाचैतत्त्रिलोकज्ञोवाल्मीकेर्नारदोवचः/श्रूयतामितिचामन्त्र्यप्रहृष्टोवाक्यमब्रवीत्/बहवोदुर्लभाश्चैवयेत्वयाकीर्तितागुणाः/मुनेवक्ष्याम्यहंबुद्ध्वातैर्युक्तःश्रूयतांनरः/इक्ष्वाकुवंशप्रभवोरामोनामजनैःश्रुतः/नियतात्मामहावीर्योद्युतिमान्धृतिमान्वशी/बुद्धिमान्नीतिमान्वाग्मीश्रीमाञ्शत्रुनिबर्हणः/विपुलांसोमहाबाहुःकम्बुग्रीवोमहाहनुःd/महोरस्कोमहेष्वासोगूढजत्रुररिंदमः/आजानुबाहुःसुशिराःसुललाटःसुविक्रमः/समःसमविभक्ताङ्गःस्निग्धवर्णःप्रतापवान्/पीनवक्षाविशालाक्षोलक्ष्मीवाञ्शुभलक्षणः/धर्मज्ञःसत्यसंधश्चप्रजानांचहितेरतः/यशस्वीज्ञानसंपन्नःशुचिर्वश्यःसमाधिमान्/रक्षिताजीवलोकस्यधर्मस्यपरिरक्षिता/वेदवेदाङ्गतत्त्वज्ञोधनुर्वेदेचनिष्ठितः/सर्वशास्त्रार्थतत्त्वज्ञोस्मृतिमान्प्रतिभानवान्/सर्वलोकप्रियःसाधुरदीनात्माविचक्षणः/सर्वदाभिगतःसद्भिःसमुद्रइवसिन्धुभिः/आर्यःसर्वसमश्चैवसदैकप्रियदर्शनः/सचसर्वगुणोपेतःकौसल्यानन्दवर्धनः/समुद्रइवगाम्भीर्येधैर्येणहिमवानिव/विष्णुनासदृशोवीर्येसोमवत्प्रियदर्शनः/कालाग्निसदृशःक्रोधेक्षमयापृथिवीसमः/धनदेनसमस्त्यागेसत्येधर्मइवापरः/तमेवंगुणसंपन्नंरामंसत्यपराक्रमम्/ज्येष्ठंश्रेष्ठगुणैर्युक्तंप्रियंदशरथःसुतम्/यौवराज्येनसंयोक्तुमैच्छत्प्रीत्यामहीपतिः/तस्याभिषेकसंभारान्दृष्ट्वाभार्याथकैकयी/पूर्वंदत्तवरादेवीवरमेनमयाचत/विवासनंचरामस्यभरतस्याभिषेचनम्/ससत्यवचनाद्राजाधर्मपाशेनसंयतः/विवासयामाससुतंरामंदशरथःप्रियम्/सजगामवनंवीरःप्रतिज्ञामनुपालयन्/पितुर्वचननिर्देशात्कैकेय्याःप्रियकारणात्/तंव्रजन्तंप्रियोभ्रातालक्ष्मणोऽनुजगामह/स्नेहाद्विनयसंपन्नःसुमित्रानन्दवर्धनः/सर्वलक्षणसंपन्नानारीणामुत्तमावधूः/सीताप्यनुगतारामंशशिनंरोहिणीयथा/पौरैरनुगतोदूरंपित्रादशरथेनच/शृङ्गवेरपुरेसूतंगङ्गाकूलेव्यसर्जयत्/तेवनेनवनंगत्वानदीस्तीर्त्वाबहूदकाः/चित्रकूटमनुप्राप्यभरद्वाजस्यशासनात्/रम्यमावसथंकृत्वारममाणावनेत्रयः/देवगन्धर्वसंकाशास्तत्रतेन्यवसन्सुखम्/चित्रकूटंगतेरामेपुत्रशोकातुरस्तदा/राजादशरथःस्वर्गंजगामविलपन्सुतम्/मृतेतुतस्मिन्भरतोवसिष्ठप्रमुखैर्द्विजैः/नियुज्यमानोराज्यायनैच्छद्राज्यंमहाबलः/सजगामवनंवीरोरामपादप्रसादकः/पादुकेचास्यराज्यायन्यासंदत्त्वापुनःपुनः/निवर्तयामासततोभरतंभरताग्रजः/सकाममनवाप्यैवरामपादावुपस्पृशन्/नन्दिग्रामेऽकरोद्राज्यंरामागमनकाङ्क्षया/रामस्तुपुनरालक्ष्यनागरस्यजनस्यच/तत्रागमनमेकाग्रेदण्डकान्प्रविवेशह/विराधंराक्षसंहत्वाशरभङ्गंददर्शह/सुतीक्ष्णंचाप्यगस्त्यंचअगस्त्यभ्रातरंतथा/अगस्त्यवचनाच्चैवजग्राहैन्द्रंशरासनम्/खड्गंचपरमप्रीतस्तूणीचाक्षयसायकौ/वसतस्तस्यरामस्यवनेवनचरैःसह/ऋषयोऽभ्यागमन्सर्वेवधायासुररक्षसाम्/तेनतत्रैववसताजनस्थाननिवासिनी/विरूपिताशूर्पणखाराक्षसीकामरूपिणी/ततःशूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्/खरंत्रिशिरसंचैवदूषणंचैवराक्षसं/निजघानरणेरामस्तेषांचैवपदानुगान्/रक्षसांनिहतान्यासन्सहस्राणिचतुर्दश/ततोज्ञातिवधंश्रुत्वारावणःक्रोधमूर्छितः/सहायंवरयामासमारीचंनामराक्षसं/वार्यमाणःसुबहुशोमारीचेनसरावणः/नविरोधोबलवताक्षमोरावणतेनते/अनादृत्यतुतद्वाक्यंरावणःकालचोदितः/जगामसहमरीचस्तस्याश्रमपदंतदा/तेनमायाविनादूरमपवाह्यनृपात्मजौ/जहारभार्यांरामस्यगृध्रंहत्वाजटायुषम्/गृध्रंचनिहतंदृष्ट्वाहृतांश्रुत्वाचमैथिलीम्/राघवःशोकसंतप्तोविललापाकुलेन्द्रियः/ततस्तेनैवशोकेनगृध्रंदग्ध्वाजटायुषम्/मार्गमाणोवनेसीतांराक्षसंसंददर्शह/कबन्धंनामरूपेणविकृतंघोरदर्शनम्/तंनिहत्यमहाबाहुर्ददाहस्वर्गतश्चसः/सचास्यकथयामासशबरींधर्मचारिणीम्/श्रमणींधर्मनिपुणामभिगच्छेतिराघव/सोऽभ्यगच्छन्महातेजाःशबरींशत्रुसूदनः/शबर्यापूजितःसम्यग्रामोदशरथात्मजः/पम्पातीरेहनुमतासंगतोवानरेणह/हनुमद्वचनाच्चैवसुग्रीवेणसमागतः/सुग्रीवायचतत्सर्वंशंसद्रामोमहाबलः/ततोवानरराजेनवैरानुकथनंप्रति/रामायावेदितंसर्वंप्रणयाद्दुःखितेनच/वालिनश्चबलंतत्रकथयामासवानरः/प्रतिज्ञातंचरामेणतदावालिवधंप्रति/सुग्रीवःशङ्कितश्चासीन्नित्यंवीर्येणराघवे/राघवःप्रत्ययार्थंतुदुन्दुभेःकायमुत्तमम्/पादाङ्गुष्ठेनचिक्षेपसंपूर्णंदशयोजनम्/बिभेदचपुनःसालान्सप्तैकेनमहेषुणा/गिरिंरसातलंचैवजनयन्प्रत्ययंतदा/ततःप्रीतमनास्तेनविश्वस्तःसमहाकपिः/किष्किन्धांरामसहितोजगामचगुहांतदा/ततोऽगर्जद्धरिवरःसुग्रीवोहेमपिङ्गलः/तेननादेनमहतानिर्जगामहरीश्वरः/ततःसुग्रीववचनाद्धत्वावालिनमाहवे/सुग्रीवमेवतद्राज्येराघवःप्रत्यपादयत्/सचसर्वान्समानीयवानरान्वानरर्षभः/दिशःप्रस्थापयामासदिदृक्षुर्जनकात्मजाम्/ततोगृध्रस्यवचनात्संपातेर्हनुमान्बली/शतयोजनविस्तीर्णंपुप्लुवेलवणार्णवम्/तत्रलङ्कांसमासाद्यपुरींरावणपालिताम्/ददर्शसीतांध्यायन्तीमशोकवनिकांगताम्/निवेदयित्वाभिज्ञानंप्रवृत्तिंचनिवेद्यच/समाश्वास्यचवैदेहींमर्दयामासतोरणम्/पञ्चसेनाग्रगान्हत्वासप्तमन्त्रिसुतानपि/शूरमक्षंचनिष्पिष्यग्रहणंसमुपागमत्/अस्त्रेणोन्मुहमात्मानंज्ञात्वापैतामहाद्वरात्/मर्षयन्राक्षसान्वीरोयन्त्रिणस्तान्यदृच्छया/ततोदग्ध्वापुरींलङ्कामृतेसीतांचमैथिलीम्/रामायप्रियमाख्यातुंपुनरायान्महाकपिः/सोऽभिगम्यमहात्मानंकृत्वारामंप्रदक्षिणम्/न्यवेदयदमेयात्मादृष्टासीतेतितत्त्वतः/ततःसुग्रीवसहितोगत्वातीरंमहोदधेः/समुद्रंक्षोभयामासशरैरादित्यसंनिभैः/दर्शयामासचात्मानंसमुद्रःसरितांपतिः/समुद्रवचनाच्चैवनलंसेतुमकारयत्/तेनगत्वापुरींलङ्कांहत्वारावणमाहवे/अभ्यषिञ्चत्सलङ्कायांराक्षसेन्द्रंविभीषणम्/कर्मणातेनमहतात्रैलोक्यंसचराचरम्/सदेवर्षिगणंतुष्टंराघवस्यमहात्मनः/तथापरमसंतुष्टैःपूजितःसर्वदैवतैः/कृतकृत्यस्तदारामोविज्वरःप्रमुमोदह/देवताभ्योवरान्प्राप्यसमुत्थाप्यचवानरान्/पुष्पकंतत्समारुह्यनन्दिग्रामंययौतदा/नन्दिग्रामेजटांहित्वाभ्रातृभिःसहितोऽनघः/रामःसीतामनुप्राप्यराज्यंपुनरवाप्तवान्/प्रहृष्टमुदितोलोकस्तुष्टःपुष्टःसुधार्मिकः/निरायमोअरोगश्चदुर्भिक्षभयवर्जितः/नपुत्रमरणंकेचिद्द्रक्ष्यन्तिपुरुषाःक्वचित्/नार्यश्चाविधवानित्यंभविष्यन्तिपतिव्रताः/नवातजंभयंकिंचिन्नाप्सुमज्जन्तिजन्तवः/नचाग्रिजंभयंकिंचिद्यथाकृतयुगेतथा/अश्वमेधशतैरिष्ट्वातथाबहुसुवर्णकैः/गवांकोट्ययुतंदत्त्वाविद्वद्भ्योविधिपूर्वकम्/राजवंशाञ्शतगुणान्स्थापयिष्यतिराघवः/चातुर्वर्ण्यंचलोकेऽस्मिन्स्वेस्वेधर्मेनियोक्ष्यति/दशवर्षसहस्राणिदशवर्षशतानिच/रामोराज्यमुपासित्वाब्रह्मलोकंगमिष्यति/इदंपवित्रंपापघ्नंपुण्यंवेदैश्चसंमितम्/यःपठेद्रामचरितंसर्वपापैःप्रमुच्यते/एतदाख्यानमायुष्यंपठन्रामायणंनरः/सपुत्रपौत्रःसगणःप्रेत्यस्वर्गेमहीयते/पठन्द्विजोवागृषभत्वमीयात्॑स्यात्क्षत्रियोभूमिपतित्वमीयात्/वणिग्जनःपण्यफलत्वमीयाज्॑जनश्चशूद्रोऽपिमहत्त्वमीयात्/12/नारदस्यतुतद्वाक्यंश्रुत्वावाक्यविशारदः/पूजयामासधर्मात्मासहशिष्योमहामुनिः/यथावत्पूजितस्तेनदेवर्षिर्नारदस्तदा/आपृष्ट्वैवाभ्यनुज्ञातःसजगामविहायसं/समुहूतंगतेतस्मिन्देवलोकंमुनिस्तदा/जगामतमसातीरंजाह्नव्यास्त्वविदूरतः/सतुतीरंसमासाद्यतमसायामहामुनिः/शिष्यमाहस्थितंपार्श्वेदृष्ट्वातीर्थमकर्दमम्/अकर्दममिदंतीर्थंभरद्वाजनिशामय/रमणीयंप्रसन्नाम्बुसन्मनुष्यमनोयथा/न्यस्यतांकलशस्तातदीयतांवल्कलंमम/इदमेवावगाहिष्येतमसातीर्थमुत्तमम्/एवमुक्तोभरद्वाजोवाल्मीकेनमहात्मना/प्रायच्छतमुनेस्तस्यवल्कलंनियतोगुरोः/सशिष्यहस्तादादायवल्कलंनियतेन्द्रियः/विचचारहपश्यंस्तत्सर्वतोविपुलंवनम्/तस्याभ्याशेतुमिथुनंचरन्तमनपायिनम्/ददर्शभगवांस्तत्रक्रौञ्चयोश्चारुनिःस्वनम्/तस्मात्तुमिथुनादेकंपुमांसंपापनिश्चयः/जघानवैरनिलयोनिषादस्तस्यपश्यतः/तंशोणितपरीताङ्गंवेष्टमानंमहीतले/भार्यातुनिहतंदृष्ट्वारुरावकरुणांगिरम्/तथातुतंद्विजंदृष्ट्वानिषादेननिपातितम्/ऋषेर्धर्मात्मनस्तस्यकारुण्यंसमपद्यत/ततःकरुणवेदित्वादधर्मोऽयमितिद्विजः/निशाम्यरुदतींक्रौञ्चीमिदंवचनमब्रवीत्/मानिषादप्रतिष्ठांत्वमगमःशाश्वतींसमाः/यत्क्रौञ्चमिथुनादेकमवधीःकाममोहितम्/तस्यैवंब्रुवतश्चिन्ताबभूवहृदिवीक्षतः/शोकार्तेनास्यशकुनेःकिमिदंव्याहृतंमया/चिन्तयन्समहाप्राज्ञश्चकारमतिमान्मतिम्/शिष्यंचैवाब्रवीद्वाक्यमिदंसमुनिपुंगवः/पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः/शोकार्तस्यप्रवृत्तोमेश्लोकोभवतुनान्यथा/शिष्यस्तुतस्यब्रुवतोमुनेर्वाक्यमनुत्तमम्/प्रतिजग्राहसंहृष्टस्तस्यतुष्टोऽभवद्गुरुः/सोऽभिषेकंततःकृत्वातीर्थेतस्मिन्यथाविधि/तमेवचिन्तयन्नर्थमुपावर्ततवैमुनिः/भरद्वाजस्ततःशिष्योविनीतःश्रुतवान्गुरोः/कलशंपूर्णमादायपृष्ठतोऽनुजगामह/सप्रविश्याश्रमपदंशिष्येणसहधर्मवित्/उपविष्टःकथाश्चान्याश्चकारध्यानमास्थितः/आजगामततोब्रह्मालोककर्तास्वयंप्रभुः/चतुर्मुखोमहातेजाद्रष्टुंतंमुनिपुंगवम्/वाल्मीकिरथतंदृष्ट्वासहसोत्थायवाग्यतः/प्राञ्जलिःप्रयतोभूत्वातस्थौपरमविस्मितः/पूजयामासतंदेवंपाद्यार्घ्यासनवन्दनैः/प्रणम्यविधिवच्चैनंपृष्ट्वानामयमव्ययम्/अथोपविश्यभगवानासनेपरमार्चिते/वाल्मीकयेमहर्षयेसंदिदेशासनंततः/उपविष्टेतदातस्मिन्साक्षाल्लोकपितामहे/तद्गतेनैवमनसावाल्मीकिर्ध्यानमास्थितः/पापात्मनाकृतंकष्टंवैरग्रहणबुद्धिना/यस्तादृशंचारुरवंक्रौञ्चंहन्यादकारणात्/शोचन्नेवमुहुःक्रौञ्चीमुपश्लोकमिमंपुनः/जगावन्तर्गतमनाभूत्वाशोकपरायणः/तमुवाचततोब्रह्माप्रहसन्मुनिपुंगवम्/श्लोकएवत्वयाबद्धोनात्रकार्याविचारणा/मच्छन्दादेवतेब्रह्मन्प्रवृत्तेयंसरस्वती/रामस्यचरितंकृत्स्नंकुरुत्वमृषिसत्तम/धर्मात्मनोगुणवतोलोकेरामस्यधीमतः/वृत्तंकथयधीरस्ययथातेनारदाच्छ्रुतम्/रहस्यंचप्रकाशंचयद्वृत्तंतस्यधीमतः/रामस्यसहसौमित्रेराक्षसानांचसर्वशः/वैदेह्याश्चैवयद्वृत्तंप्रकाशंयदिवारहः/तच्चाप्यविदितंसर्वंविदितंतेभविष्यति/नतेवागनृताकाव्येकाचिदत्रभविष्यति/कुरुरामकथांपुण्यांश्लोकबद्धांमनोरमाम्/यावत्स्थास्यन्तिगिरयःसरितश्चमहीतले/तावद्रामायणकथालोकेषुप्रचरिष्यति/यावद्रामस्यचकथात्वत्कृताप्रचरिष्यति/तावदूर्ध्वमधश्चत्वंमल्लोकेषुनिवत्स्यसि/इत्युक्त्वाभगवान्ब्रह्मातत्रैवान्तरधीयत/ततःसशिष्योवाल्मीकिर्मुनिर्विस्मयमाययौ/तस्यशिष्यास्ततःसर्वेजगुःश्लोकमिमंपुनः/मुहुर्मुहुःप्रीयमाणाःप्राहुश्चभृशविस्मिताः/समाक्षरैश्चतुर्भिर्यःपादैर्गीतोमहर्षिणा/सोऽनुव्याहरणाद्भूयःशोकःश्लोकत्वमागतः/तस्यबुद्धिरियंजातावाल्मीकेर्भावितात्मनः/कृत्स्नंरामायणंकाव्यमीदृशैःकरवाण्यहम्/उदारवृत्तार्थपदैर्मनोरमैस्॑तदास्यरामस्यचकारकीर्तिमान्/समाक्षरैःश्लोकशतैर्यशस्विनो॑यशस्करंकाव्यमुदारधीर्मुनिः/13/श्रुत्वावस्तुसमग्रंतद्धर्मात्माधर्मसंहितम्/व्यक्तमन्वेषतेभूयोयद्वृत्तंतस्यधीमतः/उपस्पृश्योदकंसंयन्मुनिःस्थित्वाकृताञ्जलिः/प्राचीनाग्रेषुदर्भेषुधर्मेणान्वेषतेगतिम्/जन्मरामस्यसुमहद्वीर्यंसर्वानुकूलताम्/लोकस्यप्रियतांक्षान्तिंसौम्यतांसत्यशीलताम्/नानाचित्राःकथाश्चान्याविश्वामित्रसहायने/जानक्याश्चविवाहंचधनुषश्चविभेदनम्/रामरामविवादंचगुणान्दाशरथेस्तथा/तथाभिषेकंरामस्यकैकेय्यादुष्टभावताम्/व्याघातंचाभिषेकस्यरामस्यचविवासनम्/राज्ञःशोकंविलापंचपरलोकस्यचाश्रयम्/प्रकृतीनांविषादंचप्रकृतीनांविसर्जनम्/निषादाधिपसंवादंसूतोपावर्तनंतथा/गङ्गायाश्चाभिसंतारंभरद्वाजस्यदर्शनम्/भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्यदर्शनम्/वास्तुकर्मनिवेशंचभरतागमनंतथा/प्रसादनंचरामस्यपितुश्चसलिलक्रियाम्/पादुकाग्र्याभिषेकंचनन्दिग्रामनिवासनम्/दण्डकारण्यगमनंसुतीक्ष्णेनसमागमम्/अनसूयासमस्यांचअङ्गरागस्यचार्पणम्/शूर्पणख्याश्चसंवादंविरूपकरणंतथा/वधंखरत्रिशिरसोरुत्थानंरावणस्यच/मारीचस्यवधंचैववैदेह्याहरणंतथा/राघवस्यविलापंचगृध्रराजनिबर्हणम्/कबन्धदर्शनंचैवपम्पायाश्चापिदर्शनम्/शर्बर्यादर्शनंचैवहनूमद्दर्शनंतथा/विलापंचैवपम्पायांराघवस्यमहात्मनः/ऋष्यमूकस्यगमनंसुग्रीवेणसमागमम्/प्रत्ययोत्पादनंसख्यंवालिसुग्रीवविग्रहम्/वालिप्रमथनंचैवसुग्रीवप्रतिपादनम्/ताराविलापसमयंवर्षरात्रिनिवासनम्/कोपंराघवसिंहस्यबलानामुपसंग्रहम्/दिशःप्रस्थापनंचैवपृथिव्याश्चनिवेदनम्/अङ्गुलीयकदानंचऋक्षस्यबिलदर्शनम्/प्रायोपवेशनंचैवसंपातेश्चापिदर्शनम्/पर्वतारोहणंचैवसागरस्यचलङ्घनम्/रात्रौलङ्काप्रवेशंचएकस्यापिविचिन्तनम्/आपानभूमिगमनमवरोधस्यदर्शनम्/अशोकवनिकायानंसीतायाश्चापिदर्शनम्/अभिज्ञानप्रदानंचसीतायाश्चापिभाषणम्/राक्षसीतर्जनंचैवत्रिजटास्वप्नदर्शनम्/मणिप्रदानंसीतायावृक्षभङ्गंतथैवच/राक्षसीविद्रवंचैवकिंकराणांनिबर्हणम्/ग्रहणंवायुसूनोश्चलङ्कादाहाभिगर्जनम्/प्रतिप्लवनमेवाथमधूनांहरणंतथा/राघवाश्वासनंचैवमणिनिर्यातनंतथा/संगमंचसमुद्रस्यनलसेतोश्चबन्धनम्/प्रतारंचसमुद्रस्यरात्रौलङ्कावरोधनम्/विभीषणेनसंसर्गंवधोपायनिवेदनम्/कुम्भकर्णस्यनिधनंमेघनादनिबर्हणम्/रावणस्यविनाशंचसीतावाप्तिमरेःपुरे/बिभीषणाभिषेकंचपुष्पकस्यचदर्शनम्/अयोध्यायाश्चगमनंभरतेनसमागमम्/रामाभिषेकाभ्युदयंसर्वसैन्यविसर्जनम्/स्वराष्ट्ररञ्जनंचैववैदेह्याश्चविसर्जनम्/अनागतंचयत्किंचिद्रामस्यवसुधातले/तच्चकारोत्तरेकाव्येवाल्मीकिर्भगवानृषिः/14/प्राप्तराज्यस्यरामस्यवाल्मीकिर्भगवानृषिः/चकारचरितंकृत्स्नंविचित्रपदमात्मवान्/कृत्वातुतन्महाप्राज्ञःसभविष्यंसहोत्तरम्/चिन्तयामासकोन्वेतत्प्रयुञ्जीयादितिप्रभुः/तस्यचिन्तयमानस्यमहर्षेर्भावितात्मनः/अगृह्णीतांततःपादौमुनिवेषौकुशीलवौ/कुशीलवौतुधर्मज्ञौराजपुत्रौयशस्विनौ/भ्रातरौस्वरसंपन्नौददर्शाश्रमवासिनौ/सतुमेधाविनौदृष्ट्वावेदेषुपरिनिष्ठितौ/वेदोपबृह्मणार्थायतावग्राहयतप्रभुः/काव्यंरामायणंकृत्स्नंसीतायाश्चरितंमहत्/पौलस्त्यवधमित्येवचकारचरितव्रतः/पाठ्येगेयेचमधुरंप्रमाणैस्त्रिभिरन्वितम्/जातिभिःसप्तभिर्युक्तंतन्त्रीलयसमन्वितम्/हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः/बीभत्सादिरसैर्युक्तंकाव्यमेतदगायताम्/तौतुगान्धर्वतत्त्वज्ञौस्थानमूर्च्छनकोविदौ/भ्रातरौस्वरसंपन्नौगन्धर्वाविवरूपिणौ/रूपलक्षणसंपन्नौमधुरस्वरभाषिणौ/बिम्बादिवोद्धृतौबिम्बौरामदेहात्तथापरौ/तौराजपुत्रौकार्त्स्न्येनधर्म्यमाख्यानमुत्तमम्/वाचोविधेयंतत्सर्वंकृत्वाकाव्यमनिन्दितौ/ऋषीणांचद्विजातीनांसाधूनांचसमागमे/यथोपदेशंतत्त्वज्ञौजगतुस्तौसमाहितौ/महात्मानौमहाभागौसर्वलक्षणलक्षितौ/तौकदाचित्समेतानामृषीणांभावितात्मनाम्/आसीनानांसमीपस्थाविदंकाव्यमगायताम्/तच्छ्रुत्वामुनयःसर्वेबाष्पपर्याकुलेक्षणाः/साधुसाध्वित्य्तावूचतुःपरंविस्मयमागताः/तेप्रीतमनसःसर्वेमुनयोधर्मवत्सलाः/प्रशशंसुःप्रशस्तव्यौगायमानौकुशीलवौ/अहोगीतस्यमाधुर्यंश्लोकानांचविशेषतः/चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिवदर्शितम्/प्रविश्यतावुभौसुष्ठुतदाभावमगायताम्/सहितौमधुरंरक्तंसंपन्नंस्वरसंपदा/एवंप्रशस्यमानौतौतपःश्लाघ्यैर्महर्षिभिः/संरक्ततरमत्यर्थंमधुरंतावगायताम्/प्रीतःकश्चिन्मुनिस्ताभ्यांसंस्थितःकलशंददौ/प्रसन्नोवल्कलंकश्चिद्ददौताभ्यांमहायशाः/आश्चर्यमिदमाख्यानंमुनिनासंप्रकीर्तितम्/परंकवीनामाधारंसमाप्तंचयथाक्रमम्/प्रशस्यमानौसर्वत्रकदाचित्तत्रगायकौ/रथ्यासुराजमार्गेषुददर्शभरताग्रजः/स्ववेश्मचानीयततोभ्रातरौसकुशीलवौ/पूजयामासपूजार्हौरामःशत्रुनिबर्हणः/आसीनःकाञ्चनेदिव्येसचसिंहासनेप्रभुः/उपोपविष्टैःसचिवैर्भ्रातृभिश्चपरंतपः/दृष्ट्वातुरूपसंपन्नौतावुभौवीणिनौततः/उवाचलक्ष्मणंरामःशत्रुघ्नंभरतंतथा/श्रूयतामिदमाख्यानमनयोर्देववर्चसोः/विचित्रार्थपदंसम्यग्गायतोर्मधुरस्वरम्/इमौमुनीपार्थिवलक्ष्मणान्वितौ॑कुशीलवौचैवमहातपस्विनौ/ममापितद्भूतिकरंप्रचक्षते॑महानुभावंचरितंनिबोधत/ततस्तुतौरामवचःप्रचोदिताव्॑अगायतांमार्गविधानसंपदा/सचापिरामःपरिषद्गतःशनैर्॑बुभूषयासक्तमनाबभूव/15/सर्वापूर्वमियंयेषामासीत्कृत्स्नावसुंधरा/प्रजापतिमुपादायनृपाणांजयशालिनाम्/येषांससगरोनामसागरोयेनखानितः/षष्टिःपुत्रसहस्राणियंयान्तंपर्यवारयन्/इक्ष्वाकूणामिदंतेषांराज्ञांवंशेमहात्मनाम्/महदुत्पन्नमाख्यानंरामायणमितिश्रुतम्/तदिदंवर्तयिष्यामिसर्वंनिखिलमादितः/धर्मकामार्थसहितंश्रोतव्यमनसूयया/कोसलोनाममुदितःस्फीतोजनपदोमहान्/निविष्टःसरयूतीरेप्रभूतधनधान्यवान्/अयोध्यानामनगरीतत्रासील्लोकविश्रुता/मनुनामानवेन्द्रेणयापुरीनिर्मितास्वयम्/आयतादशचद्वेचयोजनानिमहापुरी/श्रीमतीत्रीणिविस्तीर्णासुविभक्तमहापथा/राजमार्गेणमहतासुविभक्तेनशोभिता/मुक्तपुष्पावकीर्णेनजलसिक्तेननित्यशः/तांतुराजादशरथोमहाराष्ट्रविवर्धनः/पुरीमावासयामासदिविदेवपतिर्यथा/कपाटतोरणवतींसुविभक्तान्तरापणाम्/सर्वयन्त्रायुधवतीमुपेतांसर्वशिल्पिभिः/सूतमागधसंबाधांश्रीमतीमतुलप्रभाम्/उच्चाट्टालध्वजवतींशतघ्नीशतसंकुलाम्/वधूनाटकसङ्घैश्चसंयुक्तांसर्वतःपुरीम्/उद्यानाम्रवणोपेतांमहतींसालमेखलाम्/दुर्गगम्भीरपरिघांदुर्गामन्यैर्दुरासदाम्/वाजिवारणसंपूर्णांगोभिरुष्ट्रैःखरैस्तथा/सामन्तराजसङ्घैश्चबलिकर्मभिरावृताम्/नानादेशनिवासैश्चवणिग्भिरुपशोभिताम्/प्रसादैरत्नविकृतैःपर्वतैरुपशोभिताम्/कूटागारैश्चसंपूर्णामिन्द्रस्येवामरावतीम्/चित्रामष्टापदाकारांवरनारीगणैर्युताम्/सर्वरत्नसमाकीर्णांविमानगृहशोभिताम्/गृहगाढामविच्छिद्रांसमभूमौनिवेशिताम्/शालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम्/दुन्दुभीभिर्मृदङ्गैश्चवीणाभिःपणवैस्तथा/नादितांभृशमत्यर्थंपृथिव्यांतामनुत्तमाम्/विमानमिवसिद्धानांतपसाधिगतंदिवि/सुनिवेशितवेश्मान्तांनरोत्तमसमावृताम्/येचबाणैर्नविध्यन्तिविविक्तमपरापरम्/शब्दवेध्यंचविततंलघुहस्ताविशारदाः/सिंहव्याघ्रवराहाणांमत्तानांनदतांवने/हन्तारोनिशितैःशस्त्रैर्बलाद्बाहुबलैरपि/तादृशानांसहस्रैस्तामभिपूर्णांमहारथैः/पुरीमावासयामासराजादशरथस्तदा/तामग्निमद्भिर्गुणवद्भिरावृतां॑द्विजोत्तमैर्वेदषडङ्गपारगैः/सहस्रदैःसत्यरतैर्महात्मभिर्॑महर्षिकल्पैरृषिभिश्चकेवलैः/पुर्यांतस्यामयोध्यायांवेदवित्सर्वसंग्रहः/दीर्घदर्शीमहातेजाःपौरजानपदप्रियः/इक्ष्वाकूणामतिरथोयज्वाधर्मरतोवशी/महर्षिकल्पोराजर्षिस्त्रिषुलोकृषुविश्रुतः/बलवान्निहतामित्रोमित्रवान्विजितेन्द्रियः/धनैश्चसंचयैश्चान्यैःशक्रवैश्रवणोपमः/यथामनुर्महातेजालोकस्यपरिरक्षिता/तथादशरथोराजावसञ्जगदपालयत्/तेनसत्याभिसंधेनत्रिवर्गमनुतिष्ठता/पालितासापुरीश्रेष्ठेन्द्रेणइवामरावती/तस्मिन्पुरवरेहृष्टाधर्मात्मनाबहुश्रुताः/नरास्तुष्टाधनैःस्वैःस्वैरलुब्धाःसत्यवादिनः/नाल्पसंनिचयःकश्चिदासीत्तस्मिन्पुरोत्तमे/कुटुम्बीयोह्यसिद्धार्थोऽगवाश्वधनधान्यवान्/कामीवानकदर्योवानृशंसःपुरुषःक्वचित्/द्रष्टुंशक्यमयोध्यायांनाविद्वान्नचनास्तिकः/सर्वेनराश्चनार्यश्चधर्मशीलाःसुसंयताः/मुदिताःशीलवृत्ताभ्यांमहर्षयइवामलाः/नाकुण्डलीनामुकुटीनास्रग्वीनाल्पभोगवान्/नामृष्टोनानुलिप्ताङ्गोनासुगन्धश्चविद्यते/नामृष्टभोजीनादातानाप्यनङ्गदनिष्कधृक्/नाहस्ताभरणोवापिदृश्यतेनाप्यनात्मवान्/नानाहिताग्निर्नायज्वाविप्रोनाप्यसहस्रदः/कश्चिदासीदयोध्यायांनचनिर्वृत्तसंकरः/स्वकर्मनिरतानित्यंब्राह्मणाविजितेन्द्रियाः/दानाध्ययनशीलाश्चसंयताश्चप्रतिग्रहे/ननास्तिकोनानृतकोनकश्चिदबहुश्रुतः/नासूयकोनचाशक्तोनाविद्वान्विद्यतेतदा/नदीनःक्षिप्तचित्तोवाव्यथितोवापिकश्चन/कश्चिन्नरोवानारीवानाश्रीमान्नाप्यरूपवान्/द्रष्टुंशक्यमयोध्यायांनापिराजन्यभक्तिमान्/वर्णेष्वग्र्यचतुर्थेषुदेवतातिथिपूजकाः/दीर्घायुषोनराःसर्वेधर्मंसत्यंचसंश्रिताः/क्षत्रंब्रह्ममुखंचासीद्वैश्याःक्षत्रमनुव्रताः/शूद्राःस्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः/सातेनेक्ष्वाकुनाथेनपुरीसुपरिरक्षिता/यथापुरस्तान्मनुनामानवेन्द्रेणधीमता/योधानामग्निकल्पानांपेशलानाममर्षिणाम्/संपूर्णाकृतविद्यानांगुहाकेसरिणामिव/काम्बोजविषयेजातैर्बाह्लीकैश्चहयोत्तमैः/वनायुजैर्नदीजैश्चपूर्णाहरिहयोपमैः/विन्ध्यपर्वपजैर्मत्तैःपूर्णाहैमवतैरपि/मदान्वितैरतिबलैर्मातङ्गैःपर्वतोपमैः/अञ्जनादपिनिष्क्रान्तैर्वामनादपिचद्विपैः/भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्चसापुरी/नित्यमत्तैःसदापूर्णानागैरचलसंनिभैः/सायोजनेचद्वेभूयःसत्यनामाप्रकाशते/तांसत्यनामांदृढतोरणार्गलाम्॑गृहैर्विचित्रैरुपशोभितांशिवाम्/पुरीमयोध्यांनृसहस्रसंकुलां॑शशासवैशक्रसमोमहीपतिः/अष्टौबभूवुर्वीरस्यतस्यामात्यायशस्विनः/शुचयश्चानुरक्ताश्चराजकृत्येषुनित्यशः/धृष्टिर्जयन्तोविजयःसिद्धार्थोअर्थसाधकः/अशोकोमन्त्रपालश्चसुमन्त्रश्चाष्टमोऽभवत्/ऋत्विजौद्वावभिमतौतस्यास्तामृषिसत्तमौ/वसिष्ठोवामदेवश्चमन्त्रिणश्चतथापरे/श्रीमन्तश्चमहात्मानःशास्त्रज्ञादृढविक्रमाः/कीर्तिमन्तःप्रणिहितायथावचनकारिणः/तेजःक्षमायशःप्राप्ताःस्मितपूर्वाभिभाषिणः/क्रोधात्कामार्थहेतोर्वानब्रूयुरनृतंवचः/तेषामविदितंकिंचित्स्वेषुनास्तिपरेषुवा/क्रियमाणंकृतंवापिचारेणापिचिकीर्षितम्/कुशलाव्यवहारेषुसौहृदेषुपरीक्षिताः/प्राप्तकालंयथादण्डंधारयेयुःसुतेष्वपि/कोशसंग्रहणेयुक्ताबलस्यचपरिग्रहे/अहितंचापिपुरुषंनविहिंस्युरदूषकम्/वीरांश्चनियतोत्साहाराजशास्त्रमनुष्ठिताः/शुचीनांरक्षितारश्चनित्यंविषयवासिनाम्/ब्रह्मक्षत्रमहिंसन्तस्तेकोशंसमपूरयन्/सुतीक्ष्णदण्डाःसंप्रेक्ष्यपुरुषस्यबलाबलम्/शुचीनामेकबुद्धीनांसर्वेषांसंप्रजानताम्/नासीत्पुरेवाराष्ट्रेवामृषावादीनरःक्वचित्/कश्चिन्नदुष्टस्तत्रासीत्परदाररतिर्नरः/प्रशान्तंसर्वमेवासीद्राष्ट्रंपुरवरंचतत्/सुवाससःसुवेशाश्चतेचसर्वेसुशीलिनः/हितार्थंचनरेन्द्रस्यजाग्रतोनयचक्षुषा/गुरौगुणगृहीताश्चप्रख्याताश्चपराक्रमैः/विदेशेष्वपिविज्ञाताःसर्वतोबुद्धिनिश्चयात्/ईदृशैस्तैरमात्यैस्तुराजादशरथोऽनघः/उपपन्नोगुणोपेतैरन्वशासद्वसुंधराम्/अवेक्षमाणश्चारेणप्रजाधर्मेणरञ्जयन्/नाध्यगच्छद्विशिष्टंवातुल्यंवाशत्रुमात्मनः/तैर्मन्त्रिभिर्मन्त्रहितैर्निविष्टैर्॑वृतोऽनुरक्तैःकुशलैःसमर्थैः/सपार्थिवोदीप्तिमवापयुक्तस्॑तेजोमयैर्गोभिरिवोदितोऽर्कः/तस्यत्वेवंप्रभावस्यधर्मज्ञस्यमहात्मनः/सुतार्थंतप्यमानस्यनासीद्वंशकरःसुतः/चिन्तयानस्यतस्यैवंबुद्धिरासीन्महात्मनः/सुतार्थंवाजिमेधेनकिमर्थंनयजाम्यहम्/सनिश्चितांमतिंकृत्वायष्टव्यमितिबुद्धिमान्/मन्त्रिभिःसहधर्मात्मासर्वैरेवकृतात्मभिः/ततोऽब्रवीदिदंराजासुमन्त्रंमन्त्रिसत्तमम्/शीघ्रमानयमेसर्वान्गुरूंस्तान्सपुरोहितान्/एतच्छ्रुत्वारहःसूतोराजानमिदमब्रवीत्/ऋत्विग्भिरुपदिष्टोऽयंपुरावृत्तोमयाश्रुतः/सनत्कुमारोभगवान्पूर्वंकथितवान्कथाम्/ऋषीणांसंनिधौराजंस्तवपुत्रागमंप्रति/काश्यपस्यतुपुत्रोऽस्तिविभाण्डकइतिश्रुतः/ऋष्यशृङ्गइतिख्यातस्तस्यपुत्रोभविष्यति/सवनेनित्यसंवृद्धोमुनिर्वनचरःसदा/नान्यंजानातिविप्रेन्द्रोनित्यंपित्रनुवर्तनात्/द्वैविध्यंब्रह्मचर्यस्यभविष्यतिमहात्मनः/लोकेषुप्रथितंराजन्विप्रैश्चकथितंसदा/तस्यैवंवर्तमानस्यकालःसमभिवर्तत/अग्निंशुश्रूषमाणस्यपितरंचयशस्विनम्/एतस्मिन्नेवकालेतुरोमपादःप्रतापवान्/अङ्गेषुप्रथिताराजाभविष्यतिमहाबलः/तस्यव्यतिक्रमाद्राज्ञोभविष्यतिसुदारुणा/अनावृष्टिःसुघोरावैसर्वभूतभयावहा/अनावृष्ट्यांतुवृत्तायांराजादुःखसमन्वितः/ब्राह्मणाञ्श्रुतवृद्धांश्चसमानीयप्रवक्ष्यति/भवन्तःश्रुतधर्माणोलोकेचारित्रवेदिनः/समादिशन्तुनियमंप्रायश्चित्तंयथाभवेत्/वक्ष्यन्तितेमहीपालंब्राह्मणावेदपारगाः/विभाण्डकसुतंराजन्सर्वोपायैरिहानय/आनाय्यचमहीपालऋष्यशृङ्गंसुसत्कृतम्/प्रयच्छकन्यांशान्तांवैविधिनासुसमाहितः/तेषांतुवचनंश्रुत्वाराजाचिन्तांप्रपत्स्यते/केनोपायेनवैशक्यमिहानेतुंसवीर्यवान्/ततोराजाविनिश्चित्यसहमन्त्रिभिरात्मवान्/पुरोहितममात्यांश्चप्रेषयिष्यतिसत्कृतान्/तेतुराज्ञोवचःश्रुत्वाव्यथितावनताननाः/नगच्छेमऋषेर्भीताअनुनेष्यन्तितंनृपम्/वक्ष्यन्तिचिन्तयित्वातेतस्योपायांश्चतान्क्षमान्/आनेष्यामोवयंविप्रंनचदोषोभविष्यति/एवमङ्गाधिपेनैवगणिकाभिरृषेःसुतः/आनीतोऽवर्षयद्देवःशान्ताचास्मैप्रदीयते/ऋष्यशृङ्गस्तुजामातापुत्रांस्तवविधास्यति/सनत्कुमारकथितमेतावद्व्याहृतंमया/अथहृष्टोदशरथःसुमन्त्रंप्रत्यभाषत/यथर्ष्यशृङ्गस्त्वानीतोविस्तरेणत्वयोच्यताम्/सुमन्त्रश्चोदितोराज्ञाप्रोवाचेदंवचस्तदा/यथर्ष्यशृङ्गस्त्वानीतःशृणुमेमन्त्रिभिःसह/रोमपादमुवाचेदंसहामात्यःपुरोहितः/उपायोनिरपायोऽयमस्माभिरभिचिन्तितः/ऋष्यशृङ्गोवनचरस्तपःस्वाध्यायनेरतः/अनभिज्ञःसनारीणांविषयाणांसुखस्यच/इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः/पुरमानाययिष्यामःक्षिप्रंचाध्यवसीयताम्/गणिकास्तत्रगच्छन्तुरूपवत्यःस्वलंकृताः/प्रलोभ्यविविधोपायैरानेष्यन्तीहसत्कृताः/श्रुत्वातथेतिराजाचप्रत्युवाचपुरोहितम्/पुरोहितोमन्त्रिणश्चतथाचक्रुश्चतेतदा/वारमुख्यास्तुतच्छ्रुत्वावनंप्रविविशुर्महत्/आश्रमस्याविदूरेऽस्मिन्यत्नंकुर्वन्तिदर्शने/ऋषिपुत्रस्यघोरस्यनित्यमाश्रमवासिनः/पितुःसनित्यसंतुष्टोनातिचक्रामचाश्रमात्/नतेनजन्मप्रभृतिदृष्टपूर्वंतपस्विना/स्त्रीवापुमान्वायच्चान्यत्सत्त्वंनगरराष्ट्रजम्/ततःकदाचित्तंदेशमाजगामयदृच्छया/विभाण्डकसुतस्तत्रताश्चापश्यद्वराङ्गनाः/ताश्चित्रवेषाःप्रमदागायन्त्योमधुरस्वरैः/ऋषिपुत्रमुपागम्यसर्वावचनमब्रुवन्/कस्त्वंकिंवर्तसेब्रह्मञ्ज्ञातुमिच्छामहेवयम्/एकस्त्वंविजनेघोरेवनेचरसिशंसनः/अदृष्टरूपास्तास्तेनकाम्यरूपावनेस्त्रियः/हार्दात्तस्यमतिर्जाताआख्यातुंपितरंस्वकम्/पिताविभाण्डकोऽस्माकंतस्याहंसुतऔरसः/ऋष्यशृङ्गइतिख्यातंनामकर्मचमेभुवि/इहाश्रमपदोऽस्माकंसमीपेशुभदर्शनाः/करिष्येवोऽत्रपूजांवैसर्वेषांविधिपूर्वकम्/ऋषिपुत्रवचःश्रुत्वासर्वासांमतिरासवै/तदाश्रमपदंद्रष्टुंजग्मुःसर्वाश्चतेनह/गतानांतुततःपूजामृषिपुत्रश्चकारह/इदमर्घ्यमिदंपाद्यमिदंमूलंफलंचनः/प्रतिगृह्यतुतांपूजांसर्वाएवसमुत्सुकाः/ऋषेर्भीताश्चशीघ्रंतुगमनायमतिंदधुः/अस्माकमपिमुख्यानिफलानीमानिवैद्विज/गृहाणप्रतिभद्रंतेभक्षयस्वचमाचिरम्/ततस्तास्तंसमालिङ्ग्यसर्वाहर्षसमन्विताः/मोदकान्प्रददुस्तस्मैभक्ष्यांश्चविविधाञ्शुभान्/तानिचास्वाद्यतेजस्वीफलानीतिस्ममन्यते/अनास्वादितपूर्वाणिवनेनित्यनिवासिनाम्/आपृच्छ्यचतदाविप्रंव्रतचर्यांनिवेद्यच/गच्छन्तिस्मापदेशात्ताभीतास्तस्यपितुःस्त्रियः/गतासुतासुसर्वासुकाश्यपस्यात्मजोद्विजः/अस्वस्थहृदयश्चासीद्दुःखंस्मपरिवर्तते/ततोऽपरेद्युस्तंदेशमाजगामसवीर्यवान्/मनोज्ञायत्रतादृष्टावारमुख्याःस्वलंकृताः/दृष्ट्वैवचतदाविप्रमायान्तंहृष्टमानसाः/उपसृत्यततःसर्वास्तास्तमूचुरिदंवचः/एह्याश्रमपदंसौम्यअस्माकमितिचाब्रुवन्/तत्राप्येषविधिःश्रीमान्विशेषेणभविष्यति/श्रुत्वातुवचनंतासांसर्वासांहृदयंगमम्/गमनायमतिंचक्रेतंचनिन्युस्तदास्त्रियः/तत्रचानीयमानेतुविप्रेतस्मिन्महात्मनि/ववर्षसहसादेवोजगत्प्रह्लादयंस्तदा/वर्षेणैवागतंविप्रंविषयंस्वंनराधिपः/प्रत्युद्गम्यमुनिंप्रह्वःशिरसाचमहींगतः/अर्घ्यंचप्रददौतस्मैन्यायतःसुसमाहितः/वव्रेप्रसादंविप्रेन्द्रान्माविप्रंमन्युराविशेत्/अन्तःपुरंप्रविश्यास्मैकन्यांदत्त्वायथाविधि/शान्तांशान्तेनमनसाराजाहर्षमवापसः/एवंसन्यवसत्तत्रसर्वकामैःसुपूजितः/ऋष्यशृङ्गोमहातेजाःशान्तयासहभार्यया/भूयएवचराजेन्द्रशृणुमेवचनंहितम्/यथासदेवप्रवरःकथयामासबुद्धिमान्/इक्ष्वाकूणांकुलेजातोभविष्यतिसुधार्मिकः/राजादशरथोनाम्नाश्रीमान्सत्यप्रतिश्रवः/अङ्गराजेनसख्यंचतस्यराज्ञोभविष्यति/कन्याचास्यमहाभागाशान्तानामभविष्यति/पुत्रस्त्वङ्गस्यराज्ञस्तुरोमपादइतिश्रुतः/तंसराजादशरथोगमिष्यतिमहायशाः/अनपत्योऽस्मिधर्मात्मञ्शान्ताभार्याममक्रतुम्/आहरेतत्वयाज्ञप्तःसंतानार्थंकुलस्यच/श्रुत्वाराज्ञोऽथतद्वाक्यंमनसासविचिन्त्यच/प्रदास्यतेपुत्रवन्तंशान्ताभर्तारमात्मवान्/प्रतिगृह्यचतंविप्रंसराजाविगतज्वरः/आहरिष्यतितंयज्ञंप्रहृष्टेनान्तरात्मना/तंचराजादशरथोयष्टुकामःकृताञ्जलिः/ऋष्यशृङ्गंद्विजश्रेष्ठंवरयिष्यतिधर्मवित्/यज्ञार्थंप्रसवार्थंचस्वर्गार्थंचनरेश्वरः/लभतेचसतंकामंद्विजमुख्याद्विशांपतिः/पुत्राश्चास्यभविष्यन्तिचत्वारोऽमितविक्रमाः/वंशप्रतिष्ठानकराःसर्वलोकेषुविश्रुताः/एवंसदेवप्रवरःपूर्वंकथितवान्कथाम्/सनत्कुमारोभगवान्पुरादेवयुगेप्रभुः/सत्वंपुरुषशार्दूलतमानयसुसत्कृतम्/स्वयमेवमहाराजगत्वासबलवाहनः/अनुमान्यवसिष्ठंचसूतवाक्यंनिशम्यच/सान्तःपुरःसहामात्यःप्रययौयत्रसद्विजः/वनानिसरितश्चैवव्यतिक्रम्यशनैःशनैः/अभिचक्रामतंदेशंयत्रवैमुनिपुंगवः/आसाद्यतंद्विजश्रेष्ठंरोमपादसमीपगम्/ऋषिपुत्रंददर्शादौदीप्यमानमिवानलम्/ततोराजायथान्यायंपूजांचक्रेविशेषतः/सखित्वात्तस्यवैराज्ञःप्रहृष्टेनान्तरात्मना/रोमपादेनचाख्यातमृषिपुत्रायधीमते/सख्यंसंबन्धकंचैवतदातंप्रत्यपूजयत्/एवंसुसत्कृतस्तेनसहोषित्वानरर्षभः/सप्ताष्टदिवसान्राजाराजानमिदमब्रवीत्/शान्तातवसुताराजन्सहभर्त्राविशाम्पते/मदीयंनगरंयातुकार्यंहिमहदुद्यतम्/तथेतिराजासंश्रुत्यगमनंतस्यधीमतः/उवाचवचनंविप्रंगच्छत्वंसहभार्यया/ऋषिपुत्रःप्रतिश्रुत्यतथेत्याहनृपंतदा/सनृपेणाभ्यनुज्ञातःप्रययौसहभार्यया/तावन्योन्याञ्जलिंकृत्वास्नेहात्संश्लिष्यचोरसा/ननन्दतुर्दशरथोरोमपादश्चवीर्यवान्/ततःसुहृदमापृच्छ्यप्रस्थितोरघुनन्दनः/पौरेभ्यःप्रेषयामासदूतान्वैशीघ्रगामिनः/क्रियतांनगरंसर्वंक्षिप्रमेवस्वलंकृतम्/ततःप्रहृष्टाःपौरास्तेश्रुत्वाराजानमागतम्/तथाप्रचक्रुस्तत्सर्वंराज्ञायत्प्रेषितंतदा/ततःस्वलंकृतंराजानगरंप्रविवेशह/शङ्खदुन्दुभिनिर्घोषैःपुरस्कृत्यद्विजर्षभम्/ततःप्रमुदिताःसर्वेदृष्ट्वावैनागराद्विजम्/प्रवेश्यमानंसत्कृत्यनरेन्द्रेणेन्द्रकर्मणा/अन्तःपुरंप्रवेश्यैनंपूजांकृत्वातुशास्त्रतः/कृतकृत्यंतदात्मानंमेनेतस्योपवाहनात्/अन्तःपुराणिसर्वाणिशान्तांदृष्ट्वातथागताम्/सहभर्त्राविशालाक्षींप्रीत्यानन्दमुपागमन्/पूज्यमानाचताभिःसाराज्ञाचैवविशेषतः/उवासतत्रसुखिताकंचित्कालंसहद्विजा/112/ततःकालेबहुतिथेकस्मिंश्चित्सुमनोहरे/वसन्तेसमनुप्राप्तेराज्ञोयष्टुंमनोऽभवत्/ततःप्रसाद्यशिरसातंविप्रंदेववर्णिनम्/यज्ञायवरयामाससंतानार्थंकुलस्यच/तथेतिचसराजानमुवाचचसुसत्कृतः/संभाराःसंभ्रियन्तांतेतुरगश्चविमुच्यताम्/ततोराजाब्रवीद्वाक्यंसुमन्त्रंमन्त्रिसत्तमम्/सुमन्त्रावाहयक्षिप्रमृत्विजोब्रह्मवादिनः/ततःसुमन्त्रस्त्वरितंगत्वात्वरितविक्रमः/समानयत्सतान्विप्रान्समस्तान्वेदपारगान्/सुयज्ञंवामदेवंचजाबालिमथकाश्यपम्/पुरोहितंवसिष्ठंचयेचान्येद्विजसत्तमाः/तान्पूजयित्वाधर्मात्माराजादशरथस्तदा/इदंधर्मार्थसहितंश्लक्ष्णंवचनमब्रवीत्/ममलालप्यमानस्यपुत्रार्थंनास्तिवैसुखम्/तदर्थंहयमेधेनयक्ष्यामीतिमतिर्मम/तदहंयष्टुमिच्छामिशास्त्रदृष्टेनकर्मणा/ऋषिपुत्रप्रभावेनकामान्प्राप्स्यामिचाप्यहम्/ततःसाध्वितितद्वाक्यंब्राह्मणाःप्रत्यपूजयन्/वसिष्ठप्रमुखाःसर्वेपार्थिवस्यमुखाच्च्युतम्/ऋष्यशृङ्गपुरोगाश्चप्रत्यूचुर्नृपतिंतदा/संभाराःसंभ्रियन्तांतेतुरगश्चविमुच्यताम्/सर्वथाप्राप्यसेपुत्रांश्चतुरोऽमितविक्रमान्/यस्यतेधार्मिकीबुद्धिरियंपुत्रार्थमागताः/ततःप्रीतोऽभवद्राजाश्रुत्वातद्द्विजभाषितम्/अमात्यांश्चाब्रवीद्राजाहर्षेणेदंशुभाक्षरम्/गुरूणांवचनाच्छीघ्रंसंभाराःसंभ्रियन्तुमे/समर्थाधिष्ठितश्चाश्वःसोपाध्यायोविमुच्यताम्/सरय्वाश्चोत्तरेतीरेयज्ञभूमिर्विधीयताम्/शान्तयश्चाभिवर्धन्तांयथाकल्पंयथाविधि/शक्यःकर्तुमयंयज्ञःसर्वेणापिमहीक्षिता/नापराधोभवेत्कष्टोयद्यस्मिन्क्रतुसत्तमे/छिद्रंहिमृगयन्तेऽत्रविद्वांसोब्रह्मराक्षसाः/विधिहीनस्ययज्ञस्यसद्यःकर्ताविनश्यति/तद्यथाविधिपूर्वंमेक्रतुरेषसमाप्यते/तथाविधानंक्रियतांसमर्थाःकरणेष्विह/तथेतिचततःसर्वेमन्त्रिणःप्रत्यपूजयन्/पार्थिवेन्द्रस्यतद्वाक्यंयथाज्ञप्तमकुर्वत/ततोद्विजास्तेधर्मज्ञमस्तुवन्पार्थिवर्षभम्/अनुज्ञातास्ततःसर्वेपुनर्जग्मुर्यथागतम्/गतानांतुद्विजातीनांमन्त्रिणस्तान्नराधिपः/विसर्जयित्वास्वंवेश्मप्रविवेशमहाद्युतिः/पुनःप्राप्तेवसन्तेतुपूर्णःसंवत्सरोऽभवत्/अभिवाद्यवसिष्ठंचन्यायतःप्रतिपूज्यच/अब्रवीत्प्रश्रितंवाक्यंप्रसवार्थंद्विजोत्तमम्/यज्ञोमेक्रियतांविप्रयथोक्तंमुनिपुंगव/यथानविघ्नःक्रियतेयज्ञाङ्गेषुविधीयताम्/भवान्स्निग्धःसुहृन्मह्यंगुरुश्चपरमोभवान्/वोढव्योभवताचैवभारोयज्ञस्यचोद्यतः/तथेतिचसराजानमब्रवीद्द्विजसत्तमः/करिष्येसर्वमेवैतद्भवतायत्समर्थितम्/ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसुनिष्ठितान्/स्थापत्येनिष्ठितांश्चैववृद्धान्परमधार्मिकान्/कर्मान्तिकाञ्शिल्पकारान्वर्धकीन्खनकानपि/गणकाञ्शिल्पिनश्चैवतथैवनटनर्तकान्/तथाशुचीञ्शास्त्रविदःपुरुषान्सुबहुश्रुतान्/यज्ञकर्मसमीहन्तांभवन्तोराजशासनात्/इष्टकाबहुसाहस्रीशीघ्रमानीयतामिति/औपकार्याःक्रियन्तांचराज्ञांबहुगुणान्विताः/ब्राह्मणावसथाश्चैवकर्तव्याःशतशःशुभाः/भक्ष्यान्नपानैर्बहुभिःसमुपेताःसुनिष्ठिताः/तथापौरजनस्यापिकर्तव्याबहुविस्तराः/आवासाबहुभक्ष्यावैसर्वकामैरुपस्थिताः/तथाजानपदस्यापिजनस्यबहुशोभनम्/दातव्यमन्नंविधिवत्सत्कृत्यनतुलीलया/सर्ववर्णायथापूजांप्राप्नुवन्तिसुसत्कृताः/नचावज्ञाप्रयोक्तव्याकामक्रोधवशादपि/यज्ञकर्मसुयेऽव्यग्राःपुरुषाःशिल्पिनस्तथा/तेषामपिविशेषेणपूजाकार्यायथाक्रमम्/यथासर्वंसुविहितंनकिंचित्परिहीयते/तथाभवन्तःकुर्वन्तुप्रीतिस्निग्धेनचेतसा/ततःसर्वेसमागम्यवसिष्ठमिदमब्रुवन्/यथोक्तंतत्करिष्यामोनकिंचित्परिहास्यते/ततःसुमन्त्रमाहूयवसिष्ठोवाक्यमब्रवीत्/निमन्त्रयस्यनृपतीन्पृथिव्यांयेचधार्मिकाः/ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवसहस्रशः/समानयस्वसत्कृत्यसर्वदेशेषुमानवान्/मिथिलाधिपतिंशूरंजनकंसत्यविक्रमम्/निष्ठितंसर्वशास्त्रेषुतथावेदेषुनिष्ठितम्/तमानयमहाभागंस्वयमेवसुसत्कृतम्/पूर्वसंबन्धिनंज्ञात्वाततःपूर्वंब्रवीमिते/तथाकाशिपतिंस्निग्धंसततंप्रियवादिनम्/सद्वृत्तंदेवसंकाशंस्वयमेवानयस्वह/तथाकेकयराजानंवृद्धंपरमधार्मिकम्/श्वशुरंराजसिंहस्यसपुत्रंतमिहानय/अङ्गेश्वरंमहाभागंरोमपादंसुसत्कृतम्/वयस्यंराजसिंहस्यतमानययशस्विनम्/प्राचीनान्सिन्धुसौवीरान्सौराष्ठ्रेयांश्चपार्थिवान्/दाक्षिणात्यान्नरेन्द्रांश्चसमस्तानानयस्वह/सन्तिस्निग्धाश्चयेचान्येराजानःपृथिवीतले/तानानययथाक्षिप्रंसानुगान्सहबान्धवान्/वसिष्ठवाक्यंतच्छ्रुत्वासुमन्त्रस्त्वरितस्तदा/व्यादिशत्पुरुषांस्तत्रराज्ञामानयनेशुभान्/स्वयमेवहिधर्मात्माप्रययौमुनिशासनात्/सुमन्त्रस्त्वरितोभूत्वासमानेतुंमहीक्षितः/तेचकर्मान्तिकाःसर्वेवसिष्ठायचधीमते/सर्वंनिवेदयन्तिस्मयज्ञेयदुपकल्पितम्/ततःप्रीतोद्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत्/अवज्ञयानदातव्यंकस्यचिल्लीलयापिवा/अवज्ञयाकृतंहन्याद्दातारंनात्रसंशयः/ततःकैश्चिदहोरात्रैरुपयातामहीक्षितः/बहूनिरत्नान्यादायराज्ञोदशरथस्यह/ततोवसिष्ठःसुप्रीतोराजानमिदमब्रवीत्/उपयातानरव्याघ्रराजानस्तवशासनात्/मयापिसत्कृताःसर्वेयथार्हंराजसत्तमाः/यज्ञियंचकृतंराजन्पुरुषैःसुसमाहितैः/निर्यातुचभवान्यष्टुंयज्ञायतनमन्तिकात्/सर्वकामैरुपहृतैरुपेतंवैसमन्ततः/तथावसिष्ठवचनादृष्यशृङ्गस्यचोभयोः/शुभेदिवसनक्षत्रेनिर्यातोजगतीपतिः/ततोवसिष्ठप्रमुखाःसर्वएवद्विजोत्तमाः/ऋष्यशृङ्गंपुरस्कृत्ययज्ञकर्मारभंस्तदा/अथसंवत्सरेपूर्णेतस्मिन्प्राप्तेतुरङ्गमे/सरय्वाश्चोत्तरेतीरेराज्ञोयज्ञोऽभ्यवर्तत/ऋष्यशृङ्गंपुरस्कृत्यकर्मचक्रुर्द्विजर्षभाः/अश्वमेधेमहायज्ञेराज्ञोऽस्यसुमहात्मनः/कर्मकुर्वन्तिविधिवद्याजकावेदपारगाः/यथाविधियथान्यायंपरिक्रामन्तिशास्त्रतः/प्रवर्ग्यंशास्त्रतःकृत्वातथैवोपसदंद्विजाः/चक्रुश्चविधिवत्सर्वमधिकंकर्मशास्त्रतः/अभिपूज्यततोहृष्टाःसर्वेचक्रुर्यथाविधि/प्रातःसवनपूर्वाणिकर्माणिमुनिपुंगवाः/नचाहुतमभूत्तत्रस्खलितंवापिकिंचन/दृश्यतेब्रह्मवत्सर्वंक्षेमयुक्तंहिचक्रिरे/नतेष्वहःसुश्रान्तोवाक्षुधितोवापिदृश्यते/नाविद्वान्ब्राह्मणस्तत्रनाशतानुचरस्तथा/ब्राह्मणाभुञ्जतेनित्यंनाथवन्तश्चभुञ्जते/तापसाभुजतेचापिश्रमणाभुञ्जतेतथा/वृद्धाश्चव्याधिताश्चैवस्त्रियोबालास्तथैवच/अनिशंभुञ्जमानानांनतृप्तिरुपलभ्यते/दीयतांदीयतामन्नंवासांसिविविधानिच/इतिसंचोदितास्तत्रतथाचक्रुरनेकशः/अन्नकूटाश्चबहवोदृश्यन्तेपर्वतोपमाः/दिवसेदिवसेतत्रसिद्धस्यविधिवत्तदा/अन्नंहिविधिवत्स्वादुप्रशंसन्तिद्विजर्षभाः/अहोतृप्ताःस्मभद्रंतेइतिशुश्रावराघवः/स्वलंकृताश्चपुरुषाब्राह्मणान्पर्यवेषयन्/उपासतेचतानन्येसुमृष्टमणिकुण्डलाः/कर्मान्तरेतदाविप्राहेतुवादान्बहूनपि/प्राहुःसुवाग्मिनोधीराःपरस्परजिगीषया/दिवसेदिवसेतत्रसंस्तरेकुशलाद्विजाः/सर्वकर्माणिचक्रुस्तेयथाशास्त्रंप्रचोदिताः/नाषडङ्गविदत्रासीन्नाव्रतोनाबहुश्रुतः/सदस्यस्तस्यवैराज्ञोनावादकुशलोद्विजः/प्राप्तेयूपोच्छ्रयेतस्मिन्षड्बैल्वाःखादिरास्तथा/तावन्तोबिल्वसहिताःपर्णिनश्चतथापरे/श्लेष्मातकमयोदिष्टोदेवदारुमयस्तथा/द्वावेवतत्रविहितौबाहुव्यस्तपरिग्रहौ/कारिताःसर्वएवैतेशास्त्रज्ञैर्यज्ञकोविदैः/शोभार्थंतस्ययज्ञस्यकाञ्चनालंकृताभवन्/विन्यस्ताविधिवत्सर्वेशिल्पिभिःसुकृतादृढाः/अष्टाश्रयःसर्वएवश्लक्ष्णरूपसमन्विताः/आच्छादितास्तेवासोभिःपुष्पैर्गन्धैश्चभूषिताः/सप्तर्षयोदीप्तिमन्तोविराजन्तेयथादिवि/इष्टकाश्चयथान्यायंकारिताश्चप्रमाणतः/चितोऽग्निर्ब्राह्मणैस्तत्रकुशलैःशुल्बकर्मणि/सचित्योराजसिंहस्यसंचितःकुशलैर्द्विजैः/गरुडोरुक्मपक्षोवैत्रिगुणोऽष्टादशात्मकः/नियुक्तास्तत्रपशवस्तत्तदुद्दिश्यदैवतम्/उरगाःपक्षिणश्चैवयथाशास्त्रंप्रचोदिताः/शामित्रेतुहयस्तत्रतथाजलचराश्चये/ऋत्विग्भिःसर्वमेवैतन्नियुक्तंशास्त्रतस्तदा/पशूनांत्रिशतंतत्रयूपेषुनियतंतदा/अश्वरत्नोत्तमंतस्यराज्ञोदशरथस्यह/कौसल्यातंहयंतत्रपरिचर्यसमन्ततः/कृपाणैर्विशशासैनंत्रिभिःपरमयामुदा/पतत्रिणातदासार्धंसुस्थितेनचचेतसा/अवसद्रजनीमेकांकौसल्याधर्मकाम्यया/होताध्वर्युस्तथोद्गाताहयेनसमयोजयन्/महिष्यापरिवृत्थ्याथवावातामपरांतथा/पतत्रिणस्तस्यवपामुद्धृत्यनियतेन्द्रियः/ऋत्विक्परमसंपन्नःश्रपयामासशास्त्रतः/धूमगन्धंवपायास्तुजिघ्रतिस्मनराधिपः/यथाकालंयथान्यायंनिर्णुदन्पापमात्मनः/हयस्ययानिचाङ्गानितानिसर्वाणिब्राह्मणाः/अग्नौप्रास्यन्तिविधिवत्समस्ताःषोडशर्त्विजः/प्लक्षशाखासुयज्ञानामन्येषांक्रियतेहविः/अश्वमेधस्यचैकस्यवैतसोभागइष्यते/त्र्यहोऽश्वमेधःसंख्यातःकल्पसूत्रेणब्राह्मणैः/चतुष्टोममहस्तस्यप्रथमंपरिकल्पितम्/उक्थ्यंद्वितीयंसंख्यातमतिरात्रंतथोत्तरम्/कारितास्तत्रबहवोविहिताःशास्त्रदर्शनात्/ज्योतिष्टोमायुषीचैवअतिरात्रौचनिर्मितौ/अभिजिद्विश्वजिच्चैवअप्तोर्यामोमहाक्रतुः/प्राचींहोत्रेददौराजादिशंस्वकुलवर्धनः/अध्वर्यवेप्रतीचींतुब्रह्मणेदक्षिणांदिशम्/उद्गात्रेतुतथोदीचींदक्षिणैषाविनिर्मिता/अश्वमेधेमहायज्ञेस्वयम्भुविहितेपुरा/क्रतुंसमाप्यतुतदान्यायतःपुरुषर्षभः/ऋत्विग्भ्योहिददौराजाधरांतांक्रतुवर्धनः/ऋत्विजस्त्वब्रुवन्सर्वेराजानंगतकल्मषम्/भवानेवमहींकृत्स्नामेकोरक्षितुमर्हति/नभूम्याकार्यमस्माकंनहिशक्ताःस्मपालने/रताःस्वाध्यायकरणेवयंनित्यंहिभूमिप/निष्क्रयंकिंचिदेवेहप्रयच्छतुभवानिति/गवांशतसहस्राणिदशतेभ्योददौनृपः/दशकोटिंसुवर्णस्यरजतस्यचतुर्गुणम्/ऋत्विजस्तुततःसर्वेप्रददुःसहितावसु/ऋष्यशृङ्गायमुनयेवसिष्ठायचधीमते/ततस्तेन्यायतःकृत्वाप्रविभागंद्विजोत्तमाः/सुप्रीतमनसःसर्वेप्रत्यूचुर्मुदिताभृशम्/ततःप्रीतमनाराजाप्राप्ययज्ञमनुत्तमम्/पापापहंस्वर्नयनंदुस्तरंपार्थिवर्षभैः/ततोऽब्रवीदृष्यशृङ्गंराजादशरथस्तदा/कुलस्यवर्धनंतत्तुकर्तुमर्हसिसुव्रत/तथेतिचसराजानमुवाचद्विजसत्तमः/भविष्यन्तिसुताराजंश्चत्वारस्तेकुलोद्वहाः/मेधावीतुततोध्यात्वासकिंचिदिदमुत्तमम्/लब्धसंज्ञस्ततस्तंतुवेदज्ञोनृपमब्रवीत्/इष्टिंतेऽहंकरिष्यामिपुत्रीयांपुत्रकारणात्/अथर्वशिरसिप्रोक्तैर्मन्त्रैःसिद्धांविधानतः/ततःप्राक्रमदिष्टिंतांपुत्रीयांपुत्रकारणात्/जुहावचाग्नौतेजस्वीमन्त्रदृष्टेनकर्मणा/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/भागप्रतिग्रहार्थंवैसमवेतायथाविधि/ताःसमेत्ययथान्यायंतस्मिन्सदसिदेवताः/अब्रुवंल्लोककर्तारंब्रह्माणंवचनंमहत्/भगवंस्त्वत्प्रसादेनरावणोनामराक्षसः/सर्वान्नोबाधतेवीर्याच्छासितुंतंनशक्नुमः/त्वयातस्मैवरोदत्तःप्रीतेनभगवन्पुरा/मानयन्तश्चतंनित्यंसर्वंतस्यक्षमामहे/उद्वेजयतिलोकांस्त्रीनुच्छ्रितान्द्वेष्टिदुर्मतिः/शक्रंत्रिदशराजानंप्रधर्षयितुमिच्छति/ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथा/अतिक्रामतिदुर्धर्षोवरदानेनमोहितः/नैनंसूर्यःप्रतपतिपार्श्वेवातिनमारुतः/चलोर्मिमालीतंदृष्ट्वासमुद्रोऽपिनकम्पते/तन्मनन्नोभयंतस्माद्राक्षसाद्घोरदर्शनात्/वधार्थंतस्यभगवन्नुपायंकर्तुमर्हसि/एवमुक्तःसुरैःसर्वैश्चिन्तयित्वाततोऽब्रवीत्/हन्तायंविहितस्तस्यवधोपायोदुरात्मनः/तेनगन्धर्वयक्षाणांदेवदानवरक्षसाम्/अवध्योऽस्मीतिवागुक्तातथेत्युक्तंचतन्मया/नाकीर्तयदवज्ञानात्तद्रक्षोमानुषांस्तदा/तस्मात्समानुषाद्वध्योमृतुर्नान्योऽस्यविद्यते/एतच्छ्रुत्वाप्रियंवाक्यंब्रह्मणासमुदाहृतम्/देवामहर्षयःसर्वेप्रहृष्टास्तेऽभवंस्तदा/एतस्मिन्नन्तरेविष्णुरुपयातोमहाद्युतिः/ब्रह्मणाचसमागम्यतत्रतस्थौसमाहितः/तमब्रुवन्सुराःसर्वेसमभिष्टूयसंनताः/त्वांनियोक्ष्यामहेविष्णोलोकानांहितकाम्यया/राज्ञोदशरथस्यत्वमयोध्याधिपतेर्विभो/धर्मज्ञस्यवदान्यस्यमहर्षिसमतेजसः/तस्यभार्यासुतिसृषुह्रीश्रीकीर्त्युपमासुच/विष्णोपुत्रत्वमागच्छकृत्वात्मानंचतुर्विधम्/तत्रत्वंमानुषोभूत्वाप्रवृद्धंलोककण्टकम्/अवध्यंदैवतैर्विष्णोसमरेजहिरावणम्/सहिदेवान्सगन्धर्वान्सिद्धांश्चऋषिसत्तमान्/राक्षसोरावणोमूर्खोवीर्योत्सेकेनबाधते/तदुद्धतंरावणमृद्धतेजसं॑प्रवृद्धदर्पंत्रिदशेश्वरद्विषम्/विरावणंसाधुतपस्विकण्टकं॑तपस्विनामुद्धरतंभयावहम्/ततोनारायणोविष्णुर्नियुक्तःसुरसत्तमैः/जानन्नपिसुरानेवंश्लक्ष्णंवचनमब्रवीत्/उपायःकोवधेतस्यराक्षसाधिपतेःसुराः/यमहंतंसमास्थायनिहन्यामृषिकण्टकम्/एवमुक्ताःसुराःसर्वेप्रत्यूचुर्विष्णुमव्ययम्/मानुषींतनुमास्थायरावणंजहिसंयुगे/सहितेपेतपस्तीव्रंदीर्घकालमरिंदम/येनतुष्टोऽभवद्ब्रह्मालोककृल्लोकपूजितः/संतुष्टःप्रददौतस्मैराक्षसायवरंप्रभुः/नानाविधेभ्योभूतेभ्योभयंनान्यत्रमानुषात्/अवज्ञाताःपुरातेनवरदानेनमानवाः/तस्मात्तस्यवधोदृष्टोमानुषेभ्यःपरंतप/इत्येतद्वचनंश्रुत्वासुराणांविष्णुरात्मवान्/पितरंरोचयामासतदादशरथंनृपम्/सचाप्यपुत्रोनृपतिस्तस्मिन्कालेमहाद्युतिः/अयजत्पुत्रियामिष्टिंपुत्रेप्सुररिसूदनः/ततोवैयजमानस्यपावकादतुलप्रभम्/प्रादुर्भूतंमहद्भूतंमहावीर्यंमहाबलम्/कृष्णंरक्ताम्बरधरंरक्तास्यंदुन्दुभिस्वनम्/स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्/शुभलक्षणसंपन्नंदिव्याभरणभूषितम्/शैलशृङ्गसमुत्सेधंदृप्तशार्दूलविक्रमम्/दिवाकरसमाकारंदीप्तानलशिखोपमम्/तप्तजाम्बूनदमयींराजतान्तपरिच्छदाम्/दिव्यपायससंपूर्णांपात्रींपत्नीमिवप्रियाम्/प्रगृह्यविपुलांदोर्भ्यांस्वयंमायामयीमिव/समवेक्ष्याब्रवीद्वाक्यमिदंदशरथंनृपम्/प्राजापत्यंनरंविद्धिमामिहाभ्यागतंनृप/ततःपरंतदाराजाप्रत्युवाचकृताञ्जलिः/भगवन्स्वागतंतेऽस्तुकिमहंकरवाणिते/अथोपुनरिदंवाक्यंप्राजापत्योनरोऽब्रवीत्/राजन्नर्चयतादेवानद्यप्राप्तमिदंत्वया/इदंतुनरशार्दूलपायसंदेवनिर्मितम्/प्रजाकरंगृहाणत्वंधन्यमारोग्यवर्धनम्/भार्याणामनुरूपाणामश्नीतेतिप्रयच्छवै/तासुत्वंलप्स्यसेपुत्रान्यदर्थंयजसेनृप/तथेतिनृपतिःप्रीतःशिरसाप्रतिगृह्यताम्/पात्रींदेवान्नसंपूर्णांदेवदत्तांहिरण्मयीम्/अभिवाद्यचतद्भूतमद्भुतंप्रियदर्शनम्/मुदापरमयायुक्तश्चकाराभिप्रदक्षिणम्/ततोदशरथःप्राप्यपायसंदेवनिर्मितम्/बभूवपरमप्रीतःप्राप्यवित्तमिवाधनः/ततस्तदद्भुतप्रख्यंभूतंपरमभास्वरम्/संवर्तयित्वातत्कर्मतत्रैवान्तरधीयत/हर्षरश्मिभिरुद्योतंतस्यान्तःपुरमाबभौ/शारदस्याभिरामस्यचन्द्रस्येवनभोऽंशुभिः/सोऽन्तःपुरंप्रविश्यैवकौसल्यामिदमब्रवीत्/पायसंप्रतिगृह्णीष्वपुत्रीयंत्विदमात्मनः/कौसल्यायैनरपतिःपायसार्धंददौतदा/अर्धादर्धंददौचापिसुमित्रायैनराधिपः/कैकेय्यैचावशिष्टार्धंददौपुत्रार्थकारणात्/प्रददौचावशिष्टार्धंपायसस्यामृतोपमम्/अनुचिन्त्यसुमित्रायैपुनरेवमहीपतिः/एवंतासांददौराजाभार्याणांपायसंपृथक्/तास्त्वेतत्पायसंप्राप्यनरेन्द्रस्योत्तमाःस्त्रियः/संमानंमेनिरेसर्वाःप्रहर्षोदितचेतसः/पुत्रत्वंतुगतेविष्णौराज्ञस्तस्यमहात्मनः/उवाचदेवताःसर्वाःस्वयम्भूर्भगवानिदम्/सत्यसंधस्यवीरस्यसर्वेषांनोहितैषिणः/विष्णोःसहायान्बलिनःसृजध्वंकामरूपिणः/मायाविदश्चशूरांश्चवायुवेगसमाञ्जवे/नयज्ञान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान्/असंहार्यानुपायज्ञान्दिव्यसंहननान्वितान्/सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव/अप्सरःसुचमुख्यासुगन्धर्वीणांतनूषुच/यक्षपन्नगकन्यासुऋष्कविद्याधरीषुच/किंनरीणांचगात्रेषुवानरीणांतनूषुच/सृजध्वंहरिरूपेणपुत्रांस्तुल्यपराक्रमान्/तेतथोक्ताभगवतातत्प्रतिश्रुत्यशासनम्/जनयामासुरेवंतेपुत्रान्वानररूपिणः/ऋषयश्चमहात्मानःसिद्धविद्याधरोरगाः/चारणाश्चसुतान्वीरान्ससृजुर्वनचारिणः/तेसृष्टाबहुसाहस्रादशग्रीववधोद्यताः/अप्रमेयबलावीराविक्रान्ताःकामरूपिणः/तेगजाचलसंकाशावपुष्मन्तोमहाबलाः/ऋक्षवानरगोपुच्छाःक्षिप्रमेवाभिजज्ञिरे/यस्यदेवस्ययद्रूपंवेषोयश्चपराक्रमः/अजायतसमस्तेनतस्यतस्यसुतःपृथक्/गोलाङ्गूलीषुचोत्पन्नाःकेचित्संमतविक्रमाः/ऋक्षीषुचतथाजातावानराःकिंनरीषुच/शिलाप्रहरणाःसर्वेसर्वेपादपयोधिनः/नखदंष्ट्रायुधाःसर्वेसर्वेसर्वास्त्रकोविदाः/विचालयेयुःशैलेन्द्रान्भेदयेयुःस्थिरान्द्रुमान्/क्षोभयेयुश्चवेगेनसमुद्रंसरितांपतिम्/दारयेयुःक्षितिंपद्भ्यामाप्लवेयुर्महार्णवम्/नभस्तलंविशेयुश्चगृह्णीयुरपितोयदान्/गृह्णीयुरपिमातङ्गान्मत्तान्प्रव्रजतोवने/नर्दमानांश्चनादेनपातयेयुर्विहंगमान्/ईदृशानांप्रसूतानिहरीणांकामरूपिमाम्/शतंशतसहस्राणियूथपानांमहात्मनाम्/बभूवुर्यूथपश्रेष्ठावीरांश्चाजनयन्हरीन्/अन्येऋक्षवतःप्रस्थानुपतस्थुःसहस्रशः/अन्येनानाविधाञ्शैलान्काननानिचभेजिरे/सूर्यपुत्रंचसुग्रीवंशक्रपुत्रंचवालिनम्/भ्रातरावुपतस्थुस्तेसर्वएवहरीश्वराः/तैर्मेघवृन्दाचलतुल्यकायैर्॑महाबलैर्वानरयूथपालैः/बभूवभूर्भीमशरीररूपैः॑समावृतारामसहायहेतोः/निर्वृत्तेतुक्रतौतस्मिन्हयमेधेमहात्मनः/प्रतिगृह्यसुराभागान्प्रतिजग्मुर्यथागतम्/समाप्तदीक्षानियमःपत्नीगणसमन्वितः/प्रविवेशपुरींराजासभृत्यबलवाहनः/यथार्हंपूजितास्तेनराज्ञावैपृथिवीश्वराः/मुदिताःप्रययुर्देशान्प्रणम्यमुनिपुंगवम्/गतेषुपृथिवीशेषुराजादशरथःपुनः/प्रविवेशपुरींश्रीमान्पुरस्कृत्यद्विजोत्तमान्/शान्तयाप्रययौसार्धमृष्यशृङ्गःसुपूजितः/अन्वीयमानोराज्ञाथसानुयात्रेणधीमता/कौसल्याजनयद्रामंदिव्यलक्षणसंयुतम्/विष्णोरर्धंमहाभागंपुत्रमिक्ष्वाकुनन्दनम्/कौसल्याशुशुभेतेनपुत्रेणामिततेजसा/यथावरेणदेवानामदितिर्वज्रपाणिना/भरतोनामकैकेय्यांजज्ञेसत्यपराक्रमः/साक्षाद्विष्णोश्चतुर्भागःसर्वैःसमुदितोगुणैः/अथलक्ष्मणशत्रुघ्नौसुमित्राजनयत्सुतौ/वीरौसर्वास्त्रकुशलौविष्णोरर्धसमन्वितौ/राज्ञःपुत्रामहात्मानश्चत्वारोजज्ञिरेपृथक्/गुणवन्तोऽनुरूपाश्चरुच्याप्रोष्ठपदोपमाः/अतीत्यैकादशाहंतुनामकर्मतथाकरोत्/ज्येष्ठंरामंमहात्मानंभरतंकैकयीसुतम्/सौमित्रिंलक्ष्मणमितिशत्रुघ्नमपरंतथा/वसिष्ठःपरमप्रीतोनामानिकृतवांस्तदा/तेषांजन्मक्रियादीनिसर्वकर्माण्यकारयत्/तेषांकेतुरिवज्येष्ठोरामोरतिकरःपितुः/बभूवभूयोभूतानांस्वयम्भूरिवसंमतः/सर्वेवेदविदःशूराःसर्वेलोकहितेरताः/सर्वेज्ञानोपसंपन्नाःसर्वेसमुदितागुणैः/तेषामपिमहातेजारामःसत्यपराक्रमः/बाल्यात्प्रभृतिसुस्निग्धोलक्ष्मणोलक्ष्मिवर्धनः/रामस्यलोकरामस्यभ्रातुर्ज्येष्ठस्यनित्यशः/सर्वप्रियकरस्तस्यरामस्यापिशरीरतः/लक्ष्मणोलक्ष्मिसंपन्नोबहिःप्राणइवापरः/नचतेनविनानिद्रांलभतेपुरुषोत्तमः/मृष्टमन्नमुपानीतमश्नातिनहितंविना/यदाहिहयमारूढोमृगयांयातिराघवः/तदैनंपृष्ठतोऽभ्येतिसधनुःपरिपालयन्/भरतस्यापिशत्रुघ्नोलक्ष्मणावरजोहिसः/प्राणैःप्रियतरोनित्यंतस्यचासीत्तथाप्रियः/सचतुर्भिर्महाभागैःपुत्रैर्दशरथःप्रियैः/बभूवपरमप्रीतोदेवैरिवपितामहः/तेयदाज्ञानसंपन्नाःसर्वेसमुदितागुणैः/ह्रीमन्तःकीर्तिमन्तश्चसर्वज्ञादीर्घदर्शिनः/अथराजादशरथस्तेषांदारक्रियांप्रति/चिन्तयामासधर्मात्मासोपाध्यायःसबान्धवः/तस्यचिन्तयमानस्यमन्त्रिमध्येमहात्मनः/अभ्यागच्छन्महातेजोविश्वामित्रोमहामुनिः/सराज्ञोदर्शनाकाङ्क्षीद्वाराध्यक्षानुवाचह/शीघ्रमाख्यातमांप्राप्तंकौशिकंगाधिनःसुतम्/तच्छ्रुत्वावचनंतस्यराजवेश्मप्रदुद्रुवुः/संभ्रान्तमनसःसर्वेतेनवाक्येनचोदिताः/तेगत्वाराजभवनंविश्वामित्रमृषिंतदा/प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवेतदा/तेषांतद्वचनंश्रुत्वासपुरोधाःसमाहितः/प्रत्युज्जगामसंहृष्टोब्रह्माणमिववासवः/सदृष्ट्वाज्वलितंदीप्त्यातापसंसंशितव्रतम्/प्रहृष्टवदनोराजाततोऽर्घ्यमुपहारयत्/सराज्ञःप्रतिगृह्यार्घ्यंशास्त्रदृष्ट्तेनकर्मणा/कुशलंचाव्ययंचैवपर्यपृच्छन्नराधिपम्/वसिष्ठंचसमागम्यकुशलंमुनिपुंगवः/ऋषींश्चतान्यथान्यायंमहाभागानुवाचह/तेसर्वेहृष्टमनसस्तस्यराज्ञोनिवेशनम्/विविशुःपूजितास्तत्रनिषेदुश्चयथार्थतः/अथहृष्टमनाराजाविश्वामित्रंमहामुनिम्/उवाचपरमोदारोहृष्टस्तमभिपूजयन्/यथामृतस्यसंप्राप्तिर्यथावर्षमनूदके/यथासदृशदारेषुपुत्रजन्माप्रजस्यच/प्रनष्टस्ययथालाभोयथाहर्षोमहोदये/तथैवागमनंमन्येस्वागतंतेमहामुने/कंचतेपरमंकामंकरोमिकिमुहर्षितः/पात्रभूतोऽसिमेविप्रदिष्ट्याप्राप्तोऽसिधार्मिक/अद्यमेसफलंजन्मजीवितंचसुजीवितम्/पूर्वंराजर्षिशब्देनतपसाद्योतितप्रभः/ब्रह्मर्षित्वमनुप्राप्तःपूज्योऽसिबहुधामया/तदद्भुतमिदंविप्रपवित्रंपरमंमम/शुभक्षेत्रगतश्चाहंतवसंदर्शनात्प्रभो/ब्रूहियत्प्रार्थितंतुभ्यंकार्यमागमनंप्रति/इच्छाम्यनुगृहीतोऽहंत्वदर्थपरिवृद्धये/कार्यस्यनविमर्शंचगन्तुमर्हसिकौशिक/कर्ताचाहमशेषेणदैवतंहिभवान्मम/इतिहृदयसुखंनिशम्यवाक्यं॑श्रुतिसुखमात्मवताविनीतमुक्तम्/प्रथितगुणयशागुणैर्विशिष्टः॑परमऋषिःपरमंजगामहर्षम्/तच्छ्रुत्वाराजसिंहस्यवाक्यमद्भुतविस्तरम्/हृष्टरोमामहातेजाविश्वामित्रोऽभ्यभाषत/सदृशंराजशार्दूलतवैतद्भुविनान्यतः/महावंशप्रसूतस्यवसिष्ठव्यपदेशिनः/यत्तुमेहृद्गतंवाक्यंतस्यकार्यस्यनिश्चयम्/कुरुष्वराजशार्दूलभवसत्यप्रतिश्रवः/अहंनियममातिष्ठसिद्ध्यर्थंपुरुषर्षभ/तस्यविघ्नकरौद्वौतुराक्षसौकामरूपिणौ/व्रतेमेबहुशश्चीर्णेसमाप्त्यांराक्षसाविमौ/मारीचश्चसुबाहुश्चवीर्यवन्तौसुशिक्षितौ/तौमांसरुधिरौघेणवेदिंतामभ्यवर्षताम्/अवधूतेतथाभूतेतस्मिन्नियमनिश्चये/कृतश्रमोनिरुत्साहस्तस्माद्देशादपाक्रमे/नचमेक्रोधमुत्स्रष्टुंबुद्धिर्भवतिपार्थिव/तथाभूताहिसाचर्यानशापस्तत्रमुच्यते/स्वपुत्रंराजशार्दूलरामंसत्यपराक्रमम्/काकपक्षधरंशूरंज्येष्ठंमेदातुमर्हसि/शक्तोह्येषमयागुप्तोदिव्येनस्वेनतेजसा/राक्षसायेविकर्तारस्तेषामपिविनाशने/श्रेयश्चास्मैप्रदास्यामिबहुरूपंनसंशयः/त्रयाणामपिलोकानांयेनख्यातिंगमिष्यति/नचतौराममासाद्यशक्तौस्थातुंकथंचन/नचतौराघवादन्योहन्तुमुत्सहतेपुमान्/वीर्योत्सिक्तौहितौपापौकालपाशवशंगतौ/रामस्यराजशार्दूलनपर्याप्तौमहात्मनः/नचपुत्रकृतंस्नेहंकर्तुमर्हसिपार्थिव/अहंतेप्रतिजानामिहतौतौविद्धिराक्षसौ/अहंवेद्मिमहात्मानंरामंसत्यपराक्रमम्/वसिष्ठोऽपिमहातेजायेचेमेतपसिस्थिताः/यदितेधर्मलाभंचयशश्चपरमंभुवि/स्थिरमिच्छसिराजेन्द्ररामंमेदातुमर्हसि/यद्यभ्यनुज्ञांकाकुत्स्थददतेतवमन्त्रिणः/वसिष्ठप्रमुखाःसर्वेततोरामंविसर्जय/अभिप्रेतमसंसक्तमात्मजंदातुमर्हसि/दशरात्रंहियज्ञस्यरामंराजीवलोचनम्/नात्येतिकालोयज्ञस्ययथायंममराघव/तथाकुरुष्वभद्रंतेमाचशोकेमनःकृथाः/इत्येवमुक्त्वाधर्मात्माधर्मार्थसहितंवचः/विरराममहातेजाविश्वामित्रोमहामुनिः/इतिहृदयमनोविदारणं॑मुनिवचनंतदतीवशुश्रुवान्/नरपतिरगमद्भयंमहद्॑व्यथितमनाःप्रचचालचासनात्/तच्छ्रुत्वाराजशार्दूलविश्वामित्रस्यभाषितम्/मुहूर्तमिवनिःसंज्ञःसंज्ञावानिदमब्रवीत्/ऊनषोडशवर्षोमेरामोराजीवलोचनः/नयुद्धयोग्यतामस्यपश्यामिसहराक्षसैः/इयमक्षौहिणीपूर्णायस्याहंपतिरीश्वरः/अनयासंवृतोगत्वायोधाहंतैर्निशाचरैः/इमेशूराश्चविक्रान्ताभृत्यामेऽस्त्रविशारदाः/योग्यारक्षोगणैर्योद्धुंनरामंनेतुमर्हसि/अहमेवधनुष्पाणिर्गोप्तासमरमूर्धनि/यावत्प्राणान्धरिष्यामितावद्योत्स्येनिशाचरैः/निर्विघ्नाव्रतवर्यासाभविष्यतिसुरक्षिता/अहंतत्रगमिष्यामिल्नरामनेतुमर्हसि/बालोह्यकृतविद्यश्चनचवेत्तिबलाबलम्/नचास्त्रबलसंयुक्तोनचयुद्धविशारदः/नचासौरक्षसांयोग्यःकूटयुद्धाहितेध्रुवम्/विप्रयुक्तोहिरामेणमुहूर्तमपिनोत्सहे/जीवितुंमुनिशार्दूलनरामंनेतुमर्हसि/यदिवाराघवंब्रह्मन्नेतुमिच्छसिसुव्रत/चतुरङ्गसमायुक्तंमयासहचतंनय/षष्टिर्वर्षसहस्राणिजातस्यममकौशिकः/दुःखेनोत्पादितश्चायंनरामंनेतुमर्हसि/चतुर्णामात्मजानांहिप्रीतिःपरमिकामम/ज्येष्ठंधर्मप्रधानंचनरामंनेतुमर्हसि/किंवीर्याराक्षसास्तेचकस्यपुत्राश्चकेचते/कथंप्रमाणाःकेचैतान्रक्षन्तिमुनिपुंगव/कथंचप्रतिकर्तव्यंतेषांरामेणरक्षसाम्/मामकैर्वाबलैर्ब्रह्मन्मयावाकूटयोधिनाम्/सर्वंमेशंसभगवन्कथंतेषांमयारणे/स्थातव्यंदुष्टभावानांवीर्योत्सिक्ताहिराक्षसाः/तस्यतद्वचनंश्रुत्वाविश्वामित्रोऽभ्यभाषत/पौलस्त्यवंशप्रभवोरावणोनामराक्षसः/सब्रह्मणादत्तवरस्त्रैलोक्यंबाधतेभृशम्/महाबलोमहावीर्योराक्षसैर्बहुभिर्वृतः/श्रूयतेहिमहावीर्योरावणोराक्षसाधिपः/साक्षाद्वैश्रवणभ्रातापुत्रोविश्वरसोमुनेः/यदास्वयंनयज्ञस्यविघ्नकर्तामहाबलः/तेनसंचोदितौतौतुराक्षसौसुमहाबलौ/मारीचश्चसुबाहुश्चयज्ञविघ्नंकरिष्यतः/इत्युक्तोमुनिनातेनराजोवाचमुनिंतदा/नहिशक्तोऽस्मिसंग्रामेस्थातुंतस्यदुरात्मनः/सत्वंप्रसादंधर्मज्ञकुरुष्वममपुत्रके/देवदानवगन्धर्वायक्षाःपतगपन्नगाः/नशक्तारावणंसोढुंकिंपुनर्मानवायुधि/सहिवीर्यवतांवीर्यमादत्तेयुधिराक्षसः/तेनचाहंनशक्तोऽस्मिसंयोद्धुंतस्यवाबलैः/सबलोवामुनिश्रेष्ठसहितोवाममात्मजैः/कथमप्यमरप्रख्यंसंग्रामाणामकोविदम्/बालंमेतनयंब्रह्मन्नैवदास्यामिपुत्रकम्/अथकालोपमौयुद्धेसुतौसुन्दोपसुन्दयोः/यज्ञविघ्नकरौतौतेनैवदास्यामिपुत्रकम्/मारीचश्चसुबाहुश्चवीर्यवन्तौसुशिक्षितौ/तयोरन्यतरेणाहंयोद्धास्यांससुहृद्गणः/तच्छ्रुत्वावचनंतस्यस्नेहपर्याकुलाक्षरम्/समन्युःकौशिकोवाक्यंप्रत्युवचमहीपतिम्/पूर्वमर्थंप्रतिश्रुत्यप्रतिज्ञांहातुमिच्छसि/रागवाणामयुक्तोऽयंकुलस्यास्यविपर्ययः/यदिदंतेक्षमंराजन्गमिष्यामियथागतम्/मिथ्याप्रतिज्ञःकाकुत्स्थसुखीभवसबान्धवः/तस्यरोषपरीतस्यविश्वामित्रस्यधीमतः/चचालवसुधाकृत्स्नाविवेशचभयंसुरान्/त्रस्तरूपंतुविज्ञायजगत्सर्वंमहानृषिः/नृपतिंसुव्रतोधीरोवसिष्ठोवाक्यमब्रवीत्/इक्ष्वाकूणांकुलेजातःसाक्षाद्धर्मइवापरः/धृतिमान्सुव्रतःश्रीमान्नधर्मंहातुमर्हसि/त्रिषुलोकेषुविख्यातोधर्मात्माइतिराघवः/स्वधर्मंप्रतिपद्यस्वनाधर्मंवोढुमर्हसि/संश्रुत्यैवंकरिष्यामीत्यकुर्वाणस्यराघव/इष्टापूर्तवधोभूयात्तस्माद्रामंविसर्जय/कृतास्त्रमकृतास्त्रंवानैनंशक्ष्यन्तिराक्षसाः/गुप्तंकुशिकपुत्रेणज्वलनेनामृतंयथा/एषविग्रहवान्धर्मएषवीर्यवतांवरः/एषबुद्ध्याधिकोलोकेतपसश्चपरायणम्/एषोऽस्त्रान्विविधान्वेत्तित्रैलोक्येसचराचरे/नैनमन्यःपुमान्वेत्तिनचवेत्स्यन्तिकेचन/नदेवानर्षयःकेचिन्नासुरानचराक्षसाः/गन्धर्वयक्षप्रवराःसकिंनरमहोरगाः/सर्वास्त्राणिकृशाश्वस्यपुत्राःपरमधार्मिकाः/कौशिकायपुरादत्तायदाराज्यंप्रशासति/तेऽपिपुत्राःकृशाश्वस्यप्रजापतिसुतासुताः/नकरूपामहावीर्यादीप्तिमन्तोजयावहाः/जयाचसुप्रभाचैवदक्षकन्येसुमध्यमे/तेसुवातेऽस्त्रशस्त्राणिशतंपरमभास्वरम्/पञ्चाशतंसुतांल्लेभेजयानामवरान्पुरा/वधायासुरसैन्यानाममेयान्कामरूपिणः/सुप्रभाजनयच्चापिपुत्रान्पञ्चाशतंपुनः/संहारान्नामदुर्धर्षान्दुराक्रामान्बलीयसः/तानिचास्त्राणिवेत्त्येषयथावत्कुशिकात्मजः/अपूर्वाणांचजननेशक्तोभूयश्चधर्मवित्/एवंवीर्योमहातेजाविश्वामित्रोमहातपाः/नरामगमनेराजन्संशयंगन्तुमर्हसि/122/तथावसिष्ठेब्रुवतिराजादशरथःसुतम्/प्रहृष्टवदनोराममाजुहावसलक्ष्मणम्/कृतस्वस्त्ययनंमात्रापित्रादशरथेनच/पुरोधसावसिष्ठेनमङ्गलैरभिमन्त्रितम्/सपुत्रंमूर्ध्न्युपाघ्रायराजादशरथःप्रियम्/ददौकुशिकपुत्रायसुप्रीतेनान्तरात्मना/ततोवायुःसुखस्पर्शोविरजस्कोववौतदा/विश्वामित्रगतंरामंदृष्ट्वाराजीवलोचनम्/पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनः/शङ्खदुन्दुभिनिर्घोषःप्रयातेतुमहात्मनि/विश्वामित्रोययावग्रेततोरामोमहायशाः/काकपक्षधरोधन्वीतंचसौमित्रिरन्वगात्/कलापिनौधनुष्पाणीशोभयानौदिशोदश/विश्वामित्रंमहात्मानंत्रिशीर्षाविवपन्नगौ/अनुजग्मतुरक्षुद्रौपितामहमिवाश्विनौ/बद्धगोधाङ्गुलित्राणौखड्गवन्तौमहाद्युती/स्थाणुंदेवमिवाचिन्त्यंकुमाराविवपावकी/अध्यर्धयोजनंगत्वासरय्वादक्षिणेतटे/रामेतिमधुरावाणींविश्वामित्रोऽभ्यभाषत/गृहाणवत्ससलिलंमाभूत्कालस्यपर्ययः/मन्त्रग्रामंगृहाणत्वंबलामतिबलांतथा/नश्रमोनज्वरोवातेनरूपस्यविपर्ययः/नचसुप्तंप्रमत्तंवाधर्षयिष्यन्तिनैरृताः/नबाह्वोःसदृशोवीर्येपृथिव्यामस्तिकश्चन/त्रिषुलोकेषुवारामनभवेत्सदृशस्तव/नसौभाग्येनदाक्षिण्येनज्ञानेबुद्धिनिश्चये/नोत्तरेप्रतिपत्तव्योसमोलोकेतवानघ/एतद्विद्याद्वयेलब्धेभवितानास्तितेसमः/बलाचातिबलाचैवसर्वज्ञानस्यमातरौ/क्षुत्पिपासेनतेरामभविष्येतेनरोत्तम/बलामतिबलांचैवपठतःपथिराघव/विद्याद्वयमधीयानेयशश्चाप्यतुलंभुवि/पितामहसुतेह्येतेविद्येतेजःसमन्विते/प्रदातुंतवकाकुत्स्थसदृशस्त्वंहिधार्मिक/कामंबहुगुणाःसर्वेत्वय्येतेनात्रसंशयः/तपसासंभृतेचैतेबहुरूपेभविष्यतः/ततोरामोजलंस्पृष्ट्वाप्रहृष्टवदनःशुचिः/प्रतिजग्राहतेविद्येमहर्षेर्भावितात्मनः/विद्यासमुदितोरामःशुशुभेभूरिविक्रमः/गुरुकार्याणिसर्वाणिनियुज्यकुशिकात्मजे/ऊषुस्तांरजनींतत्रसरय्वांसुसुखंत्रयः/प्रभातायांतुशर्वर्यांविश्वामित्रोमहामुनिः/अभ्यभाषतकाकुत्स्थंशयानंपर्णसंस्तरे/कौसल्यासुप्रजारामपूर्वासंध्याप्रवर्तते/उत्तिष्ठनरशार्दूलकर्तव्यंदैवमाह्निकम्/तस्यर्षेःपरमोदारंवचःश्रुत्वानृपात्मजौ/स्नात्वाकृतोदकौवीरौजेपतुःपरमंजपम्/कृताह्निकौमहावीर्यौविश्वामित्रंतपोधनम्/अभिवाद्याभिसंहृष्टौगमनायोपतस्थतुः/तौप्रयातेमहावीर्यौदिव्यंत्रिपथगांनदीम्/ददृशातेततस्तत्रसरय्वाःसंगमेशुभे/तत्राश्रमपदंपुण्यमृषीणामुग्रतेजसाम्/बहुवर्षसहस्राणितप्यतांपरमंतपः/तंदृष्ट्वापरमप्रीतौराघवौपुण्यमाश्रमम्/ऊचतुस्तंमहात्मानंविश्वामित्रमिदंवचः/कस्यायमाश्रमःपुण्यःकोन्वस्मिन्वसतेपुमान्/भगवञ्श्रोतुमिच्छावःपरंकौतूहलंहिनौ/तयोस्तद्वचनंश्रुत्वाप्रहस्यमुनिपुंगवः/अब्रवीच्छ्रूयतांरामयस्यायंपूर्वआश्रमः/कन्दर्पोमूर्तिमानासीत्कामइत्युच्यतेबुधैः/तपस्यन्तमिहस्थाणुंनियमेनसमाहितम्/कृतोद्वाहंतुदेवेशंगच्छन्तंसमरुद्गणम्/धर्षयामासदुर्मेधाहुंकृतश्चमहात्मना/दग्धस्यतस्यरौद्रेणचक्षुषारघुनन्दन/व्यशीर्यन्तशरीरात्स्वात्सर्वगात्राणिदुर्मतेः/तस्यगात्रंहतंतत्रनिर्दग्धस्यमहात्मना/अशरीरःकृतःकामःक्रोधाद्देवेश्वरेणह/अनङ्गइतिविख्यातस्तदाप्रभृतिराघव/सचाङ्गविषयःश्रीमान्यत्राङ्गंसमुमोचह/तस्यायमाश्रमःपुण्यस्तस्येमेमुनयःपुरा/शिष्याधर्मपरावीरतेषांपापंनविद्यते/इहाद्यरजनींरामवसेमशुभदर्शन/पुण्ययोःसरितोर्मध्येश्वस्तरिष्यामहेवयम्/तेषांसंवदतांतत्रतपोदीर्घेणचक्षुषा/विज्ञायपरमप्रीतामुनयोहर्षमागमन्/अर्घ्यंपाद्यंतथातिथ्यंनिवेद्यकुशिकात्मजे/रामलक्ष्मणयोःपश्चादकुर्वन्नतिथिक्रियाम्/सत्कारंसमनुप्राप्यकथाभिरभिरञ्जयन्/न्यवसन्सुसुखंतत्रकामाश्रमपदेतदा/ततःप्रभातेविमलेकृताह्निकमरिंदमौ/विश्वामित्रंपुरस्कृत्यनद्यास्तीरमुपागतौ/तेचसर्वेमहात्मानोमुनयःसंशितव्रताः/उपस्थाप्यशुभांनावंविश्वामित्रमथाब्रुवन्/आरोहतुभवान्नावंराजपुत्रपुरस्कृतः/अरिष्टंगच्छपन्थानंमाभूत्कालस्यपर्ययः/विश्वामित्रस्तथेत्युक्त्वातानृषीनभिपूज्यच/ततारसहितस्ताभ्यांसरितंसागरंगमाम्/अथरामःसरिन्मध्येपप्रच्छमुनिपुङ्गवम्/वारिणोभिद्यमानस्यकिमयंतुमुलोध्वनिः/राघवस्यवचःश्रुत्वाकौतूहलसमन्वितम्/कथयामासधर्मात्मातस्यशब्दस्यनिश्चयम्/कैलासपर्वतेराममनसानिर्मितंसरः/ब्रह्मणानरशार्दूलतेनेदंमानसंसरः/तस्मात्सुस्रावसरसःसायोध्यामुपगूहते/सरःप्रवृत्तासरयूःपुण्याब्रह्मसरश्च्युता/तस्यायमतुलःशब्दोजाह्नवीमभिवर्तते/वारिसंक्षोभजोरामप्रणामंनियतःकुरु/ताभ्यांतुतावुभौकृत्वाप्रणाममतिधार्मिकौ/तीरंदक्षिणमासाद्यजग्मतुर्लघुविक्रमौ/सवनंघोरसंकाशंदृष्ट्वानृपवरात्मजः/अविप्रहतमैक्ष्वाकःपप्रच्छमुनिपुंगवम्/अहोवनमिदंदुर्गंझिल्लिकागणनादितम्/भैरवैःश्वापदैःकीर्णंशकुन्तैर्दारुणारवैः/नानाप्रकारैःशकुनैर्वाश्यद्भिर्भैरवस्वनैः/सिंहव्याघ्रवराहैश्चवारणैश्चापिशोभितम्/धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः/संकीर्णंबदरीभिश्चकिंन्विदंदारुणंवनम्/तमुवाचमहातेजाविश्वामित्रोमहामुनिः/श्रूयतांवत्सकाकुत्स्थयस्यैतद्दारुणंवनम्/एतौजनपदौस्फीतौपूर्वमास्तांनरोत्तम/मलदाश्चकरूषाश्चदेवनिर्माणनिर्मितौ/पुरावृत्रवधेराममलेनसमभिप्लुतम्/क्षुधाचैवसहस्राक्षंब्रह्महत्यायदाविशत्/तमिन्द्रंस्नापयन्देवाऋषयश्चतपोधनाः/कलशैःस्नापयामासुर्मलंचास्यप्रमोचयन्/इहभूम्यांमलंदत्त्वादत्त्वाकारुषमेवच/शरीरजंमहेन्द्रस्यततोहर्षंप्रपेदिरे/निर्मलोनिष्करूषश्चशुचिरिन्द्रोयदाभवत्/ददौदेशस्यसुप्रीतोवरंप्रभुरनुत्तमम्/इमौजनपदौस्थीतौख्यातिंलोकेगमिष्यतः/मलदाश्चकरूषाश्चममाङ्गमलधारिणौ/साधुसाध्वितितंदेवाःपाकशासनमब्रुवन्/देशस्यपूजांतांदृष्ट्वाकृतांशक्रेणधीमता/एतौजनपदौस्थीतौदीर्घकालमरिंदम/मलदाश्चकरूषाश्चमुदितौधनधान्यतः/कस्यचित्त्वथकालस्ययक्षीवैकामरूपिणी/बलंनागसहस्रस्यधारयन्तीतदाह्यभूत्/ताटकानामभद्रंतेभार्यासुन्दस्यधीमतः/मारीचोराक्षसःपुत्रोयस्याःशक्रपराक्रमः/इमौजनपदौनित्यंविनाशयतिराघव/मलदांश्चकरूषांश्चताटकादुष्टचारिणी/सेयंपन्थानमावार्यवसत्यत्यर्धयोजने/अतएवचगन्तव्यंताटकायावनंयतः/स्वबाहुबलमाश्रित्यजहीमांदुष्टचारिणीम्/मन्नियोगादिमंदेशंकुरुनिष्कण्टकंपुनः/नहिकश्चिदिमंदेशंशक्रोत्यागन्तुमीदृशम्/यक्षिण्याघोरयारामउत्सादितमसह्यया/एतत्तेसर्वमाख्यातंयथैतद्दरुणंवनम्/यक्ष्याचोत्सादितंसर्वमद्यापिननिवर्तते/अथतस्याप्रमेयस्यमुनेर्वचनमुत्तमम्/श्रुत्वापुरुषशार्दूलःप्रत्युवाचशुभांगिरम्/अल्पवीर्यायदायक्षाःश्रूयन्तेमुनिपुंगव/कथंनागसहस्रस्यधारयत्यबलाबलम्/विश्वामित्रोऽब्रवीद्वाक्यंशृणुयेनबलोत्तरा/वरदानकृतंवीर्यंधारयत्यबलाबलम्/पूर्वमासीन्महायक्षःसुकेतुर्नामवीर्यवान्/अनपत्यःशुभाचारःसचतेपेमहत्तपः/पितामहस्तुसुप्रीतस्तस्ययक्षपतेस्तदा/कन्यारत्नंददौरामताटकांनामनामतः/ददौनागसहस्रस्यबलंचास्याःपितामहः/नत्वेवपुत्रंयक्षायददौब्रह्मामहायशाः/तांतुजातांविवर्धन्तींरूपयौवनशालिनीम्/जम्भपुत्रायसुन्दायददौभार्यांयशस्विनीम्/कस्यचित्त्वथकालल्स्ययक्षीपुत्रंव्यजायत/मारीचंनामदुर्धर्षंयःशापाद्राक्षसोऽभवत्/सुन्देतुनिहतेरामअगस्त्यमृषिसत्तमम्/ताटकासहपुत्रेणप्रधर्षयितुमिच्छति/राक्षसत्वंभजस्वेतिमारीचंव्याजहारसः/अगस्त्यःपरमक्रुद्धस्ताटकामपिशप्तवान्/पुरुषादीमहायक्षीविरूपाविकृतानना/इदंरूपमपहायदारुणंरूपमस्तुते/सैषाशापकृतामर्षाताटकाक्रोधमूर्छिता/देशमुत्सादयत्येनमगस्त्यचरितंशुभम्/एनांराघवदुर्वृत्तांयक्षींपरमदारुणाम्/गोब्राह्मणहितार्थायजहिदुष्टपराक्रमाम्/नह्येनांशापसंसृष्टांकश्चिदुत्सहतेपुमान्/निहन्तुंत्रिषुलोकेषुत्वामृतेरघुनन्दन/नहितेस्त्रीवधकृतेघृणाकार्यानरोत्तम/चातुर्वर्ण्यहितार्थायकर्तव्यंराजसूनुना/राज्यभारनियुक्तानामेषधर्मःसनातनः/अधर्म्यांजहिकाकुत्स्हधर्मोह्यस्यानविद्यते/श्रूयतेहिपुराशक्रोविरोचनसुतांनृप/पृथिवींहन्तुमिच्छन्तींमन्थरामभ्यसूदयत्/विष्णुनाचपुरारामभृगुपत्नीदृढव्रता/अनिन्द्रंलोकमिच्छन्तीकाव्यमातानिषूदिता/एतैश्चान्यैश्चबहुभीराजपुत्रमहात्मभिः/अधर्मनिरतानार्योहताःपुरुषसत्तमैः/मुनेर्वचनमक्लीबंश्रुत्वानरवरात्मजः/राघवःप्राञ्जलिर्भूत्वाप्रत्युवाचदृढव्रतः/पितुर्वचननिर्देशात्पितुर्वचनगौरवात्/वचनंकौशिकस्येतिकर्तव्यमविशङ्कया/अनुशिष्टोऽस्म्ययोध्यायांगुरुमध्येमहात्मना/पित्रादशरथेनाहंनावज्ञेयंचतद्वचः/सोऽहंपितुर्वचःश्रुत्वाशासनाद्ब्रह्मवादिनः/करिष्यामिनसंदेहस्ताटकावधमुत्तमम्/गोब्राह्मणहितार्थायदेशस्यास्यसुखायच/तवचैवाप्रमेयस्यवचनंकर्तुमुद्यतः/एवमुक्त्वाधनुर्मध्येबद्ध्वामुष्टिमरिंदमः/ज्याशब्दमकरोत्तीव्रंदिशःशब्देनपूरयन्/तेनशब्देनवित्रस्तास्ताटकावनवासिनः/ताटकाचसुसंक्रुद्धातेनशब्देनमोहिता/तंशब्दमभिनिध्यायराक्षसीक्रोधमूर्छिता/श्रुत्वाचाभ्यद्रवद्वेगाद्यतःशब्दोविनिःसृतः/तांदृष्ट्वाराघवःक्रुद्धांविकृतांविकृताननाम्/प्रमाणेनातिवृद्धांचलक्ष्मणंसोऽभ्यभाषत/पश्यलक्ष्मणयक्षिण्याभैरवंदारुणंवपुः/भिद्येरन्दर्शनादस्याभीरूणांहृदयानिच/एनांपश्यदुराधर्षांमायाबलसमन्विताम्/विनिवृत्तांकरोम्यद्यहृतकर्णाग्रनासिकाम्/नह्येनामुत्सहेहन्तुंस्त्रीस्वभावेनरक्षिताम्/वीर्यंचास्यागतिंचापिहनिष्यामीतिमेमतिः/एवंब्रुवाणेरामेतुताटकाक्रोधमूर्छिता/उद्यम्यबाहूगर्जन्तीराममेवाभ्यधावत/तामापतन्तींवेगेनविक्रान्तामशनीमिव/शरेणोरसिविव्याधसापपातममारच/तांहतांभीमसंकाशांदृष्ट्वासुरपतिस्तदा/साधुसाध्वितिकाकुत्स्थंसुराश्चसमपूजयन्/उवाचपरमप्रीतःसहस्राक्षःपुरंदरः/सुराश्चसर्वेसंहृष्टाविश्वामित्रमथाब्रुवन्/मुनेकौशिकेभद्रंतेसेन्द्राःसर्वेमरुद्गणाः/तोषिताःकर्मणानेनस्नेहंदर्शयराघवे/प्रजापतेर्भृशाश्वस्यपुत्रान्सत्यपराक्रमान्/तपोबलभृतान्ब्रह्मन्राघवायनिवेदय/पात्रभूतश्चतेब्रह्मंस्तवानुगमनेधृतः/कर्तव्यंचमहत्कर्मसुराणांराजसूनुना/एवमुक्त्वासुराःसर्वेहृष्टाजग्मुर्यथागतम्/विश्वामित्रंपूजयित्वाततःसंध्याप्रवर्तते/ततोमुनिवरःप्रीतिस्ताटकावधतोषितः/मूर्ध्निराममुपाघ्रायइदंवचनमब्रवीत्/इहाद्यरजनींरामवसेमशुभदर्शन/श्वःप्रभातेगमिष्यामस्तदाश्रमपदंमम/अथतांरजनीमुष्यविश्वामिरोमहायशाः/प्रहस्यराघवंवाक्यमुवाचमधुराक्षरम्/पतितुष्टोऽस्मिभद्रंतेराजपुत्रमहायशः/प्रीत्यापरमयायुक्तोददाम्यस्त्राणिसर्वशः/देवासुरगणान्वापिसगन्धर्वोरगानपि/यैरमित्रान्प्रसह्याजौवशीकृत्यजयिष्यसि/तानिदिव्यानिभद्रंतेददाम्यस्त्राणिसर्वशः/दण्डचक्रंमहद्दिव्यंतवदास्यामिराघव/धर्मचक्रंततोवीरकालचक्रंतथैवच/विष्णुचक्रंतथात्युग्रमैन्द्रंचक्रंतथैवच/वज्रमस्त्रंनरश्रेष्ठशैवंशूलवरंतथा/अस्त्रंब्रह्मशिरश्चैवऐषीकमपिराघव/ददामितेमहाबाहोब्राह्ममस्त्रमनुत्तमम्/गदेद्वेचैवकाकुत्स्थमोदकीशिखरीउभे/प्रदीप्तेनरशार्दूलप्रयच्छामिनृपात्मज/धर्मपाशमहंरामकालपाशंतथैवच/वारुणंपाशमस्त्रंचददान्यहमनुत्तमम्/अशनीद्वेप्रयच्छामिशुष्कार्द्रेरघुनन्दन/ददामिचास्त्रंपैनाकमस्त्रंनारायणंतथा/आग्नेयमस्त्रदयितंशिखरंनामनामतः/वायव्यंप्रथमंनामददामितवराघव/अस्त्रंहयशिरोनामक्रौञ्चमस्त्रंतथैवच/शक्तिद्वयंचकाकुत्स्थददामितवचानघ/कङ्कालंमुसलंघोरंकापालमथकङ्कणम्/धारयन्त्यसुरायानिददाम्येतानिसर्वशः/वैद्याधरंमहास्त्रंचनन्दनंनामनामतः/असिरत्नंमहाबाहोददामिनृवरात्मज/गान्धर्वमस्त्रंदयितंमानवंनामनामतः/प्रस्वापनप्रशमनेदद्मिसौरंचराघव/दर्पणंशोषणंचैवसंतापनविलापने/मदनंचैवदुर्धर्षंकन्दर्पदयितंतथा/पैशाचमस्त्रंदयितंमोहनंनामनामतः/प्रतीच्छनरशार्दूलराजपुत्रमहायशः/तामसंनरशार्दूलसौमनंचमहाबलम्/संवर्तंचैवदुर्धर्षंमौसलंचनृपात्मज/सत्यमस्त्रंमहाबाहोतथामायाधरंपरम्/घोरंतेजःप्रभंनामपरतेजोऽपकर्षणम्/सोमास्त्रंशिशिरंनामत्वाष्ट्रमस्त्रंसुदामनम्/दारुणंचभगस्यापिशीतेषुमथमानवम्/एतान्नाममहाबाहोकामरूपान्महाबलान्/गृहाणपरमोदारान्क्षिप्रमेवनृपात्मज/स्थितस्तुप्राङ्मुखोभूत्वाशुचिर्निवरतस्तदा/ददौरामायसुप्रीतोमन्त्रग्राममनुत्तमम्/जपतस्तुमुनेस्तस्यविश्वामित्रस्यधीमतः/उपतस्थुर्महार्हाणिसर्वाण्यस्त्राणिराघवम्/ऊचुश्चमुदितारामंसर्वेप्राञ्जलयस्तदा/इमेस्मपरमोदारकिंकरास्तवराघव/प्रतिगृह्यचकाकुत्स्थःसमालभ्यचपाणिना/मनसामेभविष्यध्वमितितान्यभ्यचोदयत्/ततःप्रीतमनारामोविश्वामित्रंमहामुनिम्/अभिवाद्यमहातेजागमनायोपचक्रमे/प्रतिगृह्यततोऽस्त्राणिप्रहृष्टवदनःशुचिः/गच्छन्नेवचकाकुत्स्थोविश्वामित्रमथाब्रवीत्/गृहीतास्त्रोऽस्मिभगवन्दुराधर्षःसुरैरपि/अस्त्राणांत्वहमिच्छामिसंहारंमुनिपुंगव/एवंब्रुवतिकाकुत्स्थेविश्वामित्रोमहामुनिः/संहारंव्याजहाराथधृतिमान्सुव्रतःशुचिः/सत्यवन्तंसत्यकीर्तिंधृष्टंरभसमेवच/प्रतिहारतरंनामपराङ्मुखमवाङ्मुखम्/लक्षाक्षविषमौचैवदृढनाभसुनाभकौ/दशाक्षशतवक्त्रौचदशशीर्षशतोदरौ/पद्मनाभमहानाभौदुन्दुनाभसुनाभकौ/ज्योतिषंकृशनंचैवनैराश्यविमलावुभौ/यौगन्धरहरिद्रौचदैत्यप्रमथनौतथा/पित्र्यंसौमनसंचैवविधूतमकरावुभौ/करवीरकरंचैवधनधान्यौचराघव/कामरूपंकामरुचिंमोहमावरणंतथा/जृम्भकंसर्वनाभंचसन्तानवरणौतथा/भृशाश्वतनयान्रामभास्वरान्कामरूपिणः/प्रतीच्छममभद्रंतेपात्रभूतोऽसिराघव/दिव्यभास्वरदेहाश्चमूर्तिमन्तःसुखप्रदाः/रामंप्राञ्जलयोभूत्वाब्रुवन्मधुरभाषिणः/इमेस्मनरशार्दूलशाधिकिंकरवामते/गम्यतामितितानाहयथेष्टंरघुनन्दनः/मानसाःकार्यकालेषुसाहाय्यंमेकरिष्यथ/अथतेराममामन्त्र्यकृत्वाचापिप्रदक्षिणम्/एवमस्त्वितिकाकुत्स्थमुक्त्वाजग्मुर्यथागतम्/सचतान्राघवोज्ञात्वाविश्वामित्रंमहामुनिम्/गच्छन्नेवाथमधुरंश्लक्ष्णंवचनमब्रवीत्/किंन्वेतन्मेघसंकाशंपर्वतस्याविदूरतः/वृक्षषण्डमितोभातिपरंकौतूहलंहिमे/दर्शनीयंमृगाकीर्णंमनोहरमतीवच/नानाप्रकारैःशकुनैर्वल्गुभाषैरलंकृतम्/निःसृताःस्ममुनिश्रेष्ठकान्ताराद्रोमहर्षणात्/अनयात्ववगच्छामिदेशस्यसुखवत्तया/सर्वंमेशंसभगवन्कस्याश्रमपदंत्विदम्/संप्राप्तायत्रतेपापाब्रह्मघ्नादुष्टचारिणः/अथतस्याप्रमेयस्यतद्वनंपरिपृच्छतः/विश्वामित्रोमहातेजाव्याख्यातुमुपचक्रमे/एषपूर्वाश्रमोरामवामनस्यमहात्मनः/सिद्धाश्रमइतिख्यातःसिद्धोह्यत्रमहातपाः/एतस्मिन्नेवकालेतुराजावैरोचनिर्बलिः/निर्जित्यदैवतगणान्सेन्द्रांश्चसमरुद्गणान्/कारयामासतद्राज्यंत्रिषुलोकेषुविश्रुतः/बलेस्तुयजमानस्यदेवाःसाग्निपुरोगमाः/समागम्यस्वयंचैवविष्णुमूचुरिहाश्रमे/बलिर्वैरोचनिर्विष्णोयजतेयज्ञमुत्तमम्/असमाप्तेक्रतौतस्मिन्स्वकार्यमभिपद्यताम्/येचैनमभिवर्तन्तेयाचितारइतस्ततः/यच्चयत्रयथावच्चसर्वंतेभ्यःप्रयच्छति/सत्वंसुरहितार्थायमायायोगमुपाश्रितः/वामनत्वंगतोविष्णोकुरुकल्याणमुत्तमम्/अयंसिद्धाश्रमोनामप्रसादात्तेभविष्यति/सिद्धेकर्मणिदेवेशउत्तिष्ठभगवन्नितः/अथविष्णुर्महातेजाअदित्यांसमजायत/वामनंरूपमास्थायवैरोचनिमुपागमत्/त्रीन्क्रमानथभिक्षित्वाप्रतिगृह्यचमानतः/आक्रम्यलोकांल्लोकात्मासर्वभूतहितेरतः/महेन्द्रायपुनःप्रादान्नियम्यबलिमोजसा/त्रैलोक्यंसमहातेजाश्चक्रेशक्रवशंपुनः/तेनैषपूर्वमाक्रान्तआश्रमःश्रमनाशनः/मयापिभक्त्यातस्यैषवामनस्योपभुज्यते/एतमाश्रममायान्तिराक्षसाविघ्नकारिणः/अत्रतेपुरुषव्याघ्रहन्तव्यादुष्टचारिणः/अद्यगच्छामहेरामसिद्धाश्रममनुत्तमम्/तदाश्रमपदंताततवाप्येतद्यथामम/तंदृष्ट्वामुनयःसर्वेसिद्धाश्रमनिवासिनः/उत्पत्योत्पत्यसहसाविश्वामित्रमपूजयन्/यथार्हंचक्रिरेपूजांविश्वामित्रायधीमते/तथैवराजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्/मुहूर्तमथविश्रान्तौराजपुत्रावरिंदमौ/प्राञ्जलीमुनिशार्दूलमूचतूरघुनन्दनौ/अद्यैवदीक्षांप्रविशभद्रंतेमुनिपुंगव/सिद्धाश्रमोऽयंसिद्धःस्यात्सत्यमस्तुवचस्तव/एवमुक्तोमहातेजाविश्वामित्रोमहामुनिः/प्रविवेशतदादीक्षांनियतोनियतेन्द्रियः/कुमारावपितांरात्रिमुषित्वासुसमाहितौ/प्रभातकालेचोत्थायविश्वामित्रमवन्दताम्/अथतौदेशकालज्ञौराजपुत्रावरिंदमौ/देशेकालेचवाक्यज्ञावब्रूतांकौशिकंवचः/भगवञ्श्रोतुमिच्छावोयस्मिन्कालेनिशाचरौ/संरक्षणीयौतौब्रह्मन्नातिवर्तेततत्क्षणम्/एवंब्रुवाणौकाकुत्स्थौत्वरमाणौयुयुत्सया/सर्वेतेमुनयःप्रीताःप्रशशंसुर्नृपात्मजौ/अद्यप्रभृतिषड्रात्रंरक्षतंराघवौयुवाम्/दीक्षांगतोह्येषमुनिर्मौनित्वंचगमिष्यति/तौतुतद्वचनंश्रुत्वाराजपुत्रौयशस्विनौ/अनिद्रौषडहोरात्रंतपोवनमरक्षताम्/उपासांचक्रतुर्वीरौयत्तौपरमधन्विनौ/ररक्षतुर्मुनिवरंविश्वामित्रमरिंदमौ/अथकालेगतेतस्मिन्षष्ठेऽहनिसमागते/सौमित्रमब्रवीद्रामोयत्तोभवसमाहितः/रामस्यैवंब्रुवाणस्यत्वरितस्ययुयुत्सया/प्रजज्वालततोवेदिःसोपाध्यायपुरोहिता/मन्त्रवच्चयथान्यायंयज्ञोऽसौसंप्रवर्तते/आकाशेचमहाञ्शब्दःप्रादुरासीद्भयानकः/आवार्यगगनंमेघोयथाप्रावृषिनिर्गतः/तथामायांविकुर्वाणौराक्षसावभ्यधावताम्/मारीचश्चसुबाहुश्चतयोरनुचरास्तथा/आगम्यभीमसंकाशारुधिरौघानवासृजन्/तावापतन्तौसहसादृष्ट्वाराजीवलोचनः/लक्ष्मणंत्वभिसंप्रेक्ष्यरामोवचनमब्रवीत्/पश्यलक्ष्मणदुर्वृत्तान्राक्षसान्पिशिताशनान्/मानवास्त्रसमाधूताननिलेनयथाघनान्/मानवंपरमोदारमस्त्रंपरमभास्वरम्/चिक्षेपपरमक्रुद्धोमारीचोरसिराघवः/सतेनपरमास्त्रेणमानवेनसमाहितः/संपूर्णंयोजनशतंक्षिप्तःसागरसंप्लवे/विचेतनंविघूर्णन्तंशीतेषुबलपीडितम्/निरस्तंदृश्यमारीचंरामोलक्ष्मणमब्रवीत्/पश्यलक्ष्मणशीतेषुंमानवंधर्मसंहितम्/मोहयित्वानयत्येनंनचप्राणैर्वियुज्यते/इमानपिवधिष्यामिनिर्घृणान्दुष्टचारिणः/राक्षसान्पापकर्मस्थान्यज्ञघ्नान्रुधिराशनान्/विगृह्यसुमहच्चास्त्रमाग्नेयंरघुनन्दनः/सुबाहुरसिचिक्षेपसविद्धःप्रापतद्भुवि/शेषान्वायव्यमादायनिजघानमहायशाः/राघवःपरमोदारोमुनीनांमुदमावहन्/सहत्वाराक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः/ऋषिभिःपूजितस्तत्रयथेन्द्रोविजयेपुरा/अथयज्ञेसमाप्तेतुविश्वामित्रोमहामुनिः/निरीतिकादिशोदृष्ट्वाकाकुत्स्थमिदमब्रवीत्/कृतार्थोऽस्मिमहाबाहोकृतंगुरुवचस्त्वया/सिद्धाश्रममिदंसत्यंकृतंराममहायशः/अथतांरजनींतत्रकृतार्थौरामलक्षणौ/ऊषतुर्मुदितौवीरौप्रहृष्टेनान्तरात्मना/प्रभातायांतुशर्वर्यांकृतपौर्वाह्णिकक्रियौ/विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः/अभिवाद्यमुनिश्रेष्ठंज्वलन्तमिवपावकम्/ऊचतुर्मधुरोदारंवाक्यंमधुरभाषिणौ/इमौस्वोमुनिशार्दूलकिंकरौसमुपस्थितौ/आज्ञापययथेष्टंवैशासनंकरवावकिम्/एवमुक्तेततस्ताभ्यांसर्वएवमहर्षयः/विश्वामित्रंपुरस्कृत्यरामंवचनमब्रुवन्/मैथिलस्यनरश्रेष्ठजनकस्यभविष्यति/यज्ञःपरमधर्मिष्ठस्तत्रयास्यामहेवयम्/त्वंचैवनरशार्दूलसहास्माभिर्गमिष्यसि/अद्भुतंचधनूरत्नंतत्रत्वंद्रष्टुमर्हसि/तद्धिपूर्वंनरश्रेष्ठदत्तंसदसिदैवतैः/अप्रमेयबलंघोरंमखेपरमभास्वरम्/नास्यदेवानगन्धर्वानासुरानचराक्षसाः/कर्तुमारोपणंशक्तानकथंचनमानुषाः/धनुषस्तस्यवीर्यंहिजिज्ञासन्तोमहीक्षितः/नशेकुरारोपयितुंराजपुत्रामहाबलाः/तद्धनुर्नरशार्दूलमैथिलस्यमहात्मनः/तत्रद्रक्ष्यसिकाकुत्स्थयज्ञंचाद्भुतदर्शनम्/तद्धियज्ञफलंतेनमैथिलेनोत्तमंधनुः/याचितंनरशार्दूलसुनाभंसर्वदैवतैः/एवमुक्त्वामुनिवरःप्रस्थानमकरोत्तदा/सर्षिसंघःसकाकुत्स्थआमन्त्र्यवनदेवताः/स्वस्तिवोऽस्तुगमिष्यामिसिद्धःसिद्धाश्रमादहम्/उत्तरेजाह्नवीतीरेहिमवन्तंशिलोच्चयम्/प्रदक्षिणंततःकृत्वासिद्धाश्रममनुत्तमम्/उत्तरांदिशमुद्दिश्यप्रस्थातुमुपचक्रमे/तंव्रजन्तंमुनिवरमन्वगादनुसारिणाम्/शकटीशतमात्रंतुप्रयाणेब्रह्मवादिनाम्/मृगपक्षिगणाश्चैवसिद्धाश्रमनिवासिनः/अनुजग्मुर्महात्मानंविश्वामित्रंमहामुनिम्/तेगत्वादूरमध्वानंलम्बमानेदिवाकरे/वासंचक्रुर्मुनिगणाःशोणाकूलेसमाहिताः/तेऽस्तंगतेदिनकरेस्नात्वाहुतहुताशनाः/विश्वामित्रंपुरस्कृत्यनिषेदुरमितौजसः/रामोऽपिसहसौमित्रिर्मुनींस्तानभिपूज्यच/अग्रतोनिषसादाथविश्वामित्रस्यधीमतः/अथरामोमहातेजाविश्वामित्रंमहामुनिम्/पप्रच्छमुनिशार्दूलंकौतूहलसमन्वितः/भगवन्कोन्वयंदेशःसमृद्धवनशोभितः/श्रोतुमिच्छामिभद्रंतेवक्तुमर्हसितत्त्वतः/चोदितोरामवाक्येनकथयामाससुव्रतः/तस्यदेशस्यनिखिलमृषिमध्येमहातपाः/132/ब्रह्मयोनिर्महानासीत्कुशोनाममहातपाः/वैदर्भ्यांजनयामासचतुरःसदृशान्सुतान्/कुशाम्बंकुशनाभंचआधूर्तरजसंवसुम्/दीप्तियुक्तान्महोत्साहान्क्षत्रधर्मचिकीर्षया/तानुवाचकुशःपुत्रान्धर्मिष्ठान्सत्यवादिनः/कुशस्यवचनंश्रुत्वाचत्वारोलोकसंमताः/निवेशंचक्रिरेसर्वेपुराणांनृवरास्तदा/कुशाम्बस्तुमहातेजाःकौशाम्बीमकरोत्पुरीम्/कुशनाभस्तुधर्मात्मापरंचक्रेमहोदयम्/आधूर्तरजसोरामधर्मारण्यंमहीपतिः/चक्रेपुरवरंराजावसुश्चक्रेगिरिव्रजम्/एषावसुमतीरामवसोस्तस्यमहात्मनः/एतेशैलवराःपञ्चप्रकाशन्तेसमन्ततः/सुमागधीनदीरम्यामागधान्विश्रुताययौ/पञ्चानांशैलमुख्यानांमध्येमालेवशोभते/सैषाहिमागधीरामवसोस्तस्यमहात्मनः/पूर्वाभिचरितारामसुक्षेत्रासस्यमालिनी/कुशनाभस्तुराजर्षिःकन्याशतमनुत्तमम्/जनयामासधर्मात्माघृताच्यांरघुनन्दन/तास्तुयौवनशालिन्योरूपवत्यःस्वलंकृताः/उद्यानभूमिमागम्यप्रावृषीवशतह्रदाः/गायन्त्योनृत्यमानाश्चवादयन्त्यश्चराघव/आमोदंपरमंजग्मुर्वराभरणभूषिताः/अथताश्चारुसर्वाङ्ग्योरूपेणाप्रतिमाभुवि/उद्यानभूमिमागम्यताराइवघनान्तरे/ताःसर्वगुणसंपन्नारूपयौवनसंयुताः/दृष्ट्वासर्वात्मकोवायुरिदंवचनमब्रवीत्/अहंवःकामयेसर्वाभार्याममभविष्यथ/मानुषस्त्यज्यतांभावोदीर्घमायुरवाप्स्यथ/तस्यतद्वचनंश्रुत्वावायोरक्लिष्टकर्मणः/अपहास्यततोवाक्यंकन्याशतमथाब्रवीत्/अन्तश्चरसिभूतानांसर्वेषांत्वंसुरोत्तम/प्रभावज्ञाश्चतेसर्वाःकिमस्मानवमन्यसे/कुशनाभसुताःसर्वाःसमर्थास्त्वांसुरोत्तम/स्थानाच्च्यावयितुंदेवंरक्षामस्तुतपोवयम्/माभूत्सकालोदुर्मेधःपितरंसत्यवादिनम्/नावमन्यस्वधर्मेणस्वयंवरमुपास्महे/पिताहिप्रभुरस्माकंदैवतंपरमंहिसः/यस्यनोदास्यतिपितासनोभर्ताभविष्यति/तासांतद्वचनंश्रुत्वावायुःपरमकोपनः/प्रविश्यसर्वगात्राणिबभञ्जभगवान्प्रभुः/ताःकन्यावायुनाभग्नाविविशुर्नृपतेर्गृहम्/दृष्ट्वाभग्नास्तदाराजासंभ्रान्तइदमब्रवीत्/किमिदंकथ्यतांपुत्र्यःकोधर्ममवमन्यते/कुब्जाःकेनकृताःसर्वावेष्टन्त्योनाभिभाषथ/तस्यतद्वचनंश्रुत्वाकुशनाभस्यधीमतः/शिरोभिश्चरणौस्पृष्ट्वाकन्याशतमभाषत/वायुःसर्वात्मकोराजन्प्रधर्षयितुमिच्छति/अशुभंमार्गमास्थायनधर्मंप्रत्यवेक्षते/पितृमत्यःस्मभद्रंतेस्वच्छन्देनवयंस्थिताः/पितरंनोवृणीष्वत्वंयदिनोदास्यतेतव/तेनपापानुबन्धेनवचनंनप्रतीच्छता/एवंब्रुवन्त्यःसर्वाःस्मवायुनानिहताभृषम्/तासांतद्वचनंश्रुत्वाराजापरमधार्मिकः/प्रत्युवाचमहातेजाःकन्याशतमनुत्तमम्/क्षान्तंक्षमावतांपुत्र्यःकर्तव्यंसुमहत्कृतम्/ऐकमत्यमुपागम्यकुलंचावेक्षितंमम/अलंकारोहिनारीणांक्षमातुपुरुषस्यवा/दुष्करंतच्चवःक्षान्तंत्रिदशेषुविशेषतः/यादृशीर्वःक्षमापुत्र्यःसर्वासामविशेषतः/क्षमादानंक्षमायज्ञःक्षमासत्यंचपुत्रिकाः/क्षमायशःक्षमाधर्मःक्षमायांविष्ठितंजगत्/विसृज्यकन्याःकाकुत्स्थराजात्रिदशविक्रमः/मन्त्रज्ञोमन्त्रयामासप्रदानंसहमन्त्रिभिः/देशेकालेप्रदानस्यसदृशेप्रतिपादनम्/एतस्मिन्नेवकालेतुचूलीनाममहामुनिः/ऊर्ध्वरेताःशुभाचारोब्राह्मंतपउपागमत्/तप्यन्तंतमृषिंतत्रगन्धर्वीपर्युपासते/सोमदानामभद्रंतेऊर्मिलातनयातदा/साचतंप्रणताभूत्वाशुश्रूषणपरायणा/उवासकालेधर्मिष्ठातस्यास्तुष्टोऽभवद्गुरुः/सचतांकालयोगेनप्रोवाचरघुनन्दन/परितुष्टोऽस्मिभद्रंतेकिंकरोमितवप्रियम्/परितुष्टंमुनिंज्ञात्वागन्धर्वीमधुरस्वरम्/उवाचपरमप्रीतावाक्यज्ञावाक्यकोविदम्/लक्ष्म्यासमुदितोब्राह्म्याब्रह्मभूतोमहातपाः/ब्राह्मेणतपसायुक्तंपुत्रमिच्छामिधार्मिकम्/अपतिश्चास्मिभद्रंतेभार्याचास्मिनकस्यचित्/ब्राह्मेणोपगतायाश्चदातुमर्हसिमेसुतम्/तस्याःप्रसन्नोब्रह्मर्षिर्ददौपुत्रमनुत्तमम्/ब्रह्मदत्तइतिख्यातंमानसंचूलिनःसुतम्/सराजाब्रह्मदत्तस्तुपुरीमध्यवसत्तदा/काम्पिल्यांपरयालक्ष्म्यादेवराजोयथादिवम्/सबुद्धिंकृतवान्राजाकुशनाभःसुधार्मिकः/ब्रह्मदत्तायकाकुत्स्थदातुंकन्याशतंतदा/तमाहूयमहातेजाब्रह्मदत्तंमहीपतिः/ददौकन्याशतंराजासुप्रीतेनान्तरात्मना/यथाक्रमंततःपाणिंजग्राहरघुनन्दन/ब्रह्मदत्तोमहीपालस्तासांदेवपतिर्यथा/स्पृष्टमात्रेततःपाणौविकुब्जाविगतज्वराः/युक्ताःपरमयालक्ष्म्याबभुःकन्याशतंतदा/सदृष्ट्वावायुनामुक्ताःकुशनाभोमहीपतिः/बभूवपरमप्रीतोहर्षंलेभेपुनःपुनः/कृतोद्वाहंतुराजानंब्रह्मदत्तंमहीपतिः/सदारंप्रेषयामाससोपाध्यायगणंतदा/सोमदापिसुसंहृष्टापुत्रस्यसदृशींक्रियाम्/यथान्यायंचगन्धर्वीस्नुषास्ताःप्रत्यनन्दत/कृतोद्वाहेगतेतस्मिन्ब्रह्मदत्तेचराघव/अपुत्रःपुत्रलाभायपौत्रीमिष्टिमकल्पयत्/इष्ट्यांतुवर्तमानायांकुशनाभंमहीपतिम्/उवाचपरमप्रीतःकुशोब्रह्मसुतस्तदा/पुत्रस्तेसदृशःपुत्रभविष्यतिसुधार्मिकः/गाधिंप्राप्स्यसितेनत्वंकीर्तिंलोकेचशाश्वतीम्/एवमुक्त्वाकुशोरामकुशनाभंमहीपतिम्/जगामाकाशमाविश्यब्रह्मलोकंसनातनम्/कस्यचित्त्वथकालस्यकुशनाभस्यधीमतः/जज्ञेपरमधर्मिष्ठोगाधिरित्येवनामतः/सपिताममकाकुत्स्थगाधिःपरमधार्मिकः/कुशवंशप्रसूतोऽस्मिकौशिकोरघुनन्दन/पूर्वजाभगिनीचापिममराघवसुव्रता/नाम्नासत्यवतीनामऋचीकेप्रतिपादिता/सशरीरागतास्वर्गंभर्तारमनुवर्तिनी/कौशिकीपरमोदारासाप्रवृत्तामहानदी/दिव्यापुण्योदकारम्याहिमवन्तमुपाश्रिता/लोकस्यहितकामार्थंप्रवृत्ताभगिनीमम/ततोऽहंहिमवत्पार्श्वेवसामिनियतःसुखम्/भगिन्याःस्नेहसंयुक्तःकौशिक्यारघुनन्दन/सातुसत्यवतीपुण्यासत्येधर्मेप्रतिष्ठिता/पतिव्रतामहाभागाकौशिकीसरितांवरा/अहंहिनियमाद्रामहित्वातांसमुपागतः/सिद्धाश्रममनुप्राप्यसिद्धोऽस्मितवतेजसा/एषारामममोत्पत्तिःस्वस्यवंशस्यकीर्तिता/देशस्यचमहाबाहोयन्मांत्वंपरिपृच्छसि/गतोऽर्धरात्रःकाकुत्स्थकथाःकथयतोमम/निद्रामभ्येहिभद्रंतेमाभूद्विघ्नोऽध्वनीहनः/निष्पन्दास्तरवःसर्वेनिलीनामृगपक्षिणः/नैशेनतमसाव्याप्तादिशश्चरघुनन्दन/शनैर्वियुज्यतेसंध्यानभोनेत्रैरिवावृतम्/नक्षत्रतारागहनंज्योतिर्भिरवभासते/उत्तिष्ठतिचशीतांशुःशशीलोकतमोनुदः/ह्लादयन्प्राणिनांलोकेमनांसिप्रभयाविभो/नैशानिसर्वभूतानिप्रचरन्तिततस्ततः/यक्षराक्षससंघाश्चरौद्राश्चपिशिताशनाः/एवमुक्त्वामहातेजाविरराममहामुनिः/साधुसाध्वितितंसर्वेमुनयोह्यभ्यपूजयन्/रामोऽपिसहसौमित्रिःकिंचिदागतविस्मयः/प्रशस्यमुनिशार्दूलंनिद्रांसमुपसेवते/उपास्यरात्रिशेषंतुशोणाकूलेमहर्षिभिः/निशायांसुप्रभातायांविश्वामित्रोऽभ्यभाषत/सुप्रभातानिशारामपूर्वासंध्याप्रवर्तते/उत्तिष्ठोत्तिष्ठभद्रंतेगमनायाभिरोचय/तच्छ्रुत्वावचनंतस्यकृत्वापौर्वाह्णिकींक्रियाम्/गमनंरोचयामासवाक्यंचेदमुवाचह/अयंशोणःशुभजलोगाधःपुलिनमण्डितः/कतरेणपथाब्रह्मन्संतरिष्यामहेवयम्/एवमुक्तस्तुरामेणविश्वामित्रोऽब्रवीदिदम्/एषपन्थामयोद्दिष्टोयेनयान्तिमहर्षयः/तेगत्वादूरमध्वानंगतेऽर्धदिवसेतदा/जाह्नवींसरितांश्रेष्ठांददृशुर्मुनिसेविताम्/तांदृष्ट्वापुण्यसलिलांहंससारससेविताम्/बभूवुर्मुदिताःसर्वेमुनयःसहराघवाः/तस्यास्तीरेततश्चक्रुस्तेआवासपरिग्रहम्/ततःस्नात्वायथान्यायंसंतर्प्यपितृदेवताः/हुत्वाचैवाग्निहोत्राणिप्राश्यचामृतवद्धविः/विविशुर्जाह्नवीतीरेशुचौमुदितमानसाः/विश्वामित्रंमहात्मानंपरिवार्यसमन्ततः/संप्रहृष्टमनारामोविश्वामित्रमथाब्रवीत्/भगवञ्श्रोतुमिच्छामिगङ्गांत्रिपथगांनदीम्/त्रैलोक्यंकथमाक्रम्यगतानदनदीपतिम्/चोदितोरामवाक्येनविश्वामित्रोमहामुनिः/वृद्धिंजन्मचगङ्गायावक्तुमेवोपचक्रमे/शैलेन्द्रोहिमवान्नामधातूनामाकरोमहान्/तस्यकन्याद्वयंरामरूपेणाप्रतिमंभुवि/यामेरुदुहितारामतयोर्मातासुमध्यमा/नाम्नामेनामनोज्ञावैपत्नीहिमवतःप्रिया/तस्यांगङ्गेयमभवज्ज्येष्ठाहिमवतःसुता/उमानामद्वितीयाभूत्कन्यातस्यैवराघव/अथज्येष्ठांसुराःसर्वेदेवतार्थचिकीर्षया/शैलेन्द्रंवरयामासुर्गङ्गांत्रिपथगांनदीम्/ददौधर्मेणहिमवांस्तनयांलोकपावनीम्/स्वच्छन्दपथगांगङ्गांत्रैलोक्यहितकाम्यया/प्रतिगृह्यत्रिलोकार्थंत्रिलोकहितकारिणः/गङ्गामादायतेऽगच्छन्कृतार्थेनान्तरात्मना/याचान्याशैलदुहिताकन्यासीद्रघुनन्दन/उग्रंसाव्रतमास्थायतपस्तेपेतपोधना/उग्रेणतपसायुक्तांददौशैलवरःसुताम्/रुद्रायाप्रतिरूपायउमांलोकनमस्कृताम्/एतेतेशैलराजस्यसुतेलोकनमस्कृते/गङ्गाचसरितांश्रेष्ठाउमादेवीचराघव/एतत्तेधर्ममाख्यातंयथात्रिपथगानदी/खंगताप्रथमंतातगतिंगतिमतांवर/उक्तवाक्येमुनौतस्मिन्नुभौराघवलक्ष्मणौ/प्रतिनन्द्यकथांवीरावूचतुर्मुनिपुंगवम्/धर्मयुक्तमिदंब्रह्मन्कथितंपरमंत्वया/दुहितुःशैलराजस्यज्येष्ठायवक्तुमर्हसि/विस्तरंविस्तरज्ञोऽसिदिव्यमानुषसंभवम्/त्रीन्पथोहेतुनाकेनपावयेल्लोकपावनी/कथंगङ्गांत्रिपथगाविश्रुतासरिदुत्तमा/त्रिषुलोकेषुधर्मज्ञकर्मभिःकैःसमन्विता/तथाब्रुवतिकाकुत्स्थेविश्वामित्रस्तपोधनः/निखिलेनकथांसर्वामृषिमध्येन्यवेदयत्/पुरारामकृतोद्वाहःशितिकण्ठोमहातपाः/दृष्ट्वाचस्पृहयादेवींमैथुनायोपचक्रमे/शितिकण्ठस्यदेवस्यदिव्यंवर्षशतंगतम्/नचापितनयोरामतस्यामासीत्परंतप/ततोदेवाःसमुद्विग्नाःपितामहपुरोगमाः/यदिहोत्पद्यतेभूतंकस्तत्प्रतिसहिष्यते/अभिगम्यसुराःसर्वेप्रणिपत्येदमब्रुवन्/देवदेवमहादेवलोकस्यास्यहितेरत/सुराणांप्रणिपातेनप्रसादंकर्तुमर्हसि/नलोकाधारयिष्यन्तितवतेजःसुरोत्तम/ब्राह्मेणतपसायुक्तोदेव्यासहतपश्चर/त्रैलोक्यहितकामार्थंतेजस्तेजसिधारय/रक्षसर्वानिमांल्लोकान्नालोकंकर्तुमर्हसि/देवतानांवचःश्रुत्वासर्वलोकमहेश्वरः/बाढमित्यब्रवीत्सर्वान्पुनश्चेदमुवाचह/धारयिष्याम्यहंतेजस्तेजस्येवसहोमया/त्रिदशाःपृथिवीचैवनिर्वाणमधिगच्छतु/यदिदंक्षुभितंस्थानान्ममतेजोह्यनुत्तमम्/धारयिष्यतिकस्तन्मेब्रुवन्तुसुरसत्तमाः/एवमुक्तास्ततोदेवाःप्रत्यूचुर्वृषभध्वजम्/यत्तेजःक्षुभितंह्येतत्तद्धराधारयिष्यति/एवमुक्तःसुरपतिःप्रमुमोचमहीतले/तेजसापृथिवीयेनव्याप्तासगिरिकानना/ततोदेवाःपुनरिदमूचुश्चाथहुताशनम्/प्रविशत्वंमहातेजोरौद्रंवायुसमन्वितः/तदग्निनापुनर्व्याप्तंसंजातःश्वेतपर्वतः/दिव्यंशरवणंचैवपावकादित्यसंनिभम्/यत्रजातोमहातेजाःकार्तिकेयोऽग्निसंभवः/अथोमांचशिवंचैवदेवाःसर्षिगणास्तदा/पूजयामासुरत्यर्थंसुप्रीतमनसस्ततः/अथशैलसुतारामत्रिदशानिदमब्रवीत्/समन्युरशपत्सर्वान्क्रोधसंरक्तलोचना/यस्मान्निवारिताचैवसंगतापुत्रकाम्यया/अपत्यंस्वेषुदारेषुनोत्पादयितुमर्हथ/अद्यप्रभृतियुष्माकमप्रजाःसन्तुपत्नयः/एवमुक्त्वासुरान्सर्वाञ्शशापपृथिवीमपि/अवनेनैकरूपात्वंबहुभार्याभविष्यसि/नचपुत्रकृतांप्रीतिंमत्क्रोधकलुषीकृता/प्राप्स्यसित्वंसुदुर्मेधेममपुत्रमनिच्छती/तान्सर्वान्व्रीडितान्दृष्ट्वासुरान्सुरपतिस्तदा/गमनायोपचक्रामदिशंवरुणपालिताम्/सगत्वातपआतिष्ठत्पार्श्वेतस्योत्तरेगिरेः/हिमवत्प्रभवेशृङ्गेसहदेव्यामहेश्वरः/एषतेविस्तरोरामशैलपुत्र्यानिवेदितः/गङ्गायाःप्रभवंचैवशृणुमेसहलक्ष्मणः/तप्यमानेतपोदेवेदेवाःसर्षिगणाःपुरा/सेनापतिमभीप्सन्तःपितामहमुपागमन्/ततोऽब्रुवन्सुराःसर्वेभगवन्तंपितामहम्/प्रणिपत्यशुभंवाक्यंसेन्द्राःसाग्निपुरोगमाः/योनःसेनापतिर्देवदत्तोभगवतापुरा/सतपःपरमास्थायतप्यतेस्मसहोमया/यदत्रानन्तरंकार्यंलोकानांहितकाम्यया/संविधत्स्वविधानज्ञत्वंहिनःपरमागतिः/देवतानांवचःश्रुत्वासर्वलोकपितामहः/सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्/शैलपुत्र्यायदुक्तंतन्नप्रजास्यथपत्निषु/तस्यावचनमक्लिष्टंसत्यमेवनसंशयः/इयमाकाशगागङ्गायस्यांपुत्रंहुताशनः/जनयिष्यतिदेवानांसेनापतिमरिंदमम्/ज्येष्ठाशैलेन्द्रदुहितामानयिष्यतितंसुतम्/उमायास्तद्बहुमतंभविष्यतिनसंशयः/तच्छ्रुत्वावचनंतस्यकृतार्थारघुनन्दन/प्रणिपत्यसुराःसर्वेपितामहमपूजयन्/तेगत्वापर्वतंरामकैलासंधातुमण्डितम्/अग्निंनियोजयामासुःपुत्रार्थंसर्वदेवताः/देवकार्यमिदंदेवसमाधत्स्वहुताशन/शैलपुत्र्यांमहातेजोगङ्गायांतेजउत्सृज/देवतानांप्रतिज्ञायगङ्गामभ्येत्यपावकः/गर्भंधारयवैदेविदेवतानामिदंप्रियम्/इत्येतद्वचनंश्रुत्वादिव्यंरूपमधारयत्/सतस्यामहिमांदृष्ट्वासमन्तादवकीर्यत/समन्ततस्तदादेवीमभ्यषिञ्चतपावकः/सर्वस्रोतांसिपूर्णानिगङ्गायारघुनन्दन/तमुवाचततोगङ्गासर्वदेवपुरोहितम्/अशक्ताधारणेदेवतवतेजःसमुद्धतम्/दह्यमानाग्निनातेनसंप्रव्यथितचेतना/अथाब्रवीदिदंगङ्गांसर्वदेवहुताशनः/इहहैमवतेपादेगर्भोऽयंसंनिवेश्यताम्/श्रुत्वात्वग्निवचोगङ्गातंगर्भमतिभास्वरम्/उत्ससर्जमहातेजाःस्रोतोभ्योहितदानघ/यदस्यानिर्गतंतस्मात्तप्तजाम्बूनदप्रभम्/काञ्चनंधरणींप्राप्तंहिरण्यममलंशुभम्/ताम्रंकार्ष्णायसंचैवतैक्ष्ण्यादेवाभिजायत/मलंतस्याभवत्तत्रत्रपुसीसकमेवच/तदेतद्धरणींप्राप्यनानाधातुरवर्धत/निक्षिप्तमात्रेगर्भेतुतेजोभिरभिरञ्जितम्/सर्वंपर्वतसंनद्धंसौवर्णमभवद्वनम्/जातरूपमितिख्यातंतदाप्रभृतिराघव/सुवर्णंपुरुषव्याघ्रहुताशनसमप्रभम्/तंकुमारंततोजातंसेन्द्राःसहमरुद्गणाः/क्षीरसंभावनार्थायकृत्तिकाःसमयोजयन्/ताःक्षीरंजातमात्रस्यकृत्वासमयमुत्तमम्/ददुःपुत्रोऽयमस्माकंसर्वासामितिनिश्चिताः/ततस्तुदेवताःसर्वाःकार्तिकेयइतिब्रुवन्/पुत्रस्त्रैलोक्यविख्यातोभविष्यतिनसंशयः/तेषांतद्वचनंश्रुत्वास्कन्नंगर्भपरिस्रवे/स्नापयन्परयालक्ष्म्यादीप्यमानमिवानलम्/स्कन्दइत्यब्रुवन्देवाःस्कन्नंगर्भपरिस्रवात्/कार्तिकेयंमहाभागंकाकुत्स्थज्वलनोपमम्/प्रादुर्भूतंततःक्षीरंकृत्तिकानामनुत्तमम्/षण्णांषडाननोभूत्वाजग्राहस्तनजंपयः/गृहीत्वाक्षीरमेकाह्नासुकुमारवपुस्तदा/अजयत्स्वेनवीर्येणदैत्यसैन्यगणान्विभुः/सुरसेनागणपतिंततस्तममलद्युतिम्/अभ्यषिञ्चन्सुरगणाःसमेत्याग्निपुरोगमाः/एषतेरामगङ्गायाविस्तरोऽभिहितोमया/कुमारसंभवश्चैवधन्यःपुण्यस्तथैवच/तांकथांकौशिकोरामेनिवेद्यमधुराक्षरम्/पुनरेवापरंवाक्यंकाकुत्स्थमिदमब्रवीत्/अयोध्याधिपतिःशूरःपूर्वमासीन्नराधिपः/सगरोनामधर्मात्माप्रजाकामःसचाप्रजः/वैदर्भदुहितारामकेशिनीनामनामतः/ज्येष्ठासगरपत्नीसाधर्मिष्ठासत्यवादिनी/अरिष्टनेमिदुहितारूपेणाप्रतिमाभुवि/द्वितीयासगरस्यासीत्पत्नीसुमतिसंज्ञिता/ताभ्यांसहतदाराजापत्नीभ्यांतप्तवांस्तपः/हिमवन्तंसमासाद्यभृगुप्रस्रवणेगिरौ/अथवर्षशतेपूर्णेतपसाराधितोमुनिः/सगरायवरंप्रादाद्भृगुःसत्यवतांवरः/अपत्यलाभःसुमहान्भविष्यतितवानघ/कीर्तिंचाप्रतिमांलोकेप्राप्स्यसेपुरुषर्षभ/एकाजनयितातातपुत्रंवंशकरंतव/षष्टिंपुत्रसहस्राणिअपराजनयिष्यति/भाषमाणंनरव्याघ्रंराजपत्न्यौप्रसाद्यतम्/ऊचतुःपरमप्रीतेकृताञ्जलिपुटेतदा/एकःकस्याःसुतोब्रह्मन्काबहूञ्जनयिष्यति/श्रोतुमिच्छावहेब्रह्मन्सत्यमस्तुवचस्तव/तयोस्तद्वचनंश्रुत्वाभृगुःपरमधार्मिकः/उवाचपरमांवाणींस्वच्छन्दोऽत्रविधीयताम्/एकोवंशकरोवास्तुबहवोवामहाबलाः/कीर्तिमन्तोमहोत्साहाःकावाकंवरमिच्छति/मुनेस्तुवचनंश्रुत्वाकेशिनीरघुनन्दन/पुत्रंवंशकरंरामजग्राहनृपसंनिधौ/षष्टिंपुत्रसहस्राणिसुपर्णभगिनीतदा/महोत्साहान्कीर्तिमतोजग्राहसुमतिःसुतान्/प्रदक्षिणमृषिंकृत्वाशिरसाभिप्रणम्यच/जगामस्वपुरंराजासभार्यारघुनन्दन/अथकालेगतेतस्मिञ्ज्येष्ठापुत्रंव्यजायत/असमञ्जइतिख्यातंकेशिनीसगरात्मजम्/सुमतिस्तुनरव्याघ्रगर्भतुम्बंव्यजायत/षष्टिःपुत्रसहस्राणितुम्बभेदाद्विनिःसृताः/घृतपूर्णेषुकुम्भेषुधात्र्यस्तान्समवर्धयन्/कालेनमहतासर्वेयौवनंप्रतिपेदिरे/अथदीर्घेणकालेनरूपयौवनशालिनः/षष्टिःपुत्रसहस्राणिसगरस्याभवंस्तदा/सचज्येष्ठोनरश्रेष्ठसगरस्यात्मसंभवः/बालान्गृहीत्वातुजलेसरय्वारघुनन्दन/प्रक्षिप्यप्रहसन्नित्यंमज्जतस्तान्निरीक्ष्यवै/पौराणामहितेयुक्तःपित्रानिर्वासितःपुरात्/तस्यपुत्रोऽंशुमान्नामअसमञ्जस्यवीर्यवान्/संमतःसर्वलोकस्यसर्वस्यापिप्रियंवदः/ततःकालेनमहतामतिःसमभिजायत/सगरस्यनरश्रेष्ठयजेयमितिनिश्चिता/सकृत्वानिश्चयंराजासोपाध्यायगणस्तदा/यज्ञकर्मणिवेदज्ञोयष्टुंसमुपचक्रमे/विश्वामित्रवचःश्रुत्वाकथान्तेरघुनन्दन/उवाचपरमप्रीतोमुनिंदीप्तमिवानलम्/श्रोतुमिछामिभद्रंतेविस्तरेणकथामिमाम्/पूर्वकोमेकथंब्रह्मन्यज्ञंवैसमुपाहरत्/विश्वामित्रस्तुकाकुत्स्थमुवाचप्रहसन्निव/श्रूयतांविस्तरोरामसगरस्यमहात्मनः/शंकरश्वशुरोनामहिमवानचलोत्तमः/विन्ध्यपर्वतमासाद्यनिरीक्षेतेपरस्परम्/तयोर्मध्येप्रवृत्तोऽभूद्यज्ञःसपुरुषोत्तम/सहिदेशोनरव्याघ्रप्रशस्तोयज्ञकर्मणि/तस्याश्वचर्यांकाकुत्स्थदृढधन्वामहारथः/अंशुमानकरोत्तातसगरस्यमतेस्थितः/तस्यपर्वणितंयज्ञंयजमानस्यवासवः/राक्षसींतनुमास्थाययज्ञियाश्वमपाहरत्/ह्रियमाणेतुकाकुत्स्थतस्मिन्नश्वेमहात्मनः/उपाध्यायगणाःसर्वेयजमानमथाब्रुवन्/अयंपर्वणिवेगेनयज्ञियाश्वोऽपनीयते/हर्तारंजहिकाकुत्स्थहयश्चैवोपनीयताम्/यज्ञच्छिद्रंभवत्येतत्सर्वेषामशिवायनः/तत्तथाक्रियतांराजन्यथाछिद्रःक्रतुर्भवेत्/उपाध्यायवचःश्रुत्वातस्मिन्सदसिपार्थिवः/षष्टिंपुत्रसहस्राणिवाक्यमेतदुवाचह/गतिंपुत्रानपश्यामिरक्षसांपुरुषर्षभाः/मन्त्रपूतैर्महाभागैरास्थितोहिमहाक्रतुः/तद्गच्छतविचिन्वध्वंपुत्रकाभद्रमस्तुवः/समुद्रमालिनींसर्वांपृथिवीमनुगच्छत/एकैकंयोजनंपुत्राविस्तारमभिगच्छत/यावत्तुरगसंदर्शस्तावत्खनतमेदिनीम्/तमेवहयहर्तारंमार्गमाणाममाज्ञया/दीक्षितःपौत्रसहितःसोपाध्यायगणोह्यहम्/इहस्थास्यामिभद्रंवोयावत्तुरगदर्शनम्/इत्युक्त्वाहृष्टमनसोराजपुत्रामहाबलाः/जग्मुर्महीतलंरामपितुर्वचनयन्त्रिताः/योजनायामविस्तारमेकैकोधरणीतलम्/बिभिदुःपुरुषव्याघ्रवज्रस्पर्शसमैर्भुजैः/शूलैरशनिकल्पैश्चहलैश्चापिसुदारुणैः/भिद्यमानावसुमतीननादरघुनन्दन/नागानांवध्यमानानामसुराणांचराघव/राक्षसानांचदुर्धर्षःसत्त्वानांनिनदोऽभवत्/योजनानांसहस्राणिषष्टिंतुरघुनन्दन/बिभिदुर्धरणींवीरारसातलमनुत्तमम्/एवंपर्वतसंबाधंजम्बूद्वीपंनृपात्मजाः/खनन्तोनृपशार्दूलसर्वतःपरिचक्रमुः/ततोदेवाःसगन्धर्वाःसासुराःसहपन्नगाः/संभ्रान्तमनसःसर्वेपितामहमुपागमन्/तेप्रसाद्यमहात्मानंविषण्णवदनास्तदा/ऊचुःपरमसंत्रस्ताःपितामहमिदंवचः/भगवन्पृथिवीसर्वाखन्यतेसगरात्मजैः/बहवश्चमहात्मानोवध्यन्तेजलचारिणः/अयंयज्ञहनोऽस्माकमनेनाश्वोऽपनीयते/इतितेसर्वभूतानिनिघ्नन्तिसगरात्मजः/देवतानांवचःश्रुत्वाभगवान्वैपितामहः/प्रत्युवाचसुसंत्रस्तान्कृतान्तबलमोहितान्/यस्येयंवसुधाकृत्स्नावासुदेवस्यधीमतः/कापिलंरूपमास्थायधारयत्यनिशंधराम्/पृथिव्याश्चापिनिर्भेदोदृष्टएवसनातनः/सगरस्यचपुत्राणांविनाशोऽदीर्घजीविनाम्/पितामहवचःश्रुत्वात्रयस्त्रिंशदरिंदमः/देवाःपरमसंहृष्टाःपुनर्जग्मुर्यथागतम्/सगरस्यचपुत्राणांप्रादुरासीन्महात्मनाम्/पृथिव्यांभिद्यमानायांनिर्घातसमनिःस्वनः/ततोभित्त्वामहींसर्वांकृत्वाचापिप्रदक्षिणम्/सहिताःसगराःसर्वेपितरंवाक्यमब्रुवन्/परिक्रान्तामहीसर्वासत्त्ववन्तश्चसूदिताः/देवदानवरक्षांसिपिशाचोरगकिंनराः/नचपश्यामहेऽश्वंतमश्वहर्तारमेवच/किंकरिष्यामभद्रंतेबुद्धिरत्रविचार्यताम्/तेषांतद्वचनंश्रुत्वापुत्राणांराजसत्तमः/समन्युरब्रवीद्वाक्यंसगरोरघुनन्दन/भूयःखनतभद्रंवोनिर्भिद्यवसुधातलम्/अश्वहर्तारमासाद्यकृतार्थाश्चनिवर्तथ/पितुर्वचनमास्थायसगरस्यमहात्मनः/षष्टिःपुत्रसहस्राणिरसातलमभिद्रवन्/खन्यमानेततस्तस्मिन्ददृशुःपर्वतोपमम्/दिशागजंविरूपाक्षंधारयन्तंमहीतलम्/सपर्वतवनांकृत्स्नांपृथिवींरघुनन्दन/शिरसाधारयामासविरूपाक्षोमहागजः/यदापर्वणिकाकुत्स्थविश्रमार्थंमहागजः/खेदाच्चालयतेशीर्षंभूमिकम्पस्तधाभवेत्/तंतेप्रदक्षिणंकृत्वादिशापालंमहागजम्/मानयन्तोहितेरामजग्मुर्भित्त्वारसातलम्/ततःपूर्वांदिशंभित्त्वादक्षिणांबिभिदुःपुनः/दक्षिणस्यामपिदिशिददृशुस्तेमहागजम्/महापद्मंमहात्मानंसुमहापर्वतोपमम्/शिरसाधारयन्तंतेविस्मयंजग्मुरुत्तमम्/ततःप्रदक्षिणंकृत्वासगरस्यमहात्मनः/षष्टिःपुत्रसहस्राणिपश्चिमांबिभिदुर्दिशम्/पश्चिमायामपिदिशिमहान्तमचलोपमम्/दिशागजंसौमनसंददृशुस्तेमहाबलाः/तंतेप्रदक्षिणंकृत्वापृष्ट्वाचापिनिरामयम्/खनन्तःसमुपक्रान्तादिशंसोमवतींतदा/उत्तरस्यांरघुश्रेष्ठददृशुर्हिमपाण्डुरम्/भद्रंभद्रेणवपुषाधारयन्तंमहीमिमाम्/समालभ्यततःसर्वेकृत्वाचैनंप्रदक्षिणम्/षष्टिःपुत्रसहस्राणिबिभिदुर्वसुधातलम्/ततःप्रागुत्तरांगत्वासागराःप्रथितांदिशम्/रोषादभ्यखनन्सर्वेपृथिवींसगरात्मजाः/ददृशुःकपिलंतत्रवासुदेवंसनातनम्/हयंचतस्यदेवस्यचरन्तमविदूरतः/तेतंयज्ञहनंज्ञात्वाक्रोधपर्याकुलेक्षणाः/अभ्यधावन्तसंक्रुद्धास्तिष्ठतिष्ठेतिचाब्रुवन्/अस्माकंत्वंहितुरगंयज्ञियंहृतवानसि/दुर्मेधस्त्वंहिसंप्राप्तान्विद्धिनःसगरात्मजान्/श्रुत्वातद्वचनंतेषांकपिलोरघुनन्दन/रोषेणमहताविष्टोहुंकारमकरोत्तदा/ततस्तेनाप्रमेयेनकपिलेनमहात्मना/भस्मराशीकृताःसर्वेकाकुत्स्थसगरात्मजाः/पुत्रांश्चिरगताञ्ज्ञात्वासगरोरघुनन्दन/नप्तारमब्रवीद्राजादीप्यमानंस्वतेजसा/शूरश्चकृतविद्यश्चपूर्वैस्तुल्योऽसितेजसा/पित्ःणांगतिमन्विच्छयेनचाश्वोऽपहारितः/अन्तर्भौमानिसत्त्वानिवीर्यवन्तिमहान्तिच/तेषांत्वंप्रतिघातार्थंसासिंगृह्णीष्वकार्मुकम्/अभिवाद्याभिवाद्यांस्त्वंहत्वाविघ्नकरानपि/सिद्धार्थःसंनिवर्तस्वममयज्ञस्यपारगः/एवमुक्तोऽंशुमान्सम्यक्सगरेणमहात्मना/धनुरादायखड्गंचजगामलघुविक्रमः/सखातंपितृभिर्मार्गमन्तर्भौमंमहात्मभिः/प्रापद्यतनरश्रेष्ठतेनराज्ञाभिचोदितः/दैत्यदानवरक्षोभिःपिशाचपतगोरगैः/पूज्यमानंमहातेजादिशागजमपश्यत/सतंप्रदक्षिणंकृत्वापृष्ट्वाचैवनिरामयम्/पित्ःन्सपरिपप्रच्छवाजिहर्तारमेवच/दिशागजस्तुतच्छ्रुत्वाप्रीत्याहांशुमतोवचः/आसमञ्जकृतार्थस्त्वंसहाश्वःशीघ्रमेष्यसि/तस्यतद्वचनंश्रुत्वासर्वानेवदिशागजान्/यथाक्रमंयथान्यायंप्रष्टुंसमुपचक्रमे/तैश्चसर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः/पूजितःसहयश्चैवगन्तासीत्यभिचोदितः/तेषांतद्वचनंश्रुत्वाजगामलघुविक्रमः/भस्मराशीकृतायत्रपितरस्तस्यसागराः/सदुःखवशमापन्नस्त्वसमञ्जसुतस्तदा/चुक्रोशपरमार्तस्तुवधात्तेषांसुदुःखितः/यज्ञियंचहयंतत्रचरन्तमविदूरतः/ददर्शपुरुषव्याघ्रोदुःखशोकसमन्वितः/ददर्शपुरुषव्याघ्रोकर्तुकामोजलक्रियाम्/सलिलार्थीमहातेजानचापश्यज्जलाशयम्/विसार्यनिपुणांदृष्टिंततोऽपश्यत्खगाधिपम्/पित्ःणांमातुलंरामसुपर्णमनिलोपमम्/सचैनमब्रवीद्वाक्यंवैनतेयोमहाबलः/माशुचःपुरुषव्याघ्रवधोऽयंलोकसंमतः/कपिलेनाप्रमेयेनदग्धाहीमेमहाबलाः/सलिलंनार्हसिप्राज्ञदातुमेषांहिलौकिकम्/गङ्गाहिमवतोज्येष्ठादुहितापुरुषर्षभ/भस्मराशीकृतानेतान्पावयेल्लोकपावनी/तयाक्लिन्नमिदंभस्मगङ्गयालोककान्तया/षष्टिंपुत्रसहस्राणिस्वर्गलोकंनयिष्यति/गच्छचाश्वंमहाभागसंगृह्यपुरुषर्षभ/यज्ञंपैतामहंवीरनिर्वर्तयितुमर्हसि/सुपर्णवचनंश्रुत्वासोऽंशुमानतिवीर्यवान्/त्वरितंहयमादायपुनरायान्महायशाः/ततोराजानमासाद्यदीक्षितंरघुनन्दन/न्यवेदयद्यथावृत्तंसुपर्णवचनंतथा/तच्छ्रुत्वाघोरसंकाशंवाक्यमंशुमतोनृपः/यज्ञंनिर्वर्तयामासयथाकल्पंयथाविधि/स्वपुरंचागमच्छ्रीमानिष्टयज्ञोमहीपतिः/गङ्गायाश्चागमेराजानिश्चयंनाध्यगच्छत/अगत्वानिश्चयंराजाकालेनमहतामहान्/त्रिंशद्वर्षसहस्राणिराज्यंकृत्वादिवंगतः/142/कालधर्मंगतेरामसगरेप्रकृतीजनाः/राजानंरोचयामासुरंशुमन्तंसुधार्मिकम्/सराजासुमहानासीदंशुमान्रघुनन्दन/तस्यपुत्रोमहानासीद्दिलीपइतिविश्रुतः/तस्मिन्राज्यंसमावेश्यदिलीपेरघुनन्दन/हिमवच्छिखरेरम्येतपस्तेपेसुदारुणम्/द्वाद्त्रिंशच्चसहस्राणिवर्षाणिसुमहायशाः/तपोवनगतोराजास्वर्गंलेभेतपोधनः/दिलीपस्तुमहातेजाःश्रुत्वापैतामहंवधम्/दुःखोपहतयाबुद्ध्यानिश्चयंनाध्यगच्छत/कथंगङ्गावतरणंकथंतेषांजलक्रिया/तारयेयंकथंचैतानितिचिन्तापरोऽभवत्/तस्यचिन्तयतोनित्यंधर्मेणविदितात्मनः/पुत्रोभगीरथोनामजज्ञेपरमधार्मिकः/दिलीपस्तुमहातेजायज्ञैर्बहुभिरिष्टवान्/त्रिंशद्वर्षसहस्राणिराजाराज्यमकारयत्/अगत्वानिश्चयंराजातेषामुद्धरणंप्रति/व्याधिनानरशार्दूलकालधर्ममुपेयिवान्/इन्द्रलोकंगतोराजास्वार्जितेनैवकर्मणा/रम्येभगीरथंपुत्रमभिषिच्यनरर्षभः/भगीरथस्तुराजर्षिर्धार्मिकोरघुनन्दन/अनपत्योमहातेजाःप्रजाकामःसचाप्रजः/सतपोदीर्घमातिष्ठद्गोकर्णेरघुनन्दन/ऊर्ध्वबाहुःपञ्चतपामासाहारोजितेन्द्रियः/तस्यवर्षसहस्राणिघोरेतपसितिष्ठतः/सुप्रीतोभगवान्ब्रह्माप्रजानांपतिरीश्वरः/ततःसुरगणैःसार्धमुपागम्यपितामहः/भगीरथंमहात्मानंतप्यमानमथाब्रवीत्/भगीरथमहाभागप्रीतस्तेऽहंजनेश्वर/तपसाचसुतप्तेनवरंवरयसुव्रत/तमुवाचमहातेजाःसर्वलोकपितामहम्/भगीरथोमहाभागःकृताञ्जलिरवस्थितः/यृअदिमेभगवान्प्रीतोयद्यस्तितपसःफलम्/सगरस्यात्मजाःसर्वेमत्तःसलिलमाप्नुयुः/गङ्गायाःसलिलक्लिन्नेभस्मन्येषांमहात्मनाम्/स्वर्गंगच्छेयुरत्यन्तंसर्वेमेप्रपितामहाः/देयाचसंततोर्देवनावसीदेत्कुलंचनः/इक्ष्वाकूणांकुलेदेवएषमेऽस्तुवरःपरः/उक्तवाक्यंतुराजानंसर्वलोकपितामहः/प्रत्युवाचशुभांवाणींमधुरांमधुराक्षराम्/मनोरथोमहानेषभगीरथमहारथ/एवंभवतुभद्रंतेइक्ष्वाकुकुलवर्धन/इयंहैमवतीगङ्गाज्येष्ठाहिमवतःसुता/तांवैधारयितुंराजन्हरस्तत्रनियुज्यताम्/गङ्गायाःपतनंराजन्पृथिवीनसहिष्यते/तौवैधारयितुंवीरनान्यंपश्यामिशूलिनः/तमेवमुक्त्वाराजानंगङ्गांचाभाष्यलोककृत्/जगामत्रिदिवंदेवःसहसर्वैर्मरुद्गणैः/देवदेवेगतेतस्मिन्सोऽङ्गुष्ठाग्रनिपीडिताम्/कृत्वावसुमतींरामसंवत्सरमुपासत/अथसंवत्सरेपूर्णेसर्वलोकनमस्कृतः/उमापतिःपशुपतीराजानमिदमब्रवीत्/प्रीतस्तेऽहंनरश्रेष्ठकरिष्यामितवप्रियम्/शिरसाधारयिष्यामिशैलराजसुतामहम्/ततोहैमवतीज्येष्ठासर्वलोकनमस्कृता/तदासातिमहद्रूपंकृत्वावेगंचदुःसहम्/आकाशादपतद्रामशिवेशिवशिरस्युत/नैवसानिर्गमंलेखेजटामण्डलमोहिता/तत्रैवाबभ्रमद्देवीसंवत्सरगणान्बहून्/अनेनतोषितश्चासीदत्यर्थंरघुनन्दन/विससर्जततोगङ्गांहरोबिन्दुसरःप्रति/गगनाच्छंकरशिरस्ततोधरणिमागता/व्यसर्पतजलंतत्रतीव्रशब्दपुरस्कृतम्/ततोदेवर्षिगन्धर्वायक्षाःसिद्धगणास्तथा/व्यलोकयन्ततेतत्रगगनाद्गांगतांतदा/विमानैर्नगराकारैर्हयैर्गजवरैस्तथा/पारिप्लवगताश्चापिदेवतास्तत्रविष्ठिताः/तदद्भुततमंलोकेगङ्गापतनमुत्तमम्/दिदृक्षवोदेवगणाःसमेयुरमितौजसः/संपतद्भिःसुरगणैस्तेषांचाभरणौजसा/शतादित्यमिवाभातिगगनंगततोयदम्/शिंशुमारोरगगणैर्मीनैरपिचचञ्चलैः/विद्युद्भिरिवविक्षिप्तैराकाशमभवत्तदा/पाण्डुरैःसलिलोत्पीडैःकीर्यमाणैःसहस्रधा/शारदाभ्रैरिवाक्रीत्णंगगनंहंससंप्लवैः/क्वचिद्द्रुततरंयातिकुटिलंक्वचिदायतम्/विनतंक्वचिदुद्धूतंक्वचिद्यातिशनैःशनैः/सलिलेनैवसलिलंक्वचिदभ्याहतंपुनः/मुहुरूर्ध्वपथंगत्वापपातवसुधांपुनः/तच्छंकरशिरोभ्रष्टंभ्रष्टंभूमितलेपुनः/व्यरोचततदातोयंनिर्मलंगतकल्मषम्/तत्रर्षिगणगन्धर्वावसुधातलवासिनः/भवाङ्गपतितंतोयंपवित्रमितिपस्पृशुः/शापात्प्रपतितायेचगगनाद्वसुधातलम्/कृत्वातत्राभिषेकंतेबभूवुर्गतकल्मषाः/धूपपापाःपुनस्तेनतोयेनाथसुभास्वता/पुनराकाशमाविश्यस्वांल्लोकान्प्रतिपेदिरे/मुमुदेमुदितोलोकस्तेनतोयेनभास्वता/कृताभिषेकोगङ्गायांबभूवविगतक्लमः/भगीरथोऽपिराजर्षिर्दिव्यंस्यन्दनमास्थितः/प्रायादग्रेमहातेजास्तंगङ्गापृष्ठतोऽन्वगात्/देवाःसर्षिगणाःसर्वेदैत्यदानवराक्षसाः/गन्धर्वयक्षप्रवराःसकिंनरमहोरगाः/सर्वाश्चाप्सरसोरामभगीरथरथानुगाः/गङ्गामन्वगमन्प्रीताःसर्वेजलचराश्चये/यतोभगीरथोराजाततोगङ्गायशस्विनी/जगामसरितांश्रेष्ठासर्वपापविनाशिनी/सगत्वासागरंराजागङ्गयानुगतस्तदा/प्रविवेशतलंभूमेर्यत्रतेभस्मसात्कृताः/भस्मन्यथाप्लुतेरामगङ्गायाःसलिलेनवै/सर्वलोकप्रभुर्ब्रह्माराजानमिदमब्रवीत्/तारितानरशार्दूलदिवंयाताश्चदेववत्/षष्टिःपुत्रसहस्राणिसगरस्यमहात्मनः/सागरस्यजलंलोकेयावत्स्थास्यतिपार्थिव/सगरस्यात्मजास्तावत्स्वर्गेस्थास्यन्तिदेववत्/इयंचदुहिताज्येष्ठातवगङ्गाभविष्यति/त्वत्कृतेनचनाम्नावैलोकेस्थास्यतिविश्रुता/गङ्गात्रिपथगानामदिव्याभागीरथीतिच/त्रिपथोभावयन्तीतिततस्त्रिपथगास्मृता/पितामहानांसर्वेषांत्वमत्रमनुजाधिप/कुरुष्वसलिलंराजन्प्रतिज्ञामपवर्जय/पूर्वकेणहितेराजंस्तेनातियशसातदा/धर्मिणांप्रवरेणाथनैषप्राप्तोमनोरथः/तथैवांशुमतातातलोकेऽप्रतिमतेजसा/गङ्गांप्रार्थयतानेतुंप्रतिज्ञानापवर्जिता/राजर्षिणागुणवतामहर्षिसमतेजसा/मत्तुल्यतपसाचैवक्षत्रधर्मस्थितेनच/दिलीपेनमहाभागतवपित्रातितेजसा/पुनर्नशङ्कितानेतुंगङ्गांप्रार्थयतानघ/सात्वयासमतिक्रान्ताप्रतिज्ञापुरुषर्षभ/प्राप्तोऽसिपरमंलोकेयशःपरमसंमतम्/यच्चगङ्गावतरणंत्वयाकृतमरिंदम/अनेनचभवान्प्राप्तोधर्मस्यायतनंमहत्/प्लावयस्वत्वमात्मानंनरोत्तमसदोचिते/सलिलेपुरुषव्याघ्रशुचिःपुण्यफलोभव/पितामहानांसर्वेषांकुरुष्वसलिलक्रियाम्/स्वस्तितेऽस्तुगमिष्यामिस्वंलोकंगम्यतांनृप/इत्येवमुक्त्वादेवेशःसर्वलोकपितामहः/यथागतंतथागच्छद्देवलोकंमहायशाः/भगीरथोऽपिराजर्षिःकृत्वासलिलमुत्तमम्/यथाक्रमंयथान्यायंसागराणांमहायशाः/कृतोदकःशुचीराजास्वपुरंप्रविवेशह/समृद्धार्थोनरश्रेष्ठस्वराज्यंप्रशशासह/प्रमुमोदचलोकस्तंनृपमासाद्यराघव/नष्टशोकःसमृद्धार्थोबभूवविगतज्वरः/एषतेरामगङ्गायाविस्तरोऽभिहितोमया/स्वस्तिप्राप्नुहिभद्रंतेसंध्याकालोऽतिवर्तते/धन्यंयशस्यमायुष्यंस्वर्ग्यंपुत्र्यमथापिच/इदमाख्यानमाख्यातंगङ्गावतरणंमया/विश्वामित्रवचःश्रुत्वाराघवःसहलक्ष्मणः/विस्मयंपरमंगत्वाविश्वामित्रमथाब्रवीत्/अत्यद्भुतमिदंब्रह्मन्कथितंपरमंत्वया/गङ्गावतरणंपुण्यंसागरस्यचपूरणम्/तस्यसाशर्वरीसर्वासहसौमित्रिणातदा/जगामचिन्तयानस्यविश्वामित्रकथांशुभाम्/ततःप्रभातेविमलेविश्वामित्रंमहामुनिम्/उवाचराघवोवाक्यंकृताह्निकमरिंदमः/गताभगवतीरात्रिःश्रोतव्यंपरमंश्रुतम्/क्षणभूतेवसारात्रिःसंवृत्तेयंमहातपः/इमांचिन्तयतःसर्वांनिखिलेनकथांतव/तरामसरितांश्रेष्ठांपुण्यांत्रिपथगांनदीम्/नौरेषाहिसुखास्तीर्णाऋषीणांपुण्यकर्मणाम्/भगवन्तमिहप्राप्तंज्ञात्वात्वरितमागता/तस्यतद्वचनंश्रुत्वाराघवस्यमहात्मनः/संतारंकारयामाससर्षिसंघःसराघवः/उत्तरंतीरमासाद्यसंपूज्यर्षिगणंतथ/गङ्गाकूलेनिविष्टास्तेविशालांददृशुःपुरीम्/ततोमुनिवरस्तूर्णंजगामसहराघवः/विशालांनगरींरम्यांदिव्यांस्वर्गोपमांतदा/अथरामोमहाप्राज्ञोविश्वामित्रंमहामुनिम्/पप्रच्छप्राञ्जलिर्भूत्वाविशालामुत्तमांपुरीम्/कतरोराजवंशोऽयंविशालायांमहामुने/श्रोतुमिच्छामिभद्रंतेपरंकौतूहलंहिमे/तस्यतद्वचनंश्रुत्वारामस्यमुनिपुंगवः/आख्यातुंतत्समारेभेविशालस्यपुरातनम्/श्रूयतांरामशक्रस्यकथांकथयतःशुभाम्/अस्मिन्देशेहियद्वृत्तंशृणुतत्त्वेनराघव/पूर्वंकृतयुगेरामदितेःपुत्रामहाबलाः/अदितेश्चमहाभागावीर्यवन्तःसुधार्मिकाः/ततस्तेषांनरश्रेष्ठबुद्धिरासीन्महात्मनाम्/अमरानिर्जराश्चैवकथंस्यामनिरामयाः/तेषांचिन्तयतांरामबुद्धिरासीद्विपश्चिताम्/क्षीरोदमथनंकृत्वारसंप्राप्स्यामतत्रवै/ततोनिश्चित्यमथनंयोक्त्रंकृत्वाचवासुकिम्/मन्थानंमन्दरंकृत्वाममन्थुरमितौजसः/अथधन्वन्तरिर्नामअप्सराश्चसुवर्चसः/अप्सुनिर्मथनादेवरसात्तस्माद्वरस्त्रियः/उत्पेतुर्मनुजश्रेष्ठतस्मादप्सरसोऽभवन्/षष्टिःकोट्योऽभवंस्तासामप्सराणांसुवर्चसाम्/असंख्येयास्तुकाकुत्स्थयास्तासांपरिचारिकाः/नताःस्मप्रतिगृह्णन्तिसर्वेतेदेवदानवाः/अप्रतिग्रहणाच्चैवतेनसाधारणाःस्मृताः/वरुणस्यततःकन्यावारुणीरघुनन्दन/उत्पपातमहाभागामार्गमाणापरिग्रहम्/दितेःपुत्रानतांरामजगृहुर्वरुणात्मजाम्/अदितेस्तुसुतावीरजगृहुस्तामनिन्दिताम्/असुरास्तेनदैतेयाःसुरास्तेनादितेःसुताः/हृष्टाःप्रमुदिताश्चासन्वारुणीग्रहणात्सुराः/उच्चैःश्रवाहयश्रेष्ठोमणिरत्नंचकौस्तुभम्/उदतिष्ठन्नरश्रेष्ठतथैवामृतमुत्तमम्/अथतस्यकृतेराममहानासीत्कुलक्षयः/अदितेस्तुततःपुत्रादितेःपुत्राणसूदयन्/अदितेरात्मजावीरादितेःपुत्रान्निजघ्निरे/तस्मिन्घोरेमहायुद्धेदैतेयादित्ययोर्भृशम्/निहत्यदितिपुत्रांस्तुराज्यंप्राप्यपुरंदरः/शशासमुदितोलोकान्सर्षिसंघान्सचारणान्/हतेषुतेषुपुत्रेषुदितिःपरमदुःखिता/मारीचंकाश्यपंरामभर्तारमिदमब्रवीत्/हतपुत्रास्मिभगवंस्तवपुत्रैर्महाबलैः/शक्रहन्तारमिच्छामिपुत्रंदीर्घतपोऽर्जितम्/साहंतपश्चरिष्यामिगर्भंमेदातुमर्हसि/ईदृशंशक्रहन्तारंत्वमनुज्ञातुमर्हसि/तस्यास्तद्वचनंश्रुत्वामारीचःकाश्यपस्तदा/प्रत्युवाचमहातेजादितिंपरमदुःखिताम्/एवंभवतुभद्रंतेशुचिर्भवतपोधने/जनयिष्यसिपुत्रंत्वंशक्रहन्तारमाहवे/पूर्णेवर्षसहस्रेतुशुचिर्यदिभविष्यसि/पुत्रंत्रैलोक्यहन्तारंमत्तस्त्वंजनयिष्यसि/एवमुक्त्वामहातेजाःपाणिनासममार्जताम्/समालभ्यततःस्वस्तीत्युक्त्वासतपसेययौ/गतेतस्मिन्नरश्रेष्ठदितिःपरमहर्षिता/कुशप्लवनमासाद्यतपस्तेपेसुदारुणम्/तपस्तस्यांहिकुर्वत्यांपरिचर्यांचकारह/सहस्राक्षोनरश्रेष्ठपरयागुणसंपदा/अग्निंकुशान्काष्ठमपःफलंमूलंतथैवच/न्यवेदयत्सहस्राक्षोयच्चान्यदपिकाङ्क्षितम्/गात्रसंवाहनैश्चैवश्रमापनयनैस्तथा/शक्रःसर्वेषुकालेषुदितिंपरिचचारह/अथवर्षसहस्रेतुदशोनेरघुनन्दन/दितिःपरमसंप्रीतासहस्राक्षमथाब्रवीत्/तपश्चरन्त्यावर्षाणिदशवीर्यवतांवर/अवशिष्टानिभद्रंतेभ्रातरंद्रक्ष्यसेततः/तमहंत्वत्कृतेपुत्रसमाधास्येजयोत्सुकम्/त्रैलोक्यविजयंपुत्रसहभोक्ष्यसिविज्वरः/एवमुक्त्वादितिःशक्रंप्राप्तेमध्यंदिवाकरे/निद्रयापहृतादेवीपादौकृत्वाथशीर्षतः/दृष्ट्वातामशुचिंशक्रःपादतःकृतमूर्धजाम्/शिरःस्थानेकृतौपादौजहासचमुमोदच/तस्याःशरीरविवरंविवेशचपुरंदरः/गर्भंचसप्तधारामबिभेदपरमात्मवान्/बिध्यमानस्ततोगर्भोवज्रेणशतपर्वणा/रुरोदसुस्वरंरामततोदितिरबुध्यत/मारुदोमारुदश्चेतिगर्भंशक्रोऽभ्यभाषत/बिभेदचमहातेजारुदन्तमपिवासवः/नहन्तव्योनहन्तव्यइत्येवंदितिरब्रवीत्/निष्पपातततःशक्रोमातुर्वचनगौरवात्/प्राञ्जलिर्वज्रसहितोदितिंशक्रोऽभ्यभाषत/अशुचिर्देविसुप्तासिपादयोःकृतमूर्धजा/तदन्तरमहंलब्ध्वाशक्रहन्तारमाहवे/अभिन्दंसप्तधादेवितन्मेत्वंक्षन्तुमर्हसि/सप्तधातुकृतेगर्भेदितिःपरमदुःखिता/सहस्राक्षंदुराधर्षंवाक्यंसानुनयाब्रवीत्/ममापराधाद्गर्भोऽयंसप्तधाविफलीकृतः/नापराधोऽस्तिदेवेशतवात्रबलसूदन/प्रियंतुकृतमिच्छामिममगर्भविपर्यये/मरुतांसप्तंसप्तानांस्थानपालाभवन्त्विमे/वातस्कन्धाइमेसप्तचरन्तुदिविपुत्रकाः/मारुताइतिविख्यातादिव्यरूपाममात्मजाः/ब्रह्मलोकंचरत्वेकइन्द्रलोकंतथापरः/दिविवायुरितिख्यातस्तृतीयोऽपिमहायशाः/चत्वारस्तुसुरश्रेष्ठदिशोवैतवशासनात्/संचरिष्यन्तिभद्रंतेदेवभूताममात्मजाः/त्वत्कृतेनैवनाम्नाचमारुताइतिविश्रुताः/तस्यास्तद्वचनंश्रुत्वासहस्राक्षःपुरंदरः/उवाचप्राञ्जलिर्वाक्यंदितिंबलनिषूदनः/सर्वमेतद्यथोक्तंतेभविष्यतिनसंशयः/विचरिष्यन्तिभद्रंतेदेवभूतास्तवात्मजाः/एवंतौनिश्चयंकृत्वामातापुत्रौतपोवने/जग्मतुस्त्रिदिवंरामकृतार्थावितिनःश्रुतम्/एषदेशःसकाकुत्स्थमहेन्द्राध्युषितःपुरा/दितिंयत्रतपःसिद्धामेवंपरिचचारसः/इक्ष्वाकोस्तुनरव्याघ्रपुत्रःपरमधार्मिकः/अलम्बुषायामुत्पन्नोविशालइतिविश्रुतः/तेनचासीदिहस्थानेविशालेतिपुरीकृता/विशालस्यसुतोरामहेमचन्द्रोमहाबलः/सुचन्द्रइतिविख्यातोहेमचन्द्रादनन्तरः/सुचन्द्रतनयोरामधूम्राश्वइतिविश्रुतः/धूम्राश्वतनयश्चापिसृञ्जयःसमपद्यत/सृञ्जयस्यसुतःश्रीमान्सहदेवःप्रतापवान्/कुशाश्वःसहदेवस्यपुत्रःपरमधार्मिकः/कुशाश्वस्यमहातेजाःसोमदत्तःप्रतापवान्/सोमदत्तस्यपुत्रस्तुकाकुत्स्थइतिविश्रुतः/तस्यपुत्रोमहातेजाःसंप्रत्येषपुरीमिमाम्/आवसत्यमरप्रख्यःसुमतिर्नामदुर्जयः/इक्ष्वाकोस्तुप्रसादेनसर्वेवैशालिकानृपाः/दीर्घायुषोमहात्मानोवीर्यवन्तःसुधार्मिकाः/इहाद्यरजनींरामसुखंवत्स्यामहेवयम्/श्वःप्रभातेनरश्रेष्ठजनकंद्रष्टुमर्हसि/सुमतिस्तुमहातेजाविश्वामित्रमुपागतम्/श्रुत्वानरवरश्रेष्ठःप्रत्युद्गच्छन्महायशाः/पूजांचपरमांकृत्वासोपाध्यायःसबान्धवः/प्राञ्जलिःकुशलंपृष्ट्वाविश्वामित्रमथाब्रवीत्/धन्योऽस्म्यनुगृहीतोऽस्मियस्यमेविषयंमुने/संप्राप्तोदर्शनंचैवनास्तिधन्यतरोमम/पृष्ट्वातुकुशलंतत्रपरस्परसमागमे/कथान्तेसुमतिर्वाक्यंव्याजहारमहामुनिम्/इमौकुमारौभद्रंतेदेवतुल्यपराक्रमौ/गजसिंहगतीवीरौशार्दूलवृषभोपमौ/पद्मपत्रविशालाक्षौखड्गतूणीधनुर्धरौ/अश्विनाविवरूपेणसमुपस्थितयौवनौ/यदृच्छयैवगांप्राप्तौदेवलोकादिवामरौ/कथंपद्भ्यामिहप्राप्तौकिमर्थंकस्यवामुने/भूषयन्ताविमंदेशंचन्द्रसूर्याविवाम्बरम्/परस्परस्यसदृशौप्रमाणेङ्गितचेष्टितैः/किमर्थंचनरश्रेष्ठौसंप्राप्तौदुर्गमेपथि/वरायुधधरौवीरौश्रोतुमिच्छामितत्त्वतः/तस्यतद्वचनंश्रुत्वायथावृत्थंन्यवेदयत्/सिद्धाश्रमनिवासंचराक्षसानांवधंतथा/विश्वामित्रवचःश्रुत्वाराजापरमहर्षितः/अतिथीपरमौप्राप्तौपुत्रौदशरथस्यतौ/पूजयामासविधिवत्सत्कारार्हौमहाबलौ/ततःपरमसत्कारंसुमतेःप्राप्यराघवौ/उष्यतत्रनिशामेकांजग्मतुर्मिथिलांततः/तांदृष्ट्वामुनयःसर्वेजनकस्यपुरींशुभाम्/साधुसाध्वितिशंसन्तोमिथिलांसमपूजयन्/मिथिलोपवनेतत्रआश्रमंदृश्यराघवः/पुराणंनिर्जनंरम्यंपप्रच्छमुनिपुंगवम्/श्रीमदाश्रमसंकाशंकिंन्विदंमुनिवर्जितम्/श्रोतुमिच्छामिभगवन्कस्यायंपूर्वआश्रमः/तच्छ्रुताराघवेणोक्तंवाक्यंवाक्यविशारदः/प्रत्युवाचमहातेजाविश्वमित्रोमहामुनिः/हन्ततेकथयिष्यामिशृणुतत्त्वेनराघव/यस्यैतदाश्रमपदंशप्तंकोपान्महात्मना/गौतमस्यनरश्रेष्ठपूर्वमासीन्महात्मनः/आश्रमोदिव्यसंकाशःसुरैरपिसुपूजितः/सचेहतपआतिष्ठदहल्यासहितःपुरा/वर्षपूगान्यनेकानिराजपुत्रमहायशः/तस्यान्तरंविदित्वातुसहस्राक्षःशचीपतिः/मुनिवेषधरोऽहल्यामिदंवचनमब्रवीत्/ऋतुकालंप्रतीक्षन्तेनार्थिनःसुसमाहिते/संगमंत्वहमिच्छामित्वयासहसुमध्यमे/मुनिवेषंसहस्राक्षंविज्ञायरघुनन्दन/मतिंचकारदुर्मेधादेवराजकुतूहलात्/अथाब्रवीत्सुरश्रेष्ठंकृतार्थेनान्तरात्मना/कृतार्थोऽसिसुरश्रेष्ठगच्छशीघ्रमितःप्रभो/आत्मानंमांचदेवेशसर्वदारक्षमानदः/इन्द्रस्तुप्रहसन्वाक्यमहल्यामिदमब्रवीत्/सुश्रोणिपरितुष्टोऽस्मिगमिष्यामियथागतम्/एवंसंगम्यतुतयानिश्चक्रामोटजात्ततः/ससंभ्रमात्त्वरन्रामशङ्कितोगौतमंप्रति/गौतमंसददर्शाथप्रविशन्तिमहामुनिम्/देवदानवदुर्धर्षंतपोबलसमन्वितम्/तीर्थोदकपरिक्लिन्नंदीप्यमानमिवानलम्/गृहीतसमिधंतत्रसकुशंमुनिपुङ्गवम्/दृष्ट्वासुरपतिस्त्रस्तोविषण्णवदनोऽभवत्/अथदृष्ट्वासहस्राक्षंमुनिवेषधरंमुनिः/दुर्वृत्तंवृत्तसंपन्नोरोषाद्वचनमब्रवीत्/ममरूपंसमास्थायकृतवानसिदुर्मते/अकर्तव्यमिदंयस्माद्विफलस्त्वंभविष्यति/गौतमेनैवमुक्तस्यसरोषेणमहात्मना/पेततुर्वृषणौभूमौसहस्राक्षस्यतत्क्षणात्/तथाशप्त्वासवैशक्रंभार्यामपिचशप्तवान्/इहवर्षसहस्राणिबहूनित्वंनिवत्स्यसि/वायुभक्षानिराहारातप्यन्तीभस्मशायिनी/अदृश्यासर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि/यदाचैतद्वनंघोरंरामोदशरथात्मजः/आगमिष्यतिदुर्धर्षस्तदापूताभविष्यसि/तस्यातिथ्येनदुर्वृत्तेलोभमोहविवर्जिता/मत्सकाशेमुदायुक्तास्वंवपुर्धारयिष्यसि/एवमुक्त्वामहातेजागौतमोदुष्टचारिणीम्/इममाश्रममुत्सृज्यसिद्धचारणसेविते/हिमवच्छिखरेरम्येतपस्तेपेमहातपाः/अफलस्तुततःशक्रोदेवानग्निपुरोगमान्/अब्रवीत्त्रस्तवदनःसर्षिसंघान्सचारणान्/कुर्वतातपसोविघ्नंगौतमस्यमहात्मनः/क्रोधमुत्पाद्यहिमयासुरकार्यमिदंकृतम्/अफलोऽस्मिकृतस्तेनक्रोधात्साचनिराकृता/शापमोक्षेणमहतातपोऽस्यापहृतंमया/तन्मांसुरवराःसर्वेसर्षिसंघाःसचारणाः/सुरसाह्यकरंसर्वेसफलंकर्तुमर्हथ/शतक्रतोर्वचःश्रुत्वादेवाःसाग्निपुरोगमाः/पितृदेवानुपेत्याहुःसहसर्वैर्मरुद्गणैः/अयंमेषःसवृषणःशक्रोह्यवृषणःकृतः/मेषस्यवृषणौगृह्यशक्रायाशुप्रयच्छत/अफलस्तुकृतोमेषःपरांतुष्टिंप्रदास्यति/भवतांहर्षणार्थाययेचदास्यन्तिमानवाः/अग्नेस्तुवचनंश्रुत्वापितृदेवाःसमागताः/उत्पाट्यमेषवृषणौसहस्राक्षेन्यवेदयन्/तदाप्रभृतिकाकुत्स्थपितृदेवाःसमागताः/अफलान्भुञ्जतेमेषान्फलैस्तेषामयोजयन्/इन्द्रस्तुमेषवृषणस्तदाप्रभृतिराघव/गौतमस्यप्रभावेनतपसश्चमहात्मनः/तदागच्छमहातेजआश्रमंपुण्यकर्मणः/तारयैनांमहाभागामहल्यांदेवरूपिणीम्/विश्वामित्रवचःश्रुत्वाराघवःसहलक्ष्मणः/विश्वामित्रंपुरस्कृत्यआश्रमंप्रविवेशह/ददर्शचमहाभागांतपसाद्योतितप्रभाम्/लोकैरपिसमागम्यदुर्निरीक्ष्यांसुरासुरैः/प्रयत्नान्निर्मितांधात्रादिव्यांमायामयीमिव/धूमेनाभिपरीताङ्गींपूर्णचन्द्रप्रभामिव/सतुषारावृतांसाभ्रांपूर्णचन्द्रप्रभामिव/मध्येऽम्भसोदुराधर्षांदीप्तांसूर्यप्रभामिव/सहिगौतमवाक्येनदुर्निरीक्ष्याबभूवह/त्रयाणामपिलोकानांयावद्रामस्यदर्शनम्/राघवौतुततस्तस्याःपादौजगृहतुस्तदा/स्मरन्तीगौतमवचःप्रतिजग्राहसाचतौ/पाद्यमर्घ्यंतथातिथ्यंचकारसुसमाहिता/प्रतिजग्राहकाकुत्स्थोविधिदृष्टेनकर्मणा/पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैः/गन्धर्वाप्सरसांचापिमहानासीत्समागमः/साधुसाध्वितिदेवास्तामहल्यांसमपूजयन्/तपोबलविशुद्धाङ्गींगौतमस्यवशानुगाम्/गौतमोऽपिमहातेजाअहल्यासहितःसुखी/रामंसंपूज्यविधिवत्तपस्तेपेमहातपाः/रामोऽपिपरमांपूजांगौतमस्यमहामुनेः/सकाशाद्विधिवत्प्राप्यजगाममिथिलांततः/ततःप्रागुत्तरांगत्वारामःसौमित्रिणासह/विश्वामित्रंपुरस्कृत्ययज्ञवाटमुपागमत्/रामस्तुमुनिशार्दूलमुवाचसहलक्ष्मणः/साध्वीयज्ञसमृद्धिर्हिजनकस्यमहात्मनः/बहूनीहसहस्राणिनानादेशनिवासिनाम्/ब्राह्मणानांमहाभागवेदाध्ययनशालिनाम्/ऋषिवाटाश्चदृश्यन्तेशकटीशतसंकुलाः/देशोविधीयतांब्रह्मन्यत्रवत्स्यामहेवयम्/रामस्यवचनंश्रुत्वाविश्वामित्रोमहामुनिः/निवेशमकरोद्देशेविविक्तेसलिलायुते/विश्वामित्रंमुनिश्रेष्ठंश्रुत्वासनृपतिस्तदा/शतानन्दंपुरस्कृत्यपुरोहितमनिन्दितम्/ऋत्विजोऽपिमहात्मानस्त्वर्घ्यमादायसत्वरम्/विश्वामित्रायधर्मेणददुर्मन्त्रपुरस्कृतम्/प्रतिगृह्यतुतांपूजांजनकस्यमहात्मनः/पप्रच्छकुशलंराज्ञोयज्ञस्यचनिरामयम्/सतांश्चापिमुनीन्पृष्ट्वासोपाध्यायपुरोधसः/यथान्यायंततःसर्वैःसमागच्छत्प्रहृष्टवान्/अथराजामुनिश्रेष्ठंकृताञ्जलिरभाषत/आसनेभगवानास्तांसहैभिर्मुनिसत्तमैः/जनकस्यवचःश्रुत्वानिषसादमहामुनिः/पुरोधाऋत्विजश्चैवराजाचसहमन्त्रिभिः/आसनेषुयथान्यायमुपविष्टान्समन्ततः/दृष्ट्वासनृपतिस्तत्रविश्वामित्रमथाब्रवीत्/अद्ययज्ञसमृद्धिर्मेसफलादैवतैःकृता/अद्ययज्ञफलंप्राप्तंभगवद्दर्शनान्मया/धन्योऽस्म्यनुगृहीतोऽस्मियस्यमेमुनिपुंगव/यज्ञोपसदनंब्रह्मन्प्राप्तोऽसिमुनिभिःसह/द्वादशाहंतुब्रह्मर्षेशेषमाहुर्मनीषिणः/ततोभागार्थिनोदेवान्द्रष्टुमर्हसिकौशिक/इत्युक्त्वामुनिशार्दूलंप्रहृष्टवदनस्तदा/पुनस्तंपरिपप्रच्छप्राञ्जलिःप्रयतोनृपः/इमौकुमारौभद्रंतेदेवतुल्यपराक्रमौ/गजसिंहगतीवीरौशार्दूलवृषभोपमौ/पद्मपत्रविशालाक्षौखड्गतूणीधनुर्धरौ/अश्विनाविवरूपेणसमुपस्थितयौवनौ/यदृच्छयैवगांप्राप्तौदेवलोकादिवामरौ/कथंपद्भ्यामिहप्राप्तौकिमर्थंकस्यवामुने/वरायुधधरौवीरौकस्यपुत्रौमहामुने/भूषयन्ताविमंदेशंचन्द्रसूर्याविवाम्बरम्/परस्परस्यसदृशौप्रमाणेङ्गितचेष्टितैः/काकपक्षधरौवीरौश्रोतुमिच्छामितत्त्वतः/तस्यतद्वचनंश्रुत्वाजनकस्यमहात्मनः/न्यवेदयन्महात्मानौपुत्रौदशरथस्यतौ/सिद्धाश्रमनिवासंचराक्षसानांवधंतथा/तच्चागमनमव्यग्रंविशालायाश्चदर्शनम्/अहल्यादर्शनंचैवगौतमेनसमागमम्/महाधनुषिजिज्ञासांकर्तुमागमनंतथा/एतत्सर्वंमहातेजाजनकायमहात्मने/निवेद्यविररामाथविश्वामित्रोमहामुनिः/तस्यतद्वचनंश्रुत्वाविश्वामित्रस्यधीमतः/हृष्टरोमामहातेजाःशतानन्दोमहातपाः/गौतमस्यसुतोज्येष्ठस्तपसाद्योतितप्रभः/रामसंदर्शनादेवपरंविस्मयमागतः/सतौनिषण्णौसंप्रेक्ष्यसुखासीनौनृपात्मजौ/शतानन्दोमुनिश्रेष्ठंविश्वामित्रमथाब्रवीत्/अपितेमुनिशार्दूलमममातायशस्विनी/दर्शिताराजपुत्रायतपोदीर्घमुपागता/अपिरामेमहातेजोमममातायशस्विनी/वन्यैरुपाहरत्पूजांपूजार्हेसर्वदेहिनाम्/अपिरामायकथितंयथावृत्तंपुरातनम्/मममातुर्महातेजोदेवेनदुरनुष्ठितम्/अपिकौशिकभद्रंतेगुरुणाममसंगता/मातामममुनिश्रेष्ठरामसंदर्शनादितः/अपिमेगुरुणारामःपूजितःकुशिकात्मज/इहागतोमहातेजाःपूजांप्राप्यमहात्मनः/अपिशान्तेनमनसागुरुर्मेकुशिकात्मज/इहागतेनरामेणप्रयतेनाभिवादितः/तच्छ्रुत्वावचनंतस्यविश्वामित्रोमहामुनिः/प्रत्युवाचशतानन्दंवाक्यज्ञोवाक्यकोविदम्/नातिक्रान्तंमुनिश्रेष्ठयत्कर्तव्यंकृतंमया/संगतामुनिनापत्नीभार्गवेणेवरेणुका/तच्छ्रुत्वावचनंतस्यविश्वामित्रस्यधीमतः/शतानन्दोमहातेजारामंवचनमब्रवीत्/स्वागतंतेनरश्रेष्ठदिष्ट्याप्राप्तोऽसिराघव/विश्वामित्रंपुरस्कृत्यमहर्षिमपराजितम्/अचिन्त्यकर्मातपसाब्रह्मर्षिरमितप्रभः/विश्वामित्रोमहातेजावेत्स्येनंपरमांगतिम्/नास्तिधन्यतरोरामत्वत्तोऽन्योभुविकश्चन/गोप्ताकुशिकपुत्रस्तेयेनतप्तंमहत्तपः/श्रूयतांचाभिदास्यामिकौशिकस्यमहात्मनः/यथाबलंयथावृत्तंतन्मेनिगदतःशृणु/राजाभूदेषधर्मात्मादीर्घकालमरिंदमः/धर्मज्ञःकृतविद्यश्चप्रजानांचहितेरतः/प्रजापतिसुतस्त्वासीत्कुशोनाममहीपतिः/कुशस्यपुत्रोबलवान्कुशनाभःसुधार्मिकः/कुशनाभसुतस्त्वासीद्गाधिरित्येवविश्रुतः/गाधेःपुत्रोमहातेजाविश्वामित्रोमहामुनिः/विश्वमित्रोमहातेजाःपालयामासमेदिनीम्/बहुवर्षसहस्राणिराजाराज्यमकारयत्/कदाचित्तुमहातेजायोजयित्वावरूथिनीम्/अक्षौहिणीपरिवृतःपरिचक्राममेदिनीम्/नगराणिचराष्ट्राणिसरितश्चतथागिरीन्/आश्रमान्क्रमशोराजाविचरन्नाजगामह/वसिष्ठस्याश्रमपदंनानापुष्पफलद्रुमम्/नानामृगगणाकीर्णंसिद्धचारणसेवितम्/देवदानवगन्धर्वैःकिंनरैरुपशोभितम्/प्रशान्तहरिणाकीर्णंद्विजसंघनिषेवितम्/ब्रह्मर्षिगणसंकीर्णंदेवर्षिगणसेवितम्/तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः/सततंसंकुलंश्रीमद्ब्रह्मकल्पैर्महात्मभिः/अब्भक्षैर्वायुभक्षैश्चशीर्णपर्णाशनैस्तथा/फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः/ऋषिभिर्वालखिल्यैश्चजपहोमपरायणैः/वसिष्ठस्याश्रमपदंब्रह्मलोकमिवापरम्/ददर्शजयतांश्रेष्ठविश्वामित्रोमहाबलः/152/सदृष्ट्वापरमप्रीतोविश्वामित्रोमहाबलः/प्रणतोविनयाद्वीरोवसिष्ठंजपतांवरम्/स्वागतंतवचेत्युक्तोवसिष्ठेनमहात्मना/आसनंचास्यभगवान्वसिष्ठोव्यादिदेशह/उपविष्टायचतदाविश्वामित्रायधीमते/यथान्यायंमुनिवरःफलमूलमुपाहरत्/प्रतिगृह्यचतांपूजांवसिष्ठाद्राजसत्तमः/तपोऽग्निहोत्रशिष्येषुकुशलंपर्यपृच्छत/विश्वामित्रोमहातेजावनस्पतिगणेतथा/सर्वत्रकुशलंचाहवसिष्ठोराजसत्तमम्/सुखोपविष्टंराजानंविश्वामित्रंमहातपाः/पप्रच्छजपतांश्रेष्ठोवसिष्ठोब्रह्मणःसुतः/कच्चित्तेकुशलंराजन्कच्चिद्धर्मेणरञ्जयन्/प्रजाःपालयसेराजन्राजवृत्तेनधार्मिक/कच्चित्तेसुभृताभृत्याःकच्चित्तिष्ठन्तिशासने/कच्चित्तेविजिताःसर्वेरिपवोरिपुसूदन/कच्चिद्बलेचकोशेचमित्रेषुचपरंतप/कुशलंतेनरव्याघ्रपुत्रपौत्रेतथानघ/सर्वत्रकुशलंराजावसिष्ठंप्रत्युदाहरत्/विश्वामित्रोमहातेजावसिष्ठंविनयान्वितः/कृत्वोभौसुचिरंकालंधर्मिष्ठौताःकथाःशुभाः/मुदापरमयायुक्तौप्रीयेतांतौपरस्परम्/ततोवसिष्ठोभगवान्कथान्तेरघुनन्दन/विश्वामित्रमिदंवाक्यमुवाचप्रहसन्निव/आतिथ्यंकर्तुमिच्छामिबलस्यास्यमहाबल/तवचैवाप्रमेयस्ययथार्हंसंप्रतीच्छमे/सत्क्रियांतुभवानेतांप्रतीच्छतुमयोद्यताम्/राजंस्त्वमतिथिश्रेष्ठःपूजनीयःप्रयत्नतः/एवमुक्तोवसिष्ठेनविश्वामित्रोमहामतिः/कृतमित्यब्रवीद्राजापूजावाक्येनमेत्वया/फलमूलेनभगवन्विद्यतेयत्तवाश्रमे/पाद्येनाचमनीयेनभगवद्दर्शनेनच/सर्वथाचमहाप्राज्ञपूजार्हेणसुपूजितः/गमिष्यामिनमस्तेऽस्तुमैत्रेणेक्षस्वचक्षुषा/एवंब्रुवन्तंराजानंवसिष्ठःपुनरेवहि/न्यमन्त्रयतधर्मात्मापुनःपुनरुदारधीः/बाढमित्येवगाधेयोवसिष्ठंप्रत्युवाचह/यथाप्रियंभगवतस्तथास्तुमुनिसत्तम/एवमुक्तोमहातेजावसिष्ठोजपतांवरः/आजुहावततःप्रीतःकल्माषींधूतकल्मषः/एह्येहिशबलेक्षिप्रंशृणुचापिवचोमम/सबलस्यास्यराजर्षेःकर्तुंव्यवसितोऽस्म्यहम्/भोजनेनमहार्हेणसत्कारंसंविधत्स्वमे/यस्ययस्ययथाकामंषड्रसेष्वभिपूजितम्/तत्सर्वंकामधुग्दिव्येअभिवर्षकृतेमम/रसेनान्नेनपानेनलेह्यचोष्येणसंयुतम्/अन्नानांनिचयंसर्वंसृजस्वशबलेत्वर/एवमुक्तावसिष्ठेनशबलाशत्रुसूदन/विदधेकामधुक्कामान्यस्ययस्ययथेप्सितम्/इक्षून्मधूंस्तथालाजान्मैरेयांश्चवरासवान्/पानानिचमहार्हाणिभक्ष्यांश्चोच्चावचांस्तथा/उष्णाढ्यस्यौदनस्यापिराशयःपर्वतोपमाः/मृष्टान्नानिचसूपाश्चदधिकुल्यास्तथैवच/नानास्वादुरसानांचषाडवानांतथैवच/भाजनानिसुपूर्णानिगौडानिचसहस्रशः/सर्वमासीत्सुसंतुष्टंहृष्टपुष्टजनाकुलम्/विश्वामित्रबलंरामवसिष्ठेनाभितर्पितम्/विश्वामित्रोऽपिराजर्षिर्हृष्टपुष्टस्तदाभवत्/सान्तःपुरवरोराजासब्राह्मणपुरोहितः/सामात्योमन्त्रिसहितःसभृत्यःपूजितस्तदा/युक्तःपरेणहर्षेणवसिष्ठमिदमब्रवीत्/पूजितोऽहंत्वयाब्रह्मन्पूजार्हेणसुसत्कृतः/श्रूयतामभिधास्यामिवाक्यंवाक्यविशारद/गवांशतसहस्रेणदीयतांशबलामम/रत्नंहिभगवन्नेतद्रत्नहारीचपार्थिवः/तस्मान्मेशबलांदेहिममैषाधर्मतोद्विज/एवमुक्तस्तुभगवान्वसिष्ठोमुनिसत्तमः/विश्वामित्रेणधर्मात्माप्रत्युवाचमहीपतिम्/नाहंशतसहस्रेणनापिकोटिशतैर्गवाम्/राजन्दास्यामिशबलांराशिभीरजतस्यवा/नपरित्यागमर्हेयंमत्सकाशादरिंदम/शाश्वतीशबलामह्यंकीर्तिरात्मवतोयथा/अस्यांहव्यंचकव्यंचप्राणयात्रातथैवच/आयत्तमग्निहोत्रंचबलिर्होमस्तथैवच/स्वाहाकारवषट्कारौविद्याश्चविविधास्तथा/आयत्तमत्रराजर्षेसर्वमेतन्नसंशयः/सर्वस्वमेतत्सत्येनममतुष्टिकरीसदा/कारणैर्बहुभीराजन्नदास्येशबलांतव/वसिष्ठेनैवमुक्तस्तुविश्वामित्रोऽब्रवीत्ततः/संरब्धतरमत्यर्थंवाक्यंवाक्यविशारदः/हैरण्यकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्/ददामिकुञ्जराणांतेसहस्राणिचतुर्दश/हैरण्यानांरथानांचश्वेताश्वानांचतुर्युजाम्/ददामितेशतान्यष्टौकिङ्किणीकविभूषितान्/हयानांदेशजातानांकुलजानांमहौजसाम्/सहस्रमेकंदशचददामितवसुव्रत/नानावर्णविभक्तानांवयःस्थानांतथैवच/ददाम्येकांगवांकोटिंशबलादीयतांमम/एवमुक्तस्तुभगवान्विश्वामित्रेणधीमता/नदास्यामीतिशबलांप्राहराजन्कथंचन/एतदेवहिमेरत्नमेतदेवहिमेधनम्/एतदेवहिसर्वस्वमेतदेवहिजीवितम्/दर्शश्चपूर्णमासश्चयज्ञाश्चैवाप्तदक्षिणाः/एतदेवहिमेराजन्विविधाश्चक्रियास्तथा/अदोमूलाःक्रियाःसर्वाममराजन्नसंशयः/बहूनांकिंप्रलापेननदास्येकामदोहिनीम्/कामधेनुंवसिष्ठोऽपियदानत्यजतेमुनिः/तदास्यशबलांरामविश्वामित्रोऽन्वकर्षत/नीयमानातुशबलारामराज्ञामहात्मना/दुःखिताचिन्तयामासरुदन्तीशोककर्शिता/परित्यक्तावसिष्ठेनकिमहंसुमहात्मना/याहंराजभृतैर्दीनाह्रियेयंभृशदुःखिता/किंमयापकृतंतस्यमहर्षेर्भावितात्मनः/यन्मामनागसंभक्तामिष्टांत्यजतिधार्मिकः/इतिसाचिन्तयित्वातुनिःश्वस्यचपुनःपुनः/जगामवेगेनतदावसिष्ठंपरमौजसं/निर्धूयतांस्तदाभृत्याञ्शतशःशत्रुसूदन/जगामानिलवेगेनपादमूलंमहात्मनः/शबलासारुदन्तीचक्रोशन्तीचेदमब्रवीत्/वसिष्ठस्याग्रतःस्थित्वामेघदुन्दुभिराविणी/भगवन्किंपरित्यक्तात्वयाहंब्रह्मणःसुत/यस्माद्राजभृतामांहिनयन्तेत्वत्सकाशतः/एवमुक्तस्तुब्रह्मर्षिरिदंवचनमब्रवीत्/शोकसंतप्तहृदयांस्वसारमिवदुःखिताम्/नत्वांत्यजामिशबलेनापिमेऽपकृतंत्वया/एषत्वांनयतेराजाबलान्मत्तोमहाबलः/नहितुल्यंबलंमह्यंराजात्वद्यविशेषतः/बलीराजाक्षत्रियश्चपृथिव्याःपतिरेवच/इयमक्षौहिणीपूर्णासवाजिरथसंकुला/हस्तिध्वजसमाकीर्णातेनासौबलवत्तरः/एवमुक्तावसिष्ठेनप्रत्युवाचविनीतवत्/वचनंवचनज्ञासाब्रह्मर्षिममितप्रभम्/नबलंक्षत्रियस्याहुर्ब्राह्मणोबलवत्तरः/ब्रह्मन्ब्रह्मबलंदिव्यंक्षत्रात्तुबलवत्तरम्/अप्रमेयबलंतुभ्यंनत्वयाबलवत्तरः/विश्वामित्रोमहावीर्यस्तेजस्तवदुरासदम्/नियुङ्क्ष्वमांमहातेजस्त्वद्ब्रह्मबलसंभृताम्/तस्यदर्पंबलंयत्तन्नाशयामिदुरात्मनः/इत्युक्तस्तुतयारामवसिष्ठःसुमहायशाः/सृजस्वेतितदोवाचबलंपरबलारुजम्/तस्याहुम्भारवोत्सृष्टाःपह्लवाःशतशोनृप/नाशयन्तिबलंसर्वंविश्वामित्रस्यपश्यतः/सराजापरमक्रुद्धःक्रोधविस्फारितेक्षणः/पह्लवान्नाशयामासशस्त्रैरुच्चावचैरपि/विश्वामित्रार्दितान्दृष्ट्वापह्लवाञ्शतशस्तदा/भूयएवासृजद्घोराञ्शकान्यवनमिश्रितान्/तैरासीत्संवृताभूमिःशकैर्यवनमिश्रितैः/प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसंनिभैः/दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः/निर्दग्धंतद्बलंसर्वंप्रदीप्तैरिवपावकैः/ततोऽस्त्राणिमहातेजाविश्वामित्रोमुमोचह/ततस्तानाकुलान्दृष्ट्वाविश्वामित्रास्त्रमोहितान्/वसिष्ठश्चोदयामासकामधुक्सृजयोगतः/तस्याहुम्भारवाज्जाताःकाम्बोजारविसंनिभाः/ऊधसस्त्वथसंजाताःपह्लवाःशस्त्रपाणयः/योनिदेशाच्चयवनःशकृद्देशाच्छकास्तथा/रोमकूपेषुमेच्छाश्चहरीताःसकिरातकाः/तैस्तन्निषूदितंसैन्यंविश्वमित्रस्यतत्क्षणात्/सपदातिगजंसाश्वंसरथंरघुनन्दन/दृष्ट्वानिषूदितंसैन्यंवसिष्ठेनमहात्मना/विश्वामित्रसुतानांतुशतंनानाविधायुधम्/अभ्यधावत्सुसंक्रुद्धंवसिष्ठंजपतांवरम्/हुंकारेणैवतान्सर्वान्निर्ददाहमहानृषिः/तेसाश्वरथपादातावसिष्ठेनमहात्मना/भस्मीकृतामुहूर्तेनविश्वामित्रसुतास्तदा/दृष्ट्वाविनाशितान्पुत्रान्बलंचसुमहायशाः/सव्रीडश्चिन्तयाविष्टोविश्वामित्रोऽभवत्तदा/संदुरइवनिर्वेगोभग्नदंष्ट्रइवोरगः/उपरक्तइवादित्यःसद्योनिष्प्रभतांगतः/हतपुत्रबलोदीनोलूनपक्षइवद्विजः/हतदर्पोहतोत्साहोनिर्वेदंसमपद्यत/सपुत्रमेकंराज्यायपालयेतिनियुज्यच/पृथिवींक्षत्रधर्मेणवनमेवान्वपद्यत/सगत्वाहिमवत्पार्श्वंकिंनरोरगसेवितम्/महादेवप्रसादार्थंतपस्तेपेमहातपाः/केनचित्त्वथकालेनदेवेशोवृषभध्वजः/दर्शयामासवरदोविश्वामित्रंमहामुनिम्/किमर्थंतप्यसेराजन्ब्रूहियत्तेविवक्षितम्/वरदोऽस्मिवरोयस्तेकाङ्क्षितःसोऽभिधीयताम्/एवमुक्तस्तुदेवेनविश्वामित्रोमहातपाः/प्रणिपत्यमहादेवमिदंवचनमब्रवीत्/यदितुष्टोमहादेवधनुर्वेदोममानघ/साङ्गोपाङ्गोपनिषदःसरहस्यःप्रदीयताम्/यानिदेवेषुचास्त्राणिदानवेषुमहर्षिषु/गन्धर्वयक्षरक्षःसुप्रतिभान्तुममानघ/तवप्रसादाद्भवतुदेवदेवममेप्सितम्/एवमस्त्वितिदेवेशोवाक्यमुक्त्वादिवंगतः/प्राप्यचास्त्राणिराजर्षिर्विश्वामित्रोमहाबलः/दर्पेणमहतायुक्तोदर्पपूर्णोऽभवत्तदा/विवर्धमानोवीर्येणसमुद्रइवपर्वणि/हतमेवतदामेनेवसिष्ठमृषिसत्तमम्/ततोगत्वाश्रमपदंमुमोचास्त्राणिपार्थिवः/यैस्तत्तपोवनंसर्वंनिर्दग्धंचास्त्रतेजसा/उदीर्यमाणमस्त्रंतद्विश्वामित्रस्यधीमतः/दृष्ट्वाविप्रद्रुताभीतामुनयःशतशोदिशः/वसिष्ठस्यचयेशिष्यास्तथैवमृगपक्षिणः/विद्रवन्तिभयाद्भीतानानादिग्भ्यःसहस्रशः/वसिष्ठस्याश्रमपदंशून्यमासीन्महात्मनः/मुहूर्तमिवनिःशब्दमासीदीरिणसंनिभम्/वदतोवैवसिष्ठस्यमाभैष्टेतिमुहुर्मुहुः/नाशयाम्यद्यगाधेयंनीहारमिवभास्करः/एवमुक्त्वामहातेजावसिष्ठोजपतांवरः/विश्वामित्रंतदावाक्यंसरोषमिदमब्रवीत्/आश्रमंचिरसंवृद्धंयद्विनाशितवानसि/दुराचारोऽसियन्मूढतस्मात्त्वंनभविष्यसि/इत्युक्त्वापरमक्रुद्धोदण्डमुद्यम्यसत्वरः/विधूमइवकालाग्निर्यमदण्डमिवापरम्/एवमुक्तोवसिष्ठेनविश्वामित्रोमहाबलः/आग्नेयमस्त्रमुत्क्षिप्यतिष्ठतिष्ठेतिचाब्रवीत्/वसिष्ठोभगवान्क्रोधादिदंवचनमब्रवीत्/क्षत्रबन्धोस्थितोऽस्म्येषयद्बलंतद्विदर्शय/नाशयाम्येषतेदर्पंशस्त्रस्यतवगाधिज/क्वचतेक्षत्रियबलंक्वचब्रह्मबलंमहत्/पश्यब्रह्मबलंदिव्यंममक्षत्रियपांसन/तस्यास्त्रंगाधिपुत्रस्यघोरमाग्नेयमुत्तमम्/ब्रह्मदण्डेनतच्छान्तमग्नेर्वेगइवाम्भसा/वारुणंचैवरौद्रंचऐन्द्रंपाशुपतंतथा/ऐषीकंचापिचिक्षेपरुषितोगाधिनन्दनः/मानवंमोहनंचैवगान्धर्वंस्वापनंतथा/जृम्भणंमोहनंचैवसंतापनविलापने/शोषणंदारणंचैववज्रमस्त्रंसुदुर्जयम्/ब्रह्मपाशंकालपाशंवारुणंपाशमेवच/पिनाकास्त्रंचदयितंशुष्कार्द्रेअशनीतथा/दण्डास्त्रमथपैशाचंक्रौञ्चमस्त्रंतथाइवच/धर्मचक्रंकालचक्रंविष्णुचक्रंतथैवच/वायव्यंमथनंचैवअस्त्रंहयशिरस्तथा/शक्तिद्वयंचचिक्षेपकङ्कालंमुसलंतथा/वैद्याधरंमहास्त्रंचकालास्त्रमथदारुणम्/त्रिशूलमस्त्रंघोरंचकापालमथकङ्कणम्/एतान्यस्त्राणिचिक्षेपसर्वाणिरघुनन्दन/वसिष्ठेजपतांश्रेष्ठेतदद्भुतमिवाभवत्/तानिसर्वाणिदण्डेनग्रसतेब्रह्मणःसुतः/तेषुशान्तेषुब्रह्मास्त्रंक्षिप्तवान्गाधिनन्दनः/तदस्त्रमुद्यतंदृष्ट्वादेवाःसाग्निपुरोगमाः/देवर्षयश्चसंभ्रान्तागन्धर्वाःसमहोरगाः/त्रैलोक्यमासीत्संत्रस्तंब्रह्मास्त्रेसमुदीरिते/तदप्यस्त्रंमहाघोरंब्राह्मंब्राह्मेणतेजसा/वसिष्ठोग्रसतेसर्वंब्रह्मदण्डेनराघव/ब्रह्मास्त्रंग्रसमानस्यवसिष्ठस्यमहात्मनः/त्रैलोक्यमोहनंरौद्रंरूपमासीत्सुदारुणम्/रोमकूपेषुसर्वेषुवसिष्ठस्यमहात्मनः/मरीच्यइवनिष्पेतुरग्नेर्धूमाकुलार्चिषः/प्राज्वलद्ब्रह्मदण्डश्चवसिष्ठस्यकरोद्यतः/विधूमइवकालाग्निर्यमदण्डइवापरः/ततोऽस्तुवन्मुनिगणावसिष्ठंजपतांवरम्/अमोघंतेबलंब्रह्मंस्तेजोधारयतेजसा/निगृहीतस्त्वयाब्रह्मन्विश्वामित्रोमहातपाः/प्रसीदजपतांश्रेष्ठलोकाःसन्तुगतव्यथाः/एवमुक्तोमहातेजाःशमंचक्रेमहातपाः/विश्वामित्रोऽपिनिकृतोविनिःश्वस्येदमब्रवीत्/धिग्बलंक्षत्रियबलंब्रह्मतेजोबलंबलम्/एकेनब्रह्मदण्डेनसर्वास्त्राणिहतानिमे/तदेतत्समवेक्ष्याहंप्रसन्नेन्द्रियमानसः/तपोमहत्समास्थास्येयद्वैब्रह्मत्वकारकम्/ततःसंतप्तहृदयःस्मरन्निग्रहमात्मनः/विनिःश्वस्यविनिःश्वस्यकृतवैरोमहात्मना/सदक्षिणांदिशंगत्वामहिष्यासहराघव/ततापपरमंघोरंविश्वामित्रोमहातपाः/फलमूलाशनोदान्तश्चचारपरमंतपः/अथास्यजज्ञिरेपुत्राःसत्यधर्मपरायणाः/हविष्पन्दोमधुष्पन्दोदृढनेत्रोमहारथः/पूर्णेवर्षसहस्रेतुब्रह्मालोकपितामहः/अब्रवीन्मधुरंवाक्यंविश्वामित्रंतपोधनम्/जिताराजर्षिलोकास्तेतपसाकुशिकात्मज/अनेनतपसात्वांहिराजर्षिरितिविद्महे/एवमुक्त्वामहातेजाजगामसहदैवतैः/त्रिविष्टपंब्रह्मलोकंलोकानांपरमेश्वरः/विश्वामित्रोऽपितच्छ्रुत्वाह्रियाकिंचिदवाङ्मुखः/दुःखेनमहताविष्टःसमन्युरिदमब्रवीत्/तपश्चसुमहत्तप्तंराजर्षिरितिमांविदुः/देवाःसर्षिगणाःसर्वेनास्तिमन्येतपःफलम्/एवंनिश्चित्यमनसाभूयएवमहातपाः/तपश्चचारकाकुत्स्थपरमंपरमात्मवान्/एतस्मिन्नेवकालेतुसत्यवादीजितेन्द्रियः/त्रिशङ्कुरितिविख्यातइक्ष्वाकुकुलनन्दनः/तस्यबुद्धिःसमुत्पन्नायजेयमितिराघव/गच्छेयंस्वशरीरेणदेवानांपरमांगतिम्/सवसिष्ठंसमाहूयकथयामासचिन्तितम्/अशक्यमितिचाप्युक्तोवसिष्ठेनमहात्मना/प्रत्याख्यातोवसिष्ठेनसययौदक्षिणांदिशम्/वसिष्ठादीर्घतपसस्तपोयत्रहितेपिरे/त्रिशङ्कुःसुमहातेजाःशतंपरमभास्वरम्/वसिष्ठपुत्रान्ददृशेतप्यमानान्यशस्विनः/सोऽभिगम्यमहात्मानःसर्वानेवगुरोःसुतान्/अभिवाद्यानुपूर्व्येणह्रियाकिंचिदवाङ्मुखः/अब्रवीत्सुमहातेजाःसर्वानेवकृताञ्जलिः/शरणंवःप्रपद्येऽहंशरण्याञ्शरणागतः/प्रत्याख्यातोऽस्मिभद्रंवोवसिष्ठेनमहात्मना/यष्टुकामोमहायज्ञंतदनुज्ञातुमर्थथ/गुरुपुत्रानहंसर्वान्नमस्कृत्यप्रसादये/शिरसाप्रणतोयाचेब्राह्मणांस्तपसिस्थितान्/तेमांभवन्तःसिद्ध्यर्थंयाजयन्तुसमाहिताः/सशरीरोयथाहंहिदेवलोकमवाप्नुयाम्/प्रत्याख्यातोवसिष्ठेनगतिमन्यांतपोधनाः/गुरुपुत्रानृतेसर्वान्नाहंपश्यामिकांचन/इक्ष्वाकूणांहिसर्वेषांपुरोधाःपरमागतिः/तस्मादनन्तरंसर्वेभवन्तोदैवतंमम/ततस्त्रिशङ्कोर्वचनंश्रुत्वाक्रोधसमन्वितम्/ऋषिपुत्रशतंरामराजानमिदमब्रवीत्/प्रत्याख्यातोऽसिदुर्बुद्धेगुरुणासत्यवादिना/तंकथंसमतिक्रम्यशाखान्तरमुपेयिवान्/इक्ष्वाकूणांहिसर्वेषांपुरोधाःपरमागतिः/नचातिक्रमितुंशक्यंवचनंसत्यवादिनः/अशक्यमितिचोवाचवसिष्ठोभगवानृषिः/तंवयंवैसमाहर्तुंक्रतुंशक्ताःकथंतव/बालिशस्त्वंनरश्रेष्ठगम्यतांस्वपुरंपुनः/याजनेभगवाञ्शक्तस्त्रैलोक्यस्यापिपार्थिव/तेषांतद्वचनंश्रुत्वाक्रोधपर्याकुलाक्षरम्/सराजापुनरेवैतानिदंवचनमब्रवीत्/प्रत्याख्यातोऽस्मिगुरुणागुरुपुत्रैस्तथैवच/अन्यांगतिंगमिष्यामिस्वस्तिवोऽस्तुतपोधनाः/ऋषिपुत्रास्तुतच्छ्रुत्वावाक्यंघोराभिसंहितम्/शेपुःपरमसंक्रुद्धाश्चण्डालत्वंगमिष्यसि/एवमुक्त्वामहात्मानोविविशुस्तेस्वमाश्रमम्/अथरात्र्यांव्यतीतायांराजाचण्डालतांगतः/नीलवस्त्रधरोनीलःपरुषोध्वस्तमूर्धजः/चित्यमाल्यानुलेपश्चआयसाभरणोऽभवत्/तंदृष्ट्वामन्त्रिणःसर्वेत्यक्त्वाचण्डालरूपिणम्/प्राद्रवन्सहितारामपौरायेऽस्यानुगामिनः/एकोहिराजाकाकुत्स्थजगामपरमात्मवान्/दह्यमानोदिवारात्रंविश्वामित्रंतपोधनम्/विश्वामित्रस्तुतंदृष्ट्वाराजानंविफलीकृतम्/चण्डालरूपिणंराममुनिःकारुण्यमागतः/कारुण्यात्समहातेजावाक्यंपरमधार्मिकः/इदंजगादभद्रंतेराजानंघोरदर्शनम्/किमागमनकार्यंतेराजपुत्रमहाबल/अयोध्याधिपतेवीरशापाच्चण्डालतांगतः/अथतद्वाक्यमाकर्ण्यराजाचण्डालतांगतः/अब्रवीत्प्राञ्जलिर्वाक्यंवाक्यज्ञोवाक्यकोविदम्/प्रत्याख्यातोऽस्मिगुरुणागुरुपुत्रैस्तथैवच/अनवाप्यैवतंकामंमयाप्राप्तोविपर्ययः/सशरीरोदिवंयायामितिमेसौम्यदर्शनम्/मयाचेष्टंक्रतुशतंतच्चनावाप्यतेफलम्/अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन/कृच्छ्रेष्वपिगतःसौम्यक्षत्रधर्मेणतेशपे/यज्ञैर्बहुविधैरिष्टंप्रजाधर्मेणपालिताः/गुरवश्चमहात्मानःशीलवृत्तेनतोषिताः/धर्मेप्रयतमानस्ययज्ञंचाहर्तुमिच्छतः/परितोषंनगच्छन्तिगुरवोमुनिपुंगव/दैवमेवपरंमन्येपौरुषंतुनिरर्थकम्/दैवेनाक्रम्यतेसर्वंदैवंहिपरमागतिः/तस्यमेपरमार्तस्यप्रसादमभिकाङ्क्षतः/कर्तुमर्हसिभद्रंतेदैवोपहतकर्मणः/नान्यांगतिंगमिष्यामिनान्यःशरणमस्तिमे/दैवंपुरुषकारेणनिवर्तयितुमर्हसि/उक्तवाक्यंतुराजानंकृपयाकुशिकात्मजः/अब्रवीन्मधुरंवाक्यंसाक्षाच्चण्डालरूपिणम्/इक्ष्वाकोस्वागतंवत्सजानामित्वांसुधार्मिकम्/शरणंतेभविष्यामिमाभैषीर्नृपपुंगव/अहमामन्त्रयेसर्वान्महर्षीन्पुण्यकर्मणः/यज्ञसाह्यकरान्राजंस्ततोयक्ष्यसिनिर्वृतः/गुरुशापकृतंरूपंयदिदंत्वयिवर्तते/अनेनसहरूपेणसशरीरोगमिष्यसि/हस्तप्राप्तमहंमन्येस्वर्गंतवनरेश्वर/यस्त्वंकौशिकमागम्यशरण्यंशरणंगतः/एवमुक्त्वामहातेजाःपुत्रान्परमधार्मिकान्/व्यादिदेशमहाप्राज्ञान्यज्ञसंभारकारणात्/सर्वाञ्शिष्यान्समाहूयवाक्यमेतदुवाचह/सर्वानृषिवरान्वत्साआनयध्वंममाज्ञया/सशिष्यान्सुहृदश्चैवसर्त्विजःसुबहुश्रुतान्/यदन्योवचनंब्रूयान्मद्वाक्यबलचोदितः/तत्सर्वमखिलेनोक्तंममाख्येयमनादृतम्/तस्यतद्वचनंश्रुत्वादिशोजग्मुस्तदाज्ञया/आजग्मुरथदेशेभ्यःसर्वेभ्योब्रह्मवादिनः/तेचशिष्याःसमागम्यमुनिंज्वलिततेजसं/ऊचुश्चवचनंसर्वेसर्वेषांब्रह्मवादिनाम्/श्रुत्वातेवचनंसर्वेसमायान्तिद्विजातयः/सर्वदेशेषुचागच्छन्वर्जयित्वामहोदयम्/वासिष्ठंतच्छतंसर्वंक्रोधपर्याकुलाक्षरम्/यदाहवचनंसर्वंशृणुत्वंमुनिपुंगव/क्षत्रियोयाजकोयस्यचण्डालस्यविशेषतः/कथंसदसिभोक्तारोहविस्तस्यसुरर्षयः/ब्राह्मणावामहात्मानोभुक्त्वाचण्डालभोजनम्/कथंस्वर्गंगमिष्यन्तिविश्वामित्रेणपालिताः/एतद्वचनंनैष्ठुर्यमूचुःसंरक्तलोचनाः/वासिष्ठामुनिशार्दूलसर्वेतेसमहोदयाः/तेषांतद्वचनंश्रुत्वासर्वेषांमुनिपुंगवः/क्रोधसंरक्तनयनःसरोषमिदमब्रवीत्/यद्दूषयन्त्यदुष्टंमांतपउग्रंसमास्थितम्/भस्मीभूतादुरात्मानोभविष्यन्तिनसंशयः/अद्यतेकालपाशेननीतावैवस्वतक्षयम्/सप्तजातिशतान्येवमृतपाःसन्तुसर्वशः/श्वमांसनियताहारामुष्टिकानामनिर्घृणाः/विकृताश्चविरूपाश्चलोकाननुचरन्त्विमान्/महोदयश्चदुर्बुद्धिर्मामदूष्यंह्यदूषयत्/दूषिटःसर्वलोकेषुनिषादत्वंगमिष्यति/प्राणातिपातनिरतोनिरनुक्रोशतांगतः/दीर्घकालंममक्रोधाद्दुर्गतिंवर्तयिष्यति/एतावदुक्त्वावचनंविश्वामित्रोमहातपाः/विरराममहातेजाऋषिमध्येमहामुनिः/तपोबलहतान्कृत्वावासिष्ठान्समहोदयान्/ऋषिमध्येमहातेजाविश्वामित्रोऽभ्यभाषत/अयमिक्ष्वाकुदायादस्त्रिशङ्कुरितिविश्रुतः/धर्मिष्ठश्चवदान्यश्चमांचैवशरणंगतः/स्वेनानेनशरीरेणदेवलोकजिगीषया/यथायंस्वशरीरेणदेवलोकंगमिष्यति/तथाप्रवर्त्यतांयज्ञोभवद्भिश्चमयासह/विश्वामित्रवचःश्रुत्वासर्वएवमहर्षयः/ऊचुःसमेत्यसहिताधर्मज्ञाधर्मसंहितम्/अयंकुशिकदायादोमुनिःपरमकोपनः/यदाहवचनंसम्यगेतत्कार्यंनसंशयः/अग्निकल्पोहिभगवाञ्शापंदास्यतिरोषितः/तस्मात्प्रवर्त्यतांयज्ञःसशरीरोयथादिवम्/गच्छेदिक्ष्वाकुदायादोविश्वामित्रस्यतेजसा/ततःप्रवर्त्यतांयज्ञःसर्वेसमधितिष्ठते/एवमुक्त्वामहर्षयःसंजह्रुस्ताःक्रियास्तदा/याजकाश्चमहातेजाविश्वामित्रोऽभवत्क्रतौ/ऋत्विजश्चानुपूर्व्येणमन्त्रवन्मन्त्रकोविदाः/चक्रुःसर्वाणिकर्माणियथाकल्पंयथाविधि/ततःकालेनमहताविश्वामित्रोमहातपाः/चकारावाहनंतत्रभागार्थंसर्वदेवताः/नाह्यागमंस्तदाहूताभागार्थंसर्वदेवताः/ततःक्रोधसमाविष्टोविश्वमित्रोमहामुनिः/स्रुवमुद्यम्यसक्रोधस्त्रिशङ्कुमिदमब्रवीत्/पश्यमेतपसोवीर्यंस्वार्जितस्यनरेश्वर/एषत्वांस्वशरीरेणनयामिस्वर्गमोजसा/दुष्प्रापंस्वशरीरेणदिवंगच्छनराधिप/स्वार्जितंकिंचिदप्यस्तिमयाहितपसःफलम्/राजंस्त्वंतेजसातस्यसशरीरोदिवंव्रज/उक्तवाक्येमुनौतस्मिन्सशरीरोनरेश्वरः/दिवंजगामकाकुत्स्थमुनीनांपश्यतांतदा/देवलोकगतंदृष्ट्वात्रिशङ्कुंपाकशासनः/सहसर्वैःसुरगणैरिदंवचनमब्रवीत्/त्रिशङ्कोगच्छभूयस्त्वंनासिस्वर्गकृतालयः/गुरुशापहतोमूढपतभूमिमवाक्शिराः/एवमुक्तोमहेन्द्रेणत्रिशङ्कुरपतत्पुनः/विक्रोशमानस्त्राहीतिविश्वामित्रंतपोधनम्/तच्छ्रुत्वावचनंतस्यक्रोशमानस्यकौशिकः/रोषमाहारयत्तीव्रंतिष्ठतिष्ठेतिचाब्रवीत्/ऋषिमध्येसतेजस्वीप्रजापतिरिवापरः/सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः/नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः/दक्षिणांदिशमास्थायमुनिमध्येमहायशाः/सृष्ट्वानक्षत्रवंशंचक्रोधेनकलुषीकृतः/अन्यमिन्द्रंकरिष्यामिलोकोवास्यादनिन्द्रकः/दैवतान्यपिसक्रोधात्स्रष्टुंसमुपचक्रमे/ततःपरमसंभ्रान्ताःसर्षिसंघाःसुरर्षभाः/विश्वामित्रंमहात्मानमूचुःसानुनयंवचः/अयंराजामहाभागगुरुशापपरिक्षतः/सशरीरोदिवंयातुंनार्हत्येवतपोधन/तेषांतद्वचनंश्रुत्वादेवानांमुनिपुंगवः/अब्रवीत्सुमहद्वाक्यंकौशिकःसर्वदेवताः/सशरीरस्यभद्रंवस्त्रिशङ्कोरस्यभूपतेः/आरोहणंप्रतिज्ञायनानृतंकर्तुमुत्सहे/सर्गोऽस्तुसशरीरस्यत्रिशङ्कोरस्यशाश्वतः/नक्षत्राणिचसर्वाणिमामकानिध्रुवाण्यथ/यावल्लोकाधरिष्यन्तितिष्ठन्त्वेतानिसर्वशः/मत्कृतानिसुराःसर्वेतदनुज्ञातुमर्हथ/एवमुक्ताःसुराःसर्वेप्रत्यूचुर्मुनिपुंगवम्/एवंभवतुभद्रंतेतिष्ठन्त्वेतानिसर्वशः/गगनेतान्यनेकानिवैश्वानरपथाद्बहिः/नक्षत्राणिमुनिश्रेष्ठतेषुज्योतिःषुजाज्वलन्/अवाक्शिरास्त्रिशङ्कुश्चतिष्ठत्वमरसंनिभः/विश्वामित्रस्तुधर्मात्मासर्वदेवैरभिष्टुतः/ऋषिभिश्चमहातेजाबाढमित्याहदेवताः/ततोदेवामहात्मानोमुनयश्चतपोधनाः/जग्मुर्यथागतंसर्वेयज्ञस्यान्तेनरोत्तम/विश्वामित्रोमहात्माथप्रस्थितान्प्रेक्ष्यतानृषीन्/अब्रवीन्नरशार्दूलसर्वांस्तान्वनवासिनः/महाविघ्नःप्रवृत्तोऽयंदक्षिणामास्थितोदिशम्/दिशमन्यांप्रपत्स्यामस्तत्रतप्स्यामहेतपः/पश्चिमायांविशालायांपुष्करेषुमहात्मनः/सुखंतपश्चरिष्यामःपरंतद्धितपोवनम्/एवमुक्त्वामहातेजाःपुष्करेषुमहामुनिः/तपउग्रंदुराधर्षंतेपेमूलफलाशनः/एतस्मिन्नेवकालेतुअयोध्याधिपतिर्नृपः/अम्बरीषइतिख्यातोयष्टुंसमुपचक्रमे/तस्यवैयजमानस्यपशुमिन्द्रोजहारह/प्रनष्टेतुपशौविप्रोराजानमिदमब्रवीत्/पशुरद्यहृतोराजन्प्रनष्टस्तवदुर्नयात्/अरक्षितारंराजानंघ्नन्तिदोषानरेश्वर/प्रायश्चित्तंमहद्ध्येतन्नरंवापुरुषर्षभ/आनयस्वपशुंशीघ्रंयावत्कर्मप्रवर्तते/उपाध्यायवचःश्रुत्वासराजापुरुषर्षभ/अन्वियेषमहाबुद्धिःपशुंगोभिःसहस्रशः/देशाञ्जनपदांस्तांस्तान्नगराणिवनानिच/आश्रमाणिचपुण्यानिमार्गमाणोमहीपतिः/सपुत्रसहितंतातसभार्यंरघुनन्दन/भृगुतुन्देसमासीनमृचीकंसंददर्शह/तमुवाचमहातेजाःप्रणम्याभिप्रसाद्यच/ब्रह्मर्षिंतपसादीप्तंराजर्षिरमितप्रभः/पृष्ट्वासर्वत्रकुशलमृचीकंतमिदंवचः/गवांशतसहस्रेणविक्रिणीषेसुतंयदि/पशोरर्थेमहाभागकृतकृत्योऽस्मिभार्गव/सर्वेपरिसृतादेशायज्ञियंनलभेपशुम्/दातुमर्हसिमूल्येनसुतमेकमितोमम/एवमुक्तोमहातेजाऋचीकस्त्वब्रवीद्वचः/नाहंज्येष्ठंनरश्रेष्ठंविक्रीणीयांकथंचन/ऋचीकस्यवचःश्रुत्वातेषांमातामहात्मनाम्/उवाचनरशार्दूलमम्बरीषंतपस्विनी/ममापिदयितंविद्धिकनिष्ठंशुनकंनृप/प्रायेणहिनरश्रेष्ठज्येष्ठाःपितृषुवल्लभाः/मात्ःणांचकनीयांसस्तस्माद्रक्षेकनीयसं/उक्तवाक्येमुनौतस्मिन्मुनिपत्न्यांतथैवच/शुनःशेपःस्वयंराममध्यमोवाक्यमब्रवीत्/पिताज्येष्ठमविक्रेयंमाताचाहकनीयसं/विक्रीतंमध्यमंमन्येराजन्पुत्रंनयस्वमाम्/गवांशतसहस्रेणशुनःशेपंनरेश्वरः/गृहीत्वापरमप्रीतोजगामरघुनन्दन/अम्बरीषस्तुराजर्षीरथमारोप्यसत्वरः/शुनःशेपंमहातेजाजगामाशुमहायशाः/162/शुनःशेपंनरश्रेष्ठगृहीत्वातुमहायशाः/व्यश्राम्यत्पुष्करेराजामध्याह्नेरघुनन्दन/तस्यविश्रममाणस्यशुनःशेपोमहायशाः/पुष्करंश्रेष्ठमागम्यविश्वामित्रंददर्शह/विषण्णवदनोदीनस्तृष्णयाचश्रमेणच/पपाताङ्केमुनेरामवाक्यंचेदमुवाचह/नमेऽस्तिमातानपिताज्ञातयोबान्धवाःकुतः/त्रातुमर्हसिमांसौम्यधर्मेणमुनिपुंगव/त्रातात्वंहिमुनिश्रेष्ठसर्वेषांत्वंहिभावनः/राजाचकृतकार्यःस्यादहंदीर्घायुरव्ययः/स्वर्गलोकमुपाश्नीयांतपस्तप्त्वाह्यनुत्तमम्/समेनाथोह्यनाथस्यभवभव्येनचेतसा/पितेवपुत्रंधर्मात्मंस्त्रातुमर्हसिकिल्बिषात्/तस्यतद्वचनंश्रुत्वाविश्वामित्रोमहातपाः/सान्त्वयित्वाबहुविधंपुत्रानिदमुवाचह/यत्कृतेपितरःपुत्राञ्जनयन्तिशुभार्थिनः/परलोकहितार्थायतस्यकालोऽयमागतः/अयंमुनिसुतोबालोमत्तःशरणमिच्छति/अस्यजीवितमात्रेणप्रियंकुरुतपुत्रकाः/सर्वेसुकृतकर्माणःसर्वेधर्मपरायणाः/पशुभूतानरेन्द्रस्यतृप्तिमग्नेःप्रयच्छत/नाथवांश्चशुनःशेपोयज्ञश्चाविघ्नतोभवेत्/देवतास्तर्पिताश्चस्युर्ममचापिकृतंवचः/मुनेस्तुवचनंश्रुत्वामधुष्यन्दादयःसुताः/साभिमानंनरश्रेष्ठसलीलमिदमब्रुवन्/कथमात्मसुतान्हित्वात्रायसेऽन्यसुतंविभो/अकार्यमिवपश्यामःश्वमांसमिवभोजने/तेषांतद्वचनंश्रुत्वापुत्राणांमुनिपुंगवः/क्रोधसंरक्तनयनोव्याहर्तुमुपचक्रमे/निःसाध्वसमिदंप्रोक्तंधर्मादपिविगर्हितम्/अतिक्रम्यतुमद्वाक्यंदारुणंरोमहर्षणम्/श्वमांसभोजिनःसर्वेवासिष्ठाइवजातिषु/पूर्णंवर्षसहस्रंतुपृथिव्यामनुवत्स्यथ/कृत्वाशापसमायुक्तान्पुत्रान्मुनिवरस्तदा/शुनःशेपमुवाचार्तंकृत्वारक्षांनिरामयाम्/पवित्रपाशैरासक्तोरक्तमाल्यानुलेपनः/वैष्णवंयूपमासाद्यवाग्भिरग्निमुदाहर/इमेतुगाथेद्वेदिव्येगायेथामुनिपुत्रक/अम्बरीषस्ययज्ञेऽस्मिंस्ततःसिद्धिमवाप्स्यसि/शुनःशेपोगृहीत्वातेद्वेगाथेसुसमाहितः/त्वरयाराजसिंहंतमम्बरीषमुवाचह/राजसिंहमहासत्त्वशीघ्रंगच्छावहेसदः/निवर्तयस्वराजेन्द्रदीक्षांचसमुपाहर/तद्वाक्यमृषिपुत्रस्यश्रुत्वाहर्षंसमुत्सुकः/जगामनृपतिःशीघ्रंयज्ञवाटमतन्द्रितः/सदस्यानुमतेराजापवित्रकृतलक्षणम्/पशुंरक्ताम्बरंकृत्वायूपेतंसमबन्धयत्/सबद्धोवाग्भिरग्र्याभिरभितुष्टाववैसुरौ/इन्द्रमिन्द्रानुजंचैवयथावन्मुनिपुत्रकः/ततःप्रीतःसहस्राक्षोरहस्यस्तुतितर्पितः/दीर्घमायुस्तदाप्रादाच्छुनःशेपायराघव/सचराजानरश्रेष्ठयज्ञस्यचसमाप्तवान्/फलंबहुगुणंरामसहस्राक्षप्रसादजम्/विश्वामित्रोऽपिधर्मात्माभूयस्तेपेमहातपाः/पुष्करेषुनरश्रेष्ठदशवर्षशतानिच/पूर्णेवर्षसहस्रेतुव्रतस्नातंमहामुनिम्/अभ्यागच्छन्सुराःसर्वेतपःफलचिकीर्षवः/अब्रवीत्सुमहातेजाब्रह्मासुरुचिरंवचः/ऋषिस्त्वमसिभद्रंतेस्वार्जितैःकर्मभिःशुभैः/तमेवमुक्त्वादेवेशस्त्रिदिवंपुनरभ्यगात्/विश्वामित्रोमहातेजाभूयस्तेपेमहत्तपः/ततःकालेनमहतामेनकापरमाप्सराः/पुष्करेषुनरश्रेष्ठस्नातुंसमुपचक्रमे/तांददर्शमहातेजामेनकांकुशिकात्मजः/रूपेणाप्रतिमांतत्रविद्युतंजलदेयथा/दृष्ट्वाकन्दर्पवशगोमुनिस्तामिदमब्रवीत्/अप्सरःस्वागतंतेऽस्तुवसचेहममाश्रमे/अनुगृह्णीष्वभद्रंतेमदनेनसुमोहितम्/इत्युक्तासावरारोहातत्रावासमथाकरोत्/तपसोहिमहाविघ्नोविश्वामित्रमुपागतः/तस्यांवसन्त्यांवर्षाणिपञ्चपञ्चचराघव/विश्वामित्राश्रमेसौम्यसुखेनव्यतिचक्रमुः/अथकालेगतेतस्मिन्विश्वामित्रोमहामुनिः/सव्रीडइवसंवृत्तश्चिन्ताशोकपरायणः/बुद्धिर्मुनेःसमुत्पन्नासामर्षारघुनन्दन/सर्वंसुराणांकर्मैतत्तपोऽपहरणंमहत्/अहोरात्रापदेशेनगताःसंवत्सरादश/काममोहाभिभूतस्यविघ्नोऽयंप्रत्युपस्थितः/विनिःश्वसन्मुनिवरःपश्चात्तापेनदुःखितः/भीतामप्सरसंदृष्ट्वावेपन्तींप्राञ्जलिंस्थिताम्/मेनकांमधुरैर्वाक्यैर्विसृज्यकुशिकात्मजः/उत्तरंपर्वतंरामविश्वामित्रोजगामह/सकृत्वानैष्ठिकींबुद्धिंजेतुकामोमहायशाः/कौशिकीतीरमासाद्यतपस्तेपेसुदारुणम्/तस्यवर्षसहस्रंतुघोरंतपउपासतः/उत्तरेपर्वतेरामदेवतानामभूद्भयम्/अमन्त्रयन्समागम्यसर्वेसर्षिगणाःसुराः/महर्षिशब्दंलभतांसाध्वयंकुशिकात्मजः/देवतानांवचःश्रुत्वासर्वलोकपितामहः/अब्रवीन्मधुरंवाक्यंविश्वामित्रंतपोधनम्/महर्षेस्वागतंवत्सतपसोग्रेणतोषितः/महत्त्वमृषिमुख्यत्वंददामितवकौशिक/ब्रह्मणःसवचःश्रुत्वाविश्वामित्रस्तपोधनः/प्राञ्जलिःप्रणतोभूत्वाप्रत्युवाचपितामहम्/ब्रह्मर्षिशब्दमतुलंस्वार्जितैःकर्मभिःशुभैः/यदिमेभगवानाहततोऽहंविजितेन्द्रियः/तमुवाचततोब्रह्मानतावत्त्वंजितेन्द्रियः/यतस्वमुनिशार्दूलइत्युक्त्वात्रिदिवंगतः/विप्रस्थितेषुदेवेषुविश्वामित्रोमहामुनिः/ऊर्ध्वबाहुर्निरालम्बोवायुभक्षस्तपश्चरन्/धर्मेपञ्चतपाभूत्वावर्षास्वाकाशसंश्रयः/शिशिरेसलिलस्थायीरात्र्यहानितपोधनः/एवंवर्षसहस्रंहितपोघोरमुपागमत्/तस्मिन्संतप्यमानेतुविश्वामित्रेमहामुनौ/संभ्रमःसुमहानासीत्सुराणांवासवस्यच/रम्भामप्सरसंशक्रःसहसर्वैर्मरुद्गणैः/उवाचात्महितंवाक्यमहितंकौशिकस्यच/सुरकार्यमिदंरम्भेकर्तव्यंसुमहत्त्वया/लोभनंकौशिकस्येहकाममोहसमन्वितम्/तथोक्तासाप्सरारामसहस्राक्षेणधीमता/व्रीडिताप्राञ्जलिर्भूत्वाप्रत्युवाचसुरेश्वरम्/अयंसुरपतेघोरोविश्वामित्रोमहामुनिः/क्रोधमुत्स्रक्ष्यतेघोरंमयिदेवनसंशयः/ततोहिमेभयंदेवप्रसादंकर्तुमर्हसि/तामुवाचसहस्राक्षोवेपमानांकृताञ्जलिम्/माभैषिरम्भेभद्रंतेकुरुष्वममशासनम्/कोकिलोहृदयग्राहीमाधवेरुचिरद्रुमे/अहंकन्दर्पसहितःस्थास्यामितवपार्श्वतः/त्वंहिरूपंबहुगुणंकृत्वापरमभास्वरम्/तमृषिंकौशिकंरम्भेभेदयस्वतपस्विनम्/साश्रुत्वावचनंतस्यकृत्वारूपमनुत्तमम्/लोभयामासललिताविश्वामित्रंशुचिस्मिता/कोकिलस्यतुशुश्राववल्गुव्याहरतःस्वनम्/संप्रहृष्टेनमनसाततएनामुदैक्षत/अथतस्यचशब्देनगीतेनाप्रतिमेनच/दर्शनेनचरम्भायामुनिःसंदेहमागतः/सहस्राक्षस्यतत्कर्मविज्ञायमुनिपुंगवः/रम्भांक्रोधसमाविष्टःशशापकुशिकात्मजः/यन्मांलोभयसेरम्भेकामक्रोधजयैषिणम्/दशवर्षसहस्राणिशैलीस्थास्यसिदुर्भगे/ब्राह्मणःसुमहातेजास्तपोबलसमन्वितः/उद्धरिष्यतिरम्भेत्वांमत्क्रोधकलुषीकृताम्/एवमुक्त्वामहातेजाविश्वामित्रोमहामुनिः/अशक्नुवन्धारयितुंकोपंसंतापमागतः/तस्यशापेनमहतारम्भाशैलीतदाभवत्/वचःश्रुत्वाचकन्दर्पोमहर्षेःसचनिर्गतः/कोपेनसमहातेजास्तपोऽपहरणेकृते/इन्द्रियैरजितैरामनलेभेशान्तिमात्मनः/अथहैमवतींरामदिशंत्यक्त्वामहामुनिः/पूर्वांदिशमनुप्राप्यतपस्तेपेसुदारुणम्/मौनंवर्षसहस्रस्यकृत्वाव्रतमनुत्तमम्/चकाराप्रतिमंरामतपःपरमदुष्करम्/पूर्णेवर्षसहस्रेतुकाष्ठभूतंमहामुनिम्/विघ्नैर्बहुभिराधूतंक्रोधोनान्तरमाविशत्/ततोदेवाःसगन्धर्वाःपन्नगासुरराक्षसाः/मोहितास्तेजसातस्यतपसामन्दरश्मयः/कश्मलोपहताःसर्वेपितामहमथाब्रुवन्/बहुभिःकारणैर्देवविश्वामित्रोमहामुनिः/लोभितःक्रोधितश्चैवतपसाचाभिवर्धते/नह्यस्यवृजिनंकिंचिद्दृश्यतेसूक्ष्ममप्यथ/नदीयतेयदित्वस्यमनसायदभीप्सितम्/विनाशयतित्रैलोक्यंतपसासचराचरम्/व्याकुलाश्चदिशःसर्वानचकिंचित्प्रकाशते/सागराःक्षुभिताःसर्वेविशीर्यन्तेचपर्वताः/प्रकम्पतेचपृथिवीवायुर्वातिभृशाकुलः/बुद्धिंनकुरुतेयावन्नाशेदेवमहामुनिः/तावत्प्रसाद्योभगवानग्निरूपोमहाद्युतिः/कालाग्निनायथापूर्वंत्रैलोक्यंदह्यतेऽखिलम्/देवराज्येचिकीर्षेतदीयतामस्ययन्मतम्/ततःसुरगणाःसर्वेपितामहपुरोगमाः/विश्वामित्रंमहात्मानंवाक्यंमधुरमब्रुवन्/ब्रह्मर्षेस्वागतंतेऽस्तुतपसास्मसुतोषिताः/ब्राह्मण्यंतपसोग्रेणप्राप्तवानसिकौशिक/दीर्घमायुश्चतेब्रह्मन्ददामिसमरुद्गणः/स्वस्तिप्राप्नुहिभद्रंतेगच्छसौम्ययथासुखम्/पितामहवचःश्रुत्वासर्वेषांचदिवौकसाम्/कृत्वाप्रणामंमुदितोव्याजहारमहामुनिः/ब्राह्मण्यंयदिमेप्राप्तंदीर्घमायुस्तथैवच/ओंकारोऽथवषट्कारोवेदाश्चवरयन्तुमाम्/क्षत्रवेदविदांश्रेष्ठोब्रह्मवेदविदामपि/ब्रह्मपुत्रोवसिष्ठोमामेवंवदतुदेवताः/यद्ययंपरमःकामःकृतोयान्तुसुरर्षभाः/ततःप्रसादितोदेवैर्वसिष्ठोजपतांवरः/सख्यंचकारब्रह्मर्षिरेवमस्त्वितिचाब्रवीत्/ब्रह्मर्षित्वंनसंदेहःसर्वंसंपत्स्यतेतव/इत्युक्त्वादेवताश्चापिसर्वाजग्मुर्यथागतम्/विश्वामित्रोऽपिधर्मात्मालब्ध्वाब्राह्मण्यमुत्तमम्/पूजयामासब्रह्मर्षिंवसिष्ठंजपतांवरम्/कृतकामोमहींसर्वांचचारतपसिस्थितः/एवंत्वनेनब्राह्मण्यंप्राप्तंराममहात्मना/एषराममुनिश्रेष्ठएषविग्रहवांस्तपः/एषधर्मःपरोनित्यंवीर्यस्यैषपरायणम्/शतानन्दवचःश्रुत्वारामलक्ष्मणसंनिधौ/जनकःप्राञ्जलिर्वाक्यमुवाचकुशिकात्मजम्/धन्योऽस्म्यनुगृहीतोऽस्मियस्यमेमुनिपुंगव/यज्ञंकाकुत्स्थसहितःप्राप्तवानसिधार्मिक/पावितोऽहंत्वयाब्रह्मन्दर्शनेनमहामुने/गुणाबहुविधाःप्राप्तास्तवसंदर्शनान्मया/विस्तरेणचतेब्रह्मन्कीर्त्यमानंमहत्तपः/श्रुतंमयामहातेजोरामेणचमहात्मना/सदस्यैःप्राप्यचसदःश्रुतास्तेबहवोगुणाः/अप्रमेयंतपस्तुभ्यमप्रमेयंचतेबलम्/अप्रमेयागुणाश्चैवनित्यंतेकुशिकात्मज/तृप्तिराश्चर्यभूतानांकथानांनास्तिमेविभो/कर्मकालोमुनिश्रेष्ठलम्बतेरविमण्डलम्/श्वःप्रभातेमहातेजोद्रष्टुमर्हसिमांपुनः/स्वागतंतपसांश्रेष्ठमामनुज्ञातुमर्हसि/एवमुक्त्वामुनिश्रेष्ठंवैदेहोमिथिलाधिपः/प्रदक्षिणंचकाराशुसोपाध्यायःसबान्धवः/विश्वामित्रोऽपिधर्मात्मासहरामःसलक्ष्मणः/स्वंवाटमभिचक्रामपूज्यमानोमहर्षिभिः/ततःप्रभातेविमलेकृतकर्मानराधिपः/विश्वामित्रंमहात्मानमाजुहावसराघवम्/तमर्चयित्वाधर्मात्माशास्त्रदृष्ट्तेनकर्मणा/राघवौचमहात्मानौतदावाक्यमुवाचह/भगवन्स्वागतंतेऽस्तुकिंकरोमितवानघ/भवानाज्ञापयतुमामाज्ञाप्योभवताह्यहम्/एवमुक्तःसधर्मात्माजनकेनमहात्मना/प्रत्युवाचमुनिर्वीरंवाक्यंवाक्यविशारदः/पुत्रौदशरथस्येमौक्षत्रियौलोकविश्रुतौ/द्रष्टुकामौधनुःश्रेष्ठंयदेतत्त्वयितिष्ठति/एतद्दर्शयभद्रंतेकृतकामौनृपात्मजौ/दर्शनादस्यधनुषोयथेष्टंप्रतियास्यतः/एवमुक्तस्तुजनकःप्रत्युवाचमहामुनिम्/श्रूयतामस्यधनुषोयदर्थमिहतिष्ठति/देवरातइतिख्यातोनिमेःषष्ठोमहीपतिः/न्यासोऽयंतस्यभगवन्हस्तेदत्तोमहात्मना/दक्षयज्ञवधेपूर्वंधनुरायम्यवीर्यवान्/रुद्रस्तुत्रिदशान्रोषात्सलिलमिदमब्रवीत्/यस्माद्भागार्थिनोभागान्नाकल्पयतमेसुराः/वराङ्गानिमहार्हाणिधनुषाशातयामिवः/ततोविमनसःसर्वेदेवावैमुनिपुंगव/प्रसादयन्तिदेवेशंतेषांप्रीतोऽभवद्भवः/प्रीतियुक्तःससर्वेषांददौतेषांमहात्मनाम्/तदेतद्देवदेवस्यधनूरत्नंमहात्मनः/न्यासभूतंतदान्यस्तमस्माकंपूर्वकेविभो/अथमेकृषतःक्षेत्रंलाङ्गलादुत्थितामम/क्षेत्रंशोधयतालब्ध्वानाम्नासीतेतिविश्रुता/भूतलादुत्थितासातुव्यवर्धतममात्मजा/वीर्यशुल्केतिमेकन्यास्थापितेयमयोनिजा/भूतलादुत्थितांतांतुवर्धमानांममात्मजाम्/वरयामासुरागम्यराजानोमुनिपुंगव/तेषांवरयतांकन्यांसर्वेषांपृथिवीक्षिताम्/वीर्यशुल्केतिभगवन्नददामिसुतामहम्/ततःसर्वेनृपतयःसमेत्यमुनिपुंगव/मिथिलामभ्युपागम्यवीर्यंजिज्ञासवस्तदा/तेषांजिज्ञासमानानांवीर्यंधनुरुपाहृतम्/नशेकुर्ग्रहणेतस्यधनुषस्तोलनेऽपिवा/तेषांवीर्यवतांवीर्यमल्पंज्ञात्वामहामुने/प्रत्याख्यातानृपतयस्तन्निबोधतपोधन/ततःपरमकोपेनराजानोमुनिपुंगव/अरुन्धन्मिथिलांसर्वेवीर्यसंदेहमागताः/आत्मानमवधूतंतेविज्ञायमुनिपुंगव/रोषेणमहताविष्टाःपीडयन्मिथिलांपुरीम्/ततःसंवत्सरेपूर्णेक्षयंयातानिसर्वशः/साधनानिमुनिरेष्ठततोऽहंभृशदुःखितः/ततोदेवगणान्सर्वांस्तपसाहंप्रसादयम्/ददुश्चपरमप्रीताश्चतुरङ्गबलंसुराः/ततोभग्नानृपतयोहन्यमानादिशोययुः/अवीर्यावीर्यसंदिग्धासामात्याःपापकारिणः/तदेतन्मुनिशार्दूलधनुःपरमभास्वरम्/रामलक्ष्मणयोश्चापिदर्शयिष्यामिसुव्रत/यद्यस्यधनुषोरामःकुर्यादारोपणंमुने/सुतामयोनिजांसीतांदद्यांदाशरथेरहम्/जनकस्यवचःश्रुत्वाविश्वामित्रोमहामुनिः/धनुर्दर्शयरामायइतिहोवाचपार्थिवम्/ततःसराजाजनकःसचिवान्व्यादिदेशह/धनुरानीयतांदिव्यंगन्धमाल्यविभूषितम्/जनकेनसमादिष्ठाःसचिवाःप्राविशन्पुरीम्/तद्धनुःपुरतःकृत्वानिर्जग्मुःपार्थिवाज्ञया/नृपांशतानिपञ्चाशद्व्यायतानांमहात्मनाम्/मञ्जूषामष्टचक्रांतांसमूहस्तेकथंचन/तामादायतुमञ्जूषामायतींयत्रतद्धनुः/सुरोपमंतेजनकमूचुर्नृपतिमन्त्रिणः/इदंधनुर्वरंराजन्पूजितंसर्वराजभिः/मिथिलाधिपराजेन्द्रदर्शनीयंयदीच्छसि/तेषांनृपोवचःश्रुत्वाकृताञ्जलिरभाषत/विश्वामित्रंमहात्मानंतौचोभौरामलक्ष्मणौ/इदंधनुर्वरंब्रह्मञ्जनकैरभिपूजितम्/राजभिश्चमहावीर्यैरशक्यंपूरितुंतदा/नैतत्सुरगणाःसर्वेनासुरानचराक्षसाः/गन्धर्वयक्षप्रवराःसकिंनरमहोरगाः/क्वगतिर्मानुषाणांचधनुषोऽस्यप्रपूरणे/आरोपणेसमायोगेवेपनेतोलनेऽपिवा/तदेतद्धनुषांश्रेष्ठमानीतंमुनिपुंगव/दर्शयैतन्महाभागअनयोराजपुत्रयोः/विश्वामित्रस्तुधर्मात्माश्रुत्वाजनकभाषितम्/वत्सरामधनुःपश्यइतिराघवमब्रवीत्/महर्षेर्वचनाद्रामोयत्रतिष्ठतितद्धनुः/मञ्जूषांतामपावृत्यदृष्ट्वाधनुरथाब्रवीत्/इदंधनुर्वरंब्रह्मन्संस्पृशामीहपाणिना/यत्नवांश्चभविष्यामितोलनेपूरणेऽपिवा/बाढमित्येवतंराजामुनिश्चसमभाषत/लीलयासधनुर्मध्येजग्राहवचनान्मुनेः/पश्यतांनृषहस्राणांबहूनांरघुनन्दनः/आरोपयत्सधर्मात्मासलीलमिवतद्धनुः/आरोपयित्वामौर्वींचपूरयामासवीर्यवान्/तद्बभञ्जधनुर्मध्येनरश्रेष्ठोमहायशाः/तस्यशब्दोमहानासीन्निर्घातसमनिःस्वनः/भूमिकम्पश्चसुमहान्पर्वतस्येवदीर्यतः/निपेतुश्चनराःसर्वेतेनशब्देनमोहिताः/व्रजयित्वामुनिवरंराजानंतौचराघवौ/प्रत्याश्वस्तोजनेतस्मिन्राजाविगतसाध्वसः/उवाचप्राञ्जलिर्वाक्यंवाक्यज्ञोमुनिपुंगवम्/भगवन्दृष्टवीर्योमेरामोदशरथात्मजः/अत्यद्भुतमचिन्त्यंचअतर्कितमिदंमया/जनकानांकुलेकीर्तिमाहरिष्यतिमेसुता/सीताभर्तारमासाद्यरामंदशरथात्मजम्/ममसत्याप्रतिज्ञाचवीर्यशुल्केतिकौशिक/सीताप्राणैर्बहुमतादेयारामायमेसुता/भवतोऽनुमतेब्रह्मञ्शीघ्रंगच्छन्तुमन्त्रिणः/ममकौशिकभद्रंतेअयोध्यांत्वरितारथैः/राजानंप्रश्रितैर्वाक्यैरानयन्तुपुरंमम/प्रदानंवीर्यशुल्काःकथयन्तुचसर्वशः/मुनिगुप्तौचकाकुत्स्थौकथयन्तुनृपायवै/प्रीयमाणंतुराजानमानयन्तुसुशीघ्रगाः/कौशिकश्चतथेत्याहराजाचाभाष्यमन्त्रिणः/अयोध्यांप्रेषयामासधर्मात्माकृतशासनात्/जनकेनसमादिष्टादूतास्तेक्लान्तवाहनाः/त्रिरात्रमुषित्वामार्गेतेऽयोध्यांप्राविशन्पुरीम्/तेराजवचनाद्दूताराजवेश्मप्रवेशिताः/ददृशुर्देवसंकाशंवृद्धंदशरथंनृपम्/बद्धाञ्जलिपुटाःसर्वेदूताविगतसाध्वसाः/राजानंप्रयतावाक्यमब्रुवन्मधुराक्षरम्/मैथिलोजनकोराजासाग्निहोत्रपुरस्कृतः/कुशलंचाव्ययंचैवसोपाध्यायपुरोहितम्/मुहुर्मुहुर्मधुरयास्नेहसंयुक्तयागिरा/जनकस्त्वांमहाराजपृच्छतेसपुरःसरम्/पृष्ट्वाकुशलमव्यग्रंवैदेहोमिथिलाधिपः/कौशिकानुमतेवाक्यंभवन्तमिदमब्रवीत्/पूर्वंप्रतिज्ञाविदितावीर्यशुल्काममात्मजा/राजानश्चकृतामर्षानिर्वीर्याविमुखीकृताः/सेयंममसुताराजन्विश्वामित्रपुरःसरैः/यदृच्छयागतैर्वीरैर्निर्जितातवपुत्रकैः/तच्चराजन्धनुर्दिव्यंमध्येभग्नंमहात्मना/रामेणहिमहाराजमहत्यांजनसंसदि/अस्मैदेयामयासीतावीर्यशुल्कामहात्मने/प्रतिज्ञांतर्तुमिच्छामितदनुज्ञातुमर्हसि/सोपाध्यायोमहाराजपुरोहितपुरस्कृतः/शीघ्रमागच्छभद्रंतेद्रष्टुमर्हसिराघवौ/प्रीतिंचममराजेन्द्रनिर्वर्तयितुमर्हसि/पुत्रयोरुभयोरेवप्रीतिंत्वमपिलप्स्यसे/एवंविदेहाधिपतिर्मधुरंवाक्यमब्रवीत्/विश्वामित्राभ्यनुज्ञातःशतानन्दमतेस्थितः/दूतवाक्यंतुतच्छ्रुत्वाराजापरमहर्षितः/वसिष्ठंवामदेवंचमन्त्रिणोऽन्यांश्चसोऽब्रवीत्/गुप्तःकुशिकपुत्रेणकौसल्यानन्दवर्धनः/लक्ष्मणेनसहभ्रात्राविदेहेषुवसत्यसौ/दृष्टवीर्यस्तुकाकुत्स्थोजनकेनमहात्मना/संप्रदानंसुतायास्तुराघवेकर्तुमिच्छति/यदिवोरोचतेवृत्तंजनकस्यमहात्मनः/पुरींगच्छामहेशीघ्रंमाभूत्कालस्यपर्ययः/मन्त्रिणोबाढमित्याहुःसहसर्वैर्महर्षिभिः/सुप्रीतश्चाब्रवीद्राजाश्वोयात्रेतिसमन्त्रिणः/मन्त्रिणस्तुनरेन्द्रस्यरात्रिंपरमसत्कृताः/ऊषुःप्रमुदिताःसर्वेगुणैःसर्वैःसमन्विताः/ततोरात्र्यांव्यतीतायांसोपाध्यायःसबान्धवः/राजादशरथोहृष्टःसुमन्त्रमिदमब्रवीत्/अद्यसर्वेधनाध्यक्षाधनमादायपुष्कलम्/व्रजन्त्वग्रेसुविहितानानारत्नसमन्विताः/चतुरङ्गबलंचापिशीघ्रंनिर्यातुसर्वशः/ममाज्ञासमकालंचयानयुग्यमनुत्तमम्/वसिष्ठोवामदेवश्चजाबालिरथकाश्यपः/मार्कण्डेयश्चदीर्घायुरृषिःकात्यायनस्तथा/एतेद्विजाःप्रयान्त्वग्रेस्यन्दनंयोजयस्वमे/यथाकालात्ययोनस्याद्दूताहित्वरयन्तिमाम्/वचनाच्चनरेन्द्रस्यसासेनाचतुरङ्गिणी/राजानमृषिभिःसार्धंव्रजन्तंपृष्ठतोऽन्वगात्/गत्वाचतुरहंमार्गंविदेहानभ्युपेयिवान्/राजातुजनकःश्रीमाञ्श्रुत्वापूजामकल्पयत्/ततोराजानमासाद्यवृद्धंदशरथंनृपम्/जनकोमुदितोराजाहर्षंचपरमंययौ/उवाचननरश्रेष्ठोनरश्रेष्ठंमुदान्वितम्/स्वागतंतेमहाराजदिष्ट्याप्राप्तोऽसिराघव/पुत्रयोरुभयोःप्रीतिंलप्स्यसेवीर्यनिर्जिताम्/दिष्ट्याप्राप्तोमहातेजावसिष्ठोभगवानृषिः/सहसर्वैर्द्विजश्रेष्ठैर्देवैरिवशतक्रतुः/दिष्ट्यामेनिर्जिताविघ्नादिष्ट्यामेपूजितंकुलम्/राघवैःसहसंबन्धाद्वीर्यश्रेष्ठैर्महात्मभिः/श्वःप्रभातेनरेन्द्रेन्द्रनिर्वर्तयितुमर्हसि/यज्ञस्यान्तेनरश्रेष्ठविवाहमृषिसंमतम्/तस्यतद्वचनंश्रुत्वाऋषिमध्येनराधिपः/वाक्यंवाक्यविदांश्रेष्ठःप्रत्युवाचमहीपतिम्/प्रतिग्रहोदातृवशःश्रुतमेतन्मयापुरा/यथावक्ष्यसिधर्मज्ञतत्करिष्यामहेवयम्/तद्धर्मिष्ठंयशस्यंचवचनंसत्यवादिनः/श्रुत्वाविदेहाधिपतिःपरंविस्मयमागतः/ततःसर्वेमुनिगणाःपरस्परसमागमे/हर्षेणमहतायुक्तास्तांनिशामवसन्सुखम्/राजाचराघवौपुत्रौनिशाम्यपरिहर्षितः/उवासपरमप्रीतोजनकेनसुपूजितः/जनकोऽपिमहातेजाःक्रियाधर्मेणतत्त्ववित्/यज्ञस्यचसुताभ्यांचकृत्वारात्रिमुवासह/ततःप्रभातेजनकःकृतकर्मामहर्षिभिः/उवाचवाक्यंवाक्यज्ञःशतानन्दंपुरोहितम्/भ्रातामममहातेजायवीयानतिधार्मिकः/कुशध्वजइतिख्यातःपुरीमध्यवसच्छुभाम्/वार्याफलकपर्यन्तांपिबन्निक्षुमतींनदीम्/सांकाश्यांपुण्यसंकाशांविमानमिवपुष्पकम्/तमहंद्रष्टुमिच्छामियज्ञगोप्तासमेमतः/प्रीतिंसोऽपिमहातेजाइंमांभोक्तामयासह/शासनात्तुनरेन्द्रस्यप्रययुःशीघ्रवाजिभिः/समानेतुंनरव्याघ्रंविष्णुमिन्द्राज्ञयायथा/आज्ञयातुनरेन्द्रस्यआजगामकुशध्वजः/सददर्शमहात्मानंजनकंधर्मवत्सलम्/सोऽभिवाद्यशतानन्दंराजानंचापिधार्मिकम्/राजार्हंपरमंदिव्यमासनंचाध्यरोहत/उपविष्टावुभौतौतुभ्रातरावमितौजसौ/प्रेषयामासतुर्वीरौमन्त्रिश्रेष्ठंसुदामनम्/गच्छमन्त्रिपतेशीघ्रमैक्ष्वाकममितप्रभम्/आत्मजैःसहदुर्धर्षमानयस्वसमन्त्रिणम्/औपकार्यांसगत्वातुरघूणांकुलवर्धनम्/ददर्शशिरसाचैनमभिवाद्येदमब्रवीत्/अयोध्याधिपतेवीरवैदेहोमिथिलाधिपः/सत्वांद्रष्टुंव्यवसितःसोपाध्यायपुरोहितम्/मन्त्रिश्रेष्ठवचःश्रुत्वाराजासर्षिगणस्तदा/सबन्धुरगमत्तत्रजनकोयत्रवर्तते/सराजामन्त्रिसहितःसोपाध्यायःसबान्धवः/वाक्यंवाक्यविदांश्रेष्ठोवैदेहमिदमब्रवीत्/विदितंतेमहाराजइक्ष्वाकुकुलदैवतम्/वक्तासर्वेषुकृत्येषुवसिष्ठोभगवानृषिः/विश्वामित्राभ्यनुज्ञातःसहसर्वैर्महर्षिभिः/एषवक्ष्यतिधर्मात्मावसिष्ठोमेयथाक्रमम्/तूष्णींभूतेदशरथेवसिष्ठोभगवानृषिः/उवाचवाक्यंवाक्यज्ञोवैदेहंसपुरोहितम्/अव्यक्तप्रभवोब्रह्माशाश्वतोनित्यअव्ययः/तस्मान्मरीचिःसंजज्ञेमरीचेःकश्यपःसुतः/विवस्वान्कश्यपाज्जज्ञेमनुर्वैवैवतःस्मृतः/मनुःप्रजापतिःपूर्वमिक्ष्वाकुस्तुमनोःसुतः/तमिक्ष्वाकुमयोध्यायांराजानंविद्धिपूर्वकम्/इक्ष्वाकोस्तुसुतःश्रीमान्विकुक्षिरुदपद्यत/विकुक्षेस्तुमहातेजाबाणःपुत्रःप्रतापवान्/बाणस्यतुमहातेजाअनरण्यःप्रतापवान्/अनरण्यात्पृथुर्जज्ञेत्रिशङ्कुस्तुपृथोःसुतः/त्रिशङ्कोरभवत्पुत्रोधुन्धुमारोमहायशाः/धुन्धुमारान्महातेजायुवनाश्वोमहारथः/युवनाश्वसुतःश्रीमान्मान्धातापृथिवीपतिः/मान्धातुस्तुसुतःश्रीमान्सुसंधिरुदपद्यत/सुसंधेरपिपुत्रौद्वौध्रुवसंधिःप्रसेनजित्/यशस्वीध्रुवसंधेस्तुभरतोनामनामतः/भरतात्तुमहातेजाअसितोनामजायत/सहतेनगरेणैवजातःससगरोऽभवत्/सगरस्यासमञ्जस्तुअसमञ्जादथांशुमान्/दिलीपोऽंशुमतःपुत्रोदिलीपस्यभगीरथः/भगीरथात्ककुत्स्थश्चककुत्स्थस्यरघुस्तथा/रघोस्तुपुत्रस्तेजस्वीप्रवृद्धःपुरुषादकः/कल्माषपादोह्यभवत्तस्माज्जातस्तुशङ्खणः/सुदर्शनःशङ्खणस्यअग्निवर्णःसुदर्शनात्/शीघ्रगस्त्वग्निवर्णस्यशीघ्रगस्यमरुःसुतः/मरोःप्रशुश्रुकस्त्वासीदम्बरीषःप्रशुश्रुकात्/अम्बरीषस्यपुत्रोऽभून्नहुषःपृथिवीपतिः/नहुषस्यययातिस्तुनाभागस्तुययातिजः/नाभागस्यभभूवाजअजाद्दशरथोऽभवत्/तस्माद्दशरथाज्जातौभ्रातरौरामलक्ष्मणौ/आदिवंशविशुद्धानांराज्ञांपरमधर्मिणाम्/इक्ष्वाकुकुलजातानांवीराणांसत्यवादिनाम्/रामलक्ष्मणयोरर्थेत्वत्सुतेवरयेनृप/सदृशाभ्यांनरश्रेष्ठसदृशेदातुमर्हसि/एवंब्रुवाणंजनकःप्रत्युवाचकृताञ्जलिः/श्रोतुमर्हसिभद्रंतेकुलंनःकीर्तितंपरम्/प्रदानेहिमुनिश्रेष्ठकुलंनिरवशेषतः/वक्तव्यंकुलजातेनतन्निबोधमहामुने/राजाभूत्त्रिषुलोकेषुविश्रुतःस्वेनकर्मणा/निमिःपरमधर्मात्मासर्वसत्त्ववतांवरः/तस्यपुत्रोमिथिर्नामजनकोमिथिपुत्रकः/प्रथमोजनकोनामजनकादप्युदावसुः/उदावसोस्तुधर्मात्माजातोवैनन्दिवर्धनः/नन्दिवर्धनपुत्रस्तुसुकेतुर्नामनामतः/सुकेतोरपिधर्मात्मादेवरातोमहाबलः/देवरातस्यराजर्षेर्बृहद्रथइतिश्रुतः/बृहद्रथस्यशूरोऽभून्महावीरःप्रतापवान्/महावीरस्यधृतिमान्सुधृतिःसत्यविक्रमः/सुधृतेरपिधर्मात्माधृष्टकेतुःसुधार्मिकः/धृष्टकेतोस्तुराजर्षेर्हर्यश्वइतिविश्रुतः/हर्यश्वस्यमरुःपुत्रोमरोःपुत्रःप्रतीन्धकः/प्रतीन्धकस्यधर्मात्माराजाकीर्तिरथःसुतः/पुत्रःकीर्तिरथस्यापिदेवमीढइतिस्मृतः/देवमीढस्यविबुधोविबुधस्यमहीध्रकः/महीध्रकसुतोराजाकीर्तिरातोमहाबलः/कीर्तिरातस्यराजर्षेर्महारोमाव्यजायत/महारोंणस्तुधर्मात्मास्वर्णरोमाव्यजायत/स्वर्णरोंणस्तुराजर्षेर्ह्रस्वरोमाव्यजायत/तस्यपुत्रद्वयंजज्ञेधर्मज्ञस्यमहात्मनः/ज्येष्ठोऽहमनुजोभ्राताममवीरःकुशध्वजः/मांतुज्येष्ठंपिताराज्येसोऽभिषिच्यनराधिपः/कुशध्वजंसमावेश्यभारंमयिवनंगतः/वृद्धेपितरिस्वर्यातेधर्मेणधुरमावहम्/भ्रातरंदेवसंकाशंस्नेहात्पश्यन्कुशध्वजम्/कस्यचित्त्वथकालस्यसांकाश्यादगमत्पुरात्/सुधन्वावीर्यवान्राजामिथिलामवरोधकः/सचमेप्रेषयामासशैवंधनुरनुत्तमम्/सीताकन्याचपद्माक्षीमह्यंवैदीयतामिति/तस्याप्रदानाद्ब्रह्मर्षेयुद्धमासीन्मयासह/सहतोऽभिमुखोराजासुधन्वातुमयारणे/निहत्यतंमुनिश्रेष्ठसुधन्वानंनराधिपम्/सांकाश्येभ्रातरंशूरमभ्यषिञ्चंकुशध्वजम्/कनीयानेषमेभ्राताअहंज्येष्ठोमहामुने/ददामिपरमप्रीतोवध्वौतेमुनिपुंगव/सीतांरामायभद्रंतेऊर्मिलांलक्ष्मणायच/वीर्यशुल्कांममसुतांसीतांसुरसुतोपमाम्/द्वितीयामूर्मिलांचैवत्रिर्वदामिनसंशयः/ददामिपरमप्रीतोवध्वौतेरघुनन्दन/रामलक्ष्मणयोराजन्गोदानंकारयस्वह/पितृकार्यंचभद्रंतेततोवैवाहिकंकुरु/मघाह्यद्यमहाबाहोतृतीयेदिवसेप्रभो/फल्गुन्यामुत्तरेराजंस्तस्मिन्वैवाहिकंकुरु/रामलक्ष्मणयोरर्थेदानंकार्यंसुखोदयम्/तमुक्तवन्तंवैदेहंविश्वामित्रोमहामुनिः/उवाचवचनंवीरंवसिष्ठसहितोनृपम्/अचिन्त्यान्यप्रमेयानिकुलानिनरपुंगव/इक्ष्वाकूणांविदेहानांनैषांतुल्योऽस्तिकश्चन/सदृशोधर्मसंबन्धःसदृशोरूपसंपदा/रामलक्ष्मणयोराजन्सीताचोर्मिलयासह/वक्तव्यंननरश्रेष्ठश्रूयतांवचनंमम/भ्रातायवीयान्धर्मज्ञएषराजाकुशध्वजः/अस्यधर्मात्मनोराजन्रूपेणाप्रतिमंभुवि/सुताद्वयंनरश्रेष्ठपत्न्यर्थंवरयामहे/भरतस्यकुमारस्यशत्रुघ्नस्यचधीमतः/वरयेमसुतेराजंस्तयोरर्थेमहात्मनोः/पुत्रादशरथस्येमेरूपयौवनशालिनः/लोकपालोपमाःसर्वेदेवतुल्यपराक्रमाः/उभयोरपिराजेन्द्रसंबन्धेनानुबध्यताम्/इक्ष्वाकुकुलमव्यग्रंभवतःपुण्यकर्मणः/विश्वामित्रवचःश्रुत्वावसिष्ठस्यमतेतदा/जनकःप्राञ्जलिर्वाक्यमुवाचमुनिपुंगवौ/सदृशंकुलसंबन्धंयदाज्ञापयथःस्वयम्/एवंभवतुभद्रंवःकुशध्वजसुतेइमे/पत्न्यौभजेतांसहितौशत्रुघ्नभरतावुभौ/एकाह्नाराजपुत्रीणांचतस्ःणांमहामुने/पाणीन्गृह्णन्तुचत्वारोराजपुत्रामहाबलाः/उत्तरेदिवसेब्रह्मन्फल्गुनीभ्यांमनीषिणः/वैवाहिकंप्रशंसन्तिभगोयत्रप्रजापतिः/एवमुक्त्वावचःसौम्यंप्रत्युत्थायकृताञ्जलिः/उभौमुनिवरौराजाजनकोवाक्यमब्रवीत्/परोधर्मःकृतोमह्यंशिष्योऽस्मिभवतोःसदा/इमान्यासनमुख्यानिआसेतांमुनिपुंगवौ/यथादशरथस्येयंतथायोध्यापुरीमम/प्रभुत्वेनासित्संदेहोयथार्हंकर्तुमर्हथः/तथाब्रुवतिवैदेहेजनकेरघुनन्दनः/राजादशरथोहृष्टःप्रत्युवाचमहीपतिम्/युवामसंख्येयगुणौभ्रातरौमिथिलेश्वरौ/ऋषयोराजसंघाश्चभवद्भ्यामभिपूजिताः/स्वस्तिप्राप्नुहिभद्रंतेगमिष्यामिस्वमालयम्/श्राद्धकर्माणिसर्वाणिविधास्यइतिचाब्रवीत्/तमापृष्ट्वानरपतिंराजादशरथस्तदा/मुनीन्द्रौतौपुरस्कृत्यजगामाशुमहायशाः/सगत्वानिलयंराजाश्राद्धंकृत्वाविधानतः/प्रभातेकाल्यमुत्थायचक्रेगोदानमुत्तमम्/गवांशतसहस्राणिब्राह्मणेभ्योनराधिपः/एकैकशोददौराजापुत्रानुद्धिश्यधर्मतः/सुवर्णशृङ्गाःसंपन्नाःसवत्साःकांस्यदोहनाः/गवांशतसहस्राणिचत्वारिपुरुषर्षभः/वित्तमन्यच्चसुबहुद्विजेभ्योरघुनन्दनः/ददौगोदानमुद्दिश्यपुत्राणांपुत्रवत्सलः/ससुतैःकृतगोदानैर्वृतश्चनृपतिस्तदा/लोकपालैरिवाभातिवृतःसौम्यःप्रजापतिः/यस्मिंस्तुदिवसेराजाचक्रेगोदानमुत्तमम्/तस्मिंस्तुदिवसेशूरोयुधाजित्समुपेयिवान्/पुत्रःकेकयराजस्यसाक्षाद्भरतमातुलः/दृष्ट्वापृष्ट्वाचकुशलंराजानमिदमब्रवीत्/केकयाधिपतीराजास्नेहात्कुशलमब्रवीत्/येषांकुशलकामोऽसितेषांसंप्रत्यनामयम्/स्वस्रीयंममराजेन्द्रद्रष्टुकामोमहीपते/तदर्थमुपयातोऽहमयोध्यांरघुनन्दन/श्रुत्वात्वहय्मयोध्यायांविवाहार्थंतावात्मजान्/मिथिलामुपयातास्तुत्वयासहमहीपते/त्वरयाभुपयातोऽहंद्रष्टुकामःस्वसुःसुतम्/अथराजादशरथःप्रियातिथिमुपस्थिम/दृष्ट्वापरमसत्कारैःपूजार्हंसमपूजयत्/ततस्तामुषितोरात्रिंसहपुत्रैर्महात्मभिः/ऋषींस्तदापुरस्कृत्ययज्ञवाटमुपागमत्/युक्तेमुहूर्तेविजयेसर्वाभरणभूषितैः/भ्रातृभिःसहितोरामःकृतकौतुकमङ्गलः/वसिष्ठंपुरतःकृत्वामहर्षीनपरानपि/राजारशरथोराजन्कृतकौतुकमङ्गलैः/पुत्रैर्नरवरश्रेष्ठदातारमभिकाङ्क्षते/दातृप्रतिग्रहीतृभ्यांसर्वार्थाःप्रभवन्तिहि/स्वधर्मंप्रतिपद्यस्वकृत्वावैवाह्यमुत्तमम्/इत्युक्तःपरमोदारोवसिष्ठेनमहात्मना/प्रत्युवाचमहातेजावाक्यंपरमधर्मवित्/कःस्थितःप्रतिहारोमेकस्याज्ञासंप्रतीक्ष्यते/स्वगृहेकोविचारोऽस्तियथाराज्यमिदंतव/कृतकौतुकसर्वस्वावेदिमूलमुपागताः/ममकन्यामुनिश्रेष्ठदीप्तावह्नेरिवार्चिषः/सज्जोऽहंत्वत्प्रतीक्षोऽस्मिवेद्यामस्यांप्रतिष्हितः/अविघ्नंकुरुतांराजाकिमर्थंहिविलम्ब्यते/तद्वाक्यंजनकेनोक्तंश्रुत्वादशरथस्तदा/प्रवेशयामाससुतान्सर्वानृषिगणानपि/अब्रवीज्जनकोराजाकौसल्यानन्दवर्धनम्/इयंसीताममसुतासहधर्मचरीतव/प्रतीच्छचैनांभद्रंतेपाणिंगृह्णीष्वपाणिना/लक्ष्मणागच्छभद्रंतेऊर्मिलामुद्यतांमया/प्रतीच्छपाणिंगृह्णीष्वमाभूत्कालस्यपर्ययः/तमेवमुक्त्वाजनकोभरतंचाभ्यभाषत/गृहाणपाणिंमाण्डव्याःपाणिनारघुनन्दन/शत्रुघ्नंचापिधर्मात्माअब्रवीज्जनकेश्वरः/श्रुतकीर्त्यामहाबाहोपाणिंगृह्णीष्वपाणिना/सर्वेभवन्तःसंयाश्चसर्वेसुचरितव्रताः/पत्नीभिःसन्तुकाकुत्स्थामाभूत्कालस्यपर्ययः/जनकस्यवचःश्रुत्वापाणीन्पाणिभिरस्पृशन्/चत्वारस्तेचतसृणांवसिष्ठस्यमतेस्थिताः/अग्निंप्रदक्षिणंकृत्वावेदिंराजानमेवच/ऋषींश्चैवमहात्मानःसहभार्यारघूत्तमाः/यथोक्तेनतथाचक्रुर्विवाहंविधिपूर्वकम्/पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा/दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः/ननृतुश्चाप्सरःसंघागन्धर्वाश्चजगुःकलम्/विवाहेरघुमुख्यानांतदद्भुतमिवाभवत्/ईदृशेवर्तमानेतुतूर्योद्घुष्टनिनादिते/त्रिरग्निंतेपरिक्रम्यऊहुर्भार्यामहौजसः/अथोपकार्यांजग्मुस्तेसदारारघुनन्दनः/राजाप्यनुययौपश्यन्सर्षिसंघःसबान्धवः/174/अथरात्र्यांव्यतीतायांविश्वामित्रोमहामुनिः/आपृच्छ्यतौचराजानौजगामोत्तरपर्वतम्/विश्वामित्रोगतेराजावैदेहंमिथिलाधिपम्/आपृच्छ्याथजगामाशुराजादशरथःपुरीम्/अथराजाविदेहानांददौकन्याधनंबहु/गवांशतसहस्राणिबहूनिमिथिलेश्वरः/कम्बलानांचमुख्यानांक्षौमकोट्यम्बराणिच/हस्त्यश्वरथपादातंदिव्यरूपंस्वलंकृतम्/ददौकन्यापितातासांदासीदासमनुत्तमम्/हिरण्यस्यसुवर्णस्यमुक्तानांविद्रुमस्यच/ददौपरमसंहृष्टःकन्याधनमनुत्तमम्/दत्त्वाबहुधनंराजासमनुज्ञाप्यपार्थिवम्/प्रविवेशस्वनिलयंमिथिलांमिथिलेश्वरः/राजाप्ययोध्याधिपतिःसहपुत्रैर्महात्मभिः/ऋषीन्सर्वान्पुरस्कृत्यजगामसबलानुगः/गच्छन्तंतुनरव्याघ्रंसर्षिसंघंसराघवम्/घोराःस्मपक्षिणोवाचोव्याहरन्तिततस्ततः/भौमाश्चैवमृगाःसर्वेगच्छन्तिस्मप्रदक्षिणम्/तान्दृष्ट्वाराजशार्दूलोवसिष्ठंपर्यपृच्छत/असौम्याःपक्षिणोघोरामृगाश्चापिप्रदक्षिणाः/किमिदंहृदयोत्कम्पिमनोममविषीदति/राज्ञोदशरथस्यैतच्छ्रुत्वावाक्यंमहानृषिः/उवाचमधुरांवाणींश्रूयतामस्ययत्फलम्/उपस्थितंभयंघोरंदिव्यंपक्षिमुखाच्च्युतम्/मृगाःप्रशमयन्त्येतेसंतापस्त्यज्यतामयम्/तेषांसंवदतांतत्रवायुःप्रादुर्बभूवह/कम्पयन्मेदिनींसर्वांपातयंश्चद्रुमांःशुभान्/तमसासंवृतःसूर्यःसर्वानप्रबभुर्दिशः/भस्मनाचावृतंसर्वंसंमूढमिवतद्बलम्/वसिष्ठऋषयश्चान्येराजाचससुतस्तदा/ससंज्ञाइवतत्रासन्सर्वमन्यद्विचेतनम्/तस्मिंस्तमसिघोरेतुभस्मच्छन्नेवसाचमूः/ददर्शभीमसंकाशंजटामण्डलधारिणम्/कैलासमिवदुर्धर्षंकालाग्निमिवदुःसहम्/ज्वलन्तमिवतेजोभिर्दुर्निरीक्ष्यंपृथग्जनैः/स्कन्धेचासज्यपरशुंधनुर्विद्युद्गणोपमम्/प्रगृह्यशरमुख्यंचत्रिपुरघ्नंयथाहरम्/तंदृष्ट्वाभीमसंकाशंज्वलन्तमिवपावकम्/वसिष्ठप्रमुखाविप्राजपहोमपरायणाः/संगतामुनयःसर्वेसंजजल्पुरथोमिथः/कच्चित्पितृवधामर्षीक्षत्रंनोत्सादयिष्यति/पूर्वंक्षत्रवधंकृत्वागतमन्युर्गतज्वरः/क्षत्रस्योत्सादनंभूयोनखल्वस्यचिकीर्षितम्/एवमुक्त्वार्घ्यमादायभार्गवंभीमदर्शनम्/ऋषयोरामरामेतिमधुरांवाचमब्रुवन्/प्रतिगृह्यतुतांपूजामृषिदत्तांप्रतापवान्/रामंदाशरथिंरामोजामदग्न्योऽभ्यभाषत/रामदाशरथेवीरवीर्यंतेश्रूयतेऽधुतम्/धनुषोभेदनंचैवनिखिलेनमयाश्रुतम्/तदद्भुतमचिन्त्यंचभेदनंधनुषस्त्वया/तच्छ्रुत्वाहमनुप्राप्तोधनुर्गृह्यापरंशुभम्/तदिदंघोरसंकाशंजामदग्न्यंमहद्धनुः/पूरयस्वशरेणैवस्वबलंदर्शयस्वच/तदहंतेबलंदृष्ट्वाधनुषोऽस्यप्रपूरणे/द्वन्द्वयुद्धंप्रदास्यामिवीर्यश्लाघ्यमिदंतव/तस्यतद्वचनंश्रुत्वाराजादशरतःस्तदा/विषण्णवदनोदीनःप्राञ्जलिर्वाक्यमब्रवीत्/क्षत्ररोषात्प्रशान्तस्त्वंब्राह्मणस्यमहायशाः/बालानांममपुत्राणामभयंदातुमर्हसि/भार्गवाणांकुलेजातःस्वाध्यायव्रतशालिनाम्/सहस्राक्षेप्रतिज्ञायशस्त्रंनिक्षिप्तवानसि/सत्वंधर्मपरोभूत्वाकाश्यपायवसुंधराम्/दत्त्वावनमुपागम्यमहेन्द्रकृतकेतनः/ममसर्वविनाशायसंप्राप्तस्त्वंमहामुने/नचैकस्मिन्हतेरामेसर्वेजीवामहेवयम्/ब्रुवत्येवंदशरथेजामदग्न्यःप्रतापवान्/अनादृत्यैवतद्वाक्यंराममेवाभ्यभाषत/इमेद्वेधनुषीश्रेष्ठेदिव्येलोकाभिविश्रुते/दृढेबलवतीमुख्येसुकृतेविश्वकर्मणा/अतिसृष्टंसुरैरेकंत्र्यम्बकाययुयुत्सवे/त्रिपुरघ्नंनरश्रेष्ठभग्नंकाकुत्स्हयत्त्वया/इदंद्वितीयंदुर्धर्षंविष्णोर्दत्तंसुरोत्तमैः/समानसारंकाकुत्स्थरौद्रेणधनुषात्विदम्/तदातुदेवताःसर्वाःपृच्छन्तिस्मपितामहम्/शितिकण्ठस्यविष्णोश्चबलाबलनिरीक्षया/अभिप्रायंतुविज्ञायदेवतानांपितामहः/विरोधंजनयामासतयोःसत्यवतांवरः/विरोधेचमहद्युद्धमभवद्रोमहर्षणम्/शितिकण्ठस्यविष्णोश्चपरस्परजयैषिणोः/तदातज्जृम्भितंशैवंधनुर्भीमपराक्रमम्/हुंकारेणमहादेवःस्तम्भितोऽथत्रिलोचनः/देवैस्तदासमागम्यसर्षिसंघैःसचारणैः/याचितौप्रशमंतत्रजग्मतुस्तौसुरोत्तमौ/जृम्भितंतद्धनुर्दृष्ट्वाशैवंविष्णुपराक्रमैः/अधिकंमेनिरेविष्णुंदेवाःसर्षिगणास्तदा/धनूरुद्रस्तुसंक्रुद्धोविदेहेषुमहायशाः/देवरातस्यराजर्षेर्ददौहस्तेससायकम्/इदंचविष्णवंरामधनुःपरपुरंजयम्/ऋचीकेभार्गवेप्रादाद्विष्णुःसन्यासमुत्तमम्/ऋचीकस्तुमहातेजाःपुत्रस्याप्रतिकर्मणः/पितुर्ममददौदिव्यंजमदग्नेर्महात्मनः/न्यस्तशस्त्रेपितरिमेतपोबलसमन्विते/अर्जुनोविदधेमृत्युंप्राकृतांबुद्धिमास्थितः/वधमप्रतिरूपंतुपितुःश्रुत्वासुदारुणम्/क्षत्रमुत्सादयंरोषाज्जातंजातमनेकशः/पृथिवींचाखिलांप्राप्यकाश्यपायमहात्मने/यज्ञस्यान्तेतदारामदक्षिणांपुण्यकर्मणे/दत्त्वामहेन्द्रनिलयस्तपोबलसमन्वितः/श्रुतवान्धनुषोभेदंततोऽहंद्रुतमागतः/तदिदंवैष्णवंरामपितृपैतामहंमहत्/क्षत्रधर्मंपुरस्कृत्यगृह्णीष्वधनुरुत्तमम्/योजयस्वधनुःश्रेष्ठेशरंपरपुरंजयम्/यदिशक्नोषिकाकुत्स्थद्वन्द्वंदास्यामितेततः/176/श्रुत्वातज्जामदग्न्यस्यवाक्यंदाशरथिस्तदा/गौरवाद्यन्त्रितकथःपितूराममथाब्रवीत्/श्रुतवानस्मियत्कर्मकृतवानसिभार्गव/अनुरुन्ध्यामहेब्रह्मन्पितुरानृण्यमास्थितः/वीर्यहीनमिवाशक्तंक्षत्रधर्मेणभार्गव/अवजानामिमेतेजःपश्यमेऽद्यपराक्रमम्/इत्युक्त्वाराघवःक्रुद्धोभार्गवस्यवरायुधम्/शरंचप्रतिसंगृह्यहस्ताल्लघुपराक्रमः/आरोप्यसधनूरामःशरंसज्यंचकारह/जामदग्न्यंततोरामंरामःक्रुद्धोऽब्रवीद्वचः/ब्राह्मणोऽसीतिपूज्योमेविश्वामित्रकृतेनच/तस्माच्छक्तोनतेराममोक्तुंप्राणहरंशरम्/इमांवात्वद्गतिंरामतपोबलसमार्जितान्/लोकानप्रतिमान्वापिहनिष्यामियदिच्छसि/नह्ययंवैष्णवोदिव्यःशरःपरपुरंजयः/मोघःपततिवीर्येणबलदर्पविनाशनः/वरायुधधरंरामद्रष्टुंसर्षिगणाःसुराः/पितामहंपुरस्कृत्यसमेतास्तत्रसंघशः/गन्धर्वाप्सरसश्चैवसिद्धचारणकिंनराः/यक्षराक्षसनागाश्चतद्द्रष्टुंमहदद्भुतम्/जडीकृतेतदालोकेरामेवरधनुर्धरे/निर्वीर्योजामदग्न्योऽसौरमोराममुदैक्षत/तेजोभिर्हतवीर्यत्वाज्जामदग्न्योजडीकृतः/रामंकमलपत्राक्षंमन्दंमन्दमुवाचह/काश्यपायमयादत्तायदापूर्वंवसुंधरा/विषयेमेनवस्तव्यमितिमांकाश्यपोऽब्रवीत्/सोऽहंगुरुवचःकुर्वन्पृथिव्यांनवसेनिशाम्/इतिप्रतिज्ञाकाकुत्स्थकृतावैकाश्यपस्यह/तदिमांत्वंगतिंवीरहन्तुंनार्हसिराघव/मनोजवंगमिष्यामिमहेन्द्रंपर्वतोत्तमम्/लोकास्त्वप्रतिमारामनिर्जितास्तपसामया/जहिताञ्शरमुख्येनमाभूत्कालस्यपर्ययः/अक्षय्यंमधुहन्तारंजानामित्वांसुरेश्वरम्/धनुषोऽस्यपरामर्शात्स्वस्तितेऽस्तुपरंतप/एतेसुरगणाःसर्वेनिरीक्षन्तेसमागताः/त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे/नचेयंममकाकुत्स्थव्रीडाभवितुमर्हति/त्वयात्रैलोक्यनाथेनयदहंविमुखीकृतः/शरमप्रतिमंराममोक्तुमर्हसिसुव्रत/शरमोक्षेगमिष्यामिमहेन्द्रंपर्वतोत्तमम्/तथाब्रुवतिरामेतुजामदग्न्येप्रतापवान्/रामोदाशरथिःश्रीमांश्चिक्षेपशरमुत्तमम्/ततोवितिमिराःसर्वादिशाचोपदिशस्तथा/सुराःसर्षिगणारामंप्रशशंसुरुदायुधम्/रामंदाशरथिंरामोजामदग्न्यःप्रशस्यच/ततःप्रदक्षिणीकृत्यजगामात्मगतिंप्रभुः/177/गतेरामेप्रशान्तात्मारामोदाशरथिर्धनुः/वरुणायाप्रमेयायददौहस्तेससायकम्/अभिवाद्यततोरामोवसिष्ठप्रमुखानृषीन्/पितरंविह्वलंदृष्ट्वाप्रोवाचरघुनन्दनः/जामदग्न्योगतोरामःप्रयातुचतुरङ्गिणी/अयोध्याभिमुखीसेनात्वयानाथेनपालिता/रामस्यवचनंश्रुत्वाराजादशरथःसुतम्/बाहुभ्यांसंपरिष्वज्यमूर्ध्निचाघ्रायराघवम्/गतोरामइतिश्रुत्वाहृष्टःप्रमुदितोनृपः/चोदयामासतांसेनांजगामाशुततःपुरीम्/पताकाध्वजिनींरम्यांतूर्योद्घुष्टनिनादिताम्/सिक्तराजपथांरम्यांप्रकीर्णकुसुमोत्कराम्/राजप्रवेशसुमुखैःपौरैर्मङ्गलवादिभिः/संपूर्णांप्राविशद्राजाजनौघैःसमलंकृताम्/कौसल्याचसुमित्राचकैकेयीचसुमध्यमा/वधूप्रतिग्रहेयुक्तायाश्चान्याराजयोषितः/ततःसीतांमहाभागामूर्मिलांचयशस्विनीम्/कुशध्वजसुतेचोभेजगृहुर्नृपपत्नयः/मङ्गलालापनैश्चैवशोभिताःक्षौमवाससः/देवतायतनान्याशुसर्वास्ताःप्रत्यपूजयन्/अभिवाद्याभिवाद्यांश्चसर्वाराजसुतास्तदा/रेमिरेमुदिताःसर्वाभर्तृभिःसहितारहः/कृतदाराःकृतास्त्राश्चसधनाःससुहृज्जनाः/शुश्रूषमाणाःपितरंवर्तयन्तिनरर्षभाः/तेषामतियशालोकेरामःसत्यपराक्रमः/स्वयम्भूरिवभूतानांबभूवगुणवत्तरः/रामस्तुसीतयासार्धंविजहारबहूनृतून्/मनस्वीतद्गतस्तस्यानित्यंहृदिसमर्पितः/प्रियातुसीतारामस्यदाराःपितृकृताइति/गुणाद्रूपगुणाच्चापिप्रीतिर्भूयोव्यवर्धत/तस्याश्चभर्ताद्विगुणंहृदयेपरिवर्तते/अन्तर्जातमपिव्यक्तमाख्यातिहृदयंहृदा/तस्यभूयोविशेषेणमैथिलीजनकात्मजा/देवताभिःसमारूपेसीताश्रीरिवरूपिणी/तयासराजर्षिसुतोऽभिरामया॑समेयिवानुत्तमराजकन्यया/अतीवरामःशुशुभेऽतिकामया॑विभुःश्रियाविष्णुरिवामरेश्वरः/2Ayodhyakand/कस्यचित्त्वथकालस्यराजादशरथःसुतम्/भरतंकेकयीपुत्रमब्रवीद्रघुनन्दनः/अयंकेकयराजस्यपुत्रोवसतिपुत्रक/त्वांनेतुमागतोवीरयुधाजिन्मातुलस्तव/श्रुत्वादशरथस्यैतद्भरतःकेकयीसुतः/गमनायाभिचक्रामशत्रुघ्नसहितस्तदा/आपृच्छ्यपितरंशूरोरामंचाक्लिष्टकारिणम्/मातॄंश्चापिनरश्रेष्ठःशत्रुघ्नसहितोययौ/युधाजित्प्राप्यभरतंसशत्रुघ्नंप्रहर्षितः/स्वपुरंप्राविशद्वीरःपितातस्यतुतोषह/सतत्रन्यवसद्भ्रात्रासहसत्कारसत्कृतः/मातुलेनाश्वपतिनापुत्रस्नेहेनलालितः/तत्रापिनिवसन्तौतौतर्प्यमाणौचकामतः/भ्रातरौस्मरतांवीरौवृद्धंदशरथंनृपम्/राजापितौमहातेजाःसस्मारप्रोषितौसुतौ/उभौभरतशत्रुघ्नौमहेन्द्रवरुणोपमौ/सर्वएवतुतस्येष्टाश्चत्वारःपुरुषर्षभाः/स्वशरीराद्विनिर्वृत्ताश्चत्वारइवबाहवः/तेषामपिमहातेजारामोरतिकरःपितुः/स्वयम्भूरिवभूतानांबभूवगुणवत्तरः/गतेचभरतेरामोलक्ष्मणश्चमहाबलः/पितरंदेवसंकाशंपूजयामासतुस्तदा/पितुराज्ञांपुरस्कृत्यपौरकार्याणिसर्वशः/चकाररामोधर्मात्माप्रियाणिचहितानिच/मातृभ्योमातृकार्याणिकृत्वापरमयन्त्रितः/गुरूणांगुरुकार्याणिकालेकालेऽन्ववैक्षत/एवंदशरथःप्रीतोब्राह्मणानैगमास्तथा/रामस्यशीलवृत्तेनसर्वेविषयवासिनः/सहिनित्यंप्रशान्तात्मामृदुपूर्वंचभाषते/उच्यमानोऽपिपरुषंनोत्तरंप्रतिपद्यते/कथंचिदुपकारेणकृतेनैकेनतुष्यति/नस्मरत्यपकाराणांशतमप्यात्मवत्तया/शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्चसज्जनैः/कथयन्नास्तवैनित्यमस्त्रयोग्यान्तरेष्वपि/कल्याणाभिजनःसाधुरदीनःसत्यवागृजुः/वृद्धैरभिविनीतश्चद्विजैर्धर्मार्थदर्शिभिः/धर्मार्थकामतत्त्वज्ञःस्मृतिमान्प्रतिभावनान्/लौकिकेसमयाचरेकृतकल्पोविशारदः/शास्त्रज्ञश्चकृतज्ञश्चपुरुषान्तरकोविदः/यःप्रग्रहानुग्रहयोर्यथान्यायंविचक्षणः/आयकर्मण्युपायज्ञःसंदृष्टव्ययकर्मवित्/श्रैष्ठ्यंशास्त्रसमूहेषुप्राप्तोव्यामिश्रकेष्वपि/अर्थधर्मौचसंगृह्यसुखतन्त्रोनचालसः/वैहारिकाणांशिल्पानांविज्ञातार्थविभागवित्/आरोहेविनयेचैवयुक्तोवारणवाजिनाम्/धनुर्वेदविदांश्रेष्ठोलोकेऽतिरथसंमतः/अभियाताप्रहर्ताचसेनानयविशारदः/अप्रधृष्यश्चसंग्रामेक्रुद्धैरपिसुरासुरैः/अनसूयोजितक्रोधोनदृप्तोनचमत्सरी/नचावमन्ताभूतानांनचकालवशानुगः/एवंश्रैष्ठैर्गुणैर्युक्तःप्रजानांपार्थिवात्मजः/संमतस्त्रिषुलोकेषुवसुधायाःक्षमागुणैः/बुद्ध्याबृहस्पतेस्तुल्योवीर्येणापिशचीपतेः/तथासर्वप्रजाकान्तैःप्रीतिसंजननैःपितुः/गुणैर्विरुरुचेरामोदीप्तःसूर्यइवांशुभिः/तमेवंवृत्तसंपन्नमप्रधृष्यपराक्रमम्/लोकपालोपमंनाथमकामयतमेदिनी/एतैस्तुबहुभिर्युक्तंगुणैरनुपमैःसुतम्/दृष्ट्वादशरथोराजाचक्रेचिन्तांपरंतपः/एषाह्यस्यपराप्रीतिर्हृदिसंपरिवर्तते/कदानामसुतंद्रक्ष्याम्यभिषिक्तमहंप्रियम्/वृद्धिकामोहिलोकस्यसर्वभूतानुकम्पनः/मत्तःप्रियतरोलोकेपर्जन्यइववृष्टिमान्/यमशक्रसमोवीर्येबृहस्पतिसमोमतौ/महीधरसमोधृत्यांमत्तश्चगुणवत्तरः/महीमहमिमांकृत्स्नामधितिष्ठन्तमात्मजम्/अनेनवयसादृष्ट्वायथास्वर्गमवाप्नुयाम्/तंसमीक्ष्यमहाराजोयुक्तंसमुदितैर्गुणैः/निश्चित्यसचिवैःसार्धंयुवराजममन्यत/नानानगरवास्तव्यान्पृथग्जानपदानपि/समानिनायमेदिन्याःप्रधानान्पृथिवीपतिः/अथराजवितीर्णेषुविविधेष्वासनेषुच/राजानमेवाभिमुखानिषेदुर्नियतानृपाः/सलब्धमानैर्विनयान्वितैर्नृपैः॑पुरालयैर्जानपदैश्चमानवैः/उपोपविष्टैर्नृपतिर्वृतोबभौ॑सहस्रचक्षुर्भगवानिवामरैः/22/ततःपरिषदंसर्वामामन्त्र्यवसुधाधिपः/हितमुद्धर्षणंचेदमुवाचाप्रतिमंवचः/दुन्दुभिस्वनकल्पेनगम्भीरेणानुनादिना/स्वरेणमहताराजाजीग्मूतइवनादयन्/सोऽहमिक्ष्वाकुभिःपूर्वैर्नरेन्द्रैःपरिपालितम्/श्रेयसायोक्तुकामोऽस्मिसुखार्हमखिलंजगत्/मयाप्याचरितंपूर्वैःपन्थानमनुगच्छता/प्रजानित्यमतन्द्रेणयथाशक्त्यभिरक्षता/इदंशरीरंकृत्स्नस्यलोकस्यचरताहितम्/पाण्डुरस्यातपत्रस्यच्छायायांजरितंमया/प्राप्यवर्षसहस्राणिबहून्यायूंषिजीवितः/जीर्णस्यास्यशरीरस्यविश्रान्तिमभिरोचये/राजप्रभावजुष्टांहिदुर्वहामजितेन्द्रियैः/परिश्रान्तोऽस्मिलोकस्यगुर्वींधर्मधुरंवहन्/सोऽहंविश्रममिच्छामिपुत्रंकृत्वाप्रजाहिते/संनिकृष्टानिमान्सर्वाननुमान्यद्विजर्षभान्/अनुजातोहिमेसर्वैर्गुणैर्ज्येष्ठोममात्मजः/पुरंदरसमोवीर्येरामःपरपुरंजयः/तंचन्द्रमिवपुष्येणयुक्तंधर्मभृतांवरम्/यौवराज्येनयोक्तास्मिप्रीतःपुरुषपुंगवम्/अनुरूपःसवोनाथोलक्ष्मीवांल्लक्ष्मणाग्रजः/त्रैलोक्यमपिनाथेनयेनस्यान्नाथवत्तरम्/अनेनश्रेयसासद्यःसंयोज्याहमिमांमहीम्/गतक्लेशोभविष्यामिसुतेतस्मिन्निवेश्यवै/इतिब्रुवन्तंमुदिताःप्रत्यनन्दन्नृपानृपम्/वृष्टिमन्तंमहामेघंनर्दन्तमिवबर्हिणः/तस्यधर्मार्थविदुषोभावमाज्ञायसर्वशः/ऊचुश्चमनसाज्ञात्वावृद्धंदशरथंनृपम्/अनेकवर्षसाहस्रोवृद्धस्त्वमसिपार्थिव/सरामंयुवराजानमभिषिञ्चस्वपार्थिवम्/इतितद्वचनंश्रुत्वाराजातेषांमनःप्रियम्/अजानन्निवजिज्ञासुरिदंवचनमब्रवीत्/कथंनुमयिधर्मेणपृथिवीमनुशासति/भवन्तोद्रष्टुमिच्छन्तियुवराजंममात्मजम्/तेतमूचुर्महात्मानंपौरजानपदैःसह/बहवोनृपकल्याणागुणाःपुत्रस्यसन्तिते/दिव्यैर्गुणैःशक्रसमोरामःसत्यपराक्रमः/इक्ष्वाकुभ्योहिसर्वेभ्योऽप्यतिरक्तोविशाम्पते/रामःसत्पुरुषोलोकेसत्यधर्मपरायणः/धर्मज्ञःसत्यसंधश्चशीलवाननसूयकः/क्षान्तःसान्त्वयिताश्लक्ष्णःकृतज्ञोविजितेन्द्रियः/मृदुश्चस्थिरचित्तश्चसदाभव्योऽनसूयकः/प्रियवादीचभूतानांसत्यवादीचराघवः/बहुश्रुतानांवृद्धानांब्राह्मणानामुपासिता/तेनास्येहातुलाकीर्तिर्यशस्तेजश्चवर्धते/देवासुरमनुष्याणांसर्वास्त्रेषुविशारदः/यदाव्रजतिसंग्रामंग्रामार्थेनगरस्यवा/गत्वासौमित्रिसहितोनाविजित्यनिवर्तते/संग्रामात्पुनरागम्यकुञ्जरेणरथेनवा/पौरान्स्वजनवन्नित्यंकुशलंपरिपृच्छति/पुत्रेष्वग्निषुदारेषुप्रेष्यशिष्यगणेषुच/निखिलेनानुपूर्व्याचपितापुत्रानिवौरसान्/शुश्रूषन्तेचवःशिष्याःकच्चित्कर्मसुदंशिताः/इतिनःपुरुषव्याघ्रःसदारामोऽभिभाषते/व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः/उत्सवेषुचसर्वेषुपितेवपरितुष्यति/सत्यवादीमहेष्वासोवृद्धसेवीजितेन्द्रियः/वत्सःश्रेयसिजातस्तेदिष्ट्यासौतवराघवः/दिष्ट्यापुत्रगुणैर्युक्तोमारीचइवकश्यपः/बलमारोग्यमायुश्चरामस्यविदितात्मनः/आशंसतेजनःसर्वोराष्ट्रेपुरवरेतथा/अभ्यन्तरश्चबाह्यश्चपौरजानपदोजनः/स्त्रियोवृद्धास्तरुण्यश्चसायंप्रातःसमाहिताः/सर्वान्देवान्नमस्यन्तिरामस्यार्थेयशस्विनः/तेषामायाचितंदेवत्वत्प्रसादात्समृध्यताम्/राममिन्दीवरश्यामंसर्वशत्रुनिबर्हणम्/पश्यामोयौवराज्यस्थंतवराजोत्तमात्मजम्/तंदेवदेवोपममात्मजंते॑सर्वस्यलोकस्यहितेनिविष्टम्/हितायनःक्षिप्रमुदारजुष्टं॑मुदाभिषेक्तुंवरदत्वमर्हसि/तेषामज्ञलिपद्मानिप्रगृहीतानिसर्वशः/प्रतिगृह्याब्रवीद्राजातेभ्यःप्रियहितंवचः/अहोऽस्मिपरमप्रीतःप्रभावश्चातुलोमम/यन्मेज्येष्ठंप्रियंपुत्रंयौवराज्यस्थमिच्छथ/इतिप्रत्यर्च्यतान्राजाब्राह्मणानिदमब्रवीत्/वसिष्ठंवामदेवंचतेषामेवोपशृण्वताम्/चैत्रःश्रीमानयंमासःपुण्यःपुष्पितकाननः/यौवराज्यायरामस्यसर्वमेवोपकल्प्यताम्/कृतमित्येवचाब्रूतामभिगम्यजगत्पतिम्/यथोक्तवचनंप्रीतौहर्षयुक्तौद्विजर्षभौ/ततःसुमन्त्रंद्युतिमान्राजावचनमब्रवीत्/रामःकृतात्माभवताशीघ्रमानीइयतामिति/सतथेतिप्रतिज्ञायसुमन्त्रोराजशासनात्/रामंतत्रानयांचक्रेरथेनरथिनांवरम्/अथतत्रसमासीनास्तदादशरथंनृपम्/प्राच्योदीच्याःप्रतीच्याश्चदाक्षिणात्याश्चभूमिपाः/म्लेच्छाश्चार्याश्चयेचान्येवनशैलान्तवासिनः/उपासांचक्रिरेसर्वेतंदेवाइववासवम्/तेषांमध्येसराजर्षिर्मरुतामिववासवः/प्रासादस्थोरथगतंददर्शायान्तमात्मजम्/गन्धर्वराजप्रतिमंलोकेविख्यातपौरुषम्/दीर्घबाहुंमहासत्त्वंमत्तमातङ्गगामिनम्/चन्द्रकान्ताननंराममतीवप्रियदर्शनम्/रूपौदार्यगुणैःपुंसांदृष्टिचित्तापहारिणम्/घर्माभितप्ताःपर्जन्यंह्लादयन्तमिवप्रजाः/नततर्पसमायान्तंपश्यमानोनराधिपः/अवतार्यसुमन्त्रस्तंराघवंस्यन्दनोत्तमात्/पितुःसमीपंगच्छन्तंप्राञ्जलिःपृष्ठतोऽन्वगात्/सतंकैलासशृङ्गाभंप्रासादंनरपुंगवः/आरुरोहनृपंद्रष्टुंसहसूतेनराघवः/सप्राञ्जलिरभिप्रेत्यप्रणतःपितुरन्तिके/नामस्वंश्रावयन्रामोववन्देचरणौपितुः/तंदृष्ट्वाप्रणतंपार्श्वेकृताञ्जलिपुटंनृपः/गृह्याञ्जलौसमाकृष्यसस्वजेप्रियमात्मजम्/तस्मैचाभ्युद्यतंश्रीमान्मणिकाञ्चनभूषितम्/दिदेशराजारुचिरंरामायपरमासनम्/तदासनवरंप्राप्यव्यदीपयतराघवः/स्वयेवप्रभयामेरुमुदयेविमलोरविः/तेनविभ्राजितातत्रसासभाभिव्यरोचत/विमलग्रहनक्षत्राशारदीद्यौरिवेन्दुना/तंपश्यमानोनृपतिस्तुतोषप्रियमात्मजम्/अलंकृतमिवात्मानमादर्शतलसंस्थितम्/सतंसस्मितमाभाष्यपुत्रंपुत्रवतांवरः/उवाचेदंवचोराजादेवेन्द्रमिवकश्यपः/ज्येष्ठायामसिमेपत्न्यांसदृश्यांसदृशःसुतः/उत्पन्नस्त्वंगुणश्रेष्ठोममरामात्मजःप्रियः/त्वयायतःप्रजाश्चेमाःस्वगुणैरनुरञ्जिताः/तस्मात्त्वंपुष्ययोगेनयौवराज्यमवाप्नुहि/कामतस्त्वंप्रकृत्यैवविनीतोगुणवानसि/गुणवत्यपितुस्नेहात्पुत्रवक्ष्यामितेहितम्/भूयोविनयमास्थायभवनित्यंजितेन्द्रियः/कामक्रोधसमुत्थानित्यजेथाव्यसनानिच/परोक्षयावर्तमानोवृत्त्याप्रत्यक्षयातथा/अमात्यप्रभृतीःसर्वाःप्रकृतीश्चानुरञ्जय/तुष्टानुरक्तप्रकृतिर्यःपालयतिमेदिनीम्/तस्यनन्दन्तिमित्राणिलब्ध्वामृतमिवामराः/तस्मात्पुत्रत्वमात्मानंनियम्यैवसमाचर/तच्छ्रुत्वासुहृदस्तस्यरामस्यप्रियकारिणः/त्वरिताःशीघ्रमभ्येत्यकौसल्यायैन्यवेदयन्/साहिरण्यंचगाश्चैवरत्नानिविविधानिच/व्यादिदेशप्रियाख्येभ्यःकौसल्याप्रमदोत्तमा/अथाभिवाद्यराजानंरथमारुह्यराघवः/ययौस्वंद्युतिमद्वेश्मजनौघैःप्रतिपूजितः/तेचापिपौरानृपतेर्वचस्तच्॑छ्रुत्वातदालाभमिवेष्टमाप्य/नरेन्द्रमामन्त्यगृहाणिगत्वा॑देवान्समानर्चुरतीवहृष्टाः/गतेष्वथनृपोभूयःपौरेषुसहमन्त्रिभिः/मन्त्रयित्वाततश्चक्रेनिश्चयज्ञःसनिश्चयम्/श्वएवपुष्योभविताश्वोऽभिषेच्येतमेसुतः/रामोराजीवताम्राक्षोयौवराज्यइतिप्रभुः/अथान्तर्गृहमाविश्यराजादशरथस्तदा/सूतमाज्ञापयामासरामंपुनरिहानय/प्रतिगृह्यसतद्वाक्यंसूतःपुनरुपाययौ/रामस्यभवनंशीघ्रंराममानयितुंपुनः/द्वाःस्थैरावेदितंतस्यरामायागमनंपुनः/श्रुत्वैवचापिरामस्तंप्राप्तंशङ्कान्वितोऽभवत्/प्रवेश्यचैनंत्वरितंरामोवचनमब्रवीत्/यदागमनकृत्यंतेभूयस्तद्ब्रूह्यशेषतः/तमुवाचततःसूतोराजात्वांद्रष्टुमिच्छति/श्रुत्वाप्रमाणमत्रत्वंगमनायेतरायवा/इतिसूतवचःश्रुत्वारामोऽथत्वरयान्वितः/प्रययौराजभवनंपुनर्द्रष्टुंनरेश्वरम्/तंश्रुत्वासमनुप्राप्तंरामंदशरथोनृपः/प्रवेशयामासगृहंविविक्षुःप्रियमुत्तमम्/प्रविशन्नेवचश्रीमान्राघवोभवनंपितुः/ददर्शपितरंदूरात्प्रणिपत्यकृताञ्जलिः/प्रणमन्तंसमुत्थाप्यतंपरिष्वज्यभूमिपः/प्रदिश्यचास्मैरुचिरमासनंपुनरब्रवीत्/रामवृद्धोऽस्मिदीर्घायुर्भुक्ताभोगामयेप्सिताः/अन्नवद्भिःक्रतुशतैस्तथेष्टंभूरिदक्षिणैः/जातमिष्टमपत्यंमेत्वमद्यानुपमंभुवि/दत्तमिष्टमधीतंचमयापुरुषसत्तम/अनुभूतानिचेष्टानिमयावीरसुखानिच/देवर्षिपितृविप्राणामनृणोऽस्मितथात्मनः/नकिंचिन्ममकर्तव्यंतवान्यत्राभिषेचनात्/अतोयत्त्वामहंब्रूयांतन्मेत्वंकर्तुमर्हसि/अद्यप्रकृतयःसर्वास्त्वामिच्छन्तिनराधिपम्/अतस्त्वांयुवराजानमभिषेक्ष्यामिपुत्रक/अपिचाद्याशुभान्रामस्वप्नान्पश्यामिदारुणान्/सनिर्घातामहोल्काश्चपतन्तीहमहास्वनाः/अवष्टब्धंचमेरामनक्षत्रंदारुणैर्ग्रहैः/आवेदयन्तिदैवज्ञाःसूर्याङ्गारकराहुभिः/प्रायेणहिनिमित्तानामीदृशानांसमुद्भवे/राजावामृत्युमाप्नोतिघोरांवापदमृच्छति/तद्यावदेवमेचेतोनविमुह्यतिराघव/तावदेवाभिषिञ्चस्वचलाहिप्राणिनांमतिः/अद्यचन्द्रोऽभ्युपगतःपुष्यात्पूर्वंपुनर्वसुम्/श्वःपुष्ययोगंनियतंवक्ष्यन्तेदैवचिन्तकाः/तत्रपुष्येऽभिषिञ्चस्वमनस्त्वरयतीवमाम्/श्वस्त्वाहमभिषेक्ष्यामियौवराज्येपरंतप/तस्मात्त्वयाद्यव्रतिनानिशेयंनियतात्मना/सहवध्वोपवस्तव्यादर्भप्रस्तरशायिना/सुहृदश्चाप्रमत्तास्त्वांरक्षन्त्वद्यसमन्ततः/भवन्तिबहुविघ्नानिकार्याण्येवंविधानिहि/विप्रोषितश्चभरतोयावदेवपुरादितः/तावदेवाभिषेकस्तेप्राप्तकालोमतोमम/कामंखलुसतांवृत्तेभ्रातातेभरतःस्थितः/ज्येष्ठानुवर्तीधर्मात्मासानुक्रोशोजितेन्द्रियः/किंतुचित्तंमनुष्याणामनित्यमितिमेमतिः/सतांचधर्मनित्यानांकृतशोभिचराघव/इत्युक्तःसोऽभ्यनुज्ञातःश्वोभाविन्यभिषेचने/व्रजेतिरामःपितरमभिवाद्याभ्ययाद्गृहम्/प्रविश्यचात्मनोवेश्मराज्ञोद्दिष्टेऽभिषेचने/तस्मिन्क्षणेविनिर्गत्यमातुरन्तःपुरंययौ/तत्रतांप्रवणामेवमातरंक्षौमवासिनीम्/वाग्यतांदेवतागारेददर्शयाचतींश्रियम्/प्रागेवचागतातत्रसुमित्रालक्ष्मणस्तथा/सीताचानायिताश्रुत्वाप्रियंरामाभिषेचनम्/तस्मिन्कालेहिकौसल्यातस्थावामीलितेक्षणा/सुमित्रयान्वास्यमानासीतयालक्ष्मणेनच/श्रुत्वापुष्येणपुत्रस्ययौवराज्याभिषेचनम्/प्राणायामेनपुरुषंध्यायमानाजनार्दनम्/तथासनियमामेवसोऽभिगम्याभिवाद्यच/उवाचवचनंरामोहर्षयंस्तामिदंतदा/अम्बपित्रानियुक्तोऽस्मिप्रजापालनकर्मणि/भविताश्वोऽभिषेकोमेयथामेशासनंपितुः/सीतयाप्युपवस्तव्यारजनीयंमयासह/एवमृत्विगुपाध्यायैःसहमामुक्तवान्पिता/यानियान्यत्रयोग्यानिश्वोभाविन्यभिषेचने/तानिमेमङ्गलान्यद्यवैदेह्याश्चैवकारय/एतच्छ्रुत्वातुकौसल्याचिरकालाभिकाङ्क्षितम्/हर्षबाष्पकलंवाक्यमिदंराममभाषत/वत्सरामचिरंजीवहतास्तेपरिपन्थिनः/ज्ञातीन्मेत्वंश्रियायुक्तःसुमित्रायाश्चनन्दय/कल्याणेबतनक्षत्रेमयिजातोऽसिपुत्रक/येनत्वयादशरथोगुणैराराधितःपिता/अमोघंबतमेक्षान्तंपुरुषेपुष्करेक्षणे/येयमिक्ष्वाकुराज्यश्रीःपुत्रत्वांसंश्रयिष्यति/इत्येवमुक्तोमात्रेदंरामोभारतमब्रवीत्/प्राञ्जलिंप्रह्वमासीनमभिवीक्ष्यस्मयन्निव/लक्ष्मणेमांमयासार्धंप्रशाधित्वंवसुंधराम्/द्वितीयंमेऽन्तरात्मानंत्वामियंश्रीरुपस्थिता/सौमित्रेभुङ्क्ष्वभोगांस्त्वमिष्टान्राज्यफलानिच/जीवितंचहिराज्यंचत्वदर्थमभिकामये/इत्युक्त्वालक्ष्मणंरामोमातरावभिवाद्यच/अभ्यनुज्ञाप्यसीतांचजगामस्वंनिवेशनम्/संदिश्यरामंनृपतिःश्वोभाविन्यभिषेचने/पुरोहितंसमाहूयवसिष्ठमिदमब्रवीत्/गच्छोपवासंकाकुत्स्थंकारयाद्यतपोधन/श्रीयशोराज्यलाभायवध्वासहयतव्रतम्/तथेतिचसराजानमुक्त्वावेदविदांवरः/स्वयंवसिष्ठोभगवान्ययौरामनिवेशनम्/सरामभवनंप्राप्यपाण्डुराभ्रघनप्रभम्/तिस्रःकक्ष्यारथेनैवविवेशमुनिसत्तमः/तमागतमृषिंरामस्त्वरन्निवससंभ्रमः/मानयिष्यन्समानार्हंनिश्चक्रामनिवेशनात्/अभ्येत्यत्वरमाणश्चरथाभ्याशंमनीषिणः/ततोऽवतारयामासपरिगृह्यरथात्स्वयम्/सचैनंप्रश्रितंदृष्ट्वासंभाष्याभिप्रसाद्यच/प्रियार्हंहर्षयन्राममित्युवाचपुरोहितः/प्रसन्नस्तेपितारामयौवराज्यमवाप्स्यसि/उपवासंभवानद्यकरोतुसहसीतया/प्रातस्त्वामभिषेक्ताहियौवराज्येनराधिपः/पितादशरथःप्रीत्याययातिंनहुषोयथा/इत्युक्त्वासतदाराममुपवासंयतव्रतम्/मन्त्रवत्कारयामासवैदेह्यासहितंमुनिः/ततोयथावद्रामेणसराज्ञोगुरुरर्चितः/अभ्यनुज्ञाप्यकाकुत्स्थंययौरामनिवेशनात्/सुहृद्भिस्तत्ररामोऽपिताननुज्ञाप्यसर्वशः/सभाजितोविवेशाथताननुज्ञाप्यसर्वशः/हृष्टनारीनरयुतंरामवेश्मतदाबभौ/यथामत्तद्विजगणंप्रफुल्लनलिनंसरः/सराजभवनप्रख्यात्तस्माद्रामनिवेशनात्/निर्गत्यददृशेमार्गंवसिष्ठोजनसंवृतम्/वृन्दवृन्दैरयोध्यायांराजमार्गाःसमन्ततः/बभूवुरभिसंबाधाःकुतूहलजनैर्वृताः/जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा/बभूवराजमार्गस्यसागरस्येवनिस्वनः/सिक्तसंमृष्टरथ्याहितदहर्वनमालिनी/आसीदयोध्यानगरीसमुच्छ्रितगृहध्वजा/तदाह्ययोध्यानिलयःसस्त्रीबालाबलोजनः/रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयंरवेः/प्रजालंकारभूतंचजनस्यानन्दवर्धनम्/उत्सुकोऽभूज्जनोद्रष्टुंतमयोध्यामहोत्सवम्/एवंतंजनसंबाधंराजमार्गंपुरोहितः/व्यूहन्निवजनौघंतंशनैराजकुलंययौ/सिताभ्रशिखरप्रख्यंप्रासदमधिरुह्यसः/समियायनरेन्द्रेणशक्रेणेवबृहस्पतिः/तमागतमभिप्रेक्ष्यहित्वाराजासनंनृपः/पप्रच्छसचतस्मैतत्कृतमित्यभ्यवेदयत्/गुरुणात्वभ्यनुज्ञातोमनुजौघंविसृज्यतम्/विवेशान्तःपुरंराजासिंहोगिरिगुहामिव/तदग्र्यवेषप्रमदाजनाकुलं॑महेन्द्रवेश्मप्रतिमंनिवेशनम्/व्यदीपयंश्चारुविवेशपार्थिवः॑शशीवतारागणसंकुलंनभः/गतेपुरोहितेरामःस्नातोनियतमानसः/सहपत्न्याविशालाक्ष्यानारायणमुपागमत्/प्रगृह्यशिरसापात्रींहविषोविधिवत्तदा/महतेदैवतायाज्यंजुहावज्वलितेऽनले/शेषंचहविषस्तस्यप्राश्याशास्यात्मनःप्रियम्/ध्यायन्नारायणंदेवंस्वास्तीर्णेकुशसंस्तरे/वाग्यतःसहवैदेह्याभूत्वानियतमानसः/श्रीमत्यायतनेविष्णोःशिश्येनरवरात्मजः/एकयामावशिष्टायांरात्र्यांप्रतिविबुध्यसः/अलंकारविधिंकृत्स्नंकारयामासवेश्मनः/तत्रशृण्वन्सुखावाचःसूतमागधबन्दिनाम्/पूर्वांसंध्यामुपासीनोजजापयतमानसः/तुष्टावप्रणतश्चैवशिरसामधुसूदनम्/विमलक्षौमसंवीतोवाचयामासचद्विजान्/तेषांपुण्याहघोषोऽथगम्भीरमधुरस्तदा/अयोध्यांपूरयामासतूर्यघोषानुनादितः/कृतोपवासंतुतदावैदेह्यासहराघवम्/अयोध्यानिलयःश्रुत्वासर्वःप्रमुदितोजनः/ततःपौरजनःसर्वःश्रुत्वारामाभिषेचनम्/प्रभातांरजनींदृष्ट्वाचक्रेशोभांपरांपुनः/सिताभ्रशिखराभेषुदेवतायतनेषुच/चतुष्पथेषुरथ्यासुचैत्येष्वट्टालकेषुच/नानापण्यसमृद्धेषुवणिजामापणेषुच/कुटुम्बिनांसमृद्धेषुश्रीमत्सुभवनेषुच/सभासुचैवसर्वासुवृक्षेष्वालक्षितेषुच/ध्वजाःसमुच्छ्रिताश्चित्राःपताकाश्चाभवंस्तदा/नटनर्तकसंघानांगायकानांचगायताम्/मनःकर्णसुखावाचःशुश्रुवुश्चततस्ततः/रामाभिषेकयुक्ताश्चकथाश्चक्रुर्मिथोजनाः/रामाभिषेकेसंप्राप्तेचत्वरेषुगृहेषुच/बालाअपिक्रीडमानागृहद्वारेषुसंघशः/रामाभिषेकसंयुक्ताश्चक्रुरेवमिथःकथाः/कृतपुष्पोपहारश्चधूपगन्धाधिवासितः/राजमार्गःकृतःश्रीमान्पौरैरामाभिषेचने/प्रकाशीकरणार्थंचनिशागमनशङ्कया/दीपवृक्षांस्तथाचक्रुरनुरथ्यासुसर्वशः/अलंकारंपुरस्यैवंकृत्वातत्पुरवासिनः/आकाङ्क्षमाणारामस्ययौवराज्याभिषेचनम्/समेत्यसंघशःसर्वेचत्वरेषुसभासुच/कथयन्तोमिथस्तत्रप्रशशंसुर्जनाधिपम्/अहोमहात्माराजायमिक्ष्वाकुकुलनन्दनः/ज्ञात्वायोवृद्धमात्मानंरामंराज्येऽह्बिषेक्ष्यति/सर्वेह्यनुगृहीताःस्मयन्नोरामोमहीपतिः/चिरायभवितागोप्तादृष्टलोकपरावरः/अनुद्धतमनाविद्वान्धर्मात्माभ्रातृवत्सलः/यथाचभ्रातृषुस्निग्धस्तथास्मास्वपिराघवः/चिरंजीवतुधर्मात्माराजादशरथोऽनघः/यत्प्रसादेनाभिषिक्तंरामंद्रक्ष्यामहेवयम्/एवंविधंकथयतांपौराणांशुश्रुवुस्तदा/दिग्भ्योऽपिश्रुतवृत्तान्ताःप्राप्ताजानपदाजनाः/तेतुदिग्भ्यःपुरींप्राप्ताद्रष्टुंरामाभिषेचनम्/रामस्यपूरयामासुःपुरींजानपदाजनाः/जनौघैस्तैर्विसर्पद्भिःशुश्रुवेतत्रनिस्वनः/पर्वसूदीर्णवेगस्यसागरस्येवनिस्वनः/ततस्तदिन्द्रक्षयसंनिभंपुरं॑दिदृक्षुभिर्जानपदैरुपागतैः/समन्ततःसस्वनमाकुलंबभौ॑समुद्रयादोभिरिवार्णवोदकम्/ज्ञातिदासीयतोजाताकैकेय्यास्तुसहोषिता/प्रासादंचन्द्रसंकाशमारुरोहयदृच्छया/सिक्तराजपथांकृत्स्नांप्रकीर्णकमलोत्पलाम्/अयोध्यांमन्थरातस्मात्प्रासादादन्ववैक्षत/पताकाभिर्वरार्हाभिर्ध्वजैश्चसमलंकृताम्/सिक्तांचन्दनतोयैश्चशिरःस्नातजनैर्वृताम्/अविदूरेस्थितांदृष्ट्वाधात्रींपप्रच्छमन्थरा/उत्तमेनाभिसंयुक्ताहर्षेणार्थपरासती/राममाताधनंकिंनुजनेभ्यःसंप्रयच्छति/अतिमात्रंप्रहर्षोऽयंकिंजनस्यचशंसमे/कारयिष्यतिकिंवापिसंप्रहृष्टोमहीपतिः/विदीर्यमाणाहर्षेणधात्रीपरमयामुदा/आचचक्षेऽथकुब्जायैभूयसींराघवेश्रियम्/श्वःपुष्येणजितक्रोधंयौवराज्येनराघवम्/राजादशरथोराममभिषेचयितानघम्/धात्र्यास्तुवचनंश्रुत्वाकुब्जाक्षिप्रममर्षिता/कैलासशिखराकारात्प्रासादादवरोहत/सादह्यमानाकोपेनमन्थरापापदर्शिनी/शयानामेत्यकैकेयीमिदंवचनमब्रवीत्/उत्तिष्ठमूढेकिंशेषेभयंत्वामभिवर्तते/उपप्लुतमहौघेनकिमात्मानंनबुध्यसे/अनिष्टेसुभगाकारेसौभाग्येनविकत्थसे/चलंहितवसौभाग्यंनद्यःस्रोतइवोष्णगे/एवमुक्तातुकैकेयीरुष्टयापरुषंवचः/कुब्जयापापदर्शिन्याविषादमगमत्परम्/कैकेयीत्वब्रवीत्कुब्जांकच्चित्क्षेमंनमन्थरे/विषण्णवदनांहित्वांलक्षयेभृशदुःखिताम्/मन्थरातुवचःश्रुत्वाकैकेय्यामधुराक्षरम्/उवाचक्रोधसंयुक्तावाक्यंवाक्यविशारदा/साविषण्णतराभूत्वाकुब्जातस्याहितैषिणी/विषादयन्तीप्रोवाचभेदयन्तीचराघवम्/अक्षेमंसुमहद्देविप्रवृत्तंत्वद्विनाशनम्/रामंदशरथोराजायौवराज्येऽभिषेक्ष्यति/सास्म्यगाधेभयेमग्नादुःखशोकसमन्विता/दह्यमानानलेनेवत्वद्धितार्थमिहागता/तवदुःखेनकैकेयिममदुःखंमहद्भवेत्/त्वद्वृद्धौममवृद्धिश्चभवेदत्रनसंशयः/नराधिपकुलेजातामहिषीत्वंमहीपतेः/उग्रत्वंराजधर्माणांकथंदेविनबुध्यसे/धर्मवादीशठोभर्ताश्लक्ष्णवादीचदारुणः/शुद्धभावेनजानीषेतेनैवमतिसंधिता/उपस्थितंपयुञ्जानस्त्वयिसान्त्वमनर्थकम्/अर्थेनैवाद्यतेभर्ताकौसल्यांयोजयिष्यति/अपवाह्यसदुष्टात्माभरतंतवबन्धुषु/काल्यंस्थापयितारामंराज्येनिहतकण्टके/शत्रुःपतिप्रवादेनमात्रेवहितकाम्यया/आशीविषइवाङ्केनबालेपरिधृतस्त्वया/यथाहिकुर्यात्सर्पोवाशत्रुर्वाप्रत्युपेक्षितः/राज्ञादशरथेनाद्यसपुत्रात्वंतथाकृता/पापेनानृतसन्त्वेनबालेनित्यंसुखोचिते/रामंस्थापयताराज्येसानुबन्धाहताह्यसि/साप्राप्तकालंकैकेयिक्षिप्रंकुरुहितंतव/त्रायस्वपुत्रमात्मानंमांचविस्मयदर्शने/मन्थरायावचःश्रुत्वाशयनात्सशुभानना/एवमाभरणंतस्यैकुब्जायैप्रददौशुभम्/दत्त्वात्वाभरणंतस्यैकुब्जायैप्रमदोत्तमा/कैकेयीमन्थरांहृष्टापुनरेवाब्रवीदिदम्/इदंतुमन्थरेमह्यमाख्यासिपरमंप्रियम्/एतन्मेप्रियमाख्यातुःकिंवाभूयःकरोमिते/रामेवाभरतेवाहंविशेषंनोपलक्षये/तस्मात्तुष्टास्मियद्राजारामंराज्येऽभिषेक्ष्यति/नमेपरंकिंचिदितस्त्वयापुनः॑प्रियंप्रियार्हेसुवचंवचोवरम्/तथाह्यवोचस्त्वमतःप्रियोत्तरं॑वरंपरंतेप्रददामितंवृणु/मन्थरात्वभ्यसूय्यैनामुत्सृज्याभरणंचतत्/उवाचेदंततोवाक्यंकोपदुःखसमन्विता/हर्षंकिमिदमस्थानेकृतवत्यसिबालिशे/शोकसागरमध्यस्थमात्मानंनावबुध्यसे/सुभगाखलुकौसल्यायस्याःपुत्रोऽभिषेक्ष्यते/यौवराज्येनमहताश्वःपुष्येणद्विजोत्तमैः/प्राप्तांसुमहतींप्रीतिंप्रतीतांतांहतद्विषम्/उपस्थास्यसिकौसल्यांदासीवत्वंकृताञ्जलिः/हृष्टाःखलुभविष्यन्तिरामस्यपरमाःस्त्रियः/अप्रहृष्टाभविष्यन्तिस्नुषास्तेभरतक्षये/तांदृष्ट्वापरमप्रीतांब्रुवन्तींमन्थरांततः/रामस्यैवगुणान्देवीकैकेयीप्रशशंसह/धर्मज्ञोगुरुभिर्दान्तःकृतज्ञःसत्यवाक्शुचिः/रामोराज्ञःसुतोज्येष्ठोयौवराज्यमतोऽर्हति/भ्रातॄन्भृत्यांश्चदीर्घायुःपितृवत्पालयिष्यति/संतप्यसेकथंकुब्जेश्रुत्वारामाभिषेचनम्/भरतश्चापिरामस्यध्रुवंवर्षशतात्परम्/पितृपैतामहंराज्यमवाप्स्यतिनरर्षभः/सात्वमभ्युदयेप्राप्तेवर्तमानेचमन्थरे/भविष्यतिचकल्याणेकिमर्थंपरितप्यसे/कौसल्यातोऽतिरिक्तंचसतुशुश्रूषतेहिमाम्/कैकेय्यावचनंश्रुत्वामन्थराभृशदुःखिता/दीर्घमुष्णंविनिःश्वस्यकैकेयीमिदमब्रवीत्/अनर्थदर्शिनीमौर्ख्यान्नात्मानमवबुध्यसे/शोकव्यसनविस्तीर्णेमज्जन्तीदुःखसागरे/भविताराघवोराजाराघवस्यचयःसुतः/राजवंशात्तुभरतःकैकेयिपरिहास्यते/नहिराज्ञःसुताःसर्वेराज्येतिष्ठन्तिभामिनि/स्थाप्यमानेषुसर्वेषुसुमहाननयोभवेत्/तस्माज्ज्येष्ठेहिकैकेयिराज्यतन्त्राणिपार्थिवाः/स्थापयन्त्यनवद्याङ्गिगुणवत्स्वितरेष्वपि/असावत्यन्तनिर्भग्नस्तवपुत्रोभविष्यति/अनाथवत्सुखेभ्यश्चराजवंशाच्चवत्सले/साहंत्वदर्थेसंप्राप्तात्वंतुमांनावबुध्यसे/सपत्निवृद्धौयामेत्वंप्रदेयंदातुमिच्छसि/ध्रुवंतुभरतंरामःप्राप्यराज्यमकण्टकम्/देशान्तरंनाययित्वालोकान्तरमथापिवा/बालएवहिमातुल्यंभरतोनायितस्त्वया/संनिकर्षाच्चसौहार्दंजायतेस्थावरेष्वपि/गोप्ताहिरामंसौमित्रिर्लक्ष्मणंचापिराघवः/अश्विनोरिवसौभ्रात्रंतयोर्लोकेषुविश्रुतम्/तस्मान्नलक्ष्मणेरामःपापंकिंचित्करिष्यति/रामस्तुभरतेपापंकुर्यादितिनसंशयः/तस्माद्राजगृहादेववनंगच्छतुतेसुतः/एतद्धिरोचतेमह्यंभृशंचापिहितंतव/एवंतेज्ञातिपक्षस्यश्रेयश्चैवभविष्यति/यदिचेद्भरतोधर्मात्पित्र्यंराज्यमवाप्स्यति/सतेसुखोचितोबालोरामस्यसहजोरिपुः/समृधार्थस्यनष्टार्थोजीविष्यतिकथंवशे/अभिद्रुतमिवारण्येसिंहेनगजयूथपम्/प्रच्छाद्यमानंरामेणभरतंत्रातुमर्हसि/दर्पान्निराकृतापूर्वंत्वयासौभाग्यवत्तया/राममातासपत्नीतेकथंवैरंनयातयेत्/यदाहिरामःपृथिवीमवाप्स्यति॑ध्रुवंप्रनष्टोभरतोभविष्यति/अतोहिसंचिन्तयराज्यमात्मजे॑परस्यचाद्यैवविवासकारणम्/एवमुक्तातुकैकेयीक्रोधेनज्वलितानना/दीर्घमुष्णंविनिःश्वस्यमन्थरामिदमब्रवीत्291/अद्यराममितःक्षिप्रंवनंप्रस्थापयाम्यहम्/यौवराज्येनभरतंक्षिप्रमेवाभिषेचये/इदंत्विदानींसंपश्यकेनोपायेनमन्थरे/भरतःप्राप्नुयाद्राज्यंनतुरामःकथंचन/एवमुक्तातयादेव्यामन्थरापापदर्शिनी/रामार्थमुपहिंसन्तीकैकेयीमिदमब्रवीत्/हन्तेदानींप्रवक्ष्यामिकैकेयिश्रूयतांचमे/यथातेभरतोराज्यंपुत्रःप्राप्स्यतिकेवलम्/श्रुत्वैवंवचनंतस्यामन्थरायास्तुकैकयी/किंचिदुत्थायशयनात्स्वास्तीर्णादिदमब्रवीत्/कथयत्वंममोपायंकेनोपायेनमन्थरे/भरतःप्राप्नुयाद्राज्यंनतुरामःकथंचन/एवमुक्तातयादेव्यामन्थरापापदर्शिनी/रामार्थमुपहिंसन्तीकुब्जावचनमब्रवीत्/तवदेवासुरेयुद्धेसहराजर्षिभिःपतिः/अगच्छत्त्वामुपादायदेवराजस्यसाह्यकृत्/दिशमास्थायकैकेयिदक्षिणांदण्डकान्प्रति/वैजयन्तमितिख्यातंपुरंयत्रतिमिध्वजः/सशम्बरइतिख्यातःशतमायोमहासुरः/ददौशक्रस्यसंग्रामंदेवसंघैरनिर्जितः/तस्मिन्महतिसंग्रामेराजादशरथस्तदा/अपवाह्यत्वयादेविसंग्रामान्नष्टचेतनः/तत्रापिविक्षतःशस्त्रैःपतिस्तेरक्षितस्त्वया/तुष्टेनतेनदत्तौतेद्वौवरौशुभदर्शने/सत्वयोक्तःपतिर्देवियदेच्छेयंतदावरौ/गृह्णीयामितितत्तेनतथेत्युक्तंमहात्मना/अनभिज्ञाह्यहंदेवित्वयैवकथितंपुरा/तौवरौयाचभर्तारंभरतस्याभिषेचनम्/प्रव्राजनंचरामस्यत्वंवर्षाणिचतुर्दश/क्रोधागारंप्रविश्याद्यक्रुद्धेवाश्वपतेःसुते/शेष्वानन्तर्हितायांत्वंभूमौमलिनवासिनी/मास्मैनंप्रत्युदीक्षेथामाचैनमभिभाषथाः/दयितात्वंसदाभर्तुरत्रमेनास्तिसंशयः/त्वत्कृतेचमहाराजोविशेदपिहुताशनम्/नत्वांक्रोधयितुंशक्तोनक्रुद्धांप्रत्युदीक्षितुम्/तवप्रियार्थंराजाहिप्राणानपिपरित्यजेत्/नह्यतिक्रमितुंशक्तस्तववाक्यंमहीपतिः/मन्दस्वभावेबुध्यस्वसौभाग्यबलमात्मनः/मणिमुक्तासुवर्णानिरत्नानिविविधानिच/दद्याद्दशरथोराजामास्मतेषुमनःकृथाः/यौतौदेवासुरेयुद्धेवरौदशरथोऽददात्/तौस्मारयमहाभागेसोऽर्थोमात्वामतिक्रमेत्/यदातुतेवरंदद्यात्स्वयमुत्थाप्यराघवः/व्यवस्थाप्यमहाराजंत्वमिमंवृणुयावरम्/रामंप्रव्राजयारण्येनववर्षाणिपञ्चच/भरतःक्रियतांराजापृथिव्यांपार्थिवर्षभः/एवंप्रव्राजितश्चैवरामोऽरामोभविष्यति/भरतश्चहतामित्रस्तवराजाभविष्यति/येनकालेनरामश्चवनात्प्रत्यागमिष्यति/तेनकालेनपुत्रस्तेकृतमूलोभविष्यति/संगृहीतमनुष्यश्चसुहृद्भिःसार्धमात्मवान्/प्राप्तकालंतुतेमन्येराजानंवीतसाध्वसा/रामाभिषेकसंकल्पान्निगृह्यविनिवर्तय/अनर्थमर्थरूपेणग्राहितासाततस्तया/हृष्टाप्रतीताकैकेयीमन्थरामिदमब्रवीत्/कुब्जेत्वांनाभिजानामिश्रेष्ठांश्रेष्ठाभिधायिनीम्/पृथिव्यामसिकुब्जानामुत्तमाबुद्धिनिश्चये/त्वमेवतुममार्थेषुनित्ययुक्ताहितैषिणी/नाहंसमवबुध्येयंकुब्जेराज्ञश्चिकीर्षितम्/सन्तिदुःसंस्थिताःकुब्जावक्राःपरमपापिकाः/त्वंपद्ममिववातेनसंनताप्रियदर्शना/उरस्तेऽभिनिविष्टंवैयावत्स्कन्धात्समुन्नतम्/अधस्ताच्चोदरंशान्तंसुनाभमिवलज्जितम्/जघनंतवनिर्घुष्टंरशनादामशोभितम्/जङ्घेभृशमुपन्यस्तेपादौचाप्यायतावुभौ/त्वमायताभ्यांसक्थिभ्यांमन्थरेक्षौमवासिनि/अग्रतोममगच्छन्तीराजहंसीवराजसे/तवेदंस्थगुयद्दीर्घंरथघोणमिवायतम्/मतयःक्षत्रविद्याश्चमायाश्चात्रवसन्तिते/अत्रतेप्रतिमोक्ष्यामिमालांकुब्जेहिरण्मयीम्/अभिषिक्तेचभरतेराघवेचवनंगते/जात्येनचसुवर्णेनसुनिष्टप्तेनसुन्दरि/लब्धार्थाचप्रतीताचलेपयिष्यामितेस्थगु/मुखेचतिलकंचित्रंजातरूपमयंशुभम्/कारयिष्यामितेकुब्जेशुभान्याभरणानिच/परिधायशुभेवस्त्रेदेवदेवचरिष्यसि/चन्द्रमाह्वयमानेनमुखेनाप्रतिमानना/गमिष्यसिगतिंमुख्यांगर्वयन्तीद्विषज्जनम्/तवापिकुब्जाःकुब्जायाःसर्वाभरणभूषिताः/पादौपरिचरिष्यन्तियथैवत्वंसदामम/इतिप्रशस्यमानासाकैकेयीमिदमब्रवीत्/शयानांशयनेशुभ्रेवेद्यामग्निशिखामिव/गतोदकेसेतुबन्धोनकल्याणिविधीयते/उत्तिष्ठकुरुकल्याणंराजानमनुदर्शय/तथाप्रोत्साहितादेवीगत्वामन्थरयासह/क्रोधागारंविशालाक्षीसौभाग्यमदगर्विता/अनेकशतसाहस्रंमुक्ताहारंवराङ्गना/अवमुच्यवरार्हाणिशुभान्याभरणानिच/ततोहेमोपमातत्रकुब्जावाक्यंवशंगता/संविश्यभूमौकैकेयीमन्थरामिदमब्रवीत्/इहवामांमृतांकुब्जेनृपायावेदयिष्यसि/वनंतुराघवेप्राप्तेभरतःप्राप्स्यतिक्षितिम्/अथैतदुक्त्वावचनंसुदारुणं॑निधायसर्वाभरणानिभामिनी/असंवृतामास्तरणेनमेदिनीं॑तदाधिशिश्येपतितेवकिन्नरी/उदीर्णसंरम्भतमोवृतानना॑तथावमुक्तोत्तममाल्यभूषणा/नरेन्द्रपत्नीविमनाबभूवसा॑तमोवृताद्यौरिवमग्नतारका2966/आज्ञाप्यतुमहाराजोराघवस्याभिषेचनम्/प्रियार्हांप्रियमाख्यातुंविवेशान्तःपुरंवशी/तांतत्रपतितांभूमौशयानामतथोचिताम्/प्रतप्तइवदुःखेनसोऽपश्यज्जगतीपतिः/सवृद्धस्तरुणींभार्यांप्राणेभ्योऽपिगरीयसीम्/अपापःपापसंकल्पांददर्शधरणीतले/करेणुमिवदिग्धेनविद्धांमृगयुणावने/महागजइवारण्येस्नेहात्परिममर्शताम्/परिमृश्यचपाणिभ्यामभिसंत्रस्तचेतनः/कामीकमलपत्राक्षीमुवाचवनितामिदम्/नतेऽहमभिजानामिक्रोधमात्मनिसंश्रितम्/देविकेनाभियुक्तासिकेनवासिविमानिता/यदिदंममदुःखायशेषेकल्याणिपांसुषु/भूमौशेषेकिमर्थंत्वंमयिकल्याणचेतसि/भूतोपहतचित्तेवममचित्तप्रमाथिनी/सन्तिमेकुशलावैद्याअभितुष्टाश्चसर्वशः/सुखितांत्वांकरिष्यन्तिव्याधिमाचक्ष्वभामिनि/कस्यवातेप्रियंकार्यंकेनवाविप्रियंकृतम्/कःप्रियंलभतामद्यकोवासुमहदप्रियम्/अवध्योवध्यतांकोवावध्यःकोवाविमुच्यताम्/दरिद्रःकोभवत्वाढ्योद्रव्यवान्वाप्यकिंचनः/अहंचैवमदीयाश्चसर्वेतववशानुगाः/नतेकंचिदभिप्रायंव्याहन्तुमहमुत्सहे/आत्मनोजीवितेनापिब्रूहियन्मनसेच्छसि/यावदावर्ततेचक्रंतावतीमेवसुंधरा/तथोक्तासासमाश्वस्तावक्तुकामातदप्रियम्/परिपीडयितुंभूयोभर्तारमुपचक्रमे/नास्मिविप्रकृतादेवकेनचिन्नविमानिता/अभिप्रायस्तुमेकश्चित्तमिच्छामित्वयाकृतम्/प्रतिज्ञांप्रतिजानीष्वयदित्वंकर्तुमिच्छसि/अथतद्व्याहरिष्यामियदभिप्रार्थितंमया/एवमुक्तस्तयाराजाप्रिययास्त्रीवशंगतः/तामुवाचमहातेजाःकैकेयीमीषदुत्स्मितः/अवलिप्तेनजानासित्वत्तःप्रियतरोमम/मनुजोमनुजव्याघ्राद्रामादन्योनविद्यते/भद्रेहृदयमप्येतदनुमृश्श्योद्धरस्वमे/एतत्समीक्ष्यकैकेयिब्रूहियत्साधुमन्यसे/बलमात्मनिपश्यन्तीनमांशङ्कितुमर्हसि/करिष्यामितवप्रीतिंसुकृतेनापितेशपे/तेनवाक्येनसंहृष्टातमभिप्रायमात्मनः/व्याजहारमहाघोरमभ्यागतमिवान्तकम्/यथाक्रमेणशपसिवरंममददासिच/तच्छृण्वन्तुत्रयस्त्रिंशद्देवाःसेन्द्रपुरोगमाः/चन्द्रादित्यौनभश्चैवग्रहारात्र्यहनीदिशः/जगच्चपृथिवीचैवसगन्धर्वासराक्षसा/निशाचराणिभूतानिगृहेषुगृहदेवताः/यानिचान्यानिभूतानिजानीयुर्भाषितंतव/सत्यसंधोमहातेजाधर्मज्ञःसुसमाहितः/वरंममददात्येषतन्मेशृण्वन्तुदेवताः/इतिदेवीमहेष्वासंपरिगृह्याभिशस्यच/ततःपरमुवाचेदंवरदंकाममोहितम्/वरौयौमेत्वयादेवतदादत्तौमहीपते/तौतावदहमद्यैववक्ष्यामिशृणुमेवचः/अभिषेकसमारम्भोराघवस्योपकल्पितः/अनेनैवाभिषेकेणभरतोमेऽभिषिच्यताम्/नवपञ्चचवर्षाणिदण्डकारण्यमाश्रितः/चीराजिनजटाधारीरामोभवतुतापसः/भरतोभजतामद्ययौवराज्यमकण्टकम्/अद्यचैवहिपश्येयंप्रयान्तंराघवंवने/ततःश्रुत्वामहाराजकैकेय्यादारुणंवचः/व्यथितोविलवश्चैवव्याघ्रींदृष्ट्वायथामृगः/असंवृतायामासीनोजगत्यांदीर्घमुच्छ्वसन्/अहोधिगितिसामर्षोवाचमुक्त्वानराधिपः/मोहमापेदिवान्भूयःशोकोपहतचेतनः/चिरेणतुनृपःसंज्ञांप्रतिलभ्यसुदुःखितः/कैकेयीमब्रवीत्क्रुद्धःप्रदहन्निवचक्षुषा/नृशंसेदुष्टचारित्रेकुलस्यास्यविनाशिनि/किंकृतंतवरामेणपापेपापंमयापिवा/सदातेजननीतुल्यांवृत्तिंवहतिराघवः/तस्यैवत्वमनर्थायकिंनिमित्तमिहोद्यता/त्वंमयात्मविनाशायभवनंस्वंप्रवेशिता/अविज्ञानान्नृपसुताव्यालीतीक्ष्णविषायथा/जीवलोकोयदासर्वोरामस्येहगुणस्तवम्/अपराधंकमुद्दिश्यत्यक्ष्यामीष्टमहंसुतम्/कौसल्यांवासुमित्रांवात्यजेयमपिवाश्रियम्/जीवितंवात्मनोरामंनत्वेवपितृवत्सलम्/पराभवतिमेप्रीतिर्दृष्ट्वातनयमग्रजम्/अपश्यतस्तुमेरामंनष्टाभवतिचेतना/तिष्ठेल्लोकोविनासूर्यंसस्यंवासलिलंविना/नतुरामंविनादेहेतिष्ठेत्तुममजीवितम्/तदलंत्यज्यतामेषनिश्चयःपापनिश्चये/अपितेचरणौमूर्ध्नास्पृशाम्येषप्रसीदमे/सभूमिपालोविलपन्ननाथवत्॑स्त्रियागृहीतोदृहयेऽतिमात्रता/पपातदेव्याश्चरणौप्रसारिताव्॑उभावसंस्पृश्ययथातुरस्तथा212112/अतदर्हंमहाराजंशयानमतथोचितम्2131/ययातिमिवपुण्यान्तेदेवलोकात्परिच्युतम्/अनर्थरूपासिद्धार्थाअभीताभयदर्शिनी/पुनराकारयामासतमेववरमङ्गना/त्वंकत्थसेमहाराजसत्यवादीदृढव्रतः/ममचेमंवरंकस्माद्विधारयितुमिच्छसि/एवमुक्तस्तुकैकेय्याराजादशरथस्तदा/प्रत्युवाचततःक्रुद्धोमुहूर्तंविह्वलन्निव/मृतेमयिगतेरामेवनंमनुजपुंगवे/हन्तानार्येममामित्रेरामःप्रव्राजितोवनम्/यदिसत्यंब्रवीम्येतत्तदसत्यंभविष्यति/अकीर्तिरतुलालोकेध्रुवंपरिभवश्चमे/तथाविलपतस्तस्यपरिभ्रमितचेतसः/अस्तमभ्यगमत्सूर्योरजनीचाभ्यवर्तत/सत्रियामातथार्तस्यचन्द्रमण्डलमण्डिता/राज्ञोविलपमानस्यनव्यभासतशर्वरी/तथैवोष्णंविनिःश्वस्यवृद्धोदशरथोनृपः/विललापार्तवद्दुःखंगगनासक्तलोचनः/नप्रभातंत्वयेच्छामिमयायंरचितोऽञ्जलिः/अथवागम्यतांशीघ्रंनाहमिच्छामिनिर्घृणाम्/नृशंसांकैकेयींद्रष्टुंयत्कृतेव्यसनंमहत्/एवमुक्त्वाततोराजाकैकेयींसंयताञ्जलिः/प्रसादयामासपुनःकैकेयींचेदमब्रवीत्/साधुवृत्तस्यदीनस्यत्वद्गतस्यगतायुषः/प्रसादःक्रियतांदेविभद्रेराज्ञोविशेषतः/शून्येनखलुसुश्रोणिमयेदंसमुदाहृतम्/कुरुसाधुप्रसादंमेबालेसहृदयाह्यसि/विशुद्धभावस्यहिदुष्टभावा॑ताम्रेक्षणस्याश्रुकलस्यराज्ञः/श्रुत्वाविचित्रंकरुणंविलापं॑भर्तुर्नृशंसानचकारवाक्यम्/ततःसराजापुनरेवमूर्छितः॑प्रियामतुष्टांप्रतिकूलभाषिणीम्/समीक्ष्यपुत्रस्यविवासनंप्रति॑क्षितौविसंज्ञोनिपपातदुःखितः/पुत्रशोकार्दितंपापाविसंज्ञंपतितंभुवि2141/विवेष्टमानमुदीक्ष्यसैक्ष्वाकमिदमब्रवीत्/पापंकृत्वेवकिमिदंममसंश्रुत्यसंश्रवम्/शेषेक्षितितलेसन्नःस्थित्यांस्थातुंत्वमर्हसि/आहुःसत्यंहिपरमंधर्मंधर्मविदोजनाः/सत्यमाश्रित्यहिमयात्वंचधर्मंप्रचोदितः/संश्रुत्यशैब्यःश्येनायस्वांतनुंजगतीपतिः/प्रदायपक्षिणोराजञ्जगामगतिमुत्तमाम्/तथह्यलर्कस्तेजस्वीब्राह्मणेवेदपारगे/याचमानेस्वकेनेत्रेउद्धृत्याविमनाददौ/सरितांतुपतिःस्वल्पांमर्यादांसत्यमन्वितः/सत्यानुरोधात्समयेवेलांखांनातिवर्तते/समयंचममार्येमंयदित्वंनकरिष्यसि/अग्रतस्तेपरित्यक्तापरित्यक्ष्यामिजीवितम्/एवंप्रचोदितोराजाकैकेय्यानिर्विशङ्कया/नाशकत्पाशमुन्मोक्तुंबलिरिन्द्रकृतंयथा/उद्भ्रान्तहृदयश्चापिविवर्णवनदोऽभवत्/सधुर्योवैपरिस्पन्दन्युगचक्रान्तरंयथा/विह्वलाभ्यांचनेत्राभ्यामपश्यन्निवभूमिपः/कृच्छ्राद्धैर्येणसंस्तभ्यकैकेयीमिदमब्रवीत्/यस्तेमन्त्रकृतःपाणिरग्नौपापेमयाधृतः/तंत्यजामिस्वजंचैवतवपुत्रंसहत्वया/ततःपापसमाचाराकैकेयीपार्थिवंपुनः/उवाचपरुषंवाक्यंवाक्यज्ञारोषमूर्छिता/किमिदंभाषसेराजन्वाक्यंगररुजोपमम्/आनाययितुमक्लिष्टंपुत्रंराममिहार्हसि/स्थाप्यराज्येममसुतंकृत्वारामंवनेचरम्/निःसपत्नांचमांकृत्वाकृतकृत्योभविष्यसि/सनुन्नइवतीक्षेणप्रतोदेनहयोत्तमः/राजाप्रदोचितोऽभीक्ष्णंकैकेयीमिदमब्रवीत्/धर्मबन्धेनबद्धोऽस्मिनष्टाचममचेतना/ज्येष्ठंपुत्रंप्रियंरामंद्रष्टुमिच्छामिधार्मिकम्/इतिराज्ञोवचःश्रुत्वाकैकेयीतदनन्तरम्/स्वयमेवाब्रवीत्सूतंगच्छत्वंराममानय/ततःसराजातंसूतंसन्नहर्षःसुतंप्रति/शोकारक्तेक्षणःश्रीमानुद्वीक्ष्योवाचधार्मिकः/सुमन्त्रःकरुणंश्रुत्वादृष्ट्वादीनंचपार्थिवम्/प्रगृहीताञ्जलिःकिंचित्तस्माद्देशादपाक्रमन्/यदावक्तुंस्वयंदैन्यान्नशशाकमहीपतिः/तदासुमन्त्रंमन्त्रज्ञाकैकेयीप्रत्युवाचह/सुमन्त्ररामंद्रक्ष्यामिशीघ्रमानयसुन्दरम्/समन्यमानःकल्याणंहृदयेनननन्दच/सुमन्त्रश्चिन्तयामासत्वरितंचोदितस्तया/व्यक्तंरामोऽभिषेकार्थमिहायास्यतिधर्मवित्/इतिसूतोमतिंकृत्वाहर्षेणमहतापुनः/निर्जगाममहातेजाराघवस्यदिदृक्षया/ततःपुरस्तात्सहसाविनिर्गतो॑महीपतीन्द्वारगतान्विलोकयन्/ददर्शपौरान्विविधान्महाधनान्॑उपस्थितान्द्वारमुपेत्यविष्ठितान्/तेतुतांरजनीमुष्यब्राह्मणावेदपारगाः/उपतस्थुरुपस्थानंसहराजपुरोहिताः2151/अमात्याबलमुख्याश्चमुख्यायेनिगमस्यच/राघवस्याभिषेकार्थेप्रीयमाणास्तुसंगताः/उदितेविमलेसूर्येपुष्येचाभ्यागतेऽहनि/अभिषेकायरामस्यद्विजेन्द्रैरुपकल्पितम्/काञ्चनाजलकुम्भाश्चभद्रपीठंस्वलंकृतम्/रामश्चसम्यगास्तीर्णोभास्वराव्याघ्रचर्मणा/गङ्गायमुनयोःपुण्यात्संगमादाहृतंजलम्/याश्चान्याःसरितःपुण्याह्रदाःकूपाःसरांसिच/प्राग्वाहाश्चोर्ध्ववाहाश्चतिर्यग्वाहाःसमाहिताः/ताभ्यश्चैवाहृतंतोयंसमुद्रेभ्यश्चसर्वशः/क्षौद्रंदधिघृतंलाजाधर्भाःसुमनसःपयः/सलाजाःक्षीरिभिश्छन्नाघटाःकाञ्चनराजताः/पद्मोत्पलयुताभान्तिपूर्णाःपरमवारिणा/चन्द्रांशुविकचप्रख्यंपाण्डुरंरत्नभूषितम्/सज्जंतिष्ठतिरामस्यवालव्यजनमुत्तमम्/चन्द्रमण्डलसंकाशमातपत्रंचपाण्डुरम्/सज्जंद्युतिकरंश्रीमदभिषेकपुरस्कृतम्/पाण्डुरश्चवृषःसज्जःपाण्डुराश्वश्चसुस्थितः/प्रस्रुतश्चगजःश्रीमानौपवाह्यःप्रतीक्षते/अष्टौकन्याश्चमङ्गल्याःसर्वाभरणभूषिताः/वादित्राणिचसर्वाणिबन्दिनश्चतथापरे/इक्ष्वाकूणांयथाराज्येसंभ्रियेताभिषेचनम्/तथाजातीयामादायराजपुत्राभिषेचनम्/तेराजवचनात्तत्रसमवेतामहीपतिम्/अपश्यन्तोऽब्रुवन्कोनुराज्ञोनःप्रतिवेदयेत्/नपश्यामश्चराजानमुदितश्चदिवाकरः/यौवराज्याभिषेकश्चसज्जोरामस्यधीमतः/इतितेषुब्रुवाणेषुसार्वभौमान्महीपतीन्/अब्रवीत्तानिदंसर्वान्सुमन्त्रोराजसत्कृतः/अयंपृच्छामिवचनात्सुखमायुष्मतामहम्/राज्ञःसंप्रतिबुद्धस्ययच्चागमनकारणम्/इत्युक्त्वान्तःपुरद्वारमाजगामपुराणवित्/आशीर्भिर्गुणयुक्ताभिरभितुष्टावराघवम्/गताभगवतीरात्रिरहःशिवमुपस्थितम्/बुध्यस्वनृपशार्दूलकुरुकार्यमनन्तरम्/ब्राह्मणाबलमुख्याश्चनैगमाश्चागतानृप/दर्शनंप्रतिकाङ्क्षन्तेप्रतिबुध्यस्वराघव/स्तुवन्तंतंतदासूतंसुमन्त्रंमन्त्रकोविदम्/प्रतिबुध्यततोराजाइदंवचनमब्रवीत्/नचैवसंप्रसुतोऽहमानयेदाशुराघवम्/इतिराजादशरथःसूतंतत्रान्वशात्पुनः/सराजवचनंश्रुत्वाशिरसाप्रतिपूज्यतम्/निर्जगामनृपावासान्मन्यमानःप्रियंमहत्/प्रपन्नोराजमार्गंचपताकाध्वजशोभितम्/ससूतस्तत्रशुश्रावरामाधिकरणाःकथाः/ततोददर्शरुचिरंकैलाससदृशप्रभम्/रामवेश्मसुमन्त्रस्तुशक्रवेश्मसमप्रभम्/महाकपाटपिहितंवितर्दिशतशोभितम्/काञ्चनप्रतिमैकाग्रंमणिविद्रुमतोरणम्/शारदाभ्रघनप्रख्यंदीप्तंमेरुगुहोपमम्/दामभिर्वरमाल्यानांसुमहद्भिरलंकृतम्/सवाजियुक्तेनरथेनसारथिर्॑नराकुलंराजकुलंविलोकयन्/ततःसमासाद्यमहाधनंमहत्॑प्रहृष्टरोमासबभूवसारथिः/तदद्रिकूटाचलमेघसंनिभं॑महाविमानोत्तमवेश्मसंघवत्/अवार्यमाणःप्रविवेशसारथिः॑प्रभूतरत्नंमकरोयथार्णवम्/सतदन्तःपुरद्वारंसमतीत्यजनाकुलम्/प्रविविक्तांततःकक्ष्यामाससादपुराणवित्/प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः/अप्रमादिभिरेकाग्रैःस्वनुरक्तैरधिष्ठिताम्/तत्रकाषायिणोवृद्धान्वेत्रपाणीन्स्वलंकृतान्/ददर्शविष्ठितान्द्वारिस्त्र्यध्यक्षान्सुसमाहितान्/तेसमीक्ष्यसमायान्तंरामप्रियचिकीर्षवः/सहभार्यायरामायक्षिप्रमेवाचचक्षिरे/प्रतिवेदितमाज्ञायसूतमभ्यन्तरंपितुः/तत्रैवानाययामासराघवःप्रियकाम्यया/तंवैश्रवणसंकाशमुपविष्टंस्वलंकृतम्/दादर्शसूतःपर्यङ्केसौवणोसोत्तरच्छदे/वराहरुधिराभेणशुचिनाचसुगन्धिना/अनुलिप्तंपरार्ध्येनचन्दनेनपरंतपम्/स्थितयापार्श्वतश्चापिवालव्यजनहस्तया/उपेतंसीतयाभूयश्चित्रयाशशिनंयथा/तंतपन्तमिवादित्यमुपपन्नंस्वतेजसा/ववन्देवरदंबन्दीनियमज्ञोविनीतवत्/प्राञ्जलिस्तुसुखंपृष्ट्वाविहारशयनासने/राजपुत्रमुवाचेदंसुमन्त्रोराजसत्कृतः/कौसल्यासुप्रभादेवपितात्वंद्रष्टुमिच्छति/महिष्यासहकैकेय्यागम्यतांतत्रमाचिरम्/एवमुक्तस्तुसंहृष्टोनरसिंहोमहाद्युतिः/ततःसंमानयामाससीतामिदमुवाचह/देविदेवश्चदेवीचसमागम्यमदन्तरे/मन्त्रेयेतेध्रुवंकिंचिदभिषेचनसंहितम्/लक्षयित्वाह्यभिप्रायंप्रियकामासुदक्षिणा/संचोदयतिराजानंमदर्थंमदिरेक्षणा/यादृशीपरिषत्तत्रतादृशोदूतआगतः/ध्रुवमद्यैवमांराजायौवराज्येऽभिषेक्ष्यति/हन्तशीघ्रमितोगत्वाद्रक्ष्यामिचमहीपतिः/सहत्वंपरिवारेणसुखमास्स्वरमस्यच/पतिसंमानितासीताभर्तारमसितेक्षणा/आद्वारमनुवव्राजमङ्गलान्यभिदध्युषी/ससर्वानर्थिनोदृष्ट्वासमेत्यप्रतिनन्द्यच/ततःपावकसंकाशमारुरोहरथोत्तमम्/मुष्णन्तमिवचक्षूंषिप्रभयाहेमवर्चसं/करेणुशिशुकल्पैश्चयुक्तंपरमवाजिभिः/हरियुक्तंसहस्राक्षोरथमिन्द्रइवाशुगम्/प्रययौतूर्णमास्थायराघवोज्वलितःश्रिया/सपर्जन्यइवाकाशेस्वनवानभिनादयन्/निकेतान्निर्ययौश्रीमान्महाभ्रादिवचन्द्रमाः/छत्रचामरपाणिस्तुलक्ष्मणोराघवानुजः/जुगोपभ्रातरंभ्रातारथमास्थायपृष्ठतः/ततोहलहलाशब्दस्तुमुलःसमजायत/तस्यनिष्क्रममाणस्यजनौघस्यसमन्ततः/सराघवस्तत्रकथाप्रलापं॑शुश्रावलोकस्यसमागतस्य/आत्माधिकाराविविधाश्चवाचः॑प्रहृष्टरूपस्यपुरेजनस्य/एषश्रियंगच्छतिराघवोऽद्य॑राजप्रसादाद्विपुलांगमिष्यन्/एतेवयंसर्वसमृद्धकामा॑येषामयंनोभविताप्रशास्ता/लाभोजनस्यास्ययदेषसर्वं॑प्रपत्स्यतेराष्ट्रमिदंचिराय/सघोषवद्भिश्चहयैःसनागैः॑पुरःसरैःस्वस्तिकसूतमागधैः/महीयमानःप्रवरैश्चवादकैर्॑अभिष्टुतोवैश्रवणोयथाययौ/करेणुमातङ्गरथाश्वसंकुलं॑महाजनौघैःपरिपूर्णचत्वरम्/प्रभूतरत्नंबहुपण्यसंचयं॑ददर्शरामोरुचिरंमहापथम्21647/सरामोरथमास्थायसंप्रहृष्टसुहृज्जनः2171/अपश्यन्नगरंश्रीमान्नानाजनसमाकुलम्/सगृहैरभ्रसंकाशैःपाण्डुरैरुपशोभितम्/राजमार्गंययौरामोमध्येनागरुधूपितम्/शोभमानमसंबाधंतंराजपथमुत्तमम्/संवृतंविविधैःपण्यैर्भक्ष्यैरुच्चावचैरपि/आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिःसमुदीरितान्/यथार्हंचापिसंपूज्यसर्वानेवनरान्ययौ/पितामहैराचरितंतथैवप्रपितामहैः/अद्योपादायतंमार्गमभिषिक्तोऽनुपालय/यथास्मलालिताःपित्रायथापूर्वैःपितामहैः/ततःसुखतरंसर्वेरामेवत्स्यामराजनि/अलमद्यहिभुक्तेनपरमार्थैरलंचनः/यथापश्यामनिर्यान्तंरामंराज्येप्रतिष्ठितम्/अतोहिनप्रियतरंनान्यत्किंचिद्भविष्यति/यथाभिषेकोरामस्यराज्येनामिततेजसः/एताश्चान्याश्चसुहृदामुदासीनःकथाःशुभाः/आत्मसंपूजनीःशृण्वन्ययौरामोमहापथम्/नहितस्मान्मनःकश्चिच्चक्षुषीवानरोत्तमात्/नरःशक्नोत्यपाक्रष्टुमतिक्रान्तेऽपिराघवे/सर्वेषांसहिधर्मात्मावर्णानांकुरुतेदयाम्/चतुर्णांहिवयःस्थानांतेनतेतमनुव्रताः/सराजकुलमासाद्यमहेन्द्रभवनोपमम्/राजपुत्रःपितुर्वेश्मप्रविवेशश्रियाज्वलन्/ससर्वाःसमतिक्रम्यकक्ष्यादशरथात्मजः/संनिवर्त्यजनंसर्वंशुद्धान्तःपुरमभ्यगात्/ततःप्रविष्टेपितुरन्तिकंतदा॑जनःससर्वोमुदितोनृपात्मजे/प्रतीक्षतेतस्यपुनःस्मनिर्गमं॑यथोदयंचन्द्रमसःसरित्पतिः21722/सददर्शासनेरामोनिषण्णंपितरंशुभे2181/कैकेयीसहितंदीनंमुखेनपरिशुष्यता/सपितुश्चरणौपूर्वमभिवाद्यविनीतवत्/ततोववन्देचरणौकैकेय्याःसुसमाहितः/रामेत्युक्त्वाचवचनंवाष्पपर्याकुलेक्षणः/शशाकनृपतिर्दीनोनेक्षितुंनाभिभाषितुम्/तदपूर्वंनरपतेर्दृष्ट्वारूपंभयावहम्/रामोऽपिभयमापन्नःपदास्पृष्ट्वेवपन्नगम्/इन्द्रियैरप्रहृष्टैस्तंशोकसंतापकर्शितम्/निःश्वसन्तंमहाराजंव्यथिताकुलचेतसं/ऊर्मिमालिनमक्षोभ्यंक्षुभ्यन्तमिवसागरम्/उपप्लुतमिवादित्यमुक्तानृतमृषिंयथा/अचिन्त्यकल्पंहिपितुस्तंशोकमुपधारयन्/बभूवसंरब्धतरःसमुद्रइवपर्वणि/चिन्तयामासचतदारामःपितृहितेरतः/किंस्विदद्यैवनृपतिर्नमांप्रत्यभिनन्दति/अन्यदामांपितादृष्ट्वाकुपितोऽपिप्रसीदति/तस्यमामद्यसंप्रेक्ष्यकिमायासःप्रवर्तते/सदीनइवशोकार्तोविषण्णवदनद्युतिः21810/कैकेयीमभिवाद्यैवरामोवचनमब्रवीत्/कच्चिन्मयानापराधमज्ञानाद्येनमेपिता/कुपितस्तन्ममाचक्ष्वत्वंचैवैनंप्रसादय/विवर्णवदनोदीनोनहिमामभिभाषते/शारीरोमानसोवापिकच्चिदेनंनबाधते/संतापोवाभितापोवादुर्लभंहिसदासुखम्/कच्चिन्नकिंचिद्भरतेकुमारेप्रियदर्शने/शत्रुघ्नेवामहासत्त्वेमातॄणांवाममाशुभम्/अतोषयन्महाराजमकुर्वन्वापितुर्वचः/मुहूर्तमपिनेच्छेयंजीवितुंकुपितेनृपे/यतोमूलंनरःपश्येत्प्रादुर्भावमिहात्मनः21816/कथंतस्मिन्नवर्तेतप्रत्यक्षेसतिदैवते/कच्चित्तेपरुषंकिंचिदभिमानात्पितामम/उक्तोभवत्याकोपेनयत्रास्यलुलितंमनः/एतदाचक्ष्वमेदेवितत्त्वेनपरिपृच्छतः/किंनिमित्तमपूर्वोऽयंविकारोमनुजाधिपे21818/अहंहिवचनाद्राज्ञःपतेयमपिपावके/भक्षयेयंविषंतीक्ष्णंमज्जेयमपिचार्णवे/नियुक्तोगुरुणापित्रानृपेणचहितेनच/तद्ब्रूहिवचनंदेविराज्ञोयदभिकाङ्क्षितम्/करिष्येप्रतिजानेचरामोद्विर्नाभिभाषते/तमार्जवसमायुक्तमनार्यासत्यवादिनम्/उवाचरामंकैकेयीवचनंभृशदारुणम्/पुरादेवासुरेयुद्धेपित्रातेममराघव/रक्षितेनवरौदत्तौसशल्येनमहारणे/तत्रमेयाचितोराजाभरतस्याभिषेचनम्/गमनंदण्डकारण्येतवचाद्यैवराघव/यदिसत्यप्रतिज्ञंत्वंपितरंकर्तुमिच्छसि/आत्मानंचनररेष्ठममवाक्यमिदंशृणु/सनिदेशेपितुस्तिष्ठयथातेनप्रतिश्रुतम्/त्वयारण्यंप्रवेष्टव्यंनववर्षाणिपञ्चच/सप्तसप्तचवर्षाणिदण्डकारण्यमाश्रितः/अभिषेकमिमंत्यक्त्वाजटाचीरधरोवस/भरतःकोसलपुरेप्रशास्तुवसुधामिमाम्/नानारत्नसमाकीर्णंसवाजिरथकुञ्जराम्21838/तदप्रियममित्रघ्नोवचनंमरणोपमम्/श्रुत्वानविव्यथेरामःकैकेयींचेदमब्रवीत्2191/एवमस्तुगमिष्यामिवनंवस्तुमहंत्वतः/जटाचीरधरोराज्ञःप्रतिज्ञामनुपालयन्/इदंतुज्ञातुमिच्छामिकिमर्थंमांमहीपतिः/नाभिनन्दतिदुर्धर्षोयथापुरमरिंदमः/मन्युर्नचत्वयाकार्योदेविब्रूहितवाग्रतः/यास्यामिभवसुप्रीतावनंचीरजटाधरः/हितेनगुरुणापित्राकृतज्ञेननृपेणच/नियुज्यमानोविश्रब्धंकिंनकुर्यादहंप्रियम्/अलीकंमानसंत्वेकंहृदयंदहतीवमे/स्वयंयन्नाहमांराजाभरतस्याभिषेचनम्/अहंहिसीतांराज्यंचप्राणानिष्टान्धनानिच/हृष्टोभ्रात्रेस्वयंदद्यांभरतायाप्रचोदितः/किंपुनर्मनुजेन्द्रेणस्वयंपित्राप्रचोदितः/तवचप्रियकामार्थंप्रतिज्ञामनुपालयन्/तदाश्वासयहीमंत्वंकिंन्विदंयन्महीपतिः/वसुधासक्तनयनोमन्दमश्रूणिमुञ्चति/गच्छन्तुचैवानयितुंदूताःशीघ्रजवैर्हयैः/भरतंमातुलकुलादद्यैवनृपशासनात्/दण्डकारण्यमेषोऽहमितोगच्छामिसत्वरः/अविचार्यपितुर्वाक्यंसमावस्तुंचतुर्दश/साहृष्टातस्यतद्वाक्यंश्रुत्वारामस्यकैकयी/प्रस्थानंश्रद्दधानाहित्वरयामासराघवम्/एवंभवतुयास्यन्तिदूताःशीघ्रजवैर्हयैः/भरतंमातुलकुलादुपावर्तयितुंनराः/तवत्वहंक्षमंमन्येनोत्सुकस्यविलम्बनम्/रामतस्मादितःशीघ्रंवनंत्वंगन्तुमर्हसि/व्रीडान्वितःस्वयंयच्चनृपस्त्वांनाभिभाषते/नैतत्किंचिन्नरश्रेष्ठमन्युरेषोऽपनीयताम्/यावत्त्वंनवनंयातःपुरादस्मादभित्वरन्/पितातावन्नतेरामस्नास्यतेभोक्ष्यतेऽपिवा/धिक्कष्टमितिनिःश्वस्यराजाशोकपरिप्लुतः/मूर्छितोन्यपतत्तस्मिन्पर्यङ्केहेमभूषिते/रामोऽप्युत्थाप्यराजानंकैकेय्याभिप्रचोदितः/कशयेवाहतोवाजीवनंगन्तुंकृतत्वरः/तदप्रियमनार्यायावचनंदारुणोदरम्/श्रुत्वागतव्यथोरामःकैकेयींवाक्यमब्रवीत्/नाहमर्थपरोदेविलोकमावस्तुमुत्सहे/विद्धिमामृषिभिस्तुल्यंकेवलंधर्ममास्थितम्/यदत्रभवतःकिंचिच्छक्यंकर्तुंप्रियंमया/प्राणानपिपरित्यज्यसर्वथाकृतमेवतत्/नह्यतोधर्मचरणंकिंचिदस्तिमहत्तरम्/यथापितरिशुश्रूषातस्यवावचनक्रिया/अनुक्तोऽप्यत्रभवताभवत्यावचनादहम्/वनेवत्स्यामिविजनेवर्षाणीहचतुर्दश/ननूनंमयिकैकेयिकिंचिदाशंससेगुणम्/यद्राजानमवोचस्त्वंममेश्वरतरासती/यावन्मातरमापृच्छेसीतांचानुनयाम्यहम्/ततोऽद्यैवगमिष्यामिदण्डकानांमहद्वनम्/भरतःपालयेद्राज्यंशुश्रूषेच्चपितुर्यथा/तहाभवत्याकर्तव्यंसहिधर्मःसनातनः/सरामस्यवचःश्रुत्वाभृशंदुःखहतःपिता/शोकादशक्नुवन्बाष्पंप्ररुरोदमहास्वनम्/वन्दित्वाचरणौरामोविसंज्ञस्यपितुस्तदा/कैकेय्याश्चाप्यनार्यायानिष्पपातमहाद्युतिः/सरामःपितरंकृत्वाकैकेयींचप्रदक्षिणम्/निष्क्रम्यान्तःपुरात्तस्मात्स्वंददर्शसुहृज्जनम्/तंबाष्पपरिपूर्णाक्षःपृष्ठतोऽनुजगामह/लक्ष्मणःपरमक्रुद्धःसुमित्रानन्दवर्धनः/आभिषेचनिकंभाण्डंकृत्वारामःप्रदक्षिणम्/शनैर्जगामसापेक्षोदृष्टिंतत्राविचालयन्/नचास्यमहतींलक्ष्मींराज्यनाशोऽपकर्षति/लोककान्तस्यकान्तत्वंशीतरश्मेरिवक्षपा/नवनंगन्तुकामस्यत्यजतश्चवसुंधराम्/सर्वलोकातिगस्येवलक्ष्यतेचित्तविक्रिया/धारयन्मनसादुःखमिन्द्रियाणिनिगृह्यच/प्रविवेशात्मवान्वेश्ममातुरप्रियशंसिवान्/प्रविश्यवेश्मातिभृशंमुदान्वितं॑समीक्ष्यतांचार्थविपत्तिमागताम्/नचैवरामोऽत्रजगामविक्रियां॑सुहृज्जनस्यात्मविपत्तिशङ्कया/रामस्तुभृशमायस्तोनिःश्वसन्निवकुञ्जरः/जगामसहितोभ्रात्रामातुरन्तःपुरंवशी2208/सोऽपश्यत्पुरुषंतत्रवृद्धंपरमपूजितम्/उपविष्टंगृहद्वारितिष्ठतश्चापरान्बहून्/प्रविश्यप्रथमांकक्ष्यांद्वितीयायांददर्शसः/ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान्/प्रणम्यरामस्तान्वृद्धांस्तृतीयायांददर्शसः/स्त्रियोवृद्धाश्चबालाश्चद्वाररक्षणतत्पराः/वर्धयित्वाप्रहृष्टास्ताःप्रविश्यचगृहंस्त्रियः/न्यवेदयन्तत्वरिताराममातुःप्रियंतदा/कौसल्यापितदादेवीरात्रिंस्थित्वासमाहिता/प्रभातेत्वकरोत्पूजांविष्णोःपुत्रहितैषिणी22014/साक्षौमवसनाहृष्टानित्यंव्रतपरायणा/अग्निंजुहोतिस्मतदामन्त्रवत्कृतमङ्गला/प्रविश्यचतदारामोमातुरन्तःपुरंशुभम्/ददर्शमातरंतत्रहावयन्तींहुताशनम्/साचिरस्यात्मजंदृष्ट्वामातृनन्दनमागतम्/अभिचक्रामसंहृष्टाकिशोरंवडवायथा/तमुवाचदुराधर्षंराघवंसुतमात्मनः/कौसल्यापुत्रवात्सल्यादिदंप्रियहितंवचः/वृद्धानांधर्मशीलानांराजर्षीणांमहात्मनाम्/प्राप्नुह्यायुश्चकीर्तिंचधर्मंचोपहितंकुले/सत्यप्रतिज्ञंपितरंराजानंपश्यराघव/अद्यैवहित्वांधर्मात्मायौवराज्येऽभिषेक्ष्यति/मातरंराघवःकिंचित्प्रसार्याञ्जलिमब्रवीत्/सस्वभावविनीतश्चगौरवाच्चतदानतः/देविनूनंनजानीषेमहद्भयमुपस्थितम्/इदंतवचदुःखायवैदेह्यालक्ष्मणस्यच/चतुर्दशहिवर्षाणिवत्स्यामिविजनेवने/मधुमूलफलैर्जीवन्हित्वामुनिवदामिषम्22029/भरतायमहाराजोयौवराज्यंप्रयच्छति/मांपुनर्दण्डकारण्यंविवासयतितापसं/तामदुःखोचितांदृष्ट्वापतितांकदलीमिव/रामस्तूत्थापयामासमातरंगतचेतसं/उपावृत्योत्थितांदीनांवडवामिववाहिताम्/पांशुगुण्ठितसर्वाग्नींविममर्शचपाणिना/साराघवमुपासीनमसुखार्तासुखोचिता/उवाचपुरुषव्याघ्रमुपशृण्वतिलक्ष्मणे/यदिपुत्रनजायेथाममशोकायराघव/नस्मदुःखमतोभूयःपश्येयमहमप्रजा/एकएवहिवन्ध्यायाःशोकोभवतिमानवः/अप्रजास्मीतिसंतापोनह्यन्यःपुत्रविद्यते/नदृष्टपूर्वंकल्याणंसुखंवापतिपौरुषे/अपिपुत्रेविपश्येयमितिरामास्थितंमया/साबहून्यमनोज्ञानिवाक्यानिहृदयच्छिदाम्/अहंश्रोष्येसपत्नीनामवराणांवरासती/अतोदुःखतरंकिंनुप्रमदानांभविष्यति/त्वयिसंनिहितेऽप्येवमहमासंनिराकृता/किंपुनःप्रोषितेतातध्रुवंमरणमेवमे/योहिमांसेवतेकश्चिदथवाप्यनुवर्तते/कैकेय्याःपुत्रमन्वीक्ष्यसजनोनाभिभाषते/दशसप्तचवर्षाणितवजातस्यराघव/अतीतानिप्रकाङ्क्षन्त्यामयादुःखपरिक्षयम्22045/उपवासैश्चयोगैश्चबहुभिश्चपरिश्रमैः/दुःखंसंवर्धितोमोघंत्वंहिदुर्गतयामया/स्थिरंतुहृदयंमन्येममेदंयन्नदीर्यते/प्रावृषीवमहानद्याःस्पृष्टंकूलंनवाम्भसा/ममैवनूनंमरणंनविद्यते॑नचावकाशोऽस्तियमक्षयेमम/यदन्तकोऽद्यैवनमांजिहीर्षति॑प्रसह्यसिंहोरुदतींमृगीमिव/स्थिरंहिनूनंहृदयंममायसं॑नभिद्यतेयद्भुविनावदीर्यते/अनेनदुःखेनचदेहमर्पितं॑ध्रुवंह्यकालेमरणंनविद्यते/इदंतुदुःखंयदनर्थकानिमे॑व्रतानिदानानिचसंयमाश्चहि/तपश्चतप्तंयदपत्यकारणात्॑सुनिष्फलंबीजमिवोप्तमूषरे/यदिह्यकालेमरणंस्वयेच्छया॑लभेतकश्चिद्गुरुदुःखकर्शितः/गताहमद्यैवपरेतसंसदं॑विनात्वयाधेनुरिवात्मजेनवै/भृशमसुखममर्षितातदा॑बहुविललापसमीक्ष्यराघवम्/व्यसनमुपनिशाम्यसामहत्॑सुतमिवबद्धमवेक्ष्यकिंनरी22055/तथातुविलपन्तींतांकौसल्यांराममातरम्2211/उवाचलक्ष्मणोदीनस्तत्कालसदृशंवचः/नरोचतेममाप्येतदार्येयद्राघवोवनम्/त्यक्त्वाराज्यश्रियंगच्छेत्स्त्रियावाक्यवशंगतः/विपरीतश्चवृद्धश्चविषयैश्चप्रधर्षितः/नृपःकिमिवनब्रूयाच्चोद्यमानःसमन्मथः/नास्यापराधंपश्यामिनापिदोषंतथाविधम्/येननिर्वास्यतेराष्ट्राद्वनवासायराघवः/नतंपश्याम्यहंलोकेपरोक्षमपियोनरः/अमित्रोऽपिनिरस्तोऽपियोऽस्यदोषमुदाहरेत्/देवकल्पमृजुंदान्तंरिपूणामपिवत्सलम्/अवेक्षमाणःकोधर्मंत्यजेत्पुत्रमकारणात्/तदिदंवचनंराज्ञःपुनर्बाल्यमुपेयुषः/पुत्रःकोहृदयेकुर्याद्राजवृत्तमनुस्मरन्/यावदेवनजानातिकश्चिदर्थमिमंनरः/तावदेवमयासाधमात्मस्थंकुरुशासनम्/मयापार्श्वेसधनुषातवगुप्तस्यराघव/कःसमर्थोऽधिकंकर्तुंकृतान्तस्येवतिष्ठतः/निर्मनुष्यामिमांसर्वामयोध्यांमनुजर्षभ/करिष्यामिशरैस्तीक्ष्णैर्यदिस्थास्यतिविप्रिये/भरतस्याथपक्ष्योवायोवास्यहितमिच्छति/सर्वानेतान्वधिष्यामिमृदुर्हिपरिभूयते/त्वयाचैवमयाचैवकृत्वावैरमनुत्तमम्/कस्यशक्तिःश्रियंदातुंभरतायारिशासन/अनुरक्तोऽस्मिभावेनभ्रातरंदेवितत्त्वतः/सत्येनधनुषाचैवदत्तेनेष्टेनतेशपे/दीप्तमग्निमरण्यंवायदिरामःप्रवेक्ष्यते/प्रविष्टंतत्रमांदेवित्वंपूर्वमवधारय/हरामिवीर्याद्दुःखंतेतमःसूर्यइवोदितः/देवीपश्यतुमेवीर्यंराघवश्चैवपश्यतु/एतत्तुवचनंश्रुत्वालक्ष्मणस्यमहात्मनः/उवाचरामंकौसल्यारुदन्तीशोकलालसा/भ्रातुस्तेवदतःपुत्रलक्ष्मणस्यश्रुतंत्वया/यदत्रानन्तरंतत्त्वंकुरुष्वयदिरोचते/नचाधर्म्यंवचःश्रुत्वासपत्न्याममभाषितम्/विहायशोकसंतप्तांगन्तुमर्हसिमामितः/धर्मज्ञयदिधर्मिष्ठोधर्मंचरितुमिच्छसि/शुश्रूषमामिहस्थस्त्वंचरधर्ममनुत्तमम्/शुश्रूषुर्जननींपुत्रस्वगृहेनियतोवसन्/परेणतपसायुक्तःकाश्यपस्त्रिदिवंगतः/यथैवराजापूज्यस्तेगौरवेणतथाह्यहम्/त्वांनाहमनुजानामिनगन्तव्यमितोवनम्/त्वद्वियोगान्नमेकार्यंजीवितेनसुखेनवा/त्वयासहममश्रेयस्तृणानामपिभक्षणम्/यदित्वंयास्यसिवनंत्यक्त्वामांशोकलालसाम्/अहंप्रायमिहासिष्येनहिशक्ष्यामिजीवितुम्/ततस्त्वंप्राप्स्यसेपुत्रनिरयंलोकविश्रुतम्/ब्रह्महत्यामिवाधर्मात्समुद्रःसरितांपतिः/विलपन्तींतथादीनांकौसल्यांजननींततः/उवाचरामोधर्मात्मावचनंधर्मसंहितम्/नास्तिशक्तिःपितुर्वाक्यंसमतिक्रमितुंमम/प्रसादयेत्वांशिरसागन्तुमिच्छाम्यहंवनम्/ऋषिणाचपितुर्वाक्यंकुर्वताव्रतचारिणा/गौर्हताजानताधर्मंकण्डुनापिविपश्चिता/अस्माकंचकुलेपूर्वंसगरस्याज्ञयापितुः/खनद्भिःसागरैर्भूतिमवाप्तःसुमहान्वधः/जामदग्न्येनरामेणरेणुकाजननीस्वयम्/कृत्तापरशुनारण्येपितुर्वचनकारिणा/नखल्वेतन्मयैकेनक्रियतेपितृशासनम्/पूर्वैरयमभिप्रेतोगतोमार्गोऽनुगम्यते/तदेतत्तुमयाकार्यंक्रियतेभुविनान्यथा/पितुर्हिवचनंकुर्वन्नकश्चिन्नामहीयते/तामेवमुक्त्वाजननींलक्ष्मणंपुनरब्रवीत्/तवलक्ष्मणजानामिमयिस्नेहमनुत्तमम्/अभिप्रायमविज्ञायसत्यस्यचशमस्यच/धर्मोहिपरमोलोकेधर्मेसत्यंप्रतिष्ठितम्/धर्मसंश्रितमेतच्चपितुर्वचनमुत्तमम्/संश्रुत्यचपितुर्वाक्यंमातुर्वाब्राह्मणस्यवा/नकर्तव्यंवृथावीरधर्ममाश्रित्यतिष्ठता/सोऽहंनशक्ष्यामिपितुर्नियोगमतिवर्तितुम्/पितुर्हिवचनाद्वीरकैकेय्याहंप्रचोदितः/तदेनांविसृजानार्यांक्षत्रधर्माश्रितांमतिम्/धर्ममाश्रयमातैक्ष्ण्यंमद्बुद्धिरनुगम्यताम्/तमेवमुक्त्वासौहार्दाद्भ्रातरंलक्ष्मणाग्रजः/उवाचभूयःकौसल्यांप्राञ्जलिःशिरसानतः/अनुमन्यस्वमांदेविगमिष्यन्तमितोवनम्/शापितासिममप्राणैःकुरुस्वस्त्ययनानिमे/तीर्णप्रतिज्ञश्चवनात्पुनरेष्याम्यहंपुरीम्/यशोह्यहंकेवलराज्यकारणान्॑नपृष्ठतःकर्तुमलंमहोदयम्/अदीर्घकालेनतुदेविजीविते॑वृणेऽवरामद्यमहीमधर्मतः/प्रसादयन्नरवृषभःसमातरं॑पराक्रमाज्जिगमिषुरेवदण्डकान्/अथानुजंभृशमनुशास्यदर्शनं॑चकारतांहृदिजननींप्रदक्षिणम्22164/अथतंव्यथयादीनंसविशेषममर्षितम्/श्वसन्तमिवनागेन्द्रंरोषविस्फारितेक्षणम्2221/आसाद्यरामःसौमित्रिंसुहृदंभ्रातरंप्रियम्/उवाचेदंसधैर्येणधारयन्सत्त्वमात्मवान्/सौमित्रेयोऽभिषेकार्थेममसंभारसंभ्रमः/अभिषेकनिवृत्त्यर्थेसोऽस्तुसंभारसंभ्रमः/यस्यामदभिषेकार्थंमानसंपरितप्यते/मातानःसायथानस्यात्सविशङ्कातथाकुरु/तस्याःशङ्कामयंदुःखंमुहूर्तमपिनोत्सहे/मनसिप्रतिसंजातंसौमित्रेऽहमुपेक्षितुम्/नबुद्धिपूर्वंनाबुद्धंस्मरामीहकदाचन/मातॄणांवापितुर्वाहंकृतमल्पंचविप्रियम्/सत्यःसत्याभिसंधश्चनित्यंसत्यपराक्रमः/परलोकभयाद्भीतोनिर्भयोऽस्तुपितामम/तस्यापिहिभवेदस्मिन्कर्मण्यप्रतिसंहृते/सत्यंनेतिमनस्तापस्तस्यतापस्तपेच्चमाम्/अभिषेकविधानंतुतस्मात्संहृत्यलक्ष्मण/अन्वगेवाहमिच्छामिवनंगन्तुमितःपुनः/ममप्रव्राजनादद्यकृतकृत्यानृपात्मजा/सुतंभरतमव्यग्रमभिषेचयिताततः/मयिचीराजिनधरेजटामण्डलधारिणि/गतेऽरण्यंचकैकेय्याभविष्यतिमनःसुखम्/बुद्धिःप्रणीतायेनेयंमनश्चसुसमाहितम्/तत्तुनार्हामिसंक्लेष्टुंप्रव्रजिष्यामिमाचिरम्/कृतान्तस्त्वेवसौमित्रेद्रष्टव्योमत्प्रवासने/राज्यस्यचवितीर्णस्यपुनरेवनिवर्तने/कैकेय्याःप्रतिपत्तिर्हिकथंस्यान्ममपीडने/यदिभावोनदैवोऽयंकृतान्तविहितोभवेत्/जानासिहियथासौम्यनमातृषुममान्तरम्/भूतपूर्वंविशेषोवातस्यामयिसुतेऽपिवा/सोऽभिषेकनिवृत्त्यर्थैःप्रवासार्थैश्चदुर्वचैः/उग्रैर्वाक्यैरहंतस्यानान्यद्दैवात्समर्थये/कथंप्रकृतिसंपन्नाराजपुत्रीतथागुणा/ब्रूयात्साप्राकृतेवस्त्रीमत्पीडांभर्तृसंनिधौ/यदचिन्त्यंतुतद्दैवंभूतेष्वपिनहन्यते/व्यक्तंमयिचतस्यांचपतितोहिविपर्ययः/कश्चिद्दैवेनसौमित्रेयोद्धुमुत्सहतेपुमान्/यस्यनग्रहणंकिंचित्कर्मणोऽन्यत्रदृश्यते/सुखदुःखेभयक्रोधौलाभालाभौभवाभवौ/यस्यकिंचित्तथाभूतंननुदैवस्यकर्मतत्/व्याहतेऽप्यभिषेकेमेपरितापोनविद्यते/तस्मादपरितापःसंस्त्वमप्यनुविधायमाम्/प्रतिसंहारयक्षिप्रमाभिषेचनिकींक्रियाम्/नलक्ष्मणास्मिन्ममराज्यविघ्ने॑मातायवीयस्यतिशङ्कनीया/दैवाभिपन्नाहिवदन्त्यनिष्टं॑जानासिदैवंचतथाप्रभावम्22230/इतिब्रुवतिरामेतुलक्ष्मणोऽधःशिरामुहुः/श्रुत्वामध्यंजगामेवमनसादुःखहर्षयोः2231/तदातुबद्ध्वाभ्रुकुटींभ्रुवोर्मध्येनरर्षभ/निशश्वासमहासर्पोबिलस्थइवरोषितः/तस्यदुष्प्रतिवीक्ष्यंतद्भ्रुकुटीसहितंतदा/बभौक्रुद्धस्यसिंहस्यमुखस्यसदृशंमुखम्/अग्रहस्तंविधुन्वंस्तुहस्तीहस्तमिवात्मनः/तिर्यगूर्ध्वंशरीरेचपातयित्वाशिरोधराम्/अग्राक्ष्णावीक्षमाणस्तुतिर्यग्भ्रातरमब्रवीत्/अस्थानेसंभ्रमोयस्यजातोवैसुमहानयम्/धर्मदोषप्रसङ्गेनलोकस्यानतिशङ्कया/कथंह्येतदसंभ्रान्तस्त्वद्विधोवक्तुमर्हति/यथादैवमशौण्डीरंशौण्डीरःक्षत्रियर्षभः/किंनामकृपणंदैवमशक्तमभिशंससि/पापयोस्तुकथंनामतयोःशङ्कानविद्यते/सन्तिधर्मोपधाःश्लक्ष्णाधर्मात्मन्किंनबुध्यसे/लोकविद्विष्टमारब्धंत्वदन्यस्याभिषेचनम्/येनेयमागताद्वैधंतवबुद्धिर्महीपते/सहिधर्मोममद्वेष्यःप्रसङ्गाद्यस्यमुह्यसि/यद्यपिप्रतिपत्तिस्तेदैवीचापितयोर्मतम्/तथाप्युपेक्षणीयंतेनमेतदपिरोचते/विक्लवोवीर्यहीनोयःसदैवमनुवर्तते/वीराःसंभावितात्मानोनदैवंपर्युपासते/दैवंपुरुषकारेणयःसमर्थःप्रबाधितुम्/नदैवेनविपन्नार्थःपुरुषःसोऽवसीदति/द्रक्ष्यन्तित्वद्यदैवस्यपौरुषंपुरुषस्यच/दैवमानुषयोरद्यव्यक्ताव्यक्तिर्भविष्यति/अद्यमत्पौरुषहतंदैवंद्रक्ष्यन्तिवैजनाः/यद्दैवादाहतंतेऽद्यदृष्टंराज्याभिषेचनम्/अत्यङ्कुशमिवोद्दामंगजंमदबलोद्धतम्/प्रधावितमहंदैवंपौरुषेणनिवर्तये/लोकपालाःसमस्तास्तेनाद्यरामाभिषेचनम्/नचकृत्स्नास्त्रयोलोकाविहन्युःकिंपुनःपिता/यैर्विवासस्तवारण्येमिथोराजन्समर्थितः/अरण्येतेविवत्स्यन्तिचतुर्दशसमास्तथा/अहंतदाशांछेत्स्यामिपितुस्तस्याश्चयातव/अभिषेकविघातेनपुत्रराज्यायवर्तते/मद्बलेनविरुद्धायनस्याद्दैवबलंतथा/प्रभविष्यतिदुःखाययथोग्रंपौरुषंमम/ऊर्ध्वंवर्षसहस्रान्तेप्रजापाल्यमनन्तरम्/आर्यपुत्राःकरिष्यन्तिवनवासंगतेत्वयि/पूर्वराजर्षिवृत्त्याहिवनवासोविधीयते/प्रजानिक्षिप्यपुत्रेषुपुत्रवत्परिपालने/सचेद्राजन्यनेकाग्रेराज्यविभ्रमशङ्कया/नैवमिच्छसिधर्मात्मन्राज्यंरामत्वमात्मनि/प्रतिजानेचतेवीरमाभूवंवीरलोकभाक्/राज्यंचतवरक्षेयमहंवेलेवसागरम्/मङ्गलैरभिषिञ्चस्वतत्रत्वंव्यापृतोभव/अहमेकोमहीपालानलंवारयितुंबलात्/नशोभार्थाविमौबाहूनधनुर्भूषणायमे/नासिराबन्धनार्थायनशराःस्तम्भहेतवः/अमित्रदमनार्थंमेसर्वमेतच्चतुष्टयम्/नचाहंकामयेऽत्यर्थंयःस्याच्छत्रुर्मतोमम/असिनातीक्ष्णधारेणविद्युच्चलितवर्चसा/प्रगृहीतेनवैशत्रुंवज्रिणंवानकल्पये/खड्गनिष्पेषनिष्पिष्टैर्गहनादुश्चराचमे/हस्त्यश्वनरहस्तोरुशिरोभिर्भवितामही/खड्गधाराहतामेऽद्यदीप्यमानाइवाद्रयः/पतिष्यन्तिद्विपाभूमौमेघाइवसविद्युतः/बद्धगोधाङ्गुलित्राणेप्रगृहीतशरासने/कथंपुरुषमानीस्यात्पुरुषाणांमयिस्थिते/बहुभिश्चैकमत्यस्यन्नेकेनचबहूञ्जनान्/विनियोक्ष्याम्यहंबाणान्नृवाजिगजमर्मसु/अद्यमेऽस्त्रप्रभावस्यप्रभावःप्रभविष्यति/राज्ञश्चाप्रभुतांकर्तुंप्रभुत्वंचतवप्रभो/अद्यचन्दनसारस्यकेयूरामोक्षणस्यच/वसूनांचविमोक्षस्यसुहृदांपालनस्यच/अनुरूपाविमौबाहूरामकर्मकरिष्यतः/अभिषेचनविघ्नस्यकर्तॄणांतेनिवारणे/ब्रवीहिकोऽद्यैवमयावियुज्यतां॑तवासुहृत्प्राणयशःसुहृज्जनैः/यथातवेयंवसुधावशेभवेत्॑तथैवमांशाधितवास्मिकिंकरः/विमृज्यबाष्पंपरिसान्त्व्यचासकृत्॑सलक्ष्मणंराघववंशवर्धनः/उवाचपित्र्येवचनेव्यवस्थितं॑निबोधमामेषहिसौम्यसत्पथः22341/तंसमीक्ष्यत्ववहितंपितुर्निर्देशपालने2241/कौसल्याबाष्पसंरुद्धावचोधर्मिष्ठमब्रवीत्/अदृष्टदुःखोधर्मात्मासर्वभूतप्रियंवदः/मयिजातोदशरथात्कथमुञ्छेनवर्तयेत्/यस्यभृत्याश्चदासाश्चमृष्टान्यन्नानिभुञ्जते/कथंसभोक्ष्यतेनाथोवनेमूलफलान्ययम्/कएतच्छ्रद्दधेच्छ्रुत्वाकस्यवानभवेद्भयम्/गुणवान्दयितोराज्ञोराघवोयद्विवास्यते/त्वयाविहीनामिहमांशोकाग्निरतुलोमहान्/प्रधक्ष्यतियथाकक्षंचित्रभानुर्हिमात्यये/कथंहिधेनुःस्वंवत्संगच्छन्तंनानुगच्छति/अहंत्वानुगमिष्यामियत्रपुत्रगमिष्यसि/तथानिगदितंमात्रातद्वाक्यंपुरुषर्षभः/श्रुत्वारामोऽब्रवीद्वाक्यंमातरंभृशदुःखिताम्/कैकेय्यावञ्चितोराजामयिचारण्यमाश्रिते/भवत्याचपरित्यक्तोननूनंवर्तयिष्यति/भर्तुःकिलपरित्यागोनृशंसःकेवलंस्त्रियाः/सभवत्यानकर्तव्योमनसापिविगर्हितः/यावज्जीवतिकाकुत्स्थःपितामेजगतीपतिः/शुश्रूषाक्रियतांतावत्सहिधर्मःसनातनः/एवमुक्तातुरामेणकौसल्याशुभदर्शना/तथेत्युवाचसुप्रीताराममक्लिष्टकारिणम्/एवमुक्तस्तुवचनंरामोधर्मभृतांवरः/भूयस्तामब्रवीद्वाक्यंमातरंभृशदुःखिताम्/मयाचैवभवत्याचकर्तव्यंवचनंपितुः/राजाभर्तागुरुःश्रेष्ठःसर्वेषामीश्वरःप्रभुः/इमानितुमहारण्येविहृत्यनवपञ्चच/वर्षाणिपरमप्रीतःस्थास्यामिवचनेतव/एवमुक्ताप्रियंपुत्रंबाष्पपूर्णाननातदा/उवाचपरमार्तातुकौसल्यापुत्रवत्सला/आसांरामसपत्नीनांवस्तुंमध्येनमेक्षमम्/नयमामपिकाकुत्स्थवनंवन्यंमृगींयथा/यदितेगमनेबुद्धिःकृतापितुरपेक्षया/तांतथारुदतींरामोरुदन्वचनमब्रवीत्/जीवन्त्याहिस्त्रियाभर्तादैवतंप्रभुरेवच/भवत्याममचैवाद्यराजाप्रभवतिप्रभुः/भरतश्चापिधर्मात्मासर्वभूतप्रियंवदः/भवतीमनुवर्तेतसहिधर्मरतःसदा/यथामयितुनिष्क्रान्तेपुत्रशोकेनपार्थिवः/श्रमंनावाप्नुयात्किंचिदप्रमत्तातथाकुरु/व्रतोपवासनिरतायानारीपरमोत्तमा/भर्तारंनानुवर्तेतसाचपापगतिर्भवेत्/शुश्रूषमेवकुर्वीतभर्तुःप्रियहितेरता/एषधर्मःपुरादृष्टोलोकेवेदेश्रुतःस्मृतः/पूज्यास्तेमत्कृतेदेविब्राह्मणाश्चैवसुव्रताः/एवंकालंप्रतीक्षस्वममागमनकाङ्क्षिणी/प्राप्स्यसेपरमंकामंमयिप्रत्यागतेसति/यदिधर्मभृतांश्रेष्ठोधारयिष्यतिजीवितम्/एवमुक्तातुरामेणबाष्पपर्याकुलेक्षणा/कौसल्यापुत्रशोकार्तारामंवचनमब्रवीत्/गच्छपुत्रत्वमेकाग्रोभद्रंतेऽस्तुसदाविभो/तथाहिरामंवनवासनिश्चितं॑समीक्ष्यदेवीपरमेणचेतसा/उवाचरामंशुभलक्षणंवचो॑बभूवचस्वस्त्ययनाभिकाङ्क्षिणी22438/सापनीयतमायासमुपस्पृश्यजलंशुचि2251/चकारमातारामस्यमङ्गलानिमनस्विनी/स्वस्तिसाध्याश्चविश्वेचमरुतश्चमहर्षयः/स्वस्तिधाताविधाताचस्वस्तिपूषाभगोऽर्यमा/ऋतवश्चैवपक्षाश्चमासाःसंवत्सराःक्षपाः/दिनानिचमुहूर्ताश्चस्वस्तिकुर्वन्तुतेसदा/स्मृतिर्धृतिश्चधर्मश्चपान्तुत्वांपुत्रसर्वतः/स्कन्दश्चभगवान्देवःसोमश्चसबृहस्पतिः/सप्तर्षयोनारदश्चतेत्वांरक्षन्तुसर्वतः/नक्षत्राणिचसर्वाणिग्रहाश्चसहदेवताः/महावनानिचरतोमुनिवेषस्यधीमतः/प्लवगावृश्चिकादंशामशकाश्चैवकानने/सरीसृपाश्चकीटाश्चमाभूवन्गहनेतव/महाद्विपाश्चसिंहाश्चव्याघ्राऋक्षाश्चदंष्ट्रिणः/महिषाःशृङ्गिणोरौद्रानतेद्रुह्यन्तुपुत्रक/नृमांसभोजनारौद्रायेचान्येसत्त्वजातयः/माचत्वांहिंसिषुःपुत्रमयासंपूजितास्त्विह/आगमास्तेशिवाःसन्तुसिध्यन्तुचपराक्रमाः/सर्वसंपत्तयोरामस्वस्तिमान्गच्छपुत्रक/स्वस्तितेऽस्त्वान्तरिक्षेभ्यःपार्थिवेभ्यःपुनःपुनः/सर्वेभ्यश्चैवदेवेभ्योयेचतेपरिपन्थिनः/सर्वलोकप्रभुर्ब्रह्माभूतभर्तातथर्षयः/येचशेषाःसुरास्तेत्वांरक्षन्तुवनवासिनम्/इतिमाल्यैःसुरगणान्गन्धैश्चापियशस्विनी/स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना/यन्मङ्गलंसहस्राक्षेसर्वदेवनमस्कृते/वृत्रनाशेसमभवत्तत्तेभवतुमङ्गलम्/यन्मङ्गलंसुपर्णस्यविनताकल्पयत्पुरा/अमृतंप्रार्थयानस्यतत्तेभवतुमङ्गलम्/ओषधींचापिसिद्धार्थांविशल्यकरणींशुभाम्/चकाररक्षांकौसल्यामन्त्रैरभिजजापच/आनम्यमूर्ध्निचाघ्रायपरिष्वज्ययशस्विनी/अवदत्पुत्रसिद्धार्थोगच्छरामयथासुखम्/अरोगंसर्वसिद्धार्थमयोध्यांपुनरागतम्/पश्यामित्वांसुखंवत्ससुस्थितंराजवेश्मनि/मयार्चितादेवगणाःशिवादयो॑महर्षयोभूतमहासुरोरगाः/अभिप्रयातस्यवनंचिरायते॑हितानिकाङ्क्षन्तुदिशश्चराघव/इतीवचाश्रुप्रतिपूर्णलोचना॑समाप्यचस्वस्त्ययनंयथाविधि/प्रदक्षिणंचैवचकारराघवं॑पुनःपुनश्चापिनिपीड्यसस्वजे/तथातुदेव्यासकृतप्रदक्षिणो॑निपीड्यमातुश्चरणौपुनःपुनः/जगामसीतानिलयंमहायशाः॑सराघवःप्रज्वलितःस्वयाश्रिया22547/अभिवाद्यतुकौसल्यांरामःसंप्रस्थितोवनम्/कृतस्वस्त्ययनोमात्राधर्मिष्ठेवर्त्मनिस्थितः2261/विराजयन्राजसुतोराजमार्गंनरैर्वृतम्/हृदयान्याममन्थेवजनस्यगुणवत्तया/वैदेहीचापितत्सर्वंनशुश्रावतपस्विनी/तदेवहृदितस्याश्चयौवराज्याभिषेचनम्/देवकार्यंस्मसाकृत्वाकृतज्ञाहृष्टचेतना/अभिज्ञाराजधर्माणांराजपुत्रंप्रतीक्षते/प्रविवेशाथरामस्तुस्ववेश्मसुविभूषितम्/प्रहृष्टजनसंपूर्णंह्रियाकिंचिदवाङ्मुखः/अथसीतासमुत्पत्यवेपमानाचतंपतिम्/अपश्यच्छोकसंतप्तंचिन्ताव्याकुलिलेन्द्रियम्/विवर्णवदनंदृष्ट्वातंप्रस्विन्नममर्षणम्/आहदुःखाभिसंतप्ताकिमिदानीमिदंप्रभो/अद्यबार्हस्पतःश्रीमान्युक्तःपुष्योनराघव/प्रोच्यतेब्राह्मणैःप्राज्ञैःकेनत्वमसिदुर्मनाः/नतेशतशलाकेनजलफेननिभेनच/आवृतंवदनंवल्गुछत्रेणाभिविराजते/व्यजनाभ्यांचमुख्याभ्यांशतपत्रनिभेक्षणम्/चन्द्रहंसप्रकाशाभ्यांवीज्यतेनतवाननम्/वाग्मिनोबन्दिनश्चापिप्रहृष्टास्त्वंनरर्षभ/स्तुवन्तोनाद्यदृश्यन्तेमङ्गलैःसूतमागधाः/नतेक्षौद्रंचदधिचब्राह्मणावेदपारगाः/मूर्ध्निमूर्धावसिक्तस्यदधतिस्मविधानतः/नत्वांप्रकृतयःसर्वाश्रेणीमुख्याश्चभूषिताः/अनुव्रजितुमिच्छन्तिपौरजापपदास्तथा/चतुर्भिर्वेगसंपन्नैर्हयैःकाञ्चनभूषणैः/मुख्यःपुष्यरथोयुक्तःकिंनगच्छतितेऽग्रतः/नहस्तीचाग्रतःश्रीमांस्तवलक्षणपूजितः/प्रयाणेलक्ष्यतेवीरकृष्णमेघगिरिप्रभः/नचकाञ्चनचित्रंतेपश्यामिप्रियदर्शन/भद्रासनंपुरस्कृत्ययान्तंवीरपुरःसरम्/अभिषेकोयदासज्जःकिमिदानीमिदंतव/अपूर्वोमुखवर्णश्चनप्रहर्षश्चलक्ष्यते/इतीवविलपन्तींतांप्रोवाचरघुनन्दनः/सीतेतत्रभवांस्तातप्रव्राजयतिमांवनम्/कुलेमहतिसंभूतेधर्मज्ञेधर्मचारिणि/शृणुजानकियेनेदंक्रमेणाभ्यागतंमम/राज्ञासत्यप्रतिज्ञेनपित्रादशरथेनमे/कैकेय्यैप्रीतमनसापुरादत्तौमहावरौ/तयाद्यममसज्जेऽस्मिन्नभिषेकेनृपोद्यते/प्रचोदितःससमयोधर्मेणप्रतिनिर्जितः/चतुर्दशहिवर्षाणिवस्तव्यंदण्डकेमया/पित्रामेभरतश्चापियौवराज्येनियोजितः/सोऽहंत्वामागतोद्रष्टुंप्रस्थितोविजनंवनम्/भरतस्यसमीपेतेनाहंकथ्यःकदाचन/ऋद्धियुक्ताहिपुरुषानसहन्तेपरस्तवम्/तस्मान्नतेगुणाःकथ्याभरतस्याग्रतोमम/नापित्वंतेनभर्तव्याविशेषेणकदाचन/अनुकूलतयाशक्यंसमीपेतस्यवर्तितुम्/अहंचापिप्रतिज्ञांतांगुरोःसमनुपालयन्/वनमद्यैवयास्यामिस्थिराभवमनस्विनि/यातेचमयिकल्याणिवनंमुनिनिषेवितम्/व्रतोपवासरतयाभवितव्यंत्वयानघे/काल्यमुत्थायदेवानांकृत्वापूजांयथाविधि/वन्दितव्योदशरथःपिताममनरेश्वरः/माताचममकौसल्यावृद्धासंतापकर्शिता/धर्ममेवाग्रतःकृत्वात्वत्तःसंमानमर्हति/वन्दितव्याश्चतेनित्यंयाःशेषामममातरः/स्नेहप्रणयसंभोगैःसमाहिमममातरः/भ्रातृपुत्रसमौचापिद्रष्टव्यौचविशेषतः/त्वयालक्ष्मणशत्रुघ्नौप्राणैःप्रियतरौमम/विप्रियंनचकर्तव्यंभरतस्यकदाचन/सहिराजाप्रभुश्चैवदेशस्यचकुलस्यच/आराधिताहिशीलेनप्रयत्नैश्चोपसेविताः/राजानःसंप्रसीदन्तिप्रकुप्यन्तिविपर्यये/औरसानपिपुत्रान्हित्यजन्त्यहितकारिणः/समर्थान्संप्रगृह्णन्तिजनानपिनराधिपाः/अहंगमिष्यामिमहावनंप्रिये॑त्वयाहिवस्तव्यमिहैवभामिनि/यथाव्यलीकंकुरुषेनकस्यचित्॑तथात्वयाकार्यमिदंवचोमम22638/एवमुक्तातुवैदेहीप्रियार्हाप्रियवादिनी/प्रणयादेवसंक्रुद्धाभर्तारमिदमब्रवीत्2271/आर्यपुत्रपितामाताभ्रातापुत्रस्तथास्नुषा/स्वानिपुण्यानिभुञ्जानाःस्वंस्वंभाग्यमुपासते/भर्तुर्भाग्यंतुभार्यैकाप्राप्नोतिपुरुषर्षभ/अतश्चैवाहमादिष्टावनेवस्तव्यमित्यपि/नपितानात्मजोनात्मानमातानसखीजनः/इहप्रेत्यचनारीणांपतिरेकोगतिःसदा/यदित्वंप्रस्थितोदुर्गंवनमद्यैवराघव/अग्रतस्तेगमिष्यामिमृद्नन्तीकुशकण्टकान्/ईर्ष्यारोषौबहिष्कृत्यभुक्तशेषमिवोदकम्/नयमांवीरविश्रब्धःपापंमयिनविद्यते/प्रासादाग्रैर्विमानैर्वावैहायसगतेनवा/सर्वावस्थागताभर्तुःपादच्छायाविशिष्यते/अनुशिष्टास्मिमात्राचपित्राचविविधाश्रयम्/नास्मिसंप्रतिवक्तव्यावर्तितव्यंयथामया/सुखंवनेनिवत्स्यामियथैवभवनेपितुः/अचिन्तयन्तीत्रींल्लोकांश्चिन्तयन्तीपतिव्रतम्/शुश्रूषमाणातेनित्यंनियताब्रह्मचारिणी/सहरंस्येत्वयावीरवनेषुमधुगन्धिषु/त्वंहिकर्तुंवनेशक्तोरामसंपरिपालनम्/अन्यस्यपैजनस्येहकिंपुनर्मममानद/फलमूलाशनानित्यंभविष्यामिनसंशयः/नतेदुःखंकरिष्यामिनिवसन्तीसहत्वया/इच्छामिसरितःशैलान्पल्वलानिवनानिच/द्रष्टुंसर्वत्रनिर्भीतात्वयानाथेनधीमता/हंसकारण्डवाकीर्णाःपद्मिनीःसाधुपुष्पिताः/इच्छेयंसुखिनीद्रष्टुंत्वयावीरेणसंगता/सहत्वयाविशालाक्षरंस्येपरमनन्दिनी/एवंवर्षसहस्राणांशतंवाहंत्वयासह/स्वर्गेऽपिचविनावासोभवितायदिराघव/त्वयाममनरव्याघ्रनाहंतमपिरोचये/अहंगमिष्यामिवनंसुदुर्गमं॑मृगायुतंवानरवारणैर्युतम्/वनेनिवत्स्यामियथापितुर्गृहे॑तवैवपादावुपगृह्यसंमता/अनन्यभावामनुरक्तचेतसं॑त्वयावियुक्तांमरणायनिश्चिताम्/नयस्वमांसाधुकुरुष्वयाचनां॑नतेमयातोगुरुताभविष्यति/तथाब्रुवाणामपिधर्मवत्सलो॑नचस्मसीतांनृवरोनिनीषति/उवाचचैनांबहुसंनिवर्तने॑वनेनिवासस्यचदुःखितांप्रति22724/सएवंब्रुवतींसीतांधर्मज्ञोधर्मवत्सलः2281/निवर्तनार्थेधर्मात्मावाक्यमेतदुवाचह/सीतेमहाकुलीनासिधर्मेचनिरतासदा/इहाचरस्वधर्मंत्वंमायथामनसःसुखम्/सीतेयथात्वांवक्ष्यामितथाकार्यंत्वयाबले/वनेदोषाहिबहवोवदतस्तान्निबोधमे/सीतेविमुच्यतामेषावनवासकृतामतिः/बहुदोषंहिकान्तारंवनमित्यभिधीयते/हितबुद्ध्याखलुवचोमयैतदभिधीयते/सदासुखंनजानामिदुःखमेवसदावनम्/गिरिनिर्झरसंभूतागिरिकन्दरवासिनाम्/सिंहानांनिनदादुःखाःश्रोतुंदुःखमतोवनम्/सुप्यतेपर्णशय्यासुस्वयंभग्नासुभूतले/रात्रिषुश्रमखिन्नेनतस्माद्दुःखतरंवनम्/उपवासश्चकर्तव्यायथाप्राणेनमैथिलि/जटाभारश्चकर्तव्योवल्कलाम्बरधारिणा/अतीववातस्तिमिरंबुभुक्षाचात्रनित्यशः/भयानिचमहान्त्यत्रततोदुःखतरंवनम्/सरीसृपाश्चबहवोबहुरूपाश्चभामिनि/चरन्तिपृथिवींदर्पादतोदुखतरंवनम्/नदीनिलयनाःसर्पानदीकुटिलगामिनः/तिष्ठन्त्यावृत्यपन्थानमतोदुःखतरंवनम्/पतंगावृश्चिकाःकीटादंशाश्चमशकैःसह/बाधन्तेनित्यमबलेसर्वंदुःखमतोवनम्/द्रुमाःकण्टकिनश्चैवकुशकाशाश्चभामिनि/वनेव्याकुलशाखाग्रास्तेनदुःखतरंवनम्/तदलंतेवनंगत्वाक्षमंनहिवनंतव/विमृशन्निहपश्यामिबहुदोषतरंवनम्/वनंतुनेतुंनकृतामतिस्तदा॑बभूवरामेणयदामहात्मना/नतस्यसीतावचनंचकारतत्॑ततोऽब्रवीद्राममिदंसुदुःखिता22826/एतत्तुवचनंश्रुत्वासीतारामस्यदुःखिता/प्रसक्ताश्रुमुखीमन्दमिदंवचनमब्रवीत्2291/येत्वयाकीर्तितादोषावनेवस्तव्यतांप्रति/गुणानित्येवतान्विद्धितवस्नेहपुरस्कृतान्/त्वयाचसहगन्तव्यंमयागुरुजनाज्ञया/त्वद्वियोगेनमेरामत्यक्तव्यमिहजीवितम्/नचमांत्वत्समीपस्थमपिशक्नोतिराघव/सुराणामीश्वरःशक्रःप्रधर्षयितुमोजसा/पतिहीनातुयानारीनसाशक्ष्यतिजीवितुम्/काममेवंविधंरामत्वयाममविदर्शितम्/अथचापिमहाप्राज्ञब्राह्मणानांमयाश्रुतम्/पुरापितृगृहेसत्यंवस्तव्यंकिलमेवने/लक्षणिभ्योद्विजातिभ्यःश्रुत्वाहंवचनंगृहे/वनवासकृतोत्साहानित्यमेवमहाबल/आदेशोवनवासस्यप्राप्तव्यःसमयाकिल/सात्वयासहतत्राहंयास्यामिप्रियनान्यथा/कृतादेशाभविष्यामिगमिष्यामिसहत्वया/कालश्चायंसमुत्पन्नःसत्यवाग्भवतुद्विजः/वनवासेहिजानामिदुःखानिबहुधाकिल/प्राप्यन्तेनियतंवीरपुरुषैरकृतात्मभिः/कन्ययाचपितुर्गेहेवनवासःश्रुतोमया/भिक्षिण्याःसाधुवृत्तायामममातुरिहाग्रतः/प्रसादितश्चवैपूर्वंत्वंवैबहुविधंप्रभो/गमनंवनवासस्यकाङ्क्षितंहिसहत्वया/कृतक्षणाहंभद्रंतेगमनंप्रतिराघव/वनवासस्यशूरस्यचर्याहिममरोचते/शुद्धात्मन्प्रेमभावाद्धिभविष्यामिविकल्मषा/भर्तारमनुगच्छन्तीभर्ताहिममदैवतम्/प्रेत्यभावेऽपिकल्याणःसंगमोमेसहत्वया/श्रुतिर्हिश्रूयतेपुण्याब्राह्मणानांयशस्विनाम्/इहलोकेचपितृभिर्यास्त्रीयस्यमहामते/अद्भिर्दत्तास्वधर्मेणप्रेत्यभावेऽपितस्यसा/एवमस्मात्स्वकांनारींसुवृत्तांहिपतिव्रताम्/नाभिरोचयसेनेतुंत्वंमांकेनेहहेतुना/भक्तांपतिव्रतांदीनांमांसमांसुखदुःखयोः/नेतुमर्हसिकाकुत्स्थसमानसुखदुःखिनीम्/यदिमांदुःखितामेवंवनंनेतुंनचेच्छसि/विषमग्निंजलंवाहमास्थास्येमृत्युकारणात्/एवंबहुविधंतंसायाचतेगमनंप्रति/नानुमेनेमहाबाहुस्तांनेतुंविजनंवनम्/एवमुक्तातुसाचिन्तांमैथिलीसमुपागता/स्नापयन्तीवगामुष्णैरश्रुभिर्नयनच्युतैः/चिन्तयन्तींतथातांतुनिवर्तयितुमात्मवान्/क्रोधाविष्टांतुवैदेहींकाकुत्स्थोबह्वसान्त्वयत्/सान्त्व्यमानातुरामेणमैथिलीजनकात्मजा/वनवासनिमित्तायभर्तारमिदमब्रवीत्2301/सातमुत्तमसंविग्नासीताविपुलवक्षसं/प्रणयाच्चाभिमानाच्चपरिचिक्षेपराघवम्/किंत्वामन्यतवैदेहःपितामेमिथिलाधिपः/रामजामातरंप्राप्यस्त्रियंपुरुषविग्रहम्/अनृतंबललोकोऽयमज्ञानाद्यद्धिवक्ष्यति/तेजोनास्तिपरंरामेतपतीवदिवाकरे/किंहिकृत्वाविषण्णस्त्वंकुतोवाभयमस्तिते/यत्परित्यक्तुकामस्त्वंमामनन्यपरायणाम्/द्युमत्सेनसुतंवीरसत्यवन्तमनुव्रताम्/सावित्रीमिवमांविद्धित्वमात्मवशवर्तिनीम्/नत्वहंमनसाप्यन्यंद्रष्टास्मित्वदृतेऽनघ/त्वयाराघवगच्छेयंयथान्याकुलपांसनी/स्वयंतुभार्यांकौमारींचिरमध्युषितांसतीम्/शैलूषइवमांरामपरेभ्योदातुमिच्छसि/समामनादायवनंनत्वंप्रस्थातुमर्हसि/तपोवायदिवारण्यंस्वर्गोवास्यात्सहत्वया/नचमेभवितातत्रकश्चित्पथिपरिश्रमः/पृष्ठतस्तवगच्छन्त्याविहारशयनेष्वपि/कुशकाशशरेषीकायेचकण्टकिनोद्रुमाः/तूलाजिनसमस्पर्शामार्गेममसहत्वया/महावातसमुद्धूतंयन्मामवकरिष्यति/रजोरमणतन्मन्येपरार्ध्यमिवचन्दनम्/शाद्वलेषुयदासिष्येवनान्तेवनगोरचा/कुथास्तरणतल्पेषुकिंस्यात्सुखतरंततः/पत्रंमूलंफलंयत्त्वमल्पंवायदिवाबहु/दास्यसिस्वयमाहृत्यतन्मेऽमृतरसोपमम्/नमातुर्नपितुस्तत्रस्मरिष्यामिनवेश्मनः/आर्तवान्युपभुञ्जानापुष्पाणिचफलानिच/नचतत्रगतःकिंचिद्द्रष्टुमर्हसिविप्रियम्/मत्कृतेनचतेशोकोनभविष्यामिदुर्भरा/यस्त्वयासहसस्वर्गोनिरयोयस्त्वयाविना/इतिजानन्परांप्रीतिंगच्छराममयासह/अथमामेवमव्यग्रांवनंनैवनयिष्यसि/विषमद्यैवपास्यामिमाविशंद्विषतांवशम्/पश्चादपिहिदुःखेनममनैवास्तिजीवितम्/उज्झितायास्त्वयानाथतदैवमरणंवरम्/इदंहिसहितुंशोकंमुहूर्तमपिनोत्सहे/किंपुनर्दशवर्षाणित्रीणिचैकंचदुःखिता/इतिसाशोकसंतप्ताविलप्यकरुणंबहु/चुक्रोशपतिमायस्ताभृशमालिङ्ग्यसस्वरम्/साविद्धाबहुभिर्वाक्यैर्दिग्धैरिवगजाङ्गना/चिरसंनियतंबाष्पंमुमोचाग्निमिवारणिः/तस्याःस्फटिकसंकाशंवारिसंतापसंभवम्/नेत्राभ्यांपरिसुस्रावपङ्कजाभ्यामिवोदकम्/तांपरिष्वज्यबाहुभ्यांविसंज्ञामिवदुःखिताम्/उवाचवचनंरामःपरिविश्वासयंस्तदा/नदेवितवदुःखेनस्वर्गमप्यभिरोचये/नहिमेऽस्तिभयंकिंचित्स्वयम्भोरिवसर्वतः/तवसर्वमभिप्रायमविज्ञायशुभानने/वासंनरोचयेऽरण्येशक्तिमानपिरक्षणे/यत्सृष्टासिमयासार्धंवनवासायमैथिलि/नविहातुंमयाशक्याकीर्तिरात्मवतायथा/धर्मस्तुगजनासोरुसद्भिराचरितःपुरा/तंचाहमनुवर्तेऽद्ययथासूर्यंसुवर्चला/एषधर्मस्तुसुश्रोणिपितुर्मातुश्चवश्यता/अतश्चाज्ञांव्यतिक्रम्यनाहंजीवितुमुत्सहे/समांपितायथाशास्तिसत्यधर्मपथेस्थितः/तथावर्तितुमिच्छामिसहिधर्मःसनातनः/अनुगच्छस्वमांभीरुसहधर्मचरीभव/ब्राह्मणेभ्यश्चरत्नानिभिक्षुकेभ्यश्चभोजनम्/देहिचाशंसमानेभ्यःसंत्वरस्वचमाचिरम्/अनुकूलंतुसाभर्तुर्ज्ञात्वागमनमात्मनः/क्षिप्रंप्रमुदितादेवीदातुमेवोपचक्रमे/ततःप्रहृष्टापरिपूर्णमानसा॑यशस्विनीभर्तुरवेक्ष्यभाषितम्/धनानिरत्नानिचदातुमङ्गना॑प्रचक्रमेधर्मभृतांमनस्विनी23047/ततोऽब्रवीन्महातेजारामोलक्ष्मणमग्रतः/स्थितंप्राग्गामिनंवीरंयाचमानंकृताञ्जलिम्2319/मयाद्यसहसौमित्रेत्वयिगच्छतितद्वनम्/कोभरिष्यतिकौसल्यांसुमित्रांवायशस्विनीम्/अभिवर्षतिकामैर्यःपर्जन्यःपृथिवीमिव/सकामपाशपर्यस्तोमहातेजामहीपतिः/साहिराज्यमिदंप्राप्यनृपस्याश्वपतेःसुता/दुःखितानांसपत्नीनांनकरिष्यतिशोभनम्/एवमुक्तस्तुरामेणलक्ष्मणःश्लक्ष्णयागिरा/प्रत्युवाचतदारामंवाक्यज्ञोवाक्यकोविदम्/तवैवतेजसावीरभरतःपूजयिष्यति/कौसल्यांचसुमित्रांचप्रयतोनात्रसंशयः/कौसल्याबिभृयादार्यासहस्रमपिमद्विधान्/यस्याःसहस्रंग्रामाणांसंप्राप्तमुपजीवनम्/धनुरादायसशरंखनित्रपिटकाधरः/अग्रतस्तेगमिष्यामिपन्थानमनुदर्शयन्/आहरिष्यामितेनित्यंमूलानिचफलानिच/वन्यानियानिचान्यानिस्वाहाराणितपस्विनाम्/भवांस्तुसहवैदेह्यागिरिसानुषुरंस्यते/अहंसर्वंकरिष्यामिजाग्रतःस्वपतश्चते/रामस्त्वनेनवाक्येनसुप्रीतःप्रत्युवाचतम्/व्रजापृच्छस्वसौमित्रेसर्वमेवसुहृज्जनम्/येचराज्ञोददौदिव्येमहात्मावरुणःस्वयम्/जनकस्यमहायज्ञेधनुषीरौद्रदर्शने/अभेद्यकवचेदिव्येतूणीचाक्षयसायकौ/आदित्यविमलौचोभौखड्गौहेमपरिष्कृतौ/सत्कृत्यनिहितंसर्वमेतदाचार्यसद्मनि/सत्वमायुधमादायक्षिप्रमाव्रजलक्ष्मण/ससुहृज्जनमामन्त्र्यवनवासायनिश्चितः/इक्ष्वाकुगुरुमामन्त्र्यजग्राहायुधमुत्तमम्/तद्दिव्यंराजशार्दूलःसत्कृतंमाल्यभूषितम्/रामायदर्शयामाससौमित्रिःसर्वमायुधम्/तमुवाचात्मवान्रामःप्रीत्यालक्ष्मणमागतम्/कालेत्वमागतःसौम्यकाङ्क्षितेममलक्ष्मण/अहंप्रदातुमिच्छामियदिदंमामकंधनम्/ब्राह्मणेभ्यस्तपस्विभ्यस्त्वयासहपरंतप/वसन्तीहदृढंभक्त्यागुरुषुद्विजसत्तमाः/तेषामपिचमेभूयःसर्वेषांचोपजीविनाम्/वसिष्ठपुत्रंतुसुयज्ञमार्यं॑त्वमानयाशुप्रवरंद्विजानाम्/अभिप्रयास्यामिवनंसमस्तान्॑अभ्यर्च्यशिष्टानपरान्द्विजातीन्23137/ततःशासनमाज्ञायभ्रातुःशुभतरंप्रियम्/गत्वासप्रविवेशाशुसुयज्ञस्यनिवेशनम्2321/तंविप्रमग्न्यगारस्थंवन्दित्वालक्ष्मणोऽब्रवीत्/सखेऽभ्यागच्छपश्यत्वंवेश्मदुष्करकारिणः/ततःसंध्यामुपास्याशुगत्वासौमित्रिणासह/जुष्टंतत्प्राविशल्लक्ष्म्यारम्यंरामनिवेशनम्/तमागतंवेदविदंप्राञ्जलिःसीतयासह/सुयज्ञमभिचक्रामराघवोऽग्निमिवार्चितम्/जातरूपमयैर्मुख्यैरङ्गदैःकुण्डलैःशुभैः/सहेमसूत्रैर्मणिभिःकेयूरैर्वलयैरपि/अन्यैश्चरत्नैर्बहुभिःकाकुत्स्थःप्रत्यपूजयत्/सुयज्ञंसतदोवाचरामःसीताप्रचोदितः/हारंचहेमसूत्रंचभार्यायैसौम्यहारय/रशनांचाधुनासीतादातुमिच्छतितेसखे/पर्यङ्कमग्र्यास्तरणंनानारत्नविभूषितम्/तमपीच्छतिवैदेहीप्रतिष्ठापयितुंत्वयि/नागःशत्रुंजयोनाममातुलोयंददौमम/तंतेगजसहस्रेणददामिद्विजपुंगव/इत्युक्तःसहिरामेणसुयज्ञःप्रतिगृह्यतत्/रामलक्ष्मणसीतानांप्रयुयोजाशिषःशिवाः/अथभ्रातरमव्यग्रंप्रियंरामःप्रियंवदः/सौमित्रिंतमुवाचेदंब्रह्मेवत्रिदशेश्वरम्/अगस्त्यंकौशिकंचैवतावुभौब्राह्मणोत्तमौ/अर्चयाहूयसौमित्रेरत्नैःसस्यमिवाम्बुभिः/कौसल्यांचयआशीर्भिर्भक्तःपर्युपतिष्ठति/आचार्यस्तैत्तिरीयाणामभिरूपश्चवेदवित्/तस्ययानंचदासीश्चसौमित्रेसंप्रदापय/कौशेयानिचवस्त्राणियावत्तुष्यतिसद्विजः/सूतश्चित्ररथश्चार्यःसचिवःसुचिरोषितः/तोषयैनंमहार्हैश्चरत्नैर्वस्त्रैर्धनैस्तथा/शालिवाहसहस्रंचद्वेशतेभद्रकांस्तथा/व्यञ्जनार्थंचसौमित्रेगोसहस्रमुपाकुरु/ततःसपुरुषव्याघ्रस्तद्धनंलक्ष्मणःस्वयम्/यथोक्तंब्राह्मणेन्द्राणामददाद्धनदोयथा/अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः/संप्रदायबहुद्रव्यमेकैकस्योपजीविनः/लक्ष्मणस्यचयद्वेश्मगृहंचयदिदंमम/अशून्यंकार्यमेकैकंयावदागमनंमम/इत्युक्त्वादुःखितंसर्वंजनंतमुपजीविनम्/उवाचेदंधनध्यक्षंधनमानीयतामिति/ततोऽस्यधनमाजह्रुःसर्वमेवोपजीविनः/ततःसपुरुषव्याघ्रस्तद्धनंसहलक्ष्मणः/द्विजेभ्योबालवृद्धेभ्यःकृपणेभ्योऽभ्यदापयत्/तत्रासीत्पिङ्गलोगार्ग्यस्त्रिजटोनामवैद्विजः/आपञ्चमायाःकक्ष्यायानैनंकश्चिदवारयत्/सराजपुत्रमासाद्यत्रिजटोवाक्यमब्रवीत्/निर्धनोबहुपुत्रोऽस्मिराजपुत्रमहायशः/उञ्छवृत्तिर्वनेनित्यंप्रत्यवेक्षस्वमामिति/तमुवाचततोरामःपरिहाससमन्वितम्/गवांसहस्रमप्येकंनतुविश्राणितंमया/परिक्षिपसिदण्डेनयावत्तावदवाप्स्यसि/सशाटींत्वरितःकट्यांसंभ्रान्तःपरिवेष्ट्यताम्/आविध्यदण्डंचिक्षेपसर्वप्राणेनवेगितः/उवाचचततोरामस्तंगार्ग्यमभिसान्त्वयन्/मन्युर्नखलुकर्तव्यःपरिहासोह्ययंमम/ततःसभार्यस्त्रिजटोमहामुनिर्॑गवामनीकंप्रतिगृह्यमोदितः/यशोबलप्रीतिसुखोपबृंहिणीस्॑तदाशिषःप्रत्यवदन्महात्मनः23243/दत्त्वातुसहवैदेह्याब्राह्मणेभ्योधनंबहु/जग्मतुःपितरंद्रष्टुंसीतयासहराघवौ2331/ततोगृहीतेदुष्प्रेक्ष्येअशोभेतांतदायुधे/मालादामभिरासक्तेसीतयासमलंकृते/ततःप्रासादहर्म्याणिविमानशिखराणिच/अधिरुह्यजनःश्रीमानुदासीनोव्यलोकयत्/नहिरथ्याःस्मशक्यन्तेगन्तुंबहुजनाकुलाः/आरुह्यतस्मात्प्रासादान्दीनाःपश्यन्तिराघवम्/पदातिंवर्जितच्छत्रंरामंदृष्ट्वातदाजनाः/ऊचुर्बहुविधावाचःशोकोपहतचेतसः/यंयान्तमनुयातिस्मचतुरङ्गबलंमहत्/तमेकंसीतयासार्धमनुयातिस्मलक्ष्मणः/ऐश्वर्यस्यरसज्ञःसन्कामिनांचैवकामदः/नेच्छत्येवानृतंकर्तुंपितरंधर्मगौरवात्/यानशक्यापुराद्रष्टुंभूतैराकाशगैरपि/तामद्यसीतांपश्यन्तिराजमार्गगताजनाः/अङ्गरागोचितांसीतांरक्तचन्दनसेविनीम्/वर्षमुष्णंचशीतंचनेष्यत्याशुविवर्णताम्/अद्यनूनंदशरथःसत्त्वमाविश्यभाषते/नहिराजाप्रियंपुत्रंविवासयितुमर्हति/निर्गुणस्यापिपुत्रस्याकाथंस्याद्विप्रवासनम्/किंपुनर्यस्यलोकोऽयंजितोवृत्तेनकेवलम्/आनृशंस्यमनुक्रोशःश्रुतंशीलंदमःशमः/राघवंशोभयन्त्येतेषड्गुणाःपुरुषोत्तमम्/तस्मात्तस्योपघातेनप्रजाःपरमपीडिताः/औदकानीवसत्त्वानिग्रीष्मेसलिलसंक्षयात्/पीडयापीडितंसर्वंजगदस्यजगत्पतेः/मूलस्येवोपघातेनवृक्षःपुष्पफलोपगः/तेलक्ष्मणइवक्षिप्रंसपत्न्यःसहबान्धवाः/गच्छन्तमनुगच्छामोयेनगच्छतिराघवः/उद्यानानिपरित्यज्यक्षेत्राणिचगृहाणिच/एकदुःखसुखाराममनुगच्छामधार्मिकम्/समुद्धृतनिधानानिपरिध्वस्ताजिराणिच/उपात्तधनधान्यानिहृतसाराणिसर्वशः/रजसाभ्यवकीर्णानिपरित्यक्तानिदैवतैः/अस्मत्त्यक्तानिवेश्मानिकैकेयीप्रतिपद्यताम्/वनंनगरमेवास्तुयेनगच्छतिराघवः/अस्माभिश्चपरित्यक्तंपुरंसंपद्यतांवनम्/बिलानिदंष्ट्रिणःसर्वेसानूनिमृगपक्षिणः/अस्मत्त्यक्तंप्रपद्यन्तांसेव्यमानंत्यजन्तुच/इत्येवंविविधावाचोनानाजनसमीरिताः/शुश्रावरामःश्रुत्वाचनविचक्रेऽस्यमानसं/प्रतीक्षमाणोऽभिजनंतदार्तम्॑अनार्तरूपःप्रहसन्निवाथ/जगामरामःपितरंदिदृक्षुः॑पितुर्निदेशंविधिवच्चिकीर्षुः/तत्पूर्वमैक्ष्वाकसुतोमहात्मा॑रामोगमिष्यन्वनमार्तरूपम्/व्यतिष्ठतप्रेक्ष्यतदासुमन्त्रं॑पितुर्महात्माप्रतिहारणार्थम्/पितुर्निदेशेनतुधर्मवत्सलो॑वनप्रवेशेकृतबुद्धिनिश्चयः/सराघवःप्रेक्ष्यसुमन्त्रमब्रवीन्॑निवेदयस्वागमनंनृपायमे23331/सरामप्रेषितःक्षिप्रंसंतापकलुषेन्द्रियः/प्रविश्यनृपतिंसूतोनिःश्वसन्तंददर्शह2342/आलोक्यतुमहाप्राज्ञःपरमाकुलचेतसं/राममेवानुशोचन्तंसूतःप्राञ्जलिरासदत्/अयंसपुरुषव्याघ्रद्वारितिष्ठतितेसुतः/ब्राह्मणेभ्योधनंदत्त्वासर्वंचैवोपजीविनाम्/सत्वापश्यतुभद्रंतेरामःसत्यपराक्रमः/सर्वान्सुहृदआपृच्छ्यत्वामिदानींदिदृक्षते/गमिष्यतिमहारण्यंतंपश्यजगतीपते/वृतंराजगुणैःसर्वैरादित्यमिवरश्मिभिः/ससत्यवादीधर्मात्मागाम्भीर्यात्सागरोपमः/आकाशइवनिष्पङ्कोनरेन्द्रःप्रत्युवाचतम्/सुमन्त्रानयमेदारान्येकेचिदिहमामकाः/दारैःपरिवृतःसर्वैर्द्रष्टुमिच्छामिराघवम्/सोऽन्तःपुरमतीत्यैवस्त्रियस्तावाक्यमब्रवीत्/आर्योह्वयतिवोराजागम्यतांतत्रमाचिरम्/एवमुक्ताःस्त्रियःसर्वाःसुमन्त्रेणनृपाज्ञया/प्रचक्रमुस्तद्भवनंभर्तुराज्ञायशासनम्/अर्धसप्तशतास्तास्तुप्रमदास्ताम्रलोचनाः/कौसल्यांपरिवार्याथशनैर्जग्मुर्धृतव्रताः/आगतेषुचदारेषुसमवेक्ष्यमहीपतिः/उवाचराजातंसूतंसुमन्त्रानयमेसुतम्/ससूतोराममादायलक्ष्मणंमैथिलींतदा/जगामाभिमुखस्तूर्णंसकाशंजगतीपतेः/सराजापुत्रमायान्तंदृष्ट्वादूरात्कृताञ्जलिम्/उत्पपातासनात्तूर्णमार्तःस्त्रीजनसंवृतः/सोऽभिदुद्राववेगेनरामंदृष्ट्वाविशांपतिः/तमसंप्राप्यदुःखार्तःपपातभुविमूर्छितः/तंरामोऽभ्यपातत्क्षिप्रंलक्ष्मणश्चमहारथः/विसंज्ञमिवदुःखेनसशोकंनृपतिंतदा/स्त्रीसहस्रनिनादश्चसंजज्ञेराजवेश्मनि/हाहारामेतिसहसाभूषणध्वनिमूर्छितः/तंपरिष्वज्यबाहुभ्यांतावुभौरामलक्ष्मणौ/पर्यङ्केसीतयासार्धंरुदन्तःसमवेशयन्/अथरामोमुहूर्तेनलब्धसंज्ञंमहीपतिम्/उवाचप्राञ्जलिर्भूत्वाशोकार्णवपरिप्लुतम्/आपृच्छेत्वांमहाराजसर्वेषामीश्वरोऽसिनः/प्रस्थितंदण्डकारण्यंपश्यत्वंकुशलेनमाम्/लक्ष्मणंचानुजानीहिसीताचान्वेतिमांवनम्/कारणैर्बहुभिस्तथ्यैर्वार्यमाणौनचेच्छतः/अनुजानीहिसर्वान्नःशोकमुत्सृज्यमानद/लक्ष्मणंमांचसीतांचप्रजापतिरिवप्रजाः/प्रतीक्षमाणमव्यग्रमनुज्ञांजगतीपतेः/उवाचरर्जासंप्रेक्ष्यवनवासायराघवम्/अहंराघवकैकेय्यावरदानेनमोहितः/अयोध्यायास्त्वमेवाद्यभवराजानिगृह्यमाम्/एवमुक्तोनृपतिनारामोधर्मभृतांवरः/प्रत्युवाचाञ्जलिंकृत्वापितरंवाक्यकोविदः/भवान्वर्षसहस्रायपृथिव्यानृपतेपतिः/अहंत्वरण्येवत्स्यामिनमेकार्यंत्वयानृतम्/श्रेयसेवृद्धयेतातपुनरागमनायच/गच्छस्वारिष्टमव्यग्रःपन्थानमकुतोभयम्/अद्यत्विदानींरजनींपुत्रमागच्छसर्वथा/मातरंमांचसंपश्यन्वसेमामद्यशर्वरीम्/तर्पितःसर्वकामैस्त्वंश्वःकालेसाधयिष्यसि/अथरामस्तथाश्रुत्वापितुरार्तस्यभाषितम्/लक्ष्मणेनसहभ्रात्रादीनोवचनमब्रवीत्/प्राप्स्यामियानद्यगुणान्कोमेश्वस्तान्प्रदास्यति/अपक्रमणमेवातःसर्वकामैरहंवृणे/इयंसराष्ट्रासजनाधनधान्यसमाकुला/मयाविसृष्टावसुधाभरतायप्रदीयताम्/अपगच्छतुतेदुःखंमाभूर्बाष्पपरिप्लुतः/नहिक्षुभ्यतिदुर्धर्षःसमुद्रःसरितांपतिः/नैवाहंराज्यमिच्छामिनसुखंनचमैथिलीम्/त्वामहंसत्यमिच्छामिनानृतंपुरुषर्षभ/पुरंचराष्ट्रंचमहीचकेवला॑मयानिसृष्टाभरतायदीयताम्/अहंनिदेशंभवतोऽनुपालयन्॑वनंगमिष्यामिचिरायसेवितुम्/मयानिसृष्टांभरतोमहीमिमां॑सशैलखण्डांसपुरांसकाननाम्/शिवांसुसीमामनुशास्तुकेवलं॑त्वयायदुक्तंनृपतेयथास्तुतत्/नमेतथापार्थिवधीयतेमनो॑महत्सुकामेषुनचात्मनःप्रिये/यथानिदेशेतवशिष्टसंमते॑व्यपैतुदुःखंतवमत्कृतेऽनघ/तदद्यनैवानघराज्यमव्ययं॑नसर्वकामान्नसुखंनमैथिलीम्/नजीवितंत्वामनृतेनयोजयन्॑वृणीयसत्यंव्रतमस्तुतेतथा/फलानिमूलानिचभक्षयन्वने॑गिरींश्चपश्यन्सरितःसरांसिच/वनंप्रविश्यैवविचित्रपादपं॑सुखीभविष्यामितवास्तुनिर्वृतिः23459/ततःसुमन्त्रमैक्ष्वाकःपीडितोऽत्रप्रतिज्ञया/सबाष्पमतिनिःश्वस्यजगादेदंपुनःपुनः2361/सूतरत्नसुसंपूर्णाचतुर्विधबलाचमूः/रागवस्यानुयात्रार्थंक्षिप्रंप्रतिविधीयताम्/रूपाजीवाचशालिन्योवणिजश्चमहाधनाः/शोभयन्तुकुमारस्यवाहिनींसुप्रसारिताः/येचैनमुपजीवन्तिरमतेयैश्चवीर्यतः/तेषांबहुविधंदत्त्वातानप्यत्रनियोजय/निघ्नन्मृगान्कुञ्जरांश्चपिबंश्चारण्यकंमधु/नदीश्चविविधाःपश्यन्नराज्यंसंस्मरिष्यति/धान्यकोशश्चयःकश्चिद्धनकोशश्चमामकः/तौराममनुगच्छेतांवसन्तंनिर्जनेवने/यजन्पुण्येषुदेशेषुविसृजंश्चाप्तदक्षिणाः/ऋषिभिश्चसमागम्यप्रवत्स्यतिसुखंवने/भरतश्चमहाबाहुरयोध्यांपालयिष्यति/सर्वकामैःपुनःश्रीमान्रामःसंसाध्यतामिति/एवंब्रुवतिकाकुत्स्थेकैकेय्याभयमागतम्/मुखंचाप्यगमाच्छेषंस्वरश्चापिन्यरुध्यत/साविषण्णाचसंत्रस्ताकैकेयीवाक्यमब्रवीत्/राज्यंगतजनंसाधोपीतमण्डांसुरामिव/निरास्वाद्यतमंशून्यंभरतोनाभिपत्स्यते/कैकेय्यांमुक्तलज्जायांवदन्त्यामतिदारुणम्/राजादशरथोवाक्यमुवाचायतलोचनाम्/वहन्तंकिंतुदसिमांनियुज्यधुरिमाहिते/कैकेयीद्विगुणंक्रुद्धाराजानमिदमब्रवीत्/तवैववंशेसगरोज्येष्ठंपुत्रमुपारुधत्/असमञ्जइतिख्यातंतथायंगन्तुमर्हति/एवमुक्तोधिगित्येवराजादशरथोऽब्रवीत्/व्रीडितश्चजनःसर्वःसाचतन्नावबुध्यत/तत्रवृद्धोमहामात्रःसिद्धार्थोनामनामतः/शुचिर्बहुमतोराज्ञःकैकेयीमिदमब्रवीत्/असमञ्जोगृहीत्वातुक्रीडितःपथिदारकान्/सरय्वाःप्रक्षिपन्नप्सुरमतेतेनदुर्मतिः/तंदृष्ट्वानागरःसर्वेक्रुद्धाराजानमब्रुवन्/असमञ्जंवृषीण्वैकमस्मान्वाराष्ट्रवर्धन/तानुवाचततोराजाकिंनिमित्तमिदंभयम्/ताश्चापिराज्ञासंपृष्टावाक्यंप्रकृतयोऽब्रुवन्/क्रीडितस्त्वेषनःपुत्रान्बालानुद्भ्रान्तचेतनः/सरय्वांप्रक्षिपन्मौर्ख्यादतुलांप्रीतिमश्नुते/सतासांवचनंश्रुत्वाप्रकृतीनांनराधिप/तंतत्याजाहितंपुत्रंतासांप्रियचिकीर्षया/इत्येवमत्यजद्राजासगरोवैसुधार्मिकः/रामःकिमकरोत्पापंयेनैवमुपरुध्यते/श्रुत्वातुसिद्धार्थवचोराजाश्रान्ततरस्वनः/शोकोपहतयावाचाकैकेयीमिदमब्रवीत्/अनुव्रजिष्याम्यहमद्यरामं॑राज्यंपरित्यज्यसुखंधनंच/सहैवराज्ञाभरतेनचत्वं॑यथासुखंभुङ्क्ष्वचिरायराज्यम्23633/महामात्रवचःश्रुत्वारामोदशरथंतदा2371/अन्वभाषतवाक्यंतुविनयज्ञोविनीतवत्/त्यक्तभोगस्यमेराजन्वनेवन्येनजीवतः/किंकार्यमनुयात्रेणत्यक्तसङ्गस्यसर्वतः/योहिदत्त्वाद्विपश्रेष्ठंकक्ष्यायांकुरुतेमनः/रज्जुस्नेहेनकिंतस्यत्यजतःकुञ्जरोत्तमम्/तथाममसतांश्रेष्ठकिंध्वजिन्याजगत्पते/सर्वाण्येवानुजानामिचीराण्येवानयन्तुमे/खनित्रपिटकेचोभेममानयतगच्छतः/चतुर्दशवनेवासंवर्षाणिवसतोमम/अथचीराणिकैकेयीस्वयमाहृत्यराघवम्/उवाचपरिधत्स्वेतिजनौघेनिरपत्रपा/सचीरेपुरुषव्याघ्रःकैकेय्याःप्रतिगृह्यते/सूक्ष्मवस्त्रमवक्षिप्यमुनिवस्त्राण्यवस्तह/लक्ष्मणश्चापितत्रैवविहायवसनेशुभे/तापसाच्छादनेचैवजग्राहपितुरग्रतः/अथात्मपरिधानार्थंसीताकौशेयवासिनी/समीक्ष्यचीरंसंत्रस्तापृषतीवागुरामिव/साव्यपत्रपमाणेवप्रतिगृह्यचदुर्मनाः/गन्धर्वराजप्रतिमंभर्तारमिदमब्रवीत्/कथंनुचीरंबध्नन्तिमुनयोवनवासिनः/कृत्वाकण्ठेचसाचीरमेकमादायपाणिना/तस्थौह्यकुषलातत्रव्रीडिताजनकात्मज/तस्यास्तत्क्षिप्रमागम्यरामोधर्मभृतांवरः/चीरंबबन्धसीतायाःकौशेयस्योपरिस्वयम्/तस्यांचीरंवसानायांनाथवत्यामनाथवत्/प्रचुक्रोशजनःसर्वोधिक्त्वांदशरथंत्विति/सनिःश्वस्योष्णमैक्ष्वाकस्तांभार्यामिदमब्रवीत्/कैकेयिकुशचीरेणनसीतागन्तुमर्हति/ननुपर्याप्तमेतत्तेपापेरामविवासनम्/किमेभिःकृपणैर्भूयःपातकैरपितेकृतैः/एवंब्रुवन्तंपितरंरामःसंप्रस्थितोवनम्/अवाक्शिरसमासीनमिदंवचनमब्रवीत्/इयंधार्मिककौसल्यामममातायशस्विनी/वृद्धाचाक्षुद्रशीलाचनचत्वांदेवगर्हिते/मयाविहीनांवरदप्रपन्नांशोकसागरम्/अदृष्टपूर्वव्यसनांभूयःसंमन्तुमर्हसि/इमांमहेन्द्रोपमजातगर्भिणीं॑तथाविधातुंजनमींममार्हसि/यथावनस्थेमयिशोककर्शिता॑नजीवितंन्यस्ययमक्षयंव्रजेत्23817/रामस्यतुवचःश्रुत्वामुनिवेषधरंचतम्/समीक्ष्यसहभार्याभीराजाविगतचेतनः2391/नैनंदुःखेनसंतप्तःप्रत्यवैक्षतराघवम्/नचैनमभिसंप्रेक्ष्यप्रत्यभाषतदुर्मनाः/समुहूर्तमिवासंज्ञोदुःखितश्चमहीपतिः/विललापमहाबाहूराममेवानुचिन्तयन्/मन्येखलुमयापूर्वंविवत्साबहवःकृताः/प्राणिनोहिंसितावापितस्मादिदमुपस्थितम्/नत्वेवानागतेकालेदेहाच्च्यवतिजीवितम्/कैकेय्याक्लिश्यमानस्यमृत्युर्ममनविद्यते/योऽहंपावकसंकाशंपश्यामिपुरतःस्थितम्/विहायवसनेसूक्ष्मेतापसाच्छादमात्मजम्/एकस्याःखलुकैकेय्याःकृतेऽयंक्लिश्यतेजनः/स्वार्थेप्रयतमानायाःसंश्रित्यनिकृतिंत्विमाम्/एवमुक्त्वातुवचनंबाष्पेणपिहितेक्ष्णह/रामेतिसकृदेवोक्त्वाव्याहर्तुंनशशाकह/संज्ञांतुप्रतिलभ्यैवमुहूर्तात्समहीपतिः/नेत्राभ्यामश्रुपूर्णाभ्यांसुमन्त्रमिदमब्रवीत्/औपवाह्यंरथंयुक्त्वात्वमायाहिहयोत्तमैः/प्रापयैनंमहाभागमितोजनपदात्परम्/एवंमन्येगुणवतांगुणानांफलमुच्यते/पित्रामात्राचयत्साधुर्वीरोनिर्वास्यतेवनम्/राज्ञोवचनमाज्ञायसुमन्त्रःशीघ्रविक्रमः/योजयित्वाययौतत्ररथमश्वैरलंकृतम्/तंरथंराजपुत्रायसूतःकनकभूषितम्/आचचक्षेऽञ्जलिंकृत्वायुक्तंपरमवाजिभिः/राजासत्वरमाहूयव्यापृतंवित्तसंचये/उवाचदेशकालज्ञोनिश्चितंसर्वतःशुचि/वासांसिचमहार्हाणिभूषणानिवराणिच/वर्षाण्येतानिसंख्यायवैदेह्याःक्षिप्रमानय/नरेन्द्रेणैवमुक्तस्तुगत्वाकोशगृहंततः/प्रायच्छत्सर्वमाहृत्यसीतायैक्षिप्रमेवतत्/सासुजातासुजातानिवैदेहीप्रस्थितावनम्/भूषयामासगात्राणितैर्विचित्रैर्विभूषणैः/व्यराजयतवैदेहीवेश्मतत्सुविभूषिता/उद्यतोऽंशुमतःकालेखंप्रभेवविवस्वतः/तांभुजाभ्यांपरिष्वज्यश्वश्रूर्वचनमब्रवीत्/अनाचरन्तींकृपणंमूध्न्युपाघ्रायमैथिलीम्/असत्यःसर्वलोकेऽस्मिन्सततंसत्कृताःप्रियैः/भर्तारंनानुमन्यन्तेविनिपातगतंस्त्रियः/सत्वयानावमन्तव्यःपुत्रःप्रव्राजितोमम/तवदैवतमस्त्वेषनिर्धनःसधनोऽपिवा/विज्ञायवचनंसीतातस्याधर्मार्थसंहितम्/कृताञ्जलिरुवाचेदंश्वश्रूमभिमुखेस्थिता/करिष्येसर्वमेवाहमार्यायदनुशास्तिमाम्/अभिज्ञास्मियथाभर्तुर्वर्तितव्यंश्रुतंचमे/नमामसज्जनेनार्यासमानयितुमर्हति/धर्माद्विचलितुंनाहमलंचन्द्रादिवप्रभा/नातन्त्रीवाद्यतेवीणानाचक्रोवर्ततेरथः/नापतिःसुखमेधतेयास्यादपिशतात्मजा/मितंददातिहिपितामितंमातामितंसुतः/अमितस्यहिदातारंभर्तारंकानपूजयेत्/साहमेवंगताश्रेष्ठाश्रुतधर्मपरावरा/आर्येकिमवमन्येयंस्त्रीणांभर्ताहिदैवतम्/सीतायावचनंश्रुत्वाकौसल्याहृदयंगमम्/शुद्धसत्त्वामुमोचाश्रुसहसादुःखहर्षजम्/तांप्राञ्जलिरभिक्रम्यमातृमध्येऽतिसत्कृताम्/रामःपरमधर्मज्ञोमातरंवाक्यमब्रवीत्/अम्बमादुःखिताभूस्त्वंपश्यत्वंपितरंमम/क्षयोहिवनवासस्यक्षिप्रमेवभविष्यति/सुप्तायास्तेगमिष्यन्तिनववर्षाणिपञ्चच/सासमग्रमिहप्राप्तंमांद्रक्ष्यसिसुहृद्वृतम्/एतावदभिनीतार्थमुक्त्वासजननींवचः/त्रयःशतशतार्धाहिददर्शावेक्ष्यमातरः/ताश्चापिसतथैवार्तामातॄर्दशरथात्मजः/धर्मयुक्तमिदंवाक्यंनिजगादकृताञ्जलिः/संवासात्परुषंकिंचिदज्ञानाद्वापियत्कृतम्/तन्मेसमनुजानीतसर्वाश्चामन्त्रयामिवः/जज्ञेऽथतासांसंनादःक्रौञ्चीनामिवनिःस्वनः/मानवेन्द्रस्यभार्याणामेवंवदतिराघवे/मुरजपणवमेघघोषवद्॑दशरथवेश्मबभूवयत्पुरा/विलपितपरिदेवनाकुलं॑व्यसनगतंतदभूत्सुदुःखितम्23941/अथरामश्चसीताचलक्ष्मणश्चकृताञ्जलिः/उपसंगृह्यराजानंचक्रुर्दीनाःप्रदक्षिणम्2401/तंचापिसमनुज्ञाप्यधर्मज्ञःसीतयासह/राघवःशोकसंमूढोजननीमभ्यवादयत्/अन्वक्षंलक्ष्मणोभ्रातुःकौसल्यामभ्यवादयत्/अथमातुःसुमित्रायाजग्राहचरणौपुनः/तंवन्दमानंरुदतीमातासौमित्रिमब्रवीत्/हितकामामहाबाहुंमूर्ध्न्युपाघ्रायलक्ष्मणम्/सृष्टस्त्वंवनवासायस्वनुरक्तःसुहृज्जने/रामेप्रमादंमाकार्षीःपुत्रभ्रातरिगच्छति/व्यसनीवासमृद्धोवागतिरेषतवानघ/एषलोकेसतांधर्मोयज्ज्येष्ठवशगोभवेत्/इदंहिवृत्तमुचितंकुलस्यास्यसनातनम्/दानंदीक्षाचयज्ञेषुतनुत्यागोमृधेषुच/रामंदशरथंविद्धिमांविद्धिजनकात्मजाम्/अयोध्यामटवींविद्धिगच्छतातयथासुखम्/ततःसुमन्त्रःकाकुत्स्थंप्राञ्जलिर्वाक्यमब्रवीत्/विनीतोविनयज्ञश्चमातलिर्वासवंयथा/रथमारोहभद्रंतेराजपुत्रमहायशः/क्षिप्रंत्वांप्रापयिष्यामियत्रमांरामवक्ष्यसि/चतुर्दशहिवर्षाणिवस्तव्यानिवनेत्वया/तान्युपक्रमितव्यानियानिदेव्यासिचोदितः/तंरथंसूर्यसंकाशंसीताहृष्टेनचेतसा/आरुरोहवरारोहाकृत्वालंकारमात्मनः/तथैवायुधजातानिभ्रातृभ्यांकवचानिच/रथोपस्थेप्रतिन्यस्यसचर्मकठिनंचतत्/सीतातृतीयानारूढान्दृष्ट्वाधृष्टमचोदयत्/सुमन्त्रःसंमतानश्वान्वायुवेगसमाञ्जवे/प्रयातेतुमहारण्यंचिररात्रायराघवे/बभूवनगरेमूर्च्छाबलमूर्च्छाजनस्यच/तत्समाकुलसंभ्रान्तंमत्तसंकुपितद्विपम्/हयशिञ्जितनिर्घोषंपुरमासीन्महास्वनम्/ततःसबालवृद्धासापुरीपरमपीडिता/राममेवाभिदुद्रावघर्मार्तःसलिलंयथा/पार्श्वतःपृष्ठतश्चापिलम्बमानास्तदुन्मुखाः/बाष्पपूर्णमुखाःसर्वेतमूचुर्भृशदुःखिताः/संयच्छवाजिनांरश्मीन्सूतयाहिशनैःशनैः/मुखंद्रक्ष्यामिरामस्यदुर्दर्शंनोभविष्यति/आयसंहृदयंनूनंराममातुरसंशयम्/यद्देवगर्भप्रतिमेवनंयातिनभिद्यते/कृतकृत्याहिवैदेहीछायेवानुगतापतिम्/नजहातिरताधर्मेमेरुमर्कप्रभायथा/अहोलक्ष्मणसिद्धार्थःसततांप्रियवादिनम्/भ्रातरंदेवसंकाशंयस्त्वंपरिचरिष्यसि/महत्येषाहितेसिद्धिरेषचाभ्युदयोमहान्/एषस्वर्गस्यमार्गश्चयदेनमनुगच्छसि/एवंवदन्तस्तेसोढुंनशेकुर्बाष्पमागतम्/अथराजावृतःस्त्रीभिर्दीनाभिर्दीनचेतनः/निर्जगामप्रियंपुत्रंद्रक्ष्यामीतिब्रुवन्गृहात्/शुश्रुवेचाग्रतःस्त्रीणांरुदन्तीनांमहास्वनः/यथानादःकरेणूनांबद्धेमहतिकुञ्जरे/पिताचराजाकाकुत्स्थःश्रीमान्सन्नस्तदाबभौ/परिपूर्णःशशीकालेग्रहेणोपप्लुतोयथा/ततोहलहलाशब्दोजज्ञेरामस्यपृष्ठतः/नराणांप्रेक्ष्यराजानंसीदन्तंभृशदुःखितम्/हारामेतिजनाःकेचिद्राममातेतिचापरे/अन्तःपुरंसमृद्धंचक्रोशन्तंपर्यदेवयन्/अन्वीक्षमाणोरामस्तुविषण्णंभ्रान्तचेतसं/राजानंमातरंचैवददर्शानुगतौपथि/धर्मपाशेनसंक्षिप्तःप्रकाशंनाभ्युदैक्षत/पदातिनौचयानार्हावदुःखार्हौसुखोचितौ/दृष्ट्वासंचोदयामासशीघ्रंयाहीतिसारथिम्/नहितत्पुरुषव्याघ्रोदुःखदंदर्शनंपितुः/मातुश्चसहितुंशक्तस्तोत्रार्दितइवद्विपः/तथारुदन्तींकौसल्यांरथंतमनुधावतीम्/क्रोशन्तींरामरामेतिहासीतेलक्ष्मणेतिच/असकृत्प्रैक्षततदानृत्यन्तीमिवमातरम्/तिष्ठेतिराजाचुक्रोषयाहियाहीतिराघवः/सुमन्त्रस्यबभूवात्माचक्रयोरिवचान्तरा/नाश्रौषमितिराजानमुपालब्धोऽपिवक्ष्यसि/चिरंदुःखस्यपापिष्ठमितिरामस्तमब्रवीत्/रामस्यसवचःकुर्वन्ननुज्ञाप्यचतंजनम्/व्रजतोऽपिहयाञ्शीघ्रंचोदयामाससारथिः/न्यवर्ततजनोराज्ञोरामंकृत्वाप्रदक्षिणम्/मनसाप्यश्रुवेगैश्चनन्यवर्ततमानुषम्/यमिच्छेत्पुनरायान्तंनैनंदूरमनुव्रजेत्/इत्यमात्यामहाराजमूचुर्दशरथंवचः/तेषांवचःसर्वगुणोपपन्नं॑प्रस्विन्नगात्रःप्रविषण्णरूपः/निशम्यराजाकृपणःसभार्यो॑व्यवस्थितस्तंसुतमीक्षमाणः24051/तस्मिंस्तुपुरुषव्याघ्रेनिष्क्रामतिकृताञ्जलौ/आर्तशब्दोहिसंजज्ञेस्त्रीणामन्तःपुरेमहान्2411/अनाथस्यजनस्यास्यदुर्बलस्यतपस्विनः/योगतिंशरणंचासीत्सनाथःक्वनुगच्छति/नक्रुध्यत्यभिशस्तोऽपिक्रोधनीयानिवर्जयन्/क्रुद्धान्प्रसादयन्सर्वान्समदुःखःक्वगच्छति/कौसल्यायांमहातेजायथामातरिवर्तते/तथायोवर्ततेऽस्मासुमहात्माक्वनुगच्छति/कैकेय्याक्लिश्यमानेनराज्ञासंचोदितोवनम्/परित्राताजनस्यास्यजगतःक्वनुगच्छति/अहोनिश्चेतनोराजाजीवलोकस्यसंप्रियम्/धर्म्यंसत्यव्रतंरामंवनवासोप्रवत्स्यति/इतिसर्वामहिष्यस्ताविवत्साइवधेनवः/रुरुदुश्चैवदुःखार्ताःसस्वरंचविचुक्रुशुः/सतमन्तःपुरेघोरमार्तशब्दंमहीपतिः/पुत्रशोकाभिसंतप्तःश्रुत्वाचासीत्सुदुःखितः/नाग्निहोत्राण्यहूयन्तसूर्यश्चान्तरधीयत/व्यसृजन्कवलान्नागागावोवत्सान्नपाययन्/त्रिशङ्कुर्लोहिताङ्गश्चबृहस्पतिबुधावपि/दारुणाःसोममभ्येत्यग्रहाःसर्वेव्यवस्थिताः/नक्षत्राणिगतार्चींषिग्रहाश्चगततेजसः/विशाखाश्चसधूमाश्चनभसिप्रचकाशिरे/अकस्मान्नागरःसर्वोजनोदैन्यमुपागमत्/आहारेवाविहारेवानकश्चिदकरोन्मनः/बाष्पपर्याकुलमुखोराजमार्गगतोजनः/नहृष्टोलक्ष्यतेकश्चित्सर्वःशोकपरायणः/नवातिपवनःशीतोनशशीसौम्यदर्शनः/नसूर्यस्तपतेलोकंसर्वंपर्याकुलंजगत्/अनर्थिनःसुताःस्त्रीणांभर्तारोभ्रातरस्तथा/सर्वेसर्वंपरित्यज्यराममेवान्वचिन्तयन्/येतुरामस्यसुहृदःसर्वेतेमूढचेतसः/शोकभारेणचाक्रान्ताःशयनंनजुहुस्तदा/ततस्त्वयोध्यारहितामहात्मना॑पुरंदरेणेवमहीसपर्वता/चचालघोरंभयभारपीडिता॑सनागयोधाश्वगणाननादच24121/यावत्तुनिर्यतस्तस्यरजोरूपमदृश्यत/नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी2421/यावद्राजाप्रियंपुत्रंपश्यत्यत्यन्तधार्मिकम्/तावद्व्यवर्धतेवास्यधरण्यांपुत्रदर्शने/नपश्यतिरजोऽप्यस्ययदारामस्यभूमिपः/तदार्तश्चविषण्णश्चपपातधरणीतले/तस्यदक्षिणमन्वगात्कौसल्याबाहुमङ्गना/वामंचास्यान्वगात्पार्श्वंकैकेयीभरतप्रिया/तांनयेनचसंपन्नोधर्मेणनिवयेनच/उवाचराजाकैकेयींसमीक्ष्यव्यथितेन्द्रियः/कैकेयिमाममाङ्गानिस्प्राक्षीस्त्वंदुष्टचारिणी/नहित्वांद्रष्टुमिच्छामिनभार्यानचबान्धवी/येचत्वामुपजीवन्तिनाहंतेषांनतेमम/केवलार्थपरांहित्वांत्यक्तधर्मांत्यजाम्यहम्/अगृह्णांयच्चतेपाणिमग्निंपर्यणयंचयत्/अनुजानामितत्सर्वमस्मिंल्लोकेपरत्रच/भरतश्चेत्प्रतीतःस्याद्राज्यंप्राप्येदमव्ययम्/यन्मेसदद्यात्पित्रर्थंमामातद्दत्तमागमत्/अथरेणुसमुध्वस्तंतमुत्थाप्यनराधिपम्/न्यवर्तततदादेवीकौसल्याशोककर्शिता/हत्वेवब्राह्मणंकामात्स्पृष्ट्वाग्निमिवपाणिना/अन्वतप्यतधर्मात्मापुत्रंसंचिन्त्यतापसं/निवृत्यैवनिवृत्यैवसीदतोरथवर्त्मसु/राज्ञोनातिबभौरूपंग्रस्तस्यांशुमतोयथा/विललापचदुःखार्तःप्रियंपुत्रमनुस्मरन्/नगरान्तमनुप्राप्तंबुद्ध्वापुत्रमथाब्रवीत्/वाहनानांचमुख्यानांवहतांतंममात्मजम्/पदानिपथिदृश्यन्तेसमहात्मानदृश्यते/सनूनंक्वचिदेवाद्यवृक्षमूलमुपाश्रितः/काष्ठंवायदिवाश्मानमुपधायशयिष्यते/उत्थास्यतिचमेदिन्याःकृपणःपांशुगुण्ठितः/विनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः/द्रक्ष्यन्तिनूनंपुरुषादीर्घबाहुंवनेचराः/राममुत्थायगच्छन्तंलोकनाथमनाथवत्/सकामाभवकैकेयिविधवाराज्यमावस/नहितंपुरुषव्याघ्रंविनाजीवितुमुत्सहे/इत्येवंविलपन्राजाजनौघेनाभिसंवृतः/अपस्नातइवारिष्टंप्रविवेशपुरोत्तमम्/शून्यचत्वरवेश्मान्तांसंवृतापणदेवताम्/क्लान्तदुर्बलदुःखार्तांनात्याकीर्णमहापथाम्/तामवेक्ष्यपुरींसर्वांराममेवानुचिन्तयन्/विलपन्प्राविशद्राजागृहंसूर्यइवाम्बुदम्/महाह्रदमिवाक्षोभ्यंसुपर्णेनहृतोरगम्/रामेणरहितंवेश्मवैदेह्यालक्ष्मणेनच/कौसल्यायागृहंशीघ्रंराममातुर्नयन्तुमाम्/इतिब्रुवन्तंराजानमनयन्द्वारदर्शितः/ततस्तत्रप्रविष्टस्यकौसल्यायानिवेशनम्/अधिरुह्यापिशयनंबभूवलुलितंमनः/तच्चदृष्ट्वामहाराजोभुजमुद्यम्यवीर्यवान्/उच्चैःस्वरेणचुक्रोशहाराघवजहासिमाम्/सुखिताबततंकालंजीविष्यन्तिनरोत्तमाः/परिष्वजन्तोयेरामंद्रक्ष्यन्तिपुनरागतम्/नत्वांपश्यामिकौसल्येसाधुमांपाणिनास्पृश/रामंमेऽनुगतादृष्टिरद्यापिननिवर्तते/तंराममेवानुविचिन्तयन्तं॑समीक्ष्यदेवीशयनेनरेन्द्रम्/उपोपविश्याधिकमार्तरूपा॑विनिःश्वसन्तीविललापकृच्छ्रं24235/ततःसमीक्ष्यशयनेसन्नंशोकेनपार्थिवम्/कौसल्यापुत्रशोकार्तातमुवाचमहीपतिम्2431/राघवोनरशार्दूलविषमुप्त्वाद्विजिह्ववत्/विचरिष्यतिकैकेयीनिर्मुक्तेवहिपन्नगी/विवास्यरामंसुभगालब्धकामासमाहिता/त्रासयिष्यतिमांभूयोदुष्टाहिरिववेश्मनि/अथस्मनगरेरामश्चरन्भैक्षंगृहेवसेत्/कामकारोवरंदातुमपिदासंममात्मजम्/पातयित्वातुकैकेय्यारामंस्थानाद्यथेष्टतः/प्रदिष्टोरक्षसांभागःपर्वणीवाहिताग्निना/गजराजगतिर्वीरोमहाबाहुर्धनुर्धरः/वनमाविशतेनूनंसभार्यःसहलक्ष्मणः/वनेत्वदृष्टदुःखानांकैकेय्यानुमतेत्वया/त्यक्तानांवनवासायकान्ववस्थाभविष्यति/तेरत्नहीनास्तरुणाःफलकालेविवासिताः/कथंवत्स्यन्तिकृपणाःफलमूलैःकृताशनाः/अपीदानींसकालःस्यान्ममशोकक्षयःशिवः/सभार्यंयत्सहभ्रात्रापश्येयमिहराघवम्/श्रुत्वैवोपस्थितौवीरौकदायोध्याभविष्यति/यशस्विनीहृष्टजनासूच्छ्रितध्वजमालिनी/कदाप्रेक्ष्यनरव्याघ्रावरण्यात्पुनरागतौ/नन्दिष्यतिपुरीहृष्टासमुद्रइवपर्वणि/कदायोध्यांमहाबाहुःपुरींवीरःप्रवेक्ष्यति/पुरस्कृत्यरथेसीतांवृषभोगोवधूमिव/कदाप्राणिसहस्राणिराजमार्गेममात्मजौ/लाजैरवकरिष्यन्तिप्रविशन्तावरिंदमौ/कदासुमनसःकन्याद्विजातीनांफलानिच/प्रदिशन्त्यःपुरींहृष्टाःकरिष्यन्तिप्रदक्षिणम्/कदापरिणतोबुद्ध्यावयसाचामरप्रभः/अभ्युपैष्यतिधर्मज्ञस्त्रिवर्षइवमांललन्/निःसंशयंमयामन्येपुरावीरकदर्यया/पातुकामेषुवत्सेषुमातॄणांशातिताःस्तनाः/साहंगौरिवसिंहेनविवत्सावत्सलाकृता/कैकेय्यापुरुषव्याघ्रबालवत्सेवगौर्बलात्/नहितावद्गुणैर्जुष्टंसर्वशास्त्रविशारदम्/एकपुत्राविनापुत्रमहंजीवितुमुत्सहे/नहिमेजीवितेकिंचित्सामर्थमिहकल्प्यते/अपश्यन्त्याःप्रियंपुत्रंमहाबाहुंमहाबलम्/अयंहिमांदीपयतेसमुत्थितस्॑तनूजशोकप्रभवोहुताशनः/महीमिमांरश्मिभिरुत्तमप्रभो॑यथानिदाघेभगवान्दिवाकरः24321/विलपन्तींतथातांतुकौसल्यांप्रमदोत्तमाम्/इदंधर्मेस्थिताधर्म्यंसुमित्रावाक्यमब्रवीत्2441/तवार्येसद्गुणैर्युक्तःपुत्रःसपुरुषोत्तमः/किंतेविलपितेनैवंकृपणंरुदितेनवा/यस्तवार्येगतःपुत्रस्त्यक्त्वाराज्यंमहाबलः/साधुकुर्वन्महात्मानंपितरंसत्यवादिनाम्/शिष्टैराचरितेसम्यक्शश्वत्प्रेत्यफलोदये/रामोधर्मेस्थितःश्रेष्ठोनसशोच्यःकदाचन/वर्ततेचोत्तमांवृत्तिंलक्ष्मणोऽस्मिन्सदानघः/दयावान्सर्वभूतेषुलाभस्तस्यमहात्मनः/अरण्यवासेयद्दुःखंजानतीवैसुखोचिता/अनुगच्छतिवैदेहीधर्मात्मानंतवात्मजम्/कीर्तिभूतांपताकांयोलोकेभ्रामयतिप्रभुः/दमसत्यव्रतपरःकिंनप्राप्तस्तवात्मजः/व्यक्तंरामस्यविज्ञायशौचंमाहात्म्यमुत्तमम्/नगात्रमंशुभिःसूर्यःसंतापयितुमर्हति/शिवःसर्वेषुकालेषुकाननेभ्योविनिःसृतः/राघवंयुक्तशीतोष्णःसेविष्यतिसुखोऽनिलः/शयानमनघंरात्रौपितेवाभिपरिष्वजन्/रश्मिभिःसंस्पृशञ्शीतैश्चन्द्रमाह्लादयिष्यति/ददौचास्त्राणिदिव्यानियस्मैब्रह्मामहौजसे/दानवेन्द्रंहतंदृष्ट्वातिमिध्वजसुतंरणे/पृथिव्यासहवैदेह्याश्रियाचपुरुषर्षभः/क्षिप्रंतिसृभिरेताभिःसहरामोऽभिषेक्ष्यते/दुःखजंविसृजन्त्यस्रंनिष्क्रामन्तमुदीक्ष्ययम्/समुत्स्रक्ष्यसिनेत्राभ्यांक्षिप्रमानन्दजंपयः/अभिवादयमानंतंदृष्ट्वाससुहृदंसुतम्/मुदाश्रुमोक्ष्यसेक्षिप्रंमेघलेकेववार्षिकी/पुत्रस्तेवरदःक्षिप्रमयोध्यांपुनरागतः/कराभ्यांमृदुपीनाभ्यांचरणौपीडयिष्यति/निशम्यतल्लक्ष्मणमातृवाक्यं॑रामस्यमातुर्नरदेवपत्न्याः/सद्यःशरीरेविननाशशोकः॑शरद्गतोमेघइवाल्पतोयः24431/अनुरक्तामहात्मानंरामंसत्यपरक्रमम्/अनुजग्मुःप्रयान्तंतंवनवासायमानवाः2451/निवर्तितेऽपिचबलात्सुहृद्वर्गेचराजिनि/नैवतेसंन्यवर्तन्तरामस्यानुगतारथम्/अयोध्यानिलयानांहिपुरुषाणांमहायशाः/बभूवगुणसंपन्नःपूर्णचन्द्रइवप्रियः/सयाच्यमानःकाकुत्स्थःस्वाभिःप्रकृतिभिस्तदा/कुर्वाणःपितरंसत्यंवनमेवान्वपद्यत/अवेक्षमाणःसस्नेहंचक्षुषाप्रपिबन्निव/उवाचरामःस्नेहेनताःप्रजाःस्वाःप्रजाइव/याप्रीतिर्बहुमानश्चमय्ययोध्यानिवासिनाम्/मत्प्रियार्थंविशेषेणभरतेसानिवेश्यताम्/सहिकल्याणचारित्रःकैकेय्यानन्दवर्धनः/करिष्यतियथावद्वःप्रियाणिचहितानिच/ज्ञानवृद्धोवयोबालोमृदुर्वीर्यगुणान्वितः/अनुरूपःसवोभर्ताभविष्यतिभयापहः/सहिराजगुणैर्युक्तोयुवराजःसमीक्षितः/अपिचापिमयाशिष्टैःकार्यंवोभर्तृशासनम्/नचतप्येद्यथाचासौवनवासंगतेमयि/महाराजस्तथाकार्योममप्रियचिकीर्षया/यथायथादाशरथिर्धर्ममेवास्थितोऽभवत्/तथातथाप्रकृतयोरामंपतिमकामयन्/बाष्पेणपिहितंदीनंरामःसौमित्रिणासह/चकर्षेवगुणैर्बद्ध्वाजनंपुनरिवासनम्/तेद्विजास्त्रिविधंवृद्धाज्ञानेनवयसौजसा/वयःप्रकम्पशिरसोदूरादूचुरिदंवचः/वहन्तोजवनारामंभोभोजात्यास्तुरंगमाः/निवर्तध्वंनगन्तव्यंहिताभवतभर्तरि/उपवाह्यस्तुवोभर्तानापवाह्यःपुराद्वनम्/एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतोद्विजान्/अवेक्ष्यसहसारामोरथादवततारह/पद्भ्यामेवजगामाथससीतःसहलक्ष्मणः/संनिकृष्टपदन्यासोरामोवनपरायणः/द्विजातींस्तुपदातींस्तान्रामश्चारित्रवत्सलः/नशशाकघृणाचक्षुःपरिमोक्तुंरथेनसः/गच्छन्तमेवतंदृष्ट्वारामंसंभ्रान्तमानसाः/ऊचुःपरमसंतप्तारामंवाक्यमिदंद्विजाः/ब्राह्मण्यंकृत्स्नमेतत्त्वांब्रह्मण्यमनुगच्छति/द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी/वाजपेयसमुत्थानिछत्राण्येतानिपश्यनः/पृष्ठतोऽनुप्रयातानिहंसानिवजलात्यये/अनवाप्तातपत्रस्यरश्मिसंतापितस्यते/एभिश्छायांकरिष्यामःस्वैश्छत्रैर्वाजपेयिकैः/याहिनःसततंबुद्धिर्वेदमन्त्रानुसारिणी/त्वत्कृतेसाकृतावत्सवनवासानुसारिणी/हृदयेष्ववतिष्ठन्तेवेदायेनःपरंधनम्/वत्स्यन्त्यपिगृहेष्वेवदाराश्चारित्ररक्षिताः/नपुनर्निश्चयःकार्यस्त्वद्गतौसुकृतामतिः/त्वयिधर्मव्यपेक्षेतुकिंस्याद्धर्ममवेक्षितुम्/याचितोनोनिवर्तस्वहंसशुक्लशिरोरुहैः/शिरोभिर्निभृताचारमहीपतनपांशुलैः/बहूनांविततायज्ञाद्विजानांयइहागताः/तेषांसमाप्तिरायत्तातववत्सनिवर्तने/भक्तिमन्तिहिभूतानिजंगमाजंगमानिच/याचमानेषुतेषुत्वंभक्तिंभक्तेषुदर्शय/अनुगंतुमशक्तास्त्वांमूलैरुद्धृतवेगिभिः/उन्नतावायुवेगेनविक्रोशन्तीवपादपाः/निश्चेष्टाहारसंचारावृक्षैकस्थानविष्ठिताः/पक्षिणोऽपिप्रयाचन्तेसर्वभूतानुकम्पिनम्/एवंविक्रोशतांतेषांद्विजातीनांनिवर्तने/ददृशेतमसातत्रवारयन्तीवराघवम्24532/ततस्तुतमसातीरंरम्यमाश्रित्यराघवः/सीतामुद्वीक्ष्यसौमित्रिमिदंवचनमब्रवीत्2461/इयमद्यनिशापूर्वासौमित्रेप्रस्थितावनम्/वनवासस्यभद्रंतेसनोत्कण्ठितुमर्हसि/पश्यशून्यान्यरण्यानिरुदन्तीवसमन्ततः/यथानिलयमायद्भिर्निलीनानिमृगद्विजैः/अद्यायोध्यातुनगरीराजधानीपितुर्मम/सस्त्रीपुंसागतानस्माञ्शोचिष्यतिनसंशयः/भरतःखलुधर्मात्मापितरंमातरंचमे/धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति/भरतस्यानृशंसत्वंसंचिन्त्याहंपुनःपुनः/नानुशोचामिपितरंमातरंचापिलक्ष्मण/त्वयाकार्यंनरव्याघ्रमामनुव्रजताकृतम्/अन्वेष्टव्याहिवैदेह्यारक्षणार्थेसहायता/अद्भिरेवतुसौमित्रेवत्स्याम्यद्यनिशामिमाम्/एतद्धिरोचतेमह्यंवन्येऽपिविविधेसति/एवमुक्त्वातुसौमित्रंसुमन्त्रमपिराघवः/अप्रमत्तस्त्वमश्वेषुभवसौम्येत्युवाचह24611/सोऽश्वान्सुमन्त्रःसंयम्यसूर्येऽस्तंसमुपागते/प्रभूतयवसान्कृत्वाबभूवप्रत्यनन्तरः/उपास्यतुशिवांसंध्यांदृष्ट्वारात्रिमुपस्थिताम्/रामस्यशयनंचक्रेसूतःसौमित्रिणासह/तांशय्यांतमसातीरेवीक्ष्यवृक्षदलैःकृताम्/रामःसौमित्रिणांसार्धंसभार्यःसंविवेशह/सभार्यंसंप्रसुप्तंतंभ्रातरंवीक्ष्यलक्ष्मणः/कथयामाससूतायरामस्यविविधान्गुणान्/जाग्रतोह्येवतांरात्रिंसौमित्रेरुदितोरविः/सूतस्यतमसातीरेरामस्यब्रुवतोगुणान्/गोकुलाकुलतीरायास्तमसायाविदूरतः/अवसत्तत्रतांरात्रिंरामःप्रकृतिभिःसह/उत्थायतुमहातेजाःप्रकृतीस्तानिशाम्यच/अब्रवीद्भ्रातरंरामोलक्ष्मणंपुण्यलक्षणम्/अस्मद्व्यपेक्षान्सौमित्रेनिरपेक्षान्गृहेष्वपि/वृक्षमूलेषुसंसुप्तान्पश्यलक्ष्मणसाम्प्रतम्/यथैतेनियमंपौराःकुर्वन्त्यस्मन्निवर्तने/अपिप्राणानसिष्यन्तिनतुत्यक्ष्यन्तिनिश्चयम्/यावदेवतुसंसुप्तास्तावदेववयंलघु/रथमारुह्यगच्छामःपन्थानमकुतोभयम्/अतोभूयोऽपिनेदानीमिक्ष्वाकुपुरवासिनः/स्वपेयुरनुरक्तामांवृक्षमूलानिसंश्रिताः24622/पौराह्यात्मकृताद्दुःखाद्विप्रमोच्यानृपात्मजैः/नतुखल्वात्मनायोज्यादुःखेनपुरवासिनः/अब्रवील्लक्ष्मणोरामंसाक्षाद्धर्ममिवस्थितम्/रोचतेमेमहाप्राज्ञक्षिप्रमारुह्यतामिति/सूतस्ततःसंत्वरितःस्यन्दनंतैर्हयोत्तमैः/योजयित्वाथरामायप्राञ्जलिःप्रत्यवेदयत्/मोहनार्थंतुपौराणांसूतंरामोऽब्रवीद्वचः/उदङ्मुखःप्रयाहित्वंरथमास्थायसारथे/मुहूर्तंत्वरितंगत्वानिर्गतयरथंपुनः/यथानविद्युःपौरामांतथाकुरुसमाहितः/रामस्यवचनंश्रुत्वातथाचक्रेससारथिः/प्रत्यागम्यचरामस्यस्यन्दनंप्रत्यवेदयत्/तंस्यन्दनमधिष्ठायराघवःसपरिच्छदः/शीघ्रगामाकुलावर्तांतमसामतरन्नदीम्/ससंतीर्यमहाबाहुःश्रीमाञ्शिवमकण्टकम्/प्रापद्यतमहामार्गमभयंभयदर्शिनाम्/प्रभातायांतुशर्वर्यांपौरास्तेराघवोविना/शोकोपहतनिश्चेष्टाबभूवुर्हतचेतसः2471/शोकजाश्रुपरिद्यूनावीक्षमाणास्ततस्ततः/आलोकमपिरामस्यनपश्यन्तिस्मदुःखिताः/ततोमार्गानुसारेणगत्वाकिंचित्क्षणंपुनः/मार्गनाशाद्विषादेनमहतासमभिप्लुतः/रथस्यमार्गनाशेनन्यवर्तन्तमनस्विनः/किमिदंकिंकरिष्यामोदैवेनोपहताइति24714/ततोयथागतेनैवमार्गेणक्लान्तचेतसः/अयोध्यामगमन्सर्वेपुरींव्यथितसज्जनाम्/अनुगम्यनिवृत्तानांरामंनगरवासिनाम्/उद्गतानीवसत्त्वानिबभूवुरमनस्विनाम्2482/स्वंस्वंनिलयमागम्यपुत्रदारैःसमावृताः/अश्रूणिमुमुचुःसर्वेबाष्पेणपिहिताननाः/नचाहृष्यन्नचामोदन्वणिजोनप्रसारयन्/नचाशोभन्तपण्यानिनापचन्गृहमेधिनः/नष्टंदृष्ट्वानाभ्यनन्दन्विपुलंवाधनागमम्/पुत्रंप्रथमजंलब्ध्वाजननीनाभ्यनन्दत/गृहेगृहेरुदन्त्यश्चभर्तारंगृहमागतम्/व्यगर्हयन्तोदुःखार्तावाग्भिस्तोत्रैरिवद्विपान्/किंनुतेषांगृहैःकार्यंकिंदारैःकिंधनेनवा/पुत्रैर्वाकिंसुखैर्वापियेनपश्यन्तिराघवम्/एकःसत्पुरुषोलोकेलक्ष्मणःसहसीतया/योऽनुगच्छतिकाकुत्स्थंरामंपरिचरन्वने2488/आपगाःकृतपुण्यास्ताःपद्मिन्यश्चसरांसिच/येषुस्नास्यतिकाकुत्स्थोविगाह्यसलिलंशुचि/शोभयिष्यन्तिकाकुत्स्थमटव्योरम्यकाननाः/आपगाश्चमहानूपाःसानुमन्तश्चपर्वताः/काननंवापिशैलंवायंरामोऽभिगमिष्यति/प्रियातिथिमिवप्राप्तंनैनंशक्ष्यन्त्यनर्चितुम्/विचित्रकुसुमापीडाबहुमञ्जरिधारिणः/अकालेचापिमुख्यानिपुष्पाणिचफलानिच/दर्शयिष्यन्त्यनुक्रोशाद्गिरयोराममागतम्/विदर्शयन्तोविविधान्भूयश्चित्रांश्चनिर्झरान्/पादपाःपर्वताग्रेषुरमयिष्यन्तिराघवम्/यत्ररामोभयंनात्रनास्तितत्रपराभवः/सहिशूरोमहाबाहुःपुत्रोदशरथस्यच/पुराभवतिनोदूरादनुगच्छामराघवम्/पादच्छायासुखाभर्तुस्तादृशस्यमहात्मनः/सहिनाथोजनस्यास्यसगतिःसपरायणम्/वयंपरिचरिष्यामःसीतांयूयंतुराघवम्/इतिपौरस्त्रियोभर्तॄन्दुःखार्तास्तत्तदब्रुवन्/युष्माकंराघवोऽरण्येयोगक्षेमंविधास्यति/सीतानारीजनस्यास्ययोगक्षेमंकरिष्यति/कोन्वनेनाप्रतीतेनसोत्कण्ठितजनेनच/संप्रीयेतामनोज्ञेनवासेनहृतचेतसा24820/कैकेय्यायदिचेद्राज्यंस्यादधर्म्यमनाथवत्/नहिनोजीवितेनार्थःकुतःपुत्रैःकुतोधनैः/ययापुत्रश्चभर्ताचत्यक्तावैश्वर्यकारणात्/कंसापरिहरेदन्यंकैकेयीकुलपांसनी/कैकेय्यानवयंराज्येभृतकानिवसेमहि/जीवन्त्याजातुजीवन्त्यःपुत्रैरपिशपामहे/यापुत्रंपार्थिवेन्द्रस्यप्रवासयतिनिर्घृणा/कस्तांप्राप्यसुखंजीवेदधर्म्यांदुष्टचारिणीम्/नहिप्रव्रजितेरामेजीविष्यतिमहीपतिः/मृतेदशरथेव्यक्तंविलोपस्तदनन्तरम्/तेविषंपिबतालोड्यक्षीणपुण्याःसुदुर्गताः/राघवंवानुगच्छध्वमश्रुतिंवापिगच्छत/मिथ्याप्रव्राजितोरामःसभार्यःसहलक्ष्मणः/भरतेसंनिषृष्टाःस्मःसौनिकेपशवोयथा/तास्तथाविलपन्त्यस्तुनगरेनागरस्त्रियः/चुक्रुशुर्भृशसंतप्तामृत्योरिवभयागमे/तथास्त्रियोरामनिमित्तमातुरा॑यथासुतेभ्रातरिवाविवासिते/विलप्यदीनारुरुदुर्विचेतसः॑सुतैर्हितासामधिकोहिसोऽभवत्24836/रामोऽपिरात्रिशेषेणतेनैवमहदन्तरम्/जगामपुरुषव्याघ्रःपितुराज्ञामनुस्मरन्2491/तथैवगच्छतस्तस्यव्यपायाद्रजनीशिवा/उपास्यसशिवांसंध्यांविषयान्तंव्यगाहत/ग्रामान्विकृष्टसीमांस्तान्पुष्पितानिवनानिच/पश्यन्नतिययौशीघ्रंशरैरिवहयोत्तमैः/शृण्वन्वाचोमनुष्याणांग्रामसंवासवासिनाम्/राजानंधिग्दशरथंकामस्यवशमागतम्/हानृशंसाद्यकैकेयीपापापापानुबन्धिनी/तीक्ष्णासंभिन्नमर्यादातीक्ष्णेकर्मणिवर्तते/यापुत्रमीदृशंराज्ञःप्रवासयतिधार्मिकम्/वनवासेमहाप्राज्ञंसानुक्रोशमतन्द्रितम्/एतावाचोमनुष्याणांग्रामसंवासवासिनाम्/शृण्वन्नतिययौवीरःकोसलान्कोसलेश्वरः/ततोवेदश्रुतिंनामशिववारिवहांनदीम्/उत्तीर्याभिमुखःप्रायादगस्त्याध्युषितांदिशम्/गत्वातुसुचिरंकालंततःशीतजलांनदीम्/गोमतींगोयुतानूपामतरत्सागरंगमाम्/गोमतींचाप्यतिक्रम्यराघवःशीघ्रगैर्हयैः/मयूरहंसाभिरुतांततारस्यन्दिकांनदीम्/समहींमनुनाराज्ञादत्तामिक्ष्वाकवेपुरा/स्फीतांराष्ट्रावृतांरामोवैदेहीमन्वदर्शयत्/सूतइत्येवचाभाष्यसारथिंतमभीक्ष्णशः/हंसमत्तस्वरःश्रीमानुवाचपुरुषर्षभः/कदाहंपुनरागम्यसरय्वाःपुष्पितेवने/मृगयांपर्याटष्यामिमात्रापित्राचसंगतः/नात्यर्थमभिकाङ्क्षामिमृगयांसरयूवने/रतिर्ह्येषातुलालोकेराजर्षिगणसंमता/सतमध्वानमैक्ष्वाकःसूतंमधुरयागिरा/तंतमर्थमभिप्रेत्यययौवाक्यमुदीरयन्/विशालान्कोसलान्रम्यान्यात्वालक्ष्मणपूर्वजः/आससादमहाबाहुःशृङ्गवेरपुरंप्रति2501/तत्रत्रिपथगांदिव्यांशिवतोयामशैवलाम्/ददर्शराघवोगङ्गांपुण्यामृषिनिसेविताम्/हंससारससंघुष्टांचक्रवाकोपकूजिताम्/शिंशुमरैश्चनक्रैश्चभुजंगैश्चनिषेविताम्/तामूर्मिकलिलावर्तामन्ववेक्ष्यमहारथः/सुमन्त्रमब्रवीत्सूतमिहैवाद्यवसामहे/अविदूरादयंनद्याबहुपुष्पप्रवालवान्/सुमहानिङ्गुदीवृक्षोवसामोऽत्रैवसारथे/लक्षणश्चसुमन्त्रश्चबाढमित्येवराघवम्/उक्त्वातमिङ्गुदीवृक्षंतदोपययतुर्हयैः/रामोऽभियायतंरम्यंवृक्षमिक्ष्वाकुनन्दनः/रथादवातरत्तस्मात्सभार्यःसहलक्ष्मणः/सुमन्त्रोऽप्यवतीर्यैवमोचयित्वाहयोत्तमान्/वृक्षमूलगतंराममुपतस्थेकृताञ्जलिः/तत्रराजागुहोनामरामस्यात्मसमःसखा/निषादजात्योबलवान्स्थपतिश्चेतिविश्रुतः/सश्रुत्वापुरुषव्याघ्रंरामंविषयमागतम्/वृद्धैःपरिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः/ततोनिषादाधिपतिंदृष्ट्वादूरादवस्थितम्/सहसौमित्रिणारामःसमागच्छद्गुहेनसः/तमार्तःसंपरिष्वज्यगुहोराघवमब्रवीत्/यथायोध्यातथेदंतेरामकिंकरवाणिते/ततोगुणवदन्नाद्यमुपादायपृथग्विधम्/अर्घ्यंचोपानयत्क्षिप्रंवाक्यंचेदमुवाचह/स्वागतंतेमहाबाहोतवेयमखिलामही/वयंप्रेष्याभवान्भर्तासाधुराज्यंप्रशाधिनः/भक्ष्यंभोज्यंचपेयंचलेह्यंचेदमुपस्थितम्/शयनानिचमुख्यानिवाजिनांखादनंचते/गुहमेवब्रुवाणंतंराघवःप्रत्युवाचह/अर्चिताश्चैवहृष्टाश्चभवतासर्वथावयम्/पद्भ्यामभिगमाच्चैवस्नेहसंदर्शनेनच/भुजाभ्यांसाधुवृत्ताभ्यांपीडयन्वाक्यमब्रवीत्/दिष्ट्यात्वांगुहपश्यामिअरोगंसहबान्धवैः/अपितेकूशलंराष्ट्रेमित्रेषुचधनेषुच/यत्त्विदंभवताकिंचित्प्रीत्यासमुपकल्पितम्/सर्वंतदनुजानामिनहिवर्तेप्रतिग्रहे/कुशचीराजिनधरंफलमूलाशनंचमाम्/विद्धिप्रणिहितंधर्मेतापसंवनगोचरम्/अश्वानांखादनेनाहमर्थीनान्येनकेनचित्/एतावतात्रभवताभविष्यामिसुपूजितः/एतेहिदयिताराज्ञःपितुर्दशरथस्यमे/एतैःसुविहितैरश्वैर्भविष्याम्यहमर्चितः/अश्वानांप्रतिपानंचखादनंचैवसोऽन्वशात्/गुहस्तत्रैवपुरुषांस्त्वरितंदीयतामिति/ततश्चीरोत्तरासङ्गःसंध्यामन्वास्यपश्चिमाम्/जलमेवाददेभोज्यंलक्ष्मणेनाहृतंस्वयम्/तस्यभूमौशयानस्यपादौप्रक्षाल्यलक्ष्मणः/सभार्यस्यततोऽभ्येत्यतस्थौवृक्षमुपाश्रितः/गुहोऽपिसहसूतेनसौमित्रिमनुभाषयन्/अन्वजाग्रत्ततोराममप्रमत्तोधनुर्धरः/तथाशयानस्यततोऽस्यधीमतो॑यशस्विनोदाशरथेर्महात्मनः/अदृष्टदुःखस्यसुखोचितस्यसा॑तदाव्यतीयायचिरेणशर्वरी25051/तंजाग्रतमदम्भेनभ्रातुरर्थायलक्ष्मणम्/गुहःसंतापसंतप्तोराघवंवाक्यमब्रवीत्2511/इयंतातसुखाशय्यात्वदर्थमुपकल्पिता/प्रत्याश्वसिहिसाध्वस्यांराजपुत्रयथासुखम्/उचितोऽयंजनःसर्वःक्लेशानांत्वंसुखोचितः/गुप्त्यर्थंजागरिष्यामःकाकुत्स्थस्यवयंनिशाम्/नहिरामात्प्रियतरोममास्तिभुविकश्चन/ब्रवीम्येतदहंसत्यंसत्येनैवचतेशपे/अस्यप्रसादादाशंसेलोकेऽस्मिन्सुमहद्यशः/धर्मावाप्तिंचविपुलामर्थावाप्तिंचकेवलाम्/सोऽहंप्रियसखंरामंशयानंसहसीतया/रक्षिष्यामिधनुष्पाणिःसर्वतोज्ञातिभिःसह/नहिमेऽविदितंकिंचिद्वनेऽस्मिंश्चरतःसदा/चतुरङ्गंह्यपिबलंसुमहत्प्रसहेमहि/लक्ष्मणस्तंतदोवाचरक्ष्यमाणास्त्वयानघ/नात्रभीतावयंसर्वेधर्ममेवानुपश्यता/कथंदाशरथौभूमौशयानेसहसीतया/शक्यानिद्रामयालब्धुंजीवितंवासुखानिवा/योनदेवासुरैःसर्वैःशक्यःप्रसहितुंयुधि/तंपश्यसुखसंविष्टंतृणेषुसहसीतया/योमन्त्रतपसालब्धोविविधैश्चपरिश्रमैः/एकोदशरथस्यैषपुत्रःसदृशलक्षणः/अस्मिन्प्रव्रजितोराजानचिरंवर्तयिष्यति/विधवामेदिनीनूनंक्षिप्रमेवभविष्यति/विनद्यसुमहानादंश्रमेणोपरताःस्त्रियः/निर्घोषोपरतंतातमन्येराजनिवेशनम्/कौसल्याचैवराजाचतथैवजननीमम/नाशंसेयदिजीवन्तिसर्वेतेशर्वरीमिमाम्/जीवेदपिहिमेमाताशत्रुघ्नस्यान्ववेक्षया/तद्दुःखंयत्तुकौसल्यावीरसूर्विनशिष्यति/अनुरक्तजनाकीर्णासुखालोकप्रियावहा/राजव्यसनसंसृष्टासापुरीविनशिष्यति/अतिक्रान्तमतिक्रान्तमनवाप्यमनोरथम्/राज्येराममनिक्षिप्यपितामेविनशिष्यति/सिद्धार्थाःपितरंवृत्तंतस्मिन्कालेह्युपस्थिते/प्रेतकार्येषुसर्वेषुसंस्करिष्यन्तिभूमिपम्/रम्यचत्वरसंस्थानांसुविभक्तमहापथाम्/हर्म्यप्रासादसंपन्नांगणिकावरशोभिताम्/रथाश्वगजसंबाधांतूर्यनादविनादिताम्/सर्वकल्याणसंपूर्णांहृष्टपुष्टजनाकुलाम्/आरामोद्यानसंपन्नांसमाजोत्सवशालिनीम्/सुखिताविचरिष्यन्तिराजधानींपितुर्मम/अपिसत्यप्रतिज्ञेनसार्धंकुशलिनावयम्/निवृत्तेवनवासेऽस्मिन्नयोध्यांप्रविशेमहि/परिदेवयमानस्यदुःखार्तस्यमहात्मनः/तिष्ठतोराजपुत्रस्यशर्वरीसात्यवर्तत/तथाहिसत्यंब्रुवतिप्रजाहिते॑नरेन्द्रपुत्रेगुरुसौहृदाद्गुहः/मुमोचबाष्पंव्यसनाभिपीडितो॑ज्वरातुरोनागइवव्यथातुरः25127/प्रभातायांतुशर्वर्यांपृथुवृक्षामहायशाः/उवाचरामःसौमित्रिंलक्ष्मणंशुभलक्षणम्2521/भास्करोदयकालोऽयंगताभगवतीनिशा/असौसुकृष्णोविहगःकोकिलस्तातकूजति/बर्हिणानांचनिर्घोषःश्रूयतेनदतांवने/तरामजाह्नवींसौम्यशीघ्रगांसागरंगमाम्/विज्ञायरामस्यवचःसौमित्रिर्मित्रनन्दनः/गुहमामन्त्र्यसूतंचसोऽतिष्ठद्भ्रातुरग्रतः/ततःकलापान्संनह्यखड्गौबद्ध्वाचधन्विनौ/जग्मतुर्येनतौगङ्गांसीतयासहराघवौ/राममेवतुधर्मज्ञमुपगम्यविनीतवत्/किमहंकरवाणीतिसूतःप्राञ्जलिरब्रवीत्/निवर्तस्वेत्युवाचैनमेतावद्धिकृतंमम/यानंविहायपद्भ्यांतुगमिष्यामोमहावनम्/आत्मानंत्वभ्यनुज्ञातमवेक्ष्यार्तःससारथिः/सुमन्त्रःपुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्/नातिक्रान्तमिदंलोकेपुरुषेणेहकेनचित्/तवसभ्रातृभार्यस्यवासःप्राकृतवद्वने/नमन्येब्रह्मचर्येऽस्तिस्वधीतेवाफलोदयः/मार्दवार्जवयोर्वापित्वांचेद्व्यसनमागतम्/सहराघववैदेह्याभ्रात्राचैववनेवसन्/त्वंगतिंप्राप्स्यसेवीरत्रींल्लोकांस्तुजयन्निव/वयंखलुहतारामयेतयाप्युपवञ्चिताः/कैकेय्यावशमेष्यामःपापायादुःखभागिनः/इतिब्रुवन्नात्मसमंसुमन्त्रःसारथिस्तदा/दृष्ट्वादुरगतंरामंदुःखार्तोरुरुदेचिरम्/ततस्तुविगतेबाष्पेसूतंस्पृष्टोदकंशुचिम्/रामस्तुमधुरंवाक्यंपुनःपुनरुवाचतम्/इक्ष्वाकूणांत्वयातुल्यंसुहृदंनोपलक्षये/यथादशरथोराजामांनशोचेत्तथाकुरु/शोकोपहतचेताश्चवृद्धश्चजगतीपतिः/कामभारावसन्नश्चतस्मादेतद्ब्रवीमिते/यद्यदाज्ञापयेत्किंचित्समहात्मामहीपतिः/कैकेय्याःप्रियकामार्थंकार्यंतदविकाङ्क्षया/एतदर्थंहिराज्यानिप्रशासतिनरेश्वराः/यदेषांसर्वकृत्येषुमनोनप्रतिहन्यते/तद्यथासमहाराजोनालीकमधिगच्छति/नचताम्यतिदुःखेनसुमन्त्रकुरुतत्तथा/अदृष्टदुःखंराजानंवृद्धमार्यंजितेन्द्रियम्/ब्रूयास्त्वमभिवाद्यैवममहेतोरिदंवचः/नैवाहमनुशोचामिलक्ष्मणोनचमैथिली/अयोध्यायाश्च्युताश्चेतिवनेवत्स्यामहेतिवा/चतुर्दशसुवर्षेषुनिवृत्तेषुपुनःपुनः/लक्ष्मणंमांचसीतांचद्रक्ष्यसिक्षिप्रमागतान्/एवमुक्त्वातुराजानंमातरंचसुमन्त्रमे/अन्याश्चदेवीःसहिताःकैकेयींचपुनःपुनः/आरोग्यंब्रूहिकौसल्यामथपादाभिवन्दनम्/सीतायाममचार्यस्यवचनाल्लक्ष्मणस्यच/ब्रूयाश्चहिमहाराजंभरतंक्षिप्रमानय/आगतश्चापिभरतःस्थाप्योनृपमतेपदे/भरतंचपरिष्वज्ययौवराज्येऽभिषिच्यच/अस्मत्संतापजंदुःखंनत्वामभिभविष्यति/भरतश्चापिवक्तव्योयथाराजनिवर्तसे/तथामातृषुवर्तेथाःसर्वास्वेवाविशेषतः/यथाचतवकैकेयीसुमित्राचाविशेषतः/तथैवदेवीकौसल्यामममाताविशेषतः/निवर्त्यमानोरामेणसुमन्त्रःशोककर्शितः/तत्सर्वंवचनंश्रुत्वास्नेहात्काकुत्स्थमब्रवीत्/यदहंनोपचारेणब्रूयांस्नेहादविक्लवः/भक्तिमानितितत्तावद्वाक्यंत्वंक्षन्तुमर्हसि/कथंहित्वद्विहीनोऽहंप्रतियास्यामितांपुरीम्/तवतातवियोगेनपुत्रशोकाकुलामिव/सराममपितावन्मेरथंदृष्ट्वातदाजनः/विनारामंरथंदृष्ट्वाविदीर्येतापिसापुरी/दैन्यंहिनगरीगच्छेद्दृष्ट्वाशून्यमिमंरथम्/सूतावशेषंस्वंसैन्यंहतवीरमिवाहवे/दूरेऽपिनिवसन्तंत्वांमानसेनाग्रतःस्थितम्/चिन्तयन्त्योऽद्यनूनंत्वांनिराहाराःकृताःप्रजाः/आर्तनादोहियःपौरैर्मुक्तस्तद्विप्रवासने/रथस्थंमांनिशाम्यैवकुर्युःशतगुणंततः/अहंकिंचापिवक्ष्यामिदेवींतवसुतोमया/नीतोऽसौमातुलकुलंसंतापंमाकृथाइति/असत्यमपिनैवाहंब्रूयांवचनमीदृशम्/कथमप्रियमेवाहंब्रूयांसत्यमिदंवचः/ममतावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः/कथंरथंत्वयाहीनंप्रवक्ष्यन्तिहयोत्तमाः/यदिमेयाचमानस्यत्यागमेवकरिष्यसि/सरथोऽग्निंप्रवेक्ष्यामित्यक्तमात्रइहत्वया/भविष्यन्तिवनेयानितपोविघ्नकराणिते/रथेनप्रतिबाधिष्येतानिसत्त्वानिराघव/तत्कृतेनमयाप्राप्तंरथचर्याकृतंसुखम्/आशंसेत्वत्कृतेनाहंवनवासकृतंसुखम्/प्रसीदेच्छामितेऽरण्येभवितुंप्रत्यनन्तरः/प्रीत्याभिहितमिच्छामिभवमेपत्यनन्तरः/तवशुश्रूषणंमूर्ध्नाकरिष्यामिवनेवसन्/अयोध्यांदेवलोकंवासर्वथाप्रजहाम्यहम्/नहिशक्याप्रवेष्टुंसामयायोध्यात्वयाविना/राजधानीमहेन्द्रस्ययथादुष्कृतकर्मणा/इमेचापिहयावीरयदितेवनवासिनः/परिचर्यांकरिष्यन्तिप्राप्स्यन्तिपरमांगतिम्/वनवासेक्षयंप्राप्तेममैषहिमनोरथः/यदनेनरथेनैवत्वांवहेयंपुरींपुनः/चतुर्दशहिवर्षाणिसहितस्यत्वयावने/क्षणभूतानियास्यन्तिशतशस्तुततोऽन्यथा/भृत्यवत्सलतिष्ठन्तंभर्तृपुत्रगतेपथि/भक्तंभृत्यंस्थितंस्थित्यांत्वंनमांहातुमर्हसि/एवंबहुविधंदीनंयाचमानंपुनःपुनः/रामोभृत्यानुकम्पीतुसुमन्त्रमिदमब्रवीत्/जानामिपरमांभक्तिंमयितेभर्तृवत्सल/शृणुचापियदर्थंत्वांप्रेषयामिपुरीमितः/नगरींत्वांगतंदृष्ट्वाजननीमेयवीयसी/कैकेयीप्रत्ययंगच्छेदितिरामोवनंगतः/परितुष्टाहिसादेविवनवासंगतेमयि/राजानंनातिशङ्केतमिथ्यावादीतिधार्मिकम्/एषमेप्रथमःकल्पोयदम्बामेयवीयसी/भरतारक्षितंस्फीतंपुत्रराज्यमवाप्नुयात्/ममप्रियार्थंराज्ञश्चसरथस्त्वंपुरींव्रज/संदिष्टश्चासियानर्थांस्तांस्तान्ब्रूयास्तथातथा/इत्युक्त्वावचनंसूतंसान्त्वयित्वापुनःपुनः/गुहंवचनमक्लीबंरामोहेतुमदब्रवीत्/जटाःकृत्वागमिष्यामिन्यग्रोधक्षीरमानय/तत्क्षीरंराजपुत्रायगुहःक्षिप्रमुपाहरत्/लक्ष्मणस्यात्मनश्चैवरामस्तेनाकरोज्जटाः/तौतदाचीरवसनौजटामण्डलधारिणौ/अशोभेतामृषिसमौभ्रातरौरामलक्ष्मणौ/ततोवैखानसंमार्गमास्थितःसहलक्ष्मणः/व्रतमादिष्टवान्रामःसहायंगुहमब्रवीत्/अप्रमत्तोबलेकोशेदुर्गेजनपदेतथा/भवेथागुहराज्यंहिदुरारक्षतमंमतम्/ततस्तंसमनुज्ञायगुहमिक्ष्वाकुनन्दनः/जगामतूर्णमव्यग्रःसभार्यःसहलक्ष्मणः/सतुदृष्ट्वानदीतीरेनावमिक्ष्वाकुनन्दनः/तितीर्षुःशीघ्रगांगङ्गामिदंलक्ष्मणमब्रवीत्/आरोहत्वंनरव्याघ्रस्थितांनावमिमांशनैः/सीतांचारोपयान्वक्षंपरिगृह्यमनस्विनीम्/सभ्रातुःशासनंश्रुत्वासर्वमप्रतिकूलयन्/आरोप्यमैथिलींपूर्वमारुरोहात्मवांस्ततः/अथारुरोहतेजस्वीस्वयंलक्ष्मणपूर्वजः/ततोनिषादाधिपतिर्गुहोज्ञातीनचोदयत्/अनुज्ञायसुमन्त्रंचसबलंचैवतंगुहम्/आस्थायनावंरामस्तुचोदयामासनाविकान्/ततस्तैश्चोदितासानौःकर्णधारसमाहिता/शुभस्फ्यवेगाभिहताशीघ्रंसलिलमत्यगात्/मध्यंतुसमनुप्राप्यभागीरथ्यास्त्वनिन्दिता/वैदेहीप्राञ्जलिर्भूत्वातांनदीमिदमब्रवीत्/पुत्रोदशरथस्यायंमहाराजस्यधीमतः/निदेशंपालयत्वेनंगङ्गेत्वदभिरक्षितः/चतुर्दशहिवर्षाणिसमग्राण्युष्यकानने/भ्रात्रासहमयाचैवपुनःप्रत्यागमिष्यति/ततस्त्वांदेविसुभगेक्षेमेणपुनरागता/यक्ष्येप्रमुदितागङ्गेसर्वकामसमृद्धये/त्वंहित्रिपथगादेविब्रह्मलोकंसमीक्षसे/भार्याचोदधिराजस्यलोकेऽस्मिन्संप्रदृश्यसे/सात्वांदेविनमस्यामिप्रशंसामिचशोभने/प्राप्तराज्येनरव्याघ्रशिवेनपुनरागते/गवांशतसहस्राणिवस्त्राण्यन्नंचपेशलम्/ब्राह्मणेभ्यःप्रदास्यामितवप्रियचिकीर्षया/तथासंभाषमाणासासीतागङ्गामनिन्दिता/दक्षिणादक्षिणंतीरंक्षिप्रमेवाभ्युपागमत्/तीरंतुसमनुप्राप्यनावंहित्वानरर्षभः/प्रातिष्ठतसहभ्रात्रावैदेह्याचपरंतपः/अथाब्रवीन्महाबाहुःसुमित्रानन्दवर्धनम्/अग्रतोगच्छसौमित्रेसीतात्वामनुगच्छतु/पृष्ठतोऽहंगमिष्यामित्वांचसीतांचपालयन्/अद्यदुःखंतुवैदेहीवनवासस्यवेत्स्यति/गतंतुगङ्गापरपारमाशु॑रामंसुमन्त्रःप्रततंनिरीक्ष्य/अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्॑मुमोचबाष्पंव्यथितस्तपस्वी/तौतत्रहत्वाचतुरोमहामृगान्॑वराहमृश्यंपृषतंमहारुरुम्/आदायमेध्यंत्वरितंबुभुक्षितौ॑वासायकालेययतुर्वनस्पतिम्252102/सतंवृक्षंसमासाद्यसंध्यामन्वास्यपश्चिमाम्/रामोरमयतांश्रेष्ठइतिहोवाचलक्ष्मणम्2531/अद्येयंप्रथमारात्रिर्याताजनपदाद्बहिः/यासुमन्त्रेणरहितातांनोत्कण्ठितुमर्हसि/जागर्तव्यमतन्द्रिभ्यामद्यप्रभृतिरात्रिषु/योगक्षेमोहिसीतायावर्ततेलक्ष्मणावयोः/रात्रिंकथंचिदेवेमांसौमित्रेवर्तयामहे/उपावर्तामहेभूमावास्तीर्यस्वयमार्जितैः/सतुसंविश्यमेदिन्यांमहार्हशयनोचितः/इमाःसौमित्रयेरामोव्याजहारकथाःशुभाः/ध्रुवमद्यमहाराजोदुःखंस्वपितिलक्ष्मण/कृतकामातुकैकेयीतुष्टाभवितुमर्हति/साहिदेवीमहाराजंकैकेयीराज्यकारणात्/अपिनच्यावयेत्प्राणान्दृष्ट्वाभरतमागतम्/अनाथश्चैववृद्धश्चमयाचैवविनाकृतः/किंकरिष्यतिकामात्माकैकेय्यावशमागतः/इदंव्यसनमालोक्यराज्ञश्चमतिविभ्रमम्/कामएवार्धधर्माभ्यांगरीयानितिमेमतिः/कोह्यविद्वानपिपुमान्प्रमदायाःकृतेत्यजेत्/छन्दानुवर्तिनंपुत्रंतातोमामिवलक्ष्मण/सुखीबतसभार्यश्चभरतःकेकयीसुतः/मुदितान्कोसलानेकोयोभोक्ष्यत्यधिराजवत्/सहिसर्वस्यराज्यस्यमुखमेकंभविष्यति/तातेचवयसातीतेमयिचारण्यमाश्रिते/अर्थधर्मौपरित्यज्ययःकाममनुवर्तते/एवमापद्यतेक्षिप्रंराजादशरथोयथा/मन्येदशरथान्तायममप्रव्राजनायच/कैकेयीसौम्यसंप्राप्ताराज्यायभरतस्यच/अपीदानींनकैकेयीसौभाग्यमदमोहिता/कौसल्यांचसुमित्रांचसंप्रबाधेतमत्कृते/मास्ममत्कारणाद्देवीसुमित्रादुःखमावसेत्/अयोध्यामितएवत्वंकालेप्रविशलक्ष्मण/अहमेकोगमिष्यामिसीतयासहदण्डकान्/अनाथायाहिनाथस्त्वंकौसल्यायाभविष्यसि/क्षुद्रकर्माहिकैकेयीद्वेषादन्याय्यमाचरेत्/परिदद्याहिधर्मज्ञेभरतेमममातरम्/नूनंजात्यन्तरेकस्मिंःस्त्रियःपुत्रैर्वियोजिताः/जनन्याममसौमित्रेतदप्येतदुपस्थितम्/मयाहिचिरपुष्टेनदुःखसंवर्धितेनच/विप्रायुज्यतकौसल्याफलकालेधिगस्तुमाम्/मास्मसीमन्तिनीकाचिज्जनयेत्पुत्रमीदृशम्/सौमित्रेयोऽहमम्बायादद्मिशोकमनन्तकम्/मन्येप्रीतिविशिष्टासामत्तोलक्ष्मणसारिका/यस्यास्तच्छ्रूयतेवाक्यंशुकपादमरेर्दश/शोचन्त्याश्चाल्पभाग्यायानकिंचिदुपकुर्वता/पुर्त्रेणकिमपुत्रायामयाकार्यमरिंदम/अल्पभाग्याहिमेमाताकौसल्यारहितामया/शेतेपरमदुःखार्तापतिताशोकसागरे/एकोह्यहमयोध्यांचपृथिवींचापिलक्ष्मण/तरेयमिषुभिःक्रुद्धोननुवीर्यमकारणम्/अधर्मभयभीतश्चपरलोकस्यचानघ/तेनलक्ष्मणनाद्याहमात्मानमभिषेचये/एतदन्यच्चकरुणंविलप्यविजनेबहु/अश्रुपूर्णमुखोरामोनिशितूष्णीमुपाविशत्/विलप्योपरतंरामंगतार्चिषमिवानलम्/समुद्रमिवनिर्वेगमाश्वासयतलक्ष्मणः/ध्रुवमद्यपुरीरामअयोध्यायुधिनांवर/निष्प्रभात्वयिनिष्क्रान्तेगतचन्द्रेवशर्वरी/नैतदौपयिकंरामयदिदंपरितप्यसे/विषादयसिसीतांचमांचैवपुरुषर्षभ/नचसीतात्वयाहीनानचाहमपिराघव/मुहूर्तमपिजीवावोजलान्मत्स्याविवोद्धृतौ/नहितातंनशत्रुघ्नंनसुमित्रांपरंतप/द्रष्टुमिच्छेयमद्याहंस्वर्गंवापित्वयाविना/सलक्ष्मणस्योत्तमपुष्कलंवचो॑निशम्यचैवंवनवासमादरात्/समाःसमस्ताविदधेपरंतपः॑प्रपद्यधर्मंसुचिरायराघवः25334/तेतुतस्मिन्महावृक्षउषित्वारजनींशिवाम्/विमलेऽभ्युदितेसूर्येतस्माद्देशात्प्रतस्थिरे2541/यत्रभागीरथीगङ्गायमुनामभिवर्तते/जग्मुस्तंदेशमुद्दिश्यविगाह्यसुमहद्वनम्/तेभूमिमागान्विविधान्देशांश्चापिमनोरमान्/अदृष्टपूर्वान्पश्यन्तस्तत्रतत्रयशस्विनः/यथाक्षेमेणगच्छन्सपश्यंश्चविविधान्द्रुमान्/निवृत्तमात्रेदिवसेरामःसौमित्रिमब्रवीत्/प्रयागमभितःपश्यसौमित्रेधूममुन्नतम्/अग्नेर्भगवतःकेतुंमन्येसंनिहितोमुनिः/नूनंप्राप्ताःस्मसंभेदंगङ्गायमुनयोर्वयम्/तथाहिश्रूयतेशम्ब्दोवारिणावारिघट्टितः/दारूणिपरिभिन्नानिवनजैरुपजीविभिः/भरद्वाजाश्रमेचैतेदृश्यन्तेविविधाद्रुमाः/धन्विनौतौसुखंगत्वालम्बमानेदिवाकरे/गङ्गायमुनयोःसंधौप्रापतुर्निलयंमुनेः/रामस्त्वाश्रममासाद्यत्रासयन्मृगपक्षिणः/गत्वामुहूर्तमध्वानंभरद्वाजमुपागमत्/ततस्त्वाश्रममासाद्यमुनेर्दर्शनकाङ्क्षिणौ/सीतयानुगतौवीरौदूरादेवावतस्थतुः/हुताग्निहोत्रंदृष्ट्वैवमहाभागंकृताञ्जलिः/रामःसौमित्रिणासार्धंसीतयाचाभ्यवादयत्/न्यवेदयतचात्मानंतस्मैलक्ष्मणपूर्वजः/पुत्रौदशरथस्यावांभगवन्रामलक्ष्मणौ/भार्याममेयंवैदेहीकल्याणीजनकात्मजा/मांचानुयाताविजनंतपोवनमनिन्दिता/पित्राप्रव्राज्यमानंमांसौमित्रिरनुजःप्रियः/अयमन्वगमद्भ्रातावनमेवदृढव्रतः/पित्रानियुक्ताभगवन्प्रवेष्यामस्तपोवनम्/धर्ममेवाचरिष्यामस्तत्रमूलफलाशनाः/तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः/उपानयतधर्मात्मागामर्घ्यमुदकंततः/मृगपक्षिभिरासीनोमुनिभिश्चसमन्ततः/राममागतमभ्यर्च्यस्वागतेनाहतंमुनिः/प्रतिगृह्यचतामर्चामुपविष्टंसराघवम्/भरद्वाजोऽब्रवीद्वाक्यंधर्मयुक्तमिदंतदा/चिरस्यखलुकाकुत्स्थपश्यामित्वामिहागतम्/श्रुतंतवमयाचेदंविवासनमकारणम्/अवकाशोविविक्तोऽयंमहानद्योःसमागमे/पुण्यश्चरमणीयश्चवसत्विहभगान्सुखम्/एवमुक्तस्तुवचनंभरद्वाजेनराघवः/प्रत्युवाचशुभंवाक्यंरामःसर्वहितेरतः/भगवन्नितआसन्नःपौरजानपदोजनः/आगमिष्यतिवैदेहींमांचापिप्रेक्षकोजनः/अनेनकारणेनाहमिहवासंनरोचये/एकान्तेपश्यभगवन्नाश्रमस्थानमुत्तमम्/रमतेयत्रवैदेहीसुखार्हाजनकात्मजा/एतच्छ्रुत्वाशुभंवाक्यंभरद्वाजोमहामुनिः/राघवस्यततोवाक्यमर्थग्राहकमब्रवीत्/दशक्रोशइतस्तातगिरिर्यस्मिन्निवत्स्यसि/महर्षिसेवितःपुण्यःसर्वतःसुखदर्शनः/गोलाङ्गूलानुचरितोवानरर्क्षनिषेवितः/चित्रकूटइतिख्यातोगन्धमादनसंनिभः/यावताचित्रकूटस्यनरःशृङ्गाण्यवेक्षते/कल्याणानिसमाधत्तेनपापेकुरुतेमनः/ऋषयस्तत्रबहवोविहृत्यशरदांशतम्/तपसादिवमारूढाःकपालशिरसासह/प्रविविक्तमहंमन्येतंवासंभवतःसुखम्/इहवावनवासायवसराममयासह/सरामंसर्वकामैस्तंभरद्वाजःप्रियातिथिम्/सभार्यंसहचभ्रात्राप्रतिजग्राहधर्मवित्/तस्यप्रयागेरामस्यतंमहर्षिमुपेयुषः/प्रपन्नारजनीपुण्याचित्राःकथयतःकथाः/प्रभातायांरजन्यांतुभरद्वाजमुपागमत्/उवाचनरशार्दूलोमुनिंज्वलिततेजसं/शर्वरींभवनन्नद्यसत्यशीलतवाश्रमे/उषिताःस्मेहवसतिमनुजानातुनोभवान्/रात्र्यांतुतस्यांव्युष्टायांभरद्वाजोऽब्रवीदिदम्/मधुमूलफलोपेतंचित्रकूटंव्रजेतिह/तत्रकुञ्जरयूथानिमृगयूथानिचाभितः/विचरन्तिवनान्तेषुतानिद्रक्ष्यसिराघव/प्रहृष्टकोयष्टिककोकिलस्वनैर्॑विनादितंतंवसुधाधरंशिवम्/मृगैश्चमत्तैर्बहुभिश्चकुञ्जरैः॑सुरम्यमासाद्य/समावसाश्रमम्25443/उषित्वारजनींतत्रराजपुत्रावरिंदमौ/महर्षिमभिवाद्याथजग्मतुस्तंगिरिंप्रति2551/प्रस्थितांश्चैवतान्प्रेक्ष्यपितापुत्रानिवान्वगात्/ततःप्रचक्रमेवक्तुंवचनंसमहामुनिः/अथासाद्यतुकालिन्दींशीघ्रस्रोतसमापगाम्/तत्रयूयंप्लवंकृत्वातरतांशुमतींनदीम्/ततोन्यग्रोधमासाद्यमहान्तंहरितच्छदम्/विवृद्धंबहुभिर्वृक्षैःश्यामंसिद्धोपसेवितम्/क्रोशमात्रंततोगत्वानीलंद्रक्ष्यथकाननम्/पलाशबदरीमिश्रंरामवंशैश्चयामुनैः/सपन्थाश्चित्रकूटस्यगतःसुबहुशोमया/रम्योमार्दवयुक्तश्चवनदावैर्विवर्जितः/इतिपन्थानमावेद्यमहर्षिःसन्यवर्तत/उपावृत्तेमुनौतस्मिन्रामोलक्ष्मणमब्रवीत्/कृतपुण्याःस्मसौमित्रेमुनिर्यन्नोऽनुकम्पते/इतितौपुरुषव्याघ्रौमन्त्रयित्वामनस्विनौ/सीतामेवाग्रतःकृत्वाकालिन्दींजग्मतुर्नदीम्/तौकाष्ठसंघाटमथोचक्रतुःसुमहाप्लवम्/चकारलक्ष्मणश्छित्त्वासीतायाःसुखमानसं/तत्रश्रियमिवाचिन्त्यांरामोदाशरथिःप्रियाम्/ईषत्संलज्जमानांतामध्यारोपयतप्लवम्/ततःप्लवेनांशुमतींशीघ्रगामूर्मिमालिनीम्/तीरजैर्बहुभिर्वृक्षैःसंतेरुर्यमुनांनदीम्/तेतीर्णाःप्लवमुत्सृज्यप्रस्थाययमुनावनात्/श्यामंन्यग्रोधमासेदुःशीतलंहरितच्छदम्/कौसल्यांचैवपश्येयंसुमित्रांचयशस्विनीम्/इतिसीताञ्जलिंकृत्वापर्यगछद्वनस्पतिम्/क्रोशमात्रंततोगत्वाभ्रातरौरामलक्ष्मणौ/बहून्मेध्यान्मृगान्हत्वाचेरतुर्यमुनावने/विहृत्यतेबर्हिणपूगनादिते॑शुभेवनेवारणवानरायुते/समंनदीवप्रमुपेत्यसंमतं॑निवासमाजग्मुरदीनदर्शनः25533/अथरात्र्यांव्यतीतायामवसुप्तमनन्तरम्/प्रबोधयामासशनैर्लक्ष्मणंरघुनन्दनः2561/सौमित्रेशृणुवन्यानांवल्गुव्याहरतांस्वनम्/संप्रतिष्ठामहेकालःप्रस्थानस्यपरंतप/ससुप्तःसमयेभ्रात्रालक्ष्मणःप्रतिबोधितः/जहौनिद्रांचतन्द्रींचप्रसक्तंचपथिश्रमम्/ततउत्थायतेसर्वेस्पृष्ट्वानद्याःशिवंजलम्/पन्थानमृषिणोद्दिष्टंचित्रकूटस्यतंययुः/ततःसंप्रस्थितःकालेरामःसौमित्रिणासह/सीतांकमलपत्राक्षीमिदंवचनमब्रवीत्/आदीप्तानिववैदेहिसर्वतःपुष्पितान्नगान्/स्वैःपुष्पैःकिंशुकान्पश्यमालिनःशिशिरात्यये/पश्यभल्लातकान्फुल्लान्नरैरनुपसेवितान्/फलपत्रैरवनतान्नूनंशक्ष्यामिजीवितुम्/पश्यद्रोणप्रमाणानिलम्बमानानिलक्ष्मण/मधूनिमधुकारीभिःसंभृतानिनगेनगे/एषक्रोशतिनत्यूहस्तंशिखीप्रतिकूजति/रमणीयेवनोद्देशेपुष्पसंस्तरसंकटे/मातंगयूथानुसृतंपक्षिसंघानुनादितम्/चित्रकूटमिमंपश्यप्रवृद्धशिखरंगिरिम्/ततस्तौपादचारेणगच्छन्तौसहसीतया/रम्यमासेदतुःशैलंचित्रकूटंमनोरमम्/तंतुपर्वतमासाद्यनानापक्षिगणायुतम्/अयंवासोभवेत्तावदत्रसौम्यरमेमहि/लक्ष्मणानयदारूणिदृढानिचवराणिच/कुरुष्वावसथंसौम्यवासेमेऽभिरतंमनः/तस्यतद्वचनंश्रुत्वासौमित्रिर्विविधान्द्रुमान्/आजहारततश्चक्रेपर्णशालामरिंदम/शुश्रूषमाणमेकाग्रमिदंवचनमब्रवीत्/ऐणेयंमांसमाहृत्यशालांयक्ष्यामहेवयम्/सलक्ष्मणःकृष्णमृगंहत्वामेध्यंपतापवान्/अथचिक्षेपसौमित्रिःसमिद्धेजातवेदसि/तंतुपक्वंसमाज्ञायनिष्टप्तंछिन्नशोणितम्/लक्ष्मणःपुरुषव्याघ्रमथराघवमब्रवीत्/अयंकृष्णःसमाप्ताङ्गःशृतःकृष्णमृगोयथा/देवतादेवसंकाशयजस्वकुशलोह्यसि/रामःस्नात्वातुनियतोगुणवाञ्जप्यकोविदः/पापसंशमनंरामश्चकारबलिमुत्तमम्/तांवृक्षपर्णच्छदनांमनोज्ञां॑यथाप्रदेशंसुकृतांनिवाताम्/वासायसर्वेविविशुःसमेताः॑सभांयथादेवगणाःसुधर्माम्/अनेकनानामृगपक्षिसंकुले॑विचित्रपुष्पस्तबलैर्द्रुमैर्युते/वनोत्तमेव्यालमृगानुनादिते॑तथाविजह्रुःसुसुखंजितेन्द्रियाः/सुरम्यमासाद्यतुचित्रकूटं॑नदींचतांमाल्यवतींसुतीर्थाम्/ननन्दहृष्टोमृगपक्षिजुष्टां॑जहौचदुःखंपुरविप्रवासात्/कथयित्वासुदुःखार्तःसुमन्त्रेणचिरंसह25635/रामेदक्षिणकूलस्थेजगामस्वगृहंगुहः2571/अनुज्ञातःसुमन्त्रोऽथयोजयित्वाहयोत्तमान्/अयोध्यामेवनगरींप्रययौगाढदुर्मनाः/सवनानिसुगन्धीनिसरितश्चसरांसिच/पश्यन्नतिययौशीघ्रंग्रामाणिनगराणिच/ततःसायाह्नसमयेतृतीयेऽहनिसारथिः/अयोध्यांसमनुप्राप्यनिरानन्दांददर्शह/सशून्यामिवनिःशब्दांदृष्ट्वापरमदुर्मनाः/सुमन्त्रश्चिन्तयामासशोकवेगसमाहतः/कच्चिन्नसगजासाश्वासजनासजनाधिपा/रामसंतापदुःखेनदग्धाशोकाग्निनापुरी/इतिचिन्तापरःसूतस्त्वरितःप्रविवेशह/सुमन्त्रमभियान्तंतंशतशोऽथसहस्रशः/क्वरामइतिपृच्छन्तःसूतमभ्यद्रवन्नराः/तेषांशशंसगङ्गायामहमापृच्छ्यराघवम्/अनुज्ञातोनिवृत्तोऽस्मिधार्मिकेणमहात्मना/तेतीर्णाइतिविज्ञायबाष्पपूर्णमुखाजनाः/अहोधिगितिनिःश्वस्यहारामेतिचचुक्रुशुः/शुश्रावचवचस्तेषांवृन्दंवृन्दंचतिष्ठताम्/हताःस्मखलुयेनेहपश्यामइतिराघवम्/दानयज्ञविवाहेषुसमाजेषुमहत्सुच/नद्रक्ष्यामःपुनर्जातुधार्मिकंराममन्तरा/किंसमर्थंजनस्यास्यकिंप्रियंकिंसुखावहम्/इतिरामेणनगरंपितृवत्परिपालितम्/वातायनगतानांचस्त्रीणामन्वन्तरापणम्/रामशोकाभितप्तानांशुश्रावपरिदेवनम्/सराजमार्गमध्येनसुमन्त्रःपिहिताननः/यत्रराजादशरथस्तदेवोपययौगृहम्/सोऽवतीर्यरथाच्छीघ्रंराजवेश्मप्रविश्यच/कक्ष्याःसप्ताभिचक्राममहाजनसमाकुलाः/ततोदशरथस्त्रीणांप्रासादेभ्यस्ततस्ततः/रामशोकाभितप्तानांमन्दंशुश्रावजल्पितम्/सहरामेणनिर्यातोविनाराममिहागतः/सूतःकिंनामकौसल्यांशोचन्तींप्रतिवक्ष्यति/यथाचमन्येदुर्जीवमेवंनसुकरंध्रुवम्/आच्छिद्यपुत्रेनिर्यातेकौसल्यायत्रजीवति/सत्यरूपंतुतद्वाक्यंराज्ञःस्त्रीणांनिशामयन्/प्रदीप्तमिवशोकेनविवेशसहसागृहम्/सप्रविश्याष्टमींकक्ष्यांराजानंदीनमातुलम्/पुत्रशोकपरिद्यूनमपश्यत्पाण्डरेगृहे/अभिगम्यतमासीनंनरेन्द्रमभिवाद्यच/सुमन्त्रोरामवचनंयथोक्तंप्रत्यवेदयत्/सतूष्णीमेवतच्छ्रुत्वाराजाविभ्रान्तचेतनः/मूर्छितोन्यपतद्भूमौरामशोकाभिपीडितः/ततोऽन्तःपुरमाविद्धंमूर्छितेपृथिवीपतौ/उद्धृत्यबाहूचुक्रोशनृपतौपतितेक्षितौ/सुमित्रयातुसहिताकौसल्यापतितंपतिम्/उत्थापयामासतदावचनंचेदमब्रवीत्/इमंतस्यमहाभागदूतंदुष्करकारिणः/वनवासादनुप्राप्तंकस्मान्नप्रतिभाषसे/अद्येममनयंकृत्वाव्यपत्रपसिराघव/उत्तिष्ठसुकृतंतेऽस्तुशोकेनस्यात्सहायता/देवयस्याभयाद्रामंनानुपृच्छसिसारथिम्/नेहतिष्ठतिकैकेयीविश्रब्धंप्रतिभाष्यताम्/सातथोक्त्वामहाराजंकौसल्याशोकलालसा/धरण्यांनिपपाताशुबाष्पविप्लुतभाषिणी/एवंविलपतींदृष्ट्वाकौसल्यांपतितांभुवि/पतिंचावेक्ष्यताःसर्वाःसस्वरंरुरुदुःस्त्रियः/ततस्तमन्तःपुरनादमुत्थितं॑समीक्ष्यवृद्धास्तरुणाश्चमानवाः/स्त्रियश्चसर्वारुरुदुःसमन्ततः॑पुरंतदासीत्पुनरेवसंकुलम्25734/प्रत्याश्वस्तोयदाराजामोहात्प्रत्यागतःपुनः/अथाजुहावतंसूतंरामवृत्तान्तकारणात्2581/वृद्धंपरमसंतप्तंनवग्रहमिवद्विपम्/विनिःश्वसन्तंध्यायन्तमस्वस्थमिवकुञ्जरम्/राजातुरजसासूतंध्वस्ताङ्गंसमुपस्थितम्/अश्रुपूर्णमुखंदीनमुवाचपरमार्तवत्/क्वनुवत्स्यतिधर्मात्मावृक्षमूलमुपाश्रितः/सोऽत्यन्तसुखितःसूतकिमशिष्यतिराघवः/भूमिपालात्मजोभूमौशेतेकथमनाथवत्/यंयान्तमनुयान्तिस्मपदातिरथकुञ्जराः/सवत्स्यतिकथंरामोविजनंवनमाश्रितः/व्यालैर्मृगैराचरितंकृष्णसर्पनिषेवितम्/कथंकुमारौवैदेह्यासार्धंवनमुपस्थितौ/सुकुमार्यातपस्विन्यासुमन्त्रसहसीतया/राजपुत्रौकथंपादैरवरुह्यरथाद्गतौ/सिद्धार्थःखलुसूतत्वंयेनदृष्टौममात्मजौ/वनान्तंप्रविशन्तौतावश्विनाविवमन्दरम्/किमुवाचवचोरामःकिमुवाचचलक्ष्मणः/सुमन्त्रवनमासाद्यकिमुवाचचमैथिली/आसितंशयितंभुक्तंसूतरामस्यकीर्तय/इतिसूतोनरेन्द्रेणचोदितःसज्जमानया/उवाचवाचाराजानंसबाष्पपरिरब्धया/अब्रवीन्मांमहाराजधर्ममेवानुपालयन्/अञ्जलिंराघवःकृत्वाशिरसाभिप्रणम्यच/सूतमद्वचनात्तस्यतातस्यविदितात्मनः/शिरसावन्दनीयस्यवन्द्यौपादौमहात्मनः/सर्वमन्तःपुरंवाच्यंसूतमद्वचनात्त्वया/आरोग्यमविशेषेणयथार्हंचाभिवादनम्/माताचममकौसल्याकुशलंचाभिवादनम्/देविदेवस्यपादौचदेववत्परिपालय/भरतःकुशलंवाच्योवाच्योमद्वचनेनच/सर्वास्वेवयथान्यायंवृत्तिंवर्तस्वमातृषु/वक्तव्यश्चमहाबाहुरिक्ष्वाकुकुलनन्दनः/पितरंयौवराज्यस्थोराज्यस्थमनुपालय/इत्येवंमांमहाराजब्रुवन्नेवमहायशाः/रामोराजीवताम्राक्षोभृशमश्रूण्यवर्तयत्/लक्ष्मणस्तुसुसंक्रुद्धोनिःश्वसन्वाक्यमब्रवीत्/केनायमपराधेनराजपुत्रोविवासितः/यदिप्रव्राजितोरामोलोभकारणकारितम्/वरदाननिमित्तंवासर्वथादुष्कृतंकृतम्/रामस्यतुपरित्यागेनहेतुमुपलक्षये/असमीक्ष्यसमारब्धंविरुद्धंबुद्धिलाघवात्/जनयिष्यतिसंक्रोशंराघवस्यविवासनम्/अहंतावन्महाराजेपितृत्वंनोपलक्षये/भ्राताभर्ताचबन्धुश्चपिताचममराघवः/सर्वलोकप्रियंत्यक्त्वासर्वलोकहितेरतम्/सर्वलोकोऽनुरज्येतकथंत्वानेनकर्मणा/जानकीतुमहाराजनिःश्वसन्तीतपस्विनी/भूतोपहतचित्तेवविष्ठितावृष्मृतास्थिता/अदृष्टपूर्वव्यसनाराजपुत्रीयशस्विनी/तेनदुःखेनरुदतीनैवमांकिंचिदब्रवीत्/उद्वीक्षमाणाभर्तारंमुखेनपरिशुष्यता/मुमोचसहसाबाष्पंमांप्रयान्तमुदीक्ष्यसा/तथैवरामोऽश्रुमुखःकृताञ्जलिः॑स्थितोऽभवल्लक्ष्मणबाहुपालितः/तथैवसीतारुदतीतपस्विनी॑निरीक्षतेराजरथंतथैवमाम्25837/ममत्वश्वानिवृत्तस्यनप्रावर्तन्तवर्त्मनि/उष्णमश्रुविमुञ्चन्तोरामेसंप्रस्थितेवनम्2591/उभाभ्यांराजपुत्राभ्यामथकृत्वाहमज्ञलिम्/प्रस्थितोरथमास्थायतद्दुःखमपिधारयन्/गुहेवसार्धंतत्रैवस्थितोऽस्मिदिवसान्बहून्/आशयायदिमांरामःपुनःशब्दापयेदिति/विषयेतेमहाराजरामव्यसनकर्शिताः/अपिवृक्षाःपरिम्लानःसपुष्पाङ्कुरकोरकाः/नचसर्पन्तिसत्त्वानिव्यालानप्रसरन्तिच/रामशोकाभिभूतंतन्निष्कूजमभवद्वनम्/लीनपुष्करपत्राश्चनरेन्द्रकलुषोदकाः/संतप्तपद्माःपद्मिन्योलीनमीनविहंगमाः/जलजानिचपुष्पाणिमाल्यानिस्थलजानिच/नाद्यभान्त्यल्पगन्धीनिफलानिचयथापुरम्/प्रविशन्तमयोध्यांमांनकश्चिदभिनन्दति/नराराममपश्यन्तोनिःश्वसन्तिमुहुर्मुहुः/हर्म्यैर्विमानैःप्रासादैरवेक्ष्यरथमागतम्/हाहाकारकृतानार्योरामादर्शनकर्शिताः/आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः/अन्योन्यमभिवीक्षन्तेव्यक्तमार्ततराःस्त्रियः/नामित्राणांनमित्राणामुदासीनजनस्यच/अहमार्ततयाकंचिद्विशेषंनोपलक्षये/अप्रहृष्टमनुष्याचदीननागतुरंगमा/आर्तस्वरपरिम्लानाविनिःश्वसितनिःस्वना/निरानन्दामहाराजरामप्रव्राजनातुला/कौसल्यापुत्रहीनेवअयोध्याप्रतिभातिमा/सूतस्यवचनंश्रुत्वावाचापरमदीनया/बाष्पोपहतयाराजातंसूतमिदमब्रवीत्/कैकेय्याविनियुक्तेनपापाभिजनभावया/मयानमन्त्रकुशलैर्वृद्धैःसहसमर्थितम्/नसुहृद्भिर्नचामात्यैर्मन्त्रयित्वाननैगमैः/मयायमर्थःसंमोहात्स्त्रीहेतोःसहसाकृतः/भवितव्यतयानूनमिदंवाव्यसनंमहत्/कुलस्यास्यविनाशायप्राप्तंसूतयदृच्छया/सूतयद्यस्तितेकिंचिन्मयापिसुकृतंकृतम्/त्वंप्रापयाशुमांरामंप्राणाःसंत्वरयन्तिमाम्/यद्यद्यापिममैवाज्ञानिवर्तयतुराघवम्/नशक्ष्यामिविनाराममुहूर्तमपिजीवितुम्/अथवापिमहाबाहुर्गतोदूरंभविष्यति/मामेवरथमारोप्यशीघ्रंरामायदर्शय/वृत्तदंष्ट्रोमहेष्वासःक्वासौलक्ष्मणपूर्वजः/यदिजीवामिसाध्वेनंपश्येयंसहसीतया/लोहिताक्षंमहाबाहुमामुक्तमणिकुण्डलम्/रामंयदिनपश्यामिगमिष्यामियमक्षयम्/अतोनुकिंदुःखतरंयोऽहमिक्ष्वाकुनन्दनम्/इमामवस्थामापन्नोनेहपश्यामिराघवम्/हारामरामानुजहाहावैदेहितपस्विनी/नमांजानीतदुःखेनम्रियमाणमनाथवत्/दुस्तरोजीवतादेविमयायंशोकसागरः/अशोभनंयोऽहमिहाद्यराघवं॑दिदृक्षमाणोनलभेसलक्ष्मणम्/इतीवराजाविलपन्महायशाः॑पपाततूर्णंशयनेसमूर्छितः/इतिविलपतिपार्थिवेप्रनष्टे॑करुणतरंद्विगुणंचरामहेतोः/वचनमनुनिशम्यतस्यदेवी॑भयमगमत्पुनरेवराममाता25934/ततोभूतोपसृष्टेववेपमानापुनःपुनः/धरण्यांगतसत्त्वेवकौसल्यासूतमब्रवीत्2601/नयमांयत्रकाकुत्स्थःसीतायत्रचलक्ष्मणः/तान्विनाक्षणमप्यत्रजीवितुंनोत्सहेह्यहम्/निवर्तयरथंशीघ्रंदण्डकान्नयमामपि/अथतान्नानुगच्छामिगमिष्यामियमक्षयम्/बाष्पवेगौपहतयासवाचासज्जमानया/इदमाश्वासयन्देवींसूतःप्राञ्जलिरब्रवीत्/त्यजशोकंचमोहंचसंभ्रमंदुःखजंतथा/व्यवधूयचसंतापंवनेवत्स्यतिराघवः/लक्ष्मणश्चापिरामस्यपादौपरिचरन्वने/आराधयतिधर्मज्ञःपरलोकंजितेन्द्रियः/विजनेऽपिवनेसीतावासंप्राप्यगृहेष्विव/विस्रम्भंलभतेऽभीतारामेसंन्यस्तमानसा/नास्यादैन्यंकृतंकिंचित्सुसूक्ष्ममपिलक्षये/उचितेवप्रवासानांवैदेहीप्रतिभातिमा/नगरोपवनंगत्वायथास्मरमतेपुरा/तथैवरमतेसीतानिर्जनेषुवनेष्वपि/बालेवरमतेसीताबालचन्द्रनिभानना/रामारामेह्यदीनात्माविजनेऽपिवनेसती/तद्गतंहृदयंह्यस्यास्तदधीनंचजीवितम्/अयोध्यापिभवेत्तस्यारामहीनातथावनम्/पथिपृच्छतिवैदेहीग्रामांश्चनगराणिच/गतिंदृष्ट्वानदीनांचपादपान्विविधानपि/अध्वनावातवेगेनसंभ्रमेणातपेनच/नहिगच्छतिवैदेह्याश्चन्द्रांशुसदृशीप्रभा/सदृशंशतपत्रस्यपूर्णचन्द्रोपमप्रभम्/वदनंतद्वदान्यायावैदेह्यानविकम्पते/अलक्तरसरक्ताभावलक्तरसवर्जितौ/अद्यापिचरणौतस्याःपद्मकोशसमप्रभौ/नूपुरोद्घुष्टहेलेवखेलंगच्छतिभामिनी/इदानीमपिवैदेहीतद्रागान्यस्तभूषणा/गजंवावीक्ष्यसिंहंवाव्याघ्रंवावनमाश्रिता/नाहारयतिसंत्रासंबाहूरामस्यसंश्रिता/नशोच्यास्तेनचात्मातेशोच्योनापिजनाधिपः/इदंहिचरितंलोकेप्रतिष्ठास्यतिशाश्वतम्/विधूयशोकंपरिहृष्टमानसा॑महर्षियातेपथिसुव्यवस्थिताः/वनेरतावन्यफलाशनाःपितुः॑शुभांप्रतिज्ञांपरिपालयन्तिते/तथापिसूतेनसुयुक्तवादिना॑निवार्यमाणासुतशोककर्शिता/नचैवदेवीविररामकूजितात्॑प्रियेतिपुत्रेतिचराघवेतिच26023/वनंगतेधर्मपरेरामेरमयतांवरे/कौसल्यारुदतीस्वार्ताभर्तारमिदमब्रवीत्2611/यद्यपित्रिषुलोकेषुप्रथितंतेमयद्यशः/सानुक्रोशोवदान्यश्चप्रियवादीचराघवः/कथंनरवरश्रेष्ठपुत्रौतौसहसीतया/दुःखितौसुखसंवृद्धौवनेदुःखंसहिष्यतः/सानूनंतरुणीश्यामासुकुमारीसुखोचिता/कथमुष्णंचशीतंचमैथिलीप्रसहिष्यते/भुक्त्वाशनंविशालाक्षीसूपदंशान्वितंशुभम्/वन्यंनैवारमाहारंकथंसीतोपभोक्ष्यते/गीतवादित्रनिर्घोषंश्रुत्वाशुभमनिन्दिता/कथंक्रव्यादसिंहानांशब्दंश्रोष्यत्यशोभनम्/महेन्द्रध्वजसंकाशःक्वनुशेतेमहाभुजः/भुजंपरिघसंकाशमुपधायमहाबलः/पद्मवर्णंसुकेशान्तंपद्मनिःश्वासमुत्तमम्/कदाद्रक्ष्यामिरामस्यवदनंपुष्करेक्षणम्/वज्रसारमयंनूनंहृदयंमेनसंशयः/अपश्यन्त्यानतंयद्वैफलतीदंसहस्रधा/यदिपञ्चदशेवर्षेराघवःपुनरेष्यति/जह्याद्राज्यंचकोशंचभरतेनोपभोक्ष्यते/एवंकनीयसाभ्रात्राभुक्तंराज्यंविशांपते/भ्राताज्येष्ठावरिष्ठाश्चकिमर्थंनावमंस्यते/नपरेणाहृतंभक्ष्यंव्याघ्रःखादितुमिच्छति/एवमेवनरव्याघ्रःपरलीढंनमंस्यते/हविराज्यंपुरोडाशाःकुशायूपाश्चखादिराः/नैतानियातयामानिकुर्वन्तिपुनरध्वरे/तथाह्यात्तमिदंराज्यंहृतसारांसुरामिव/नाभिमन्तुमलंरामोनष्टसोममिवाध्वरम्/नैवंविधमसत्कारंराघवोमर्षयिष्यति/बलवानिवशार्दूलोबालधेरभिमर्शनम्/सतादृशःसिंहबलोवृषभाक्षोनरर्षभः/स्वयमेवहतःपित्राजलजेनात्मजोयथा/द्विजातिचरितोधर्मःशास्त्रदृष्टःसनातनः/यदितेधर्मनिरतेत्वयापुत्रेविवासिते/गतिरेवाक्पतिर्नार्याद्वितीयागतिरात्मजः/तृतीयाज्ञातयोराजंश्चतुर्थीनेहविद्यते/तत्रत्वंचैवमेनास्तिरामश्चवनमाश्रितः/नवनंगन्तुमिच्छामिसर्वथाहिहतात्वया/हतंत्वयाराज्यमिदंसराष्ट्रं॑हतस्तथात्मासहमन्त्रिभिश्च/हतासपुत्रास्मिहताश्चपौराः॑सुतश्चभार्याचतवप्रहृष्टौ/इमांगिरंदारुणशब्दसंश्रितां॑निशम्यराजापिमुमोहदुःखितः/ततःसशोकंप्रविवेशपार्थिवः॑स्वदुष्कृतंचापिपुनस्तदास्मरत्26127/एवंतुक्रुद्धयाराजाराममात्रासशोकया/श्रावितःपरुषंवाक्यंचिन्तयामासदुःखितः2621/तस्यचिन्तयमानस्यप्रत्यभात्कर्मदुष्कृतम्/यदनेनकृतंपूर्वमज्ञानाच्छब्दवेधिना/अमनास्तेनशोकेनरामशोकेनचप्रभुः/दह्यमानस्तुशोकाभ्यांकौसल्यामाहभूपतिः/प्रसादयेत्वांकौसल्येरचितोऽयंमयाञ्जलिः/वत्सलाचानृशंसाचत्वंहिनित्यंपरेष्वपि/भर्तातुखलुनारीणांगुणवान्निर्गुणोऽपिवा/धर्मंविमृशमानानांप्रत्यक्षंदेविदैवतम्/सात्वंधर्मपरानित्यंदृष्टलोकपरावर/नार्हसेविप्रियंवक्तुंदुःखितापिसुदुःखितम्/तद्वाक्यंकरुणंराज्ञःश्रुत्वादीनस्यभाषितम्/कौसल्याव्यसृजद्बाष्पंप्रणालीवनवोदकम्/समूद्र्ह्णिबद्ध्वारुदतीराज्ञःपद्ममिवाञ्जलिम्/संभ्रमादब्रवीत्त्रस्तात्वरमाणाक्षरंवचः/प्रसीदशिरसायाचेभूमौनिततितास्मिते/याचितास्मिहतादेवहन्तव्याहंनहित्वया/नैषाहिसास्त्रीभवतिश्लाघनीयेनधीमता/उभयोर्लोकयोर्वीरपत्यायासंप्रसाद्यते/जानामिधर्मंधर्मज्ञत्वांजानेसत्यवादिनम्/पुत्रशोकार्तयातत्तुमयाकिमपिभाषितम्/शोकोनाशयतेधैर्यंशोकोनाशयतेश्रुतम्/शोकोनाशयतेसर्वंनास्तिशोकसमोरिपुः/शयमापतितःसोढुंप्रहरोरिपुहस्ततः/सोढुमापतितःशोकःसुसूक्ष्मोऽपिनशक्यते/वनवासायरामस्यपञ्चरात्रोऽद्यगण्यते/यःशोकहतहर्षायाःपञ्चवर्षोपमोमम/तंहिचिन्तयमानायाःशोकोऽयंहृदिवर्धते/अदीनामिववेगेनसमुद्रसलिलंमहत्/एवंहिकथयन्त्यास्तुकौसल्यायाःशुभंवचः/मन्दरश्मिरभूत्सुर्योरजनीचाभ्यवर्तत/अथप्रह्लादितोवाक्यैर्देव्याकौसल्ययानृपः/शोकेनचसमाक्रान्तोनिद्रायावशमेयिवान्26220/प्रतिबुद्धोमुहुर्तेनशोकोपहतचेतनः/अथराजादशरथःसचिन्तामभ्यपद्यत2631/रामलक्ष्मणयोश्चैवविवासाद्वासवोपमम्/आविवेशोपसर्गस्तंतमःसूर्यमिवासुरम्/सराजारजनींषष्ठींरामेप्रव्रजितेवनम्/अर्धरात्रेदशरथःसंस्मरन्दुष्कृतंकृतम्/कौसल्यांपुत्रशोकार्तामिदंवचनमब्रवीत्/यदाचरतिकल्याणिशुभंवायदिवाशुभम्/तदेवलभतेभद्रेकर्ताकर्मजमात्मनः/गुरुलाघवमर्थानामारम्भेकर्मणांफलम्/दोषंवायोनजानातिसबालइतिहोच्यते/कश्चिदाम्रवणंछित्त्वापलाशांश्चनिषिञ्चति/पुष्पंदृष्ट्वाफलेगृध्नुःसशोचतिफलागमे/सोऽहमाम्रवणंछित्त्वापलाशांश्चन्यषेचयम्/रामंफलागमेत्यक्त्वापश्चाच्छोचामिदुर्मतिः/लब्धशब्देनकौसल्येकुमारेणधनुष्मता/कुमारःशब्दवेधीतिमयापापमिदंकृतम्/तदिदंमेऽनुसंप्राप्तंदेविदुःखंस्वयंकृतम्/संमोहादिहबालेनयथास्याद्भक्षितंविषम्/एवंममाप्यविज्ञातंशब्दवेध्यमयंफलम्/देव्यनूढात्वमभवोयुवराजोभवाम्यहम्/ततःप्रावृडनुप्राप्तामदकामविवर्धिनी/उपास्यहिरसान्भौमांस्तप्त्वाचजगदंशुभिः/परेताचरितांभीमांरविराविशतेदिशम्/उष्णमन्तर्दधेसद्यःस्निग्धाददृशिरेघनाः/ततोजहृषिरेसर्वेभेकसारङ्गबर्हिणः/पतितेनाम्भसाछन्नःपतमानेनचासकृत्/आबभौमत्तसारङ्गस्तोयराशिरिवाचलः/तस्मिन्नतिसुखेकालेधनुष्मानिषुमान्रथी/व्यायामकृतसंकल्पःसरयूमन्वगांनदीम्/निपानेमहिषंरात्रौगजंवाभ्यागतंनदीम्/अन्यंवाश्वापदंकंचिज्जिघांसुरजितेन्द्रियः/अथान्धकारेत्वश्रौषंजलेकुम्भस्यपर्यतः/अचक्षुर्विषयेघोषंवारणस्येवनर्दतः/ततोऽहंशरमुद्धृत्यदीप्तमाशीविषोपमम्/अमुञ्चंनिशितंबाणमहमाशीविषोपमम्/तत्रवागुषसिव्यक्ताप्रादुरासीद्वनौकसः/हाहेतिपततस्तोयेवागभूत्तत्रमानुषी/कथमस्मद्विधेशस्त्रंनिपतेत्तुतपस्विनि/प्रविविक्तांनदींरात्रावुदाहारोऽहमागतः/इषुणाभिहतःकेनकस्यवाकिंकृतंमया/ऋषेर्हिन्यस्तदण्डस्यवनेवन्येनजीवतः/कथंनुशस्त्रेणवधोमद्विधस्यविधीयते/जटाभारधरस्यैववल्कलाजिनवाससः/कोवधेनममार्थीस्यात्किंवास्यापकृतंमया/एवंनिष्फलमारब्धंकेवलानर्थसंहितम्/नकश्चित्साधुमन्येतयथैवगुरुतल्पगम्/नेमंतथानुशोचामिजीवितक्षयमात्मनः/मातरंपितरंचोभावनुशोचामिमद्विधे/तदेतान्मिथुनंवृद्धंचिरकालभृतंमया/मयिपञ्चत्वमापन्नेकांवृत्तिंवर्तयिष्यति/वृद्धौचमातापितरावहंचैकेषुणाहतः/केनस्मनिहताःसर्वेसुबालेनाकृतात्मना/तंगिरंकरुणांश्रुत्वाममधर्मानुकाङ्क्षिणः/कराभ्यांसशरंचापंव्यथितस्यापतद्भुवि/तंदेशमहमागम्यदीनसत्त्वःसुदुर्मनाः/अपश्यमिषुणातीरेसरय्वास्तापसंहतम्/समामुद्वीक्ष्यनेत्राभ्यांत्रस्तमस्वस्थचेतसं/इत्युवाचवचःक्रूरंदिधक्षन्निवतेजसा/किंतवापकृतंराजन्वनेनिवसतामया/जिहीर्षिउरम्भोगुर्वर्थंयदहंताडितस्त्वया/एकेनखलुबाणेनमर्मण्यभिहतेमयि/द्वावन्धौनिहतौवृद्धौमाताजनयिताचमे/तौनूनंदुर्बलावन्धौमत्प्रतीक्षौपिपासितौ/चिरमाशाकृतांतृष्णांकष्टांसंधारयिष्यतः/ननूनंतपसोवास्तिफलयोगःश्रुतस्यवा/पितायन्मांनजानातिशयानंपतितंभुवि/जानन्नपिचकिंकुर्यादशक्तिरपरिक्रमः/भिद्यमानमिवाशक्तस्त्रातुमन्योनगोनगम्/पितुस्त्वमेवमेगत्वाशीघ्रमाचक्ष्वराघव/नत्वामनुदहेत्क्रुद्धोवनंवह्निरिवैधितः/इयमेकपदीराजन्यतोमेपितुराश्रमः/तंप्रसादयगत्वात्वंनत्वांसकुपितःशपेत्/विशल्यंकुरुमांराजन्मर्ममेनिशितःशरः/रुणद्धिमृदुसोत्सेधंतीरमम्बुरयोयथा/नद्विजातिरहंराजन्माभूत्तेमनसोव्यथा/शूद्रायामस्मिवैश्येनजातोजनपदाधिप/इतीववदतःकृच्छ्राद्बाणाभिहतमर्मणः/तस्यत्वानम्यमानस्यतंबाणमहमुद्धरम्/जलार्द्रगात्रंतुविलप्यकृच्छान्॑मर्मव्रणंसंततमुच्छसन्तम्/ततःसरय्वांतमहंशयानं॑समीक्ष्यभद्रेसुभृशंविषण्णः26353/तदज्ञानान्महत्पापंकृत्वासंकुलितेन्द्रियः/एकस्त्वचिन्तयंबुद्ध्याकथंनुसुकृतंभवेत्2642/ततस्तंघटमादयपूर्णंपरमवारिणा/आश्रमंतमहंप्राप्ययथाख्यातपथंगतः/तत्राहंदुर्बलावन्धौवृद्धावपरिणायकौ/अपश्यंतस्यपितरौलूनपक्षाविवद्विजौ/तन्निमित्ताभिरासीनौकथाभिरपरिक्रमौ/तामाशांमत्कृतेहीनावुदासीनावनाथवत्/पदशब्दंतुमेश्रुत्वामुनिर्वाक्यमभाषत/किंचिरायसिमेपुत्रपानीयंक्षिप्रमानय/यन्निमित्तमिदंतातसलिलेक्रीडितंत्वया/उत्कण्ठितातेमातेयंप्रविशक्षिप्रमाश्रमम्/यद्व्यलीकंकृतंपुत्रमात्रातेयदिवामया/नतन्मनसिकर्तव्यंत्वयाताततपस्विना/त्वंगतिस्त्वगतीनांचचक्षुस्त्वंहीनचक्षुषाम्/समासक्तास्त्वयिप्राणाःकिंचिन्नौनाभिभाषसे/मुनिमव्यक्तयावाचातमहंसज्जमानया/हीनव्यञ्जनयाप्रेक्ष्यभीतोभीतइवाब्रुवम्/मनसःकर्मचेष्टाभिरभिसंस्तभ्यवाग्बलम्/आचचक्षेत्वहंतस्मैपुत्रव्यसनजंभयम्/क्षत्रियोऽहंदशरथोनाहंपुत्रोमहात्मनः/सज्जनावमतंदुःखमिदंप्राप्तंस्वकर्मजम्/भगवंश्चापहस्तोऽहंसरयूतीरमागतः/जिघांसुःश्वापदंकिंचिन्निपानेवागतंगजम्/तत्रश्रुतोमयाशब्दोजलेकुम्भस्यपूर्यतः/द्विपोऽयमितिमत्वाहिबाणेनाभिहतोमया/गत्वानद्यास्ततस्तीरमपश्यमिषुणाहृदि/विनिर्भिन्नंगतप्राणंशयानंभुवितापसं/भगवञ्शब्दमालक्ष्यमयागजजिघांसुना/विसृष्टोऽम्भसिनाराचस्तेनतेनिहतःसुतः/सचोद्धृतेनबाणेनतत्रैवस्वर्गमास्थितः/भगवन्तावुभौशोचन्नन्धावितिविलप्यच/अज्ञानाद्भवतःपुत्रःसहसाभिहतोमया/शेषमेवंगतेयत्स्यात्तत्प्रसीदतुमेमुनिः/सतच्छ्रुत्वावचःक्रूरंनिःश्वसञ्शोककर्शितः/मामुवाचमहातेजाःकृताञ्जलिमुपस्थितम्/यद्येतदशुभंकर्मनस्ममेकथयेःस्वयम्/फलेन्मूर्धास्मतेराजन्सद्यःशतसहस्रधा/क्षत्रियेणवधोराजन्वानप्रस्थेविशेषतः/ज्ञानपूर्वंकृतःस्थानाच्च्यावयेदपिवज्रिणम्/अज्ञानाद्धिकृतंयस्मादिदंतेनैवजीवसि/अपिह्यद्यकुलंनस्याद्राघवाणांकुतोभवान्/नयनौनृपतंदेशमितिमांचाभ्यभाषत/अद्यतंद्रष्टुमिच्छावःपुत्रंपश्चिमदर्शनम्/रुधिरेणावसिताङ्गंप्रकीर्णाजिनवाससं/शयानंभुविनिःसंज्ञंधर्मराजवशंगतम्/अथाहमेकस्तंदेशंनीत्वातौभृशदुःखितौ/अस्पर्शयमहंपुत्रंतंमुनिंसहभार्यया/तौपुत्रमात्मनःस्पृष्ट्वातमासाद्यतपस्विनौ/निपेततुःशरीरेऽस्यपिताचास्येदमब्रवीत्/नन्वहंतेप्रियःपुत्रमातरंपश्यधार्मिक/किंनुनालिङ्गसेपुत्रसुकुमारवचोवद/कस्यवापररात्रेऽहंश्रोष्यामिहृदयंगमम्/अधीयानस्यमधुरंशास्त्रंवान्यद्विशेषतः/कोमांसंध्यामुपास्यैवस्नात्वाहुतहुताशनः/श्लाघयिष्यत्युपासीनःपुत्रशोकभयार्दितम्/कन्दमूलफलंहृत्वाकोमांप्रियमिवातिथिम्/भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्/इमामन्धांचवृद्धांचमातरंतेतपस्विनीम्/कथंपुत्रभरिष्यामिकृपणांपुत्रगर्धिनीम्/तिष्ठमामागमःपुत्रयमस्यसदनंप्रति/श्वोमयासहगन्तासिजनन्याचसमेधितः/उभावपिचशोकार्तावनाथौकृपणौवने/क्षिप्रमेवगमिष्यावस्त्वयाहीनौयमक्षयम्/ततोवैवस्वतंदृष्ट्वातंप्रवक्ष्यामिभारतीम्/क्षमतांधर्मराजोमेबिभृयात्पितरावयम्/अपापोऽसियथापुत्रनिहतःपापकर्मणा/तेनसत्येनगच्छाशुयेलोकाःशस्त्रयोधिनाम्/यान्तिशूरागतिंयांचसंग्रामेष्वनिवर्तिनः/हतास्त्वभिमुखाःपुत्रगतिंतांपरमांव्रज/यांगतिंसगरःशैब्योदिलीपोजनमेजयः/नहुषोधुन्धुमारश्चप्राप्तास्तांगच्छपुत्रक/यागतिःसर्वसाधूनांस्वाध्यायात्पतसश्चया/भूमिदस्याहिताग्नेश्चएकपत्नीव्रतस्यच/गोसहस्रप्रदातॄणांयायागुरुभृतामपि/देहन्यासकृतांयाचतांगतिंगच्छपुत्रक/नहित्वस्मिन्कुलेजातोगच्छत्यकुशलांगतिम्/एवंसकृपणंतत्रपर्यदेवयतासकृत्/ततोऽस्मैकर्तुमुदकंप्रवृत्तःसहभार्यया/सतुदिव्येनरूपेणमुनिपुत्रःस्वकर्मभिः/आश्वास्यचमुहूर्तंतुपितरौवाक्यमब्रवीत्/स्थानमस्मिमहत्प्राप्तोभवतोःपरिचारणात्/भवन्तावपिचक्षिप्रंमममूलमुपैष्यतः/एवमुक्त्वातुदिव्येनविमानेनवपुष्मता/आरुरोहदिवंक्षिप्रंमुनिपुत्रोजितेन्द्रियः/सकृत्वातूदकंतूर्णंतापसःसहभार्यया/मामुवाचमहातेजाःकृताञ्जलिमुपस्थितम्/अद्यैवजहिमांराजन्मरणेनास्तिमेव्यथा/यच्छरेणैकपुत्रंमांत्वमकार्षीरपुत्रकम्/त्वयातुयदविज्ञानान्निहतोमेसुतःशुचिः/तेनत्वामभिशप्स्यामिसुदुःखमतिदारुणम्/पुत्रव्यसनजंदुःखंयदेतन्ममसाम्प्रतम्/एवंत्वंपुत्रशोकेनराजन्कालंकरिष्यसि/तस्मान्मामागतंभद्रेतस्योदारस्यतद्वचः/यदहंपुत्रशोकेनसंत्यक्ष्याम्यद्यजीवितम्/यदिमांसंस्पृशेद्रामःसकृदद्यालभेतवा/नतन्मेसदृशंदेवियन्मयाराघवेकृतम्/चक्षुषात्वांनपश्यामिस्मृतिर्ममविलुप्यते/दूतावैवस्वतस्यैतेकौसल्येत्वरयन्तिमाम्/अतस्तुकिंदुःखतरंयदहंजीवितक्षये/नहिपश्यामिधर्मज्ञंरामंसत्यपराक्यमम्/नतेमनुष्यादेवास्तेयेचारुशुभकुण्डलम्/मुखंद्रक्ष्यन्तिरामस्यवर्षेपञ्चदशेपुनः/पद्मपत्रेक्षणंसुभ्रुसुदंष्ट्रंचारुनासिकम्/धन्याद्रक्ष्यन्तिरामस्यताराधिपनिभंमुखम्/सदृशंशारदस्येन्दोःफुल्लस्यकमलस्यच/सुगन्धिममनाथस्यधन्याद्रक्ष्यन्तितन्मुखम्/निवृत्तवनवासंतमयोध्यांपुनरागतम्/द्रक्ष्यन्तिसुखिनोरामंशुक्रंमार्गगतंयथा/अयमात्मभवःशोकोमामनाथमचेतनम्/संसादयतिवेगेनयथाकूलंनदीरयः/हाराघवमहाबाहोहाममायासनाशन/राजादशरथःशोचञ्जीवितान्तमुपागमत्/तथातुदीनंकथयन्नराधिपः॑प्रियस्यपुत्रस्यविवासनातुरः/गतेऽर्धरात्रेभृशदुःखपीडितस्॑तदाजहौप्राणमुदारदर्शनः26478/अथरात्र्यांव्यतीतायांप्रातरेवापरेऽहनि/बन्दिनःपर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्2651/ततःशुचिसमाचाराःपर्युपस्थानकोविदः/स्त्रीवर्षवरभूयिष्ठाउपतस्थुर्यथापुरम्/हरिचन्दनसंपृक्तमुदकंकाञ्चनैर्घटैः/आनिन्युःस्नानशिक्षाज्ञायथाकालंयथाविधि/मङ्गलालम्भनीयानिप्राशनीयानुपस्करान्/उपनिन्युस्तथाप्यन्याःकुमारीबहुलाःस्त्रियः/अथयाःकोसलेन्द्रस्यशयनंप्रत्यनन्तराः/ताःस्त्रियस्तुसमागम्यभर्तारंप्रत्यबोधयन्/तावेपथुपरीताश्चराज्ञःप्राणेषुशङ्किताः/प्रतिस्रोतस्तृणाग्राणांसदृशंसंचकम्पिरे/अथसंवेपमनानांस्त्रीणांदृष्ट्वाचपार्थिवम्/यत्तदाशङ्कितंपापंतस्यजज्ञेविनिश्चयः/ततःप्रचुक्रुशुर्दीनाःसस्वरंतावराङ्गनाः/करेणवइवारण्येस्थानप्रच्युतयूथपाः/तासामाक्रन्दशब्देनसहसोद्गतचेतने/कौसल्याचसुमित्राचत्यक्तनिद्रेबभूवतुः/कौसल्याचसुमित्राचदृष्ट्वास्पृष्ट्वाचपार्थिवम्/हानाथेतिपरिक्रुश्यपेततुर्धरणीतले/साकोसलेन्द्रदुहितावेष्टमानामहीतले/नबभ्राजरजोध्वस्तातारेवगगनच्युता/तत्समुत्त्रस्तसंभ्रान्तंपर्युत्सुकजनाकुलम्/सर्वतस्तुमुलाक्रन्दंपरितापार्तबान्धवम्/सद्योनिपतितानन्दंदीनविक्लवदर्शनम्/बभूवनरदेवस्यसद्मदिष्टान्तमीयुषः/अतीतमाज्ञायतुपार्थिवर्षभं॑यशस्विनंसंपरिवार्यपत्नयः/भृशंरुदन्त्यःकरुणंसुदुःखिताः॑प्रगृह्यबाहूव्यलपन्ननाथवत्26529/तमग्निमिवसंशान्तमम्बुहीनमिवार्णवम्/हतप्रभमिवादित्यंस्वर्गथंप्रेक्ष्यभूमिपम्2661/कौसल्याबाष्पपूर्णाक्षीविविधंशोककर्शिता/उपगृह्यशिरोराज्ञःकैकेयींप्रत्यभाषत/सकामाभवकैकेयिभुङ्क्ष्वराज्यमकण्टकम्/त्यक्त्वाराजानमेकाग्रानृशंसेदुष्टचारिणि/विहायमांगतोरामोभर्ताचस्वर्गतोमम/विपथेसार्थहीनेवनाहंजीवितुमुत्सहे/भर्तारंतंपरित्यज्यकास्त्रीदैवतमात्मनः/इच्छेज्जीवितुमन्यत्रकैकेय्यास्त्यक्तधर्मणः/नलुब्धोबुध्यतेदोषान्किंपाकमिवभक्षयन्/कुब्जानिमित्तंकैकेय्याराघवाणान्कुलंहतम्/अनियोगेनियुक्तेनराज्ञारामंविवासितम्/सभार्यंजनकःश्रुत्वापतितप्स्यत्यहंयथा/रामःकमलपत्राक्षोजीवनाशमितोगतः/विदेहराजस्यसुतातहासीतातपस्विनी/दुःखस्यानुचितादुःखंवनेपर्युद्विजिष्यति/नदतांभीमघोषाणांनिशासुमृगपक्षिणाम्/निशम्यनूनंसंस्त्रस्ताराघवंसंश्रयिष्यति/वृद्धश्चैवाल्पपुत्रश्चवैदेहीमनिचिन्तयन्/सोऽपिशोकसमाविष्टोननुत्यक्ष्यतिजीवितम्/तांततःसंपरिष्वज्यविलपन्तींतपस्विनीम्/व्यपनिन्युःसुदुःखार्तांकौसल्यांव्यावहारिकाः/तैलद्रोण्यामथामात्याःसंवेश्यजगतीपतिम्/राज्ञःसर्वाण्यथादिष्टाश्चक्रुःकर्माण्यनन्तरम्/नतुसंकलनंराज्ञोविनापुत्रेणमन्त्रिणः/सर्वज्ञाःकर्तुमीषुस्तेततोरक्षन्तिभूमिपम्/तैलद्रोण्यांतुसचिवैःशायितंतंनराधिपम्/हामृतोऽयमितिज्ञात्वास्त्रियस्ताःपर्यदेवयन्/बाहूनुद्यम्यकृपणानेत्रप्रस्रवणैर्मुखैः/रुदन्त्यःशोकसंतप्ताःकृपणंपर्यदेवयन्/निशानक्षत्रहीनेवस्त्रीवभर्तृविवर्जिता/पुरीनाराजतायोध्याहीनाराज्ञामहात्मना/बाष्पपर्याकुलजनाहाहाभूतकुलाङ्गना/शून्यचत्वरवेश्मान्तानबभ्राजयथापुरम्/गतप्रभाद्यौरिवभास्करंविना॑व्यपेतनक्षत्रगणेवशर्वरी/पुरीबभासेरहितामहात्मना॑नचास्रकण्ठाकुलमार्गचत्वरा/नराश्चनार्यश्चसमेत्यसंघशो॑विगर्हमाणाभरतस्यमातरम्/तदानगर्यांनरदेवसंक्षये॑बभूवुरार्तानचशर्मलेभिरे26629/व्यतीतायांतुशर्वर्यामादित्यस्योदयेततः/समेत्यराजकर्तारःसभामीयुर्द्विजातयः2672/मार्कण्डेयोऽथमौद्गल्योवामदेवश्चकाश्यपः/कात्ययनोगौतमश्चजाबालिश्चमहायशाः/एतेद्विजाःसहामात्यैःपृथग्वाचमुदीरयन्/वसिष्ठमेवाभिमुखाःश्रेष्ठोराजपुरोहितम्/अतीताशर्वरीदुःखंयानोवर्षशतोपमा/अस्मिन्पञ्चत्वमापन्नेपुत्रशोकेनपार्थिवे/स्वर्गतश्चमहाराजोरामश्चारण्यमाश्रितः/लक्ष्मणश्चापितेजस्वीरामेणैवगतःसह/उभौभरतशत्रुघ्नौक्केकयेषुपरंतपौ/पुरेराजगृहेरम्येमातामहनिवेशने/इक्ष्वाकूणामिहाद्यैवकश्चिद्राजाविधीयताम्/अराजकंहिनोराष्ट्रंनविनाशमवाप्नुयात्/नाराजलेजनपदेविद्युन्मालीमहास्वनः/अभिवर्षतिपर्जन्योमहींदिव्येनवारिणा/नाराजकेजनपदेबीजमुष्टिःप्रकीर्यते/नाराककेपितुःपुत्रोभार्यावावर्ततेवशे/अराजकेधनंनास्तिनास्तिभार्याप्यराजके/इदमत्याहितंचान्यत्कुतःसत्यमराजके/नाराजकेजनपदेकारयन्तिसभांनराः/उद्यानानिचरम्याणिहृष्टाःपुण्यगृहाणिच/नाराजकेजनपदेयज्ञशीलाद्विजातयः/सत्राण्यन्वासतेदान्ताब्राह्मणाःसंशितव्रताः/नाराजकेजनपदेप्रभूतनटनर्तकाः/उत्सवाश्चसमाजाश्चवर्धन्तेराष्ट्रवर्धनाः/नारजकेजनपदेसिद्धार्थाव्यवहारिणः/कथाभिरनुरज्यन्तेकथाशीलाःकथाप्रियैः/नाराजकेजनपदेवाहनैःशीघ्रगामिभिः/नरानिर्यान्त्यरण्यानिनारीभिःसहकामिनः/नाराकजेजनपदेधनवन्तःसुरक्षिताः/शेरतेविवृतद्वाराःकृषिगोरक्षजीविनः/नाराजकेजनपदेवणिजोदूरगामिनः/गच्छन्तिक्षेममध्वानंबहुपुण्यसमाचिताः/नाराजकेजनपदेचरत्येकचरोवशी/भावयन्नात्मनात्मानंयत्रसायंगृहोमुनिः/नाराजकेजनपदेयोगक्षेमंप्रवर्तते/नचाप्यराजकेसेनाशत्रून्विषहतेयुधि/यथाह्यनुदकानद्योयथावाप्यतृणंवनम्/अगोपालायथागावस्तथाराष्ट्रमराजकम्/नाराजकेजनपदेस्वकंभवतिकस्यचित्/मत्स्याइवनरानित्यंभक्षयन्तिपरस्परम्/येहिसंभिन्नमर्यादानास्तिकाश्छिन्नसंशयाः/तेऽपिभावायकल्पन्तेराजदण्डनिपीडिताः/अहोतमइवेदंस्यान्नप्रज्ञायेतकिंचन/राजाचेन्नभवेंल्लोकेविभजन्साध्वसाधुनी/जीवत्यपिमहाराजेतवैववचनंवयम्/नातिक्रमामहेसर्वेवेलांप्राप्येवसागरः/सनःसमीक्ष्यद्विजवर्यवृत्तं॑नृपंविनाराज्यमरण्यभूतम्/कुमारमिक्ष्वाकुसुतंवदान्यं॑त्वमेवराजानमिहाभिषिञ्चय26738/तेषांतद्वचनंश्रुत्वावसिष्ठःप्रत्युवाचह/मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदंवचः2681/यदसौमातुलकुलेपुरेराजगृहेसुखी/भरतोवसतिभ्रात्राशत्रुघ्नेनसमन्वितः/तच्छीघ्रंजवनादूतागच्छन्तुत्वरितैर्हयैः/आनेतुंभ्रातरौवीरौकिंसमीक्षामहेवयम्/गच्छन्त्वितिततःसर्वेवसिष्ठंवाक्यमब्रुवन्/तेषांतद्वचनंश्रुत्वावसिष्ठोवाक्यमब्रवीत्/एहिसिद्धार्थविजयजयन्ताशोकनन्दन/श्रूयतामितिकर्तव्यंसर्वानेवब्रवीमिवः/पुरंराजगृहंगत्वाशीघ्रंशीघ्रजवैर्हयैः/त्यक्तशोकैरिदंवाच्यःशासनाद्भरतोमम/पुरोहितस्त्वांकुशलंप्राहसर्वेचमन्त्रिणः/त्वरमाणश्चनिर्याहिकृत्यमात्ययिकंत्वया/माचास्मैप्रोषितंरामंमाचास्मैपितरंमृतम्/भवन्तःशंसिषुर्गत्वाराघवाणामिमंक्षयम्/कौशेयानिचवस्त्राणिभूषणानिवराणिच/क्षिप्रमादायराज्ञश्चभरतस्यचगच्छत/वसिष्ठेनाभ्यनुज्ञातादूताःसंत्वरिताययुः/तेहस्तिनपुरेगङ्गांतीर्त्वाप्रत्यङ्मुखाययुः/पाञ्चालदेशमासाद्यमध्येनकुरुजाङ्गलम्/तेप्रसन्नोदकांदिव्यांनानाविहगसेविताम्/उपातिजग्मुर्वेगेनशरदण्डांजनाकुलाम्/निकूलवृक्षमासाद्यदिव्यंसत्योपयाचनम्/अभिगम्याभिवाद्यंतंकुलिङ्गांप्राविशन्पुरीम्/अभिकालंततःप्राप्यतेजोऽभिभवनाच्च्युताः/ययुर्मध्येनबाह्लीकान्सुदामानंचपर्वतम्/विष्णोःपदंप्रेक्षमाणाविपाशांचापिशाल्मलीम्/तेश्रान्तवाहनादूताविकृष्टेनसतापथा/गिरिव्रजंपुरवरंशीघ्रमासेदुरञ्जसा/भर्तुःप्रियार्थंकुलरक्षणार्थं॑भर्तुश्चवंशस्यपरिग्रहार्थम्/अहेडमानास्त्वरयास्मदूता॑रात्र्यांतुतेतत्पुरमेवयाताः26822/यामेवरात्रिंतेदूताःप्रविशन्तिस्मतांपुरीम्/भरतेनापितांरात्रिंस्वप्नोदृष्टोऽयमप्रियः2691/व्युष्टामेवतुतांरात्रिंदृष्ट्वातंस्वप्नमप्रियम्/पुत्रोराजाधिराजस्यसुभृशंपर्यतप्यत/तप्यमानंसमाज्ञायवयस्याःप्रियवादिनः/आयासंहिविनेष्यन्तःसभायांचक्रिरेकथाः/वादयन्तितथाशान्तिंलासयन्त्यपिचापरे/नाटकान्यपरेप्राहुर्हास्यानिविविधानिच/सतैर्महात्माभरतःसखिभिःप्रियवादिभिः/गोष्ठीहास्यानिकुर्वद्भिर्नप्राहृष्यतराघवः/तमब्रवीत्प्रियसखोभरतंसखिभिर्वृतम्/सुहृद्भिःपर्युपासीनःकिंसखेनानुमोदसे/एवंब्रुवाणंसुहृदंभरतःप्रत्युवाचह/शृणुत्वंयन्निमित्तंमेदैन्यमेतदुपागतम्/स्वप्नेपितरमद्राक्षंमलिनंमुक्तमूर्धजम्/पतन्तमद्रिशिखरात्कलुषेगोमयेह्रदे/प्लवमानश्चमेदृष्टःसतस्मिन्गोमयह्रदे/पिबन्नञ्जलिनातैलंहसन्निवमुहुर्मुहुः/ततस्तिलोदनंभुक्त्वापुनःपुनरधःशिराः/तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत/स्वप्नेऽपिसागरंशुष्कंचन्द्रंचपतितंभुवि/सहसाचापिसंशन्तंज्वलितंजातवेदसं/अवदीर्णांचपृथिवींशुष्कांश्चविविधान्द्रुमान्/अहंपश्यामिविध्वस्तान्सधूमांश्चैवपार्वतान्/पीठेकार्ष्णायसेचैनंनिषण्णंकृष्णवाससं/प्रहसन्तिस्मराजानंप्रमदाःकृष्णपिङ्गलाः/त्वरमाणश्चधर्मात्मारक्तमाल्यानुलेपनः/रथेनखरयुक्तेनप्रयातोदक्षिणामुखः/एवमेतन्मयादृष्टमिमांरात्रिंभयावहाम्/अहंरामोऽथवाराजालक्ष्मणोवामरिष्यति/नरोयानेनयःस्वप्नेखरयुक्तेनयातिहि/अचिरात्तस्यधूमाग्रंचितायांसंप्रदृश्यते/एतन्निमित्तंदीनोऽहंतन्नवःप्रतिपूजये/शुष्यतीवचमेकण्ठोनस्वस्थमिवमेमनः/जुगुप्सन्निवचात्मानंनचपश्यामिकारणम्/इमांहिदुःस्वप्नगतिंनिशाम्यताम्॑अनेकरूपामवितर्कितांपुरा/भयंमहत्तद्धृदयान्नयातिमे॑विचिन्त्यराजानमचिन्त्यदर्शनम्26921/भरतेब्रुवतिस्वप्नंदूतास्तेक्लान्तवाहनाः/प्रविश्यासह्यपरिखंरम्यंराजगृहंपुरम्2701/समागम्यतुराज्ञाचराजपुत्रेणचार्चिताः/राज्ञःपादौगृहीत्वातुतमूचुर्भरतंवचः/पुरोहितस्त्वाकुशलंप्राहसर्वेचमन्त्रिणः/त्वरमाणश्चनिर्याहिकृत्यमात्ययिकंत्वया/अत्रविंशतिकोट्यस्तुनृपतेर्मातुलस्यते/दशकोट्यस्तुसंपूर्णास्तथैवचनृपात्मज/प्रतिगृह्यचतत्सर्वंस्वनुरक्तःसुहृज्जने/दूतानुवाचभरतःकामैःसंप्रतिपूज्यतान्/कच्चित्सुकुशलीराजापितादशरथोमम/कच्चिच्चारागतारामेलक्ष्मणेवामहात्मनि/आर्याचधर्मनिरताधर्मज्ञाधर्मदर्शिनी/अरोगाचापिकौसल्यामातारामस्यधीमतः/कच्चित्सुमित्राधर्मज्ञाजननीलक्ष्मणस्यया/शत्रुघ्नस्यचवीरस्यसारोगाचापिमध्यमा/आत्मकामासदाचण्डीक्रोधनाप्राज्ञमानिनी/अरोगाचापिकैकेयीमातामेकिमुवाचह/एवमुक्तास्तुतेदूताभरतेनमहात्मना/ऊचुःसंप्रश्रितंवाक्यमिदंतंभरतंतदा/कुशलास्तेनरव्याघ्रयेषांकुशलमिच्छसि/भरतश्चापितान्दूतानेवमुक्तोऽभ्यभाषत/आपृच्छेऽहंमहाराजंदूताःसंत्वरयन्तिमाम्/एवमुक्त्वातुतान्दूतान्भरतःपार्थिवात्मजः/दूतैःसंचोदितोवाक्यंमातामहमुवाचह/राजन्पितुर्गमिष्यामिसकाशंदूतचोदितः/पुनरप्यहमेष्यामियदामेत्वंस्मरिष्यसि/भरतेनैवमुक्तस्तुनृपोमातामहस्तदा/तमुवाचशुभंवाक्यंशिरस्याघ्रायराघवम्/गच्छतातानुजानेत्वांकैकेयीसुप्रजास्त्वया/मातरंकुशलंब्रूयाःपितरंचपरंतप/पुरोहितंचकुशलंयेचान्येद्विजसत्तमाः/तौचतातमहेष्वासौभ्रातरुरामलक्ष्मणौ/तस्मैहस्त्युत्तमांश्चित्रान्कम्बलानजिनानिच/अभिसत्कृत्यकैकेयोभरतायधनंददौ/रुक्मनिष्कसहस्रेद्वेषोडशाश्वशतानिच/सत्कृत्यकैकेयीपुत्रंकेकयोधनमादिशत्/तथामात्यानभिप्रेतान्विश्वास्यांश्चगुणान्वितान्/ददावश्वपतिःशीघ्रंभरतायानुयायिनः/ऐरावतानैन्द्रशिरान्नागान्वैप्रियदर्शनान्/खराञ्शीघ्रान्सुसंयुक्तान्मातुलोऽस्मैधनंददौ/अन्तःपुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान्/दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनंददौ/समातामहमापृच्छ्यमातुलंचयुधाजितम्/रथमारुह्यभरतःशत्रुघ्नसहितोययौ/रथान्मण्डलचक्रांश्चयोजयित्वापरःशतम्/उष्ट्रगोऽश्वखरैर्भृत्याभरतंयान्तमन्वयुः/बलेनगुप्तोभरतोमहात्मा॑सहार्यकस्यात्मसमैरमात्यैः/आदायशत्रुघ्नमपेतशत्रुर्॑गृहाद्ययौसिद्धइवेन्द्रलोकात्27030/सप्राङ्मुखोराजगृहादभिनिर्यायवीर्यवान्/ह्रादिनींदूरपारांचप्रत्यक्स्रोतस्तरङ्गिणीम्2711/शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः/एलधानेनदींतीर्त्वाप्राप्यचापरपर्पटान्/शिलामाकुर्वतींतीर्त्वाआग्नेयंशल्यकर्तनम्/सत्यसंधःशुचिःश्रीमान्प्रेक्षमाणःशिलावहाम्/अत्ययात्समहाशैलान्वनंचैत्ररथंप्रति/वेगिनींचकुलिङ्गाख्यांह्रादिनींपर्वतावृताम्/यमुनांप्राप्यसंतीर्णोबलमाश्वासयत्तदा/शीतीकृत्यतुगात्राणिक्लान्तानाश्वास्यवाजिनः/तत्रस्नात्वाचपीत्वाचप्रायादादायचोदकम्/राजपुत्रोमहारण्यमनभीक्ष्णोपसेवितम्/भद्रोभद्रेणयानेनमारुतःखमिवात्ययात्/तोरणंदक्षिणार्धेनजम्बूप्रस्थमुपागमत्/वरूथंचययौरम्यंग्रामंदशरथात्मजः/तत्ररम्येवनेवासंकृत्वासौप्राङ्मुखोययौ/उद्यानमुज्जिहानायाःप्रियकायत्रपादपाः/सालांस्तुप्रियकान्प्राप्यशीघ्रानास्थायवाजिनः/अनुज्ञाप्याथभरतोवाहिनींत्वरितोययौ/वासंकृत्वासर्वतीर्थेतीर्त्वाचोत्तानकांनदीम्/अन्यानदीश्चविविधाःपार्वतीयैस्तुरंगमैः/हस्तिपृष्ठकमासाद्यकुटिकामत्यवर्तत/ततारचनरव्याघ्रोलौहित्येसकपीवतीम्/एकसालेस्थाणुमतींविनतेगोमतींनदीम्/कलिङ्गनगरेचापिप्राप्यसालवनंतदा/भरतःक्षिप्रमागच्छत्सुपरिश्रान्तवाहनः/वनंचसमतीत्याशुशर्वर्यामरुणोदये/अयोध्यांमनुनाराज्ञानिर्मितांसददर्शह/तांपुरींपुरुषव्याघ्रःसप्तरात्रोषिटःपथि/अयोध्यामग्रतोदृष्ट्वारथेसारथिमब्रवीत्/एषानातिप्रतीतामेपुण्योद्यानायशस्विनी/अयोध्यादृश्यतेदूरात्सारथेपाण्डुमृत्तिका/यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः/भूयिष्ठमृष्हैराकीर्णाराजर्षिवरपालिता/अयोध्यायांपुराशब्दःश्रूयतेतुमुलोमहान्/समन्तान्नरनारीणांतमद्यनशृणोम्यहम्/उद्यानानिहिसायाह्नेक्रीडित्वोपरतैर्नरैः/समन्ताद्विप्रधावद्भिःप्रकाशन्तेममान्यदा/तान्यद्यानुरुदन्तीवपरित्यक्तानिकामिभिः/अरण्यभूतेवपुरीसारथेप्रतिभातिमे/नह्यत्रयानैर्दृश्यन्तेनगजैर्नचवाजिभिः/निर्यान्तोवाभियान्तोवानरमुख्यायथापुरम्/अनिष्टानिचपापानिपश्यामिविविधानिच/निमित्तान्यमनोज्ञानितेनसीदतितेमनः/द्वारेणवैजयन्तेनप्राविशच्छ्रान्तवाहनः/द्वाःस्थैरुत्थायविजयंपृष्टस्तैःसहितोययौ/सत्वनेकाग्रहृदयोद्वाःस्थंप्रत्यर्च्यतंजनम्/सूतमश्वपतेःक्लान्तमब्रवीत्तत्रराघवः/श्रुतानोयादृशाःपूर्वंनृपतीनांविनाशने/आकारास्तानहंसर्वानिहपश्यामिसारथे/मलिनंचाश्रुपूर्णाक्षंदीनंध्यानपरंकृशम्/सस्त्रीपुंसंचपश्यामिजनमुत्कण्ठितंपुरे/इत्येवमुक्त्वाभरतःसूतंतंदीनमानसः/तान्यनिष्टान्ययोध्यायांप्रेक्ष्यराजगृहंययौ/तांशून्यशृङ्गाटकवेश्मरथ्यां॑रजोऽरुणद्वारकपाटयन्त्राम्/दृष्ट्वापुरीमिन्द्रपुरीप्रकाशां॑दुःखेनसंपूर्णतरोबभूव/बहूनिपश्यन्मनसोऽप्रियाणि॑यान्यन्न्यदानास्यपुरेबभूवुः/अवाक्शिरादीनमनानहृष्टः॑पितुर्महात्माप्रविवेशवेश्म27146/अपश्यंस्तुततस्तत्रपितरंपितुरालये/जगामभरतोद्रष्टुंमातरंमातुरालये2721/अनुप्राप्तंतुतंदृष्ट्वाकैकेयीप्रोषितंसुतम्/उत्पपाततदाहृष्टात्यक्त्वासौवर्णमानसं/सप्रविश्यैवधर्मात्मास्वगृहंश्रीविवर्जितम्/भरतःप्रेक्ष्यजग्राहजनन्याश्चरणौशुभौ/तंमूर्ध्निसमुपाघ्रायपरिष्वज्ययशस्विनम्/अङ्केभरतमारोप्यप्रष्टुंसमुपचक्रमे/अद्यतेकतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनः/अपिनाध्वश्रमःशीघ्रंरथेनापततस्तव/आर्यकस्तेसुकुशलोयुधाजिन्मातुलस्तव/प्रवासाच्चसुखंपुत्रसर्वंमेवक्तुमर्हसि/एवंपृष्ठस्तुकैकेय्याप्रियंपार्थिवनन्दनः/आचष्टभरतःसर्वंमात्रेराजीवलोचनः/अद्यमेसप्तमीरात्रिश्च्युतस्यार्यकवेश्मनः/अम्बायाःकुशलीतातोयुधाजिन्मातुलश्चमे/यन्मेधनंचरत्नंचददौराजापरंतपः/परिश्रान्तंपथ्यभवत्ततोऽहंपूर्वमागतः/राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः/यदहंप्रष्टुमिच्छामितदम्बावक्तुमर्हसि/शून्योऽयंशयनीयस्तेपर्यङ्कोहेमभूषितः/नचायमिक्ष्वाकुजनःप्रहृष्टःप्रतिभातिमे/राजाभवतिभूयिष्ठ्गमिहाम्बायानिवेशने/तमहंनाद्यपश्यामिद्रष्टुमिच्छन्निहागतः/पितुर्ग्रहीष्येचरणौतंममाख्याहिपृच्छतः/आहोस्विदम्बज्येष्ठायाःकौसल्यायानिवेशने/तंप्रत्युवाचकैकेयीप्रियवद्घोरमप्रियम्/अजानन्तंप्रजानन्तीराज्यलोभेनमोहिता/यागतिःसर्वभूतानांतांगतिंतेपितागतः/तच्छ्रुत्वाभरतोवाक्यंधर्माभिजनवाञ्शुचिः/पपातसहसाभूमौपितृशोकबलार्दितः/ततःशोकेनसंवीतःपितुर्मरणदुःखितः/विललापमहातेजाभ्रान्ताकुलितचेतनः/एतत्सुरुचिरंभातिपितुर्मेशयनंपुरा/तदिदंनविभात्यद्यविहीनंतेनधीमता/तमार्तंदेवसंकाशंसमीक्ष्यपतितंभुवि/उत्थापयित्वाशोकार्तंवचनंचेदमब्रवीत्/उत्तिष्ठोत्तिष्ठकिंशेषेराजपुत्रमहायशः/त्वद्विधानहिशोचन्तिसन्तःसदसिसंमताः/सरुदत्याचिरंकालंभूमौविपरिवृत्यच/जननींप्रत्युवाचेदंशोकैर्बहुभिरावृतः/अभिषेक्ष्यतिरामंतुराजायज्ञंनुयक्ष्यति/इत्यहंकृतसंकल्पोहृष्टोयात्रामयासिषम्/तदिदंह्यन्यथाभूतंव्यवदीर्णंमनोमम/पितरंयोनपश्यामिनित्यंप्रियहितेरतम्/अम्बकेनात्यगाद्राजाव्याधिनामय्यनागते/धन्यारामादयःसर्वेयैःपितासंस्कृतःस्वयम्/ननूनंमांमहाराजःप्राप्तंजानातिकीर्तिमान्/उपजिघ्रेद्धिमांमूर्ध्नितातःसंनम्यसत्वरम्/क्वसपाणिःसुखस्पर्शस्तातस्याक्लिष्टकर्मणः/येनमांरजसाध्वस्तमभीक्ष्णंपरिमार्जति/योमेभ्रातापिताबन्धुर्यस्यदासोऽस्मिधीमतः/तस्यमांशीघ्रमाख्याहिरामस्याक्लिष्टकर्मणः/पिताहिभवतिज्येष्ठोधर्ममार्यस्यजानतः/तस्यपादौग्रहीष्यामिसहीदानींगतिर्मम/आर्येकिमब्रवीद्राजापितामेसत्यविक्रमः/पश्चिमंसाधुसंदेशमिच्छामिश्रोतुमात्मनः/इतिपृष्टायथातत्त्वंकैकेयीवाक्यमब्रवीत्/रामेतिराजाविलपन्हासीतेलक्ष्मणेतिच/समहात्मापरंलोकंगतोगतिमतांवरः/इमांतुपश्चिमांवाचंव्याजहारपितातव/कालधर्मपरिक्षिप्तःपाशैरिवमहागजः/सिद्धार्थास्तुनराराममागतंसीतयासह/लक्ष्मणंचमहाबाहुंद्रक्ष्यन्तिपुनरागतम्/तच्छ्रुत्वाविषसादैवद्वितीयाप्रियशंसनात्/विषण्णवदनोभूत्वाभूयःपप्रच्छमातरम्/क्वचेदानींसधर्मात्माकौसल्यानन्दवर्धनः/लक्ष्मणेनसहभ्रात्रासीतयाचसमंगतः/तथापृष्टायथातत्त्वमाख्यातुमुपचक्रमे/मातास्ययुगपद्वाक्यंविप्रियंप्रियशङ्कया/सहिराजसुतःपुत्रचीरवासामहावनम्/दण्डकान्सहवैदेह्यालक्ष्मणानुचरोगतः/तच्छ्रुत्वाभरतस्त्रस्तोभ्रातुश्चारित्रशङ्कया/स्वस्यवंशस्यमाहात्म्यात्प्रष्टुंसमुपचक्रमे/कच्चिन्नब्राह्मणवधंहृतंरामेणकस्यचित्/कच्चिन्नाढ्योदरिद्रोवातेनापापोविहिंसितः/कच्चिन्नपरदारान्वाराजपुत्रोऽभिमन्यते/कस्मात्सदण्डकारण्येभ्रूणहेवविवासितः/अथास्यचपलामातातत्स्वकर्मयथातथम्/तेनैवस्त्रीस्वभावेनव्याहर्तुमुपचक्रमे/नब्राह्मणधनंकिंचिद्धृतंरामेणकस्यचित्/कश्चिन्नाढ्योदरिद्रोवातेनापापोविहिंसितः/नरामःपरदारांश्चचक्षुर्भ्यामपिपश्यति/मयातुपुत्रश्रुत्वैवरामस्यैवाभिषेचनम्/याचितस्तेपिताराज्यंरामस्यचविवासनम्/सस्ववृत्तिंसमास्थायपितातेतत्तथाकरोत्/रामश्चसहसौमित्रिःप्रेषितःसहसीतया/तमपश्यन्प्रियंपुत्रंमहीपालोमहायशाः/पुत्रशोकपरिद्यूनःपञ्चत्वमुपपेदिवान्/त्वयात्विदानींधर्मज्ञराजत्वमवलम्ब्यताम्/त्वत्कृतेहिमयासर्वमिदमेवंविधंकृतम्/तत्पुत्रशीघ्रंविधिनाविधिज्ञैर्॑वसिष्ठमुख्यैःसहितोद्विजेन्द्रैः/संकाल्यराजानमदीनसत्त्वम्॑आत्मानमुर्व्यामभिषेचयस्व27254/श्रुत्वातुपितरंवृत्तंभ्रातरुचविवासितौ/भरतोदुःखसंतप्तइदंवचनमब्रवीत्2731/किंनुण्कार्यंहतस्येहममराज्येनशोचतः/विहीनस्याथपित्राचभ्रात्रापितृसमेनच/दुःखेमेदुःखमकरोर्व्रणेक्षारमिवादधाः/राजानंप्रेतभावस्थंकृत्वारामंचतापसं/कुलस्यत्वमभावायकालरात्रिरिवागता/अङ्गारमुपगूह्यस्मपितामेनावबुद्धवान्/कौसल्याचसुमित्राचपुत्रशोकाभिपीडिते/दुष्करंयदिजीवेतांप्राप्यत्वांजननींमम/ननुत्वार्योऽपिधर्मात्मात्वयिवृत्तिमनुत्तमाम्/वर्ततेगुरुवृत्तिज्ञोयथामातरिवर्तते/तथाज्येष्ठाहिमेमाताकौसल्यादीर्घदर्शिनी/त्वयिधर्मंसमास्थायभगिन्यामिववर्तते/तस्याःपुत्रंकृतात्मानंचीरवल्कलवाससं/प्रस्थाप्यवनवासायकथंपापेनशोचसि/अपापदर्शिनंशूरंकृतात्मानंयशस्विनम्/प्रव्राज्यचीरवसनंकिंनुपश्यसिकारणम्/लुब्धायाविदितोमन्येनतेऽहंराघवंप्रति/तथाह्यनर्थोराज्यार्थंत्वयानीतोमहानयम्/अहंहिपुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ/केनशक्तिप्रभावेनराज्यंरक्षितुमुत्सहे/तंहिनित्यंमहाराजोबलवन्तंमहाबलः/अपाश्रितोऽभूद्धर्मात्मामेरुर्मेरुवनंयथा/सोऽहंकथमिमंभारंमहाधुर्यसमुद्यतम्/दम्योधुरमिवासाद्यसहेयंकेनचौजसा/अथवामेभवेच्छक्तिर्योगैर्बुद्धिबलेनवा/सकामांनकरिष्यामित्वामहंपुत्रगर्धिनीम्/निवर्तयिष्यामिवनाद्भ्रातरंस्वजनप्रियम्/इत्येवमुक्त्वाभरतोमहात्मा॑प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्/शोकातुरश्चापिननादभूयः॑सिंहोयथापर्वतगह्वरस्थः27328/तांतथागर्हयित्वातुमातरंभरतस्तदा/रोषेणमहताविष्टःपुनरेवाब्रवीद्वचः2741/राज्याद्भ्रंशस्वकैकेयिनृशंसेदुष्टचारिणि/परित्यक्ताचधर्मेणमामृतंरुदतीभव/किंनुतेऽदूषयद्राजारामोवाभृशधार्मिकः/ययोर्मृत्युर्विवासश्चत्वत्कृतेतुल्यमागतौ/भ्रूणहत्यामसिप्राप्ताकुलस्यास्यविनाशनात्/कैकेयिनरकंगच्छमाचभर्तुःसलोकताम्/यत्त्वयाहीदृशंपापंकृतंघोरेणकर्मणा/सर्वलोकप्रियंहित्वाममाप्यापादितंभयम्/त्वत्कृतेमेपितावृत्तोरामश्चारण्यमाश्रितः/अयशोजीवलोकेचत्वयाहंप्रतिपादितः/मातृरूपेममामित्रेनृशंसेराज्यकामुके/नतेऽहमभिभाष्योऽस्मिदुर्वृत्तेपतिघातिनि/कौसल्याचसुमित्राचयाश्चान्यामममातरः/दुःखेनमहताविष्टास्त्वांप्राप्यकुलदूषिणीम्/नत्वमश्वपतेःकन्याधर्मराजस्यधीमतः/राक्षसीतत्रजातासिकुलप्रध्वंसिनीपितुः/यत्त्वयाधार्मिकोरामोनित्यंसत्यपरायणः/वनंप्रस्थापितोदुःखात्पिताचत्रिदिवंगतः/यत्प्रधानासितत्पापंमयिपित्राविनाकृते/भ्रातृभ्यांचपरित्यक्तेसर्वलोकस्यचाप्रिये/कौसल्यांधर्मसंयुक्तांवियुक्तांपापनिश्चये/कृत्वाकंप्राप्स्यसेत्वद्यलोकंनिरयगामिनी/किंनावबुध्यसेक्रूरेनियतंबन्धुसंश्रयम्/ज्येष्ठंपितृसमंरामंकौसल्यायात्मसंभवम्/अङ्गप्रत्यङ्गजःपुत्रोहृदयाच्चापिजायते/तस्मात्प्रियतरोमातुःप्रियत्वान्नतुबान्धवः/अन्यदाकिलधर्मज्ञासुरभिःसुरसंमता/वहमानौददर्शोर्व्यांपुत्रौविगतचेतसौ/तावर्धदिवसेश्रान्तौदृष्ट्वापुत्रौमहीतले/रुरोदपुत्रशोकेनबाष्पपर्याकुलेक्षणा/अधस्ताद्व्रजतस्तस्याःसुरराज्ञोमहात्मनः/बिन्दवःपतितागात्रेसूक्ष्माःसुरभिगन्धिनः/तांदृष्ट्वाशोकसंतप्तांवज्रपाणिर्यशस्विनीम्/इन्द्रःप्राञ्जलिरुद्विग्नःसुरराजोऽब्रवीद्वचः/भयंकच्चिन्नचास्मासुकुतश्चिद्विद्यतेमहत्/कुतोनिमित्तःशोकस्तेब्रूहिसर्वहितैषिणि/एवमुक्तातुसुरभिःसुरराजेनधीमता/पत्युवाचततोधीरावाक्यंवाक्यविशारदा/शान्तंपातंनवःकिंचित्कुतश्चिदमराधिप/अहंतुमग्नौशोचामिस्वपुत्रौविषमेस्थितौ/एतौदृष्ट्वाकृषौदीनौसूर्यरश्मिप्रतापिनौ/वध्यमानौबलीवर्दौकर्षकेणसुराधिप/ममकायात्प्रसूतौहिदुःखितौभारपीडितौ/यौदृष्ट्वापरितप्येऽहंनास्तिपुत्रसमःप्रियः/यस्याःपुत्रसहस्राणिसापिशोचतिकामधुक्/किंपुनर्याविनारामंकौसल्यावर्तयिष्यति/एकपुत्राचसाध्वीचविवत्सेयंत्वयाकृता/तस्मात्त्वंसततंदुःखंप्रेत्यचेहचलप्स्यसे/अहंह्यपचितिंभ्रातुःपितुश्चसकलामिमाम्/वर्धनंयशसश्चापिकरिष्यामिनसंशयः/आनाययित्वातनयंकौसल्यायामहाद्युतिम्/स्वयमेवप्रवेक्ष्यामिवनंमुनिनिषेवितम्/इतिनागइवारण्येतोमराङ्कुशचोदितः/पपातभुविसंक्रुद्धोनिःश्वसन्निवपन्नगः/संरक्तनेत्रःशिथिलाम्बरस्तदा॑विधूतसर्वाभरणःपरंतपः/बभूवभूमौपतितोनृपात्मजः॑शचीपतेःकेतुरिवोत्सवक्षये27436/तथैवक्रोशतस्तस्यभरतस्यमहात्मनः/कौसल्याशब्दमाज्ञायसुमित्रामिदमब्रवीत्2755/आगतःक्रूरकार्यायाःकैकेय्याभरतःसुतः/तमहंद्रष्टुमिच्छामिभरतंदीर्घदर्शिनम्/एवमुक्त्वासुमित्रांसाविवर्णामलिनाम्बरा/प्रतस्थेभरतोयत्रवेपमानाविचेतना/सतुरामानुजश्चापिशत्रुघ्नसहितस्तदा/प्रतस्थेभरतोयत्रकौसल्यायानिवेशनम्/ततःशत्रुघ्नभरतौकौसल्यांप्रेक्ष्यदुःखितौ/पर्यष्वजेतांदुःखार्तांपतितांनष्टचेतनाम्/भरतंप्रत्युवाचेदंकौसल्याभृशदुःखिता/इदंतेराज्यकामस्यराज्यंप्राप्तमकण्टकम्/संप्राप्तंबतकैकेय्याशीघ्रंक्रूरेणकर्मणा/प्रस्थाप्यचीरवसनंपुत्रंमेवनवासिनम्/कैकेयीकंगुणंतत्रपश्यतिक्रूरदर्शिनी/क्षिप्रंमामपिकैकेयीप्रस्थापयितुमर्हति/हिरण्यनाभोयत्रास्तेसुतोमेसुमहायशाः/अथवास्वयमेवाहंसुमित्रानुचरासुखम्/अग्निहोत्रंपुरस्कृत्यप्रस्थास्येयत्रराघवः/कामंवास्वयमेवाद्यतत्रमांनेतुमर्हसि/यत्रासौपुरुषव्याघ्रस्तप्यतेमेतपःसुतः/इदंहितवविस्तीर्णंधनधान्यसमाचितम्/हस्त्यश्वरथसंपूर्णंराज्यंनिर्यातितंतया/एवंविलपमानांतांभरतःप्राञ्जलिस्तदा/कौसल्यांप्रत्युवाचेदंशोकैर्बहुभिरावृताम्/आर्येकस्मादजानन्तंगर्हसेमामकिल्बिषम्/विपुलांचममप्रीतिंस्थिरांजानासिराघवे/कृताशास्त्रानुगाबुद्धिर्माभूत्तस्यकदाचन/सत्यसंधःसतांश्रेष्ठोयस्यार्योऽनुमतेगतः/प्रैष्यंपापीयसांयातुसूर्यंचप्रतिमेहतु/हन्तुपादेनगांसुप्तांयस्यार्योऽनुमतेगतः/कारयित्वामहत्कर्मभर्ताभृत्यमनर्थकम्/अधर्मोयोऽस्यसोऽस्यास्तुयस्यार्योऽनुमतेगतः/परिपालयमानस्यराज्ञोभूतानिपुत्रवत्/ततस्तुद्रुह्यतांपापंयस्यार्योऽनुमतेगतः/बलिषड्भागमुद्धृत्यनृपस्यारक्षतःप्रजाः/अधर्मोयोऽस्यसोऽस्यास्तुयस्यार्योऽनुमतेगतः/संश्रुत्यचतपस्विभ्यःसत्रेवैयज्ञदक्षिणाम्/तांविप्रलपतांपापंयस्यार्योऽनुमतेगतः/हस्त्यश्वरथसंबाधेयुद्धेशस्त्रसमाकुले/मास्मकार्षीत्सतांधर्मंयस्यार्योऽनुमतेगतः/उपदिष्टंसुसूक्ष्मार्थंशास्त्रंयत्नेनधीमता/सनाशयतुदुष्टात्मायस्यार्योऽनुमतेगतः/पायसंकृसरंछागंवृथासोऽश्नातुनिर्घृणः/गुरूंश्चाप्यवजानातुयस्यार्योऽनुमतेगतः/पुत्रैर्दारैश्चभृत्यैश्चस्वगृहेपरिवारितः/सएकोमृष्टमश्नातुयस्यार्योऽनुमतेगतः/राजस्त्रीबालवृद्धानांवधेयत्पापमुच्यते/भृत्यत्यागेचयत्पापंतत्पापंप्रतिपद्यताम्/उभेसंध्येशयानस्ययत्पापंपरिकल्प्यते/तच्चपापंभवेत्तस्ययस्यार्योऽनुमतेगतः/यदग्निदायकेपापंयत्पापंगुरुतल्पगे/मित्रद्रोहेचयत्पापंतत्पापंप्रतिपद्यताम्/देवतानांपितॄणांचमातापित्रोस्तथैवच/मास्मकार्षीत्सशुश्रूषांयस्यार्योऽनुमतेगतः/सतांलोकात्सतांकीर्त्याःसज्जुष्टात्कर्मणस्तथा/भ्रश्यतुक्षिप्रमद्यैवयस्यार्योऽनुमतेगतः/विहीनांपतिपुत्राभ्यांकौसल्यांपार्थिवात्मजः/एवमाश्वसयन्नेवदुःखार्तोनिपपातह/तथातुशपथैःकष्टैःशपमानमचेतनम्/भरतंशोकसंतप्तंकौसल्यावाक्यमब्रवीत्/ममदुःखमिदंपुत्रभूयःसमुपजायते/शपथैःशपमानोहिप्राणानुपरुणत्सिमे/दिष्ट्यानचलितोधर्मादात्मातेसहलक्ष्मणः/वत्ससत्यप्रतिज्ञोमेसतांलोकानवाप्स्यसि/एवंविलपमानस्यदुःखार्तस्यमहात्मनः/मोहाच्चशोकसंरोधाद्बभूवलुलितंमनः/लालप्यमानस्यविचेतनस्य॑प्रनष्टबुद्धेःपतितस्यभूमौ/मुहुर्मुहुर्निःश्वसतश्चदीर्घं॑सातस्यशोकेनजगामरात्रिः27565/तमेवंशोकसंतप्तंभरतंकेकयीसुतम्/उवाचवदतांश्रेष्ठोवसिष्ठःश्रेष्ठवागृषिः2761/अलंशोकेनभद्रंतेराजपुत्रमहायशः/प्राप्तकालंनरपतेःकुरुसंयानमुत्तरम्/वसिष्ठस्यवचःश्रुत्वाभरतोधारणांगतः/प्रेतकार्याणिसर्वाणिकारयामासधर्मवित्/उद्धृतंतैलसंक्लेदात्सतुभूमौनिवेशितम्/आपीतवर्णवदनंप्रसुप्तमिवभूमिपम्/निवेश्यशयनेचाग्र्येनानारत्नपरिष्कृते/ततोदशरथंपुत्रोविललापसुदुःखितः/किंतेव्यवसितंराजन्प्रोषितेमय्यनागते/विवास्यरामंधर्मज्ञंलक्ष्मणंचमहाबलम्/क्वयास्यसिमहाराजहित्वेमंदुःखितंजनम्/हीनंपुरुषसिंहेनरामेणाक्लिष्टकर्मणा/योगक्षेमंतुतेराजन्कोऽस्मिन्कल्पयितापुरे/त्वयिप्रयातेस्वस्तातरामेचवनमाश्रिते/विधवापृथिवीराजंस्त्वयाहीनानराजते/हीनचन्द्रेवरजनीनगरीप्रतिभातिमाम्/एवंविलपमानंतंभरतंदीनमानसं/अब्रवीद्वचनंभूयोवसिष्ठस्तुमहानृषिः/प्रेतकार्याणियान्यस्यकर्तव्यानिविशाम्पतेः/तान्यव्यग्रंमहाबाहोक्रियतामविचारितम्/तथेतिभरतोवाक्यंवसिष्ठस्याभिपूज्यतत्/ऋत्विक्पुरोहिताचार्यांस्त्वरयामाससर्वशः/येत्वग्रतोनरेन्द्रस्यअग्न्यगाराद्बहिष्कृताः/ऋत्विग्भिर्याजकैश्चैवतेह्रियन्तेयथाविधि/शिबिलायामथारोप्यराजानंगतचेतनम्/बाष्पकण्ठाविमनसस्तमूहुःपरिचारकाः/हिरण्यंचसुवर्णंचवासांसिविविधानिच/प्रकिरन्तोजनामार्गंनृपतेरग्रतोययुः/चन्दनागुरुनिर्यासान्सरलंपद्मकंतथा/देवदारूणिचाहृत्यचितांचक्रुस्तथापरे/गन्धानुच्चावचांश्चान्यांस्तत्रदत्त्वाथभूमिपम्/ततःसंवेशयामासुश्चितामध्येतमृत्विजः/तथाहुताशनंहुत्वाजेपुस्तस्यतदर्त्विजः/जगुश्चतेयथाशास्त्रंतत्रसामानिसामगाः/शिबिकाभिश्चयानैश्चयथार्हंतस्ययोषितः/नगरान्निर्ययुस्तत्रवृद्धैःपरिवृतास्तदा/प्रसव्यंचापितंचक्रुरृत्विजोऽग्निचितंनृपम्/स्त्रियश्चशोकसंतप्ताःकौसल्याप्रमुखास्तदा/क्रौञ्चीनामिवनारीणांनिनादस्तत्रशुश्रुवे/आर्तानांकरुणंकालेक्रोशन्तीनांसहस्रशः/ततोरुदन्त्योविवशाविलप्यचपुनःपुनः/यानेभ्यःसरयूतीरमवतेरुर्वराङ्गनाः/कृतोदकंतेभरतेनसार्धं॑नृपाङ्गनामन्त्रिपुरोहिताश्च/पुरंप्रविश्याश्रुपरीतनेत्रा॑भूमौदशाहंव्यनयन्तदुःखम्27623/ततोदशाहेऽतिगतेकृतशौचोनृपात्मजः/द्वादशेऽहनिसंप्राप्तेश्राद्धकर्माण्यकारयत्2771/ब्राह्मणेभ्योददौरत्नंधनमन्नंचपुष्कलम्/बास्तिकंबहुशुक्लंचगाश्चापिशतशस्तथा/दासीदासंचयानंचवेश्मानिसुमहान्तिच/ब्राह्मणेभ्योददौपुत्रोराज्ञस्तस्यौर्ध्वदैहिकम्/ततःप्रभातसमयेदिवसेऽथत्रयोदशे/विललापमहाबाहुर्भरतःशोकमूर्छितः/शब्दापिहितकण्ठश्चशोधनार्थमुपागतः/चितामूलेपितुर्वाक्यमिदमाहसुदुःखितः/तातयस्मिन्निषृष्टोऽहंत्वयाभ्रातरिराघवे/तस्मिन्वनंप्रव्रजितेशून्येत्यक्तोऽस्म्यहंत्वया/यथागतिरनाथायाःपुत्रःप्रव्राजितोवनम्/तामम्बांतातकौसल्यांत्यक्त्वात्वंक्वगतोनृप/दृष्ट्वाभस्मारुणंतच्चदग्धास्थिस्थानमण्डलम्/पितुःशरीरनिर्वाणंनिष्टनन्विषसादह/सतुदृष्ट्वारुदन्दीनःपपातधरणीतले/उत्थाप्यमानःशक्रस्ययन्त्रध्वजइवच्युतः/अभिपेतुस्ततःसर्वेतस्यामात्याःशुचिव्रतम्/अन्तकालेनिपतितंययातिमृषयोयथा/शत्रुघ्नश्चापिभरतंदृष्ट्वाशोकपरिप्लुतम्/विसंज्ञोन्यपतद्भूमौभूमिपालमनुस्मरन्/उन्मत्तइवनिश्चेताविललापसुदुःखितः/स्मृत्वापितुर्गुणाङ्गानितानितानितदातदा/मन्थराप्रभवस्तीव्रःकैकेयीग्राहसंकुलः/वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः/सुकुमारंचबालंचसततंलालितंत्वया/क्वतातभरतंहित्वाविलपन्तंगतोभवान्/ननुभोज्येषुपानेषुवस्त्रेष्वाभरणेषुच/प्रवारयसिनःसर्वांस्तन्नःकोऽद्यकरिष्यति/अवदारणकालेतुपृथिवीनावदीर्यते/विहीनायात्वयाराज्ञाधर्मज्ञेनमहात्मना/पितरिस्वर्गमापन्नेरामेचारण्यमाश्रिते/किंमेजीवितसामर्थ्यंप्रवेक्ष्यामिहुताशनम्/हीनोभ्रात्राचपित्राचशून्यामिक्ष्वाकुपालिताम्/अयोध्यांनप्रवेक्ष्यामिप्रवेक्ष्यामितपोवनम्/तयोर्विलपितंश्रुत्वाव्यसनंचान्ववेक्ष्यतत्/भृशमार्ततराभूयःसर्वएवानुगामिनः/ततोविषण्णौश्रान्तौचशत्रुघ्नभरतावुभौ/धरण्यांसंव्यचेष्टेतांभग्नशृङ्गाविवर्षभौ/ततःप्रकृतिमान्वैद्यःपितुरेषांपुरोहितः/वसिष्ठोभरतंवाक्यमुत्थाप्यतमुवाचह/त्रीणिद्वन्द्वानिभूतेषुप्रवृत्तान्यविशेषतः/तेषुचापरिहार्येषुनैवंभवितुमर्हति/सुमन्त्रश्चापिशत्रुघ्नमुत्थाप्याभिप्रसाद्यच/श्रावयामासतत्त्वज्ञःसर्वभूतभवाभवौ/उत्थितौतौनरव्याघ्रौप्रकाशेतेयशस्विनौ/वर्षातपपरिक्लिन्नौपृथगिन्द्रध्वजाविव/अश्रूणिपरिमृद्नन्तौरक्ताक्षौदीनभाषिणौ/अमात्यास्त्वरयन्तिस्मतनयौचापराःक्रियाः27726/अत्रयात्रांसमीहन्तंशत्रुघ्नोलक्ष्मणानुजः/भरतंशोकसंतप्तमिदंवचनमब्रवीत्2781/गतिर्यःसर्वभूतानांदुःखेकिंपुनरात्मनः/सरामःसत्त्वसंपन्नःस्त्रियाप्रव्राजितोवनम्/बलवान्वीर्यसंपन्नोलक्ष्मणोनामयोऽप्यसौ/किंनमोचयतेरामंकृत्वापिपितृनिग्रहम्/पूर्वमेवतुनिग्राह्यःसमवेक्ष्यनयानयौ/उत्पथंयःसमारूढोनार्याराजावशंगतः/इतिसंभाषमाणेतुशत्रुघ्नेलक्ष्मणानुजे/प्राग्द्वारेऽभूत्तदाकुब्जासर्वाभरणभूषिता/लिप्ताचन्दनसारेणराजवस्त्राणिबिभ्रती/मेखलादामभिश्चित्रैरज्जुबद्धेववानरी/तांसमीक्ष्यतदाद्वाःस्थोभृशंपापस्यकारिणीम्/गृहीत्वाकरुणंकुब्जांशत्रुघ्नायन्यवेदयत्/यस्याःकृतेवनेरामोन्यस्तदेहश्चवःपिता/सेयंपापानृशंसाचतस्याःकुरुयथामति/शत्रुघ्नश्चतदाज्ञायवचनंभृशदुःखितः/अन्तःपुरचरान्सर्वानित्युवाचधृतव्रतः/तीव्रमुत्पादितंदुःखंभ्रातॄणांमेतथापितुः/ययासेयंनृशंसस्यकर्मणःफलमश्नुताम्/एवमुक्ताचतेनाशुसखीजनसमावृता/गृहीताबलवत्कुब्जासातद्गृहमनादयत्/ततःसुभृशसंतप्तस्तस्याःसर्वःसखीजनः/क्रुद्धमाज्ञायशत्रुघ्नंव्यपलायतसर्वशः/अमन्त्रयतकृत्स्नश्चतस्याःसर्वसखीजनः/यथायंसमुपक्रान्तोनिःशेषंनःकरिष्यति/सानुक्रोशांवदान्यांचधर्मज्ञांचयशस्विनीम्/कौसल्यांशरणंयामःसाहिनोऽस्तुध्रुवागतिः/सचरोषेणताम्राक्षःशत्रुघ्नःशत्रुतापनः/विचकर्षतदाकुब्जांक्रोशन्तींपृथिवीतले/तस्याह्याकृष्यमाणायामन्थरायास्ततस्ततः/चित्रंबहुविधंभाण्डंपृथिव्यांतद्व्यशीर्यत/तेनभाण्डेनसंकीर्णंश्रीमद्राजनिवेशनम्/अशोभततदाभूयःशारदंगगनंयथा/सबलीबलवत्क्रोधाद्गृहीत्वापुरुषर्षभः/कैकेयीमभिनिर्भर्त्स्यबभाषेपरुषंवचः/तैर्वाक्यैःपरुषैर्दुःखैःकैकेयीभृशदुःखिता/शत्रुघ्नभयसंत्रस्तापुत्रंशरणमागता/तांप्रेक्ष्यभरतःक्रुद्धंशत्रुघ्नमिदमब्रवीत्/अवध्याःसर्वभूतानांप्रमदाःक्षम्यतामिति/हन्यामहमिमांपापांकैकेयींदुष्टचारिणीम्/यदिमांधार्मिकोरामोनासूयेन्मातृघातकम्/इमामपिहतांकुब्जांयदिजानातिराघवः/त्वांचमांचैवधर्मात्मानाभिभाषिष्यतेध्रुवम्/भरतस्यवचःश्रुत्वाशत्रुघ्नोलक्ष्मणानुजः/न्यवर्ततततोरोषात्तांमुमोचचमन्थराम्/सापादमूलेकैकेय्यामन्थरानिपपातह/निःश्वसन्तीसुदुःखार्ताकृपणंविललापच/शत्रुघ्नविक्षेपविमूढसंज्ञां॑समीक्ष्यकुब्जांभरतस्यमाता/शनैःसमाश्वासयदार्तरूपां॑क्रौञ्चींविलग्नामिववीक्षमाणाम्/ततःप्रभातसमयेदिवसेऽथचतुर्दशे/समेत्यराजकर्तारोभरतंवाक्यमब्रुवन्2791/गतोदशरथःस्वर्गंयोनोगुरुतरोगुरुः/रामंप्रव्राज्यवैज्येष्ठंलक्ष्मणंचमहाबलम्/त्वमद्यभवनोराजाराजपुत्रमहायशः/संगत्यानापराध्नोतिराज्यमेतदनायकम्/आभिषेचनिकंसर्वमिदमादायराघव/प्रतीक्षतेत्वांस्वजनःश्रेणयश्चनृपात्मज/राज्यंगृहाणभरतपितृपैतामहंमहत्/अभिषेचयचात्मानंपाहिचास्मान्नरर्षभ/आभिषेचनिकंभाण्डंकृत्वासर्वंप्रदक्षिणम्/भरतस्तंजनंसर्वंप्रत्युवाचधृतव्रतः/ज्येष्ठस्यराजतानित्यमुचिताहिकुलस्यनः/नैवंभवन्तोमांवक्तुमर्हन्तिकुशलाजनाः/रामःपूर्वोहिनोभ्राताभविष्यतिमहीपतिः/अहंत्वरण्येवत्स्यामिवर्षाणिनवपञ्चच/युज्यतांमहतीसेनाचतुरङ्गमहाबला/आनयिष्याम्यहंज्येष्ठंभ्रातरंराघवंवनात्/आभिषेचनिकंचैवसर्वमेतदुपस्कृतम्/पुरस्कृत्यगमिष्यामिरामहेतोर्वनंप्रति/तत्रैवतंनरव्याघ्रमभिषिच्यपुरस्कृतम्/आनेष्यामितुवैरामंहव्यवाहमिवाध्वरात्/नसकामाकरिष्यामिस्वमिमांमातृगन्धिनीम्/वनेवत्स्याम्यहंदुर्गेरामोराजाभविष्यति/क्रियतांशिल्पिभिःपन्थाःसमानिविषमाणिच/रक्षिणश्चानुसंयान्तुपथिदुर्गविचारकाः/एवंसंभाषमाणंतंरामहेतोर्नृपात्मजम्/प्रत्युवाचजनःसर्वःश्रीमद्वाक्यमनुत्तमम्/एवंतेभाषमाणस्यपद्माश्रीरुपतिष्ठताम्/यस्त्वंज्येष्ठेनृपसुतेपृथिवींदातुमिच्छसि/अनुत्तमंतद्वचनंनृपात्मज॑प्रभाषितंसंश्रवणेनिशम्यच/प्रहर्षजास्तंप्रतिबाष्पबिन्दवो॑निपेतुरार्यानननेत्रसंभवाः/ऊचुस्तेवचनमिदंनिशम्यहृष्टाः॑सामात्याःसपरिषदोवियातशोकाः/पन्थानंनरवरभक्तिमाञ्जनश्च॑व्यादिष्टस्तववचनाच्च/शिल्पिवर्गः2,79,,17/अथभूमिप्रदेशज्ञाःसूत्रकर्मविशारदाः/स्वकर्माभिरताःशूराःखनकायन्त्रकास्तथा2801/कर्मान्तिकाःस्थपतयःपुरुषायन्त्रकोविदाः/तथावर्धकयश्चैवमार्गिणोवृक्षतक्षकाः/कूपकाराःसुधाकारावंशकर्मकृतस्तथा/समर्थायेचद्रष्टारःपुरतस्तेप्रतस्थिरे/सतुहर्षात्तमुद्देशंजनौघोविपुलःप्रयान्/अशोभतमहावेगःसागरस्येवपर्वणि/तेस्ववारंसमास्थायवर्त्मकर्माणिकोविदाः/करणैर्विविधोपेतैःपुरस्तात्संप्रतस्थिरे/लतावल्लीश्चगुल्मांश्चस्थाणूनश्मनएवच/जनास्तेचक्रिरेमार्गंछिन्दन्तोविविधान्द्रुमान्/अवृक्षेषुचदेशेषुकेचिद्वृक्षानरोपयन्/केचित्कुठारैष्टङ्कैश्चदात्रैश्छिन्दन्क्वचित्क्वचित्/अपरेवीरणस्तम्बान्बलिनोबलवत्तराः/विधमन्तिस्मदुर्गाणिस्थलानिचततस्ततः/अपरेऽपूरयन्कूपान्पांसुभिःश्वभ्रमायतम्/निम्नभागांस्तथाकेचित्समांश्चक्रुःसमन्ततः/बबन्धुर्बन्धनीयांश्चक्षोद्यान्संचुक्षुदुस्तदा/बिभिदुर्भेदनीयांश्चतांस्तान्देशान्नरास्तदा/अचिरेणैवकालेनपरिवाहान्बहूदकान्/चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून्/उदपानान्बहुविधान्वेदिकापरिमण्डितान्/ससुधाकुट्टिमतलःप्रपुष्पितमहीरुहः/मत्तोद्घुष्टद्विजगणःपताकाभिरलंकृतः/चन्दनोदकसंसिक्तोनानाकुसुमभूषितः/बह्वशोभतसेनायाःपन्थाःस्वर्गपथोपमः/आज्ञाप्याथयथाज्ञप्तियुक्तास्तेऽधिकृतानराः/रमणीयेषुदेशेषुबहुस्वादुफलेषुच/योनिवेशस्त्वभिप्रेतोभरतस्यमहात्मनः/भूयस्तंशोभयामासुर्भूषाभिर्भूषणोपमम्/नक्षत्रेषुप्रशस्तेषुमुहूर्तेषुचतद्विदः/निवेशंस्थापयामासुर्भरतस्यमहात्मनः/बहुपांसुचयाश्चापिपरिखापरिवारिताः/तत्रेन्द्रकीलप्रतिमाःप्रतोलीवरशोभिताः/प्रासादमालासंयुक्ताःसौधप्राकारसंवृताः/पताकाशोभिताःसर्वेसुनिर्मितमहापथाः/विसर्पत्भिरिवाकाशेविटङ्काग्रविमानकैः/समुच्छ्रितैर्निवेशास्तेबभुःशक्रपुरोपमाः/जाह्नवींतुसमासाद्यविविधद्रुमकाननाम्/शीतलामलपानीयांमहामीनसमाकुलाम्/सचन्द्रतारागणमण्डितंयथा॑नभःक्षपायाममलंविराजते/नरेन्द्रमार्गःसतथाव्यराजत॑क्रमेणरम्यःशुभशिल्पिनिर्मितः28022/ततोनान्दीमुखींरात्रिंभरतंसूतमागधाः/तुष्टुवुर्वाग्विशेषज्ञाःस्तवैर्मङ्गलसंहितैः2811/सुवर्णकोणाभिहतःप्राणदद्यामदुन्दुभिः/दध्मुःशङ्खांश्चशतशोवाद्यांश्चोच्चावचस्वरान्/सतूर्यघोषःसुमहान्दिवमापूरयन्निव/भरतंशोकसंतप्तंभूयःशोकैररन्ध्रयत्/ततोप्रबुद्धोभरतस्तंघोषंसंनिवर्त्यच/नाहंराजेतिचाप्युक्त्वाशत्रुघ्नमिदमब्रवीत्/पश्यशत्रुघ्नकैकेय्यालोकस्यापकृतंमहत्/विसृज्यमयिदुःखानिराजादशरथोगतः/तस्यैषाधर्मराजस्यधर्ममूलामहात्मनः/परिभ्रमतिराजश्रीर्नौरिवाकर्णिकाजले/इत्येवंभरतंप्रेक्ष्यविलपन्तंविचेतनम्/कृपणंरुरुदुःसर्वाःसस्वरंयोषितस्तदा/तथातस्मिन्विलपतिवसिष्ठोराजधर्मवित्/सभामिक्ष्वाकुनाथस्यप्रविवेशमहायशाः/शातकुम्भमयींरम्यांमणिरत्नसमाकुलाम्/सुधर्मामिवधर्मात्मासगणःप्रत्यपद्यत/सकाञ्चनमयंपीठंपरार्ध्यास्तरणावृतम्/अध्यास्तसर्ववेदज्ञोदूताननुशशासच/ब्राह्मणान्क्षत्रियान्योधानमात्यान्गणबल्लभान्/क्षिप्रमानयताव्यग्राःकृत्यमात्ययिकंहिनः/ततोहलहलाशब्दोमहान्समुदपद्यत/रथैरश्वैर्गजैश्चापिजनानामुपगच्छताम्/ततोभरतमायान्तंशतक्रतुमिवामराः/प्रत्यनन्दन्प्रकृतयोयथादशरथंतथा/ह्रदइवतिमिनागसंवृतः॑स्तिमितजलोमणिशङ्खशर्करः/दशरथसुतशोभितासभा॑सदशरथेवबभौयथापुरा28116/तामार्यगणसंपूर्णांभरतःप्रग्रहांसभाम्/ददर्शबुद्धिसंपन्नःपूर्णचन्द्रांनिशामिव2821/आसनानियथान्यायमार्याणांविशतांतदा/अदृश्यतघनापायेपूर्णचन्द्रेवशर्वरी/राज्ञस्तुप्रकृतीःसर्वाःसमग्राःप्रेक्ष्यधर्मवित्/इदंपुरोहितोवाक्यंभरतंमृदुचाब्रवीत्/तातराजादशरथःस्वर्गतोधर्ममाचरन्/धनधान्यवतींस्फीतांप्रदायपृथिवींतव/रामस्तथासत्यधृतिःसतांधर्ममनुस्मरन्/नाजहात्पितुरादेशंशशीज्योत्स्नामिवोदितः/पित्राभ्रात्राचतेदत्तंराज्यंनिहतकण्टकम्/तद्भुङ्क्ष्वमुदितामात्यःक्षिप्रमेवाभिषेचय/उदीच्याश्चप्रतीच्याश्चदाक्षिणात्याश्चकेवलाः/कोट्यापरान्ताःसामुद्रारत्नान्यभिहरन्तुते/तच्छ्रुत्वाभरतोवाक्यंशोकेनाभिपरिप्लुतः/जगाममनसारामंधर्मज्ञोधर्मकाङ्क्षया/सबाष्पकलयावाचाकलहंसस्वरोयुवा/विललापसभामध्येजगर्हेचपुरोहितम्/चरितब्रह्मचर्यस्यविद्यास्नातस्यधीमतः/धर्मेप्रयतमानस्यकोराज्यंमद्विधोहरेत्/कथंदशरथाज्जातोभवेद्राज्यापहारकः/राज्यंचाहंचरामस्यधर्मंवक्तुमिहार्हसि/ज्येष्ठःश्रेष्ठश्चधर्मात्मादिलीपनहुषोपमः/लब्धुमर्हतिकाकुत्स्थोराज्यंदशरथोयथा/अनार्यजुष्टमस्वर्ग्यंकुर्यांपापमहंयदि/इक्ष्वाकूणामहंलोकेभवेयंकुलपांसनः/यद्धिमात्राकृतंपापंनाहंतदभिरोचये/इहस्थोवनदुर्गस्थंनमस्यामिकृताञ्जलिः/राममेवानुगच्छामिसराजाद्विपदांवरः/त्रयाणामपिलोकानांराघवोराज्यमर्हति/तद्वाक्यंधर्मसंयुक्तंश्रुत्वासर्वेसभासदः/हर्षान्मुमुचुरश्रूणिरामेनिहितचेतसः/यदित्वार्यंनशक्ष्यामिविनिवर्तयितुंवनात्/वनेतत्रैववत्स्यामियथार्योलक्ष्मणस्तथा/सर्वोपायंतुवर्तिष्येविनिवर्तयितुंबलात्/समक्षमार्यमिश्राणांसाधूनांगुणवर्तिनाम्/एवमुक्त्वातुधर्मात्माभरतोभ्रातृवत्सलः/समीपस्थमुवाचेदंसुमन्त्रंमन्त्रकोविदम्/तूर्णमुत्थायगच्छत्वंसुमन्त्रममशासनात्/यात्रामाज्ञापयक्षिप्रंबलंचैवसमानय/एवमुक्तःसुमन्त्रस्तुभरतेनमहात्मना/प्रहृष्टःसोऽदिशत्सर्वंयथासंदिष्टमिष्टवत्/ताःप्रहृष्टाःप्रकृतयोबलाध्यक्षाबलस्यच/श्रुत्वायात्रांसमाज्ञप्तांराघवस्यनिवर्तने/ततोयोधाङ्गनाःसर्वाभर्तॄन्सर्वान्गृहेगृहे/यात्रागमनमाज्ञायत्वरयन्तिस्महर्षिताः/तेहयैर्गोरथैःशीघ्रैःस्यन्दनैश्चमनोजवैः/सहयोधैर्बलाध्यक्षाबलंसर्वमचोदयन्/सज्जंतुतद्बलंदृष्ट्वाभरतोगुरुसंनिधौ/रथंमेत्वरयस्वेतिसुमन्त्रंपार्श्वतोऽब्रवीत्/भरतस्यतुतस्याज्ञांप्रतिगृह्यप्रहर्षितः/रथंगृहीत्वाप्रययौयुक्तंपरमवाजिभिः/सराघवःसत्यधृतिःप्रतापवान्॑ब्रुवन्सुयुक्तंदृढसत्यविक्रमः/गुरुंमहारण्यगतंयशस्विनं॑प्रसादयिष्यन्भरतोऽब्रवीत्तदा/तूणसमुत्थायसुमन्त्रगच्छ॑बलस्ययोगायबलप्रधानान्/आनेतुमिच्छामिहितंवनस्थं॑प्रसाद्यरामंजगतोहिताय/ससूतपुत्रोभरतेनसम्यग्॑आज्ञापितःसंपरिपूर्णकामः/शशाससर्वान्प्रकृतिप्रधानान्॑बलस्यमुख्यांश्चसुहृज्जनंच/ततःसमुत्थायकुलेकुलेते॑राजन्यवैश्यावृषलाश्चविप्राः/अयूयुजन्नुष्ट्ररथान्खरांश्च॑नागान्हयांश्चैवकुलप्रसूतान्28232/ततःसमुत्थितःकाल्यमास्थायस्यन्दनोत्तमम्/प्रययौभरतःशीघ्रंरामदर्शनकाङ्क्षया2831/अग्रतःप्रययुस्तस्यसर्वेमन्त्रिपुरोधसः/अधिरुह्यहयैर्युक्तान्रथान्सूर्यरथोपमान्/नवनागसहस्राणिकल्पितानियथाविधि/अन्वयुर्भरतंयान्तमिक्ष्वाकुकुलनन्दनम्/षष्ठीरथसहस्राणिधन्विनोविविधायुधाः/अन्वयुर्भरतंयान्तंराजपुत्रंयशस्विनम्/शतंसहस्राण्यश्वानांसमारूढानिराघवम्/अन्वयुर्भरतंयान्तंराजपुत्रंयशस्विनम्/कैकेयीचसुमित्राचकौसल्याचयशस्विनी/रामानयनसंहृष्टाययुर्यानेनभास्वता/प्रयाताश्चार्यसंघातारामंद्रष्टुंसलक्ष्मणम्/तस्यैवचकथाश्चित्राःकुर्वाणाहृष्टमानसाः/मेघश्यामंमहाबाहुंस्थिरसत्त्वंदृढव्रतम्/कदाद्रक्ष्यामहेरामंजगतःशोकनाशनम्/दृष्टएवहिनःशोकमपनेष्यतिराघवः/तमःसर्वस्यलोकस्यसमुद्यन्निवभास्करः/इत्येवंकथयन्तस्तेसंप्रहृष्टाःकथाःशुभाः/परिष्वजानाश्चान्योन्यंययुर्नागरिकास्तदा/येचतत्रापरेसर्वेसंमतायेचनैगमाः/रामंप्रतिययुर्हृष्टाःसर्वाःप्रकृतयस्तदा/मणिकाराश्चयेकेचित्कुम्भकाराश्चशोभनाः/सूत्रकर्मकृतश्चैवयेचशस्त्रोपजीविनः/मायूरकाःक्राकचिकारोचकावेधकास्तथा/दन्तकाराःसुधाकारास्तथागन्धोपजीविनः/सुवर्णकाराःप्रख्यातास्तथाकम्बलधावकाः/स्नापकाच्छादकावैद्याधूपकाःशौण्डिकास्तथा/रजकास्तुन्नवायाश्चग्रामघोषमहत्तराः/शैलूषाश्चसहस्त्रीभिर्यान्तिकैवर्तकास्तथा/समाहितावेदविदोब्राह्मणावृत्तसंमताः/गोरथैर्भरतंयान्तमनुजग्मुःसहस्रशः/सुवेषाःशुद्धवसनास्ताम्रमृष्टानुलेपनाः/सर्वेतेविविधैर्यानैःशनैर्भरतमन्वयुः/प्रहृष्टमुदितासेनासान्वयात्कैकयीसुतम्/व्यवतिष्ठतसासेनाभरतस्यानुयायिनी/निरीक्ष्यानुगतांसेनांतांचगङ्गांशिवोदकाम्/भरतःसचिवान्सर्वानब्रवीद्वाक्यकोविदः/निवेशयतमेसैन्यमभिप्रायेणसर्वशः/विश्रान्तःप्रतरिष्यामःश्वइदानींमहानदीम्/दातुंचतावदिच्छामिस्वर्गतस्यमहीपतेः/और्ध्वदेहनिमित्तार्थमवतीर्योदकंनदीम्/तस्यैवंब्रुवतोऽमात्यास्तथेत्युक्त्वासमाहिताः/न्यवेशयंस्तांश्छन्देनस्वेनस्वेनपृथक्पृथक्/निवेश्यगङ्गामनुतांमहानदीं॑चमूंविधानैःपरिबर्हशोभिनीम्/उवासरामस्यतदामहात्मनो॑विचिन्तयानोभरतोनिवर्तनम्28326/ततोनिविष्टांध्वजिनींगङ्गामन्वाश्रितांनदीम्/निषादराजोदृष्ट्वैवज्ञातीन्संत्वरितोऽब्रवीत्2841/महतीयमतःसेनासागराभाप्रदृश्यते/नास्यान्तमवगच्छामिमनसापिविचिन्तयन्/सएषहिमहाकायःकोविदारध्वजोरथे/बन्धयिष्यतिवादाशानथवास्मान्वधिष्यति/अथदाशरथिंरामंपित्राराज्याद्विवासितम्/भरतःकैकेयीपुत्रोहन्तुंसमधिगच्छति/भर्ताचैवसखाचैवरामोदाशरथिर्मम/तस्यार्थकामाःसंनद्धागङ्गानूपेऽत्रतिष्ठत/तिष्ठन्तुसर्वदाशाश्चगङ्गामन्वाश्रितानदीम्/बलयुक्तानदीरक्षामांसमूलफलाशनाः/नावांशतानांपञ्चानांकैवर्तानांशतंशतम्/संनद्धानांतथायूनांतिष्ठन्त्वत्यभ्यचोदयत्/यदातुष्टस्तुभरतोरामस्येहभविष्यति/सेयंस्वस्तिमयीसेनागङ्गामद्यतरिष्यति/इत्युक्त्वोपायनंगृह्यमत्स्यमांसमधूनिच/अभिचक्रामभरतंनिषादाधिपतिर्गुहः/तमायान्तंतुसंप्रेक्ष्यसूतपुत्रःप्रतापवान्/भरतायाचचक्षेऽथविनयज्ञोविनीतवत्/एषज्ञातिसहस्रेणस्थपतिःपरिवारितः/कुशलोदण्डकारण्येवृद्धोभ्रातुश्चतेसखा/तस्मात्पश्यतुकाकुत्स्थत्वांनिषादाधिपोगुहः/असंशयंविजानीतेयत्रतौरामलक्ष्मणौ/एतत्तुवचनंश्रुत्वासुमन्त्राद्भरतःशुभम्/उवाचवचनंशीघ्रंगुहःपश्यतुमामिति/लब्ध्वाभ्यनुज्ञांसंहृष्टोज्ञातिभिःपरिवारितः/आगम्यभरतंप्रह्वोगुहोवचनमब्रवीइत्/निष्कुटश्चैवदेशोऽयंवञ्चिताश्चापितेवयम्/निवेदयामस्तेसर्वेस्वकेदाशकुलेवस/अस्तिमूलंफलंचैवनिषादैःसमुपाहृतम्/आर्द्रंचमांसंशुष्कंचवन्यंचोच्चावचंमहत्/आशंसेस्वाशितासेनावत्स्यतीमांविभावरीम्/अर्चितोविविधैःकामैःश्वःससैन्योगमिष्यसि28418/एवमुक्तस्तुभरतोनिषादाधिपतिंगुहम्/प्रत्युवाचमहाप्राज्ञोवाक्यंहेत्वर्थसंहितम्2851/ऊर्जितःखलुतेकामःकृतोममगुरोःसखे/योमेत्वमीदृशींसेनामेकोऽभ्यर्चितुमिच्छसि/इत्युक्त्वातुमहातेजागुहंवचनमुत्तमम्/अब्रवीद्भरतःश्रीमान्निषादाधिपतिंपुनः/कतरेणगमिष्यामिभरद्वाजाश्रमंगुह/गहनोऽयंभृशंदेशोगङ्गानूपोदुरत्ययः/तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः/अब्रवीत्प्राञ्जलिर्वाक्यंगुहोगहनगोचरः/दाशास्त्वनुगमिष्यन्तिधन्विनःसुसमाहिताः/अहंचानुगमिष्यामिराजपुत्रमहायशः/कच्चिन्नदुष्टोव्रजसिरामस्याक्लिष्टकर्मणः/इयंतेमहतीसेनाशङ्कांजनयतीवमे/तमेवमभिभाषन्तमाकाशइवनिर्मलः/भरतःश्लक्ष्णयावाचागुहंवचनमब्रवीत्/माभूत्सकालोयत्कष्टंनमांशङ्कितुमर्हसि/राघवःसहिमेभ्राताज्येष्ठःपितृसमोमम/तंनिवर्तयितुंयामिकाकुत्स्थंवनवासिनम्/बुद्धिरन्यानतेकार्यागुहसत्यंब्रवीमिते/सतुसंहृष्टवदनःश्रुत्वाभरतभाषितम्/पुनरेवाब्रवीद्वाक्यंभरतंप्रतिहर्षितः/धन्यस्त्वंनत्वयातुल्यंपश्यामिजगतीतले/अयत्नादागतंराज्यंयस्त्वंत्यक्तुमिहेच्छसि/शाश्वतीखलुतेकीर्तिर्लोकाननुचरिष्यति/यस्त्वंकृच्छ्रगतंरामंप्रत्यानयितुमिच्छसि/एवंसंभाषमाणस्यगुहस्यभरतंतदा/बभौनष्टप्रभःसूर्योरजनीचाभ्यवर्तत/संनिवेश्यसतांसेनांगुहेनपरितोषितः/शत्रुघ्नेनसहश्रीमाञ्शयनंपुनरागमत्/रामचिन्तामयःशोकोभरतस्यमहात्मनः/उपस्थितोह्यनर्हस्यधर्मप्रेक्षस्यतादृशः/अन्तर्दाहेनदहनःसंतापयतिराघवम्/वनदाहाभिसंतप्तंगूढोऽग्निरिवपादपम्/प्रस्रुतःसर्वगात्रेभ्यःस्वेदःशोकाग्निसंभवः/यथासूर्यांशुसंतप्तोहिमवान्प्रस्रुतोहिमम्/ध्याननिर्दरशैलेनविनिःश्वसितधातुना/दैन्यपादपसंघेनशोकायासाधिशृङ्गिणा/प्रमोहानन्तसत्त्वेनसंतापौषधिवेणुना/आक्रान्तोदुःखशैलेनमहताकैकयीसुतः/गुहेनसार्धंभरतःसमागतो॑महानुभावःसजनःसमाहितः/सुदुर्मनास्तंभरतंतदापुनर्॑गुहःसमाश्वासयदग्रजंप्रति28522/आचचक्षेऽथसद्भावंलक्ष्मणस्यमहात्मनः/भरतायाप्रमेयायगुहोगहनगोचरः2861/तंजाग्रतंगुणैर्युक्तंवरचापेषुधारिणम्/भ्रातृगुप्त्यर्थमत्यन्तमहंलक्ष्मणमब्रवम्/इयंतातसुखाशय्यात्वदर्थमुपकल्पिता/प्रत्याश्वसिहिशेष्वास्यांसुखंराघवनन्दन/उचितोऽयंजनःसर्वेदुःखानांत्वंसुखोचितः/धर्मात्मंस्तस्यगुप्त्यर्थंजागरिष्यामहेवयम्/नहिरामात्प्रियतरोममास्तिभुविकश्चन/मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यंतवाग्रतः/अस्यप्रसादादाशंसेलोकेऽस्मिन्सुमहद्यशः/धर्मावाप्तिंचविपुलामर्थावाप्तिंचकेवलाम्/सोऽहंप्रियसखंरामंशयानंसहसीतया/रक्षिष्यामिधनुष्पाणिःसर्वैःस्वैर्ज्ञातिभिःसह/नहिमेऽविदितंकिंचिद्वनेऽस्मिंश्चरतःसदा/चतुरङ्गंह्यपिबलंप्रसहेमवयंयुधि/एवमस्माभिरुक्तेनलक्ष्मणेनमहात्मना/अनुनीतावयंसर्वेधर्ममेवानुपश्यता/कथंदाशरथौभूमौशयानेसहसीतया/शक्यानिद्रामयालब्धुंजीवितंवासुखानिवा/योनदेवासुरैःसर्वैःशक्यःप्रसहितुंयुधि/तंपश्यगुहसंविष्टंतृणेषुसहसीतया/महतातपसालब्धोविविधैश्चपरिश्रमैः/एकोदशरथस्यैषपुत्रःसदृशलक्षणः/अस्मिन्प्रव्राजितेराजानचिरंवर्तयिष्यति/विधवामेदिनीनूनंक्षिप्रमेवभविष्यति/विनद्यसुमहानादंश्रमेणोपरताःस्त्रियः/निर्घोषोपरतंनूनमद्यराजनिवेशनम्/कौसल्याचैवराजाचतथैवजननीमम/नाशंसेयदितेसर्वेजीवेयुःशर्वरीमिमाम्/जीवेदपिहिमेमाताशत्रुघ्नस्यान्ववेक्षया/दुःखितायातुकौसल्यावीरसूर्विनशिष्यति/अतिक्रान्तमतिक्रान्तमनवाप्यमनोरथम्/राज्येराममनिक्षिप्यपितामेविनशिष्यति/सिद्धार्थाःपितरंवृत्तंतस्मिन्कालेह्युपस्थिते/प्रेतकार्येषुसर्वेषुसंस्करिष्यन्तिभूमिपम्/रम्यचत्वरसंस्थानांसुविभक्तमहापथाम्/हर्म्यप्रासादसंपन्नांसर्वरत्नविभूषिताम्/गजाश्वरथसंबाधांतूर्यनादविनादिताम्/सर्वकल्याणसंपूर्णांहृष्टपुष्टजनाकुलाम्/आरामोद्यानसंपूर्णांसमाजोत्सवशालिनीम्/सुखिताविचरिष्यन्तिराजधानींपितुर्मम/अपिसत्यप्रतिज्ञेनसार्धंकुशलिनावयम्/निवृत्तेसमयेह्यस्मिन्सुखिताःप्रविशेमहि/परिदेवयमानस्यतस्यैवंसुमहात्मनः/तिष्ठतोराजपुत्रस्यशर्वरीसात्यवर्तत/प्रभातेविमलेसूर्येकारयित्वाजटाउभौ/अस्मिन्भागीरथीतीरेसुखंसंतारितौमया/जटाधरौतौद्रुमचीरवाससौ॑महाबलौकुञ्जरयूथपोपमौ/वरेषुचापासिधरौपरंतपौ॑व्यवेक्षमाणौसहसीतयागतौ28625/गुहस्यवचनंश्रुत्वाभरतोभृशमप्रियम्/ध्यानंजगामतत्रैवयत्रतच्छ्रुतमप्रियम्2871/सुकुमारोमहासत्त्वःसिंहस्कन्धोमहाभुजः/पुण्डरीकविशालाक्षस्तरुणःप्रियदर्शनः/प्रत्याश्वस्यमुहूर्तंतुकालंपरमदुर्मनाः/पपातसहसातोत्रैर्हृदिविद्धइवद्विपः/तदवस्थंतुभरतंशत्रुघ्नोऽनन्तरस्थितः/परिष्वज्यरुरोदोच्चैर्विसंज्ञःशोककर्शितः/ततःसर्वाःसमापेतुर्मातरोभरतस्यताः/उपवासकृशादीनाभर्तृव्यसनकर्शिताः/ताश्चतंपतितंभूमौरुदन्त्यःपर्यवारयन्/कौसल्यात्वनुसृत्यैनंदुर्मनाःपरिषस्वजे/वत्सलास्वंयथावत्समुपगूह्यतपस्विनी/परिपप्रच्छभरतंरुदन्तीशोकलालसा/पुत्रव्याधिर्नतेकच्चिच्छरीरंपरिबाधते/अद्यराजकुलस्यास्यत्वदधीनंहिजीवितम्/त्वांदृष्ट्वापुत्रजीवामिरामेसभ्रातृकेगते/वृत्तेदशरथेराज्ञिनाथएकस्त्वमद्यनः/कच्चिन्नलक्ष्मणेपुत्रश्रुतंतेकिंचिदप्रियम्/पुत्रवाह्येकपुत्रायाःसहभार्येवनंगते/समुहूर्तंसमाश्वस्यरुदन्नेवमहायशाः/कौसल्यांपरिसान्त्व्येदंगुहंवचनमब्रवीत्/भ्रातामेक्वावसद्रात्रिंक्वसीताक्वचलक्ष्मणः/अस्वपच्छयनेकस्मिन्किंभुक्त्वागुहशंसमे/सोऽब्रवीद्भरतंपृष्टोनिषादाधिपतिर्गुहः/यद्विधंप्रतिपेदेचरामेप्रियहितेऽतिथौ/अन्नमुच्चावचंभक्ष्याःफलानिविविधानिच/रामायाभ्यवहारार्थंबहुचोपहृतंमया/तत्सर्वंप्रत्यनुज्ञासीद्रामःसत्यपराक्रमः/नहितत्प्रत्यगृह्णात्सक्षत्रधर्ममनुस्मरन्/नह्यस्माभिःप्रतिग्राह्यंसखेदेयंतुसर्वदा/इतितेनवयंराजन्ननुनीतामहात्मना/लक्ष्मणेनसमानीतंपीत्वावारिमहायशाः/औपवास्यंतदाकार्षीद्राघवःसहसीतया/ततस्तुजलशेषेणलक्ष्मणोऽप्यकरोत्तदा/वाग्यतास्तेत्रयःसंध्यामुपासतसमाहिताः/सौमित्रिस्तुततःपश्चादकरोत्स्वास्तरंशुभम्/स्वयमानीयबर्हींषिक्षिप्रंराघवकारणात्/तस्मिन्समाविशद्रामःस्वास्तरेसहसीतया/प्रक्षाल्यचतयोःपादावपचक्रामलक्ष्मणः/एतत्तदिङ्गुदीमूलमिदमेवचतत्तृणम्/यस्मिन्रामश्चसीताचरात्रिंतांशयितावुभौ/नियम्यपृष्ठेतुतलाङ्गुलित्रवाञ्॑शरैःसुपूर्णाविषुधीपरंतपः/महद्धनुःसज्यमुपोह्यलक्ष्मणो॑निशामतिष्ठत्परितोऽस्यकेवलम्/ततस्त्वहंचोत्तमबाणचापधृक्॑स्थितोऽभवंतत्रसयत्रलक्ष्मणः/अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्॑महेन्द्रकल्पंपरिपालयंस्तदा28724/तच्छ्रुत्वानिपुणंसर्वंभरतःसहमन्त्रिभिः/इङ्गुदीमूलमागम्यरामशय्यामवेक्ष्यताम्2881/अब्रवीज्जननीःसर्वाइहतेनमहात्मना/शर्वरीशयिताभूमाविदमस्यविमर्दितम्/महाभागकुलीनेनमहाभागेनधीमता/जातोदशरथेनोर्व्यांनरामःस्वप्तुमर्हति/अजिनोत्तरसंस्तीर्णेवरास्तरणसंचये/शयित्वापुरुषव्याघ्रःकथंशेतेमहीतले/प्रासादाग्रविमानेषुवलभीषुचसर्वदा/हैमराजतभौमेषुवरास्तरणशालिषु/पुष्पसंचयचित्रेषुचन्दनागरुगन्धिषु/पाण्डुराभ्रप्रकाशेषुशुकसंघरुतेषुच/गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः/मृदङ्गवरशब्दैश्चसततंप्रतिबोधितः/बन्दिभिर्वन्दितःकालेबहुभिःसूतमागधैः/गाथाभिरनुरूपाभिःस्तुतिभिश्चपरंतपः/अश्रद्धेयमिदंलोकेनसत्यंप्रतिभातिमा/मुह्यतेखलुमेभावःस्वप्नोऽयमितिमेमतिः/ननूनंदैवतंकिंचित्कालेनबलवत्तरम्/यत्रदाशरथीरामोभूमावेवंशयीतसः/विदेहराजस्यसुतासीताचप्रियदर्शना/दयिताशयिताभूमौस्नुषादशरथस्यच/इयंशय्याममभ्रातुरिदंहिपरिवर्तितम्/स्थण्डिलेकठिनेसर्वंगात्रैर्विमृदितंतृणम्/मन्येसाभरणासुप्तासीतास्मिञ्शयनेतदा/तत्रतत्रहिदृश्यन्तेसक्ताःकनकबिन्दवः/उत्तरीयमिहासक्तंसुव्यक्तंसीतयातदा/तथाह्येतेप्रकाशन्तेसक्ताःकौशेयतन्तवः/मन्येभर्तुःसुखाशय्यायेनबालातपस्विनी/सुकुमारीसतीदुःखंनविजानातिमैथिली/सार्वभौमकुलेजातःसर्वलोकसुखावहः/सर्वलोकप्रियस्त्यक्त्वाराज्यंप्रियमनुत्तमम्/कथमिन्दीवरश्यामोरक्ताक्षःप्रियदर्शनः/सुखभागीचदुःखार्हःशयितोभुविराघवः/सिद्धार्थाखलुवैदेहीपतिंयानुगतावनम्/वयंसंशयिताःसर्वेहीनास्तेनमहात्मना/अकर्णधारापृथिवीशून्येवप्रतिभातिमा/गतेदशरथेस्वर्गेरामेचारण्यमाश्रिते/नचप्रार्थयतेकश्चिन्मनसापिवसुंधराम्/वनेऽपिवसतस्तस्यबाहुवीर्याभिरक्षिताम्/शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्/अपावृतपुरद्वारांराजधानीमरक्षिताम्/अप्रहृष्टबलांन्यूनांविषमस्थामनावृताम्/शत्रवोनाभिमन्यन्तेभक्ष्यान्विषकृतानिव/अद्यप्रभृतिभूमौतुशयिष्येऽहंतृणेषुवा/फलमूलाशनोनित्यंजटाचीराणिधारयन्/तस्यार्थमुत्तरंकालंनिवत्स्यामिसुखंवने/तंप्रतिश्रवमामुच्यनास्यमिथ्याभविष्यति/वसन्तंभ्रातुरर्थायशत्रुघ्नोमानुवत्स्यति/लक्ष्मणेनसहत्वार्योअयोध्यांपालयिष्यति/अभिषेक्ष्यन्तिकाकुत्स्थमयोध्यायांद्विजातयः/अपिमेदेवताःकुर्युरिमंसत्यंमनोरथम्/प्रसाद्यमानःशिरसामयास्वयं॑बहुप्रकारंयदिनप्रपत्स्यते/ततोऽनुवत्स्यामिचिरायराघवं॑वनेवसन्नार्हतिमामुपेक्षितुम्28830/व्युष्यरात्रिंतुतत्रैवगङ्गाकूलेसराघवः/भरतःकाल्यमुत्थायशत्रुघ्नमिदमब्रवीत्2891/शत्रुघोत्तिष्ठकिंशेषेनिषादाधिपतिंगुहम्/शीघ्रमानयभद्रंतेतारयिष्यतिवाहिनीम्/जागर्मिनाहंस्वपिमितथैवार्यंविचिन्तयन्/इत्येवमब्रवीद्भ्रात्राशत्रुघ्नोऽपिप्रचोदितः/इतिसंवदतोरेवमन्योन्यंनरसिंहयोः/आगम्यप्राञ्जलिःकालेगुहोभरतमब्रवीत्/कच्चित्सुखंनदीतीरेऽवात्सीःकाकुत्स्थशर्वरीम्/कच्चिच्चसहसैन्यस्यतवसर्वमनामयम्/गुहस्यतत्तुवचनंश्रुत्वास्नेहादुदीरितम्/रामस्यानुवशोवाक्यंभरतोऽपीदमब्रवीत्/सुखानःशर्वरीराजन्पूजिताश्चापितेवयम्/गङ्गांतुनौभिर्बह्वीभिर्दाशाःसंतारयन्तुनः/ततोगुहःसंत्वरितःश्रुत्वाभरतशासनम्/प्रतिप्रविश्यनगरंतंज्ञातिजनमब्रवीत्/उत्तिष्ठतप्रबुध्यध्वंभद्रमस्तुहिवःसदा/नावःसमनुकर्षध्वंतारयिष्यामवाहिनीम्/तेतथोक्ताःसमुत्थायत्वरिताराजशासनात्/पञ्चनावांशतान्येवसमानिन्युःसमन्ततः/अन्याःस्वस्तिकविज्ञेयामहाघण्डाधरावराः/शोभमानाःपताकिन्योयुक्तवाताःसुसंहताः/ततःस्वस्तिकविज्ञेयांपाण्डुकम्बलसंवृताम्/सनन्दिघोषांकल्याणींगुहोनावमुपाहरत्/तामारुरोहभरतःशत्रुघ्नश्चमहाबलः/कौसल्याचसुमित्राचयाश्चान्याराजयोषितः/पुरोहितश्चतत्पूर्वंगुरवेब्राह्मणाश्चये/अनन्तरंराजदारास्तथैवशकटापणाः/आवासमादीपयतांतीर्थंचाप्यवगाहताम्/भाण्डानिचाददानानांघोषस्त्रिदिवमस्पृशत्/पताकिन्यस्तुतानावःस्वयंदाशैरधिष्ठिताः/वहन्त्योजनमारूढंतदासंपेतुराशुगाः/नारीणामभिपूर्णास्तुकाश्चित्काश्चित्तुवाजिनाम्/कश्चित्तत्रवहन्तिस्मयानयुग्यंमहाधनम्/ताःस्मगत्वापरंतीरमवरोप्यचतंजनम्/निवृत्ताःकाण्डचित्राणिक्रियन्तेदाशबन्धुभिः/सवैजयन्तास्तुगजागजारोहैःप्रचोदिताः/तरन्तःस्मप्रकाशन्तेसध्वजाइवपर्वताः/नावश्चारुरुहुस्त्वन्येप्लवैस्तेरुस्तथापरे/अन्येकुम्भघटैस्तेरुरन्येतेरुश्चबाहुभिः/सापुण्याध्वजिनीगङ्गांदाशैःसंतारितास्वयम्/मैत्रेमुहूर्तेप्रययौप्रयागवनमुत्तमम्/आश्वासयित्वाचचमूंमहात्मा॑निवेशयित्वाचयथोपजोषम्/द्रष्टुंभरद्वाजमृषिप्रवर्यम्॑ऋत्विग्वृतःसन्भरतःप्रतस्थे28922/भरद्वाजाश्रमंदृष्ट्वाक्रोशादेवनरर्षभः/बलंसर्वमवस्थाप्यजगामसहमन्त्रिभिः2901/पद्भ्यामेवहिधर्मज्ञोन्यस्तशस्त्रपरिच्छदः/वसानोवाससीक्षौमेपुरोधायपुरोहितम्/ततःसंदर्शनेतस्यभरद्वाजस्यराघवः/मन्त्रिणस्तानवस्थाप्यजगामानुपुरोहितम्/वसिष्ठमथदृष्ट्वैवभरद्वाजोमहातपाः/संचचालासनात्तूर्णंशिष्यानर्घ्यमितिब्रुवन्/समागम्यवसिष्ठेनभरतेनाभिवादितः/अबुध्यतमहातेजाःसुतंदशरथस्यतम्/ताभ्यामर्घ्यंचपाद्यंचदत्त्वापश्चात्फलानिच/आनुपूर्व्याच्चधर्मज्ञःपप्रच्छकुशलंकुले/अयोध्यायांबलेकोशेमित्रेष्वपिचमन्त्रिषु/जानन्दशरथंवृत्तंनराजानमुदाहरत्/वसिष्ठोभरतश्चैनंपप्रच्छतुरनामयम्/शरीरेऽग्निषुवृक्षेषुशिष्येषुमृगपक्षिषु/तथेतिचप्रतिज्ञायभरद्वाजोमहातपाः/भरतंप्रत्युवाचेदंराघवस्नेहबन्धनात्/किमिहागमनेकार्यंतवराज्यंप्रशासतः/एतदाचक्ष्वमेसर्वंनहिमेशुध्यतेमनः/सुषुवेयममित्रघ्नंकौसल्यानन्दवर्धनम्/भ्रात्रासहसभार्योयश्चिरंप्रव्राजितोवनम्/नियुक्तःस्त्रीनियुक्तेनपित्रायोऽसौमहायशाः/वनवासीभवेतीहसमाःकिलचतुर्दश/कच्चिन्नतस्यापापस्यपापंकर्तुमिहेच्छसि/अकण्टकंभोक्तुमनाराज्यंतस्यानुजस्यच/एवमुक्तोभरद्वाजंभरतःप्रत्युवाचह/पर्यश्रुनयनोदुःखाद्वाचासंसज्जमानया/हतोऽस्मियदिमामेवंभगवानपिमन्यते/मत्तोनदोषमाशङ्केर्नैवंमामनुशाधिहि/अंश्चैतदिष्टंमातामेयदवोचन्मदन्तरे/नाहमेतेनतुष्टश्चनतद्वचनमाददे/अहंतुतंनरव्याघ्रमुपयातःप्रसादकः/प्रतिनेतुमयोध्यांचपादौतस्याभिवन्दितुम्/त्वंमामेवंगतंमत्वाप्रसादंकर्तुमर्हसि/शंसमेभगवन्रामःक्वसंप्रतिमहीपतिः/उवाचतंभरद्वाजःप्रसादाद्भरतंवचः/त्वय्येतत्पुरुषव्याघ्रंयुक्तंराघववंशजे/गुरुवृत्तिर्दमश्चैवसाधूनांचानुयायिता/जानेचैतन्मनःस्थंतेदृढीकरणमस्त्विति/अपृच्छंत्वांतवात्यर्थंकीर्तिंसमभिवर्धयन्/असौवसतितेभ्राताचित्रकूटेमहागिरौ/श्वस्तुगन्तासितंदेशंवसाद्यसहमन्त्रिभिः/एतंमेकुरुसुप्राज्ञकामंकामार्थकोविद/ततस्तथेत्येवमुदारदर्शनः॑प्रतीतरूपोभरतोऽब्रवीद्वचः/चकारबुद्धिंचतदामहाश्रमे॑निशानिवासायनराधिपात्मजः29024/कृतबुद्धिंनिवासायतथैवसमुनिस्तदा/भरतंकैकयीपुत्रमातिथ्येनन्यमन्त्रयत्2911/अब्रवीद्भरतस्त्वेनंनन्विदंभवताकृतम्/पाद्यमर्घ्यंतथातिथ्यंवनेयदूपपद्यते/अथोवाचभरद्वाजोभरतंप्रहसन्निव/जानेत्वांप्रीतिसंयुक्तंतुष्येस्त्वंयेनकेनचित्/सेनायास्तुतवैतस्याःकर्तुमिच्छामिभोजनम्/ममप्रितिर्यथारूपात्वमर्होमनुजर्षभ/किमर्थंचापिनिक्षिप्यदूरेबलमिहागतः/कस्मान्नेहोपयातोऽसिसबलःपुरुषर्षभ/भरतःप्रत्युवाचेदंप्राञ्जलिस्तंतपोधनम्/ससैन्योनोपयातोऽस्मिभगवन्भगवद्भयात्/वाजिमुख्यामनुष्याश्चमत्ताश्चवरवारणाः/प्रच्छाद्यमहतींभूमिंभगवन्ननुयान्तिमाम्/तेवृक्षानुदकंभूमिमाश्रमेषूटजांस्तथा/नहिंस्युरितितेनाहमेकएवागतस्ततः/आनीयतामितःसेनेत्याज्ञप्तःपरमर्षिणा/तथातुचक्रेभरतःसेनायाःसमुपागमम्/अग्निशालांप्रविश्याथपीत्वापःपरिमृज्यच/आतिथ्यस्यक्रियाहेतोर्विश्वकर्माणमाह्वयत्/आह्वयेविश्वकर्माणमहंत्वष्टारमेवच/आतिथ्यंकर्तुमिच्छामितत्रमेसंविधीयताम्/प्राक्स्रोतसश्चयानद्यःप्रत्यक्स्रोतसएवच/पृथिव्यामन्तरिक्षेचसमायान्त्वद्यसर्वशः/अन्याःस्रवन्तुमैरेयंसुरामन्याःसुनिष्ठिताम्/अपराश्चोदकंशीतमिक्षुकाण्डरसोपमम्/आह्वयेदेवगन्धर्वान्विश्वावसुहहाहुहून्/तथैवाप्सरसोदेवीर्गन्धर्वीश्चापिसर्वशः/घृताचीमथविश्वाचींमिश्रकेशीमलम्बुसाम्/शक्रंयाश्चोपतिष्ठन्तिब्रह्माणंयाश्चभामिनीः/सर्वास्तुम्बुरुणासार्धमाह्वयेसपरिच्छदाः/वनंकुरुषुयद्दिव्यंवासोभूषणपत्रवत्/दिव्यनारीफलंशश्वत्तत्कौबेरमिहैवतु/इहमेभगवान्सोमोविधत्तामन्नमुत्तमम्/भक्ष्यंभोज्यंचचोष्यंचलेह्यंचविविधंबहु/विचित्राणिचमाल्यानिपादपप्रच्युतानिच/सुरादीनिचपेयानिमांसानिविविधानिच/एवंसमाधिनायुक्तस्तेजसाप्रतिमेनच/शिक्षास्वरसमायुक्तंतपसाचाब्रवीन्मुनिः/मनसाध्यायतस्तस्यप्राङ्मुखस्यकृताञ्जलेः/आजग्मुस्तानिसर्वाणिदैवतानिपृथक्पृथक्/मलयंदुर्दुरंचैवततःस्वेदनुदोऽनिलः/उपस्पृश्यववौयुक्त्यासुप्रियात्मासुखःशिवः/ततोऽभ्यवर्तन्तघनादिव्याःकुसुमवृष्टयः/देवदुन्दुभिघोषश्चदिक्षुसर्वासुशुश्रुवे/प्रववुश्चोत्तमावाताननृतुश्चाप्सरोगणाः/प्रजगुर्देवगन्धर्वावीणाप्रमुमुचुःस्वरान्/सशब्दोद्यांचभूमिंचप्राणिनांश्रवणानिच/विवेशोच्चारितःश्लक्ष्णःसमोलयगुणान्वितः/तस्मिन्नुपरतेशब्देदिव्येश्रोत्रसुखेनृणाम्/ददर्शभारतंसैन्यंविधानंविश्वकर्मणः/बभूवहिसमाभूमिःसमन्तात्पञ्चयोजनम्/शाद्वलैर्बहुभिश्छन्नानीलवैदूर्यसंनिभैः/तस्मिन्बिल्वाःकपित्थाश्चपनसाबीजपूरकाः/आमलक्योबभूवुश्चचूताश्चफलभूषणाः/उत्तरेभ्यःकुरुभ्यश्चवनंदिव्योपभोगवत्/आजगामनदीदिव्यातीरजैर्बहुभिर्वृता/चतुःशालानिशुभ्राणिशालाश्चगजवाजिनाम्/हर्म्यप्रासादसंघातास्तोरणानिशुभानिच/सितमेघनिभंचापिराजवेश्मसुतोरणम्/शुक्लमाल्यकृताकारंदिव्यगन्धसमुक्षितम्/चतुरस्रमसंबाधंशयनासनयानवत्/दिव्यैःसर्वरसैर्युक्तंदिव्यभोजनवस्त्रवत्/उपकल्पितसर्वान्नंधौतनिर्मलभाजनम्/कॢप्तसर्वासनंश्रीमत्स्वास्तीर्णशयनोत्तमम्/प्रविवेशमहाबाहुरनुज्ञातोमहर्षिणा/वेश्मतद्रत्नसंपूर्णंभरतःकैकयीसुतः/अनुजग्मुश्चतंसर्वेमन्त्रिणःसपुरोहिताः/बभूवुश्चमुदायुक्तातंदृष्ट्वावेश्मसंविधिम्/तत्रराजासनंदिव्यंव्यजनंछत्रमेवच/भरतोमन्त्रिभिःसार्धमभ्यवर्ततराजवत्/आसनंपूजयामासरामायाभिप्रणम्यच/वालव्यजनमादायन्यषीदत्सचिवासने/आनुपूर्व्यान्निषेदुश्चसर्वेमन्त्रपुरोहिताः/ततःसेनापतिःपश्चात्प्रशास्ताचनिषेदतुः/ततस्तत्रमुहूर्तेननद्यःपायसकर्दमाः/उपातिष्ठन्तभरतंभरद्वाजस्यशासनत्/तासामुभयतःकूलंपाण्डुमृत्तिकलेपनाः/रम्याश्चावसथादिव्याब्रह्मणस्तुप्रसादजाः/तेनैवचमुहूर्तेनदिव्याभरणभूषिताः/आगुर्विंशतिसाहस्राब्राह्मणाप्रहिताःस्त्रियः/सुवर्णमणिमुक्तेनप्रवालेनचशोभिताः/आगुर्विंशतिसाहस्राःकुबेरप्रहिताःस्त्रियः/याभिर्गृहीतःपुरुषःसोन्मादइवलक्ष्यते/आगुर्विंशतिसाहस्रानन्दनादप्सरोगणाः/नारदस्तुम्बुरुर्गोपःपर्वतःसूर्यवर्चसः/एतेगन्धर्वराजानोभरतस्याग्रतोजगुः/अलम्बुसामिश्रकेशीपुण्डरीकाथवामना/उपानृत्यंस्तुभरतंभरद्वाजस्यशासनात्/यानिमाल्यानिदेवेषुयानिचैत्ररथेवने/प्रयागेतान्यदृश्यन्तभरद्वाजस्यशासनात्/बिल्वामार्दङ्गिकाआसञ्शम्याग्राहाबिभीतकाः/अश्वत्थानर्तकाश्चासन्भरद्वाजस्यतेजसा/ततःसरलतालाश्चतिलकानक्तमालकाः/प्रहृष्टास्तत्रसंपेतुःकुब्जाभूताथवामनाः/शिंशपामलकीजम्बूर्याश्चान्याःकाननेलताः/प्रमदाविग्रहंकृत्वाभरद्वाजाश्रमेऽवसन्/सुरांसुरापाःपिबतपायसंचबुभुक्शिताः/मांसनिचसुमेध्यानिभक्ष्यन्तांयावदिच्छथ/उत्साद्यस्नापयन्तिस्मनदीतीरेषुवल्गुषु/अप्येकमेकंपुरुषंप्रमदाःसत्पचाष्टच/संवहन्त्यःसमापेतुर्नार्योरुचिरलोचनाः/परिमृज्यतथान्यायंपाययन्तिवराङ्गनाः/हयान्गजान्खरानुष्ट्रांस्तथैवसुरभेःसुतान्/इक्षूंश्चमधुजालांश्चभोजयन्तिस्मवाहनान्/इक्ष्वाकुवरयोधानांचोदयन्तोमहाबलाः/नाश्वबन्धोऽश्वमाजानान्नगजंकुञ्जरग्रहः/मत्तप्रमत्तमुदिताचमूःसातत्रसंबभौ/तर्पितासर्वकामैस्तेरक्तचन्दनरूषिताः/अप्सरोगणसंयुक्ताःसैन्यावाचमुदैरयन्/नैवायोध्यांगमिष्यामोनगमिष्यामदण्डकान्/कुशलंभरतस्यास्तुरामस्यास्तुतथासुखम्/इतिपादातयोधाश्चहस्त्यश्वारोहबन्धकाः/अनाथास्तंविधिंलब्ध्वावाचमेतामुदैरयन्/संप्रहृष्टाविनेदुस्तेनरास्तत्रसहस्रशः/भरतस्यानुयातारःस्वर्गेऽयमितिचाब्रुवन्/ततोभुक्तवतांतेषांतदन्नममृतोपमम्/दिव्यानुद्वीक्ष्यभक्ष्यांस्तानभवद्भक्षणेमतिः/प्रेष्याश्चेट्यश्चवध्वश्चबलस्थाश्चापिसर्वशः/बभूवुस्तेभृशंतृप्ताःसर्वेचाहतवाससः/कुञ्जराश्चखरोष्ट्रश्चगोऽश्वाश्चमृगपक्षिणः/बभूवुःसुभृतास्तत्रनान्योह्यन्यमकल्पयत्/नाशुक्लवासास्तत्रासीत्क्षुधितोमलिनोऽपिवा/रजसाध्वस्तकेशोवानरःकश्चिददृश्यत/आजैश्चापिचवाराहैर्निष्ठानवरसंचयैः/फलनिर्यूहसंसिद्धैःसूपैर्गन्धरसान्वितैः/पुष्पध्वजवतीःपूर्णाःशुक्लस्यान्नस्यचाभितः/ददृशुर्विस्मितास्तत्रनरालौहीःसहस्रशः/बभूवुर्वनपार्श्वेषुकूपाःपायसकर्दमाः/ताश्चकामदुघागावोद्रुमाश्चासन्मधुश्च्युतः/वाप्योमैरेयपूर्णाश्चमृष्टमांसचयैर्वृताः/प्रतप्तपिठरैश्चापिमार्गमायूरकौक्कुटैः/पात्रीणांचसहस्राणिशातकुम्भमयानिच/स्थाल्यःकुम्भ्यःकरम्भ्यश्चदधिपूर्णाःसुसंस्कृताः/यौवनस्थस्यगौरस्यकपित्थस्यसुगन्धिनः/ह्रदाःपूर्णारसालस्यदध्नःश्वेतस्यचापरे/बभूवुःपायसस्यान्तेशर्करायाश्चसंचयाः/कल्कांश्चूर्णकषायांश्चस्नानानिविविधानिच/ददृशुर्भाजनस्थानितीर्थेषुसरितांनराः/शुक्लानंशुमतश्चापिदन्तधावनसंचयान्/शुक्लांश्चन्दनकल्कांश्चसमुद्गेष्ववतिष्ठतः/दर्पणान्परिमृष्टांश्चवाससांचापिसंचयान्/पादुकोपानहांचैवयुग्मान्यत्रसहस्रशः/आञ्जनीःकङ्कतान्कूर्चांश्छत्राणिचधनूंषिच/मर्मत्राणानिचित्राणिशयनान्यासनानिच/प्रतिपानह्रदान्पूर्णान्खरोष्ट्रगजवाजिनाम्/अवगाह्यसुतीर्थांश्चह्रदान्सोत्पलपुष्करान्/नीलवैदूर्यवर्णांश्चमृदून्यवससंचयान्/निर्वापार्थंपशूनांतेददृशुस्तत्रसर्वशः/व्यस्मयन्तमनुष्यास्तेस्वप्नकल्पंतदद्भुतम्/दृष्ट्वातिथ्यंकृतंतादृग्भरतस्यमहर्षिणा/इत्येवंरममाणानांदेवानामिवनन्दने/भरद्वाजाश्रमेरम्येसारात्रिर्व्यत्यवर्तत/प्रतिजग्मुश्चतानद्योगन्धर्वाश्चयथागतम्/भरद्वाजमनुज्ञाप्यताश्चसर्वावराङ्गनाः/तथैवमत्तामदिरोत्कटानरास्॑तथैवदिव्यागुरुचन्दनोक्षिताः/तथैवदिव्याविविधाःस्रगुत्तमाः॑पृथक्प्रकीर्णामनुजैःप्रमर्दिताः29183/ततस्तांरजनीमुष्यभरतःसपरिच्छदः/कृतातिथ्योभरद्वाजंकामादभिजगामह2921/तमृषिःपुरुषव्याघ्रंप्रेक्ष्यप्राञ्जलिमागतम्/हुताग्निहोत्रोभरतंभरद्वाजोऽभ्यभाषत/कच्चिदत्रसुखारात्रिस्तवास्मद्विषयेगता/समग्रस्तेजनःकच्चिदातिथ्येशंसमेऽनघ/तमुवाचाञ्जलिंकृत्वाभरतोऽभिप्रणम्यच/आश्रमादभिनिष्क्रन्तमृषिमुत्तमतेजसं/सुखोषितोऽस्मिभगवन्समग्रबलवाहनः/तर्पितःसर्वकामैश्चसामात्योबलवत्त्वया/अपेतक्लमसंतापाःसुभक्ष्याःसुप्रतिश्रयाः/अपिप्रेष्यानुपादायसर्वेस्मसुसुखोषिताः/आमन्त्रयेऽहंभगवन्कामंत्वामृषिसत्तम/समीपंप्रस्थितंभ्रातुर्मैरेणेक्षस्वचक्षुषा/आश्रमंतस्यधर्मज्ञधार्मिकस्यमहात्मनः/आचक्ष्वकतमोमार्गःकियानितिचशंसमे/इतिपृष्टस्तुभरतंभ्रातृदर्शनलालसं/प्रत्युवाचमहातेजाभरद्वाजोमहातपाः/भरतार्धतृतीयेषुयोजनेष्वजनेवने/चित्रकूटोगिरिस्तत्ररम्यनिर्दरकाननः/उत्तरंपार्श्वमासाद्यतस्यमन्दाकिनीनदी/पुष्पितद्रुमसंछन्नारम्यपुष्पितकानना/अनन्तरंतत्सरितश्चित्रकूटश्चपर्वतः/ततोपर्णकुटीताततत्रतौवसतोध्रुवम्/दक्षिणेनैवमार्गेणसव्यदक्षिणमेवच/गजवाजिरथाकीर्णांवाहिनींवाहिनीपते/वाहयस्वमहाभागततोद्रक्ष्यसिराघवम्/प्रयाणमितिचश्रुत्वाराजराजस्ययोषितः/हित्वायानानियानार्हाब्राह्मणंपर्यवारयन्/वेपमानाकृशादीनासहदेव्यासुमन्त्रिया/कौसल्यातत्रजग्राहकराभ्यांचरणौमुनेः/असमृद्धेनकामेनसर्वलोकस्यगर्हिता/कैकेयीतस्यजग्राहचरणौसव्यपत्रपा/तंप्रदक्षिणमागम्यभगवन्तंमहामुनिम्/अदूराद्भरतस्यैवतस्थौदीनमनास्तदा/ततःपप्रच्छभरतंभरद्वाजोदृढव्रतः/विशेषंज्ञातुमिच्छामिमातॄणांतवराघव/एवमुक्तस्तुभरतोभरद्वाजेनधार्मिकः/उवाचप्राञ्जलिर्भूत्वावाक्यंवचनकोविदः/यामिमांभगवन्दीनांशोकानशनकर्शिताम्/पितुर्हिमहिषींदेवींदेवतामिवपश्यसि/एषातंपुरुषव्याघ्रंसिंहविक्रान्तगामिनम्/कौसल्यासुषुवेरामंधातारमदितिर्यथा/अस्यावामभुजंश्लिष्टायैषातिष्ठतिदुर्मनाः/कर्णिकारस्यशाखेवशीर्णपुष्पावनान्तरे/एतस्यास्तौसुतौदेव्याःकुमारौदेववर्णिनौ/उभौलक्ष्मणशत्रुघ्नौवीरौसत्यपराक्रमौ/यस्याःकृतेनरयाघ्रौजीवनाशमितोगतौ/राजापुत्रविहीनश्चस्वर्गंदशरथोगतः/ऐश्वर्यकामांकैकेयीमनार्यामार्यरूपिणीम्/ममैतांमातरंविद्धिनृशंसांपापनिश्चयाम्/यतोमूलंहिपश्यामिव्यसनंमहदात्मनः/इत्युक्त्वानरशार्दूलोबाष्पगद्गदयागिरा/सनिशश्वासताम्राक्षोक्रुद्धोनागइवासकृत्/भरद्वाजोमहर्षिस्तंब्रुवन्तंभरतंतदा/प्रत्युवाचमहाबुद्धिरिदंवचनमर्थवत्/नदोषेणावगन्तव्याकैकेयीभरतत्वया/रामप्रव्राजनंह्येतत्सुखोदर्कंभविष्यति/अभिवाद्यतुसंसिद्धःकृत्वाचैनंप्रदक्षिणम्/आमन्त्र्यभरतःसैन्यंयुज्यतामित्यचोदयत्/ततोवाजिरथान्युक्त्वादिव्यान्हेमपरिष्क्रितान्/अध्यारोहत्प्रयाणार्थीबहून्बहुविधोजनः/गजकन्यागजाश्चैवहेमकक्ष्याःपताकिनः/जीमूताइवघर्मान्तेसघोषाःसंप्रतस्थिरे/विविधान्यपियानानिमहानिचलघूनिच/प्रययुःसुमहार्हाणिपादैरेवपदातयः/अथयानप्रवेकैस्तुकौसल्याप्रमुखाःस्त्रियः/रामदर्शनकाङ्क्षिण्यःप्रययुर्मुदितास्तदा/सचार्कतरुणाभासांनियुक्तांशिबिकांशुभाम्/आस्थायप्रययौश्रीमान्भरतःसपरिच्छदः/साप्रयातामहासेनागजवाजिरथाकुला/दक्षिणांदिशमावृत्यमहामेघइवोत्थितः/वनानितुव्यतिक्रम्यजुष्टानिमृगपक्षिभिः/सासंप्रहृष्टद्विपवाजियोधा॑वित्रासयन्तीमृगपक्षिसंघान्/महद्वनंतत्प्रविगाहमाना॑रराजसेनाभरतस्यतत्र29240/तयामहत्यायायिन्याध्वजिन्यावनवासिनः/अर्दितायूथपामत्ताःसयूथाःसंप्रदुद्रुवुः2931/ऋक्षाःपृषतसंघाश्चरुरवश्चसमन्ततः/दृश्यन्तेवनराजीषुगिरिष्वपिनदीषुच/ससंप्रतस्थेधर्मात्माप्रीतोदशरथात्मजः/वृतोमहत्यानादिन्यासेनयाचतुरङ्गया/सागरौघनिभासेनाभरतस्यमहात्मनः/महींसंछादयामासप्रावृषिद्यामिवाम्बुदः/तुरंगौघैरवततावारणैश्चमहाजवैः/अनालक्ष्याचिरंकालंतस्मिन्कालेबभूवभूः/सयात्वादूरमध्वानंसुपरिश्रान्तवाहनः/उवाचभरतःश्रीमान्वसिष्ठंमन्त्रिणांवरम्/यादृशंलक्ष्यतेरूपंयथाचैवश्रुतंमया/व्यक्तंप्राप्ताःस्मतंदेशंभरद्वाजोयमब्रवीत्/अयंगिरिश्चित्रकूटस्तथामन्दाकिनीनदी/एतत्प्रकाशतेदूरान्नीलमेघनिभंवनम्/गिरेःसानूनिरम्याणिचित्रकूटस्यसंप्रति/वारणैरवमृद्यन्तेमामकैःपर्वतोपमैः/मुञ्चन्तिकुसुमान्येतेनगाःपर्वतसानुषु/नीलाइवातपापायेतोयंतोयधराघनाः/किन्नराचरितोद्देशंपश्यशत्रुघ्नपर्वतम्/हयैःसमन्तादाकीर्णंमकरैरिवसागरम्/एतेमृगगणाभान्तिशीघ्रवेगाःप्रचोदिताः/वायुप्रविद्धाःशरदिमेघराज्यइवाम्बरे/कुर्वन्तिकुसुमापीडाञ्शिरःसुसुरभीनमी/मेघप्रकाशैःफलकैर्दाक्षिणात्यायथानराः/निष्कूजमिवभूत्वेदंवनंघोरप्रदर्शनम्/अयोध्येवजनाकीर्णासंप्रतिप्रतिभातिमा/खुरैरुदीरितोरेणुर्दिवंप्रच्छाद्यतिष्ठति/तंवहत्यनिलःशीघ्रंकुर्वन्निवममप्रियम्/स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान्/एतान्संपततःशीघ्रंपश्यशत्रुघ्नकानने/एतान्वित्रासितान्पश्यबर्हिणःप्रियदर्शनान्/एतमाविशतःशैलमधिवासंपतत्रिणाम्/अतिमात्रमयंदेशोमनोज्ञःप्रतिभातिमा/तापसानांनिवासोऽयंव्यक्तंस्वर्गपथोयथा/मृगामृगीभिःसहिताबहवःपृषतावने/मनोज्ञरूपालक्ष्यन्तेकुसुमैरिवचित्रितः/साधुसैन्याःप्रतिष्ठन्तांविचिन्वन्तुचकाननम्/यथातौपुरुषव्याघ्रौदृश्येतेरामलक्ष्मणौ/भरतस्यवचःश्रुत्वापुरुषाःशस्त्रपाणयः/विविशुस्तद्वनंशूराधूमंचददृशुस्ततः/तेसमालोक्यधूमाग्रमूचुर्भरतमागताः/नामनुष्येभवत्यग्निर्व्यक्तमत्रैवराघवौ/अथनात्रनरव्याघ्रौराजपुत्रौपरंतपौ/अन्येरामोपमाःसन्तिव्यक्तमत्रतपस्विनः/तच्छ्रुत्वाभरतस्तेषांवचनंसाधुसंमतम्/सैन्यानुवाचसर्वांस्तानमित्रबलमर्दनः/यत्ताभवन्तस्तिष्ठन्तुनेतोगन्तव्यमग्रतः/अहमेवगमिष्यामिसुमन्त्रोगुरुरेवच/एवमुक्तास्ततःसर्वेतत्रतस्थुःसमन्ततः/भरतोयत्रधूमाग्रंतत्रदृष्टिंसमादधत्/व्यवस्थितायाभरतेनसाचमूर्॑निरीक्षमाणापिचधूममग्रतः/बभूवहृष्टानचिरेणजानती॑प्रियस्यरामस्यसमागमंतदा29327/दीर्घकालोषितस्तस्मिन्गिरौगिरिवनप्रियः/विदेह्याःप्रियमाकाङ्क्षन्स्वंचचित्तंविलोभयन्2941/अथदाशरथिश्चित्रंचित्रकूटमदर्शयत्/भार्याममरसंकाशःशचीमिवपुरंदरः/नराज्याद्भ्रंशनंभद्रेनसुहृद्भिर्विनाभवः/मनोमेबाधतेदृष्ट्वारमणीयमिमंगिरिम्/पश्येममचलंभद्रेनानाद्विजगणायुतम्/शिखरैःखमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्/केचिद्रजतसंकाशाःकेचित्क्षतजसंनिभाः/पीतमाञ्जिष्ठवर्णाश्चकेचिन्मणिवरप्रभाः/पुष्यार्ककेतुकाभाश्चकेचिज्ज्योतीरसप्रभाः/विराजन्तेऽचलेन्द्रस्यदेशाधातुविभूषिताः/नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः/अदुष्टैर्भात्ययंशैलोबहुपक्षिसमाकुलः/आम्रजम्ब्वसनैर्लोध्रैःप्रियालैःपनसैर्धवैः/अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः/काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा/बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः/पुष्पवद्भिःफलोपेतैश्छायावद्भिर्मनोरमैः/एवमादिभिराकीर्णःश्रियंपुष्यत्ययंगिरिः/शैलप्रस्थेषुरम्येषुपश्येमान्कामहर्षणान्/किन्नरान्द्वंद्वशोभद्रेरममाणान्मनस्विनः/शाखावसक्तान्खड्गांश्चप्रवराण्यम्बराणिच/पश्यविद्याधरस्त्रीणांक्रीडेद्देशान्मनोरमान्/जलप्रपातैरुद्भेदैर्निष्यन्दैश्चक्वचित्क्वचित्/स्रवद्भिर्भात्ययंशैलःस्रवन्मदइवद्विपः/गुहासमीरणोगन्धान्नानापुष्पभवान्वहन्/घ्राणतर्पणमभ्येत्यकंनरंनप्रहर्षयेत्/यदीहशरदोऽनेकास्त्वयासार्धमनिन्दिते/लक्ष्मणेनचवत्स्यामिनमांशोकःप्रधक्ष्यति/बहुपुष्पफलेरम्येनानाद्विजगणायुते/विचित्रशिखरेह्यस्मिन्रतवानस्मिभामिनि/अनेनवनवासेनमयाप्राप्तंफलद्वयम्/पितुश्चानृणताधर्मेभरतस्यप्रियंतथा/वैदेहिरमसेकच्चिच्चित्रकूटेमयासह/पश्यन्तीविविधान्भावान्मनोवाक्कायसंयतान्/इदमेवामृतंप्राहूराज्ञांराजर्षयःपरे/वनवासंभवार्थायप्रेत्यमेप्रपितामहाः/शिलाःशैलस्यशोभन्तेविशालाःशतशोऽभितः/बहुलाबहुलैर्वर्णैर्नीलपीतसितारुणैः/निशिभान्त्यचलेन्द्रस्यहुताशनशिखाइव/ओषध्यःस्वप्रभालक्ष्म्याभ्राजमानाःसहस्रशः/केचित्क्षयनिभादेशाःकेचिदुद्यानसंनिभाः/केचिदेकशिलाभान्तिपर्वतस्यास्यभामिनि/भित्त्वेववसुधांभातिचित्रकूटःसमुत्थितः/चित्रकूटस्यकूटोऽसौदृश्यतेसर्वतःशिवः/कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान्/कामिनांस्वास्तरान्पश्यकुशेशयदलायुतान्/मृदिताश्चापविद्धाश्चदृश्यन्तेकमलस्रजः/कामिभिर्वनितेपश्यफलानिविविधानिच/वस्वौकसारांनलिनीमत्येतीवोत्तरान्कुरून्/पर्वतश्चित्रकूटोऽसौबहुमूलफलोदकः/इमंतुकालंवनितेविजह्रिवांस्॑त्वयाचसीतेसहलक्ष्मणेनच/रतिंप्रपत्स्येकुलधर्मवर्धिनीं॑सतांपथिस्वैर्नियमैःपरैः/स्थितः29427/अथशैलाद्विनिष्क्रम्यमैथिलींकोसलेश्वरः/अदर्शयच्छुभजलांरम्यांमन्दाकिनींनदीम्2951/अब्रवीच्चवरारोहांचारुचन्द्रनिभाननाम्/विदेहराजस्यसुतांरामोराजीवलोचनः/विचित्रपुलिनांरम्यांहंससारससेविताम्/कुसुमैरुपसंपन्नांपश्यमन्दाकिनींनदीम्/नानाविधैस्तीररुहैर्वृतांपुष्पफलद्रुमैः/राजन्तींराजराजस्यनलिनीमिवसर्वतः/मृगयूथनिपीतानिकलुषाम्भांसिसाम्प्रतम्/तीर्थानिरमणीयानिरतिंसंजनयन्तिमे/जटाजिनधराःकालेवल्कलोत्तरवाससः/ऋषयस्त्ववगाहन्तेनदींमन्दाकिनींप्रिये/आदित्यमुपतिष्ठन्तेनियमादूर्ध्वबाहवः/एतेऽपरेविशालाक्षिमुनयःसंशितव्रताः/मारुतोद्धूतशिखरैःप्रनृत्तइवपर्वतः/पादपैःपत्रपुष्पाणिसृजद्भिरभितोनदीम्/कच्चिन्मणिनिकाशोदांकच्चित्पुलिनशालिनीम्/कच्चित्सिद्धजनाकीर्णांपश्यमन्दाकिनींनदीम्/निर्धूतान्वायुनापश्यविततान्पुष्पसंचयान्/पोप्लूयमानानपरान्पश्यत्वंजलमध्यगान्/तांश्चातिवल्गुवचसोरथाङ्गाह्वयनाद्विजाः/अधिरोहन्तिकल्याणिनिष्कूजन्तःशुभागिरः/दर्शनंचित्रकूटस्यमन्दाकिन्याश्चशोभने/अधिकंपुरवासाच्चमन्येचतवदर्शनात्/विधूतकलुषैःसिद्धैस्तपोदमशमान्वितैः/नित्यविक्षोभितजलांविहाहस्वमयासह/सखीवच्चविगाहस्वसीतेमन्दकिनीमिमाम्/कमलान्यवमज्जन्तीपुष्कराणिचभामिनि/त्वंपौरजनवद्व्यालानयोध्यामिवपर्वतम्/मन्यस्ववनितेनित्यंसरयूवदिमांनदीम्/लक्ष्मणश्चैवधर्मात्मामन्निदेशेव्यवस्थितः/त्वंचानुकूलावैदेहिप्रीतिंजनयथोमम/उपस्पृशंस्त्रिषवणंमधुमूलफलाशनः/नायोध्यायैनराज्यायस्पृहयेऽद्यत्वयासह/इमांहिरम्यांगजयूथलोलितां॑निपीततोयांगजसिंहवानरैः/सुपुष्पितैःपुष्पधरैरलंकृतां॑नसोऽस्तियःस्यान्नगतक्रमःसुखी/इतीवरामोबहुसंगतंवचः॑प्रियासहायःसरितंप्रतिब्रुवन्/चचाररम्यंनयनाञ्जनप्रभं॑सचित्रकूटंरघुवंशवर्धनः29519/तथातत्रासतस्तस्यभरतस्योपयायिनः/सैन्यरेणुश्चशब्दश्चप्रादुरास्तांनभःस्पृशौ2963/एतस्मिन्नन्तरेत्रस्ताःशब्देनमहताततः/अर्दितायूथपामत्ताःसयूथादुद्रुवुर्दिशः/सतंसैन्यसमुद्भूतंशब्दंशुश्रवराघवः/तांश्चविप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत/तांश्चविद्रवतोदृष्ट्वातंचश्रुत्वासनिःस्वनम्/उवाचरामःसौमित्रिंलक्ष्मणंदीप्ततेजसं/हन्तलक्ष्मणपश्येहसुमित्रासुप्रजास्त्वया/भीमस्तनितगम्भीरस्तुमुलःश्रूयतेस्वनः/राजावाराजमात्रोवामृगयामटतेवने/अन्यद्वाश्वापदंकिंचित्सौमित्रेज्ञातुमर्हसि/सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि/सलक्ष्मणःसंत्वरितःसालमारुह्यपुष्पितम्/प्रेक्षमाणोदिशःसर्वाःपूर्वांदिशमवैक्षत/उदङ्मुखःप्रेक्षमाणोददर्शमहतींचमूम्/रथाश्वगजसंबाधांयत्तैर्युक्तांपदातिभिः/तामश्वगजसंपूर्णांरथध्वजविभूषिताम्/शशंससेनांरामायवचनंचेदमब्रवीत्/अग्निंसंशमयत्वार्यःसीताचभजतांगुहाम्/सज्यंकुरुष्वचापंचशरांश्चकवचंतथा/तंरामःपुरुषव्याघ्रोलक्ष्मणंप्रत्युवाचह/अङ्गावेक्षस्वसौमित्रेकस्यैतांमन्यसेचमूम्/एवमुक्क्तस्तुरामेणलक्ष्माणोवाक्यमब्रवीत्/दिधक्षन्निवतांसेनांरुषितःपावकोयथा/संपन्नंराज्यमिच्छंस्तुव्यक्तंप्राप्याभिषेचनम्/आवांहन्तुंसमभ्येतिकैकेय्याभरतःसुतः/एषवैसुमहाञ्श्रीमान्विटपीसंप्रकाशते/विराजत्युद्गतस्कन्धःकोविदारध्वजोरथे/भजन्त्येतेयथाकाममश्वानारुह्यशीघ्रगान्/एतेभ्राजन्तिसंहृष्टाजगानारुह्यसादिनः/गृहीतधनुषौचावांगिरिंवीरश्रयावहे/अपिनौवशमागच्छेत्कोविदारध्वजोरणे/अपिद्रक्ष्यामिभरतंयत्कृतेव्यसनंमहत्/त्वयाराघवसंप्राप्तंसीतयाचमयातथा/यन्निमित्तंभवान्राज्याच्च्युतोराघवशाश्वतीम्/संप्राप्तोऽयमरिर्वीरभरतोवध्यएवमे/भरतस्यवधेदोषंनाहंपश्यामिराघव/पूर्वापकरिणांत्यागेनह्यधर्मोविधीयते/एतस्मिन्न्निहतेकृत्स्नामनुशाधिवसुंधराम्/अद्यपुत्रंहतंसंख्येकैकेयीराज्यकामुका/मयापश्येत्सुदुःखार्ताहस्तिभग्नमिवद्रुमम्/कैकेयींचवधिष्यामिसानुबन्धांसबान्धवाम्/कलुषेणाद्यमहतामेदिनीपरिमुच्यताम्/अद्येमंसंयतंक्रोधमसत्कारंचमानद/मोक्ष्यामिशत्रुसैन्येषुकक्षेष्विवहुताशनम्/अद्यैतच्चित्रकूटस्यकाननंनिशितैःशरैः/भिन्दञ्शत्रुशरीराणिकरिष्येशोणितोक्षितम्/शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा/श्वापदाःपरिकर्षन्तुनराश्चनिहतान्मया/शराणांधनुषश्चाहमनृणोऽस्मिमहावने/ससैन्यंभरतंहत्वाभविष्यामिनसंशयः29630/सुसंरब्धंतुसौमित्रिंलक्ष्मणंक्रोधमूर्छितम्/रामस्तुपरिसान्त्व्याथवचनंचेदमब्रवीत्2971/किमत्रधनुषाकार्यमसिनावासचर्मणा/महेष्वासेमहाप्राज्ञेभरतेस्वयमागते/प्राप्तकालंयदेषोऽस्मान्भरतोद्रष्टुमिच्छति/अस्मासुमनसाप्येषनाहितंकिंचिदाचरेत्/विप्रियंकृतपूर्वंतेभरतेनकदानकिम्/ईदृशंवाभयंतेऽद्यभरतंयोऽत्रशङ्कसे/नहितेनिष्ठुरंवाच्योभरतोनाप्रियंवचः/अहंह्यप्रियमुक्तःस्यांभरतस्याप्रियेकृते/कथंनुपुत्राःपितरंहन्युःकस्यांचिदापदि/भ्रातावाभ्रातरंहन्यात्सौमित्रेप्राणमात्मनः/यदिराज्यस्यहेतोस्त्वमिमांवाचंप्रभाषसे/वक्ष्यामिभरतंदृष्ट्वाराज्यमस्मैप्रदीयताम्/उच्यमानोहिभरतोमयालक्ष्मणतत्त्वतः/राज्यमस्मैप्रयच्छेतिबाढमित्येववक्ष्यति/तथोक्तोधर्मशीलेनभ्रात्रातस्यहितेरतः/लक्ष्मणःप्रविवेशेवस्वानिगात्राणिलज्जया/व्रीडितंलक्ष्मणंदृष्ट्वाराघवःप्रत्युवाचह/एषमन्येमहाबाहुरिहास्मान्द्रष्टुमागतः/वनवासमनुध्यायगृहायप्रतिनेष्यति/इमांवाप्येशवैदेहीमत्यन्तसुखसेविनीम्/एतौतौसंप्रकाशेतेगोत्रवन्तौमनोरमौ/वायुवेगसमौवीरजवनौतुरगोत्तमौ/सएषसुमहाकायःकम्पतेवाहिनीमुखे/नागःशत्रुंजयोनामवृद्धस्तातस्यधीमतः/अवतीर्यतुसालाग्रात्तस्मात्ससमितिंजयः/लक्ष्मणःप्राञ्जलिर्भूत्वातस्थौरामस्यपार्श्वतः/भरतेनाथसंदिष्टासंमर्दोनभवेदिति/समन्तात्तस्यशैलस्यसेनावासमकल्पयत्/अध्यर्धमिक्ष्वाकुचमूर्योजनंपर्वतस्यसा/पार्श्वेन्यविशदावृत्यगजवाजिरथाकुला/साचित्रकूटेभरतेनसेना॑धर्मंपुरस्कृत्यविधूयदर्पम्/प्रसादनार्थंरघुनन्दनस्य॑विरोचतेनीतिमताप्रणीता29731/निवेश्यसेनांतुविभुःपद्भ्यांपादवतांवरः/अभिगन्तुंसकाकुत्स्थमियेषगुरुवर्तकम्2981/निविष्टमात्रेसैन्येतुयथोद्देशंविनीतवत्/भरतोभ्रातरंवाक्यंशत्रुघ्नमिदमब्रवीत्/क्षिप्रंवनमिदंसौम्यनरसंघैःसमन्ततः/लुब्धैश्चसहितैरेभिस्त्वमन्वेषितुमर्हसि/यावन्नरामंद्रक्ष्यामिलक्ष्मणंवामहाबलम्/वैदेहींवामहाभागांनमेशान्तिर्भविष्यति/यावन्नचन्द्रसंकाशंद्रक्ष्यामिशुभमाननम्/भ्रातुःपद्मपलाशाक्षंनमेशान्तिर्भविष्यति/यावन्नचरणौभ्रातुःपार्थिवव्यञ्जनान्वितौ/शिरसाधारयिष्यामिनमेशान्तिर्भविष्यति/यावन्नराज्येराज्यार्हःपितृपैतामहेस्थितः/अभिषेकजलक्लिन्नोनमेशान्तिर्भविष्यति/कृतकृत्यामहाभागावैदेहीजनकात्मजा/भर्तारंसागरान्तायाःपृथिव्यायानुगच्छति/सुभगश्चित्रकूटोऽसौगिरिराजोपमोगिरिः/यस्मिन्वसतिकाकुत्स्थःकुबेरइवनन्दने/कृतकार्यमिदंदुर्गंवनंव्यालनिषेवितम्/यदध्यास्तेमहातेजारामःशस्त्रभृतांवरः/एवमुक्त्वामहातेजाभरतःपुरुषर्षभः/पद्भ्यामेवमहातेजाःप्रविवेशमहद्वनम्/सतानिद्रुमजालानिजातानिगिरिसानुषु/पुष्पिताग्राणिमध्येनजगामवदतांवरः/सगिरेश्चित्रकूटस्यसालमासाद्यपुष्पितम्/रामाश्रमगतस्याग्नेर्ददर्शध्वजमुच्छ्रितम्/तंदृष्ट्वाभरतःश्रीमान्मुमोदसहबान्धवः/अत्ररामइतिज्ञात्वागतःपारमिवाम्भसः/सचित्रकूटेतुगिरौनिशाम्य॑रामाश्रमंपुण्यजनोपपन्नम्/गुहेनसार्धंत्वरितोजगाम॑पुनर्निवेश्यैवचमूंमहात्मा29818/निविष्टायांतुसेनायामुत्सुकोभरतस्तदा/जगामभ्रातरंद्रष्टुंशत्रुघ्नमनुदर्शयन्2991/ऋषिंवसिष्ठंसंदिश्यमातॄर्मेशीघ्रमानय/इतितरितमग्रेसजागमगुरुवत्सलः/सुमन्त्रस्त्वपिशतुघ्नमदूरादन्वपद्यत/रामदार्शनजस्तर्षोभरतस्येवतस्यच/गच्छन्नेवाथभरतस्तापसालयसंस्थिताम्/भ्रातुःपर्णकुटींश्रीमानुटजंचददर्शह/शालायास्त्वग्रतस्तस्याददर्शभरतस्तदा/काष्टानिचावभग्नानिपुष्पाण्यवचितानिच/ददर्शचवनेतस्मिन्महतःसंचयान्कृतान्/मृगाणांमहिषाणांचकरीषैःशीतकारणात्/गच्छनेवमहाबाहुर्द्युतिमान्भरतस्तदा/शत्रुघ्नंचाब्रवीद्धृष्टस्तानमात्यांश्चसर्वशः/मन्येप्राप्ताःस्मतंदेशंभरद्वाजोयमब्रवीत्/नातिदूरेहिमन्येऽहंनदींमन्दाकिनीमितः/उच्चैर्बद्धानिचीराणिलक्ष्मणेनभवेदयम्/अभिज्ञानकृतःपन्थाविकालेगन्तुमिच्छता/इदंचोदात्तदन्तानांकुञ्जराणांतरस्विनाम्/शैलपार्श्वेपरिक्रान्तमन्योन्यमभिगर्जताम्/यमेवाधातुमिच्छन्तितापसाःसततंवने/तस्यासौदृश्यतेधूमःसंकुलःकृष्टवर्त्मनः/अत्राहंपुरुषव्याघ्रंगुरुसत्कारकारिणम्/आर्यंद्रक्ष्यामिसंहृष्टोमहर्षिमिवराघवम्/अथगत्वामुहूर्तंतुचित्रकूटंसराघवः/मन्दाकिनीमनुप्राप्तस्तंजनंचेदमब्रवीत्/जगत्यांपुरुषव्याघ्रआस्तेवीरासनेरतः/जनेन्द्रोनिर्जनंप्राप्यधिन्मेजन्मसजीवितम्/मत्कृतेव्यसनंप्राप्तोलोकनाथोमहाद्युतिः/सरान्कामान्परित्यज्यवनेवसतिराघवः/इतिलोकसमाक्रुष्टःपादेष्वद्यप्रसादयन्/रामस्यनिपतिष्यामिसीतायाश्चपुनःपुनः/एवंसविलपंस्तस्मिन्वनेदशरथात्मजः/ददर्शमहतींपुण्यांपर्णशालांमनोरमाम्/सालतालाश्वकर्णानांपर्णैर्बहुभिरावृताम्/विशालांमृदुभिस्तीर्णांकुशैर्वेदिमिवाध्वरे/शक्रायुधनिकाशैश्चकार्मुकैर्भारसाधनैः/रुक्मपृष्ठैर्महासारैःशोभितांशत्रुबाधकैः/अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैःशरैः/शोभितांदीप्तवदनैःसर्पैर्भोगवतीमिव/महारजतवासोभ्यामसिभ्यांचविराजिताम्/रुक्मबिन्दुविचित्राभ्यांचर्मभ्यांचापिशोभिताम्/गोधाङ्गुलित्रैरासाक्तैश्चित्रैःकाञ्चनभूषितैः/अरिसंघैरनाधृष्यांमृगैःसिंहगुहामिव/प्रागुदक्स्रवणांवेदिंविशालांदीप्तपावकाम्/ददर्शभरतस्तत्रपुण्यांरामनिवेशने/निरीक्ष्यसमुहूर्तंतुददर्शभरतोगुरुम्/उटजेराममासीनांजटामण्डलधारिणम्/तंतुकृष्णाजिनधरंचीरवल्कलवाससं/ददर्शराममासीनमभितःपावकोपमम्/सिंहस्कन्धंमहाबाहुंपुण्डरीकनिभेक्षणम्/पृथिव्याःसगरान्तायाभर्तारंधर्मचारिणम्/उपविष्टंमहाबाहुंब्रह्माणमिवशाश्वतम्/स्थण्डिलेदर्भसस्म्तीर्णेसीतयालक्ष्मणेनच/तंदृष्ट्वाभरतःश्रीमान्दुःखमोहपरिप्लुतः/अभ्यधावतधर्मात्माभरतःकैकयीसुतः/दृष्ट्वाचविललापार्तोबाष्पसंदिग्धयागिरा/अशक्नुवन्धारयितुंधैर्याद्वचनमब्रवीत्/यःसंसदिप्रकृतिभिर्भवेद्युक्तउपासितुम्/वन्यैर्मृगैरुपासीनःसोऽयमास्तेममाग्रजः/वासोभिर्बहुसाहस्रैर्योमहात्मापुरोचितः/मृगाजिनेसोऽयमिहप्रवस्तेधर्ममाचरन्/अधारयद्योविविधाश्चित्राःसुमनसस्तदा/सोऽयंजटाभारमिमंसहतेराघवःकथम्/यस्ययज्ञैर्यथादिष्टैर्युक्तोधर्मस्यसंचयः/शरीरक्लेशसंभूतंसधर्मंपरिमार्गते/चन्दनेनमहार्हेणयस्याङ्गमुपसेवितम्/मलेनतस्याङ्गमिदंकथमार्यस्यसेव्यते/मन्निमित्तमिदंदुःखंप्राप्तोरामःसुखोचितः/धिग्जीवितंनृशंसस्यममलोकविगर्हितम्/इत्येवंविलपन्दीनःप्रस्विन्नमुखपङ्कजः/पादावप्राप्यरामस्यपपातभरतोरुदन्/दुःखाभितप्तोभरतोराजपुत्रोमहाबलः/उक्त्वार्येतिसकृद्दीनंपुनर्नोवाचकिंचन/बाष्पापिहितकण्ठश्चप्रेक्ष्यरामंयशस्विनम्/आर्येत्येवाभिसंक्रुश्यव्याहर्तुंनाशकत्ततः/शत्रुघ्नश्चापिरामस्यववन्देचरणौरुदन्/तावुभौससमालिङ्ग्यरामोऽप्यश्रूण्यवर्तयत्/ततःसुमन्त्रेणगुहेनचैव॑समीयतूराजसुतावरण्ये/दिवाकरश्चैवनिशाकरश्च॑यथाम्बरेशुक्रबृहस्पतिभ्याम्/तान्पार्थिवान्वारणयूथपाभान्॑समागतांस्तत्रमहत्यरण्ये/वनौकसस्तेऽपिसमीक्ष्यसर्वेऽप्य्॑अश्रूण्यमुञ्चन्प्रविहायहर्षम्29942/आघ्रायरामस्तंमूर्ध्निपरिष्वज्यचराघवः/अङ्केभरतमारोप्यपर्यपृच्छत्समाहितः21003/क्वनुतेऽभूत्पितातातयदरण्यंत्वमागतः/नहित्वंजीवतस्तस्यवनमागन्तुमर्हसि/चिरस्यबतपश्यामिदूराद्भरतमागतम्/दुष्प्रतीकमरण्येऽस्मिन्किंतातवनमागतः/कच्चिद्दशरथोराजाकुशलीसत्यसंगरः/राजसूयाश्वमेधानामाहर्ताधर्मनिश्चयः/सकच्चिद्ब्राह्मणोविद्वान्धर्मनित्योमहाद्युतिः/इक्ष्वाकूणामुपाध्यायोयथावत्तातपूज्यते/तातकच्चिच्चकौसल्यासुमित्राचप्रजावती/सुखिनीकच्चिदार्याचदेवीनन्दतिकैकयी/कच्चिद्विनयसंपन्नःकुलपुत्रोबहुश्रुतः/अनसूयुरनुद्रष्टासत्कृतस्तेपुरोहितः/कच्चिदग्निषुतेयुक्तोविधिज्ञोमतिमानृजुः/हुतंचहोष्यमाणंचकालेवेदयतेसदा/इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम्/सुधन्वानमुपाध्यायंकच्चित्त्वंतातमन्यसे/कच्चिदात्मसमाःशूराःश्रुतवन्तोजितेन्द्रियाः/कुलीनाश्चेङ्गितज्ञाश्चकृतास्तेतातमन्त्रिणः/मन्त्रोविजयमूलंहिराज्ञांभवतिराघव/सुसंवृतोमन्त्रधरैरमात्यैःशास्त्रकोविदैः/कच्चिन्निद्रावशंनैषिकच्चित्कालेविबुध्यसे/कच्चिंश्चापररात्रिषुचिन्तयस्यर्थनैपुणम्/कच्चिन्मन्त्रयसेनैकःकच्चिन्नबहुभिःसह/कच्चित्तेमन्त्रितोमन्त्रोराष्ट्रंनपरिधावति/कच्चिदर्थंविनिश्चित्यलघुमूलंमहोदयम्/क्षिप्रमारभसेकर्तुंनदीर्घयसिराघव/कच्चित्तुसुकृतान्येवकृतरूपाणिवापुनः/विदुस्तेसर्वकार्याणिनकर्तव्यानिपार्थिवाः/कच्चिन्नतर्कैर्युक्त्वावायेचाप्यपरिकीर्तिताः/त्वयावातववामात्यैर्बुध्यतेतातमन्त्रितम्/कच्चित्सहस्रान्मूर्खाणामेकमिच्छसिपण्डितम्/पण्डितोह्यर्थकृच्छ्रेषुकुर्यान्निःश्रेयसंमहत्/सहस्राण्यपिमूर्खाणांयद्युपास्तेमहीपतिः/अथवाप्ययुतान्येवनास्तितेषुसहायता/एकोऽप्यमात्योमेधावीशूरोदक्षोविचक्षणः/राजानंराजमात्रंवाप्रापयेन्महतींश्रियम्/कच्चिन्मुख्यामहत्स्वेवमध्यमेषुचमध्यमाः/जघन्याश्चजघन्येषुभृत्याःकर्मसुयोजिताः/अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्/श्रेष्ठाञ्श्रेष्ठेषुकच्चित्त्वंनियोजयसिकर्मसु/कच्चित्त्वांनावजानन्तियाजकाःपतितंयथा/उग्रप्रतिग्रहीतारंकामयानमिवस्त्रियः/उपायकुशलंवैद्यंभृत्यसंदूषणेरतम्/शूरमैश्वर्यकामंचयोनहन्तिसवध्यते/कच्चिद्धृष्टश्चशूरश्चधृतिमान्मतिमाञ्शुचिः/कुलीनश्चानुरक्तश्चदक्षःसेनापतिःकृतः/बलवन्तश्चकच्चित्तेमुख्यायुद्धविशारदाः/दृष्टापदानाविक्रान्तास्त्वयासत्कृत्यमानिताः/कचिद्बलस्यभक्तंचवेतनंचयथोचितम्/संप्राप्तकालंदातव्यंददासिनविलम्बसे/कालातिक्रमणेह्येवभक्तवेतनयोर्भृताः/भर्तुःकुप्यन्तिदुष्यन्तिसोऽनर्थःसुमहान्स्मृतः/कच्चित्सर्वेऽनुरक्तास्त्वांकुलपुत्राःप्रधानतः/कच्चित्प्राणांस्तवार्थेषुसंत्यजन्तिसमाहिताः/कच्चिज्जानपदोविद्वान्दक्षिणःप्रतिभानवान्/यथोक्तवादीदूतस्तेकृतोभरतपण्डितः/कच्चिदष्टादशान्येषुस्वपक्षेदशपञ्चच/त्रिभिस्त्रिभिरविज्ञातैर्वेत्सितीर्थानिचारकैः/कच्चिद्व्यपास्तानहितान्प्रतियातांश्चसर्वदा/दुर्बलाननवज्ञायवर्तसेरिपुसूदन/कच्चिन्नलोकायतिकान्ब्राह्मणांस्तातसेवसे/अनर्थकुशलाह्येतेबालाःपण्डितमानिनः/धर्मशास्त्रेषुमुख्येषुविद्यमानेषुदुर्बुधाः/बुद्धिमान्वीक्षिकींप्राप्यनिरर्थंप्रवदन्तिते/वीरैरध्युषितांपूर्वमस्माकंतातपूर्वकैः/सत्यनामांदृढद्वारांहस्त्यश्वरथसंकुलाम्/ब्राह्मणैःक्षत्रियैर्वैश्यैःस्वकर्मनिरतैःसदा/जितेन्द्रियैर्महोत्साहैर्वृतामात्यैःसहस्रशः/प्रासादैर्विविधाकारैर्वृतांवैद्यजनाकुलाम्/कच्चित्समुदितांस्फीतामयोध्यांपरिरक्षसि/कच्चिच्चैत्यशतैर्जुष्टःसुनिविष्टजनाकुलः/देवस्थानैःप्रपाभिश्चतडागैश्चोपशोभितः/प्रहृष्टनरनारीकःसमाजोत्सवशोभितः/सुकृष्टसीमापशुमान्हिंसाभिरभिवर्जितः/अदेवमातृकोरम्यःश्वापदैःपरिवर्जितः/कच्चिज्जनपदःस्फीतःसुखंवसतिराघव/कच्चित्तेदयिताःसर्वेकृषिगोरक्षजीविनः/वार्तायांसंश्रितस्तातलोकोहिसुखमेधते/तेषांगुप्तिपरीहारैःकच्चित्तेभरणंकृतम्/रक्ष्याहिराज्ञाधर्मेणसर्वेविषयवासिनः/कच्चित्स्त्रियःसान्त्वयसिकच्चित्ताश्चसुरक्षिताः/कच्चिन्नश्रद्दधास्यासांकच्चिद्गुह्यंनभाषसे/कच्चिन्नागवनंगुप्तंकुञ्जराणंचतृप्यसि/कच्चिद्दर्शयसेनित्यंमनुष्याणांविभूषितम्/उत्थायोत्थायपूर्वाह्णेराजपुत्रोमहापथे/कच्चित्सर्वाणिदुर्गाणिधनधान्यायुधोदकैः/यन्त्रैश्चपरिपूर्णानितथाशिल्पिधनुर्धरैः/आयस्तेविपुलःकच्चित्कच्चिदल्पतरोव्ययः/अपात्रेषुनतेकच्चित्कोशोगच्छतिराघव/देवतार्थेचपित्रर्थेब्राह्मणाभ्यागतेषुच/योधेषुमित्रवर्गेषुकच्चिद्गच्छतितेव्ययः/कच्चिदार्योविशुद्धात्माक्षारितश्चोरकर्मणा/अपृष्टःशास्त्रकुशलैर्नलोभाद्बध्यतेशुचिः/गृहीतश्चैवपृष्टश्चकालेदृष्टःसकारणः/कच्चिन्नमुच्यतेचोरोधनलोभान्नरर्षभ/व्यसनेकच्चिदाढ्यस्यदुगतस्यचराघव/अर्थंविरागाःपश्यन्तितवामात्याबहुश्रुताः/यानिमिथ्याभिशस्तानांपतन्त्यस्राणिराघव/तानिपुत्रपशून्घ्नन्तिप्रीत्यर्थमनुशासतः/कच्चिद्वृधांश्चबालांश्चवैद्यमुख्यांश्चराघव/दानेनमनसावाचात्रिभिरेतैर्बुभूषसे/कच्चिद्गुरूंश्चवृद्धांश्चतापसान्देवतातिथीन्/चैत्यांश्चसर्वान्सिद्धार्थान्ब्राह्मणांश्चनमस्यसि/कच्चिदर्थेनवाधर्मंधर्मंधर्मेणवापुनः/उभौवाप्रीतिलोभेनकामेननविबाधसे/कच्चिदर्थंचधर्मंचकामंचजयतांवर/विभज्यकालेकालज्ञसर्वान्भरतसेवसे/कच्चित्तेब्राह्मणाःशर्मसर्वशास्त्रार्थकोविदः/आशंसन्तेमहाप्राज्ञपौरजानपदैःसह/नास्तिक्यमनृतंक्रोधंप्रमादंदीर्घसूत्रताम्/अदर्शनंज्ञानवतामालस्यंपञ्चवृत्तिताम्/एकचिन्तनमर्थानामनर्थज्ञैश्चमन्त्रणम्/निश्चितानामनारम्भंमन्त्रस्यापरिलक्षणम्/मङ्गलस्याप्रयोगंचप्रत्युत्थानंचसर्वशः/कच्चित्त्वंवर्जयस्येतान्राजदोषांश्चतुर्दश/कच्चित्स्वादुकृतंभोज्यमेकोनाश्नासिराघव/कच्चिदाशंसमानेभ्योमित्रेभ्यःसंप्रयच्छसि210075/रामस्यवचनंश्रुत्वाभरतःप्रत्युवाचह/किंमेधर्माद्विहीनस्यराजधर्मःकरिष्यति21021/शाश्वतोऽयंसदाधर्मःस्थितोऽस्मासुनरर्षभ/ज्येष्ठपुत्रेस्थितेराजन्नकनीयान्भवेन्नृपः/ससमृद्धांमयासार्धमयोध्यांगच्छराघव/अभिषेचयचात्मानंकुलस्यास्यभवायनः/राजानंमानुषंप्राहुर्देवत्वेसंमतोमम/यस्यधर्मार्थसहितंवृत्तमाहुरमानुषम्/केकयस्थेचमयितुत्वयिचारण्यमाश्रिते/दिवमार्यगतोराजायायजूकःसतांमतः/उत्तिष्ठपुरुषव्याघ्रक्रियतामुदकंपितुः/अहंचायंचशत्रुघ्नःपूर्वमेवकृतोदकौ/प्रियेणकिलदत्तंहिपितृलोकेषुराघव/अक्षय्यंभवतीत्याहुर्भवांश्चैवपितुःप्रियः21028/तांश्रुत्वाकरुणांवाचंपितुर्मरणसंहिताम्/राघवोभरतेनोक्तांबभूवगतचेतनः21031/वाग्वज्रंभरतेनोक्तममनोज्ञंपरंतपः/प्रगृह्यबाहूरामोवैपुष्पिताग्रोयथाद्रुमः/वनेपरशुनाकृत्तस्तथाभुविपपातह/तथाहिपतितंरामंजगत्यांजगतीपतिम्/कूलघातपरिश्रान्तंप्रसुप्तमिवकुञ्जरम्/भ्रातरस्तेमहेष्वासंसर्वतःशोककर्शितम्/रुदन्तःसहवैदेह्यासिषिचुःसलिलेनवै/सतुसंज्ञांपुनर्लब्ध्वानेत्राभ्यामास्रमुत्सृजन्/उपाक्रामतकाकुत्स्थःकृपणंबहुभाषितुम्/किंनुतस्यमयाकार्यंदुर्जातेनमहात्मना/योमृतोममशोकेननमयाचापिसंस्कृतः/अहोभरतसिद्धार्थोयेनराजात्वयानघ/शत्रुघेणचसर्वेषुप्रेतकृत्येषुसत्कृतः/निष्प्रधानामनेकाग्रंनरेन्द्रेणविनाकृताम्/निवृत्तवनवासोऽपिनायोध्यांगन्तुमुत्सहे/समाप्तवनवासंमामयोध्यायांपरंतप/कोनुशासिष्यतिपुनस्तातेलोकान्तरंगते/पुराप्रेक्ष्यसुवृत्तंमांपितायान्याहसान्त्वयन्/वाक्यानितानिश्रोष्यामिकुतःकर्णसुखान्यहम्/एवमुक्त्वासभरतंभार्यामभ्येत्यराघवः/उवाचशोकसंतप्तःपूर्णचन्द्रनिभाननाम्/सीतेमृतस्तेश्वशुरःपित्राहीनोऽसिलक्ष्मण/भरतोदुःखमाचष्टेस्वर्गतंपृथिवीपतिम्/सान्त्वयित्वातुतांरामोरुदन्तींजनकात्मजाम्/उवाचलक्ष्मणंतत्रदुःखितोदुःखितंवचः/आनयेङ्गुदिपिण्याकंचीरमाहरचोत्तरम्/जलक्रियार्थंतातस्यगमिष्यामिमहात्मनः/सीतापुरस्ताद्व्रजतुत्वमेनामभितोव्रज/अहंपश्चाद्गमिष्यामिगतिर्ह्येषासुदारुणा/ततोनित्यानुगस्तेषांविदितात्मामहामतिः/मृदुर्दान्तश्चशान्तश्चरामेचदृढभक्तिमान्/सुमन्त्रस्तैर्नृपसुतैःसार्धमाश्वास्यराघवम्/अवातारयदालम्ब्यनदींमन्दाकिनींशिवाम्/तेसुतीर्थांततःकृच्छ्रादुपागम्ययशस्विनः/नदींमन्दाकिनींरम्यांसदापुष्पितकाननाम्/शीघ्रस्रोतसमासाद्यतीर्थंशिवमकर्दमम्/सिषिचुस्तूदकंराज्ञेततएतद्भवत्विति/प्रगृह्यचमहीपालोजलपूरितमञ्जलिम्/दिशंयाम्यामभिमुखोरुदन्वचनमब्रवीत्/एतत्तेराजशार्दूलविमलंतोयमक्षयम्/पितृलोकगतस्याद्यमद्दत्तमुपतिष्ठतु/ततोमन्दाकिनीतीरात्प्रत्युत्तीर्यसराघवः/पितुश्चकारतेजस्वीनिवापंभ्रातृभिःसह/ऐङ्गुदंबदरीमिश्रंपिण्याकंदर्भसंस्तरे/न्यस्यरामःसुदुःखार्तोरुदन्वचनमब्रवीत्/इदंभुङ्क्ष्वमहाराजप्रीतोयदशनावयम्/यदन्नःपुरुषोभवतितदन्नास्तस्यदेवताः/ततस्तेनैवमार्गेणप्रत्युत्तीर्यनदीतटात्/आरुरोहनरव्याघ्रोरम्यसानुंमहीधरम्/ततःपर्णकुटीद्वारमासाद्यजगतीपतिः/परिजग्राहपाणिभ्यामुभौभरतलक्ष्मणौ/तेषांतुरुदतांशब्दात्प्रतिश्रुत्काभवद्गिरौ/भ्रातॄणांसहवैदेह्यासिंहानांनर्दतामिव/विज्ञायतुमुलंशब्दंत्रस्ताभरतसैनिकाः/अब्रुवंश्चापिरामेणभरतःसंगतोध्रुवम्/तेषामेवमहाञ्शब्दःशोचतांपितरंमृतम्/अथवासान्परित्यज्यतंसर्वेऽभिमुखाःस्वनम्/अप्येकमनसोजग्मुर्यथास्थानंप्रधाविताः/हयैरन्येगजैरन्येरथैरन्येस्वलंकृतैः/सुकुमारास्तथैवान्येपद्भिरेवनराययुः/अचिरप्रोषितंरामंचिरविप्रोषितंयथा/द्रष्टुकामोजनःसर्वोजगामसहसाश्रमम्/भ्रातॄणांत्वरितास्तेतुद्रष्टुकामाःसमागमम्/ययुर्बहुविधैर्यानैःखुरनेमिसमाकुलैः/साभूमिर्बहुभिर्यानैःखुरनेमिसमाहता/मुमोचतुमुलंशब्दंद्यौरिवाभ्रसमागमे/तेनवित्रासितानागाःकरेणुपरिवारिताः/आवासयन्तोगन्धेनजग्मुरन्यद्वनंततः/वराहमृगसिंहाश्चमहिषाःसर्क्षवानराः/व्याघ्रगोकर्णगवयावित्रेषुःपृषतैःसह/रथाङ्गसाह्वानत्यूहाहंसाःकारण्डवाःप्लवाः/तथापुंस्कोकिलाःक्रौञ्चाविसंज्ञाभेजिरेदिशः/तेनशब्देनवित्रस्तैराकाशंपक्षिभिर्वृतम्/मनुष्यैरावृताभूमिरुभयंप्रबभौतदा/तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथसुदुःखितान्/पर्यष्वजतधर्मज्ञःपितृवन्मातृवच्चसः/सतत्रकांश्चित्परिषस्वजेनरान्॑नराश्चकेचित्तुतमभ्यवादयन्/चकारसर्वान्सवयस्यबान्धवान्॑यथार्हमासाद्यतदानृपात्मजः/ततःसतेषांरुदतांमहात्मनां॑भुवंचखंचानुविनादयन्स्वनः/गुहागिरीणांचदिशश्चसंततं॑मृदङ्गघोषप्रतिमोविशुश्रुवे210349/वसिष्ठःपुरतःकृत्वादारान्दशरथस्यच/अभिचक्रामतंदेशंरामदर्शनतर्षितः21041/राजपत्न्यश्चगच्छन्त्योमन्दंमन्दाकिनींप्रति/ददृशुस्तत्रतत्तीर्थंरामलक्ष्मणसेवितम्/कौसल्याबाष्पपूर्णेनमुखेनपरिशुष्यता/सुमित्रामब्रवीद्दीनायाश्चान्याराजयोषितः/इदंतेषामनाथानांक्लिष्टमक्लिष्टकर्मणाम्/वनेप्राक्केवलंतीर्थंयेतेनिर्विषयीकृताः/इतःसुमित्रेपुत्रस्तेसदाजलमतन्द्रितः/स्वयंहरतिसौमित्रिर्ममपुत्रस्यकारणात्/दक्षिणाग्रेषुदर्भेषुसाददर्शमहीतले/पितुरिङ्गुदिपिण्याकंन्यस्तमायतलोचना/तंभूमौपितुरार्तेनन्यस्तंरामेणवीक्ष्यसा/उवाचदेवीकौसल्यासर्वादशरथस्त्रियः/इदमिक्ष्वाकुनाथस्यराघवस्यमहात्मनः/राघवेणपितुर्दत्तंपश्यतैतद्यथाविधि/तस्यदेवसमानस्यपार्थिवस्यमहात्मनः/नैतदौपयिकंमन्येभुक्तभोगस्यभोजनम्/चतुरन्तांमहींभुक्त्वामहेन्द्रसदृशोभुवि/कथमिङ्गुदिपिण्याकंसभुङ्क्तेवसुधाधिपः/अतोदुःखतरंलोकेनकिंचित्प्रतिभातिमा/यत्ररामःपितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान्/रामेणेङ्गुदिपिण्याकंपितुर्दत्तंसमीक्ष्यमे/कथंदुःखेनहृदयंनस्फोटतिसहस्रधा/एवमार्तांसपत्न्यस्ताजग्मुराश्वास्यतांतदा/ददृशुश्चाश्रमेरामंस्वर्गाच्च्युतमिवामरम्/सर्वभोगैःपरित्यक्तंरामसंप्रेक्ष्यमातरः/आर्तामुमुचुरश्रूणिसस्वरंशोककर्शिताः/तासांरामःसमुत्थायजग्राहचरणाञ्शुभान्/मातॄणांमनुजव्याघ्रःसर्वासांसत्यसंगरः/ताःपाणिभिःसुखस्पर्शैर्मृद्वङ्गुलितलैःशुभैः/प्रममार्जूरजःपृष्ठाद्रामस्यायतलोचनाः/सौमित्रिरपिताःसर्वामातॄह्संप्रेक्ष्यदुःखितः/अभ्यवादयतासक्तंशनैरामादनन्तरम्/यथारामेतथातस्मिन्सर्वाववृतिरेस्त्रियः/वृत्तिंदशरथाज्जातेलक्ष्मणेशुभलक्षणे/सीतापिचरणांस्तासामुपसंगृह्यदुःखिता/श्वश्रूणामश्रुपूर्णाक्षीसाबभूवाग्रतःस्थिता/तांपरिष्वज्यदुःखार्तांमातादुहितरंयथा/वनवासकृशांदीनांकौसल्यावाक्यमब्रवीत्/विदेहराजस्यसुतास्नुषादशरथस्यच/रामपत्नीकथंदुःखंसंप्राप्तानिर्जनेवने/पद्ममातपसंतप्तंपरिक्लिष्टमिवोत्पलम्/काञ्चनंरजसाध्वस्तंक्लिष्टंचन्द्रमिवाम्बुदैः/मुखंतेप्रेक्ष्यमांशोकोदहत्यग्निरिवाश्रयम्/भृशंमनसिवैदेहिव्यसनारणिसंभवः/ब्रुवन्त्यामेवमार्तायांजनन्यांभरताग्रजः/पादावासाद्यजग्राहवसिष्ठस्यसराघवः/पुरोहितस्याग्निसमस्यतस्यवै॑बृहस्पतेरिन्द्रइवामराधिपः/प्रगृह्यपादौसुसमृद्धतेजसः॑सहैवतेनोपविवेशराघवः/ततोजघन्यंसहितैःसमन्त्रिभिः॑पुरप्रधानैश्चसहैवसैनिकैः/जनेनधर्मज्ञतमेनधर्मवान्॑उपोपविष्टोभरतस्तदाग्रजम्/उपोपविष्टस्तुतदासवीर्यवांस्॑तपस्विवेषेणसमीक्ष्यराघवम्/श्रियाज्वलन्तंभरतःकृताञ्जलिर्॑यथामहेन्द्रःप्रयतःप्रजापतिम्/किमेषवाक्यंभरतोऽद्यराघवं॑प्रणम्यसत्कृत्यचसाधुवक्ष्यति/इतीवतस्यार्यजनस्यतत्त्वतो॑बभूवकौतूहलमुत्तमंतदा/सराघवःसत्यधृतिश्चलक्ष्मणो॑महानुभावोभरतश्चधार्मिकः/वृताःसुहृद्भिश्चविरेजुरध्वरे॑यथासदस्यैःसहितास्त्रयोऽग्नयः210432/तंतुरामःसमाश्वास्यभ्रातरंगुरुवत्सलम्/लक्ष्मणेनसहभ्रात्राप्रष्टुंसमुपचक्रमे/किमेतदिच्छेयमहंश्रोतुंप्रव्याहृतंत्वया/यस्मात्त्वमागतोदेशमिमंचीरजटाजिनी/यन्निमित्तमिमंदेशंकृष्णाजिनजटाधरः/हित्वाराज्यंप्रविष्टस्त्वंतत्सर्वंवक्तुमर्हसि/इत्युक्तःकेकयीपुत्रःकाकुत्स्थेनमहात्मना/प्रगृह्यबलवद्भूयःप्राञ्जलिर्वाक्यमब्रवीत्/आर्यंतातःपरित्यज्यकृत्वाकर्मसुदुष्करम्/गतःस्वर्गंमहाबाहुःपुत्रशोकाभिपीडितः/स्त्रियानियुक्तःकैकेय्यामममात्रापरंतप/चकारसुमहत्पापमिदमात्मयशोहरम्/साराज्यफलमप्राप्यविधवाशोककर्शिता/पतिष्यतिमहाघोरेनिरयेजननीमम/तस्यमेदासभूतस्यप्रसादंकर्तुमर्हसि/अभिषिञ्चस्वचाद्यैवराज्येनमघवानिव/इमाःप्रकृतयःसर्वाविधवामातुरश्चयाः/त्वत्सकाशमनुप्राप्ताःप्रसादंकर्तुमर्हसि/तदानुपूर्व्यायुक्तंचयुक्तंचात्मनिमानद/राज्यंप्राप्नुहिधर्मेणसकामान्सुहृदःकुरु/भवत्वविधवाभूमिःसमग्रापतिनात्वया/शशिनाविमलेनेवशारदीरजनीयथा/एभिश्चसचिवैःसार्धंशिरसायाचितोमया/भ्रातुःशिष्यस्यदासस्यप्रसादंकर्तुमर्हसि/तदिदंशाश्वतंपित्र्यंसर्वंसचिवमण्डलम्/पूजितंपुरुषव्याघ्रनातिक्रमितुमुत्सहे/एवमुक्त्वामहाबाहुःसबाष्पःकेकयीसुतः/रामस्यशिरसापादौजग्राहभरतःपुनः/तंमत्तमिवमातङ्गंनिःश्वसन्तंपुनःपुनः/भ्रातरंभरतंरामःपरिष्वज्येदमब्रवीत्/कुलीनःसत्त्वसंपन्नस्तेजस्वीचरितव्रतः/राज्यहेतोःकथंपापमाचरेत्त्वद्विधोजनः/नदोषंत्वयिपश्यामिसूक्ष्ममप्यरिसूदन/नचापिजननींबाल्यात्त्वंविगर्हितुमर्हसि/यावत्पितरिधर्मज्ञगौरवंलोकसत्कृते/तावद्धर्मभृतांश्रेष्ठजनन्यामपिगौरवम्/एताभ्यांधर्मशीलाभ्यांवनंगच्छेतिराघव/मातापितृभ्यामुक्तोऽहंकथमन्यत्समाचरे/त्वयाराज्यमयोध्यायांप्राप्तव्यंलोकसत्कृतम्/वस्तव्यंदण्डकारण्येमयावल्कलवाससा/एवंकृत्वामहाराजोविभागंलोकसंनिधौ/व्यादिश्यचमहातेजादिवंदशरथोगतः/सचप्रमाणंधर्मात्माराजालोकगुरुस्तव/पित्रादत्तंयथाभागमुपभोक्तुंत्वमर्हसि/चतुर्दशसमाःसौम्यदण्डकारण्यमाश्रितः/उपभोक्ष्येत्वहंदत्तंभागंपित्रामहात्मना/यदब्रवीन्मांनरलोकसत्कृतः॑पितामहात्माविबुधाधिपोपमः/तदेवमन्येपरमात्मनोहितं॑नसर्वलोकेश्वरभावमव्ययम्/ततःपुरुषसिंहानांवृतानांतैःसुहृद्गणैः/शोचतामेवरजनीदुःखेनव्यत्यवर्तत21051/रजन्यांसुप्रभातायांभ्रातरस्तेसुहृद्वृताः/मन्दाकिन्यांहुतंजप्यंकृत्वाराममुपागमन्/तूष्णींतेसमुपासीनानकश्चित्किंचिदब्रवीत्/भरतस्तुसुहृन्मध्येरामवचनमब्रवीत्/सान्त्वितामामिकामातादत्तंराज्यमिदंमम/तद्ददामितवैवाहंभुङ्क्ष्वराज्यमकण्टकम्/महतेवाम्बुवेगेनभिन्नःसेतुर्जलागमे/दुरावारंत्वदन्येनराज्यखण्डमिदंमहत्/गतिंखरइवाश्वस्यतार्क्ष्यस्येवपतत्रिणः/अनुगन्तुंनशक्तिर्मेगतिंतवमहीपते/सुजीवंनित्यशस्तस्ययःपरैरुपजीव्यते/रामतेनतुदुर्जीवंयःपरानुपजीवति/यथातुरोपितोवृक्षःपुरुषेणविवर्धितः/ह्रस्वकेनदुरारोहोरूढस्कन्धोमहाद्रुमः/सयदापुष्पितोभूत्वाफलानिनविदर्शयेत्/सतांनानुभवेत्प्रीतिंयस्यहेतोःप्रभावितः/एषोपमामहाबाहोत्वमर्थंवेत्तुमर्हसि/यदित्वमस्मानृषभोभर्ताभृत्यान्नशाधिहि/श्रेणयस्त्वांमहाराजपश्यन्त्वग्र्याश्चसर्वशः/प्रतपन्तमिवादित्यंराज्येस्थितमरिंदमम्/तवानुयानेकाकुत्ष्ठमत्तानर्दन्तुकुञ्जराः/अन्तःपुरगतानार्योनन्दन्तुसुसमाहिताः/तस्यसाध्वित्यमन्यन्तनागराविविधाजनाः/भरतस्यवचःश्रुत्वारामंप्रत्यनुयाचतः/तमेवंदुःखितंप्रेक्ष्यविलपन्तंयशस्विनम्/रामःकृतात्माभरतंसमाश्वासयदात्मवान्/नात्मनःकामकारोऽस्तिपुरुषोऽयमनीश्वरः/इतश्चेतरतश्चैनंकृतान्तःपरिकर्षति/सर्वेक्षयान्तानिचयाःपतनान्ताःसमुच्छ्रयाः/संयोगाविप्रयोगान्तामरणान्तंचजीवितम्/यथाफलानंपक्वानांनान्यत्रपतनाद्भयम्/एवंनरस्यजातस्यनान्यत्रमरणाद्भयम्/यथागारंदृढस्थूणंजीर्णंभूत्वावसीदति/तथावसीदन्तिनराजरामृत्युवशंगताः/अहोरात्राणिगच्छन्तिसर्वेषांप्राणिनामिह/आयूंषिक्षपयन्त्याशुग्रीष्मेजलमिवांशवः/आत्मानमनुशोचत्वंकिमन्यमनुशोचसि/आयुस्तेहीयतेयस्यस्थितस्यचगतस्यच/सहैवमृत्युर्व्रजतिसहमृत्युर्निषीदति/गत्वासुदीर्घमध्वानंसहमृत्युर्निवर्तते/गात्रेषुवलयःप्राप्ताःश्वेताश्चैवशिरोरुहाः/जरयापुरुषोजीर्णःकिंहिकृत्वाप्रभावयेत्/नन्दन्त्युदितआदित्येनन्दन्त्यस्तमितेरवौ/आत्मनोनावबुध्यन्तेमनुष्याजीवितक्षयम्/हृष्यन्त्यृतुमुखंदृष्ट्वानवंनवमिहागतम्/ऋतूनांपरिवर्तेनप्राणिनांप्राणसंक्षयः/यथाकाष्ठंचकाष्ठंचसमेयातांमहार्णवे/समेत्यचव्यपेयातांकालमासाद्यकंचन/एवंभार्याश्चपुत्राश्चज्ञातयश्चवसूनिच/समेत्यव्यवधावन्तिध्रुवोह्येषांविनाभवः/नात्रकश्चिद्यथाभावंप्राणीसमभिवर्तते/तेनतस्मिन्नसामर्थ्यंप्रेतस्यास्त्यनुशोचतः/यथाहिसार्थंगच्छन्तंब्रूयात्कश्चित्पथिस्थितः/अहमप्यागमिष्यामिपृष्ठतोभवतामिति/एवंपूर्वैर्गतोमार्गःपितृपैतामहोध्रुवः/तमापन्नःकथंशोचेद्यस्यनास्तिव्यतिक्रमः/वयसःपतमानस्यस्रोतसोवानिवर्तिनः/आत्मासुखेनियोक्तव्यःसुखभाजःप्रजाःस्मृताः/धर्मात्मासशुभैःकृत्स्नैःक्रतुभिश्चाप्तदक्षिणैः/धूतपापोगतःस्वर्गंपितानःपृथिवीपतिः/भृत्यानांभरणात्सम्यक्प्रजानांपरिपालनात्/अर्थादानाच्चधार्मेणपितानस्त्रिदिवंगतः/इष्ट्वाबहुविधैर्यज्ञैर्भोगांश्चावाप्यपुष्कलान्/उत्तमंचायुरासाद्यस्वर्गतःपृथिवीपतिः/सजीर्णंमानुषंदेहंपरित्यज्यपिताहिनः/दैवीमृद्धिमनुप्राप्तोब्रह्मलोकविहारिणीम्/तंतुनैवंविधःकश्चित्प्राज्ञःशोचितुमर्हति/त्वद्विधोयद्विधश्चापिश्रुतवान्बुद्धिमत्तरः/एतेबहुविधाःशोकाविलापरुदितेतथा/वर्जनीयाहिधीरेणसर्वावस्थासुधीमता/सस्वस्थोभवमाशोचोयात्वाचावसतांपुरीम्/तथापित्रानियुक्तोऽसिवशिनावदताम्व्वर/यत्राहमपितेनैवनियुक्तःपुण्यकर्मणा/तत्रैवाहंकरिष्यामिपितुरार्यस्यशासनम्/नमयाशासनंतस्यत्यक्तुंन्याय्यमरिंदम/तत्त्वयापिसदामान्यंसवैबन्धुःसनःपिता210542/एवमुक्त्वातुविरतेरामेवचनमर्थवत्/उवाचभरतश्चित्रंधार्मिकोधार्मिकंवचः21061/कोहिस्यादीदृशोलोकेयादृशस्त्वमरिंदम/नत्वांप्रव्यथयेद्दुःखंप्रीतिर्वानप्रहर्षयेत्/संमतश्चासिवृद्धानांतांश्चपृच्छसिसंशयान्/यथामृतस्तथाजीवन्यथासतितथासति/यस्यैषबुद्धिलाभःस्यात्परितप्येतकेनसः/सएवंव्यसनंप्राप्यनविषीदितुमर्हति/अमरोपमसत्त्वस्त्वंमहात्मासत्यसंगरः/सर्वज्ञःसर्वदर्शीचबुद्धिमांश्चासिराघव/नत्वामेवंगुणैर्युक्तंप्रभवाभवकोविदम्/अविषह्यतमंदुःखमासादयितुमर्हति/प्रोषितेमयियत्पापंमात्रामत्कारणात्कृतम्/क्षुद्रयातदनिष्टंमेप्रसीदतुभवान्मम/धर्मबन्धेनबद्धोऽस्मितेनेमांनेहमातरम्/हन्मितीव्रेणदण्डेनदण्डार्हांपापकारिणीम्/कथंदशरथाज्जातःशुद्धाभिजनकर्मणः/जानन्धर्ममधर्मिष्ठंकुर्यांकर्मजुगुप्सितम्/गुरुःक्रियावान्वृद्धश्चराजाप्रेतःपितेतिच/तातंनपरिगर्हेयंदैवतंचेतिसंसदि/कोहिधर्मार्थयोर्हीनमीदृशंकर्मकिल्बिषम्/स्त्रियाःप्रियचिकीर्षुःसन्कुर्याद्धर्मज्ञधर्मवित्/अन्तकालेहिभूतानिमुह्यन्तीतिपुराश्रुतिः/राज्ञैवंकुर्वतालोकेप्रत्यक्षासाश्रुतिःकृता/साध्वर्थमभिसंधायक्रोधान्मोहाच्चसाहसात्/तातस्ययदतिक्रान्तंप्रत्याहरतुतद्भवान्/पितुर्हिसमतिक्रान्तंपुत्रोयःसाधुमन्यते/तदपत्यंमतंलोकेविपरीतमतोऽन्यथा/तदपत्यंभवानस्तुमाभवान्दुष्कृतंपितुः/अभिपत्तत्कृतंकर्मलोकेधीरविगर्हितम्/कैकेयींमांचतातंचसुहृदोबान्धवांश्चनः/पौरजानपदान्सर्वांस्त्रातुसर्वमिदंभवान्/क्वचारण्यंक्वचक्षात्रंक्वजटाःक्वचपालनम्/ईदृशंव्याहतंकर्मनभवान्कर्तुमर्हति/अथक्लेशजमेवत्वंधर्मंचरितुमिच्छसि/धर्मेणचतुरोवर्णान्पालयन्क्लेशमाप्नुहि/चतुर्णामाश्रमाणांहिगार्हस्थ्यंश्रेष्ठमाश्रमम्/आहुर्धर्मज्ञधर्मज्ञास्तंकथंत्यक्तुमर्हसि/श्रुतेनबालःस्थानेनजन्मनाभवतोह्यहम्/सकथंपालयिष्यामिभूमिंभवतितिष्ठति/हीनबुद्धिगुणोबालोहीनःस्थानेनचाप्यहम्/भवताचविनाभूतोनवर्तयितुमुत्सहे/इदंनिखिलमव्यग्रंपित्र्यंराज्यमकण्टकम्/अनुशाधिस्वधर्मेणधर्मज्ञसहबान्धवैः/इहैवत्वाभिषिञ्चन्तुधर्मज्ञसहबान्धवैः/ऋत्विजःसवसिष्ठाश्चमन्त्रवन्मन्त्रकोविदाः/अभिषिक्तस्त्वमस्माभिरयोध्यांपालनेव्रज/विजित्यतरसालोकान्मरुद्भिरिववासवः/ऋणानित्रीण्यपाकुर्वन्दुर्हृदःसाधुनिर्दहन्/सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधिमाम्/अद्यार्यमुदिताःसन्तुसुहृदस्तेऽभिषेचने/अद्यभीताःपालयन्तांदुर्हृदस्तेदिशोदश/आक्रोशंमममातुश्चप्रमृज्यपुरुषर्षभ/अद्यतत्रभवन्तंचपितरंरक्षकिल्बिषात्/शिरसात्वाभियाचेऽहंकुरुष्वकरुणांमयि/बान्धवेषुचसर्वेषुभूतेष्विवमहेश्वरः/अथवापृष्ठतःकृत्वावनमेवभवानितः/गमिष्यतिगमिष्यामिभवतासार्धमप्यहम्/तथापिरामोभरतेनताम्यत॑प्रसाद्यमानःशिरसामहीपतिः/नचैवचक्रेगमनायसत्त्ववान्॑मतिंपितुस्तद्वचनेप्रतिष्ठितः/तदद्भुतंस्थैर्यमवेक्ष्यराघवे॑समंजनोहर्षमवाप/दुःखितः/नयात्ययोध्यामितिदुःखितोऽभवत्॑स्थिरप्रतिज्ञत्वमवेक्ष्यहर्षितः/तमृत्विजोनैगमयूथवल्लभास्॑तथाविसंज्ञाश्रुकलाश्चमातरः/तथाब्रुवाणंभरतंप्रतुष्टुवुः॑प्रणम्यरामंचययाचिरेसह210635/पुनरेवंब्रुवाणंतुभरतंलक्ष्मणाग्रजः/प्रत्युवचततःश्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः21071/उपपन्नमिदंवाक्यंयत्त्वमेवमभाषथाः/जातःपुत्रोदशरथात्कैकेय्यांराजसत्तमात्/पुराभ्रातःपितानःसमातरंतेसमुद्वहन्/मातामहेसमाश्रौषीद्राज्यशुल्कमनुत्तमम्/देवासुरेचसंग्रामेजनन्यैतवपार्थिवः/संप्रहृष्टोददौराजावरमाराधितःप्रभुः/ततःसासंप्रतिश्राव्यतवमातायशस्विनी/अयाचतनरश्रेष्ठंद्वौवरौवरवर्णिनी/तवराज्यंनरव्याघ्रममप्रव्राजनंतथा/तच्चराजातथातस्यैनियुक्तःप्रददौवरम्/तेनपित्राहमप्यत्रनियुक्तःपुरुषर्षभ/चतुर्दशवनेवासंवर्षाणिवरदानिकम्/सोऽहंवनमिदंप्राप्तोनिर्जनंलक्ष्मणान्वितः/शीतयाचाप्रतिद्वन्द्वःसत्यवादेस्थितःपितुः/भवानपितथेत्येवपितरंसत्यवादिनम्/कर्तुमर्हतिराजेन्द्रंक्षिप्रमेवाभिषेचनात्/ऋणान्मोचयराजानंमत्कृतेभरतप्रभुम्/पितरंत्राहिधर्मज्ञमातरंचाभिनन्दय/श्रूयतेहिपुरातातश्रुतिर्गीतायशस्विनी/गयेनयजमानेनगयेष्वेवपितॄन्प्रति/पुंनाम्नानरकाद्यस्मात्पितरंत्रायतेसुतः/तस्मात्पुत्रइतिप्रोक्तःपितॄन्यत्पातिवासुतः/एष्टव्याबहवःपुत्रागुणवन्तोबहुश्रुताः/तेषांवैसमवेतानामपिकश्चिद्गयांव्रजेत्/एवंराजर्षयःसर्वेप्रतीताराजनन्दन/तस्मात्त्राहिनरश्रेष्ठपितरंनरकात्प्रभो/अयोध्यांगच्छभरतप्रकृतीरनुरञ्जय/शत्रुघ्नसहितोवीरसहसर्वैर्द्विजातिभिः/प्रवेक्ष्येदण्डकारण्यमहमप्यविलम्बयन्/आभ्यांतुसहितोराजन्वैदेह्यालक्ष्मणेनच/त्वंराजाभवभरतस्वयंनराणां॑वन्यानामहमपिराजराण्मृगाणाम्/गच्छत्वंपुरवरमद्यसंप्रहृष्टः॑संहृष्टस्त्वहमपिदण्डकान्/प्रवेक्ष्ये/छायांतेदिनकरभाःप्रबाधमानं॑वर्षत्रंभरतकरोतुमूर्ध्नि/शीताम्/एतेषामहमपिकाननद्रुमाणां॑छायांतामतिशयिनींसुखंश्रयिष्ये/शत्रुघ्नःकुशलमतिस्तुतेसहायः॑सौमित्रिर्ममविदितः/प्रधानमित्रम्/चत्वारस्तनयवरावयंनरेन्द्रं॑सत्यस्थंभरतचराममाविषादम्210719/आश्वासयन्तंभरतंजाबालिर्ब्राह्मणोत्तमः/उवाचरामंधर्मज्ञंधर्मापेतमिदंवचः21081/साधुराघवमाभूत्तेबुद्धिरेवंनिरर्थका/प्राकृतस्यनरस्येवआर्यबुद्धेस्तपस्विनः/कःकस्यपुरुषोबन्धुःकिमाप्यंकस्यकेनचित्/यदेकोजायतेजन्तुरेकएवविनश्यति/तस्मान्मातापिताचेतिरामसज्जेतयोनरः/उन्मत्तइवसज्ञेयोनास्तिकाचिद्धिकस्यचित्/यथाग्रामान्तरंगच्छन्नरःकश्चित्क्वचिद्वसेत्/उत्सृज्यचतमावासंप्रतिष्ठेतापरेऽहनि/एवमेवमनुष्याणांपितामातागृहंवसु/आवासमात्रंकाकुत्स्थसज्जन्तेनात्रसज्जनाः/पित्र्यंराज्यंसमुत्सृज्यसनार्हतिनरोत्तम/आस्थातुंकापथंदुःखंविषमंबहुकण्टकम्/समृद्धायामयोध्यायामात्मानमभिषेचय/एकवेणीधराहित्वांनगरीसंप्रतीक्षते/राजभोगाननुभवन्महार्हान्पार्थिवात्मज/विहरत्वमयोध्यायांयथाशक्रस्त्रिविष्टपे/नतेकश्चिद्दशरतःस्त्वंचतस्यनकश्चन/अन्योराजात्वमन्यश्चतस्मात्कुरुयदुच्यते/गतःसनृपतिस्तत्रगन्तव्यंयत्रतेनवै/प्रवृत्तिरेषामर्त्यानांत्वंतुमिथ्याविहन्यसे/अर्थधर्मपरायेयेतांस्ताञ्शोचामिनेतरान्/तेहिदुःखमिहप्राप्यविनाशंप्रेत्यभेजिरे/अष्टकापितृदैवत्यमित्ययंप्रसृतोजनः/अन्नस्योपद्रवंपश्यमृतोहिकिमशिष्यति/यदिभुक्तमिहान्येनदेहमन्यस्यगच्छति/दद्यात्प्रवसतःश्राद्धंनतत्पथ्यशनंभवेत्/दानसंवननाह्येतेग्रन्थामेधाविभिःकृताः/यजस्वदेहिदीक्षस्वतपस्तप्यस्वसंत्यज/सनास्तिपरमित्येवकुरुबुद्धिंमहामते/प्रत्यक्षंयत्तदातिष्ठपरोक्षंपृष्ठतःकुरु/सतांबुद्धिंपुरस्कृत्यसर्वलोकनिदर्शिनीम्/राज्यंत्वंप्रतिगृह्णीष्वभरतेनप्रसादितः210818/जाबालेस्तुवचःश्रुत्वारामःसत्यात्मनांवरः/उवाचपरयायुक्त्यास्वबुद्ध्याचाविपन्नया21091/भवान्मेप्रियकामार्थंवचनंयदिहोक्तवान्/अकार्यंकार्यसंकाशमपथ्यंपथ्यसंमितम्/निर्मर्यादस्तुपुरुषःपापाचारसमन्वितः/मानंनलभतेसत्सुभिन्नचारित्रदर्शनः/कुलीनमकुलीनंवावीरंपुरुषमानिनम्/चारित्रमेवव्याख्यातिशुचिंवायदिवाशुचिम्/अनारय्स्त्वार्यसंकाशःशौचाद्धीनस्तथाशुचिः/लक्षण्यवदलक्षण्योदुःशीलःशीलवानिव/अधर्मंधर्मवेषेणयदीमंलोकसंकरम्/अभिपत्स्येशुभंहित्वाक्रियाविधिविवर्जितम्/कश्चेतयानःपुरुषःकार्याकार्यविचक्षणः/बहुमंस्यतिमांलोकेदुर्वृत्तंलोकदूषणम्/कस्ययास्याम्यहंवृत्तंकेनवास्वर्गमाप्नुयाम्/अनयावर्तमानोऽहंवृत्त्याहीनप्रतिज्ञया/कामवृत्तस्त्वयंलोकःकृत्स्नःसमुपवर्तते/यद्वृत्ताःसन्तिराजानस्तद्वृत्ताःसन्तिहिप्रजाः/सत्यमेवानृशंस्यंचराजवृत्तंसनातनम्/तस्मात्सत्यात्मकंराज्यंसत्येलोकःप्रतिष्ठितः/ऋषयश्चैवदेवाश्चसत्यमेवहिमेनिरे/सत्यवादीहिलोकेऽस्मिन्परमंगच्छतिक्षयम्/उद्विजन्तेयथासर्पान्नरादनृतवादिनः/धर्मःसत्यंपरोलोकेमूलंस्वर्गस्यचोच्यते/सत्यमेवेश्वरोलोकेसत्यंपद्मासमाश्रिता/सत्यमूलानिसर्वाणिसत्यान्नास्तिपरंपदम्/दत्तमिष्टंहुतंचैवतप्तानिचतपांसिच/वेदाःसत्यप्रतिष्ठानास्तस्मात्सत्यपरोभवेत्/एकःपालयतेलोकमेकःपालयतेकुलम्/मज्जत्येकोहिनिरयएकःस्वर्गेमहीयते/सोऽहंपितुर्निदेशंतुकिमर्थंनानुपालये/सत्यप्रतिश्रवःसत्यंसत्येनसमयीकृतः/नैवलोभान्नमोहाद्वानचाज्ञानात्तमोऽन्वितः/सेतुंसत्यस्यभेत्स्यामिगुरोःसत्यप्रतिश्रवः/असत्यसंधस्यसतश्चलस्यास्थिरचेतसः/नैवदेवानपितरःप्रतीच्छन्तीतिनःश्रुतम्/प्रत्यगात्ममिमंधर्मंसत्यंपश्याम्यहंस्वयम्/भारःसत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते/क्षात्रंधर्ममहंत्यक्ष्येह्यधर्मंधर्मसंहितम्/क्षुद्रौर्नृशंसैर्लुब्धैश्चसेवितंपापकर्मभिः/कायेनकुरुतेपापंमनसासंप्रधार्यच/अनृतंजिह्वयाचाहत्रिविधंकर्मपातकम्/भूमिःकीर्तिर्यशोलक्ष्मीःपुरुषंप्रार्थयन्तिहि/स्वर्गस्थंचानुबध्नन्तिसत्यमेवभजेततत्/श्रेष्ठंह्यनार्यमेवस्याद्यद्भवानवधार्यमाम्/आहयुक्तिकरैर्वाक्यैरिदंभद्रंकुरुष्वह/कथंह्यहंप्रतिज्ञायवनवासमिमंगुरोः/भरतस्यकरिष्यामिवचोहित्वागुरोर्वचः/स्थिरामयाप्रतिज्ञाताप्रतिज्ञागुरुसंनिधौ/प्रहृष्टमानसादेवीकैकेयीचाभवत्तदा/वनवासंवसन्नेवंशुचिर्नियतभोजनः/मूलैःपुष्पैःफलैःपुण्यैःपितॄन्देवांश्चतर्पयन्/संतुष्टपञ्चवर्गोऽहंलोकयात्रांप्रवर्तये/अकुहःश्रद्दधानःसन्कार्याकार्यविचक्षणः/कर्मभूमिमिमांप्राप्यकर्तव्यंकर्मयच्छुभम्/अग्निर्वायुश्चसोमश्चकर्मणांफलभागिनः/शतंक्रतूनामाहृत्यदेवराट्त्रिदिवंगतः/तपांस्युग्राणिचास्थायदिवंयातामहर्षयः/सत्यंचधर्मंचपराक्रमंच॑भूतानुकम्पांप्रियवादितांच/द्विजातिदेवातिथिपूजनंच॑पन्थानमाहुस्त्रिदिवस्यसन्तः/धर्मेरताःसत्पुरुषैःसमेतास्॑तेजस्विनोदानगुणप्रधानाः/अहिंसकावीतमलाश्चलोके॑भवन्तिपूज्यामुनयःप्रधानाः210936/क्रुद्धमाज्ञायरामतुवसिष्ठःप्रत्युवाचह/जाबालिरपिजानीतेलोकस्यास्यगतागतिम्21101/निवर्तयितुकामस्तुत्वामेतद्वाक्यमब्रवीत्/इमांलोकसमुत्पत्तिंलोकनाथनिबोधमे/सर्वंसलिलमेवासीत्पृथिवीयत्रनिर्मिता/ततःसमभवद्ब्रह्मास्वयम्भूर्दैवतैःसह/सवराहस्ततोभूत्वाप्रोज्जहारवसुंधराम्/असृजच्चजगत्सर्वंसहपुत्रैःकृतात्मभिः/आकाशप्रभवोब्रह्माशाश्वतोनित्यअव्ययः/तस्मान्मरीचिःसंजज्ञेमरीचेःकश्यपःसुतः/विवस्वान्कश्यपाज्जज्ञेमनुर्वैवस्तवःस्मृतः/सतुप्रजापतिःपूर्वमिक्ष्वाकुस्तुमनोःसुतः/यस्येयंप्रथमंदत्तासमृद्धामनुनामही/तमिक्ष्वाकुमयोध्यायांराजानंविद्धिपूर्वकम्/इक्ष्वाकोस्तुसुतःश्रीमान्कुक्षिरेवेतिविश्रुतः/कुक्षेरथात्मजोवीरोविकुक्षिरुदपद्यत/विकुक्षेस्तुमहातेजाबाणःपुत्रःप्रतापवान्/बाणस्यतुमहाबाहुरनरण्योमहायशाः/नानावृष्टिर्बभूवास्मिन्नदुर्भिक्षंसतांवरे/अनरण्येमहाराजेतस्करोवापिकश्चन/अनरण्यान्महाबाहुःपृथूराजाबभूवह/तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत/ससत्यवचनाद्वीरःसशरीरोदिवंगतः/त्रिशङ्कोरभवत्सूनुर्धुन्धुमारोमहायशाः/धुन्धुमारान्महातेजायुवनाश्वोव्यजायत/युवनाश्वसुतःश्रीमान्मान्धातासमपद्यत/मान्धातुस्तुमहातेजाःसुसंधिरुदपद्यत/सुसंधेरपिपुत्रौद्वौध्रुवसंधिःप्रसेनजित्/यशस्वीध्रुवसंधेस्तुभरतोरिपुसूदनः/भरतात्तुमहाबाहोरसितोनामजायत/यस्यैतेप्रतिराजानउदपद्यन्तशत्रवः/हैहयास्तालजङ्घाश्चशूराश्चशशबिन्दवः/तांस्तुसर्वान्प्रतिव्यूह्ययुद्धेराजाप्रवासितः/सचशैलवरेरम्येबभूवाभिरतोमुनिः/द्वेचास्यभार्येगर्भिण्यौबभूवतुरितिश्रुतिः/भार्गवश्च्यवनोनामहिमवन्तमुपाश्रितः/तमृषिंसमुपागम्यकालिन्दीत्वभ्यवादयत्/सतामभ्यवदद्विप्रोवरेप्सुंपुत्रजन्मनि/ततःसागृहमागम्यदेवीपुत्रंव्यजायत/सपत्न्यातुगरस्तस्यैदत्तोगर्भजिघांसया/गरेणसहतेनैवजातःससगरोऽभवत्/सराजासगरोनामयःसमुद्रमखानयत्/इष्ट्वापर्वणिवेगेनत्रासयन्तमिमाःप्रजाः/असमञ्जस्तुपुत्रोऽभूत्सगरस्येतिनःश्रुतम्/जीवन्नेवसपित्रातुनिरस्तःपापकर्मकृत्/अंशुमानितिपुत्रोऽभूदसमञ्जस्यवीर्यवान्/दिलीपोऽंशुमतःपुत्रोदिलीपस्यभगीरथः/भगीरथात्ककुत्स्थस्तुकाकुत्स्थायेनतुस्मृताः/ककुत्स्थस्यतुपुत्रोऽभूद्रघुर्येनतुराघवः/रघोस्तुपुत्रस्तेजस्वीप्रवृद्धःपुरुषादकः/कल्माषपादःसौदासइत्येवंप्रथितोभुवि/कल्माषपादपुत्रोऽभूच्छङ्खणस्त्वितिविश्रुतः/यस्तुतद्वीर्यमासाद्यसहसेनोव्यनीनशत्/शङ्खणस्यतुपुत्रोऽभूच्छूरःश्रीमान्सुदर्शनः/सुदर्शनस्याग्निवर्णअग्निवर्षस्यशीघ्रगः/शीघ्रगस्यमरुःपुत्रोमरोःपुत्रःप्रशुश्रुकः/प्रशुश्रुकस्यपुत्रोऽभूदम्बरीषोमहाद्युतिः/अम्बरीषस्यपुत्रोऽभून्नहुषःसत्यविक्रमः/नहुषस्यचनाभागःपुत्रःपरमधार्मिकः/अजश्चसुव्रतश्चैवनाभागस्यसुतावुभौ/अजस्यचैवधर्मात्माराजादशरथःसुतः/तस्यज्येष्ठोऽसिदायादोरामइत्यभिविश्रुतः/तद्गृहाणस्वकंराज्यमवेक्षस्वजगन्नृप/इक्ष्वाकूणांहिसर्वेषांराजाभवतिपूर्वजः/पूर्वजेनावरःपुत्रोज्येष्ठोराज्येऽभिषिच्यते/सराघवाणांकुलधर्ममात्मनः॑सनातनंनाद्यविहातुमर्हसि/प्रभूतरत्नामनुशाधिमेदिनीं॑प्रभूतराष्ट्रांपितृवन्महायशाः/वसिष्ठस्तुतदाराममुक्त्वाराजपुरोहितः/अब्रवीद्धर्मसंयुक्तंपुनरेवापरंवचः/पुरुषस्येहजातस्यभवन्तिगुरवस्त्रयः21111/आचार्यश्चैवकाकुत्स्थपितामाताचराघव/पिताह्येनंजनयतिपुरुषंपुरुषर्षभ/प्रज्ञांददातिचाचार्यस्तस्मात्सगुरुरुच्यते/सतेऽहंपितुराचार्यस्तवचैवपरंतप/ममत्वंवचनंकुर्वन्नातिवर्तेःसतांगतिम्/इमाहितेपरिषदःश्रेणयश्चसमागताः/एषुतातचरन्धर्मंनातिवर्तेःसतांगतिम्/वृद्धायाधर्मशीलायामातुर्नार्हस्यवर्तितुम्/अस्यास्तुवचनंकुर्वन्नातिवर्तेःसतांगतिम्/भरतस्यवचःकुर्वन्याचमानस्यराघव/आत्मानंनातिवर्तेस्त्वंसत्यधर्मपराक्रम/एवंमधुरमुक्तस्तुगुरुणाराघवःस्वयम्/प्रत्युवाचसमासीनंवसिष्ठंपुरुषर्षभः/यन्मातापितरौवृत्तंतनयेकुरुतःसदा/नसुप्रतिकरंतत्तुमात्रापित्राचयत्कृतम्/यथाशक्तिप्रदानेनस्नापनाच्छादनेनच/नित्यंचप्रियवादेनतथासंवर्धनेनच/सहिराजाजनयितापितादशरथोमम/आज्ञातंयन्मयातस्यनतन्मिथ्याभविष्यति/एवमुक्तस्तुरामेणभरतःप्रत्यनन्तरम्/उवाचपरमोदारःसूतंपरमदुर्मनाः/इहमेस्थण्डिलेशीघ्रंकुशानास्तरसारथे/आर्यंप्रत्युपवेक्ष्यामियावन्मेनप्रसीदति/अनाहारोनिरालोकोधनहीनोयथाद्विजः/शेष्येपुरस्ताच्छालायायावन्नप्रतियास्यति/सतुराममवेक्षन्तंसुमन्त्रंप्रेक्ष्यदुर्मनाः/कुशोत्तरमुपस्थाप्यभूमावेवास्तरत्स्वयम्/तमुवाचमहातेजारामोराजर्षिसत्तमाः/किंमांभरतकुर्वाणंतातप्रत्युपवेक्ष्यसि/ब्राह्मणोह्येकपार्श्वेननरान्रोद्धुमिहार्हति/नतुमूर्धावसिक्तानांविधिःप्रत्युपवेशने/उत्तिष्ठनरशार्दूलहित्वैतद्दारुणंव्रतम्/पुरवर्यामितःक्षिप्रमयोध्यांयाहिराघव/आसीनस्त्वेवभरतःपौरजानपदंजनम्/उवाचसर्वतःप्रेक्ष्यकिमार्यंनानुशासथ/तेतमूचुर्महात्मानंपौरजानपदाजनाः/काकुत्स्थमभिजानीमःसम्यग्वदतिराघवः/एषोऽपिहिमहाभागःपितुर्वचसितिष्ठति/अतएवनशक्ताःस्मोव्यावर्तयितुमञ्जसा/तेषामाज्ञायवचनंरामोवचनमब्रवीत्/एवंनिबोधवचनंसुहृदांधर्मचक्षुषाम्/एतच्चैवोभयंश्रुत्वासम्यक्संपश्यराघव/उत्तिष्ठत्वंमहाबाहोमांचस्पृशतथोदकम्/अथोत्थायजलंस्पृष्ट्वाभरतोवाक्यमब्रवीत्/शृण्वन्तुमेपरिषदोमन्त्रिणःश्रेणयस्तथा/नयाचेपितरंराज्यंनानुशासामिमातरम्/आर्यंपरमधर्मज्ञमभिजानामिराघवम्/यदित्ववश्यंवस्तव्यंकर्तव्यंचपितुर्वचः/अहमेवनिवत्स्यामिचतुर्दशवनेसमाः/धर्मात्मातस्यतथ्येनभ्रातुर्वाक्येनविस्मितः/उवाचरामःसंप्रेक्ष्यपौरजानपदंजनम्/विक्रीतमाहितंक्रीतंयत्पित्राजीवतामम/नतल्लोपयितुंशक्यंमयावाभरतेनवा/उपधिर्नमयाकार्योवनवासेजुगुप्सितः/युक्तमुक्तंचकैकेय्यापित्रामेसुकृतंकृतम्/जानामिभरतंक्षान्तंगुरुसत्कारकारिणम्/सर्वमेवात्रकल्याणंसत्यसंधेमहात्मनि/अनेनधर्मशीलेनवनात्प्रत्यागतःपुनः/भ्रात्रासहभविष्यामिपृथिव्याःपतिरुत्तमः/वृतोराजाहिकैकेय्यामयातद्वचनंकृतम्/अनृतान्मोचयानेनपितरंतंमहीपतिम्211132/तमप्रतिमतेजोभ्यांभ्रातृभ्यांरोमहर्षणम्/विस्मिताःसंगमंप्रेक्ष्यसमवेतामहर्षयः21121/अन्तर्हितास्त्वृषिगणाःसिद्धाश्चपरमर्षयः/तौभ्रातरौमहात्मानौकाकुत्स्थौप्रशशंसिरे/सधन्योयस्यपुत्रौद्वौधर्मज्ञौधर्मविक्रमौ/श्रुत्वावयंहिसंभाषामुभयोःस्पृहयामहे/ततस्त्वृषिगणाःक्षिप्रंदशग्रीववधैषिणः/भरतंराजशार्दूलमित्यूचुःसंगतावचः/कुलेजातमहाप्राज्ञमहावृत्तमहायशः/ग्राह्यंरामस्यवाक्यंतेपितरंयद्यवेक्षसे/सदानृणमिमंरामंवयमिच्छामहेपितुः/अनृणत्वाच्चकैकेय्याःस्वर्गंदशरथोगतः/एतावदुक्त्वावचनंगन्धर्वाःसमहर्षयः/राजर्षयश्चैवतथासर्वेस्वांस्वांगतिंगताः/ह्लादितस्तेनवाक्येनशुभेनशुभदर्शनः/रामःसंहृष्टवदनस्तानृषीनभ्यपूजयत्/स्रस्तगात्रस्तुभरतःसवाचासज्जमानया/कृताञ्जलिरिदंवाक्यंराघवंपुनरब्रवीत्/राजधर्ममनुप्रेक्ष्यकुलधर्मानुसंततिम्/कर्तुमर्हसिकाकुत्स्थमममातुश्चयाचनाम्/रक्षितुंसुमहद्राज्यमहमेकस्तुनोत्सहे/पौरजानपदांश्चापिरक्तान्रञ्जयितुंतथा/ज्ञातयश्चहियोधाश्चमित्राणिसुहृदश्चनः/त्वामेवप्रतिकाङ्क्षन्तेपर्जन्यमिवकर्षकाः/इदंराज्यंमहाप्राज्ञस्थापयप्रतिपद्यहि/शक्तिमानसिकाकुत्स्थलोकस्यपरिपालने/इत्युक्त्वान्यपतद्भ्रातुःपादयोर्भरतस्तदा/भृशंसंप्रार्थयामासराममेवंप्रियंवदः/तमङ्केभ्रातरंकृत्वारामोवचनमब्रवीत्/श्यामंनलिनपत्राक्षंमत्तहंसस्वरःस्वयम्/आगतात्वामियंबुद्धिःस्वजावैनयिकीचया/भृशमुत्सहसेतातरक्षितुंपृथिवीमपि/अमात्यैश्चसुहृद्भिश्चबुद्धिमद्भिश्चमन्त्रिभिः/सर्वकार्याणिसंमन्त्र्यसुमहान्त्यपिकारय/लक्ष्मीश्चन्द्रादपेयाद्वाहिमवान्वाहिमंत्यजेत्/अतीयात्सागरोवेलांनप्रतिज्ञामहंपितुः/कामाद्वातातलोभाद्वामात्रातुभ्यमिदंकृतम्/नतन्मनसिकर्तव्यंवर्तितव्यंचमातृवत्/एवंब्रुवाणंभरतःकौसल्यासुतमब्रवीत्/तेजसादित्यसंकाशंप्रतिपच्चन्द्रदर्शनम्/अधिरोहार्यपादाभ्यांपादुकेहेमभूषिते/एतेहिसर्वलोकस्ययोगक्षेमंविधास्यतः/सोऽधिरुह्यनरव्याघ्रःपादुकेह्यवरुह्यच/प्रायच्छत्सुमहातेजाभरतायमहात्मने/सपादुकेतेभरतःप्रतापवान्॑स्वलंकृतेसंपरिगृह्यधर्मवित्/प्रदक्षिणंचैवचकारराघवं॑चकारचैवोत्तमनागमूर्धनि/अथानुपूर्व्यात्प्रतिपूज्यतंजनं॑गुरूंश्चमन्त्रिप्रकृतीस्तथानुजौ/व्यसर्जयद्राघववंशवर्धनः॑स्थितःस्वधर्मेहिमवानिवाचलः/तंमातरोबाष्पगृहीतकण्ठो॑दुःखेननामन्त्रयितुंहिशेकुः/सत्वेवमातॄरभिवाद्यसर्वा॑रुदन्कुटींस्वांप्रविवेशरामः211231/ततःशिरसिकृत्वातुपादुकेभरतस्तदा/आरुरोहरथंहृष्टःशत्रुघ्नेनसमन्वितः21131/वसिष्ठोवामदेवश्चजाबालिश्चदृढव्रतः/अग्रतःप्रययुःसर्वेमन्त्रिणोमन्त्रपूजिताः/मन्दाकिनींनदींरम्यांप्राङ्मुखास्तेययुस्तदा/प्रदक्षिणंचकुर्वाणाश्चित्रकूटंमहागिरिम्/पश्यन्धातुसहस्राणिरम्याणिविविधानिच/प्रययौतस्यपार्श्वेनससैन्योभरतस्तदा/अदूराच्चित्रकूटस्यददर्शभरतस्तदा/आश्रमंयत्रसमुनिर्भरद्वाजःकृतालयः/सतमाश्रममागम्यभरद्वाजस्यबुद्धिमान्/अवतीर्यरथात्पादौववन्देकुलनन्दनः/ततोहृष्टोभरद्वाजोभरतंवाक्यमब्रवीत्/अपिकृत्यंकृतंतातरामेणचसमागतम्/एवमुक्तस्तुभरतोभरद्वाजेनधीमता/प्रत्युवाचभरद्वाजंभरतोधर्मवत्सलः/सयाच्यमानोगुरुणामयाचदृढविक्रमः/राघवःपरमप्रीतोवसिष्ठंवाक्यमब्रवीत्/पितुःप्रतिज्ञांतामेवपालयिष्यामितत्त्वतः/चतुर्दशहिवर्षाणियप्रतिज्ञापितुर्मम/एवमुक्तोमहाप्राज्ञोवसिष्ठःप्रत्युवाचह/वाक्यज्ञोवाक्यकुशलंराघवंवचनंमहत्/एतेप्रयच्छसंहृष्टःपादुकेहेमभूषिते/अयोध्यायांमहाप्राज्ञयोगक्षेमकरेतव/एवमुक्तोवसिष्ठेनराघवःप्राङ्मुखःस्थितः/पादुकेहेमविकृतेममराज्यायतेददौ/निवृत्तोऽहमनुज्ञातोरामेणसुमहात्मना/अयोध्यामेवगच्छामिगृहीत्वापादुकेशुभे/एतच्छ्रुत्वाशुभंवाक्यंभरतस्यमहात्मनः/भरद्वाजःशुभतरंमुनिर्वाक्यमुदाहरत्/नैतच्चित्रंनरव्याघ्रशीलवृत्तवतांवर/यदार्यंत्वयितिष्ठेत्तुनिम्नेवृष्टिमिवोदकम्/अमृतःसमहाबाहुःपितादशरथस्तव/यस्यत्वमीदृशःपुत्रोधर्मात्माधर्मवत्सलः/तमृषिंतुमहात्मानमुक्तवाक्यंकृताञ्जलिः/आमन्त्रयितुमारेभेचरणावुपगृह्यच/ततःप्रदक्षिणंकृत्वाभरद्वाजंपुनःपुनः/भरतस्तुययौश्रीमानयोध्यांसहमन्त्रिभिः/यानैश्चशकटैश्चैवहयैश्नागैश्चसाचमूः/पुनर्निवृत्ताविस्तीर्णाभरतस्यानुयायिनी/ततस्तेयमुनांदिव्यांनदींतीर्त्वोर्मिमालिनीम्/ददृशुस्तांपुनःसर्वेगङ्गांशिवजलांनदीम्/तांरम्यजलसंपूर्णांसंतीर्यसहबान्धवः/शृङ्गवेरपुरंरम्यंप्रविवेशससैनिकः/शृङ्गवेरपुराद्भूयअयोध्यांसंददर्शह/भरतोदुःखसंतप्तःसारथिंचेदमब्रवीत्/सारथेपश्यविध्वस्ताअयोध्यानप्रकाशते/निराकारानिरानन्दादीनाप्रतिहतस्वना211325/स्निग्धगम्भीरघोषेणस्यन्दनेनोपयान्प्रभुः/अयोध्यांभरतःक्षिप्रंप्रविवेशमहायशाः21141/बिडालोलूकचरितामालीननरवारणाम्/तिमिराभ्याहतांकालीमप्रकाशांनिशामिव/राहुशत्रोःप्रियांपत्नींश्रियाप्रज्वलितप्रभाम्/ग्रहेणाभ्युत्थितेनैकांरोहिणीमिवपीडिताम्/अल्पोष्णक्षुब्धसलिलांघर्मोत्तप्तविहंगमाम्/लीनमीनझषग्राहांकृशांगिरिनदीमिव/विधूमामिवहेमाभामध्वराग्निसमुत्थिताम्/हविरभ्युक्षितांपश्चाच्छिखांविप्रलयंगताम्/विध्वस्तकवचांरुग्णगजवाजिरथध्वजाम्/हतप्रवीरामापन्नांचमूमिवमहाहवे/सफेनांसस्वनांभूत्वासागरस्यसमुत्थिताम्/प्रशान्तमारुतोद्धूतांजलोर्मिमिवनिःस्वनाम्/त्यक्तांयज्ञायुधैःसर्वैरभिरूपैश्चयाजकैः/सुत्याकालेविनिर्वृत्तेवेदिंगतरवामिव/गोष्ठमध्येस्थितामार्तामचरन्तींनवंतृणम्/गोवृषेणपरित्यक्तांगवांपत्नीमिवोत्सुकाम्/प्रभाकरालैःसुस्निग्धैःप्रज्वलद्भिरिवोत्तमैः/वियुक्तांमणिभिर्जात्यैर्नवांमुक्तावलीमिव/सहसाचलितांस्थानान्महींपुण्यक्षयाद्गताम्/संहृतद्युतिविस्तारांतारामिवदिवश्च्युताम्/पुष्पनद्धांवसन्तान्तेमत्तभ्रमरशालिनीम्/द्रुतदावाग्निविप्लुष्टांक्लान्तांवनलतामिव/संमूढनिगमांसर्वांसंक्षिप्तविपणापणाम्/प्रच्छन्नशशिनक्षत्रांद्यामिवाम्बुधरैर्वृताम्/क्षीणपानोत्तमैर्भिन्नैःशरावैरभिसंवृताम्/हतशौण्डामिवाकाशेपानभूमिमसंस्कृताम्/वृक्णभूमितलांनिम्नांवृक्णपात्रैःसमावृताम्/उपयुक्तोदकांभग्नांप्रपांनिपतितामिव/विपुलांविततांचैवयुक्तपाशांतरस्विनाम्/भूमौबाणैर्विनिष्कृत्तांपतितांज्यामिवायुधात्/सहसायुद्धशौण्डेनहयारोहेणवाहिताम्/निक्षिप्तभाण्डामुत्सृष्टांकिशोरीमिवदुर्बलाम्/प्रावृषिप्रविगाढायांप्रविष्टस्याभ्रमण्डलम्/प्रच्छन्नांनीलजीमूतैर्भास्करस्यप्रभामिव/भरतस्तुरथस्थःसञ्श्रीमान्दशरथात्मजः/वाहयन्तंरथश्रेष्ठंसारथिंवाक्यमब्रवीत्/किंनुखल्वद्यगम्भीरोमूर्छितोननिशम्यते/यथापुरमयोध्यायांगीतवादित्रनिःस्वनः/वारुणीमदगन्धाश्चमाल्यगन्धश्चमूर्छितः/धूपितागरुगन्धश्चनप्रवातिसमन्ततः/यानप्रवरघोषश्चस्निग्धश्चहयनिःस्वनः/प्रमत्तगजनादश्चमहांश्चरथनिःस्वनः/नेदानींश्रूयतेपुर्यामस्यांरामेविवासिते/तरुणैश्चारुवेषैश्चनरैरुन्नतगामिभिः/संपतद्भिरयोध्यायांनविभान्तिमहापथाः211427/एवंबहुविधंजल्पन्विवेशवसतिंपितुः/तेनहीनांनरेन्द्रेणसिंहहीनांगुहामिव/ततोनिक्षिप्यमातॄह्सअयोध्यायांदृढव्रतः/भरतःशोकसंतप्तोगुरूनिदमथाब्रवीत्21151/नन्दिग्रामंगमिष्यामिसर्वानामन्त्रयेऽद्यवः/तत्रदुःखमिदंसर्वंसहिष्येराघवंविना/गतश्चहिदिवंराजावनस्थश्चगुरुर्मम/रामंप्रतीक्षेराज्यायसहिराजामहायशाः/एतच्छ्रुत्वाशुभंवाक्यंभरतस्यमहात्मनः/अब्रुवन्मन्त्रिणःसर्वेवसिष्ठश्चपुरोहितः/सदृशंश्लाघनीयंचयदुक्तंभरतत्वया/वचनंभ्रातृवात्सल्यादनुरूपंतवैवतत्/नित्यंतेबन्धुलुब्धस्यतिष्ठतोभ्रातृसौहृदे/आर्यमार्गंप्रपन्नस्यनानुमन्येतकःपुमान्/मन्त्रिणांवचनंश्रुत्वायथाभिलषितंप्रियम्/अब्रवीत्सारथिंवाक्यंरथोमेयुज्यतामिति/प्रहृष्टवदनःसर्वामातॄह्समभिवाद्यसः/आरुरोहरथंश्रीमाञ्शत्रुघ्नेनसमन्वितः/आरुह्यतुरथंशीघ्रंशत्रुघ्नभरतावुभौ/ययतुःपरमप्रीतौवृतौमन्त्रिपुरोहितैः/अग्रतोपुरवस्तत्रवसिष्ठप्रमुखाद्विजाः/प्रययुःप्राङ्मुखाःसर्वेनन्दिग्रामोयतोऽभवत्/बलंचतदनाहूतंगजाश्वरथसंकुलम्/प्रययौभरतेयातेसर्वेचपुरवासिनः/रथस्थःसतुधर्मात्माभरतोभ्रातृवत्सलः/नन्दिग्रामंययौतूर्णंशिरस्याधायपादुके/ततस्तुभरतःक्षिप्रंनन्दिग्रामंप्रविश्यसः/अवतीर्यरथात्तूर्णंगुरूनिदमुवाचह/एतद्राज्यंममभ्रात्रादत्तंसंन्यासवत्स्वयम्/योगक्षेमवहेचेमेपादुकेहेमभूषिते/तमिमंपालयिष्यामिराघवागमनंप्रति/क्षिप्रंसंयोजयित्वातुराघवस्यपुनःस्वयम्/चरणौतौतुरामस्यद्रक्ष्यामिसहपादुकौ/ततोनिक्षिप्तभारोऽहंराघवेणसमागतः/निवेद्यगुरवेराज्यंभजिष्येगुरुवृत्तिताम्/राघवायचसंन्यासंदत्त्वेमेवरपादुके/राज्यंचेदमयोध्यांचधूतपापोभवामिच/अभिषिक्तेतुकाकुत्स्थेप्रहृष्टमुदितेजने/प्रीतिर्ममयशश्चैवभवेद्राज्याच्चतुर्गुणम्/एवंतुविलपन्दीनोभरतःसमहायशाः/नन्दिग्रामेऽकरोद्राज्यंदुःखितोमन्त्रिभिःसह/सवल्कलजटाधारीमुनिवेषधरःप्रभुः/नन्दिग्रामेऽवसद्वीरःससैन्योभरतस्तदा/रामागमनमाकाङ्क्षन्भरतोभ्रातृवत्सलः/भ्रातुर्वचनकारीचप्रतिज्ञापारगस्तदा/पादुकेत्वभिषिच्याथनन्दिग्रामेऽवसत्तदा/भरतःशासनंसर्वंपादुकाभ्यांन्यवेदयत्211525/प्रतिप्रयातेभरतेवसन्रामस्तपोवने/लक्षयामाससोद्वेगमथौत्सुक्यंतपस्विनाम्21161/येतत्रचित्रकूटस्यपुरस्तात्तापसाश्रमे/राममाश्रित्यनिरतास्तानलक्षयदुत्सुकान्/नयनैर्भृकुटीभिश्चरामंनिर्दिश्यशङ्किताः/अन्योन्यमुपजल्पन्तःशनैश्चक्रुर्मिथःकथाः/तेषामौत्सुक्यमालक्ष्यरामस्त्वात्मनिशङ्कितः/कृताञ्जलिरुवाचेदमृषिंकुलपतिंततः/नकच्चिद्भगवन्किंचित्पूर्ववृत्तमिदंमयि/दृश्यतेविकृतंयेनविक्रियन्तेतपस्विनः/प्रमादाच्चरितंकच्चित्किंचिन्नावरजस्यमे/लक्ष्मणस्यर्षिभिर्दृष्टंनानुरूपमिवात्मनः/कच्चिच्छुश्रूषमाणावःशुश्रूषणपरामयि/प्रमदाभ्युचितांवृत्तिंसीतायुक्तंनवर्तते/अथर्षिर्जरयावृद्धस्तपसाचजरांगतः/वेपमानइवोवाचरामंभूतदयापरम्/कुतःकल्याणसत्त्वायाःकल्याणाभिरतेस्तथा/चलनंतातवैदेह्यास्तपस्विषुविशेषतः/त्वन्निमित्तमिदंतावत्तापसान्प्रतिवर्तते/रक्षोभ्यस्तेनसंविग्नाःकथयन्तिमिथःकथाः/रावणावरजःकश्चित्खरोनामेहराक्षसः/उत्पाट्यतापसान्सर्वाञ्जनस्थाननिकेतनान्/धृष्टश्चजितकाशीचनृशंसःपुरुषादकः/अवलिप्तश्चपापश्चत्वांचतातनमृष्यते/त्वंयदाप्रभृतिह्यस्मिन्नाश्रमेतातवर्तसे/तदाप्रभृतिरक्षांसिविप्रकुर्वन्तितापसान्/दर्शयन्तिहिबीभत्सैःक्रूरैर्भीषणकैरपि/नानारूपैर्विरूपैश्चरूपैरसुखदर्शनैः/अप्रशस्तैरशुचिभिःसंप्रयोज्यचतापसान्/प्रतिघ्नन्त्यपरान्क्षिप्रमनार्याःपुरतःस्थितः/तेषुतेष्वाश्रमस्थानेष्वबुद्धमवलीयच/रमन्तेतापसांस्तत्रनाशयन्तोऽल्पचेतसः/अपक्षिपन्तिस्रुग्भाण्डानग्नीन्सिञ्चन्तिवारिणा/कलशांश्चप्रमृद्नन्तिहवनेसमुपस्थिते/तैर्दुरात्मभिराविष्टानाश्रमान्प्रजिहासवः/गमनायान्यदेशस्यचोदयन्त्यृषयोऽद्यमाम्/तत्पुरारामशारीरामुपहिंसांतपस्विषु/दर्शयतिहिदुष्टास्तेत्यक्ष्यामइममाश्रमम्/बहुमूलफलंचित्रमविदूरादितोवनम्/पुराणाश्रममेवाहंश्रयिष्येसगणःपुनः/खरस्त्वय्यपिचायुक्तंपुरातातप्रवर्तते/सहास्माभिरितोगच्छयदिबुद्धिःप्रवर्तते/सकलत्रस्यसंदेहोनित्यंयत्तस्यराघव/समर्थस्यापिहिसतोवासोदुःखइहाद्यते/इत्युक्तवन्तंरामस्तंराजपुत्रस्तपस्विनम्/नशशाकोत्तरैर्वाक्यैरवरोद्धुंसमुत्सुकम्/अभिनन्द्यसमापृच्छ्यसमाधायचराघवम्/सजगामाश्रमंत्यक्त्वाकुलैःकुलपतिःसह/रामःसंसाध्यत्वृषिगणमनुगमनाद्॑देशात्तस्माच्चित्कुलपतिम्/अभिवाद्यर्षिम्/सम्यक्प्रीतैस्तैरनुमतउपदिष्टार्थः॑पुण्यंवासायस्वनिलयम्/उपसंपेदे/आश्रमंत्वृषिविरहितंप्रभुः॑क्षणमपिनजहौसराघवः/राघवंहिसततमनुगतास्॑तापसाश्चर्षिचरितधृतगुणाः211626/राघवस्त्वपयातेषुतपस्विषुविचिन्तयन्/नतत्रारोचयद्वासंकारणैर्बहुभिस्तदा21171/इहमेभरतोदृष्टोमातरश्चसनागराः/साचमेस्मृतिरन्वेतितान्नित्यमनुशोचतः/स्कन्धावारनिवेशेनतेनतस्यमहात्मनः/हयहस्तिकरीषैश्चउपमर्दःकृतोभृशम्/तस्मादन्यत्रगच्छामइतिसंचिन्त्यराघवः/प्रातिष्ठतसवैदेह्यालक्ष्मणेनचसंगतः/सोऽत्रेराश्रममासाद्यतंववन्देमहायशाः/तंचापिभगवानत्रिःपुत्रवत्प्रत्यपद्यत/स्वयमातिथ्यमादिश्यसर्वमस्यसुसत्कृतम्/सौमित्रिंचमहाभागांसीतांचसमसान्त्वयत्/पत्नींचतमनुप्राप्तांवृद्धामामन्त्र्यसत्कृताम्/सान्त्वयामासधर्मज्ञःसर्वभूतहितेरतः/अनसूयांमहाभागांतापसींधर्मचारिणीम्/प्रतिगृह्णीष्ववैदेहीमब्रवीदृषिसत्तमः/रामायचाचचक्षेतांतापसींधर्मचारिणीम्/दशवर्षाण्यनावृष्ट्यादग्धेलोकेनिरन्तरम्/ययामूलफलेसृष्टेजाह्नवीचप्रवर्तिता/उग्रेणतपसायुक्तानियमैश्चाप्यलंकृता/दशवर्षसहस्राणिययातप्तंमहत्तपः/अनसूयाव्रतैस्तातप्रत्यूहाश्चनिबर्हिताः/देवकार्यनिमित्तंचययासंत्वरमाणया/दशरात्रंकृत्वारात्रिःसेयंमातेवतेऽनघ/तामिमांसर्वभूतानांनमस्कार्यांयशस्विनीम्/अभिगच्छतुवैदेहीवृद्धामक्रोधनांसदा/एवंब्रुवाणंतमृषिंतथेत्युक्त्वासराघवः/सीतामुवाचधर्मज्ञामिदंवचनमुत्तमम्/राजपुत्रिश्रुतंत्वेतन्मुनेरस्यसमीरितम्/श्रेयोऽर्थमात्मनःशीघ्रमभिगच्छतपस्विनीम्/अनसूयेतियालोकेकर्मभिःक्यातिमागता/तांशीघ्रमभिगच्छत्वमभिगम्यांतपस्विनीम्/सीतात्वेतद्वचःश्रुत्वाराघवस्यहितैषिणी/तामत्रिपत्नींधर्मज्ञामभिचक्राममैथिली/शिथिलांवलितांवृद्धांजरापाण्डुरमूर्धजाम्/सततंवेपमानाङ्गींप्रवातेकदलीयथा/तांतुसीतामहाभागामनसूयांपतिव्रताम्/अभ्यवादयदव्यग्रास्वंनामसमुदाहरत्/अभिवाद्यचवैदेहीतापसींतामनिन्दिताम्/बद्धाञ्जलिपुटाहृष्टापर्यपृच्छदनामयम्/ततःसीतांमहाभागांदृष्ट्वातांधर्मचारिणीम्/सान्त्वयन्त्यब्रवीद्धृष्टादिष्ट्याधर्ममवेक्षसे/त्यक्त्वाज्ञातिजनंसीतेमानमृद्धिंचमानिनि/अवरुद्धंवनेरामंदिष्ट्यात्वमनुगच्छसि/नगरस्थोवनस्थोवापापोवायदिवाशुभः/यासांस्त्रीणांप्रियोभर्तातासांलोकामहोदयाः/दुःशीलःकामवृत्तोवाधनैर्वापरिवर्जितः/स्त्रीणामार्यस्वभावानांपरमंदैवतंपतिः/नातोविशिष्टंपश्यामिबान्धवंविमृशन्त्यहम्/सर्वत्रयोग्यंवैदेहितपःकृतमिवाव्ययम्/नत्वेवमवगच्छन्तिगुणदोषमसत्स्त्रियः/कामवक्तव्यहृदयाभर्तृनाथाश्चरन्तियाः/प्राप्नुवन्त्ययशश्चैवधर्मभ्रंशंचमैथिलि/अकार्यवशमापन्नाःस्त्रियोयाःखलुतद्विधाः/त्वद्विधास्तुगुणैर्युक्तादृष्टलोकपरावराः/स्त्रियःस्वर्गेचरिष्यन्तियथापुण्यकृतस्तथा211728/सात्वेवमुक्तावैदेहीअनसूयानसूयया/प्रतिपूज्यवचोमन्दंप्रवक्तुमुपचक्रमे21181/नैतदाश्चर्यमार्यायायन्मांत्वमनुभाषसे/विदितंतुममाप्येतद्यथानार्याःपतिर्गुरुः/यद्यप्येषभवेद्भर्ताममार्येवृत्तवर्जितः/अद्वैधमुपवर्तव्यस्तथाप्येषमयाभवेत्/किंपुनर्योगुणश्लाघ्यःसानुक्रोशोजितेन्द्रियः/स्थिरानुरागोधर्मात्मामातृवर्तीपितृप्रियः/यांवृत्तिंवर्ततेरामःकौसल्यायांमहाबलः/तामेवनृपनारीणामन्यासामपिवर्तते/सकृद्दृष्टास्वपिस्त्रीषुनृपेणनृपवत्सलः/मातृवद्वर्ततेवीरोमानमुत्सृज्यधर्मवित्/आगच्छन्त्याश्चविजनंवनमेवंभयावहम्/समाहितंहिमेश्वश्र्वाहृदयेयत्स्थितंमम/प्राणिप्रदानकालेचयत्पुरात्वग्निसंनिधौ/अनुशिष्टाजनन्यास्मिवाक्यंतदपिमेधृतम्/नवीकृतंतुतत्सर्वंवाक्यैस्तेधर्मचारिणि/पतिशुश्रूषणान्नार्यास्तपोनान्यद्विधीयते/सावित्रीपतिशुश्रूषांकृत्वास्वर्गेमहीयते/तथावृत्तिश्चयातात्वंपतिशुश्रूषयादिवम्/वरिष्ठासर्वनारीणामेषाचदिविदेवता/रोहिणीचविनाचन्द्रंमुहूर्तमपिदृश्यते/एवंविधाश्चप्रवराःस्त्रियोभर्तृदृढव्रताः/देवलोकेमहीयन्तेपुण्येनस्वेनकर्मणा/ततोऽनसूयासंहृष्टाश्रुत्वोक्तंसीतयावचः/शिरस्याघ्रायचोवाचमैथिलींहर्षयन्त्युत/नियमैर्विविधैराप्तंतपोहिमहदस्तिमे/तत्संश्रित्यबलंसीतेछन्दयेत्वांशुचिव्रते/उपपन्नंचयुक्तंचवचनंतवमैथिलि/प्रीताचास्म्युचितंकिंतेकरवाणिब्रवीहिमे/कृतमित्यब्रवीत्सीतातपोबलसमन्विताम्/सात्वेवमुक्ताधर्मज्ञातयाप्रीततराभवत्/सफलंचप्रहर्षंतेहन्तसीतेकरोम्यहम्/इदंदिव्यंवरंमाल्यंवस्त्रमाभरणानिच/अङ्गरागंचवैदेहिमहार्हमनुलेपनम्/मयादत्तमिदंसीतेतवगात्राणिशोभयेत्/अनुरूपमसंक्लिष्टंनित्यमेवभविष्यति/अङ्गरागेणदिव्येनलिप्ताङ्गीजनकात्मजे/शोभयिष्यामिभर्तारंयथाश्रीर्विष्णुमव्ययम्/सावस्त्रमङ्गरागंचभूषणानिस्रजस्तथा/मैथिलीप्रतिजग्राहप्रीतिदानमनुत्तमम्/प्रतिगृह्यचतत्सीताप्रीतिदानंयशस्विनी/श्लिष्टाञ्जलिपुटाधीरासमुपास्ततपोधनाम्/तथासीतामुपासीनामनसूयादृढव्रता/वचनंप्रष्टुमारेभेकथांकांचिदनुप्रियाम्/स्वयंवरेकिलप्राप्तात्वमनेनयशस्विना/राघवेणेतिमेसीतेकथाश्रुतिमुपागता/तांकथांश्रोतुमिच्छामिविस्तरेणचमैथिलि/यथानुभूतंकार्त्स्न्येनतन्मेत्वंवक्तुमर्हसि/एवमुक्तातुसासीतातांततोधर्मचारिणीम्/श्रूयतामितिचोक्त्वावैकथयामासतांकथाम्/मिथिलाधिपतिर्वीरोजनकोनामधर्मवित्/क्षत्रधर्मण्यभिरतोन्यायतःशास्तिमेदिनीम्/तस्यलाङ्गलहस्तस्यकर्षतःक्षेत्रमण्डलम्/अहंकिलोत्थिताभित्त्वाजगतींनृपतेःसुता/समांदृष्ट्वानरपतिर्मुष्टिविक्षेपतत्परः/पांशुगुण्ठितसर्वाङ्गींविस्मितोजनकोऽभवत्/अनपत्येनचस्नेहादङ्कमारोप्यचस्वयम्/ममेयंतनयेत्युक्त्वास्नेहोमयिनिपातितः/अन्तरिक्षेचवागुक्ताप्रतिमामानुषीकिल/एवमेतन्नरपतेधर्मेणतनयातव/ततःप्रहृष्टोधर्मात्मापितामेमिथिलाधिपः/अवाप्तोविपुलामृद्धिंमामवाप्यनराधिपः/दत्त्वाचास्मीष्टवद्देव्यैज्येष्ठायैपुण्यकर्मणा/तयासंभाविताचास्मिस्निग्धयामातृसौहृदात्/पतिसंयोगसुलभंवयोदृष्ट्वातुमेपिता/चिन्तामभ्यगमद्दीनोवित्तनाशादिवाधनः/सदृशाच्चापकृष्टाच्चलोकेकन्यापिताजनात्/प्रधर्षणामवाप्नोतिशक्रेणापिसमोभुवि/तांधर्षणामदूरस्थांसंदृश्यात्मनिपार्थिवः/चिन्न्तार्णवगतःपारंनाससादाप्लवोयथ/अयोनिजांहिमांज्ञात्वानाध्यगच्छत्सचिन्तयन्/सदृशंचानुरूपंचमहीपालःपतिंमम/तस्यबुद्धिरियंजाताचिन्तयानस्यसंततम्/स्वयंवरंतनूजायाःकरिष्यामीतिधीमतः/महायज्ञेतदातस्यवरुणेनमहात्मना/दत्तंधनुर्वरंप्रीत्यातूणीचाक्षय्यसायकौ/असंचाल्यंमनुष्यैश्चयत्नेनापिचगौरवात्/तन्नशक्तानमयितुंस्वप्नेष्वपिनराधिपाः/तद्धनुःप्राप्यमेपित्राव्याहृतंसत्यवादिना/समवायेनरेन्द्राणांपूर्वमामन्त्र्यपार्थिवान्/इदंचधनुरुद्यम्यसज्यंयःकुरुतेनरः/तस्यमेदुहिताभार्याभविष्यतिनसंशयः/तच्चदृष्ट्वाधनुःश्रेष्ठंगौरवाद्गिरिसंनिभम्/अभिवाद्यनृपाजग्मुरशक्तास्तस्यतोलने/सुदीर्घस्यतुकालस्यराघवोऽयंमहाद्युतिः/विश्वामित्रेणसहितोयज्ञंद्रष्टुंसमागतः/लक्ष्मणेनसहभ्रात्रारामःसत्यपराक्रमः/विश्वामित्रस्तुधर्मात्माममपित्रासुपूजितः/प्रोवाचपितरंतत्रराघवोरामलक्ष्मणौ/सुतौदशरथस्येमौधनुर्दर्शनकाङ्क्षिणौ/इत्युक्तस्तेनविप्रेणतद्धनुःसमुपानयत्/निमेषान्तरमात्रेणतदानम्यसवीर्यवान्/ज्यांसमारोप्यझटितिपूरयामासवीर्यवान्/तेनपूरयतावेगान्मध्येभग्नंद्विधाधनुः/तस्यशब्दोऽभवद्भीमःपतितस्याशनेरिव/ततोऽहंतत्ररामायपित्रासत्याभिसंधिना/उद्यतादातुमुद्यम्यजलभाजनमुत्तमम्/दीयमानांनतुतदाप्रतिजग्राहराघवः/अविज्ञायपितुश्छन्दमयोध्याधिपतेःप्रभोः/ततःश्वशुरमामन्त्र्यवृद्धंदशरथंनृपम्/ममपित्राअहंदत्तारामायविदितात्मने/ममचैवानुजासाध्वीऊर्मिलाप्रियदर्शना/भार्यार्थेलक्ष्मणस्यापिदत्तापित्राममस्वयम्/एवंदत्तास्मिरामायतदातस्मिन्स्वयंवरे/अनुरक्ताचधर्मेणपतिंवीर्यवतांवरम्211854/अनसूयातुधर्मज्ञाश्रुत्वातांमहतींकथाम्/पर्यष्वजतबाहुभ्यांशिरस्याघ्रायमैथिलीम्21191/व्यक्ताक्षरपदंचित्रंभाषितंमधुरंत्वया/यथास्वयंवरंवृत्तंतत्सर्वंहिश्रुतंमया/रमेऽहंकथयातेतुदृष्ढंमधुरभाषिणि/रविरस्तंगतःश्रीमानुपोह्यरजनींशिवाम्/दिवसंप्रतिकीर्णानामाहारार्थंपतत्रिणाम्/संध्याकालेनिलीनानांनिद्रार्थंश्रूयतेध्वनिः/एतेचाप्यभिषेकार्द्रामुनयःफलशोधनाः/सहिताउपवर्तन्तेसलिलाप्लुतवल्कलाः/ऋषीणामग्निहोत्रेषुहुतेषुविधिपुर्वकम्/कपोताङ्गारुणोधूमोदृश्यतेपवनोद्धतः/अल्पपर्णाहितरवोघनीभूताःसमन्ततः/विप्रकृष्टेऽपियेदेशेनप्रकाशन्तिवैदिशः/रजनीरससत्त्वानिप्रचरन्तिसमन्ततः/तपोवनमृगाह्येतेवेदितीर्थेषुशेरते/संप्रवृत्तानिशासीतेनक्षत्रसमलंकृता/ज्योत्स्नाप्रावरणश्चन्द्रोदृश्यतेऽभ्युदितोऽम्बरे/गम्यतामनुजानामिरामस्यानुचरीभव/कथयन्त्याहिमधुरंत्वयाहंपरितोषिता/अलंकुरुचतावत्त्वंप्रत्यक्षंमममैथिलि/प्रीतिंजनयमेवत्सदिव्यालंकारशोभिनी/सातदासमलंकृत्यसीतासुरसुतोपमा/प्रणम्यशिरसातस्यैरामंत्वभिमुखीययौ/तथातुभूषितांसीतांददर्शवदतांवरः/राघवःप्रीतिदानेनतपस्विन्याजहर्षच/न्यवेदयत्ततःसर्वंसीतारामायमैथिली/प्रीतिदानंतपस्विन्यावसनाभरणस्रजाम्/प्रहृष्टस्त्वभवद्रामोलक्ष्मणश्चमहारथः/मैथिल्याःसत्क्रियांदृष्ट्वामानुषेषुसुदुर्लभाम्/ततस्तांसर्वरींप्रीतःपुण्यांशशिनिभाननः/अर्चितस्तापसैःसिद्धैरुवासरघुनन्दनः/तस्यांरात्र्यांव्यतीतायामभिषिच्यहुताग्निकान्/आपृच्छेतांनरव्याघ्रौतापसान्वनगोचरान्/तावूचुस्तेवनचरास्तापसाधर्मचारिणः/वनस्यतस्यसंचारंराक्षसैःसमभिप्लुतम्/एषपन्थामहर्षीणांफलान्याहरतांवने/अनेनतुवनंदुर्गंगन्तुंराघवतेक्षमम्/इतीवतैःप्राञ्जलिभिस्तपस्विभिर्॑द्विजैःकृतस्वस्त्ययनःपरंतपः/वनंसभार्यःप्रविवेशराघवः॑सलक्ष्मणःसूर्यइवाभ्रमण्डलम्211922/3Aranyakand/प्रविश्यतुमहारण्यंदण्डकारण्यमात्मवान्/ददर्शरामोदुर्धर्षस्तापसाश्रममण्डलम्/कुशचीरपरिक्षिप्तंब्राह्म्यालक्ष्म्यासमावृतम्/यथाप्रदीप्तंदुर्धर्शंगगनेसूर्यमण्डलम्/शरण्यंसर्वभूतानांसुसमृष्टाजिरंसदा/पूजितंचोपनृत्तंचनित्यमप्सरसांगणैः/विशालैरग्निशरणैःस्रुग्भाण्डैरजिनैःकुशैः/समिद्भिस्तोयकलशैःफलमूलैश्चशोभितम्/आरण्यैश्चमहावृक्षैःपुण्यैःस्वादुफलैर्वृतम्/बलिहोमार्चितंपुण्यंब्रह्मघोषनिनादितम्/पुष्पैर्वन्यैःपरिक्षिप्तंपद्मिन्याचसपद्मया/फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः/सूर्यवैश्वानराभैश्चपुराणैर्मुनिभिर्वृतम्/पुण्यैशनियताहारैःशोभितंपरमर्षिभिः/तद्ब्रह्मभवनप्रख्यंब्रह्मघोषनिनादितम्/ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्/तद्दृष्ट्वाराघवःश्रीमांस्तापसाश्रममण्डलम्/अभ्यगच्छन्महातेजाविज्यंकृत्वामहद्धनुः/दिव्यज्ञानोपपन्नास्तेरामंदृष्ट्वामहर्षयः/अभ्यगच्छंस्तदाप्रीतावैदेहींचयशस्विनीम्/तेतंसोममिवोद्यन्तंदृष्ट्वावैधर्मचारिणः/मङ्गलानिप्रयुञ्जानाःप्रत्यगृह्णन्दृढव्रताः/रूपसंहननंलक्ष्मींसौकुमार्यंसुवेषताम्/ददृशुर्विस्मिताकारारामस्यवनवासिनः/वैदेहींलक्ष्मणंरामंनेत्रैरनिमिषैरिव/आश्चर्यभूतान्ददृशुःसर्वेतेवनचारिणः/अत्रैनंहिमहाभागाःसर्वभूतहितेरताः/अतिथिंपर्णशालायांराघवंसंन्यवेशयन्/ततोरामस्यसत्कृत्यविधिनापावकोपमाः/आजह्रुस्तेमहाभागाःसलिलंधर्मचारिणः/मूलंपुष्पंफलंवन्यमाश्रमंचमहात्मनः/निवेदयीत्वाधर्मज्ञास्ततःप्राञ्जलयोऽब्रुवन्/धर्मपालोजनस्यास्यशरण्यश्चमहायशाः/पूजनीयश्चमान्यश्चराजादण्डधरोगुरुः/इन्द्रस्यैवचतुर्भागःप्रजारक्षतिराघव/राजातस्माद्वनान्भोगान्भुङ्क्तेलोकनमस्कृतः/तेवयंभवतारक्ष्याभवद्विषयवासिनः/नगरस्थोवनस्थोवात्वंनोराजाजनेश्वरः/न्यस्तदण्डावयंराजञ्जितक्रोधाजितेन्द्रियाः/रक्षितव्यास्त्वयाशश्वद्गर्भभूतास्तपोधनाः/एवमुक्त्वाफलैर्मूलैःपुष्पैर्वन्यैश्चराघवम्/अन्यैश्चविविधाहारैःसलक्ष्मणमपूजयन्/तथान्येतापसाःसिद्धारामंवैश्वानरोपमाः/न्यायवृत्तायथान्यायंतर्पयामासुरीश्वरम्/कृतातिथ्योऽथरामस्तुसूर्यस्योदयनंप्रति/आमन्त्र्यसमुनीन्सर्वान्वनमेवान्वगाहत/नानामृगगणाकीर्णंशार्दूलवृकसेवितम्/ध्वस्तवृक्षलतागुल्मंदुर्दर्शसलिलाशयम्/निष्कूजनानाशकुनिझिल्लिकागणनादितम्/लक्ष्मणानुगतोरामोवनमध्यंददर्शह/वनमध्येतुकाकुत्स्थस्तस्मिन्घोरमृगायुते/ददर्शगिरिशृङ्गाभंपुरुषादंमहास्वनम्/गभीराक्षंमहावक्त्रंविकटंविषमोदरम्/बीभत्संविषमंदीर्घंविकृतंघोरदर्शनम्/वसानंचर्मवैयाघ्रंवसार्द्रंरुधिरोक्षितम्/त्रासनंसर्वभूतानांव्यादितास्यमिवान्तकम्/त्रीन्सिंहांश्चतुरोव्याघ्रान्द्वौवृकौपृषतान्दश/सविषाणंवसादिग्धंगजस्यचशिरोमहत्/अवसज्यायसेशूलेविनदन्तंमहास्वनम्/सरामोलक्ष्मणंचैवसीतांदृष्ट्वाचमैथिलीम्/अभ्यधावत्सुसंक्रुद्धःप्रजाःकालइवान्तकः/सकृत्वाभैरवंनादंचालयन्निवमेदिनीम्/अङ्गेनादायवैदेहीमपक्रम्यततोऽब्रवीत्/युवांजटाचीरधरौसभार्यौक्षीणजीवितौ/प्रविष्टौदण्डकारण्यंशरचापासिधारिणौ/कथंतापसयोर्वांचवासःप्रमदयासह/अधर्मचारिणौपापौकौयुवांमुनिदूषकौ/अहंवनमिदंदुर्गंविराधोनामराक्षसः/चरामिसायुधोनित्यमृषिमांसानिभक्षयन्/इयंनारीवरारोहाममभर्याभविष्यति/युवयोःपापयोश्चाहंपास्यामिरुधिरंमृधे/तस्यैवंब्रुवतोधृष्टंविराधस्यदुरात्मनः/श्रुत्वासगर्वितंवाक्यंसंभ्रान्ताजनकात्मजा/सीताप्रावेपतोद्वेगात्प्रवातेकदलीयथा/तांदृष्ट्वाराघवःसीतांविराधाङ्कगतांशुभाम्/अब्रवील्लक्ष्मणंवाक्यंमुखेनपरिशुष्यता/पश्यसौम्यनरेन्द्रस्यजनकस्यात्मसंभवाम्/ममभार्यांशुभाचारांविराधाङ्केप्रवेशिताम्/अत्यन्तसुखसंवृद्धांराजपुत्रींयशस्विनीम्/यदभिप्रेतमस्मासुप्रियंवरवृतंचयत्/कैकेय्यास्तुसुसंवृत्तंक्षिप्रमद्यैवलक्ष्मण/यानतुष्यतिराज्येनपुत्रार्थेदीर्घदर्शिनी/ययाहंसर्वभूतानांहितःप्रस्थापितोवनम्/अद्येदानींसकामासायामातामममध्यमा/परस्पर्शात्तुवैदेह्यानदुःखतरमस्तिमे/पितुर्विनाशात्सौमित्रेस्वराज्यहरणात्तथा/इतिब्रुवतिकाकुत्स्थेबाष्पशोकपरिप्लुते/अब्रवील्लक्ष्मणःक्रुद्धोरुद्धोनागइवश्वसन्/अनाथइवभूतानांनाथस्त्वंवासवोपमः/मयाप्रेष्येणकाकुत्स्थकिमर्थंपरितप्स्यसे/शरेणनिहतस्याद्यमयाक्रुद्धेनरक्षसः/विराधस्यगतासोर्हिमहीपास्यतिशोणितम्/राज्यकामेममक्रोधोभरतेयोबभूवह/तंविराधेविमोक्ष्यामिवज्रीवज्रमिवाचले/ममभुजबलवेगवेगितः॑पततुशरोऽस्यमहान्महोरसि/व्यपनयतुतनोश्चजीवितं॑पततुततश्चमहींविघूर्णितः/अथोवाचपुनर्वाक्यंविराधःपूरयन्वनम्/आत्मानंपृच्छतेब्रूतंकौयुवांक्वगमिष्यथः/तमुवाचततोरामोराक्षसंज्वलिताननम्/पृच्छन्तंसुमहातेजाइक्ष्वाकुकुलमात्मनः/क्षत्रियोवृत्तसंपन्नौविद्धिनौवनगोचरौ/त्वांतुवेदितुमिच्छावःकस्त्वंचरसिदण्डकान्/तमुवाचविराधस्तुरामंसत्यपराक्रमम्/हन्तवक्ष्यामितेराजन्निबोधममराघव/पुत्रःकिलजयस्याहंमाताममशतह्रदा/विराधइतिमामाहुःपृथिव्यांसर्वराक्षसाः/तपसाचापिमेप्राप्ताब्रह्मणोहिप्रसादजा/शस्त्रेणावध्यतालोकेऽच्छेद्याभेद्यत्वमेवच/उत्सृज्यप्रमदामेनामनपेक्षौयथागतम्/त्वरमाणौपालयेथांनवांजीवितमाददे/तंरामःप्रत्युवाचेदंकोपसंरक्तलोचनः/राक्षसंविकृताकारंविराधंपापचेतसं/क्षुद्रधिक्त्वांतुहीनार्थंमृत्युमन्वेषसेध्रुवम्/रणेसंप्राप्स्यसेतिष्ठनमेजीवन्गमिष्यसि/ततःसज्यंधनुःकृत्वारामःसुनिशिताञ्शरान्/सुशीघ्रमभिसंधायराक्षसंनिजघानह/धनुषाज्यागुणवतासप्तबाणान्मुमोचह/रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान्/तेशरीरंविराधस्यभित्त्वाबर्हिणवाससः/निपेतुःशोणितादिग्धाधरण्यांपावकोपमाः/सविनद्यमहानादंशूलंशक्रध्वजोपमम्/प्रगृह्याशोभततदाव्यात्ताननइवान्तकः/तच्छूलंवज्रसंकाशंगगनेज्वलनोपमम्/द्वाभ्यांशराभ्यांचिच्छेदरामःशस्त्रभृतांवरः/तस्यरौद्रस्यसौमित्रिर्बाहुंसव्यंबभञ्जह/रामस्तुदक्षिणंबाहुंतरसातस्यरक्षसः/सभग्नबाहुःसंविग्नोनिपपाताशुराक्षसः/धरण्यांमेघसंकाशोवज्रभिन्नइवाचलः/इदंप्रोवाचकाकुत्स्थंविराधःपुरुषर्षभम्/कौसल्यासुप्रजास्तातरामस्त्वंविदितोमया/वैदेहीचमहाभागालक्ष्मणश्चमहायशाः/अभिशापादहंघोरांप्रविष्टोराक्षसींतनुम्/तुम्बुरुर्नामगन्धर्वःशप्तोवैश्वरणेनहि/प्रसाद्यमानश्चमयासोऽब्रवीन्मांमहायशाः/यदादाशरथीरामस्त्वांवधिष्यतिसंयुगे/तदाप्रकृतिमापन्नोभवान्स्वर्गंगमिष्यति/इतिवैश्रवणोराजारम्भासक्तमुवाचह/अनुपस्थीयमानोमांसंक्रुद्धोव्यजहारह/तवप्रसादान्मुक्तोऽहमभिशापात्सुदारुणात्/भवनंस्वंगमिष्यामिस्वस्तिवोऽस्तुपरंतप/इतोवसतिधर्मात्माशरभङ्गःप्रतापवान्/अध्यर्धयोजनेतातमहर्षिःसूर्यसंनिभः/तंक्षिप्रमभिगच्छत्वंसतेश्रेयोविधास्यति/अवटेचापिमांरामनिक्षिप्यकुशलीव्रज/रक्षसांगतसत्त्वानामेषधर्मःसनातनः/अवटेयेनिधीयन्तेतेषांलोकाःसनातनाः/एवमुक्त्वातुकाकुत्स्थंविराधःशरपीडितः/बभूवस्वर्गसंप्राप्तोन्यस्तदेहोमहाबलः/तंमुक्तकण्ठमुत्क्षिप्यशङ्कुकर्णंमहास्वनम्/विराधंप्राक्षिपच्छ्वभ्रेनदन्तंभैरवस्वनम्/ततस्तुतौकाञ्चनचित्रकार्मुकौ॑निहत्यरक्षःपरिगृह्यमैथिलीम्/विजह्रतुस्तौमुदितौमहावने॑दिविस्थितौचन्द्रदिवाकराविव/हत्वातुतंभीमबलंविराधंराक्षसंवने/ततःसीतांपरिष्वज्यसमाश्वास्यचवीर्यवान्351/अब्रवील्लक्ष्मणांरामोभ्रातरंदीप्ततेजसं/कष्टंवनमिदंदुर्गंनचस्मोवनगोचराः/अभिगच्छामहेशीघ्रंशरभङ्गंतपोधनम्/आश्रमंशरभङ्गस्यराघवोऽभिजगामह/तस्यदेवप्रभावस्यतपसाभावितात्मनः/समीपेशरभङ्गस्यददर्शमहदद्भुतम्/विभ्राजमानंवपुषासूर्यवैश्वानरोपमम्/असंस्पृशन्तंवसुधांददर्शविबुधेश्वरम्/सुप्रभाभरणंदेवंविरजोऽम्बरधारिणम्/तद्विधैरेवबहुभिःपूज्यमानंमहात्मभिः/हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतंरथम्/ददर्शादूरतस्तस्यतरुणादित्यसंनिभम्/पाण्डुराभ्रघनप्रख्यंचन्द्रमण्डलसंनिभम्/अपश्यद्विमलंछत्रंचित्रमाल्योपशोभितम्/चामरव्यजनेचाग्र्येरुक्मदण्डेमहाधने/गृहीतेवननारीभ्यांधूयमानेचमूर्धनि/गन्धर्वामरसिद्धाश्चबहवःपरमर्षयः/अन्तरिक्षगतंदेवंवाग्भिरग्र्याभिरीडिरे/दृष्ट्वाशतक्रतुंतत्ररामोलक्ष्मणमब्रवीत्/येहयाःपुरुहूतस्यपुराशक्रस्यनःश्रुताः/अन्तरिक्षगतादिव्यास्तइमेहरयोध्रुवम्/इमेचपुरुषव्याघ्रयेतिष्ठन्त्यभितोरथम्/शतंशतंकुण्डलिनोयुवानःखड्गपाणयः/उरोदेशेषुसर्वेषांहाराज्वलनसंनिभाः/रूपंबिभ्रतिसौमित्रेपञ्चविंशतिवार्षिकम्/एतद्धिकिलदेवानांवयोभवतिनित्यदा/यथेमेपुरुषव्याघ्रादृश्यन्तेप्रियदर्शनाः/इहैवसहवैदेह्यामुहूर्तंतिष्ठलक्ष्मण/यावज्जनाम्यहंव्यक्तंकएषद्युतिमान्रथे/तमेवमुक्त्वासौमित्रिमिहैवस्थीयतामिति/अभिचक्रामकाकुत्स्थःशरभङ्गाश्रमंप्रति/ततःसमभिगच्छन्तंप्रेक्ष्यरामंशचीपतिः/शरभङ्गमनुज्ञाप्यविबुधानिदमब्रवीत्/इहोपयात्यसौरामोयावन्मांनाभिभाषते/निष्ठांनयततावत्तुततोमांद्रष्टुमर्हति/जितवन्तंकृतार्थंचद्रष्टाहमचिरादिमम्/कर्मह्यनेनकर्तव्यंमहदन्यैःसुदुष्करम्/इतिवज्रीतमामन्त्र्यमानयित्वाचतापसं/रथेनहरियुक्तेनययौदिवमरिंदमः/प्रयातेतुसहस्राक्षेराघवःसपरिच्छदः/अग्निहोत्रमुपासीनंशरभङ्गमुपागमत्/तस्यपादौचसंगृह्यरामःसीताचलक्ष्मणः/निषेदुस्तदनुज्ञातालब्धवासानिमन्त्रिताः/ततःशक्रोपयानंतुपर्यपृच्छत्सराघवः/शरभङ्गश्चतत्सर्वंराघवायन्यवेदयत्/मामेषवरदोरामब्रह्मलोकंनिनीषति/जितमुग्रेणतपसादुष्प्रापमकृतात्मभिः/अहंज्ञात्वानरव्याघ्रवर्तमानमदूरतः/ब्रह्मलोकंनगच्छामित्वामदृष्ट्वाप्रियातिथिम्/समागम्यगमिष्यामित्रिदिवंदेवसेवितम्/अक्षयानरशार्दूलजितालोकामयाशुभाः/ब्राह्म्याश्चनाकपृष्ठ्याश्चप्रतिगृह्णीष्वमामकान्/एवमुक्तोनरव्याघ्रःसर्वशास्त्रविशारदः/ऋषिणाशरभङ्गेनराघवोवाक्यमब्रवीत्/अहमेवाहरिष्यामिसर्वांल्लोकान्महामुने/आवासंत्वहमिच्छामिप्रदिष्टमिहकानने/राघवेणैवमुक्तस्तुशक्रतुल्यबलेनवै/शरभङ्गोमहाप्राज्ञःपुनरेवाब्रवीद्वचः/सुतीक्ष्णमभिगच्छत्वंशुचौदेशेतपस्विनम्/रमणीयेवनोद्देशेसतेवासंविधास्यति/एषपन्थानरव्याघ्रमुहूर्तंपश्यतातमाम्/यावज्जहामिगात्राणिजीर्णंत्वचमिवोरगः/ततोऽग्निंससमाधायहुत्वाचाज्येनमन्त्रवित्/शरभङ्गोमहातेजाःप्रविवेशहुताशनम्/तस्यरोमाणिकेशांश्चददाहाग्निर्महात्मनः/जीर्णंत्वचंतथास्थीनियच्चमांसंचशोणितम्/सचपावकसंकाशःकुमारःसमपद्यत/उत्थायाग्निचयात्तस्माच्छरभङ्गोव्यरोचत/सलोकानाहिताग्नीनामृषीणांचमहात्मनाम्/देवानांचव्यतिक्रम्यब्रह्मलोकंव्यरोहत/सपुण्यकर्माभुवनेद्विजर्षभः॑पितामहंसानुचरंददर्शह/पितामहश्चापिसमीक्ष्यतंद्विजं॑ननन्दसुस्वागतमित्युवाचह/शरभङ्गेदिवंप्राप्तेमुनिसंघाःसमागताः/अभ्यगच्छन्तकाकुत्स्थंरामंज्वलिततेजसं/वैखानसावालखिल्याःसंप्रक्षालामरीचिपाः/अश्मकुट्टाश्चबहवःपत्राहाराश्चतापसाः/दन्तोलूखलिनश्चैवतथैवोन्मज्जकाःपरे/मुनयःसलिलाहारावायुभक्षास्तथापरे/आकाशनिलयाश्चैवतथास्थण्डिलशायिनः/तथोर्ध्ववासिनोदान्तास्तथार्द्रपटवाससः/सजपाश्चतपोनित्यास्तथापञ्चतपोऽन्विताः/सर्वेब्राह्म्याश्रियाजुष्टादृढयोगसमाहिताः/शरभङ्गाश्रमेराममभिजग्मुश्चतापसाः/अभिगम्यचधर्मज्ञारामंधर्मभृतांवरम्/ऊचुःपरमधर्मज्ञमृषिसंघाःसमाहिताः/त्वमिक्ष्वाकुकुलस्यास्यपृथिव्याश्चमहारथः/प्रधानश्चासिनाथश्चदेवानांमघवानिव/विश्रुतस्त्रिषुलोकेषुयशसाविक्रमेणच/पितृव्रतत्वंसत्यंचत्वयिधर्मश्चपुष्कलः/त्वामासाद्यमहात्मानंधर्मज्ञंधर्मवत्सलम्/अर्थित्वान्नाथवक्ष्यामस्तच्चनःक्षन्तुमर्हसि/अधार्मस्तुमहांस्तातभवेत्तस्यमहीपतेः/योहरेद्बलिषड्भागंनचरक्षतिपुत्रवत्/युञ्जानःस्वानिवप्राणान्प्राणैरिष्टान्सुतानिव/नित्ययुक्तःसदारक्षन्सर्वान्विषयवासिनः/प्राप्नोतिशाश्वतींरामकीर्तिंसबहुवार्षिकीम्/ब्रह्मणःस्थानमासाद्यतत्रचापिमहीयते/यत्करोतिपरंधर्मंमुनिर्मूलफलाशनः/तत्रराज्ञश्चतुर्भागःप्रजाधर्मेणरक्षतः/सोऽयंब्राह्मणभूयिष्ठोवानप्रस्थगणोमहान्/त्वन्नाथोऽनाथवद्रामराक्षसैर्वध्यतेभृशम्/एहिपश्यशरीराणिमुनीनांभावितात्मनाम्/हतानांराक्षसैर्घोरैर्बहूनांबहुधावने/पम्पानदीनिवासानामनुमन्दाकिनीमपि/चित्रकूटालयानांचक्रियतेकदनंमहत्/एवंवयंनमृष्यामोविप्रकारंतपस्विनम्/क्रियमाणंवनेघोरंरक्षोभिर्भीमकर्मभिः/ततस्त्वांशरणार्थंचशरण्यंसमुपस्थिताः/परिपालयनोरामवध्यमानान्निशाचरैः/एतच्छ्रुत्वातुकाकुत्स्थस्तापसानांतपस्विनाम्/इदंप्रोवाचधर्मात्मासर्वानेवतपस्विनः/नैवमर्हथमांवक्तुमाज्ञाप्योऽहंतपस्विनम्/भवतामर्थसिद्ध्यर्थमागतोऽहंयदृच्छया/तस्यमेऽयंवनेवासोभविष्यतिमहाफलः/तपस्विनांरणेशत्रून्हन्तुमिच्छामिराक्षसान्/दत्त्वावरंचापितपोधनानां॑धर्मेधृतात्मासहलक्ष्मणेन/तपोधनैश्चापिसहार्यवृत्तः॑सुतीष्क्णमेवाभिजगामवीरः/रामस्तुसहितोभ्रात्रासीतयाचपरंतपः/सुतीक्ष्णस्याश्रमपदंजगामसहतैर्द्विजैः/सगत्वादूरमध्वानंनदीस्तीर्त्वबहूदकाः/ददर्शविपुलंशैलंमहामेघमिवोन्नतम्/ततस्तदिक्ष्वाकुवरौसततंविविधैर्द्रुमैः/काननंतौविविशतुःसीतयासहराघवौ/प्रविष्टस्तुवनंघोरंबहुपुष्पफलद्रुमम्/ददर्शाश्रममेकान्तेचीरमालापरिष्कृतम्/तत्रतापसमासीनंमलपङ्कजटाधरम्/रामःसुतीक्ष्णंविधिवत्तपोवृद्धमभाषत/रामोऽहमस्मिभगवन्भवन्तंद्रष्टुमागतः/तन्माभिवदधर्मज्ञमहर्षेसत्यविक्रम/सनिरीक्ष्यततोवीरंरामंधर्मभृतांवरम्/समाश्लिष्यचबाहुभ्यामिदंवचनमब्रवीत्/स्वागतंखलुतेवीररामधर्मभृतांवर/आश्रमोऽयंत्वयाक्रान्तःसनाथइवसाम्प्रतम्/प्रतीक्षमाणस्त्वामेवनारोहेऽहंमहायशः/देवलोकमितोवीरदेहंत्यक्त्वामहीतले/चित्रकूटमुपादायराज्यभ्रष्टोऽसिमेश्रुतः/इहोपयातःकाकुत्स्थोदेवराजःशतक्रतुः/सर्वांल्लोकाञ्जितानाहममपुण्येनकर्मणा/तेषुदेवर्षिजुष्टेषुजितेषुतपसामया/मत्प्रसादात्सभार्यस्त्वंविहरस्वसलक्ष्मणः/तमुग्रतपसंदीप्तंमहर्षिंसत्यवादिनम्/प्रत्युवाचात्मवान्रामोब्रह्माणमिववासवः/अहमेवाहरिष्यामिस्वयंलोकान्महामुने/आवासंत्वहमिच्छामिप्रदिष्टमिहकानने/भवान्सर्वत्रकुशलःसर्वभूतहितेरतः/आख्यातःशरभङ्गेनगौतमेनमहात्मना/एवमुक्तस्तुरामेणमहर्षिर्लोकविश्रुतः/अब्रवीन्मधुरंवाक्यंहर्षेणमहताप्लुतः/अयमेवाश्रमोरामगुणवान्रम्यतामिह/ऋषिसंघानुचरितःसदामूलफलैर्युतः/इममाश्रममागम्यमृगसंघामहायशाः/अटित्वाप्रतिगच्छन्तिलोभयित्वाकुतोभयाः/तच्छ्रुत्वावचनंतस्यमहर्षेर्लक्ष्मणाग्रजः/उवाचवचनंधीरोविकृष्यसशरंधनुः/तानहंसुमहाभागमृगसंघान्समागतान्/हन्यांनिशितधारेणशरेणाशनिवर्चसा/भवांस्तत्राभिषज्येतकिंस्यात्कृच्छ्रतरंततः/एतस्मिन्नाश्रमेवासंचिरंतुनसमर्थये/तमेवमुक्त्वावरदंरामःसंध्यामुपागमत्/अन्वास्यपश्चिमांसंध्यांतत्रवासमकल्पयत्/ततःशुभंतापसभोज्यमन्नं॑स्वयंसुतीक्ष्णःपुरुषर्षभाभ्याम्/ताभ्यांसुसत्कृत्यददौमहात्मा॑संध्यानिवृत्तौरजनींसमीक्ष्य/रामस्तुसहसौमित्रिःसुतीक्ष्णेनाभिपूजितः/परिणम्यनिशांतत्रप्रभातेप्रत्यबुध्यत/उत्थायतुयथाकालंराघवःसहसीतया/उपास्पृशत्सुशीतेनजलेनोत्पलगन्धिना/अथतेऽग्निंसुरांश्चैववैदेहीरामलक्ष्मणौ/काल्यंविधिवदभ्यर्च्यतपस्विशरणेवने/उदयन्न्तंदिनकरंदृष्ट्वाविगतकल्मषाः/सुतीक्ष्णमभिगम्येदंश्लक्ष्णंवचनमब्रुवन्/सुखोषिताःस्मभगवंस्त्वयापूज्येनपूजिताः/आपृच्छामःप्रयास्यामोमुनयस्त्वरयन्तिनः/त्वरामहेवयंद्रष्टुंकृत्स्नमाश्रममण्डलम्/ऋषीणांपुण्यशीलानांदण्डकारण्यवासिनाम्/अभ्यनुज्ञातुमिच्छामःसहैभिर्मुनिपुङ्गवैः/धर्मनित्यैस्तपोदान्तैर्विशिखैरिवपावकैः/अविषह्यातपोयावत्सूर्योनातिविराजिते/अमार्गेणागतांलक्ष्मींप्राप्येवान्वयवर्जितः/तावदिच्छामहेगन्तुमित्युक्त्वाचरणौमुनेः/ववन्देसहसौमित्रिःसीतयासहराघवः/तौसंस्पृशन्तौचरणावुत्थाप्यमुनिपुंगवः/गाढमालिङ्ग्यसस्नेहमिदंवचनमब्रवीत्/अरिष्टंगच्छपन्थानंरामसौमित्रिणासह/सीतयाचानयासार्धंछाययेवानुवृत्तया/पश्याश्रमपदंरम्यंदण्डकारण्यवासिनाम्/एषांतपस्विनांवीरतपसाभावितात्मनाम्/सुप्राज्यफलमूलानिपुष्पितानिवनानिच/प्रशान्तमृगयूथानिशान्तपक्षिगणानिच/फुल्लपङ्कजषडानिप्रसन्नसलिलानिच/कारण्डवविकीर्णानितटाकानिसरांसिच/द्रक्ष्यसेदृष्टिरम्याणिगिरिप्रस्रवणानिच/रमणीयान्यरण्यानिमयूराभिरुतानिच/गम्यतांवत्ससौमित्रेभवानपिचगच्छतु/आगन्तव्यंचतेदृष्ट्वापुनरेवाश्रमंमम/एवमुक्तस्तथेत्युक्त्वाकाकुत्स्थःसहलक्ष्मणः/प्रदक्षिणंमुनिंकृताप्रस्थातुमुपचक्रमे/ततःशुभतरेतूणीधनुषीचायतेक्षणा/ददौसीतातयोर्भ्रात्रोःखड्गौचविमलौततः/आबध्यचशुभेतूणीचापेचादायसस्वने/निष्क्रान्तावाश्रमाद्गन्तुमुभौतौरामलक्ष्मणौ/सुतीक्ष्णेनाभ्यनुज्ञातंप्रस्थितंरघुनन्दनम्/वैदेहीस्निग्धयावाचाभर्तारमिदमब्रवीत्/अयंधर्मःसुसूक्ष्मेणविधिनाप्राप्यतेमहान्/निवृत्तेनचशक्योऽयंव्यसनात्कामजादिह/त्रीण्येवव्यसनान्यत्रकामजानिभवन्त्युत/मिथ्यावाक्यंपरमकंतस्माद्गुरुतरावुभौ/परदाराभिगमनंविनावैरंचरौद्रता/मिथ्यावाक्यंनतेभूतंनभविष्यतिराघव/कुतोऽभिलषणंस्त्रीणांपरेषांधर्मनाशनम्/तच्चसर्वंमहाबाहोशक्यंवोढुंजितेन्द्रियैः/तववश्येन्द्रियत्वंचजानामिशुभदर्शन/तृतीयंयदिदंरौद्रंपरप्राणाभिहिंसनम्/निर्वैरंक्रियतेमोहात्तच्चतेसमुपस्थितम्/प्रतिज्ञातस्त्वयावीरदण्डकारण्यवासिनाम्/ऋषीणांरक्षणार्थायवधःसंयतिरक्षसाम्/एतन्निमित्तंचवनंदण्डकाइतिविश्रुतम्/प्रस्थितस्त्वंसहभ्रात्राधृतबाणशरासनः/ततस्त्वांप्रस्थितंदृष्ट्वाममचिन्ताकुलंमनः/त्वद्वृत्तंचिन्तयन्त्यावैभवेन्निःश्रेयसंहितम्/नहिमेरोचतेवीरगमनंदण्डकान्प्रति/कारणंतत्रवक्ष्यामिवदन्त्याःश्रूयतांमम/त्वंहिबाणधनुष्पाणिर्भ्रात्रासहवनंगतः/दृष्ट्वावनचरान्सर्वान्कच्चित्कुर्याःशरव्ययम्/क्षत्रियाणामिहधनुर्हुताशस्येन्धनानिच/समीपतःस्थितंतेजोबलमुच्छ्रयतेभृशम्/पुराकिलमहाबाहोतपस्वीसत्यवाक्शुचिः/कस्मिंश्चिदभवत्पुण्येवनेरतमृगद्विजे/तस्यैवतपसोविघ्नंकर्तुमिन्द्रःशचीपतिः/खड्गपाणिरथागच्छदाश्रमंभटरूपधृक्/तस्मिंस्तदाश्रमपदेनिहितःखड्गउत्तमः/सन्यासविधिनादत्तःपुण्येतपसितिष्ठतः/सतच्छस्त्रमनुप्राप्यन्यासरक्षणतत्परः/वनेतुविचरत्येवरक्षन्प्रत्ययमात्मनः/यत्रगच्छत्युपादातुंमूलानिचफलानिच/नविनायातितंखड्गंन्यासरक्षणतत्परः/नित्यंशस्त्रंपरिवहन्क्रमेणसतपोधनः/चकाररौद्रींस्वांबुद्धिंत्यक्त्वातपसिनिश्चयम्/ततःसरौद्राभिरतःप्रमत्तोऽधर्मकर्षितः/तस्यशस्त्रस्यसंवासाज्जगामनरकंमुनिः/स्नेहाच्चबहुमानाच्चस्मारयेत्वांनशिक्षये/नकथंचनसाकार्याहृहीतधनुषात्वया/बुद्धिर्वैरंविनाहन्तुंराक्षसान्दण्डकाश्रितान्/अपराधंविनाहन्तुंलोकान्वीरनकामये/क्षत्रियाणांतुवीराणांवनेषुनियतात्मनाम्/धनुषाकार्यमेतावदार्तानामभिरक्षणम्/क्वचशस्त्रंक्वचवनंक्वचक्षात्रंतपःक्वच/व्याविद्धमिदमस्माभिर्देशधर्मस्तुपूज्यताम्/तदार्यकलुषाबुद्धिर्जायतेशस्त्रसेवनात्/पुनर्गत्वात्वयोध्यायांक्षत्रधर्मंचरिष्यसि/अक्षयातुभवेत्प्रीतिःश्वश्रूश्वशुरयोर्मम/यदिराज्यंहिसंन्यस्यभवेस्त्वंनिरतोमुनिः/धर्मादर्थःप्रभवतिधर्मात्प्रभवतेसुखम्/धर्मेणलभतेसर्वंधर्मसारमिदंजगत्/आत्मानंनियमैस्तैस्तैःकर्षयित्वाप्रयत्नतः/प्राप्यतेनिपुणैर्धर्मोनसुखाल्लभ्यतेसुखम्/नित्यंशुचिमतिःसौम्यचरधर्मंतपोवने/सर्वंहिविदितंतुभ्यंत्रैलोक्यमपितत्त्वतः/स्त्रीचापलादेतदुदाहृतंमे॑धर्मंचवक्तुंतवकःसमर्थः/विचार्यबुद्ध्यातुसहानुजेन॑यद्रोचतेतत्कुरुमाचिरेण/वाक्यमेतत्तुवैदेह्याव्याहृतंभर्तृभक्तया/श्रुत्वाधर्मेस्थितोरामःप्रत्युवाचाथमैथिलीम्/हितमुक्तंत्वयादेविस्निग्धयासदृशंवचः/कुलंव्यपदिशन्त्याचधर्मज्ञेजनकात्मजे/किंतुवक्ष्याम्यहंदेवित्वयैवोक्तमिदंवचः/क्षत्रियैर्धार्यतेचापोनार्तशब्दोभवेदिति/तेचार्तादण्डकारण्येमुनयःसंशितव्रताः/मांसीतेस्वयमागम्यशरण्याःशरणंगताः/वसन्तोधर्मनिरतावनेमूलफलाशनाः/नलभन्तेसुखंभीताराक्षसैःक्रूरकर्मभिः/कालेकालेचनिरतानियमैर्विविधैर्वने/भक्ष्यन्तेराक्षसैर्भीमैर्नरमांसोपजीविभिः/तेभक्ष्यमाणामुनयोदण्डकारण्यवासिनः/अस्मानभ्यवपद्येतिमामूचुर्द्विजसत्तमाः/मयातुवचनंश्रुत्वातेषामेवंमुखाच्च्युतम्/कृत्वाचरणशुश्रूषांवाक्यमेतदुदाहृतम्/प्रसीदन्तुभवन्तोमेह्रीरेषाहिममातुला/यदीदृशैरहंविप्रैरुपस्थेयैरुपस्थितः/किंकरोमीतिचमयाव्याहृतंद्विजसंनिधौ/सर्वैरेवसमागम्यवागियंसमुदाहृता/राक्षसैर्दण्डकारण्येबहुभिःकामरूपिभिः/अर्दिताःस्मभृशंरामभवान्नस्त्रातुमर्हति/होमकालेतुसंप्राप्तेपर्वकालेषुचानघ/धर्षयन्तिस्मदुर्धर्षाराक्षसाःपिशिताशनाः/राक्षसैर्धर्षितानांचतापसानांतपस्विनाम्/गतिंमृगयमाणानांभवान्नःपरमागतिः/कामंतपःप्रभावेनशक्ताहन्तुंनिशाचरान्/चिरार्जितंतुनेच्छामस्तपःखण्डयितुंवयम्/बहुविघ्नंतपोनित्यंदुश्चरंचैवराघव/तेनशापंनमुञ्चामोभक्ष्यमाणाश्चराक्षसैः/तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः/रक्षनस्त्वंसहभ्रात्रात्वन्नाथाहिवयंवने/मयाचैतद्वचःश्रुत्वाकार्त्स्न्येनपरिपालनम्/ऋषीणांदण्डकारण्येसंश्रुतंजनकात्मजे/संश्रुत्यचनशक्ष्यामिजीवमानःप्रतिश्रवम्/मुनीनामन्यथाकर्तुंसत्यमिष्टंहिमेसदा/अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्मणाम्/नतुप्रतिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषतः/तदवश्यंमयाकार्यमृषीणांपरिपालनम्/अनुक्तेनापिवैदेहिप्रतिज्ञायतुकिंपुनः/ममस्नेहाच्चसौहार्दादिदमुक्तंत्वयावचः/परितुष्टोऽस्म्यहंसीतेनह्यनिष्टोऽनुशिष्यते/सदृशंचानुरूपंचकुलस्यतवशोभने/इत्येवमुक्त्वावचनंमहात्मासीतांप्रियांमैथिलराजपुत्रीम्/रामोधनुष्मान्सहलक्ष्मणेनजगामरम्याणितपोवनानि/अग्रतःप्रययौरामःसीतामध्येसुमध्यमा/पृष्ठतस्तुधनुष्पाणिर्लक्ष्मणोऽनुजगामह3111/तौपश्यमानौविविधाञ्शैलप्रस्थान्वनानिच/नदीश्चविविधारम्याजग्मतुःसहसीतया/सारसांश्चक्रवाकांश्चनदीपुलिनचारिणः/सरांसिचसपद्मानियुतानिजलजैःखगैः/यूथबद्धांश्चपृषतान्मदोन्मत्तान्विषाणिनः/महिषांश्चवराहांश्चगजांश्चद्रुमवैरिणः/तेगत्वादूरमध्वानंलम्बमानेदिवाकरे/ददृशुःसहितारम्यंतटाकंयोजनायतम्/पद्मपुष्करसंबाधंगजयूथैरलंकृतम्/सारसैर्हंसकादम्बैःसंकुलंजलचारिभिः/प्रसन्नसलिलेरम्यतस्मिन्सरसिशुश्रुवे/गीतवादित्रनिर्घोषोनतुकश्चनदृश्यते/ततःकौतूहलाद्रामोलक्ष्मणश्चमहारथः/मुनिंधर्मभृतंनामप्रष्टुंसमुपचक्रमे/इदमत्यद्भुतंश्रुत्वासर्वेषांनोमहामुने/कौतूहलंमहज्जातंकिमिदंसाधुकथ्यताम्/तेनैवमुक्तोधर्मात्माराघवेणमुनिस्तदा/प्रभावंसरसःकृत्स्नमाख्यातुमुपचक्रमे/इदंपञ्चाप्सरोनामतटाकंसार्वकालिकम्/निर्मितंतपसाराममुनिनामाण्डकर्णिना/सहितेपेतपस्तीव्रंमाण्डकर्णिर्महामुनिः/दशवर्षसहस्राणिवायुभक्षोजलाश्रय/ततःप्रव्यथिताःसर्वेदेवाःसाग्निपुरोगमाः/अब्रुवन्वचनंसर्वेपरस्परसमागताः/अस्मकंकस्यचित्स्थानमेषप्रार्थयतेमुनिः/ततःकर्तुंतपोविघ्नंसर्वैर्देवैर्नियोजिताः/प्रधानाप्सरसःपञ्चविद्युच्चलितवर्चसः/अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः/नीतोमदनवश्यत्वंसुराणांकार्यसिद्धये/ताश्चैवाप्सरसःपञ्चमुनेःपत्नीत्वमागताः/तटाकेनिर्मितंतासामस्मिन्नन्तर्हितंगृहम्/तत्रैवाप्सरसःपञ्चनिवसन्त्योयथासुखम्/रमयन्तितपोयोगान्मुनिंयौवनमास्थितम्/तासांसंक्रीडमानानामेषवादित्रनिःस्वनः/श्रूयतेभूषणोन्मिश्रोगीतशब्दोमनोहरः/आश्चर्यमितितस्यैतद्वचनंभावितात्मनः/राघवःप्रतिजग्राहसहभ्रात्रामहायशाः/एवंकथयमानस्यददर्शाश्रममण्डलम्/कुशचीरपरिक्षिप्तंनानावृक्षसमावृतम्/प्रविश्यसहवैदेह्यालक्ष्मणेनचराघवः/तदातस्मिन्सकाकुत्स्थःश्रीमत्याश्रममण्डले/उषित्वासुसुखंतत्रपूर्ज्यमानोमहर्षिभिः/जगामचाश्रमांस्तेषांपर्यायेणतपस्विनाम्/येषामुषितवान्पूर्वंसकाशेसमहास्त्रवित्/क्वचित्परिदशान्मासानेकंसंवत्सरंक्वचित्/क्वचिच्चचतुरोमासान्पञ्चषट्चापरान्क्वचित्/अपरत्राधिकान्मासानध्यर्धमधिकंक्वचित्/त्रीन्मासानष्टमासांश्चराघवोन्यवसत्सुखम्/तथासंवसतस्तस्यमुनीनामाश्रमेषुवै/रमतश्चानुकुल्येनययुःसंवत्सरादश/परिसृत्यचधर्मज्ञोराघवःसहसीतया/सुतीक्ष्णस्याश्रमंश्रीमान्पुनरेवाजगामह/सतमाश्रममागम्यमुनिभिःप्रतिपूजितः/तत्रापिन्यवसद्रामःकंचित्कालमरिंदमः/अथाश्रमस्थोविनयात्कदाचित्तंमहामुनिम्/उपासीनःसकाकुत्स्थःसुतीक्ष्णमिदमब्रवीत्/अस्मिन्नरण्येभगवन्नगस्त्योमुनिसत्तमः/वसतीतिमयानित्यंकथाःकथयतांश्रुतम्/नतुजानामितंदेशंवनस्यास्यमहत्तया/कुत्राश्रमपदंपुण्यंमहर्षेस्तस्यधीमतः/प्रसादात्तत्रभवतःसानुजःसहसीतया/अगस्त्यमभिगच्छेयमभिवादयितुंमुनिम्/मनोरथोमहानेषहृदिसंपरिवर्तते/यदहंतंमुनिवरंशुश्रूषेयमपिस्वयम्/इतिरामस्यसमुनिःश्रुत्वाधर्मात्मनोवचः/सुतीक्ष्णःप्रत्युवाचेदंप्रीतोदशरथात्मजम्/अहमप्येतदेवत्वांवक्तुकामःसलक्ष्मणम्/अगस्त्यमभिगच्छेतिसीतयासहराघव/दिष्ट्यात्विदानीमर्थेऽस्मिन्स्वयमेवब्रवीषिमाम्/अहमाख्यासितेवत्सयत्रागस्त्योमहामुनिः/योजनान्याश्रमात्तातयाहिचत्वारिवैततः/दक्षिणेनमहाञ्श्रीमानगस्त्यभ्रातुराश्रमः/स्थलप्रायेवनोद्देशेपिप्पलीवनशोभिते/बहुपुष्पफलेरम्येनानाशकुनिनादिते/पद्मिन्योविविधास्तत्रप्रसन्नसलिलाःशिवाः/हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः/तत्रैकांरजनीमुष्यप्रभातेरामगम्यताम्/दक्षिणांदिशमास्थायवनखण्डस्यपार्श्वतः/तत्रागस्त्याश्रमपदंगत्वायोजनमन्तरम्/रमणीयेवनोद्देशेबहुपादपसंवृते/रंस्यतेतत्रवैदेहीलक्ष्मणश्चत्वयासह/सहिरम्योवनोद्देशोबहुपादपसंकुलः/यदिबुद्धिःकृताद्रष्टुमगस्त्यंतंमहामुनिम्/अद्यैवगमनेबुद्धिंरोचयस्वमहायशः/इतिरामोमुनेःश्रुत्वासहभ्रात्राभिवाद्यच/प्रतस्थेऽगस्त्यमुद्दिश्यसानुजःसहसीतया/पश्यन्वनानिचित्राणिपर्वपांश्चाभ्रसंनिभान्/सरांसिसरितश्चैवपथिमार्गवशानुगाः/सुतीक्ष्णेनोपदिष्टेनगत्वातेनपथासुखम्/इदंपरमसंहृष्टोवाक्यंलक्ष्मणमब्रवीत्/एतदेवाश्रमपदंनूनंतस्यमहात्मनः/अगस्त्यस्यमुनेर्भ्रातुर्दृश्यतेपुण्यकर्मणः/यथाहीमेवनस्यास्यज्ञाताःपथिसहस्रशः/संनताःफलभरेणपुष्पभारेणचद्रुमाः/पिप्पलीनांचपक्वानांवनादस्मादुपागतः/गन्धोऽयंपवनोत्क्षिप्तःसहसाकटुकोदयः/तत्रतत्रचदृश्यन्तेसंक्षिप्ताःकाष्ठसंचयाः/लूनाश्चपथिदृश्यन्तेदर्भावैदूर्यवर्चसः/एतच्चवनमध्यस्थंकृष्णाभ्रशिखरोपमम्/पावकस्याश्रमस्थस्यधूमाग्रंसंप्रदृश्यते/विविक्तेषुचतीर्थेषुकृतस्नानाद्विजातयः/पुष्पोपहारंकुर्वन्तिकुसुमैःस्वयमार्जितैः/तत्सुतीक्ष्णस्यवचनंयथासौम्यमयाश्रुतम्/अगस्त्यस्याश्रमोभ्रातुर्नूनमेषभविष्यति/निगृह्यतरसामृत्युंलोकानांहितकाम्यया/यस्यभ्रात्राकृतेयंदिक्शरण्यापुण्यकर्मणा/इहैकदाकिलक्रूरोवातापिरपिचेल्वलः/भ्रातरौसहितावास्तांब्राह्मणघ्नौमहासुरौ/धारयन्ब्राह्मणंरूपमिल्वलःसंस्कृतंवदन्/आमन्त्रयतिविप्रान्सश्राद्धमुद्दिश्यनिर्घृणः/भ्रातरंसंस्कृतंभ्राताततस्तंमेषरूपिणम्/तान्द्विजान्भोजयामासश्राद्धदृष्टेनकर्मणा/ततोभुक्तवतांतेषांविप्राणामिल्वलोऽब्रवीत्/वातापेनिष्क्रमस्वेतिस्वरेणमहतावदन्/ततोभ्रातुर्वचःश्रुत्वावातापिर्मेषवन्नदन्/भित्त्वाभित्वाशरीराणिब्राह्मणानांविनिष्पतत्/ब्राह्मणानांसहस्राणितैरेवंकामरूपिभिः/विनाशितानिसंहत्यनित्यशःपिशिताशनैः/अगस्त्येनतदादेवैःप्रार्थितेनमहर्षिणा/अनुभूयकिलश्राद्धेभक्षितःसमहासुरः/ततःसंपन्नमित्युक्त्वादत्त्वाहस्तावसेचनम्/भ्रातरंनिष्क्रमस्वेतिइल्वलःसोऽभ्यभाषत/तंतथाभाषमाणंतुभ्रातरंविप्रघातिनम्/अब्रवीत्प्रहसन्धीमानगस्त्योमुनिसत्तमः/कुतोनिष्क्रमितुंशक्तिर्मयाजीर्णस्यरक्षसः/भ्रातुस्तेमेषरूपस्यगतस्ययमसादनम्/अथतस्यवचःश्रुत्वाभ्रातुर्निधनसंश्रितम्/प्रधर्षयितुमारेभेमुनिंक्रोधान्निशाचरः/सोऽभ्यद्रवद्द्विजेन्द्रंतंमुनिनादीप्ततेजसा/चक्षुषानलकल्पेननिर्दग्धोनिधनंगतः/तस्यायमाश्रमोभ्रातुस्तटाकवनशोभितः/विप्रानुकम्पयायेनकर्मेदंदुष्करंकृतम्/एवंकथयमानस्यतस्यसौमित्रिणासह/रामस्यास्तंगतःसूर्यःसंध्याकालोऽभ्यवर्तत/उपास्यपश्चिमांसंध्यांसहभ्रात्रायथाविधि/प्रविवेशाश्रमपदंतमृषिंचाभ्यवादयन्/सम्यक्प्रतिगृहीतस्तुमुनिनातेनराघवः/न्यवसत्तांनिशामेकांप्राश्यमूलफलानिच/तस्यांरात्र्यांव्यतीतायांविमलेसूर्यमण्डले/भ्रातरंतमगस्त्यस्यआमन्त्रयतराघवः/अभिवादयेत्वाभगवन्सुखमध्युषितोनिशाम्/आमन्त्रयेत्वांगच्छामिगुरुंतेद्रष्टुमग्रजम्/गम्यतामितितेनोक्तोजगामरघुनन्दनः/यथोद्दिष्टेनमार्गेणवनंतच्चावलोकयन्/नीवारान्पनसांस्तालांस्तिमिशान्वञ्जुलान्धवान्/चिरिबिल्वान्मधूकांश्चबिल्वानपिचतिन्दुकान्/पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान्/ददर्शरामःशतशस्तत्रकान्तारपादपान्/हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्/मत्तैःशकुनिसंघैश्चशतशःप्रतिनादितान्/ततोऽब्रवीत्समीपस्थंरामोराजीवलोचनः/पृष्ठतोऽनुगतंवीरंलक्ष्मणंलक्ष्मिवर्धनम्/स्निग्धपत्रायथावृक्षायथाक्षान्तामृगद्विजाः/आश्रमोनातिदूरस्थोमहर्षेर्भावितात्मनः/अगस्त्यइतिविख्यातोलोकेस्वेनैवकर्मणा/आश्रमोदृश्यतेतस्यपरिश्रान्तश्रमापहः/प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः/प्रशान्तमृगयूथश्चनानाशकुनिनादितः/निगृह्यतरसामृत्युंलोकानांहितकाम्यया/दक्षिणादिक्कृतायेनशरण्यापुण्यकर्मणा/तस्येदमाश्रमपदंप्रभावाद्यस्यराक्षसैः/दिगियंदक्षिणात्रासाद्दृश्यतेनोपभुज्यते/यदाप्रभृतिचाक्रान्तादिगियंपुण्यकर्मणा/तदाप्रभृतिनिर्वैराःप्रशान्तारजनीचराः/नाम्नाचेयंभगवतोदक्षिणादिक्प्रदक्षिणा/प्रथितात्रिषुलोकेषुदुर्धर्षाक्रूरकर्मभिः/मार्गंनिरोद्धुंसततंभास्करस्याचलोत्तमः/संदेशंपालयंस्तस्यविन्ध्यशौलोनवर्धते/अयंदीर्घायुषस्तस्यलोकेविश्रुतकर्मणः/अगस्त्यस्याश्रमःश्रीमान्विनीतमृगसेवितः/एषलोकार्चितःसाधुर्हितेनित्यंरतःसताम्/अस्मानधिगतानेषश्रेयसायोजयिष्यति/आराधयिष्याम्यत्राहमगस्त्यंतंमहामुनिम्/शेषंचवनवासस्यसौम्यवत्स्याम्यहंप्रभो/अत्रदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/अगस्त्यंनियताहारंसततंपर्युपासते/नात्रजीवेन्मृषावादीक्रूरोवायदिवाशठः/नृशंसःकामवृत्तोवामुनिरेषतथाविधः/अत्रदेवाश्चयक्षाश्चनागाश्चपतगैःसह/वसन्तिनियताहारोधर्ममाराधयिष्णवः/अत्रसिद्धामहात्मानोविमानैःसूर्यसंनिभैः/त्यक्त्वादेहान्नवैर्देहैःस्वर्याताःपरमर्षयः/यक्षत्वममरत्वंचराज्यानिविविधानिच/अत्रदेवाःप्रयच्छन्तिभूतैराराधिताःशुभैः/आगताःस्माश्रमपदंसौमित्रेप्रविशाग्रतः/निवेदयेहमांप्राप्तमृषयेसहसीतया/सप्रविश्याश्रमपदंलक्ष्मणोराघवानुजः/अगस्त्यशिष्यमासाद्यवाक्यमेतदुवाचह/राजादशरथोनामज्येष्ठस्तस्यसुतोबली/रामःप्राप्तोमुनिंद्रष्टुंभार्ययासहसीतया/लक्ष्मणोनामतस्याहंभ्रातात्ववरजोहितः/अनुकूलश्चभक्तश्चयदितेश्रोत्रमागतः/तेवयंवनमत्युग्रंप्रविष्टाःपितृशासनात्/द्रष्टुमिच्छामहेसर्वेभगवन्तंनिवेद्यताम्/तस्यतद्वचनंश्रुत्वालक्ष्मणस्यतपोधनः/तथेत्युक्त्वाग्निशरणंप्रविवेशनिवेदितुम्/सप्रविश्यमुनिश्रेष्ठंतपसादुष्प्रधर्षणम्/कृताञ्जलिरुवाचेदंरामागमनमञ्जसा/पुत्रौदशरथस्येमौरामोलक्ष्मणएवच/प्रविष्टावाश्रमपदंसीतयासहभार्यया/द्रष्टुंभवन्तमायातौशुश्रूषार्थमरिंदमौ/यदत्रानन्तरंतत्त्वमाज्ञापयितुमर्हसि/ततःशिष्यादुपश्रुत्यप्राप्तंरामंसलक्ष्मणम्/वैदेहींचमहाभागामिदंवचनमब्रवीत्/दिष्ट्यारामश्चिरस्याद्यद्रष्टुंमांसमुपागतः/मनसाकाङ्क्षितंह्यस्यमयाप्यागमनंप्रति/गम्यतांसत्कृतोरामःसभार्यःसहलक्ष्मणः/प्रवेश्यतांसमीपंमेकिंचासौनप्रवेशितः/एवमुक्तस्तुमुनिनाधर्मज्ञेनमहात्मना/अभिवाद्याब्रवीच्छिष्यस्तथेतिनियताञ्जलिः/ततोनिष्क्रम्यसंभ्रान्तःशिष्योलक्ष्मणमब्रवीत्/क्वासौरामोमुनिंद्रष्टुमेतुप्रविशतुस्वयम्/ततोगत्वाश्रमपदंशिष्येणसहलक्ष्मणः/दर्शयामासकाकुत्स्थंसीतांचजनकात्मजाम्/तंशिष्यःप्रश्रितंवाक्यमगस्त्यवचनंब्रुवन्/प्रावेशयद्यथान्यायंसत्कारार्थंसुसत्कृतम्/प्रविवेशततोरामःसीतयासहलक्ष्मणः/प्रशान्तहरिणाकीर्णमाश्रमंह्यवलोकयन्/सतत्रब्रह्मणःस्थानमग्नेःस्थानंतथैवच/विष्णोःस्थानंमहेन्द्रस्यस्थानंचैवविवस्वतः/सोमस्थानंभगस्थानंस्थानंकौबेरमेवच/धातुर्विधातुःस्थानंचवायोःस्थानंतथैवच/ततःशिष्यैःपरिवृतोमुनिरप्यभिनिष्पतत्/तंददर्शाग्रतोरामोमुनीनांदीप्ततेजसं/अब्रवीद्वचनंवीरोलक्ष्मणंलक्ष्मिवर्धनम्/एषलक्ष्मणनिष्क्रामत्यगस्त्योभगवानृषिः/औदार्येणावगच्छामिनिधानंतपसामिमम्/एवमुक्त्वामहाबाहुरगस्त्यंसूर्यवर्चसं/जग्राहपरमप्रीतस्तस्यपादौपरंतपः/अभिवाद्यतुधर्मात्मातस्थौरामःकृताञ्जलिः/सीतयासहवैदेह्यातदारामसलक्ष्मणः/प्रतिगृह्यचकाकुत्स्थमर्चयित्वासनोदकैः/कुशलप्रश्नमुक्त्वाचआस्यतामितिसोऽब्रवीत्/अग्निंहुत्वाप्रदायार्घ्यमतिथिंप्रतिपूज्यच/वानप्रस्थेनधर्मेणसतेषांभोजनंददौ/प्रथमंचोपविश्याथधर्मज्ञोमुनिपुंगवः/उवाचराममासीनंप्राञ्जलिंधर्मकोविदम्/अन्यथाखलुकाकुत्स्थतपस्वीसमुदाचरन्/दुःसाक्षीवपरेलोकेस्वानिमांसानिभक्षयेत्/राजासर्वस्यलोकस्यधर्मचारीमहारथः/पूजनीयश्चमान्यश्चभवान्प्राप्तःप्रियातिथिः/एवमुक्त्वाफलैर्मूलैःपुष्पैश्चान्यैश्चराघवम्/पूजयित्वायथाकामंपुनरेवततोऽब्रवीत्/इदंदिव्यंमहच्चापंहेमवज्रविभूषितम्/वैष्णवंपुरुषव्याघ्रनिर्मितंविश्वकर्मणा/अमोघःसूर्यसंकाशोब्रह्मदत्तःशरोत्तमः/दत्तोमममहेन्द्रेणतूणीचाक्षयसायकौ/संपूर्णौनिशितैर्बाणैर्ज्वलद्भिरिवपावकैः/महाराजतकोशोऽयमसिर्हेमविभूषितः/अनेनधनुषारामहत्वासंख्येमहासुरान्/आजहारश्रियंदीप्तांपुराविष्णुर्दिवौकसाम्/तद्धनुस्तौचतूणीरौशरंखड्गंचमानद/जयायप्रतिगृह्णीष्ववज्रंवज्रधरोयथा/एवमुक्त्वामहातेजाःसमस्तंतद्वरायुधम्/दत्त्वारामायभगवानगस्त्यःपुनरब्रवीत्/रामप्रीतोऽस्मिभद्रंतेपरितुष्टोऽस्मिलक्ष्मण/अभिवादयितुंयन्मांप्राप्तौस्थःसहसीतया/अध्वश्रमेणवांखेदोबाधतेप्रचुरश्रमः/व्यक्तमुत्कण्ठतेचापिमैथिलीजनकात्मजा/एषाहिसुकुमारीचदुःखैश्चनविमानिता/प्राज्यदोषंवनंप्रप्ताभर्तृस्नेहप्रचोदिता/यथैषारमतेरामइहसीतातथाकुरु/दुष्करंकृतवत्येषावनेत्वामनुगच्छती/एषाहिप्रकृतिःस्त्रीणामासृष्टेरघुनन्दन/समस्थमनुरज्यन्तेविषमस्थंत्यजन्तिच/शतह्रदानांलोलत्वंशस्त्राणांतीक्ष्णतांतथा/गरुडानिलयोःशैघ्र्यमनुगच्छन्तियोषितः/इयंतुभवतोभार्यादोषैरेतैर्विवर्जिताः/श्लाघ्याचव्यपदेश्याचयथादेवीह्यरुन्धती/अलंकृतोऽयंदेशश्चयत्रसौमित्रिणासह/वैदेह्याचानयारामवत्स्यसित्वमरिंदम/एवमुक्तस्तुमुनिनाराघवःसंयताञ्जलिः/उवाचप्रश्रितंवाक्यमृषिंदीप्तमिवानलम्/धन्योऽस्म्यनुगृहीतोऽस्मियस्यमेमुनिपुंगवः/गुणैःसभ्रातृभार्यस्यवरदःपरितुष्यति/किंतुव्यादिशमेदेशंसोदकंबहुकाननम्/यत्राश्रमपदंकृत्वावसेयंनिरतःसुखम्/ततोऽब्रवीन्मुनिश्रेष्ठःश्रुत्वारामस्यभाषितम्/ध्यात्वामुहूर्तंधर्मात्माधीरोधीरतरंवचः/इतोद्वियोजनेतातबहुमूलफलोदकः/देशोबहुमृगःश्रीमान्पञ्चवट्यभिविश्रुतः/तत्रगत्वाश्रमपदंकृत्वासौमित्रिणासह/रमस्वत्वंपितुर्वाक्यंयथोक्तमनुपालयन्/विदितोह्येषवृत्तान्तोममसर्वस्तवानघ/तपसश्चप्रभावेनस्नेहाद्दशरथस्यच/हृदयस्थश्चतेछन्दोविज्ञातस्तपसामया/इहवासंप्रतिज्ञायमयासहतपोवने/अतश्चत्वामहंब्रूमिगच्छपञ्चवटीमिति/सहिरम्योवनोद्देशोमैथिलीतत्ररंस्यते/सदेशःश्लाघनीयश्चनातिदूरेचराघव/गोदावर्याःसमीपेचमैथिलीतत्ररंस्यते/प्राज्यमूलफलैश्चैवनानाद्विजगणैर्युतः/विविक्तश्चमहाबाहोपुण्योरम्यस्तथैवच/भवानपिसदारश्चशक्तश्चपरिरक्षणे/अपिचात्रवसन्रामस्तापसान्पालयिष्यसि/एतदालक्ष्यतेवीरमधुकानांमहद्वनम्/उत्तरेणास्यगन्तव्यंन्यग्रोधमभिगच्छता/ततःस्थलमुपारुह्यपर्वतस्याविदूरतः/ख्यातःपञ्चवटीत्येवनित्यपुष्पितकाननः/अगस्त्येनैवमुक्तस्तुरामःसौमित्रिणासह/सात्कृत्यामन्त्रयामासतमृषिंसत्यवादिनम्/तौतुतेनाभ्यनुज्ञातौकृतपादाभिवन्दनौ/तदाश्रमात्पञ्चवटींजग्मतुःसहसीतया/गृहीतचापौतुनराधिपात्मजौ॑विषक्ततूणीसमरेष्वकातरौ/यथोपदिष्टेनपथामहर्षिणा॑प्रजग्मतुःपञ्चवटींसमाहितौ/अथपञ्चवटींगच्छन्नन्तरारघुनन्दनः/आससादमहाकायंगृध्रंभीमपराक्रमम्/तंदृष्ट्वातौमहाभागौवनस्थंरामलक्ष्मणौ/मेनातेराक्षसंपक्षिंब्रुवाणौकोभवानिति/सतौमधुरयावाचासौम्ययाप्रीणयन्निव/उवाचवत्समांविद्धिवयस्यंपितुरात्मनः/सतंपितृसखंबुद्ध्वापूजयामासराघवः/सतस्यकुलमव्यग्रमथपप्रच्छनामच/रामस्यवचनंश्रुत्वाकुलमात्मानमेवच/आचचक्षेद्विजस्तस्मैसर्वभूतसमुद्भवम्/पूर्वकालेमहाबाहोयेप्रजापतयोऽभवन्/तान्मेनिगदतःसर्वानादितःशृणुराघव/कर्दमःप्रथमस्तेषांविकृतस्तदनन्तरम्/शेषश्चसंश्रयश्चैवबहुपुत्रश्चवीर्यवान्/स्थाणुर्मरीचिरत्रिश्चक्रतुश्चैवमहाबलः/पुलस्त्यश्चाङ्गिराश्चैवप्रचेताःपुलहस्तथा/दक्षोविवस्वानपरोऽरिष्टनेमिश्चराघव/कश्यपश्चमहातेजास्तेषामासीच्चपश्चिमः/प्रजापतेस्तुदक्षस्यबभूवुरितिनःश्रुतम्/षष्टिर्दुहितरोरामयशस्विन्योमहायशः/कश्यपःप्रतिजग्राहतासामष्टौसुमध्यमाः/अदितिंचदितिंचैवदनूमपिचकालकाम्/ताम्रांक्रोधवशांचैवमनुंचाप्यनलामपि/तास्तुकन्यास्ततःप्रीतःकश्यपःपुनरब्रवीत्/पुत्रांस्त्रैलोक्यभर्तॄन्वैजनयिष्यथमत्समान्/अदितिस्तन्मनारामदितिश्चदनुरेवच/कालकाचमहाबाहोशेषास्त्वमनसोऽभवन्/अदित्यांजज्ञिरेदेवास्त्रयस्त्रिंशदरिंदम/आदित्यावसवोरुद्राअश्विनौचपरंतप/दितिस्त्वजनयत्पुत्रान्दैत्यांस्तातयशस्विनः/तेषामियंवसुमतीपुरासीत्सवनार्णवा/दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम/नरकंकालकंचैवकालकापिव्यजायत/क्रौञ्चींभासींतथाश्येनींधृतराष्ट्रींतथाशुकीम्/ताम्रापिसुषुवेकन्याःपञ्चैतालोकविश्रुताः/उलूकाञ्जनयत्क्रौञ्चीभासीभासान्व्यजायत/श्येनीश्येनांश्चगृध्रांश्चव्यजायतसुतेजसः/धृतराष्ट्रीतुहंसांश्चकलहंसांश्चसर्वशः/चक्रवाकांश्चभद्रंतेविजज्ञेसापिभामिनी/शुकीनतांविजज्ञेतुनतायाविनतासुता/दशक्रोधवशारामविजज्ञेऽप्यात्मसंभवाः/मृगींचमृगमन्दांचहरींभद्रमदामपि/मातङ्गीमथशार्दूलींश्वेतांचसुरभींतथा/सर्वलक्षणसंपन्नांसुरसांकद्रुकामपि/अपत्यंतुमृगाःसर्वेमृग्यानरवरोत्तम/ऋष्काश्चमृगमन्दायाःसृमराश्चमरास्तथा/ततस्त्विरावतींनामजज्ञेभद्रमदासुताम्/तस्यास्त्वैरावतःपुत्रोलोकनाथोमहागजः/हर्याश्चहरयोऽपत्यंवानराश्चतपस्विनः/गोलाङ्गूलांश्चशार्दूलीव्याघ्रांश्चाजनयत्सुतान्/मातङ्ग्यास्त्वथमातङ्गाअपत्यंमनुजर्षभ/दिशागजंतुश्वेताक्षंश्वेताव्यजनयत्सुतम्/ततोदुहितरौरामसुरभिर्देव्यजायत/रोहिणींनामभद्रंतेगन्धर्वींचयशस्विनीम्/रोहिण्यजनयद्गावैगन्धर्वीवाजिनःसुतान्/सुरसाजनयन्नागान्रामकद्रूश्चपन्नगान्/मनुर्मनुष्याञ्जनयत्कश्यपस्यमहात्मनः/ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चमनुजर्षभ/मुखतोब्राह्मणाजाताउरसःक्षत्रियास्तथा/ऊरुभ्यांजज्ञिरेवैश्याःपद्भ्यांशूद्राइतिश्रुतिः/सर्वान्पुण्यफलान्वृक्षाननलापिव्यजायत/विनताचशुकीपौत्रीकद्रूश्चसुरसास्वसा/कद्रूर्नागसहस्क्रंतुविजज्ञेधरणीधरम्/द्वौपुत्रौविनतायास्तुगरुडोऽरुणएवच/तस्माज्जातोऽहमरुणात्संपातिश्चममाग्रजः/जटायुरितिमांविद्धिश्येनीपुत्रमरिंदम/सोऽहंवाससहायस्तेभविष्यामियदीच्छसि/सीतांचतातरक्षिष्येत्वयियातेसलक्ष्मणे/जटायुषंतुप्रतिपूज्यराघवो॑मुदापरिष्वज्यचसंनतोऽभवत्/पितुर्हिशुश्रावसखित्वमात्मवाञ्॑जटायुषासंकथितंपुनःपुनः/सतत्रसीतांपरिदायमैथिलीं॑सहैवतेनातिबलेनपक्षिणा/जगामतांपञ्चवटींसलक्ष्मणो॑रिपून्दिधक्षञ्शलभानिवानलः/ततःपञ्चवटींगत्वानानाव्यालमृगायुताम्/उवाचभ्रातरंरामोलक्ष्मणंदीप्ततेजसं/आगताःस्मयथोद्दिष्टममुंदेशंमहर्षिणा/अयंपञ्चवटीदेशःसौम्यपुष्पितकाननः/सर्वतश्चार्यतांदृष्टिःकाननेनिपुणोह्यसि/आश्रमःकतरस्मिन्नोदेशेभवतिसंमतः/रमतेयत्रवैदेहीत्वमहंचैवलक्ष्मण/तादृशोदृश्यतांदेशःसंनिकृष्टजलाशयः/वनरामण्यकंयत्रजलरामण्यकंतथा/संनिकृष्टंचयत्रस्यात्समित्पुष्पकुशोदकम्/एवमुक्तस्तुरामेणलक्ष्मणःसंयताञ्जलिः/सीतासमक्षंकाकुत्स्थमिदंवचनमब्रवीत्/परवानस्मिकाकुत्स्थत्वयिवर्षशतंस्थिते/स्वयंतुरुचिरेदेशेक्रियतामितिमांवद/सुप्रीतस्तेनवाक्येनलक्ष्मणस्यमहाद्युतिः/विमृशन्रोचयामासदेशंसर्वगुणान्वितम्/सतंरुचिरमाक्रम्यदेशमाश्रमकर्मणि/हस्तेगृहीत्वाहस्तेनरामःसौमित्रिमब्रवीत्/अयंदेशःसमःश्रीमान्पुष्पितैर्तरुभिर्वृतः/इहाश्रमपदंसौम्ययथावत्कर्तुमर्हसि/इयमादित्यसंकाशैःपद्मैःसुरभिगन्धिभिः/अदूरेदृश्यतेरम्यापद्मिनीपद्मशोभिता/यथाख्यातमगस्त्येनमुनिनाभावितात्मना/इयंगोदावरीरम्यापुष्पितैस्तरुभिर्वृता/हंसकारण्डवाकीर्णाचक्रवाकोपशोभिता/नातिदूरेनचासन्नेमृगयूथनिपीडिता/मयूरनादितारम्याःप्रांशवोबहुकन्दराः/दृश्यन्तेगिरयःसौम्यफुल्लैस्तरुभिरावृताः/सौवर्णेराजतैस्ताम्रैर्देशेदेशेचधातुभिः/गवाक्षिताइवाभान्तिगजाःपरमभक्तिभिः/सालैस्तालैस्तमालैश्चखर्जूरैःपनसाम्रकैः/नीवारैस्तिमिशैश्चैवपुंनागैश्चोपशोभिताः/चूतैरशोकैस्तिलकैश्चम्पकैःकेतकैरपि/पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः/चन्दनैःस्यन्दनैर्नीपैःपनसैर्लकुचैरपि/धवाश्वकर्णखदिरैःशमीकिंशुकपाटलैः/इदंपुण्यमिदंमेध्यमिदंबहुमृगद्विजम्/इहवत्स्यामसौमित्रेसार्धमेतेनपक्षिणा/एवमुक्तस्तुरामेणलक्ष्मणःपरवीरहा/अचिरेणाश्रमंभ्रातुश्चकारसुमहाबलः/पर्णशालांसुविपुलांतत्रसंघातमृत्तिकाम्/सुस्तम्भांमस्करैर्दीर्घैःकृतवंशांसुशोभनाम्/सगत्वालक्ष्मणःश्रीमान्नदींगोदावरींतदा/स्नात्वापद्मानिचादायसफलःपुनरागतः/ततःपुष्पबलिंकृत्वाशान्तिंचसयथाविधि/दर्शयामासरामायतदाश्रमपदंकृतम्/सतंदृष्ट्वाकृतंसौम्यमाश्रमंसहसीतया/राघवःपर्णशालायांहर्षमाहारयत्परम्/सुसंहृष्टःपरिष्वज्यबाहुभ्यांलक्ष्मणंतदा/अतिस्निग्धंचगाढंचवचनंचेदमब्रवीत्/प्रीतोऽस्मितेमहत्कर्मत्वयाकृतमिदंप्रभो/प्रदेयोयन्निमित्तंतेपरिष्वङ्गोमयाकृतः/भावज्ञेनकृतज्ञेनधर्मज्ञेनचलक्ष्मण/त्वयापुत्रेणधर्मात्मानसंवृत्तःपितामम/एवंलक्ष्मणमुक्त्वातुराघवोलक्ष्मिवर्धनः/तस्मिन्देशेबहुफलेन्यवसत्ससुखंवशी/कंचित्कालंसधर्मात्मासीतयालक्ष्मणेनच/अन्वास्यमानोन्यवसत्स्वर्गलोकेयथामरः/वसतस्तस्यतुमुखंराघवस्यमहात्मनः/शरद्व्यपायेहेमन्तऋतुरिष्टःप्रवर्तते/सकदाचित्प्रभातायांशर्वर्यांरघुनन्दनः/प्रययावभिषेकार्थंरम्यंगोदावरींनदीम्/प्रह्वःकलशहस्तस्तंसीतयासहवीर्यवान्/पृष्ठतोऽनुव्रजन्भ्रातासौमित्रिरिदमब्रवीत्/अयंसकालःसंप्राप्तःप्रियोयस्तेप्रियंवद/अलंकृतइवाभातियेनसंवत्सरःशुभः/नीहारपरुषोलोकःपृष्हिवीसस्यमालिनी/जलान्यनुपभोग्यानिसुभगोहव्यवाहनः/नवाग्रयणपूजाभिरभ्यर्च्यपितृदेवताः/कृताग्रयणकाःकालेसन्तोविगतकल्मषाः/प्राज्यकामाजनपदाःसंपन्नतरगोरसाः/विचरन्तिमहीपालायात्रार्थंविजिगीषवः/सेवमानेदृढंसूर्येदिशमन्तकसेविताम्/विहीनतिलकेवस्त्रीनोत्तरादिक्प्रकाशते/प्रकृत्याहिमकोशाढ्योदूरसूर्यश्चसाम्प्रतम्/यथार्थनामासुव्यक्तंहिमवान्हिमवान्गिरिः/अत्यन्तसुखसंचारामध्याह्नेस्पर्शतःसुखाः/दिवसाःसुभगादित्याश्छायासलिलदुर्भगाः/मृदुसूर्याःसनीहाराःपटुशीताःसमारुताः/शून्यारण्याहिमध्वस्तादिवसाभान्तिसाम्प्रतम्/निवृत्ताकाशशयनाःपुष्यनीताहिमारुणाः/शीतावृद्धतरायामास्त्रियामायान्तिसाम्प्रतम्/रविसंक्रान्तसौभाब्यस्तुषारारुणमण्डलः/निःश्वासान्धइवादर्शश्चन्द्रमानप्रकाशते/ज्योत्स्नातुषारमलिनापौर्णमास्यांनराजते/सीतेवचातपश्यामालक्ष्यतेनतुशोभते/प्रकृत्याशीतलस्पर्शोहिमविद्धश्चसाम्प्रतम्/प्रवातिपश्चिमोवायुःकालेद्विगुणशीतलः/बाष्पच्छन्नानरण्यानियवगोधूमवन्तिच/शोभन्तेऽभ्युदितेसूर्येनदद्भिःक्रौञ्चसारसैः/खर्जूरपुष्पाकृतिभिःशिरोभिःपूर्णतण्डुलैः/शोभन्तेकिंचिदालम्बाःशालयःकनकप्रभाः/मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः/दूरमभ्युदितःसूर्यःशशाङ्कइवलक्ष्यते/अग्राह्यवीर्यःपूर्वाह्णेमध्याह्नेस्पर्शतःसुखः/संरक्तःकिंचिदापाण्डुरातपःशोभतेक्षितौ/अवश्यायनिपातेनकिंचित्प्रक्लिन्नशाद्वला/वनानांशोभतेभूमिर्निविष्टतरुणातपा/अवश्यायतमोनद्धानीहारतमसावृताः/प्रसुप्ताइवलक्ष्यन्तेविपुष्पावनराजयः/बाष्पसंछन्नसलिलारुतविज्ञेयसारसाः/हिमार्द्रवालुकैस्तीरैःसरितोभान्तिसाम्प्रतम्/तुषारपतनाच्चैवमृदुत्वाद्भास्करस्यच/शैत्यादगाग्रस्थमपिप्रायेणरसवज्जलम्/जराजर्जरितैःपर्णैःशीर्णकेसरकर्णिकैः/नालशेषाहिमध्वस्तानभान्तिकमलाकराः/अस्मिंस्तुपुरुषव्याघ्रकालेदुःखसमन्वितः/तपश्चरतिधर्मात्मात्वद्भक्त्याभरतःपुरे/त्यक्त्वाराज्यंचमानंचभोगांश्चविविधान्बहून्/तपस्वीनियताहारःशेतेशीतेमहीतले/सोऽपिवेलामिमांनूनमभिषेकार्थमुद्यतः/वृतःप्रकृतिभिर्नित्यंप्रयातिसरयूंनदीम्/अत्यन्तसुखसंवृद्धःसुकुमारोहिमार्दितः/कथंत्वपररात्रेषुसरयूमवगाहते/पद्मपत्रेक्षणःश्यामःश्रीमान्निरुदरोमहान्/धर्मज्ञःसत्यवादीचह्रीनिषेधोजितेन्द्रियः/प्रियाभिभाषीमधुरोदीर्घबाहुररिंदमः/संत्यज्यविविधान्सौख्यानार्यंसर्वात्मनाश्रितः/जितःस्वर्गस्तवभ्रात्राभरतेनमहात्मना/वनस्थमपितापस्येयस्त्वामनुविधीयते/नपित्र्यमनुवर्न्तन्तेमातृकंद्विपदाइति/ख्यातोलोकप्रवादोऽयंभरतेनान्यथाकृतः/भर्तादशरथोयस्याःसाधुश्चभरतःसुतः/कथंनुसाम्बाकैकेयीतादृशीक्रूरदर्शिनी/इत्येवंलक्ष्मणेवाक्यंस्नेहाद्ब्रुवतिधर्मिके/परिवादंजनन्यास्तमसहन्राघवोऽब्रवीत्/नतेऽम्बामध्यमातातगर्हितव्याकथंचन/तामेवेक्ष्वाकुनाथस्यभरतस्यकथांकुरु/निश्चितापिहिमेबुद्धिर्वनवासेदृढव्रता/भरतस्नेहसंतप्ताबालिशीक्रियतेपुनः/इत्येवंविलपंस्तत्रप्राप्यगोदावरींनदीम्/चक्रेऽभिषेकंकाकुत्स्थःसानुजःसहसीतया/तर्पयित्वाथसलिलैस्तेपितॄन्दैवतानिच/स्तुवन्तिस्मोदितंसूर्यंदेवताश्चसमाहिताः/कृताभिषेकःसरराजरामः॑सीताद्वितीयःसहलक्ष्मणेन/कृताभिषेकस्त्वगराजपुत्र्या॑रुद्रःसनन्दिर्भगवानिवेशः/कृताभिषेकोरामस्तुसीतासौमित्रिरेवच/तस्माद्गोदावरीतीरात्ततोजग्मुःस्वमाश्रमम्/आश्रमंतमुपागम्यराघवःसहलक्ष्मणः/कृत्वापौर्वाह्णिकंकर्मपर्णशालामुपागमत्/सरामःपर्णशालायामासीनःसहसीतया/विरराजमहाबाहुश्चित्रयाचन्द्रमाइव/लक्ष्मणेनसहभ्रात्राचकारविविधाःकथाः/तदासीनस्यरामस्यकथासंसक्तचेतसः/तंदेशंराक्षसीकाचिदाजगामयदृच्छया/सातुशूर्पणखानामदशग्रीवस्यरक्षसः/भगिनीराममासाद्यददर्शत्रिदशोपमम्/सिंहोरस्कंमहाबाहुंपद्मपत्रनिभेक्षणम्/सुकुमारंमहासत्त्वंपार्थिवव्यञ्जनान्वितम्/राममिन्दीवरश्यामंकन्दर्पसदृशप्रभम्/बभूवेन्द्रोपमंदृष्ट्वाराक्षसीकाममोहिता/सुमुखंदुर्मुखीरामंवृत्तमध्यंमहोदरी/विशालाक्षंविरूपाक्षीसुकेशंताम्रमूर्धजा/प्रियरूपंविरूपासासुस्वरंभैरवस्नवा/तरुणंदारुणावृद्धादक्षिणंवामभाषिणी/न्यायवृत्तंसुदुर्वृत्ताप्रियमप्रियदर्शना/शरीरजसमाविष्टाराक्षसीराममब्रवीत्/जटीतापसरूपेणसभार्यःशरचापधृक्/आगतस्त्वमिमंदेशंकथंराक्षससेवितम्/एवमुक्तस्तुराक्षस्याशूर्पणख्यापरंतपः/ऋजुबुद्धितयासर्वमाख्यातुमुपचक्रमे/आसीद्दशरथोनामराजात्रिदशविक्रमः/तस्याहमग्रजःपुत्रोरामोनामजनैःश्रुतः/भ्रातायंलक्ष्मणोनामयवीयान्मामनुव्रतः/इयंभार्याचवैदेहीममसीतेतिविश्रुता/नियोगात्तुनरेन्द्रस्यपितुर्मातुश्चयन्त्रितः/धर्मार्थंधर्मकाङ्क्षीचवनंवस्तुमिहागतः/त्वांतुवेदितुमिच्छामिकथ्यतांकासिकस्यवा/इहवाकिंनिमित्तंत्वमागताब्रूहितत्त्वतः/साब्रवीद्वचनंश्रुत्वाराक्षसीमदनार्दिता/श्रूयतांरामवक्ष्यामितत्त्वार्थंवचनंमम/अहंशूर्पणखानामराक्षसीकामरूपिणी/अरण्यंविचरामीदमेकासर्वभयंकरा/रावणोनाममेभ्राताराक्षसोराक्षसेश्वरः/प्रवृद्धनिद्रश्चसदाकुम्भकर्णोमहाबलः/विभीषणस्तुधर्मात्मानतुराक्षसचेष्टितः/प्रख्यातवीर्यौचरणेभ्रातरौखरदूषणौ/तानहंसमतिक्रान्तारामत्वापूर्वदर्शनात्/समुपेतास्मिभावेनभर्तारंपुरुषोत्तमम्/चिरायभवभर्तामेसीतयाकिंकरिष्यसि/विकृताचविरूपाचनसेयंसदृशीतव/अहमेवानुरूपातेभार्यारूपेणपश्यमाम्/इमांविरूपामसतींकरालांनिर्णतोदरीम्/अनेनसहतेभ्रात्राभक्षयिष्यामिमानुषीम्/ततःपर्वतशृङ्गाणिवनानिविविधानिच/पश्यन्सहमयाकान्तदण्डकान्विचरिष्यसि/इत्येवमुक्तःकाकुत्स्थःप्रहस्यमदिरेक्षणाम्/इदंवचनमारेभेवक्तुंवाक्यविशारदः/तांतुशूर्पणखांरामःकामपाशावपाशिताम्/स्वेच्छयाश्लक्ष्णयावाचास्मितपूर्वमथाब्रवीत्/कृतदारोऽस्मिभवतिभार्येयंदयितामम/त्वद्विधानांतुनारीणांसुदुःखाससपत्नता/अनुजस्त्वेषमेभ्राताशीलवान्प्रियदर्शनः/श्रीमानकृतदारश्चलक्ष्मणोनामवीर्यवान्/अपूर्वीभार्ययाचार्थीतरुणःप्रियदर्शनः/अनुरूपश्चतेभर्तारूपस्यास्यभविष्यति/एनंभजविशालाक्षिभर्तारंभ्रातरंमम/असपत्नावरारोहेमेरुमर्कप्रभायथा/इतिरामेणसाप्रोक्ताराक्षसीकाममोहिता/विसृज्यरामंसहसाततोलक्ष्मणमब्रवीत्/अस्यरूपस्यतेयुक्ताभार्याहंवरवर्णिनी/मयासहसुखंसर्वान्दण्डकान्विचरिष्यसि/एवमुक्तस्तुसौमित्रीराक्षस्यावाक्यकोविदः/ततःशूर्पणखींस्मित्वालक्ष्मणोयुक्तमब्रवीत्/कथंदासस्यमेदासीभार्याभवितुमिच्छसि/सोऽहमार्येणपरवान्भात्राकमलवर्णिनी/समृद्धार्थस्यसिद्धार्थामुदितामलवर्णिनी/आर्यस्यत्वंविशालाक्षिभार्याभवयवीयसी/एतांविरूपामसतींकरालांनिर्णतोदरीम्/भार्यांवृद्धांपरित्यज्यत्वामेवैषभजिष्यति/कोहिरूपमिदंश्रेष्ठंसंत्यज्यवरवर्णिनि/मानुषेषुवरारोहेकुर्याद्भावंविचक्षणः/इतिसालक्ष्मणेनोक्ताकरालानिर्णतोदरी/मन्यतेतद्वचःसत्यंपरिहासाविचक्षणा/सारामंपर्णशालायामुपविष्टंपरंतपम्/सीतयासहदुर्धर्षमब्रवीत्काममोहिता/इमांविरूपामसतींकरालांनिर्णतोदरीम्/वृद्धांभार्यामवष्टभ्यनमांत्वंबहुमन्यसे/अद्येमांभक्षयिष्यामिपश्यतस्तवमानुषीम्/त्वयासहचरिष्यामिनिःसपत्नायथासुखम्/इत्युक्त्वामृगशावाक्षीमलातसदृशेक्षणा/अभ्यधावत्सुसंक्रुद्धामहोल्कारोहिणीमिव/तांमृत्युपाशप्रतिमामापतन्तींमहाबलः/निगृह्यरामःकुपितस्ततोलक्ष्मणमब्रवीत्/क्रूरैरनार्यैःसौमित्रेपरिहासःकथंचन/नकार्यःपश्यवैदेहींकथंचित्सौम्यजीवतीम्/इमांविरूपामसतीमतिमत्तांमहोदरीम्/राक्षसींपुरुषव्याघ्रविरूपयितुमर्हसि/इत्युक्तोलक्ष्मणस्तस्याःक्रुद्धोरामस्यपश्यतः/उद्धृत्यखड्गंचिच्छेदकर्णनासंमहाबलः/निकृत्तकर्णनासातुविस्वरंसाविनद्यच/यथागतंप्रदुद्रावघोराशूर्पणखावनम्/साविरूपामहाघोराराक्षसीशोणितोक्षिता/ननादविविधान्नादान्यथाप्रावृषितोयदः/साविक्षरन्तीरुधिरंबहुधाघोरदर्शना/प्रगृह्यबाहूगर्जन्तीप्रविवेशमहावनम्/ततस्तुसाराक्षससंघसंवृतं॑खरंजनस्थानगतंविरूपिता/उपेत्यतंभ्रातरमुग्रतेजसं॑पपातभूमौगगनाद्यथाशनिः/ततःसभार्यंभयमोहमूर्छिता॑सलक्ष्मणंराघवमागतंवनम्/विरूपणंचात्मनिशोणितोक्षिता॑शशंससर्वंभगिनीखरस्यसा/तांतथापतितांदृष्ट्वाविरूपांशोणितोक्षिताम्/भगिनींक्रोधसंतप्तःखरःपप्रच्छराक्षसः/बलविक्रमसंपन्नाकामगाकामरूपिणी/इमामवस्थांनीतात्वंकेनान्तकसमागता/देवगन्धर्वभूतानामृषीणांचमहात्मनाम्/कोऽयमेवंमहावीर्यस्त्वांविरूपांचकारह/नहिपश्याम्यहंलोकेयःकुर्यान्ममविप्रियम्/अन्तरेनसहस्राक्षंमहेन्द्रंपाकशासनम्/अद्याहंमार्गणैःप्राणानादास्येजीवितान्तकैः/सलिलेक्षीरमासक्तंनिष्पिबन्निवसारसः/निहतस्यमयासंख्येशरसंकृत्तमर्मणः/सफेनंरुधिरंरक्तंमेदिनीकस्यपास्यति/कस्यपत्ररथाःकायान्मांसमुत्कृत्यसंगताः/प्रहृष्टाभक्षयिष्यन्तिनिहतस्यमयारणे/तंनदेवानगन्धर्वानपिशाचानराक्षसाः/मयापकृष्टंकृपणंशक्तास्त्रातुंमहाहवे/उपलभ्यशनैःसंज्ञांतंमेशंसितुमर्हसि/येनत्वंदुर्विनीतेनवनेविक्रम्यनिर्जिता/इतिभ्रातुर्वचःश्रुत्वाक्रुद्धस्यचविशेषतः/ततःशूर्पणखावाक्यंसबाष्पमिदमब्रवीत्/तरुणौरूपसंपन्नौसुकूमारौमहाबलौ/पुण्डरीकविशालाक्षौचीरकृष्णाजिनाम्बरौ/गन्धर्वराजप्रतिमौपार्थिवव्यञ्जनान्वितौ/देवौवामानुषौवातौनतर्कयितुमुत्सहे/तरुणीरूपसंपन्नासर्वाभरणभूषिता/दृष्टातत्रमयानारीतयोर्मध्येसुमध्यमा/ताभ्यामुभाभ्यांसंभूयप्रमदामधिकृत्यताम्/इमामवस्थांनीताहंयथानाथासतीतथा/तस्याश्चानृजुवृत्तायास्तयोश्चहतयोरहम्/सफेनंपातुमिच्छामिरुधिरंरणमूर्धनि/एषमेप्रथमःकामःकृतस्तातत्वयाभवेत्/तस्यास्तयोश्चरुधिरंपिबेयमहमाहवे/इतितस्यांब्रुवाणायांचतुर्दशमहाबलान्/व्यादिदेशखरःक्रुद्धोराक्षसानन्तकोपमान्/मानुषौशस्त्रसंपन्नौचीरकृष्णाजिनाम्बरौ/प्रविष्टौदण्डकारण्यंघोरंप्रमदयासह/तौहत्वातांचदुर्वृत्तामुपावर्तितुमर्हथ/इयंचरुधिरंतेषांभगिनीममपास्यति/मनोरथोऽयमिष्टोऽस्याभगिन्याममराक्षसाः/शीघ्रंसंपद्यतांगत्वातौप्रमथ्यस्वतेजसा/इतिप्रतिसमादिष्टाराक्षसास्तेचतुर्दश/तत्रजग्मुस्तयासार्धंघनावातेरितायथा/ततःशूर्पणखाघोराराघवाश्रममागता/रक्षसामाचचक्षेतौभ्रातरौसहसीतया/तेरामंपर्णशालायामुपविष्टंमहाबलम्/ददृशुःसीतयासार्धंवैदेह्यालक्ष्मणेनच/तान्दृष्ट्वाराघवःश्रीमानागतांतांचराक्षसीम्/अब्रवीद्भ्रातरंरामोलक्ष्मणंदीप्ततेजसं/मुहूर्तंभवसौमित्रेसीतायाःप्रत्यनन्तरः/इमानस्यावधिष्यामिपदवीमागतानिह/वाक्यमेतत्ततःश्रुत्वारामस्यविदितात्मनः/तथेतिलक्ष्मणोवाक्यंरामस्यप्रत्यपूजयत्/राघवोऽपिमहच्चापंचामीकरविभूषितम्/चकारसज्यंधर्मात्मातानिरक्षांसिचाब्रवीत्/पुत्रौदशरथस्यावांभ्रातरौरामलक्ष्मणौ/प्रविष्टौसीतयासार्धंदुश्चरंदण्डकावनम्/फलमूलाशनौदान्तौतापसौधर्मचारिणौ/वसन्तौदण्डकारण्येकिमर्थमुपहिंसथ/युष्मान्पापात्मकान्हन्तुंविप्रकारान्महावने/ऋषीणांतुनियोगेनप्राप्तोऽहंसशरासनः/तिष्ठतैवात्रसंतुष्टानोपसर्पितुमर्हथ/यदिप्राणैरिहार्थोवोनिवर्तध्वंनिशाचराः/तस्यतद्वचनंश्रुत्वाराक्षसास्तेचतुर्दश/ऊचुर्वाचंसुसंक्रुद्धाब्रह्मघ्नःशूलपाणयः/संरक्तनयनाघोरारामंरक्तान्तलोचनम्/परुषामधुराभाषंहृष्टादृष्टपराक्रमम्/क्रोधमुत्पाद्यनोभर्तुःखरस्यसुमहात्मनः/त्वमेवहास्यसेप्राणानद्यास्माभिर्हतोयुधि/काहितेशक्तिरेकस्यबहूनांरणमूर्धनि/अस्माकमग्रतःस्थातुंकिंपुनर्योद्धुमाहवे/एभिर्बाहुप्रयुक्तैर्नःपरिघैःशूलपट्टिशैः/प्राणांस्त्यक्ष्यसिवीर्यंचधनुश्चकरपीडितम्/इत्येवमुक्त्वासंरब्धाराक्षसास्तेचतुर्दश/उद्यतायुधनिस्त्रिंशाराममेवाभिदुद्रुवुः/चिक्षिपुस्तानिशूलानिराघवंप्रतिदुर्जयम्/तानिशूलानिकाकुत्स्थःसमस्तानिचतुर्दश/तावद्भिरेवचिच्छेदशरैःकाञ्चनभूषणैः/ततःपश्चान्महातेजानाराचान्सूर्यसंनिभान्/जग्राहपरमक्रुद्धश्चतुर्दशशिलाशितान्/गृहीत्वाधनुरायम्यलक्ष्यानुद्दिश्यराक्षसान्/मुमोचराघवोबाणान्वज्रानिवशतक्रतुः/रुक्मपुङ्खाश्चविशिखाःप्रदीप्ताहेमभूषणाः/अन्तरिक्षेमहोल्कानांबभूवुस्तुल्यवर्चसः/तेभित्त्वारक्षसांवेगाद्वक्षांसिरुधिराप्लुताः/विनिष्पेतुस्तदाभूमौन्यमज्जन्ताशनिस्वनाः/तेभिन्नहृदयाभूमौछिन्नमूलाइवद्रुमाः/निपेतुःशोणितार्द्राङ्गाविकृताविगतासवः/तान्भूमौपतितान्दृष्ट्वाराक्षसीक्रोधमूर्छिता/परित्रस्तापुनस्तत्रव्यसृजद्भैरवंरवम्/सानदन्तीमहानादंजवाच्छूर्पणखापुनः/उपगम्यखरंसातुकिंचित्संशुष्कशोणिता/पपातपुनरेवार्तासनिर्यासेववल्लरी/निपातितान्प्रेक्ष्यरणेतुराक्षसान्॑प्रधाविताशूर्पणखापुनस्ततः/वधंचतेषांनिखिलेनरक्षसां॑शशंससर्वंभगिनीखरस्यसा/सपुनःपतितांदृष्ट्वाक्रोधाच्छूर्पणखांखरः/उवाचव्यक्ततावाचातामनर्थार्थमागताम्/मयात्विदानींशूरास्तेराक्षसारुधिराशनाः/त्वत्प्रियार्थंविनिर्दिष्टाःकिमर्थंरुद्यतेपुनः/भक्ताश्चैवानुरक्ताश्चहिताश्चममनित्यशः/घ्नन्तोऽपिननिहन्तव्याननकुर्युर्वचोमम/किमेतच्छ्रोतुमिच्छामिकारणंयत्कृतेपुनः/हानाथेतिविनर्दन्तीसर्पवद्वेष्टसेक्षितौ/अनाथवद्विलपसिकिंनुनाथेमयिस्थिते/उत्तिष्ठोत्तिष्ठमाभैषीर्वैक्लव्यंत्यज्यतामिह/इत्येवमुक्तादुर्धर्षाखरेणपरिसान्त्विता/विमृज्यनयनेसास्रेखरंभ्रातरमब्रवीत्/प्रेषिताश्चत्वयाशूराराक्षसास्तेचतुर्दश/निहन्तुंराघवंघोरामत्प्रियार्थंसलक्ष्मणम्/तेतुरामेणसामर्षाःशूलपट्टिशपाणयः/समरेनिहताःसर्वेसायकैर्मर्मभेदिभिः/तान्भूमौपतितान्दृष्ट्वाक्षणेनैवमहाबलान्/रामस्यचमहत्कर्ममहांस्त्रासोऽभवन्मम/सास्मिभीतासमुद्विग्नाविषण्णाचनिशाचर/शरणंत्वांपुनःप्राप्तासर्वतोभयदर्शिनी/विषादनक्राध्युषितेपरित्रासोर्मिमालिनि/किंमांनत्रायसेमग्नांविपुलेशोकसागरे/एतेचनिहताभूमौरामेणनिशितैःशरैः/येचमेपदवींप्राप्ताराक्षसाःपिशिताशनाः/मयितेयद्यनुक्रोशोयदिरक्षःसुतेषुच/रामेणयदिशक्तिस्तेतेजोवास्तिनिशाचर/दण्डकारण्यनिलयंजहिराक्षसकण्टकम्/यदिरामंममामित्रमद्यत्वंनवधिष्यसि/तवचैवाग्रतःप्राणांस्त्यक्ष्यामिनिरपत्रपा/बुद्ध्याहमनुपश्यामिनत्वंरामस्यसंयुगे/स्थातुंप्रतिमुखेशक्तःसचापस्यमहारणे/शूरमानीनशूरस्त्वंमिथ्यारोपितविक्रमः/मानुषौयन्नशक्नोषिहन्तुंतौरामलक्ष्मणौ/अपयाहिजनस्थानात्त्वरितःसहबान्धवः/निःसत्त्वस्याल्पवीर्यस्यवासस्तेकीदृशस्त्विह/रामतेजोऽभिभूतोहित्वंक्षिप्रंविनशिष्यसि/सहितेजःसमायुक्तोरामोदशरथात्मजः/भ्राताचास्यमहावीर्योयेनचास्मिविरूपिता/एवमाधर्षितःशूरःशूर्पणख्याखरस्तदा/उवाचरक्षसांमध्येखरःखरतरंवचः/तवापमानप्रभवःक्रोधोऽयमतुलोमम/नशक्यतेधारयितुंलवणाम्भइवोत्थितम्/नरामंगणयेवीर्यान्मानुषंक्षीणजीवितम्/आत्मादुश्चरितैःप्राणान्हतोयोऽद्यविमोक्ष्यति/बाष्पःसंह्रियतामेषसंभ्रमश्चविमुच्यताम्/अहंरामःसहभ्रात्रानयामियमसादनम्/परश्वधहतस्याद्यमन्दप्राणस्यभूतले/रामस्यरुधिरंरक्तमुष्णंपास्यसिराक्षसि/साप्रहृष्ट्वावचःश्रुत्वाखरस्यवदनाच्च्युतम्/प्रशशंसपुनर्मौर्ख्याद्भ्रातरंरक्षसांवरम्/तयापरुषितःपूर्वंपुनरेवप्रशंसितः/अब्रवीद्दूषणंनामखरःसेनापतिंतदा/चतुर्दशसहस्राणिममचित्तानुवर्तिनाम्/रक्षसींभीमवेगानांसमरेष्वनिवर्तिनाम्/नीलजीमूतवर्णानांघोराणांक्रूरकर्मणाम्/लोकसिंहाविहाराणांबलिनामुग्रतेजसाम्/तेषांशार्दूलदर्पाणांमहास्यानाअंमहौजसाम्/सर्वोद्योगमुदीर्णानांरक्षसांसौम्यकारय/उपस्थापयमेक्षिप्रंरथंसौम्यधनूंषिच/शरांश्चचित्रान्खड्गांश्चशक्तीश्चविविधाःशिताः/अग्रेनिर्यातुमिच्छामिपौलस्त्यानांमहात्मनाम्/वधार्थंदुर्विनीतस्यरामस्यरणकोविदः/इतितस्यब्रुवाणस्यसूर्यवर्णंमहारथम्/सदश्वैःशबलैर्युक्तमाचचक्षेऽथदूषणः/तंमेरुशिखराकारंतप्तकाञ्चनभूषणम्/हेमचक्रमसंबाधंवैदूर्यमयकूबरम्/मत्स्यैःपुष्पैर्द्रुमैःशैलैश्चन्द्रसूर्यैश्चकाञ्चनैः/माङ्गल्यैःपक्षिसंघैश्चताराभिश्चसमावृतम्/ध्वजनिस्त्रिंशसंपन्नंकिङ्किणीकविभूषितम्/सदश्वयुक्तंसोऽमर्षादारुरोहरथंखरः/निशाम्यतंरथगतंराअक्षसाभीमविक्रमाः/तस्थुःसंपरिवार्यैनंदूषणंचमहाबलम्/खरस्तुतान्महेष्वासान्घोरचर्मायुधध्वजान्/निर्यातेत्यब्रवीद्दृष्ट्वारथस्थःसर्वराक्षसान्/ततस्तद्राक्षसंसैन्यंघोरचर्मायुधध्वजम्/निर्जगामजनस्थानान्महानादंमहाजवम्/मुद्गरैःपट्टिशैःशूलैःसुतीक्ष्णैश्चपरश्वधैः/खड्गैश्चक्रैश्चहस्तस्थैर्भ्राजमानैश्चतोमरैः/शक्तिभिःपतिघैर्घोरैरतिमात्रैश्चकार्मुकैः/गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः/राक्षसानांसुघोराणांसहस्राणिचतुर्दश/निर्यातानिजनस्थानात्खरचित्तानुवर्तिनाम्/तांस्त्वभिद्रवतोदृष्ट्वाराक्षसान्भीमविक्रमान्/खरस्यापिरथःकिंचिज्जगामतदनन्तरम्/ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान्/खरस्यमतमाज्ञायसारथिःसमचोदयत्/सचोदितोरथःशीघ्रंखरस्यरिपुघातिनः/शब्देनापूरयामासदिशश्चप्रतिशस्तथा/प्रवृद्धमन्युस्तुखरःखरस्वनो॑रिपोर्वधार्थंत्वरितो/यथान्तकः/अचूचुदत्सारथिमुन्नदन्पुनर्॑महाबलोमेघइवाश्मवर्षवान्/तत्प्रयातंबलंघोरमशिवंशोणितोदकम्/अभ्यवर्षन्महामेघस्तुमुलोगर्दभारुणः/निपेतुस्तुरगास्तस्यरथयुक्तामहाजवाः/समेपुष्पचितेदेशेराजमार्गेयदृच्छया/श्यामंरुधिरपर्यन्तंबभूवपरिवेषणम्/अलातचक्रप्रतिमंप्रतिगृह्यदिवाकरम्/ततोध्वजमुपागम्यहेमदण्डंसमुच्छ्रितम्/समाक्रम्यमहाकायस्तस्थौगृध्रःसुदारुणः/जनस्थानसमीपेचसमाक्रम्यखरस्वनाः/विस्वरान्विविधांश्चक्रुर्मांसादामृगपक्षिणः/व्याजह्रुश्चपदीप्तायांदिशिवैभैरवस्वनम्/अशिवायातुदाहानांशिवाघोरामहास्वनाः/प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणः/आकाशंतदनाकाशंचक्रुर्भीमाबलाहकाः/बभूवतिमिरंघोरमुद्धतंरोमहर्षणम्/दिशोवाविदिशोवापिसुव्यक्तंनचकाशिरे/क्षतजार्द्रसवर्णाभासंध्याकालंविनाबभौ/खरस्याभिमुखंनेदुस्तदाघोरामृगाःखगाः/नित्याशिवकरायुद्धेशिवाघोरनिदर्शनाः/नेदुर्बलस्याभिमुखंज्वालोद्गारिभिराननैः/कबन्धःपरिघाभासोदृश्यतेभास्करान्तिके/जग्राहसूर्यंस्वर्भानुरपर्वणिमहाग्रहः/प्रवातिमारुतःशीघ्रंनिष्प्रभोऽभूद्दिवाकरः/उत्पेतुश्चविनारात्रिंताराःखद्योतसप्रभाः/संलीनमीनविहगानलिन्यःपुष्पपङ्कजाः/तस्मिन्क्षणेबभूवुश्चविनापुष्पफलैर्द्रुमाः/उद्धूतश्चविनावातंरेणुर्जलधरारुणः/वीचीकूचीतिवाश्यन्तोबभूवुस्तत्रसारिकाः/उल्काश्चापिसनिर्घोषानिपेतुर्घोरदर्शनाः/प्रचचालमहीचापिसशैलवनकानना/खरस्यचरथस्थस्यनर्दमानस्यधीमतः/प्राकम्पतभुजःसव्यःखरश्चास्यावसज्जत/सास्रासंपद्यतेदृष्टिःपश्यमानस्यसर्वतः/ललाटेचरुजाजातानचमोहान्न्यवर्तत/तान्समीक्ष्यमहोत्पातानुत्थितान्रोमहर्षणान्/अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा/महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान्/नचिन्तयाम्यहंवीर्याद्बलवान्दुर्बलानिव/ताराअपिशरैस्तीक्ष्णैःपातयेयंनभस्तलात्/मृत्युंमरणधर्मेणसंक्रुद्धोयोजयाम्यहम्/राघवंतंबलोत्सिक्तंभ्रातरंचापिलक्ष्मणम्/अहत्वासायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे/सकामाभगिनीमेऽस्तुपीत्वातुरुधिरंतयोः/यन्निमित्तंतुरामस्यलक्ष्मणस्यविपर्ययः/नक्वचित्प्राप्तपूर्वोमेसंयुगेषुपराजयः/युष्माकमेतत्प्रत्यक्षंनानृतंकथयाम्यहम्/देवराजमपिक्रुद्धोमत्तैरावतयायिनम्/वज्रहस्तंरणेहन्यांकिंपुनस्तौचमानुषौ/सातस्यगर्जितंश्रुत्वाराक्षसस्यमहाचमूः/प्रहर्षमतुलंलेभेमृत्युपाशावपाशिता/समेयुश्चमहात्मानोयुद्धदर्शनकाङ्क्षिणः/ऋषयोदेवगन्धर्वाःसिद्धाश्चसहचारणैः/समेत्यचोरुःसहितास्तेऽन्यायंपुण्यकर्मणः/स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकानांयेचसंमताः/जयतांराघवोयुद्धेपौलस्त्यान्रजनीचरान्/चक्राहस्तोयथायुद्धेसर्वानसुरपुंगवान्/एतच्चान्यच्चबहुशोब्रुवाणाःपरमर्षयः/ददृशुर्वाहिनींतेषांराक्षसानांगतायुषाम्/रथेनतुखरोवेगात्सैन्यस्याग्राद्विनिःसृतः/तंदृष्ट्वाराक्षसंभूयोराक्षसाश्चविनिःसृताः/श्येनगामीपृथुग्रीवोयज्ञशत्रुर्विहंगमः/दुर्जयःकरवीराक्षःपरुषःकालकार्मुकः/मेघमालीमहामालीसर्पास्योरुधिराशनः/द्वादशैतेमहावीर्याःप्रतस्थुरभितःखरम्/महाकपालःस्थूलाक्षःप्रमाथीत्रिशिरास्तथा/चत्वारएतेसेनाग्र्यादूषणंपृष्ठतोऽन्वयुः/साभीमवेगासमराभिकामा॑सुदारुणाराक्षसवीरसेना/तौराजपुत्रौसहसाभ्युपेता॑मालाग्रहाणामिवचन्द्रसूर्यौ/आश्रमंप्रतियातेतुखरेखरपराक्रमे/तानेवौत्पातिकान्रामःसहभ्रात्राददर्शह/तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान्/प्रजानामहितान्दृष्ट्वावाक्यंलक्ष्मणमब्रवीत्/इमान्पश्यमहाबाहोसर्वभूतापहारिणः/समुत्थितान्महोत्पातान्संहर्तुंसर्वराक्षसान्/अमीरुधिरधारास्तुविसृजन्तःखरस्वनान्/व्योम्निमेघाविवर्तन्तेपरुषागर्दभारुणाः/सधूमाश्चशराःसर्वेममयुद्धाभिनन्दिनः/रुक्मपृष्ठानिचापानिविवेष्टन्तेचलक्ष्मण/यादृशाइहकूजन्तिपक्षिणोवनचारिणः/अग्रतोनोभयंप्राप्तंसंशयोजीवितस्यच/संप्रहारस्तुसुमहान्भविष्यतिनसंशयः/अयमाख्यातिमेबाहुःस्फुरमाणोमुहुर्मुहुः/संनिकर्षेतुनःशूरजयंशत्रोःपराजयम्/सुप्रभंचप्रसन्नंचतववक्त्रंहिलक्ष्यते/उद्यतानांहियुद्धार्थंयेषांभवतिलक्ष्मणः/निष्प्रभंवदनंतेषांभवत्यायुःपरिक्षयः/अनागतविधानंतुकर्तव्यंशुभमिच्छता/आपदंशङ्कमानेनपुरुषेणविपश्चिता/तस्माद्गृहीत्वावैदेहींशरपाणिर्धनुर्धरः/गुहामाश्रयशैलस्यदुर्गांपादपसंकुलाम्/प्रतिकूलितुमिच्छामिनहिवाक्यमिदंत्वया/शापितोममपादाभ्यांगम्यतांवत्समाचिरम्/एवमुक्तस्तुरामेणलक्ष्मणःसहसीतया/शरानादायचापंचगुहांदुर्गांसमाश्रयत्/तस्मिन्प्रविष्टेतुगुहांलक्ष्मणेसहसीतया/हन्तनिर्युक्तमित्युक्त्वारामःकवचमाविशत्/सातेनाग्निनिकाशेनकवचेनविभूषितः/बभूवरामस्तिमिरेविधूमोऽग्निरिवोत्थितः/सचापमुद्यम्यमहच्छरानादायवीर्यवान्/बभूवावस्थितस्तत्रज्यास्वनैःपूरयन्दिशः/ततोदेवाःसगन्धर्वाःसिद्धाश्चसहचारणैः/ऊचुःपरमसंत्रस्तागुह्यकाश्चपरस्परम्/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/एकश्चरामोधर्मात्माकथंयुद्धंभविष्यति/ततोगम्भीरनिर्ह्रादंघोरवर्मायुधध्वजम्/अनीकंयातुधानानांसमन्तात्प्रत्यदृश्यत/सिंहनादंविसृजतामन्योन्यमभिगर्जताम्/चापानिविस्फरयतांजृम्भतांचाप्यभीक्ष्णशः/विप्रघुष्टस्वनानांचदुन्दुभींश्चापिनिघ्नताम्/तेषांसुतुमुलःशब्दःपूरयामासतद्वनम्/तेनशब्देनवित्रस्ताःश्वापदावनचारिणः/दुद्रुवुर्यत्रनिःशब्दंपृष्ठतोनावलोकयन्/तत्त्वनीकंमहावेगंरामंसमुपसर्पत/घृतनानाप्रहरणंगम्भीरंसागरोपमम्/रामोऽपिचारयंश्चक्षुःसर्वतोरणपण्डितः/ददर्शखरसैन्यंतद्युद्धाभिमुखमुद्यतम्/वितत्यचधनुर्भीमंतूण्याश्चोद्धृत्यसायकान्/क्रोधमाहारयत्तीव्रंवधार्थंसर्वरक्षसाम्/दुष्प्रेक्ष्यःसोऽभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन्/तंदृष्ट्वातेजसाविष्टंप्राव्यथन्वनदेवताः/तस्यक्रुद्धस्यरूपंतुरामस्यददृशेतदा/दक्षस्येवक्रतुंहन्तुमुद्यतस्यपिनाकिनः/अवष्टब्धधनुंरामंक्रुद्धंचरिपुघातिनम्/ददर्शाश्रममागम्यखरःसहपुरःसरैः 3251/तंदृष्ट्वासगुणंचापमुद्यम्यखरनिःस्वनम्/रामस्याभिमुखंसूतंचोद्यतामित्यचोदयत्/सखरस्याज्ञयासूतस्तुरगान्समचोदयत्/यत्ररामोमहाबाहुरेकोधुन्वन्धनुःस्थितः/तंतुनिष्पतितंदृष्ट्वासर्वेतेरजनीचराः/नर्दमानामहानादंसचिवाःपर्यवारयन्/सतेषांयातुधानानांमध्येरतोगतःखरः/बभूवमध्येताराणांलोहिताङ्गइवोदितः/ततस्तंभीमधन्वानंक्रुद्धाःसर्वेनिशाचराः/रामंनानाविधैःशस्त्रैरभ्यवर्षन्तदुर्जयम्/मुद्गरैरायसैःशूलैःप्रासैःखड्गैःपरश्वधैः/राक्षसाःसमरेरामंनिजघ्नूरोषतत्पराः/तेबलाहकसंकाशामहानादामहाबलाः/अभ्यधावन्तकाकुत्स्थंरामंयुद्धेजिघांसवः/तेरामेशरवर्षाणिव्यसृजन्रक्षसांगुणाः/शैलेन्द्रमिवधाराभिर्वर्षमाणामहाधनाः/सतैःपरिवृतोघोरैराघवोरक्षसांगणैः/तिथिष्विवमहादेवोवृतःपारिषदांगणैः/तानिमुक्तानिशस्त्राणियातुधानैःसराघवः/प्रतिजग्राहविशिखैर्नद्योघानिवसागरः/सतैःप्रहरणैर्घोरैर्भिन्नगात्रोनविव्यथे/रामःप्रदीप्तैर्बहुभिर्वज्रैरिवमहाचलः/सविद्धःक्षतजादिग्धःसर्वगात्रेषुराघवः/बभूवरामःसंध्याभ्रैर्दिवाकरइवावृतः/विषेदुर्देवगन्धर्वाःसिद्धाश्चपरमर्षयः/एकंसहस्त्रैर्बहुभिस्तदादृष्ट्वासमावृतम्/ततोरामःसुसंक्रुद्धोमण्डलीकृतकार्मुकः/ससर्जनिशितान्बाणाञ्शतशोऽथसहस्रशः/दुरावारान्दुर्विषहान्कालपाशोपमान्रणे/मुमोचलीलयारामःकङ्कपत्रानजिह्मगान्/तेशराःशत्रुसैन्येषुमुक्तारामेणलीलया/आददूरक्षसांप्राणान्पाशाःकालकृताइव/भित्त्वाराक्षसदेहांस्तांस्तेशरारुधिराप्लुताः/अन्तरिक्षगतारेजुर्दीप्ताग्निसमतेजसः/असंख्येयास्तुरामस्यसायकाश्चापमण्डलात्/विनिष्पेतुरतीवोग्रारक्षःप्राणापहारिणः/तैर्धनूंषिध्वजाग्राणिवर्माणिचशिरांसिच/बहून्सहस्ताभरणानूरून्करिकरोपमान्/ततोनालीकनाराचैस्तीक्ष्णाग्रैश्चविकर्णिभिः/भीममार्तस्वरंचक्रुर्भिद्यमानानिशाचराः/तत्सैन्यंनिशितैर्बाणैरर्दितंमर्मभेदिभिः/रामेणनसुखंलेभेशुष्कंवनमिवाग्निना/केचिद्भीमबलाःशूराःशूलान्खड्गान्परश्वधान्/चिक्षिपुःपरमक्रुद्धारामायरजनीचराः/तानिबाणैर्महाबाहुःशस्त्राण्यावार्यराघवः/जहारसमरेप्राणांश्चिच्छेदचशिरोधरान्/अवशिष्टाश्चयेतत्रविषण्णाश्चनिशाचराः/खरमेवाभ्यधावन्तशरणार्थंशरार्दिताः/तान्सर्वान्पुनरादायसमाश्वास्यचदूषणः/अभ्यधावतकाकुत्स्थंक्रुद्धोरुद्रमिवान्तकः/निवृत्तास्तुपुनःसर्वेदूषणाश्रयनिर्भयाः/राममेवाभ्यधावन्तसालतालशिलायुधाः/तद्बभूवाद्भुतंयुद्धंतुमुलंरोमहर्षणम्/रामस्यास्यमहाघोरंपुनस्तेषांचरक्षसाम्/तद्द्रुमाणांशिलानांचवर्षंप्राणहरंमहत्/प्रतिजग्राहधर्मात्माराघवस्तीक्ष्णसायकैः/प्रतिगृह्यचतद्वरंनिमीलितइवर्षभः/रामःक्रोधंपरंभेजेवधार्थंसर्वरक्षसाम्/ततःक्रोधसमाविष्टःप्रदीप्तइवतेजसा/शरैरभ्यकिरत्सैन्यंसर्वतःसहदूषणम्/ततःसेनापतिःक्रुद्धोदूषणःशत्रुदूषणः/जग्राहगिरिशृङ्गाभंपरिघंरोमहर्षणम्/वेष्टितंकाञ्चनैःपट्टैर्देवसैन्याभिमर्दनम्/आयसैःशङ्कुभिस्तीक्ष्णैःकीर्णंपरवसोक्षिताम्/वज्राशनिसमस्पर्शंपरगोपुरदारणम्/तंमहोरगसंकाशंप्रगृह्यपरिघंरणे/दूषणोऽभ्यपतद्रामंक्रूरकर्मानिशाचरः/तस्याभिपतमानस्यदूषणस्यसराघवः/द्वाभ्यांशराभ्यांचिच्छेदसहस्ताभरणौभुजौ/भ्रष्टस्तस्यमहाकायःपपातरणमूर्धनि/परिघश्छिन्नहस्तस्यशक्रध्वजइवाग्रतः/सकराभ्यांविकीर्णाभ्यांपपातभुविदूषणः/विषाणाभ्यांविशीर्णाभ्यांमनस्वीवमहागजः/दृष्ट्वातंपतितंभूमौदूषणंनिहतंरणे/साधुसाध्वितिकाकुत्स्थंसर्वभूतान्यपूजयन्/एतस्मिन्नन्तरेक्रुद्धास्त्रयःसेनाग्रयायिनः/संहत्याभ्यद्रवन्रामंमृत्युपाशावपाशिताः/महाकपालःस्थूलाक्षःप्रमाथीचमहाबलः/महाकपालोविपुलंशूलमुद्यम्यराक्षसः/स्थूलाक्षःपट्टिशंगृह्यप्रमाथीचपरश्वधम्/दृष्ट्वैवापततस्तांस्तुराघवःसायकैःशितैः/तीक्ष्णाग्रैःप्रतिजग्राहसंप्राप्तानतिथीनिव/महाकपालस्यशिरश्चिच्छेदरघुनङ्गनः/असंख्येयैस्तुबाणौघैःप्रममाथप्रमाथिनम्/स्थूलाक्षस्याक्षिणीतीक्ष्णैःपूरयामाससायकैः/सपपातहतोभूमौविटपीवमहाद्रुमः/ततःपावकसंकाशैर्हेमवज्रविभूषितैः/जघनशेषंतेजस्वीतस्यसैन्यस्यसायकैः/तेरुक्मपुङ्खाविशिखाःसधूमाइवपावकाः/निजघ्नुस्तानिरक्षांसिवज्राइवमहाद्रुमान्/रक्षसांतुशतंरामःशतेनैकेनकर्णिना/सहस्रंचसहस्रेणजघानरणमूर्धनि/तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः/निपेतुःशोणितादिग्धाधरण्यांरजनीचराः/तैर्मुक्तकेशैःसमरेपतितैःशोणितोक्षितैः/आस्तीर्णावसुधाकृत्स्नामहावेदिःकुशैरिव/क्षणेनतुमहाघोरंवनंनिहतराक्षसं/बभूवनिरयप्रख्यंमांसशोणितकर्दमम्/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/हतान्येकेनरामेणमानुषेणपदातिना/तस्यसैन्यस्यसर्वस्यखरःशेषोमहारथः/राक्षसस्त्रिशिराश्चैवरामश्चरिपुसूदनः/ततस्तुतद्भीमबलंमहाहवे॑समीक्ष्यरामेणहतंबलीयसा/रथेनरामंमहताखरस्ततः॑समाससादेन्द्रइवोद्यताशनिः/खरंतुरामाभिमुखंप्रयान्तंवाहिनीपतिः/राक्षसस्त्रिशिरानामसंनिपत्येदमब्रवीत्/मांनियोजयविक्रान्तसंनिवर्तस्वसाहसात्/पश्यरामंमहाबाहुंसंयुगेविनिपातितम्/प्रतिजानामितेसत्यमायुधंचाहमालभे/यथारामंवधिष्यामिवधार्हंसर्वरक्षसाम्/अहंवास्यरणेमृत्युरेषवासमरेमम/विनिवर्त्यरणोत्साहंमुहूर्तंप्राश्निकोभव/प्रहृष्टोवाहतेरामेजनस्थानंप्रयास्यसि/मयिवानिहतेरामंसंयुगायोपयास्यसि/खरस्त्रिशिरसातेनमृत्युलोभात्प्रसादितः/गच्छयुध्येत्यनुज्ञातोराघवाभिमुखोययौ/त्रिशिराश्चरथेनैववाजियुक्तेनभास्वता/अभ्यद्रवद्रणेरामंत्रिशृङ्गइवपर्वतः/शरधारासमूहान्समहामेघइवोत्सृजन्/व्यसृजत्सदृशंनादंजलार्द्रस्येवदुन्दुभेः/आगच्छन्तंत्रिशिरसंराक्षसंप्रेक्ष्यराघवः/धनुषाप्रतिजग्राहविधुन्वन्सायकाञ्शितान्/ससंप्रहारस्तुमुलोरामत्रिशिरसोर्महान्/बभूवातीवबलिनोःसिंहकुञ्जरयोरिव/ततस्त्रिशिरसाबाणैर्ललाटेताडितस्त्रिभिः/अमर्षीकुपितोरामःसंरब्धमिदमब्रवीत्/अहोविक्रमशूरस्यराक्षसस्येदृशंबलम्/पुष्पैरिवशरैर्यस्यललाटेऽस्मिपरिक्षतः/ममापिप्रतिगृह्णीष्वशरांश्चापगुणच्युतान्/एवमुक्त्वातुसंरब्धःशरानाशीविषोपमान्/त्रिशिरोवक्षसिक्रुद्धोनिजघानचतुर्दश/चतुर्भिस्तुरगानस्यशरैःसंनतपर्वभिः/न्यपातयततेजस्वीचतुरस्तस्यवाजिनः/अष्टभिःसायकैःसूतंरथोपस्थेन्यपातयत्/रामश्चिच्छेदबाणेनध्वजंचास्यसमुच्छ्रितम्/ततोहतरथात्तस्मादुत्पतन्तंनिशाचरम्/बिभेदरामस्तंबाणैर्हृदयेसोऽभवज्जडः/सायकैश्चाप्रमेयात्मासामर्षस्तस्यरक्षसः/शिरांस्यपातयत्त्रीणिवेगवद्भिस्त्रिभिःशतैः/सभूमौशोणितोद्गारीरामबाणाभिपीडितः/न्यपतत्पतितैःपूर्वंस्वशिरोभिर्निशाचरः/हतशेषास्ततोभग्नाराक्षसाःखरसंश्रयाः/द्रवन्तिस्मनतिष्ठन्तिव्याघ्रत्रस्तामृगाइव/तान्खरोद्रवतोदृष्ट्वानिवर्त्यरुषितःस्वयम्/राममेवाभिदुद्रावराहुश्चन्द्रमसंयथा/निहतंदूषणंदृष्ट्वारणेत्रिशिरसासह/खरस्याप्यभवत्त्रासोदृष्ट्वारामस्यविक्रमम्/सदृष्ट्वाराक्षसंसैन्यमविषह्यंमहाबलम्/हतमेकेनरामेणदूषणस्त्रिशिराअपि/तद्बलंहतभूयिष्ठंविमनाःप्रेक्ष्यराक्षसः/आससादखरोरामंनमुचिर्वासवंयथा/विकृष्यबलवच्चापंनाराचान्रक्तभोजनान्/खरश्चिक्षेपरामायक्रुद्धानाशीविषानिव/ज्यांविधुन्वन्सुबहुशःशिक्षयास्त्राणिदर्शयन्/चचारसमरेमार्गाञ्शरैरथगतःखरः/ससर्वाश्चदिशोबाणैःप्रदिशश्चमहारथः/पूरयामासतंदृष्ट्वारामोऽपिसुमहद्धनुः/ससायकैर्दुर्विषहैःसस्फुलिङ्गैरिवाग्निभिः/नभश्चकाराविवरंपर्जन्यइववृष्टिभिः/तद्बभूवशितैर्बाणैःखररामविसर्जितैः/पर्याकाशमनाकाशंसर्वतःशरसंकुलम्/शरजालावृतःसूर्योनतदास्मप्रकाशते/अन्योन्यवधसंरम्भादुभयोःसंप्रयुध्यतोः/ततोनालीकनाराचैस्तीक्ष्णाग्रैश्चविकर्णिभिः/आजघानरणेरामंतोत्रैरिवमहाद्विपम्/तंरथस्थंधनुष्पाणिंराक्षसंपर्यवस्थितम्/ददृशुःसर्वभूतानिपाशहस्तमिवान्तकम्/तंसिंहमिवविक्रान्तंसिंहविक्रान्तगामिनम्/दृष्ट्वानोद्विजतेरामःसिंहःक्षुद्रमृगंयथा/ततःसूर्यनिकाशेनरथेनमहताखरः/आससादरणेरामंपतङ्गइवपावकम्/ततोऽस्यसशरंचापंमुष्टिदेशेमहात्मनः/खरश्चिच्छेदरामस्यदर्शयन्पाणिलाघवम्/सपुनस्त्वपरान्सप्तशरानादायवर्मणि/निजघानरणेक्रुद्धःशक्राशनिसमप्रभान्/ततस्तत्प्रहतंबाणैःखरमुक्तैःसुपर्वभिः/पपातकवचंभूमौरामस्यादित्यवर्चसः/सशरैरर्पितःक्रुद्धःसर्वगात्रेषुराघवः/रराजसमरेरामोविधूमोऽग्निरिवज्वलन्/ततोगम्भीरनिर्ह्रादंरामःशत्रुनिबर्हणः/चकारान्तायसरिपोःसज्यमन्यन्महद्धनुः/सुमहद्वैष्णवंयत्तदतिसृष्टंमहर्षिणा/वरंतद्धनुरुद्यम्यखरंसमभिधावत/ततःकनकपुङ्खैस्तुशरैःसंनतपर्वभिः/चिच्छेदरामःसंक्रुद्धःखरस्यसमरेध्वजम्/सदर्शनीयोबहुधाविच्छिन्नःकाञ्चनोध्वजः/जगामधरणींसूर्योदेवतानामिवाज्ञया/तंचतुर्भिःखरःक्रुद्धोरामंगात्रेषुमार्गणैः/विव्याधहृदिमर्मज्ञोमातङ्गमिवतोमरैः/सरामोबहुभिर्बाणैःखरकार्मुकनिःसृतैः/विद्धोरुधिरसिक्ताङ्गोबभूवरुषितोभृशम्/सधनुर्धन्विनांश्रेष्ठःप्रगृह्यपरमाहवे/मुमोचपरमेष्वासःषट्शरानभिलक्षितान्/शिरस्येकेनबाणेनद्वाभ्यांबाह्वोरथार्पयत्/त्रिभिश्चन्द्रार्धवक्त्रैश्चवक्षस्यभिजघानह/ततःपश्चान्महातेजानाराचान्भास्करोपमान्/जिघांसूराक्षसंक्रुद्धस्त्रयोदशशिलाशितान्/ततोऽस्ययुगमेकेनचतुर्भिश्चतुरोहयान्/षष्ठेनचशिरःसंख्येचिच्छेदखरसारथेः/त्रिभिस्त्रिवेणुंबलवान्द्वाभ्यामक्षंमहाबलः/द्वादशेनतुबाणेनखरस्यसशरंधनुः/छित्त्वावज्रनिकाशेनराघवःप्रहसन्निव/त्रयोदशेनेन्द्रसमोबिभेदसमरेखरम्/प्रभग्नधन्वाविरथोहताश्वोहतसारथिः/गदापाणिरवप्लुत्यतस्थौभूमौखरस्तदा/तत्कर्मरामस्यमहारथस्य॑समेत्यदेवाश्चमहर्षयश्च/अपूजयन्प्राञ्जलयःप्रहृष्टास्॑तदाविमानाग्रगताःसमेताः/खरंतुविरथंरामोगदापाणिमवस्थितम्/मृदुपूर्वंमहातेजाःपरुषंवाक्यमब्रवीत्/गजाश्वरथसंबाधेबलेमहतितिष्ठता/कृतंसुदारुणंकर्मसर्वलोकजुगुप्सितम्/उद्वेजनीयोभूतानांनृशंसःपापकर्मकृत्/त्रयाणामपिलोकानामीश्वरोऽपिनतिष्ठति/कर्मलोकविरुद्धंतुकुर्वाणंक्षणदाचर/तीक्ष्णंसर्वजनोहन्तिसर्पंदुष्टमिवागतम्/लोभात्पापानिकुर्वाणःकामाद्वायोनबुध्यते/भ्रष्टःपश्यतितस्यान्तंब्राह्मणीकरकादिव/वसतोदण्डकारण्येतापसान्धर्मचारिणः/किंनुहत्वामहाभागान्फलंप्राप्स्यसिराक्षस/नचिरंपापकर्माणःक्रूरालोकजुगुप्सिताः/ऐश्वर्यंप्राप्यतिष्ठन्तिशीर्णमूलाइवद्रुमाः/अवश्यंलभतेकर्ताफलंपापस्यकर्मणः/घोरंपर्यागतेकालेद्रुमःपुष्पमिवार्तवम्/नचिरात्प्राप्यतेलोकेपापानांकर्मणांफलम्/सविषाणामिवान्नानांभुक्तानांक्षणदाचर/पापमाच्चरतांघोरंलोकस्याप्रियमिच्छताम्/अहमासादितोराजाप्राणान्हन्तुंनिशाचर/अद्यहित्वांमयामुक्ताःशराःकाञ्चनभूषणाः/विदार्यनिपतिष्यन्तिवल्मीकमिवपन्नगाः/येत्वयादण्डकारण्येभक्षिताधर्मचारिणः/तानद्यनिहतःसंख्येससैन्योऽनुगमिष्यसि/अद्यत्वांनिहतंबाणैःपश्यन्तुपरमर्षयः/निरयस्थंविमानस्थायेत्वयाहिंसिताःपुरा/प्रहरत्वंयथाकामंकुरुयत्नंकुलाधम/अद्यतेपातयिष्यामिशिरस्तालफलंयथा/एवमुक्तस्तुरामेणक्रुद्धःसंरक्तलोचनः/प्रत्युवाचततोरामंप्रहसन्क्रोधमूर्छितः/प्राकृतान्राक्षसान्हत्वायुद्धेदशरथात्मज/आत्मनाकथमात्मानमप्रशस्यंप्रशंससि/विक्रान्ताबलवन्तोवायेभवन्तिनरर्षभाः/कथयन्तिनतेकिंचित्तेजसास्वेनगर्विताः/प्राकृतास्त्वकृतात्मानोलोकेक्षत्रियपांसनाः/निरर्थकंविकत्थन्तेयथारामविकत्थसे/कुलंव्यपदिशन्वीरःसमरेकोऽभिधास्यति/मृत्युकालेहिसंप्राप्तेस्वयमप्रस्तवेस्तवम्/सर्वथातुलघुत्वंतेकत्थनेनविदर्शितम्/सुवर्णप्रतिरूपेणतप्तेनेवकुशाग्निना/नतुमामिहतिष्ठन्तंपश्यसित्वंगदाधरम्/धराधरमिवाकम्प्यंपर्वतंधातुभिश्चितम्/पर्याप्तोऽहंगदापाणिर्हन्तुंप्राणान्रणेतव/त्रयाणामपिलोकानांपाशहस्तइवान्तकः/कामंबह्वपिवक्तव्यंत्वयिवक्ष्यामिनत्वहम्/अस्तंगच्छेद्धिसवितायुद्धविघ्रस्ततोभवेत्/चतुर्दशसहस्राणिराक्षसानांहतानिते/त्वद्विनाशात्करोम्यद्यतेषामश्रुप्रमार्जनम्/इत्युक्त्वापरमक्रुद्धस्तांगदांपरमाङ्गदाम्/खरश्चिक्षेपरामायप्रदीप्तामशनिंयथा/खरबाहुप्रमुक्तासाप्रदीप्तामहतीगदा/भस्मवृक्षांश्चगुल्मांश्चकृत्वागात्तत्समीपतः/तामापतन्तींज्वलितांमृत्युपाशोपमांगदा/अन्तरिक्षगतांरामश्चिच्छेदबहुधाशरैः/साविशीर्णाशरैर्भिन्नापपातधरणीतले/गदामन्त्रौषधिबलैर्व्यालीवविनिपातिता/भित्त्वातुतांगदांबाणैराघवोधर्मवत्सलः/स्मयमानःखरंवाक्यंसंरब्धमिदमब्रवीत्/एतत्तेबलसर्वस्वंदर्शितंराक्षसाधम/शक्तिहीनतरोमत्तोवृथात्वमुपगर्जितम्/एषाबाणविनिर्भिन्नागदाभूमितलंगता/अभिधानप्रगल्भस्यतवप्रत्ययघातिनी/यत्त्वयोक्तंविनष्टानामिदमश्रुप्रमार्जनम्/राक्षसानांकरोमीतिमिथ्यातदपितेवचः/नीचस्यक्षुद्रशीलस्यमिथ्यावृत्तस्यरक्षसः/प्राणानपहरिष्यामिगरुत्मानमृतंयथा/अद्यतेभिन्नकण्ठस्यफेनबुद्बुदभूषितम्/विदारितस्यमद्बाणैर्महीपास्यतिशोणितम्/पांसुरूषितसर्वाङ्गःस्रस्तन्यस्तभुजद्वयः/स्वप्स्यसेगांसमाश्लिष्यदुर्लभांप्रमदामिव/प्रवृद्धनिद्रेशयितेत्वयिराक्षसपांसने/भविष्यन्त्यशरण्यानांशरण्यादण्डकाइमे/जनस्थानेहतस्थानेतवराक्षसमच्छरैः/निर्भयाविचरिष्यन्तिसर्वतोमुनयोवने/अद्यविप्रसरिष्यन्तिराक्षस्योहतबान्धवाः/बाष्पार्द्रवदनादीनाभयादन्यभयावहाः/अद्यशोकरसज्ञास्ताभविष्यन्तिनिशाचर/अनुरूपकुलाःपत्न्योयासांत्वंपतिरीदृशः/नृशंसशीलक्षुद्रात्मन्नित्यंब्राह्मणकण्टक/त्वत्कृतेशङ्कितैरग्नौमुनिभिःपात्यतेहविः/तमेवमभिसंरब्धंब्रुवाणंराघवंरणे/खरोनिर्भर्त्सयामासरोषात्खरतरस्वनः/दृढंखल्ववलिप्तोऽसिभयेष्वपिचनिर्भयः/वाच्यावाच्यंततोहित्वंमृत्युवश्योनबुध्यसे/कालपाशपरिक्षिप्ताभवन्तिपुरुषाहिये/कार्याकार्यंनजानन्तितेनिरस्तषडिन्द्रियाः/एवमुक्त्वाततोरामंसंरुध्यभृकुटिंततः/सददर्शमहासालमविदूरेनिशाचरः/रणेप्रहरणस्यार्थेसर्वतोह्यवलोकयन्/सतमुत्पाटयामाससंदृश्यदशनच्छदम्/तंसमुत्क्षिप्यबाहुभ्यांविनर्दित्वामहाबलः/राममुद्दिश्यचिक्षेपहतस्त्वमितिचाब्रवीत्/तमापतन्तंबाणौघैश्छित्त्वारामःप्रतापवान्/रोषमाहारयत्तीव्रंनिहन्तुंसमरेखरम्/जातस्वेदस्ततोरामोरोषाद्रक्तान्तलोचनः/निर्बिभेदसहस्रेणबाणानांसमरेखरम्/तस्यबाणान्तराद्रक्तंबहुसुस्रावफेनिलम्/गिरेःप्रस्रवणस्येवतोयधारापरिस्रवः/विह्वलःसकृतोबाणैःखरोरामेणसंयुगे/मत्तोरुधिरगन्धेनतमेवाभ्यद्रवद्द्रुतम्/तमापतन्तंसंरब्धंकृतास्त्रोरुधिराप्लुतम्/अपसर्पत्प्रतिपदंकिंचित्त्वरितविक्रमः/ततःपावकसंकाशंबधायसमरेशरम्/खरस्यरामोजग्राहब्रह्मदण्डमिवापरम्/सतद्दत्तंमघवतासुरराजेनधीमता/संदधेचसधर्मात्मामुमोचचखरंप्रति/सविमुक्तोमहाबाणोनिर्घातसमनिःस्वनः/रामेणधनुरुद्यम्यखरस्योरसिचापतत्/सपपातखरोभूमौदह्यमानःशराग्निना/रुद्रेणैवविनिर्दग्धःश्वेतारण्येयथान्धकः/सवृत्रइववज्रेणफेनेननमुचिर्यथाअ/बलोवेन्द्राशनिहतोनिपपातहतःखरः/ततोराजर्षयःसर्वेसंगताःपरमर्षयः/सभाज्यमुदिताराममिदंवचनमब्रुवन्/एतदर्थंमहातेजामहेन्द्रःपाकशासनः/शरभङ्गाश्रमंपुण्यमाजगामपुरंदरः/आनीतस्त्वमिमंदेशमुपायेनमहर्षिभिः/एषांवधार्थंक्रूराणांरक्षसांपापकर्मणाम्/तदिदंनःकृतंकार्यंत्वयादशरथात्मज/सुखंधर्मंचरिष्यन्तिदण्डकेषुमहर्षयः/एतस्मिन्नन्तरेवीरोलक्ष्मणःसहसीतया/गिरिदुर्गाद्विनिष्क्रम्यसंविवेशाश्रमंसुखी/ततोरामस्तुविजयीपूज्यमानोमहर्षिभिः/प्रविवेशाश्रमंवीरोलक्ष्मणेनाभिवादितः/तंदृष्ट्वाशत्रुहन्तारंमहर्षीणांसुखावहम्/बभूवहृष्टावैदेहीभर्तारंपरिषस्वजे/ततःशूर्पणखादृष्ट्वासहस्राणिचतुर्दश/हतान्येकेनरामेणरक्षसांभीमकर्मणाम्/दूषणंचखरंचैवहतंत्रिशिरसंरणे/दृष्ट्वापुनर्महानादंननादजलदोपमा/सादृष्ट्वाकर्मरामस्यकृतमन्यैःसुदुष्करम्/जगामपरमौद्विग्नालङ्कांरावणपालिताम्/सददर्शविमानाग्रेरावणंदीप्ततेजसं/उपोपविष्टंसचिवैर्मरुद्भिरिववासवम्/आसीनंसूर्यसंकाशेकाञ्चनेपरमासने/रुक्मवेदिगतंप्राज्यंज्वलन्तमिवपावकम्/देवगन्धर्वभूतानामृषीणांचमहात्मनाम्/अजेयंसमरेशूरंव्यात्ताननमिवान्तकम्/देवासुरविमर्देषुवज्राशनिकृतव्रणम्/ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं/विंशद्भुजंदशग्रीवंदर्शनीयपरिच्छदम्/विशालवक्षसंवीरंराजलक्ष्मणलक्षितम्/स्निग्धवैदूर्यसंकाशंतप्तकाञ्चनकुण्डलम्/सुभुजंशुक्लदशनंमहास्यंपर्वतोपमम्/विष्णुचक्रनिपातैश्चशतशोदेवसंयुगे/आहताङ्गंसमस्तैश्चदेवप्रहरणैस्तथा/अक्षोभ्याणांसमुद्राणांक्षोभणंक्षिप्रकारिणम्/क्षेप्तारंपर्वताग्राणांसुराणांचप्रमर्दनम्/उच्छेत्तारंचधर्माणांपरदाराभिमर्शनम्/सर्वदिव्यास्त्रयोक्तारंयज्ञविघ्नकरंसदा/पुरींभोगवतींगत्वापराजित्यचवासुकिम्/तक्षकस्यप्रियांभार्यांपराजित्यजहारयः/कैलासंपर्वतंगत्वाविजित्यनरवाहनम्/विमानंपुष्पकंतस्यकामगंवैजहारयः/वनंचैत्ररथंदिव्यंनलिनींनन्दनंवनम्/विनाशयतियःक्रोधाद्देवोद्यानानिवीर्यवान्/चन्द्रसूर्यौमहाभागावुत्तिष्ठन्तौपरंतपौ/निवारयतिबाहुभ्यांयःशैलशिखरोपमः/दशवर्षसहस्राणितपस्तप्त्वामहावने/पुरास्वयम्भुवेधीरःशिरांस्युपजहारयः/देवदानवगन्धर्वपिशाचपतगोरगैः/अभयंयस्यसंग्रामेमृत्युतोमानुषादृते/मन्त्ररभितुष्टंपुण्यमध्वरेषुद्विजातिभिः/हविर्धानेषुयःसोममुपहन्तिमहाबलः/आप्तयज्ञहरंक्रूरंब्रह्मघ्नंदुष्टचारिणम्/कर्कशंनिरनुक्रोशंप्रजानामहितेरतम्/रावणंसर्वभूतानांसर्वलोकभयावहम्/राक्षसीभ्रातरंक्रूरंसाददर्शमहाबलम्/तंदिव्यवस्त्राभरणंदिव्यमाल्योपशोभितम्/राक्षसेन्द्रंमहाभागंपौलस्त्यकुलनन्दनम्/तमब्रवीद्दीप्तविशाललोचनं॑प्रदर्शयित्वाभयमोहमूर्छिता/सुदारुणंवाक्यमभीतचारिणी॑महात्मनाशूर्पणखाविरूपिता/ततःशूर्पणखादीनारावणंलोकरावणम्/अमात्यमध्येसंक्रुद्धापरुषंवाक्यमब्रवीत्/प्रमत्तःकामभोगेषुस्वैरवृत्तोनिरङ्कुशः/समुत्पन्नंभयंघोरंबोद्धव्यंनावबुध्यसे/सक्तंग्राम्येषुभोगेषुकामवृत्तंमहीपतिम्/लुब्धंनबहुमन्यन्तेश्मशानाग्निमिवप्रजाः/स्वयंकार्याणियःकालेनानुतिष्ठतिपार्थिवः/सतुवैसहराज्येनतैश्चकार्यैर्विनश्यति/अयुक्तचारंदुर्दर्शमस्वाधीनंनराधिपम्/वर्जयन्तिनरादूरान्नदीपङ्कमिवद्विपाः/येनरक्षन्तिविषयमस्वाधीनानराधिपः/तेनवृद्ध्याप्रकाशन्तेगिरयःसागरेयथा/आत्मवद्भिर्विगृह्यत्वंदेवगन्धर्वदानवैः/अयुक्तचारश्चपलःकथंराजाभविष्यसि/येषांचारश्चकोशश्चनयश्चजयतांवर/अस्वाधीनानरेन्द्राणांप्राकृतैस्तेजनैःसमाः/यस्मात्पश्यन्तिदूरस्थान्सर्वानर्थान्नराधिपाः/चारेणतस्मादुच्यन्तेराजानोदीर्घचक्षुषः/अयुक्तचारंमन्येत्वांप्राकृतैःसचिवैर्वृतम्/स्वजनंचजनस्थानंहतंयोनावबुध्यसे/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/हतान्येकेनरामेणखरश्चसहदूषणः/ऋषीणामभयंदत्तंकृतक्षेमाश्चदण्डकाः/धर्षितंचजनस्थानंरामेणाक्लिष्टकर्मणा/त्वंतुलुब्धःप्रमत्तश्चपराधीनश्चरावण/विषयेस्वेसमुत्पन्नंभयंयोनावबुध्यसे/तीक्ष्णमल्पप्रदातारंप्रमत्तंगर्वितंशठम्/व्यसनेसर्वभूतानिनाभिधावन्तिपार्थिवम्/अतिमानिनमग्राह्यमात्मसंभावितंनरम्/क्रोधनंव्यसनेहन्तिस्वजनोऽपिनराधिपम्/नानुतिष्ठतिकार्याणिभयेषुनबिभेतिच/क्षिप्रंराज्याच्च्युतोदीनस्तृणैस्तुल्योभविष्यति/शुष्ककाष्ठैर्भवेत्कार्यंलोष्टैरपिचपांसुभिः/नतुस्थानात्परिभ्रष्टैःकार्यंस्याद्वसुधाधिपैः/उपभुक्तंयथावासःस्रजोवामृदितायथा/एवंराज्यात्परिभ्रष्टःसमर्थोऽपिनिरर्थकः/अप्रमत्तश्चयोराजासर्वज्ञोविजितेन्द्रियः/कृतज्ञोधर्मशीलश्चसराजातिष्ठतेचिरम्/नयनाभ्यांप्रसुप्तोऽपिजागर्तिनयचक्षुषा/व्यक्तक्रोधप्रसादश्चसराजापूज्यतेजनैः/त्वंतुरावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः/यस्यतेऽविदितश्चारैरक्षसांसुमहान्वधः/परावमन्ताविषयेषुसंगतो॑नदेशकालप्रविभागतत्त्ववित्/अयुक्तबुद्धिर्गुणदोषनिश्चये॑विपन्नराज्योनचिराद्विपत्स्यते/इतिस्वदोषान्परिकीर्तितांस्तया॑समीक्ष्यबुद्ध्याक्षणदाचरेश्वरः/धनेनदर्पेणबलेनचान्वितो॑विचिन्तयामासचिरंसरावणः/ततःशूर्पणखांक्रुद्धांब्रुवतींपरुषंवचः/अमात्यमध्येसंक्रुद्धःपरिपप्रच्छरावणः/कश्चरामःकथंवीर्यःकिंरूपःकिंपराक्रमः/किमर्थंदण्डकारण्यंप्रविष्टश्चसुदुश्चरम्/आयुधंकिंचरामस्यनिहतायेनराक्षसाः/खरश्चनिहतंसंख्येदूषणस्त्रिशिरास्तथा/इत्युक्ताराक्षसेन्द्रेणराक्षसीक्रोधमूर्छिता/ततोरामंयथान्यायमाख्यातुमुपचक्रमे/दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः/कन्दर्पसमरूपश्चरामोदशरथात्मजः/शक्रचापनिभंचापंविकृष्यकनकाङ्गदम्/दीप्तान्क्षिपतिनाराचान्सर्पानिवमहाविषान्/नाददानंशरान्घोरान्नमुञ्चन्तंमहाबलम्/नकार्मुकंविकर्षन्तंरामंपश्यामिसंयुगे/हन्यमानंतुतत्सैन्यंपश्यामिशरवृष्टिभिः/इन्द्रेणैवोत्तमंसस्यमाहतंत्वश्मवृष्टिभिः/रक्षसांभीमवीर्याणांसहस्राणिचतुर्दश/निहतानिशरैस्तीक्ष्णैस्तेनैकेनपदातिना/अर्धाधिकमुहूर्तेनखरश्चसहदूषणः/ऋषीणामभयंदत्तंकृतक्षेमाश्चदण्डकाः/एकाकथंचिन्मुक्ताहंपरिभूयमहात्मना/स्त्रीवधंशङ्कमानेनरामेणविदितात्मना/भ्राताचास्यमहातेजागुणतस्तुल्यविक्रमः/अनुरक्तश्चभक्तश्चलक्ष्मणोनामवीर्यवान्/अमर्षीदुर्जयोजेताविक्रान्तोबुद्धिमान्बली/रामस्यदक्षिणेबाहुर्नित्यंप्राणोबहिष्चरः/रामस्यतुविशालाक्षीधर्मपत्नीयशस्विनी/सीतानामवरारोहावैदेहीतनुमध्यमा/नैवदेवीनगन्धर्वानयक्षीनचकिंनरी/तथारूपामयानारीदृष्टपूर्वामहीतले/यस्यसीताभवेद्भार्यायंचहृष्टापरिष्वजेत्/अतिजीवेत्ससर्वेषुलोकेष्वपिपुरंदरात्/सासुशीलावपुःश्लाघ्यारूपेणाप्रतिमाभुवि/तवानुरूपाभार्यासात्वंचतस्यास्तथापतिः/तांतुविस्तीर्णजघनांपीनोत्तुङ्गपयोधराम्/भार्यार्थेतुतवानेतुमुद्यताहंवराननाम्/तांतुदृष्ट्वाद्यवैदेहींपूर्णचन्द्रनिभाननाम्/मन्मथस्यशराणांचत्वंविधेयोभविष्यसि/यदितस्यामभिप्रायोभार्यार्थेतवजायते/शीघ्रमुद्ध्रियतांपादोजयार्थमिहदक्षिणः/कुरुप्रियंतथातेषांरक्षसांराक्षसेश्वर/वधात्तस्यनृशंसस्यरामस्याश्रमवासिनः/तंशरैर्निशितैर्हत्वालक्ष्मणंचमहारथम्/हतनाथांसुखंसीतांयथावदुपभोक्ष्यसे/रोचतेयदितेवाक्यंममैतद्राक्षसेश्वर/क्रियतांनिर्विशङ्केनवचनंममराघव/निशम्यरामेणशरैरजिह्मगैर्॑हताञ्जनस्थानगतान्निशाचरान्/खरंचबुद्ध्वानिहतंचदूषणं॑त्वमद्यकृत्यंप्रतिपत्तुमर्हसि/ततःशूर्पणखावाक्यंतच्छ्रुत्वारोमहर्षणम्/सचिवानभ्यनुज्ञायकार्यंबुद्ध्वाजगामह/तत्कार्यमनुगम्याथयथावदुपलभ्यच/दोषाणांचगुणानांचसंप्रधार्यबलाबलम्/इतिकर्तव्यमित्येवकृत्वानिश्चयमात्मनः/स्थिरबुद्धिस्ततोरम्यांयानशालांजगामह/यानशालांततोगत्वाप्रच्छन्नंराक्षसाधिपः/सूतंसंचोदयामासरथःसंयुज्यतामिति/एवमुक्तःक्षणेनैवसारथिर्लघुविक्रमः/रथंसंयोजयामासतस्याभिमतमुत्तमम्/काञ्चनंरथमास्थायकामगंरत्नभूषितम्/पिशाचवदनैर्युक्तंखरैःकनकभूषणैः/मेघप्रतिमनादेनसतेनधनदानुजः/राक्षसाधिपतिःश्रीमान्ययौनदनदीपतिम्/सश्वेतबालव्यसनःश्वेतच्छत्रोदशाननः/स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः/दशास्योविंशतिभुजोदर्शनीयपरिच्छदः/त्रिदशारिर्मुनीन्द्रघ्नोदशशीर्षइवाद्रिराट्/कामगंरथमास्थायशुशुभेराक्षसाधिपः/विद्युन्मण्डलवान्मेघःसबलाकइवाम्बरे/सशैलंसागरानूपंवीर्यवानवलोकयन्/नानापुष्पफलैर्वृक्षैरनुकीर्णंसहस्रशः/शीतमङ्गलतोयाभिःपद्मिनीभिःसमन्ततः/विशालैराश्रमपदैर्वेदिमद्भिःसमावृतम्/कदल्याढकिसंबाधंनालिकेरोपशोभितम्/सालैस्तालैस्तमालैश्चतरुभिश्चसुपुष्पितैः/अत्यन्तनियताहारैःशोभितंपरमर्षिभिः/नागैःसुपर्णैर्गन्धर्वैःकिंनरैश्चसहस्रशः/जितकामैश्चसिद्धैश्चचामणैश्चोपशोभितम्/आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः/दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्/क्रीडारतिविधिज्ञाभिरप्सरोभिःसहस्रशः/सेवितंदेवपत्नीभिःश्रीमतीभिःश्रियावृतम्/देवदानवसंघैश्चचरितंत्वमृताशिभिः/हंसक्रौञ्चप्लवाकीर्णंसारसैःसंप्रणादितम्/वैदूर्यप्रस्तरंरम्यंस्निग्धंसागरतेजसा/पाण्डुराणिविशालानिदिव्यमाल्ययुतानिच/तूर्यगीताभिजुष्टानिविमानानिसमन्ततः/तपसाजितलोकानांकामगान्यभिसंपतन्/गन्धर्वाप्सरसश्चैवददर्शधनदानुजः/निर्यासरसमूलानांचन्दनानांसहस्रशः/वनानिपश्यन्सौम्यानिघ्राणतृप्तिकराणिच/अगरूणांचमुख्यानांवनान्युपवनानिच/तक्कोलानांचजात्यानांफलानांचसुगन्धिनाम्/पुष्पाणिचतमालस्यगुल्मानिमरिचस्यच/मुक्तानांचसमूहानिशुष्यमाणानितीरतः/शङ्खानांप्रस्तरंचैवप्रवालनिचयंतथा/काञ्चनानिचशैलानिराजतानिचसर्वशः/प्रस्रवाणिमनोज्ञानिप्रसन्नानिह्रदानिच/धनधान्योपपन्नानिस्त्रीरत्नैरावृतानिच/हस्त्यश्वरथगाढानिनगराण्यवलोकयन्/तंसमंसर्वतःस्निग्धंमृदुसंस्पर्शमारुतम्/अनूपंसिन्धुराजस्यददर्शत्रिदिवोपमम्/तत्रापश्यत्समेघाभंन्यग्रोधमृषिभिर्वृतम्/समन्ताद्यस्यताःशाखाःशतयोजनमायताः/यस्यहस्तिनमादायमहाकायंचकच्चपम्/भक्षार्थंगरुडःशाखामाजगाममहाबलः/तस्यतांसहसाशाखांभारेणपतगोत्तमः/सुपर्णःपर्णबहुलांबभञ्जाथमहाबलः/तत्रवैखानसामाषावालखिल्यामरीचिपाः/अजाबभूवुर्धूम्राश्चसंगताःपरमर्षयः/तेषांदयार्थंगरुडस्तांशाखांशतयोजनाम्/जगामादायवेगेनतौचोभौगजकच्छपौ/एकपादेनधर्मात्माभक्षयित्वातदामिषम्/निषादविषयंहत्वाशाखयापतगोत्तमः/प्रहर्षमतुलंलेभेमोक्षयित्वामहामुनीन्/सतेनैवप्रहर्षेणद्विगुणीकृतविक्रमः/अमृतानयनार्थंवैचकारमतिमान्मतिम्/अयोजालानिनिर्मथ्यभित्त्वारत्नगृहंवरम्/महेन्द्रभवनाद्गुप्तमाजहारामृतंततः/तंमहर्षिगणैर्जुष्टंसुपर्णकृतलक्षणम्/नाम्नासुभद्रंन्यग्रोधंददर्शधनदानुजः/तंतुगत्वापरंपारंसमुद्रस्यनदीपतेः/ददर्शाश्रममेकान्तेपुण्येरम्येवनान्तरे/तत्रकृष्णाजिनधरंजटावल्कलधारिणम्/ददर्शनियताहारंमारीचंनामराक्षसं/सरावणःसमागम्यविधिवत्तेनरक्षसा/ततःपश्चादिदंवाक्यमब्रवीद्वाक्यकोविदः/मारीचश्रूयतांतातवचनंममभाषतः/आर्तोऽस्मिममचार्तस्यभवान्हिपरमागतिः3361/जानीषेत्वंजनस्थानंभ्रातायत्रखरोमम/दूषणश्चमहाबाहुःस्वसाशूर्पणखाचमे/त्रिशिराश्चमहातेजाराक्षसःपिशिताशनः/अन्येचबहवःशूरालब्धलक्षानिशाचराः/वसन्तिमन्नियोगेनअधिवासंचराक्षसः/बाधमानामहारण्येमुनीन्येधर्मचारिणः/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/शूराणांलब्धलक्षाणांखरचित्तानुवर्तिनाम्/तेत्विदानींजनस्थानेवसमानामहाबलाः/संगताःपरमायत्तारामेणसहसंयुगे/तेनसंजातरोषेणरामेणरणमूर्धनि/अनुक्त्वापरुषंकिंचिच्छरैर्व्यापारितंधनुः/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/निहतानिशरैस्तीक्ष्णैर्मानुषेणपदातिना/खरश्चनिहतःसंख्येदूषणश्चनिपातितः/हत्वात्रिशिरसंचापिनिर्भयादण्डकाःकृताः/पित्रानिरस्तःक्रुद्धेनसभार्यःक्षीणजीवितः/सहन्तातस्यसैन्यस्यरामःक्षत्रियपांसनः/अशीलःकर्कशस्तीक्ष्णोमूर्खोलुब्धोऽजितेन्द्रियः/त्यक्तधर्मस्त्वधर्मात्माभूतानामहितेरतः/येनवैरंविनारण्येसत्त्वमाश्रित्यकेवलम्/कर्णनासापहारेणभगिनीमेविरूपिता/तस्यभार्यांजनस्थानात्सीतांसुरसुतोपमाम्/आनयिष्यामिविक्रम्यसहायस्तत्रमेभव/त्वयाह्यहंसहायेनपार्श्वस्थेनमहाबल/भ्रातृभिश्चसुरान्युद्धेसमग्रान्नाभिचिन्तये/तत्सहायोभवत्वंमेसमर्थोह्यसिराक्षस/वीर्येयुद्धेचदर्पेचनह्यस्तिसदृशस्तव/एतदर्थमहंप्राप्तस्त्वत्समीपंनिशाचर/शृणुतत्कर्मसाहाय्येयत्कार्यंवचनान्मम/सौवर्णस्त्वंमृगोभूत्वाचित्रोरजतबिन्दुभिः/आश्रमेतस्यरामस्यसीतायाःप्रमुखेचर/त्वांतुनिःसंशयंसीतादृष्ट्वातुमृगरूपिणम्/गृह्यतामितिभर्तारंलक्ष्मणंचाभिधास्यति/ततस्तयोरपायेतुशून्येसीतांयथासुखम्/निराबाधोहरिष्यामिराहुश्चन्द्रप्रभामिव/ततःपश्चात्सुखंरामेभार्याहरणकर्शिते/विस्रब्धंप्रहरिष्यामिकृतार्थेनान्तरात्मना/तस्यरामकथांश्रुत्वामारीचस्यमहात्मनः/शुष्कंसमभवद्वक्त्रंपरित्रस्तोबभूवच/सरावणंत्रस्तविषण्णचेता॑महावनेरामपराक्रमज्ञः/कृताञ्जलिस्तत्त्वमुवाचवाक्यं॑हितंचतस्मैहितमात्मनश्च/तच्छ्रुत्वाराक्षसेन्द्रस्यवाक्यंवाक्यविशारदः/प्रत्युवाचमहाप्राज्ञोमारीचोराक्षसेश्वरम्/सुलभाःपुरुषाराजन्सततंप्रियवादिनः/अप्रियस्यचपथ्यस्यवक्ताश्रोताचदुर्लभः/ननूनंबुध्यसेरामंमहावीर्यंगुणोन्नतम्/अयुक्तचारश्चपलोमहेन्द्रवरुणोपमम्/अपिस्वस्तिभवेत्तातसर्वेषांभुविरक्षसाम्/अपिरामोनसंक्रुद्धःकुर्याल्लोकमराक्षसं/अपितेजीवितान्तायनोत्पन्नाजनकात्मजा/अपिसीतानिमित्तंचनभवेद्व्यसनंमहत्/अपित्वामीश्वरंप्राप्यकामवृत्तंनिरङ्कुशम्/नविनश्येत्पुरीलङ्कात्वयासहसराक्षसा/त्वद्विधःकामवृत्तोहिदुःशीलःपापमन्त्रितः/आत्मानंस्वजनंराष्ट्रंसराजाहन्तिदुर्मतिः/नचपित्रापरित्यक्तोनामर्यादःकथंचन/नलुब्धोनचदुःशीलोनचक्षत्रियपांसनः/नचधर्मगुणैर्हीनैःकौसल्यानन्दवर्धनः/नचतीक्ष्णोहिभूतानांसर्वेषांचहितेरतः/वञ्चितंपितरंदृष्ट्वाकैकेय्यासत्यवादिनम्/करिष्यामीतिधर्मात्माततःप्रव्रजितोवनम्/कैकेय्याःप्रियकामार्थंपितुर्दशरथस्यच/हित्वाराज्यंचभोगांश्चप्रविष्टोदण्डकावनम्/नरामःकर्कशस्तातनाविद्वान्नाजितेन्द्रियः/अनृतंनश्रुतंचैवनैवत्वंवक्तुमर्हसि/रामोविग्रहवान्धर्मःसाधुःसत्यपराक्रमः/राजासर्वस्यलोकस्यदेवानामिववासवः/कथंत्वंतस्यवैदेहींरक्षितांस्वेनतेजसा/इच्छसिप्रसभंहर्तुंप्रभामिवविवस्वतः/शरार्चिषमनाधृष्यंचापखड्गेन्धनंरणे/रामाग्निंसहसादीप्तंनप्रवेष्टुंत्वमर्हसि/धनुर्व्यादितदीप्तास्यंशरार्चिषममर्षणम्/चापबाणधरंवीरंशत्रुसेनापहारिणम्/राज्यंसुखंचसंत्यज्यजीवितंचेष्टमात्मनः/नात्यासादयितुंतातरामान्तकमिहार्हसि/अप्रमेयंहितत्तेजोयस्यसाजनकात्मजा/नत्वंसमर्थस्तांहर्तुंरामचापाश्रयांवने/प्राणेभ्योऽपिप्रियतराभार्यानित्यमनुव्रता/दीप्तस्येवहुताशस्यशिखासीतासुमध्यमा/किमुद्यमंव्यर्थमिमंकृत्वातेराक्षसाधिप/दृष्टश्चेत्त्वंरणेतेनतदन्तंतवजीवितम्/जीवितंचसुखंचैवराज्यंचैवसुदुर्लभम्/ससर्वैःसचिवैःसार्धंविभीषणपुरस्कृतैः/मन्त्रयित्वातुधर्मिष्ठैःकृत्वानिश्चयमात्मनः/दोषाणांचगुणानांचसंप्रधार्यबलाबलम्/आत्मनश्चबलंज्ञात्वाराघवस्यचतत्त्वतः/हितंहितवनिश्चित्यक्षमंत्वंकर्तुमर्हसि/अहंतुमन्येतवनक्षमंरणे॑समागमंकोसलराजसूनुना/इदंहिभूयःशृणुवाक्यमुत्तमं॑क्षमंचयुक्तंचनिशाचराधिप/कदाचिदप्यहंवीर्यात्पर्यटन्पृथिवीमिमाम्/बलंनागसहस्रस्यधारयन्पर्वतोपमः/नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः/भयंलोकस्यजनयन्किरीटीपरिघायुधः/व्यचरंदण्डकारण्यमृषिमांसानिभक्षयन्/विश्वामित्रोऽथधर्मात्मामद्वित्रस्तोमहामुनिः/स्वयंगत्वादशरथंनरेन्द्रमिदमब्रवीत्/अयंरक्षतुमांरामःपर्वकालेसमाहितः/मारीचान्मेभयंघोरंसमुत्पन्नंनरेश्वर/इत्येवमुक्तोधर्मात्माराजादशरथस्तदा/प्रत्युवाचमहाभागंविश्वामित्रंमहामुनिम्/ऊनषोडशवर्षोऽयमकृतास्त्रश्चराघवः/कामंतुममयत्सैन्यंमयासहगमिष्यति/बधिष्यामिमुनिश्रेष्ठशत्रुंतवयथेप्सितम्/इत्येवमुक्तःसमुनीराजानंपुनरब्रवीत्/रामान्नान्यद्बलंलोकेपर्याप्तंतस्यरक्षसः/बालोऽप्येषमहातेजाःसमर्थस्तस्यनिग्रहे/गमिष्येराममादायस्वस्तितेऽस्तुपरंतपः/इत्येवमुक्त्वासमुनिस्तमादायनृपात्मजम्/जगामपरमप्रीतोविश्वामित्रःस्वमाश्रमम्/तंतदादण्डकारण्येयज्ञमुद्दिश्यदीक्षितम्/बभूवावस्थितोरामश्चित्रंविस्फारयन्धनुः/अजातव्यञ्जनःश्रीमान्बालःश्यामःशुभेक्षणः/एकवस्त्रधरोधन्वीशिखीकनकमालया/शोभयन्दण्डकारण्यंदीप्तेनस्वेनतेजसा/अदृश्यततदारामोबालचन्द्रइवोदितः/ततोऽहंमेघसंकाशस्तप्तकाञ्चनकुण्डलः/बलीदत्तवरोदर्पादाजगामतदाश्रमम्/तेनदृष्टःप्रविष्टोऽहंसहसैवोद्यतायुधः/मांतुदृष्ट्वाधनुःसज्यमसंभ्रान्तश्चकारह/अवजानन्नहंमोहाद्बालोऽयमितिराघवम्/विश्वामित्रस्यतांवेदिमध्यधावंकृतत्वरः/तेनमुक्तस्ततोबाणःशितःशत्रुनिबर्हणः/तेनाहंताडितःक्षिप्तःसमुद्रेशतयोजने/रामस्यशरवेगेननिरस्तोभ्रान्तचेतनः/पातितोऽहंतदातेनगम्भीरेसागराम्भसि/प्राप्यसंज्ञांचिरात्तातलङ्कांप्रतिगतःपुरीम्/एवमस्मितदामुक्तःसहायास्तेनिपातिताः/अकृतास्त्रेणरामेणबालेनाक्लिष्टकर्मणा/तन्मयावार्यमाणस्त्वंयदिरामेणविग्रहम्/करिष्यस्यापदंघोरांक्षिप्रंप्राप्यनशिष्यसि/क्रीडारतिविधिज्ञानांसमाजोत्सवशालिनाम्/रक्षसांचैवसंतापमनर्थंचाहरिष्यसि/हर्म्यप्रासादसंबाधांनानारत्नविभूउषिताम्/द्रक्ष्यसित्वंपुरींलङ्कांविनष्टांमैथिलीकृते/अकुर्वन्तोऽपिपापानिशुचयःपापसंश्रयात्/परपापैर्विनश्यन्तिमत्स्यानागह्रदेयथा/दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्/द्रक्ष्यस्यभिहतान्भूमौतवदोषात्तुराक्षसान्/हृतदारान्सदारांश्चदशविद्रवतोदिशः/हतशेषानशरणान्द्रक्ष्यसित्वंनिशाचरान्/शरजालपरिक्षिप्तामग्निज्वालासमावृताम्/प्रदग्धभवनांलङ्कांद्रक्ष्यसित्वमसंशयम्/प्रमदानांसहस्राणितवराजन्परिग्रहः/भवस्वदारनिरतःस्वकुलंरक्षराक्षस/मानंवृद्धिंचराज्यंचजीवितंचेष्टमिआत्मनः/यदीच्छसिचिरंभोक्तुंमाकृथारामविप्रियम्/निवार्यमाणःसुहृदामयाभृशं॑प्रसह्यसीतांयदिधर्षयिष्यसि/गमिष्यसिक्षीणबलःसबान्धवो॑यमक्षयंरामशरात्तजीवितः/एवमस्मितदामुक्तःकथंचित्तेनसंयुगे/इदानीमपियद्वृत्तंतच्छृणुष्वयदुत्तरम्/राक्षसाभ्यामहंद्वाभ्यामनिर्विण्णस्तथाकृतः/सहितोमृगरूपाभ्यांप्रविष्टोदण्डकावनम्/दीप्तजिह्वोमहाकायस्तीक्ष्णशृण्गोमहाबलः/व्यचरन्दण्डकारण्यंमांसभक्षोमहामृगः/अग्निहोत्रेषुतीर्थेषुचैत्यवृक्षेषुरावण/अत्यन्तघोरोव्यचरंस्तापसांस्तान्प्रधर्षयन्/निहत्यदण्डकारण्येतापसान्धर्मचारिणः/रुधिराणिपिबंस्तेषांतथामांसानिभक्षयन्/ऋषिमांसाशनःक्रूरस्त्रासयन्वनगोचरान्/तदारुधिरमत्तोऽहंव्यचरंदण्डकावनम्/तदाहंदण्डकारण्येविचरन्धर्मदूषकः/आसादयंतदारामंतापसंधर्ममाश्रितम्/वैदेहींचमहाभागांलक्ष्मणंचमहारथम्/तापसंनियताहारंसर्वभूतहितेरतम्/सोऽहंवनगतंरामंपरिभूयमहाबलम्/तापसोऽयमितिज्ञात्वापूर्ववैरमनुस्मरन्/अभ्यधावंसुसंक्रुद्धस्तीक्ष्णशृङ्गोमृगाकृतिः/जिघांसुरकृतप्रज्ञस्तंप्रहारमनुस्मरन्/तेनमुक्तास्त्रयोबाणाःशिताःशत्रुनिबर्हणाः/विकृष्यबलवच्चापंसुपर्णानिलतुल्यगाः/तेबाणावज्रसंकाशाःसुघोरारक्तभोजनाः/आजग्मुःसहिताःसर्वेत्रयःसंनतपर्वणः/पराक्रमज्ञोरामस्यशठोदृष्टभयःपुरा/समुत्क्रान्तस्ततोमुक्तस्तावुभौराक्षसौहतौ/शरेणमुक्तोरामस्यकथंचित्प्राप्यजीवितम्/इहप्रव्राजितोयुक्तस्तापसोऽहंसमाहितः/वृक्षेवृक्षेहिपश्यामिचीरकृष्णाजिनाम्बरम्/गृहीतधनुषंरामंपाशहस्तमिवान्तकम्/अपिरामसहस्राणिभीतःपश्यामिरावण/रामभूतमिदंसर्वमरण्यंप्रतिभातिमे/राममेवहिपश्यामिरहितेराक्षसेश्वर/दृष्ट्वास्वप्नगतंराममुद्भ्रमामिविचेतनः/रकारादीनिनामानिरामत्रस्तस्यरावण/रत्नानिचरथाश्चैवत्रासंसंजनयन्तिमे/अहंतस्यप्रभावज्ञोनयुद्धंतेनतेक्षमम्/रणेरामेणयुध्यस्वक्षमांवाकुरुराक्षस/नतेरामकथाकार्यायदिमांद्रष्टुमिच्छसि/इदंवचोबन्धुहितार्थिनामया॑यथोच्यमानंयदिनाभिपत्स्यसे/सबान्धवस्त्यक्ष्यसिजीवितंरणे॑हतोऽद्यरामेणशरैरजिह्मगैः/मारीचेनतुतद्वाक्यंक्षमंयुक्तंचरावणः/उक्तोनप्रतिजग्राहमर्तुकामइवौषधम्/तंपथ्यहितवक्तारंमारीचंराक्षसाधिपः/अब्रवीत्परुषंवाक्यमयुक्तंकालचोदितः/यत्किलैतदयुक्तार्थंमारीचमयिकथ्यते/वाक्यंनिष्फलमत्यर्थंबीजमुप्तमिवोषरे/त्वद्वाक्यैर्नतुमांशक्यंभेत्तुंरामस्यसंयुगे/पापशीलस्यमूर्खस्यमानुषस्यविशेषतः/यस्त्यक्त्वासुहृदोराज्यंमातरंपितरंतथा/स्त्रीवाक्यंप्राकृतंश्रुत्वावनमेकपदेगतः/अवश्यंतुमयातस्यसंयुगेखरघातिनः/प्राणैःप्रियतरासीताहर्तव्यातवसंनिधौ/एवंमेनिश्चिताबुद्धिर्हृदिमारीचवर्तते/नव्यावर्तयितुंशक्यासेन्द्रैरपिसुरासुरैः/दोषंगुणंवासंपृष्टस्त्वमेवंवक्तुमर्हसि/अपायंवाप्युपायंवाकार्यस्यास्यविनिश्चने/संपृष्टेनतुवक्तव्यंसचिवेनविपश्चिता/उद्यताञ्जलिनाराज्ञोयइच्छेद्भूतिमात्मनः/वाक्यमप्रतिकूलंतुमृदुपूर्वंशुभंहितम्/उपचारेणयुक्तंचवक्तव्योवसुधाधिपः/सावमर्दंतुयद्वाक्यंमारीचहितमुच्यते/नाभिनन्दतितद्राजामानार्होमानवर्जितम्/पञ्चरूपाणिराजानोधारयन्त्यमितौजसः/अग्नेरिन्द्रस्यसोमस्ययमस्यवरुणस्यच/औष्ण्यंतथाविक्रमंचसौम्यंदण्डंप्रसन्नताम्/तस्मात्सर्वास्ववस्थासुमान्याःपूज्याश्चपार्थिवाः/त्वंतुधर्ममविज्ञायकेवलंमोहमास्थितः/अभ्यागतंमांदौरात्म्यात्परुषंवदसीदृशम्/गुणदोषौनपृच्छामिक्षमंचात्मनिराक्षस/अस्मिंस्तुसभवान्कृत्येसाहार्य्यंकर्तुमर्हसि/सौवर्णस्त्वंमृगोभूत्वाचित्रोरजतबिन्दुभिः/प्रलोभयित्वावैदेहींयथेष्टंगन्तुमर्हसि/त्वांतुमायामृगंदृष्ट्वाकाञ्चनंजातविस्मया/आनयैनमितिक्षिप्रंरामंवक्ष्यतिमैथिली/अपक्रान्तेचकाकुत्स्थेलक्ष्मणेचयथासुखम्/आनयिष्यामिवैदेहींसहस्राक्षःशचीमिव/एवंकृत्वात्विदंकार्यंयथेष्टंगच्छराक्षस/राज्यस्यार्धंप्रदास्यामिमारीचतवसुव्रत/गच्छसौम्यशिवंमार्गंकार्यस्यास्यविवृद्धये/प्राप्यसीतामयुद्धेनवञ्चयित्वातुराघवम्/लङ्कांप्रतिगमिष्यामिकृतकार्यःसहत्वया/एतत्कार्यमवश्यंमेबलादपिकरिष्यसि/राज्ञोहिप्रतिकूलस्थोनजातुसुखमेधते/आसाद्यातंजीवितसंशयस्ते॑मृत्युर्ध्रुवोह्यद्यमयाविरुध्य/एतद्यथावत्परिगृह्यबुद्ध्या॑यदत्रपथ्यंकुरुतत्तथात्वम्/आज्ञप्तोराजवद्वाक्यंप्रतिकूलंनिशाचरः/अब्रवीत्परुषंवाक्यंमारीचोराक्षसाधिपम्/केनायमुपदिष्टस्तेविनाशःपापकर्मणा/सपुत्रस्यसराष्ट्रस्यसामात्यस्यनिशाचर/कस्त्वयासुखिनाराजन्नाभिनन्दतिपापकृत्/केनेदमुपदिष्टंतेमृत्युद्वारमुपायतः/शत्रवस्तवसुव्यक्तंहीनवीर्यानिशाचर/इच्छन्तित्वांविनश्यन्तमुपरुद्धंबलीयसा/केनेदमुपदिष्टंतेक्षुद्रेणाहितवादिना/यस्त्वामिच्छतिनश्यन्तंस्वकृतेननिशाचर/वध्याःखलुनहन्यन्तेसचिवास्तवरावण/येत्वामुत्पथमारूढंननिगृह्णन्तिसर्वशः/अमात्यैःकामवृत्तोहिराजाकापथमाश्रितः/निग्राह्यःसर्वथासद्भिर्ननिग्राह्योनिगृह्यसे/धर्ममर्थंचकामंचयशश्चजयतांवर/स्वामिप्रसादात्सचिवाःप्राप्नुवन्तिनिशाचर/विपर्ययेतुतत्सर्वंव्यर्थंभवतिरावण/व्यसनंस्वामिवैगुण्यात्प्राप्नुवन्तीतरेजनाः/राजमूलोहिधर्मश्चजयश्चजयतांवर/तस्मात्सर्वास्ववस्थासुरक्षितव्योनराधिपः/राज्यंपालयितुंशक्यंनतीक्ष्णेननिशाचर/नचापिप्रतिकूलेननाविनीतेनराक्षस/येतीक्ष्णमन्त्राःसचिवाभज्यन्तेसहतेनवै/विषमेषुरथाःशीघ्रंमन्दसारथयोयथा/बहवःसाधवोलोकेयुक्तधर्ममनुष्ठिताः/परेषामपराधेनविनष्टाःसपरिच्छदाः/स्वामिनाप्रतिकूलेनप्रजास्तीक्ष्णेनरावण/रक्ष्यमाणानवर्धन्तेमेषागोमायुनायथा/अवश्यंविनशिष्यन्तिसर्वेरावणराक्षसाः/येषांत्वंकर्कशोराजादुर्बुद्धिरजितेन्द्रियः/तदिदंकाकतालीयंघोरमासादितंत्वया/अत्रकिंशोभनंयत्त्वंससैन्योविनशिष्यसि/मांनिहत्यतुरामोऽसौनचिरात्त्वांवधिष्यति/अनेनकृतकृत्योऽस्मिम्रियेयदरिणाहतः/दर्शनादेवरामस्यहतंमामुपधारय/आत्मानंचहतंविद्धिहृत्वासीतांसबान्धवम्/आनयिष्यामिचेत्सीतामाश्रमात्सहितोमया/नैवत्वमसिनैवाहंनैवलङ्कानराक्षसाः/निवार्यमाणस्तुमयाहितैषिणा॑नमृष्यसेवाक्यमिदंनिशाचर/परेतकल्पाहिगतायुषोनरा॑हितंनगृह्णन्तिसुहृद्भिरीरितम्/एवमुक्त्वातुपरुषंमारीचोरावणोततः/गच्छावेत्यब्रवीद्दीनोभयाद्रात्रिंचरप्रभोः/दृष्टाश्चाहंपुनस्तेनशरचापासिधारिणा/मद्विधोद्यतशस्त्रेणविनष्टंजीवितंचमे/किंतुकर्तुंमयाशक्यमेवंत्वयिदुरात्मनि/एषगच्छाम्यहंतातस्वस्तितेऽस्तुनिशाचरः/प्रहृष्टस्त्वभवत्तेनवचनेनसराक्षसः/परिष्वज्यसुसंश्लिष्टमिदंवचनमब्रवीत्/एतच्छौण्डीर्ययुक्तंतेमच्छब्दादिवभाषितम्/इदानीमसिमारीचःपूर्वमन्योनिशाचरः/आरुह्यतामयंशीघ्रंखगोरत्नविभूषितः/मयासहरथोयुक्तःपिशाचवदनैःखरैः/ततोरावणमारीचौविमानमिवतंरथम्/आरुह्यययतुःशीघ्रंतस्मादाश्रममण्डलात्/तथैवतत्रपश्यन्तौपत्तनानिवनानिच/गिरींश्चसरितःसर्वाराष्ट्राणिनगराणिच/समेत्यदण्डकारण्यंराघवस्याश्रमंततः/ददर्शसहमरीचोरावणोराक्षसाधिपः/अवतीर्यरथात्तस्मात्ततःकाञ्चनभूषणात्/हस्तेगृहीत्वामारीचंरावणोवाक्यमब्रवीत्/एतद्रामाश्रमपदंदृश्यतेकदलीवृतम्/क्रियतांतत्सखेशीघ्रंयदर्थंवयमागताः/सरावणवचःश्रुत्वामारीचोराक्षसस्तदा/मृगोभूत्वाश्रमद्वारिरामस्यविचचारह/मणिप्रवरशृङ्गाग्रःसितासितमुखाकृतिः/रक्तपद्मोत्पलमुखइन्द्रनीलोत्पलश्रवाः/किंचिदभ्युन्नतग्रीवइन्द्रनीलनिभोदरः/मधूकनिभपार्श्वश्चकञ्जकिञ्जल्कसंनिभः/वैदूर्यसंकाशखुरस्तनुजङ्घःसुसंहतः/इन्द्रायुधसवर्णेनपुच्छेनोर्ध्वंविराजितः/मनोहरस्निग्धवर्णोरत्नैर्नानाविधैर्वृतः/क्षणेनराक्षसोजातोमृगःपरमशोभनः/वनंप्रज्वलयन्रम्यंरामाश्रमपदंचतत्/मनोहरंदर्शनीयंरूपंकृत्वासराक्षसः/प्रलोभनार्थंवैदेह्यानानाधातुविचित्रितम्/विचरन्गच्छतेसम्यक्शाद्वलानिसमन्ततः/रूप्यबिन्दुशतैश्चित्रोभूत्वाचप्रियदर्शनः/विटपीनांकिसलयान्भङ्क्त्वादन्विचचारह/कदलीगृहकंगत्वाकर्णिकारानितस्ततः/समाश्रयन्मन्दगतिःसीतासंदर्शनंतदा/राजीवचित्रपृष्ठःसविरराजमहामृगः/रामाश्रमपदाभ्याशेविचचारयथासुखम्/पुनर्गत्वानिवृत्तश्चविचचारमृगोत्तमः/गत्वामुहूर्तंत्वरयापुनःप्रतिनिवर्तते/विक्रीडंश्चपुनर्भूमौपुनरेवनिषीदति/आश्रमद्वारमागम्यमृगयूथानिगच्छति/मृगयूथैरनुगतःपुनरेवनिवर्तते/सीतादर्शनमाकाङ्क्षन्राक्षसोमृगतांगतः/परिभ्रमतिचित्राणिमण्डलानिविनिष्पतन्/समुद्वीक्ष्यचसर्वेतंमृगायेऽन्येवनेचराः/उपगम्यसमाघ्रायविद्रवन्तिदिशोदश/राक्षसःसोऽपितान्वन्यान्मृगान्मृगवधेरतः/प्रच्छादनार्थंभावस्यनभक्षयतिसंस्पृशन्/तस्मिन्नेवततःकालेवैदेहीशुभलोचना/कुसुमापचयेव्यग्रापादपानत्यवर्तत/कर्णिकारानशोकांश्चचूटांश्चमदिरेक्षणा/कुसुमान्यपचिन्वन्तीचचाररुचिरानना/अनर्हारण्यवासस्यसातंरत्नमयंमृगम्/मुक्तामणिविचित्राङ्गंददर्शपरमाङ्गना/तंवैरुचिरदण्तौष्ठंरूप्यधातुतनूरुहम्/विस्मयोत्फुल्लनयनासस्नेहंसमुदैक्षत/सचतांरामदयितांपश्यन्मायामयोमृगः/विचचारततस्तत्रदीपयन्निवतद्वनम्/अदृष्टपूर्वंदृष्ट्वातंनानारत्नमयंमृगम्/विस्मयंपरमंसीताजगामजनकात्मजा/सातंसंप्रेक्ष्यसुश्रोणीकुसुमानिविचिन्वती/हेमराजतवर्णाभ्यांपार्श्वाभ्यामुपशोभितम्3431/प्रहृष्टाचानवद्याङ्गीमृष्टहाटकवर्णिनी/भर्तारमपिचाक्रन्दल्लक्ष्मणंचैवसायुधम्/तयाहूतौनरव्याघ्रौवैदेह्यारामलक्ष्मणौ/वीक्षमाणौतुतंदेशंतदाददृशतुर्मृगम्/शङ्कमानस्तुतंदृष्ट्वालक्ष्मणोराममब्रवीत्/तमेवैनमहंमन्येमारीचंराक्षसंमृगम्/चरन्तोमृगयांहृष्टाःपापेनोपाधिनावने/अनेननिहतारामराजानःकामरूपिणा/अस्यमायाविदोमायामृगरूपमिदंकृतम्/भानुमत्पुरुषव्याघ्रगन्धर्वपुरसंनिभम्/मृगोह्येवंविधोरत्नविचित्रोनास्तिराघव/जगत्यांजगतीनाथमायैषाहिनसंशयः/एवंब्रुवाणंकाकुत्स्थंप्रतिवार्यशुचिस्मिता/उवाचसीतासंहृष्टाछद्मनाहृतचेतना/आर्यपुत्राभिरामोऽसौमृगोहरतिमेमनः/आनयैनंमहाबाहोक्रीडार्थंनोभविष्यति/इहाश्रमपदेऽस्माकंबहवःपुण्यदर्शनाः/मृगाश्चरन्तिसहिताश्चमराःसृमरास्तथा/ऋक्षाःपृषतसंघाश्चवानराःकिनरास्तथा/विचरन्तिमहाबाहोरूपश्रेष्ठामहाबलाः/नचास्यसदृशोराजन्दृष्टपूर्वोमृगःपुरा/तेजसाक्षमयादीप्त्यायथायंमृगसत्तमः/नानावर्णविचित्राङ्गोरत्नबिन्दुसमाचितः/द्योतयन्वनमव्यग्रंशोभतेशशिसंनिभः/अहोरूपमहोलक्ष्मीःस्वरसंपच्चशोभना/मृगोऽद्भुतोविचित्रोऽसौहृदयंहरतीवमे/यदिग्रहणमभ्येतिजीवन्नेवमृगस्तव/आश्चर्यभूतंभवतिविस्मयंजनयिष्यति/समाप्तवनवासानांराज्यस्थानांचनःपुनः/अन्तःपुरविभूषार्थोमृगएषभविष्यति/भरतस्यार्यपुत्रस्यश्वश्रूणांममचप्रभो/मृगरूपमिदंदिव्यंविस्मयंजनयिष्यति/जीवन्नयदितेऽभ्येतिग्रहणंमृगसत्तमः/अजिनंनरशार्दूलरुचिरंमेभविष्यति/निहतस्यास्यसत्त्वस्यजाम्बूनदमयत्वचि/शष्पबृस्यांविनीतायामिच्छाम्यहमुपासितुम्/कामवृत्तमिदंरौद्रंस्त्रीणामसदृशंमतम्/वपुषात्वस्यसत्त्वस्यविस्मयोजनितोमम/तेनकाञ्चनरोंणातुमणिप्रवरशृङ्गिणा/तरुणादित्यवर्णेननक्षत्रपथवर्चसा/बभूवराघवस्यापिमनोविस्मयमागतम्/एवंसीतावचःश्रुत्वादृष्ट्वाचमृगमद्भुतम्/उवाचराघवोहृष्टोभ्रातरंलक्ष्मणंवचः/पश्यलक्ष्मणवैदेह्याःस्पृहांमृगगतामिमाम्/रूपश्रेष्ठतयाह्येषमृगोऽद्यनभविष्यति/नवनेनन्दनोद्देशेनचैत्ररथसंश्रये/कुतःपृथिव्यांसौमित्रेयोऽस्यकश्चित्समोमृगः/प्रतिलोमानुलोमाश्चरुचिरारोमराजयः/शोभन्तेमृगमाश्रित्यचित्राःकनकबिन्दुभिः/पश्यास्यजृम्भमाणस्यदीप्तामग्निशिखोपमाम्/जिह्वांमुखान्निःसरन्तींमेघादिवशतह्रदाम्/मसारगल्वर्कमुखःशङ्खमुक्तानिभोदरः/कस्यनामानिरूप्योऽसौनमनोलोभयेन्मृगः/कस्यरूपमिदंदृष्ट्वाजाम्बूनदमयप्रभम्/नानारत्नमयंदिव्यंनमनोविस्मयंव्रजेत्/मांसहेतोरपिमृगान्विहारार्थंचधन्विनः/घ्नन्तिलक्ष्मणराजानोमृगयायांमहावने/धनानिव्यवसायेनविचीयन्तेमहावने/धातवोविविधाश्चापिमणिरत्नसुवर्णिनः/तत्सारमखिलंनॄणांधनंनिचयवर्धनम्/मनसाचिन्तितंसर्वंयथाशुक्रस्यलक्ष्मण/अर्थीयेनार्थकृत्येनसंव्रजत्यविचारयन्/तमर्थमर्थशास्त्रज्ञःप्राहुरर्थ्याश्चलक्ष्मण/एतस्यमृगरत्नस्यपरार्ध्येकाञ्चनत्वचि/उपवेक्ष्यतिवैदेहीमयासहसुमध्यमा/नकादलीनप्रियकीनप्रवेणीनचाविकी/भवेदेतस्यसदृशीस्पर्शनेनेतिमेमतिः/एषचैवमृगःश्रीमान्यश्चदिव्योनभश्चरः/उभावेतौमृगौदिव्यौतारामृगमहीमृगौ/यदिवायंतथायन्मांभवेद्वदसिलक्ष्मण/मायैषाराक्षसस्येतिकर्तव्योऽस्यवधोमया/एतेनहिनृशंसेनमारीचेनाकृतात्मना/वनेविचरतापूर्वंहिंसितामुनिपुंगवाः/उत्थायबहवोयेनमृगयायांजनाधिपाः/निहताःपरमेष्वासास्तस्माद्वध्यस्त्वयंमृगः/पुरस्तादिहवातापिःपरिभूयतपस्विनः/उदरस्थोद्विजान्हन्तिस्वगर्भोऽश्वतरीमिव/सकदाचिच्चिराल्लोकेआससादमहामुनिम्/अगस्त्यंतेजसायुक्तंभक्ष्यस्तस्यबभूवह/समुत्थानेचतद्रूपंकर्तुकामंसमीक्ष्यतम्/उत्स्मयित्वातुभगवान्वातापिमिदमब्रवीत्/त्वयाविगण्यवातापेपरिभूताश्चतेजसा/जीवलोकेद्विजश्रेष्ठास्तस्मादसिजरांगतः/एवंतन्नभवेद्रक्षोवातापिरिवलक्ष्मण/मद्विधंयोऽतिमन्येतधर्मनित्यंजितेन्द्रियम्/भवेद्धतोऽयंवातापिरगस्त्येनेवमागतिः/इहत्वंभवसंनद्धोयन्त्रितोरक्षमैथिलीम्/अस्यामायत्तमस्माकंयत्कृत्यंरघुनन्दन/अहमेनंवधिष्यामिग्रहीष्याम्यथवामृगम्/यावद्गच्छामिसौमित्रेमृगमानयितुंद्रुतम्/पश्यलक्ष्मणवैदेहींमृगत्वचिगतस्पृहाम्/त्वचाप्रधानयाह्येषमृगोऽद्यनभविष्यति/अप्रमत्तेनतेभाव्यमाश्रमस्थेनसीतया/यावत्पृषतमेकेनसायकेननिहन्म्यहम्/हत्वैतच्चर्मआदायशीघ्रमेष्यामिलक्ष्मण/प्रदक्षिणेनातिबलेनपक्षिणा॑जटायुषाबुद्धिमताचलक्ष्मण/भवाप्रमत्तःप्रतिगृह्यमैथिलीं॑प्रतिक्षणंसर्वतएवशङ्कितः34351/तथातुतंसमादिश्यभ्रातरंरघुनन्दनः/बबन्धासिंमहातेजाजाम्बूनदमयत्सरुम्/ततस्त्रिविणतंचापमादायात्मविभूषणम्/आबध्यचकलापौद्वौजगामोदग्रविक्रमः/तंवञ्चयानोराजेन्द्रमापतन्तंनिरीक्ष्यवै/बभूवान्तर्हितस्त्रासात्पुनःसंदर्शनेऽभवत्/बद्धासिर्धनुरादायप्रदुद्रावयतोमृगः/तंसपश्यतिरूपेणद्योतमानमिवाग्रतः/अवेक्ष्यावेक्ष्यधावन्तंधनुष्पाणिर्महावने/अतिवृत्तमिषोःपाताल्लोभयानंकदाचन/शङ्कितंतुसमुद्भ्रान्तमुत्पतन्तमिवाम्बरे/दश्यमानमदृश्यंचनवोद्देशेषुकेषुचित्/छिन्नाभ्रैरिवसंवीतंशारदंचन्द्रमण्डलम्/मुहूर्तादेवददृशेमुहुर्दूरात्प्रकाशते/दर्शनादर्शनेनैवसोऽपाकर्षतराघवम्/आसीत्क्रुद्धस्तुकाकुत्स्थोविवशस्तेनमोहितः/अथावतस्थेसुश्रान्तश्छायामाश्रित्यशाद्वले/मृगैःपरिवृतोवन्यैरदूरात्प्रत्यदृश्यत/दृष्ट्वारामोमहातेजास्तंहन्तुंकृतनिश्चयः/संधायसुदृढेचापेविकृष्यबलवद्बली/तमेवमृगमुद्दिश्यज्वलन्तमिवपन्नगम्/मुमोचज्वलितंदीप्तमस्त्रब्रह्मविनिर्मितम्/सभृशंमृगरूपस्यविनिर्भिद्यशरोत्तमः/मारीचस्यैवहृदयंविभेदाशनिसंनिभः/तालमात्रमथोत्पत्यन्यपतत्सशरातुरः/व्यनदद्भैरवंनादंधरण्यामल्पजीवितः/म्रियमाणस्तुमारीचोजहौतांकृत्रिमांतनुम्/संप्राप्तकालमाज्ञायचकारचततःस्वरम्/सदृशंराघवस्यैवहासीतेलक्ष्मणेतिच/तेनमर्मणिनिर्विद्धःशरेणानुपमेनहि/मृगरूपंतुतत्त्यक्त्वाराक्षसंरूपमात्मनः/चक्रेससुमहाकायोमारीचोजीवितंत्यजन्/ततोविचित्रकेयूरःसर्वाभरणभूषितः/हेममालीमहादंष्ट्रोराक्षसोऽभूच्छराहतः/तंदृष्ट्वापतितंभूमौराक्षसंघोरदर्शनम्/जगाममनसासीतांलक्ष्मणस्यवचःस्मरन्/हासीतेलक्ष्मणेत्येवमाक्रुश्यतुमहास्वरम्/ममारराक्षसःसोऽयंश्रुत्वासीताकथंभवेत्/लक्ष्मणश्चमहाबाहुःकामवस्थांगमिष्यति/इतिसंचिन्त्यधर्मात्मारामोहृष्टतनूरुहः/तत्ररामंभयंतीव्रमाविवेशविषादजम्/राक्षसंमृगरूपंतंहत्वाश्रुत्वाचतत्स्वरम्/निहत्यपृषतंचान्यंमांसमादायराघवः/त्वरमाणोजनस्थानंससाराभिमुखस्तदा/आर्तस्वरंतुतंभर्तुर्विज्ञायसदृशंवने/उवाचलक्ष्मणंसीतागच्छजानीहिराघवम्/नहिमेजीवितंस्थानेहृदयंवावतिष्ठते/क्रोशतःपरमार्तस्यश्रुतःशब्दोमयाभृशम्/आक्रन्दमानंतुवनेभ्रातरंत्रातुमर्हसि/तंक्षिप्रमभिधावत्वंभ्रातरंशरणैषिणम्/रक्षसांवशमापन्नंसिंहानामिवगोवृषम्/नजगामतथोक्तस्तुभ्रातुराज्ञायशासनम्/तमुवाचततस्तत्रकुपिताजनकात्मजा/सौमित्रेमित्ररूपेणभ्रातुस्त्वमसिशत्रुवत्/यस्त्वमस्यामवस्थायांभ्रातरंनाभिपद्यसे/इच्छसित्वंविनश्यन्तंरामंलक्ष्मणमत्कृते/व्यसनंतेप्रियंमन्येस्नेहोभ्रातरिनास्तिते/तेनतिष्ठसिविस्रब्धस्तमपश्यन्महाद्युतिम्/किंहिसंशयमापन्नेतस्मिन्निहमयाभवेत्/कर्तव्यमिहतिष्ठन्त्यायत्प्रधानस्त्वमागतः/इतिब्रुवाणंवैदेहींबाष्पशोकपरिप्लुताम्/अब्रवील्लक्ष्मणस्त्रस्तांसीतांमृगवधूमिव/देविदेवमनुष्येषुगन्धर्वेषुपतत्रिषु/राक्षसेषुपिशाचेषुकिंनरेषुमृगेषुच/दानवेषुचघोरेषुनसविद्येतशोभने/योरामंप्रतियुध्येतसमरेवासवोपमम्/अवध्यःसमरेरामोनैवंत्वंवक्तुमर्हसि/नत्वामस्मिन्वनेहातुमुत्सहेराघवंविना/अनिवार्यंबलंतस्यबलैर्बलवतामपि/त्रिभिर्लोकैःसमुद्युक्तैःसेश्वरैःसामरैरपि/हृदयंनिर्वृतंतेऽस्तुसंतापस्त्यज्यतामयम्/आगमिष्यतितेभर्ताशीघ्रंहत्वामृगोत्तमम्/नसतस्यस्वरोव्यक्तंनकश्चिदपिदैवतः/गन्धर्वनगरप्रख्यामायासातस्यरक्षसः/न्यासभूतासिवैदेहिन्यस्तामयिमहात्मना/रामेणत्वंवरारोहेनत्वांत्यक्तुमिहोत्सहे/कृतवैराश्चकल्याणिवयमेतैर्निशाचरैः/खरस्यनिधनेदेविजनस्थानवधंप्रति/राक्षसाविधिनावाचोविसृजन्तिमहावने/हिंसाविहारावैदेहिनचिन्तयितुमर्हसि/लक्ष्मणेनैवमुक्तातुक्रुद्धासंरक्तलोचना/अब्रवीत्परुषंवाक्यंलक्ष्मणंसत्यवादिनम्/अनार्यकरुणारम्भनृशंसकुलपांसन/अहंतवप्रियंमन्येतेनैतानिप्रभाषसे/नैतच्चित्रंसपत्नेषुपापंलक्ष्मणयद्भवेत्/त्वद्विधेषुनृशंसेषुनित्यंप्रच्छन्नचारिषु/सुदुष्टस्त्वंवनेराममेकमेकोऽनुगच्छसि/ममहेतोःप्रतिच्छन्नःप्रयुक्तोभरतेनवा/कथमिन्दीवरश्यामंरामंपद्मनिभेक्षणम्/उपसंश्रित्यभर्तारंकामयेयंपृथग्जनम्/समक्षंतवसौमित्रेप्राणांस्त्यक्ष्येनसंशयः/रामंविनाक्षणमपिनहिजीवामिभूतले/इत्युक्तःपरुषंवाक्यंसीतयासोमहर्षणम्/अब्रवील्लक्ष्मणःसीतांप्राञ्जलिर्विजितेन्द्रियः/उत्तरंनोत्सहेवक्तुंदैवतंभवतीमम/वाक्यमप्रतिरूपंतुनचित्रंस्त्रीषुमैथिलि/स्वभावस्त्वेषनारीणामेषुलोकेषुदृश्यते/विमुक्तधर्माश्चपलास्तीक्ष्णाभेदकराःस्त्रियः/उपशृण्वन्तुमेसर्वेसाक्षिभूतावनेचराः/न्यायवादीयथावाक्यमुक्तोऽहंपरुषंत्वया/धिक्त्वामद्यप्रणश्यत्वंयन्मामेवंविशङ्कसे/स्त्रीत्वाद्दुष्टस्वभावेनगुरुवाक्येव्यवस्थितम्/गमिष्येयत्रकाकुत्स्थःस्वस्तितेऽस्तुवरानने/रक्षन्तुत्वांविशालाक्षिसमग्रावनदेवताः/निमित्तानिहिघोराणियानिप्रादुर्भवन्तिमे/अपित्वांसहरामेणपश्येयंपुनरागतः/लक्ष्मणेनैवमुक्तातुरुदतीजनकात्मजा/प्रत्युवाचततोवाक्यंतीव्रंबाष्पपरिप्लुता/गोदावरींप्रवेक्ष्यामिविनारामेणलक्ष्मण/आबन्धिष्येऽथवात्यक्ष्येविषमेदेहमात्मनः/पिबामिवाविषंतीक्ष्णंप्रवेक्ष्यामिहुताशनम्/नत्वहंराघवादन्यंपदापिपुरुषंस्पृशे/इतिलक्ष्मणमाक्रुश्यसीतादुःखसमन्विता/पाणिभ्यांरुदतीदुःखादुदरंप्रजघानह/तामार्तरूपांविमनारुदन्तीं॑सौमित्रिरालोक्यविशालनेत्राम्/आश्वासयामासनचैवभर्तुस्॑तंभ्रातरंकिंचिदुवाचसीता/ततस्तुसीतामभिवाद्यलक्ष्मणः॑कृताञ्जलिःकिंचिदभिप्रणम्य/अवेक्षमाणोबहुशश्चमैथिलीं॑जगामरामस्यसमीपमात्मवान्/तयापरुषमुक्तस्तुकुपितोराघवानुजः/सविकाङ्क्षन्भृशंरामंप्रतस्थेनचिरादिव/तदासाद्यदशग्रीवःक्षिप्रमन्तरमास्थितः/अभिचक्रामवैदेहींपरिव्राजकरूपधृक्/श्लक्ष्णकाषायसंवीतःशिखीछत्रीउपानही/वामेचांसेऽवसज्याथशुभेयष्टिकमण्डलू/परिव्राजकरूपेणवैदेहींसमुपागमत्/तामाससादातिबलोभ्रातृभ्यांरहितांवने/रहितांसूर्यचन्द्राभ्यांसंध्यामिवमहत्तमः/तामपश्यत्ततोबालांराजपुत्रींयशस्विनीम्/रोहिणींशशिनाहीनांग्रहवद्भृशदारुणः/तमुग्रंपापकर्माणंजनस्थानरुहाद्रुमाः/समीक्ष्यनप्रकम्पन्तेनप्रवातिचमारुतः/शीघ्रस्रोताश्चतंदृष्ट्वावीक्षन्तंरक्तलोचनम्/स्तिमितंगन्तुमारेभेभयाद्गोदावरीनदी/रामस्यत्वन्तरंप्रेप्सुर्दशग्रीवस्तदन्तरे/उपतस्थेचवैदेहींभिक्षुरूपेणरावणः/अभव्योभव्यरूपेणभर्तारमनुशोचतीम्/अभ्यवर्ततवैदेहींचित्रामिवशनैश्चरः/सपापोभव्यरूपेणतृणैःकूपइवावृतः/अतिष्ठत्प्रेक्ष्यवैदेहींरामपत्नींयशस्विनीम्/शुभांरुचिरदन्तौष्ठींपूर्णचन्द्रनिभाननाम्/आसीनांपर्णशालायांबाष्पशोकाभिपीडिताम्/सतांपद्मपलाशाक्षींपीतकौशेयवासिनीम्/अभ्यगच्छतवैदेहींदुष्टचेतानिशाचरः/समन्मथशराविष्टोब्रह्मघोषमुदीरयन्/अब्रवीत्प्रश्रितंवाक्यंरहितेराक्षसाधिपः/तामुत्तमांत्रिलोकानांपद्महीनामिवश्रियम्/विभ्राजमानांवपुषारावणःप्रशशंसह/कात्वंकाञ्चनवर्णाभेपीतकौशेयवासिनि/कमलानांशुभांमालांपद्मिनीवचबिभ्रती/ह्रीःश्रीःकीर्तिःशुभालक्ष्मीरप्सरावाशुभानने/भूतिर्वात्वंवरारोहेरतिर्वास्वैरचारिणी/समाःशिखरिणःस्निग्धाःपाण्डुरादशनास्तव/विशालेविमलेनेत्रेरक्तान्तेकृष्णतारके/विशालंजघनंपीनमूरूकरिकरोपमौ/एतावुपचितौवृत्तौसहितौसंप्रगल्भितौ/पीनोन्नतमुखौकान्तौस्निग्धतालफलोपमौ/मणिप्रवेकाभरणौरुचिरौतेपयोधरौ/चारुस्मितेचारुदतिचारुनेत्रेविलासिनि/मनोहरसिमेरामेनदीकूलमिवाम्भसा/करान्तमितमध्यासिसुकेशीसंहतस्तनी/नैवदेवीनगन्धर्वीनयक्षीनचकिंनरी/नैवंरूपामयानारीदृष्टपूर्वामहीतले/इहवासश्चकान्तारेचित्तमुन्माथयन्तिमे/साप्रतिक्रामभद्रंतेनत्वंवस्तुमिहार्हसि/राक्षसानामयंवासोघोराणांकामरूपिणाम्/प्रासादाग्र्याणिरम्याणिनगरोपवनानिच/संपन्नानिसुगन्धीनियुक्तान्याचरितुंत्वया/वरंमाल्यंवरंपानंवरंवस्त्रंचशोभने/भर्तारंचवरंमन्येत्वद्युक्तमसितेक्षणे/कात्वंभवसिरुद्राणांमरुतांवाशुचिस्मिते/वसूनांवावरारोहेदेवताप्रतिभासिमे/नेहगच्छन्तीगन्धर्वानदेवानचकिंनराः/राक्षसानामयंवासःकथंनुत्वमिहागता/इहशाखामृगाःसिंहाद्वीपिव्याघ्रमृगास्तथा/ऋक्षास्तरक्षवःकङ्काःकथंतेभ्योनबिभ्यसे/मदान्वितानांघोराणांकुञ्जराणांतरस्विनाम्/कथमेकामहारण्येनबिभेषिवनानने/कासिकस्यकुतश्चत्वंकिंनिमित्तंचदण्डकान्/एकाचरसिकल्याणिघोरान्राक्षससेवितान्/इतिप्रशस्तावैदेहीरावणेनदुरात्मना/द्विजातिवेषेणहितंदृष्ट्वारावणमागतम्/सर्वैरतिथिसत्कारैःपूजयामासमैथिली/उपानीयासनंपूर्वंपाद्येनाभिनिमन्त्र्यच/अब्रवीत्सिद्धमित्येवतदातंसौम्यदर्शनम्/द्विजातिवेषेणसमीक्ष्यमैथिली॑तमागतंपात्रकुसुम्भधारिणम्/अशक्यमुद्द्वेष्टुमुपायदर्शनान्॑न्यमन्त्रयद्ब्राह्मणवद्/यथागतम्/इयंबृसीब्राह्मणकाममास्यताम्॑इदंचपाद्यंप्रतिगृह्यतामिति/इदंचसिद्धंवनजातमुत्तमं॑त्वदर्थमव्यग्रमिहोपभुज्यताम्/निमन्त्र्यमाणःप्रतिपूर्णभाषिणीं॑नरेन्द्रपत्नींप्रसमीक्ष्यमैथिलीम्/प्रहस्यतस्याहरणेधृतंमनः॑समर्पयामासवधायरावणः/ततःसुवेषंमृगयागतंपतिं॑प्रतीक्षमाणासहलक्ष्मणंतदा/निरीक्षमाणाहरितंददर्शतन्॑महद्वनंनैवतुरामलक्ष्मणौ/रावणेनतुवैदेहीतदापृष्टाजिहीर्षुणा/परिव्राजकरूपेणशशंसात्मानमात्मना/ब्राह्मणश्चातिथिश्चैषअनुक्तोहिशपेतमाम्/इतिध्यात्वामुहूर्तंतुसीतावचनमब्रवीत्/दुहिताजनकस्याहंमैथिलस्यमहात्मनः/सीतानाम्नास्मिभद्रंतेरामभार्याद्विजोत्तम/संवत्सरंचाध्युषिताराघवस्यनिवेशने/भुञ्जानामानुषान्भोगान्सर्वकामसमृद्धिनी/ततःसंवत्सरादूर्ध्वंसममन्यतमेपतिम्/अभिषेचयितुंरामंसमेतोराजमन्त्रिभिः/तस्मिन्संभ्रियमाणेतुराघवस्याभिषेचने/कैकेयीनामभर्तारंममार्यायाचतेवरम्/प्रतिगृह्यतुकैकेयीश्वशुरंसुकृतेनमे/ममप्रव्राजनंभर्तुर्भरतस्याभिषेचनम्/द्वावयाचतभर्तारंसत्यसंधंनृपोत्तमम्/नाद्यभोक्ष्येनचस्वप्स्येनपास्येऽहंकदाचन/एषमेजीवितस्यान्तोरामोयद्यभिषिच्यते/इतिब्रुवाणांकैकेयींश्वशुरोमेसमानदः/अयाचतार्थैरन्वर्थैर्नचयाच्ञांचकारसा/ममभर्तामहातेजावयसापञ्चविंशकः/रामेतिप्रथितोलोकेगुणवान्सत्यवाक्शुचिः/विशालाक्षोमहाबाहुःसर्वभूतहितेरतः/अभिषेकायतुपितुःसमीपंराममागतम्/कैकेयीममभर्तारमित्युवाचद्रुतंवचः/तवपित्रासमाज्ञप्तंममेदंशृणुराघव/भरतायप्रदातव्यमिदंराज्यमकण्टकम्/त्वयातुखलुवस्तव्यंनववर्षाणिपञ्चच/वनेप्रव्रजकाकुत्स्थपितरंमोचयानृतात्/तथेत्युवाचतांरामःकैकेयीमकुतोभयः/चकारतद्वचस्तस्याममभर्तादृढव्रतः/दद्यान्नप्रतिगृह्णीयात्सत्यब्रूयान्नचानृतम्/एतद्ब्राह्मणरामस्यव्रतंध्रुवमनुत्तमम्/तस्यभ्रातातुवैमात्रोलक्ष्मणोनामवीर्यवान्/रामस्यपुरुषव्याघ्रःसहायःसमरेऽरिहा/सभ्रातालक्ष्मणोनामधर्मचारीदृढव्रतः/अन्वगच्छद्धनुष्पाणिःप्रव्रजन्तंमयासह/तेवयंप्रच्युताराज्यात्कैलेय्यास्तुकृतेत्रयः/विचरामद्विजश्रेष्ठवनंगम्भीरमोजसा/समाश्वसमुहूर्तंतुशक्यंवस्तुमिहत्वया/आगमिष्यतिमेभर्तावन्यमादायपुष्कलम्/सत्वंनामचगोत्रंचकुलमाचक्ष्वतत्त्वतः/एकश्चदण्डकारण्येकिमर्थंचरसिद्विज/एवंब्रुवत्यांसीतायांरामपत्न्यांमहाबलः/प्रत्युवाचोत्तरंतीव्रंरावणोराक्षसाधिपः/येनवित्रासितालोकाःसदेवासुरपन्नगाः/अहंसरावणोनामसीतेरक्षोगणेश्वरः/त्वांतुकाञ्चनवर्णाभांदृष्ट्वाकौशेयवासिनीम्/रतिंस्वकेषुदारेषुनाधिगच्छाम्यनिन्दिते/बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः/सर्वासामेवभद्रंतेममाग्रमहिषीभव/लङ्कानामसमुद्रस्यमध्येमममहापुरी/सागरेणपरिक्षिप्तानिविष्टागिरिमूर्धनि/तत्रसीतेमयासार्धंवनेषुविचरिष्यसि/नचास्यारण्यवासस्यस्पृहयिष्यसिभामिनि/पञ्चदास्यःसहस्राणिसर्वाभरणभूषिताः/सीतेपरिचरिष्यन्तिभार्याभवसिमेयदि/रावणेनैवमुक्तातुकुपिताजनकात्मजा/प्रत्युवाचानवद्याङ्गीतमनादृत्यराक्षसं/महागिरिमिवाकम्प्यंमहेन्द्रसदृशंपतिम्/महोदधिमिवाक्षोभ्यमहंराममनुव्रता/महाबाहुंमहोरस्कंसिंहविक्रान्तगामिनम्/नृसिंहंसिंहसंकाशमहंराममनुव्रता/पूर्णचन्द्राननंवीरंराजवत्संजितेन्द्रियम्/पृथुकीर्तिंमहाबाहुमहंराममनुव्रता/त्वंपुनर्जम्बुकःसिंहींमामिहेच्छसिदुर्लभाम्/नाहंशक्यात्वयास्प्रष्टुमादित्यस्यप्रभायथा/पादपान्काञ्चनान्नूनंबहून्पश्यसिमन्दभाक्/राघवस्यप्रियांभार्यांयस्त्वमिच्छसिरावण/क्षुधितस्यचसिंहस्यमृगशत्रोस्तरस्विनः/आशीविषस्यवदनाद्दंष्ट्रामादातुमिच्छसि/मन्दरंपर्वतश्रेष्ठंपाणिनाहर्तुमिच्छसि/कालकूटंविषंपीत्वास्वस्तिमान्गन्तुमिच्छसि/अक्षिसूच्याप्रमृजसिजिह्वयालेढिचक्षुरम्/राघवस्यप्रियांभार्यामधिगन्तुंत्वमिच्छसि/अवसज्यशिलांकण्ठेसमुद्रंतर्तुमिच्छसि/सूर्याचन्द्रमसौचोभौप्राणिभ्यांहर्तुमिच्छसि/योरामस्यप्रियांभार्यांप्रधर्षयितुमिच्छसि/अग्निंप्रज्वलितंदृष्ट्वावस्त्रेणाहर्तुमिच्छसि/कल्याणवृत्तांरामस्ययोभार्यांहर्तुमिच्छसि/अयोमुखानांशूलानामग्रेचरितुमिच्छसि/रामस्यसदृशींभार्यांयोऽधिगन्तुंत्वमिच्छसि/यदन्तरंसिंहशृगालयोर्वने॑यदन्तरंस्यन्दनिकासमुद्रयोः/सुराग्र्यसौवीरकयोर्यदन्तरं॑तदन्तरंदाशरथेस्तवैवच/यदन्तरंकाञ्चनसीसलोहयोर्॑यदन्तरंचन्दनवारिपङ्कयोः/यदन्तरंहस्तिबिडालयोर्वने॑तदन्तरंदशरथेस्तवैवच/यदन्तरंवायसवैनतेययोर्॑यदन्तरंमद्गुमयूरयोरपि/यदन्तरंसारसगृध्रयोर्वने॑तदन्तरंदाशरथेस्तवैवच/तस्मिन्सहस्राक्षसमप्रभावे॑रामेस्थितेकार्मुकबाणपाणौ/हृतापितेऽहंनजरांगमिष्ये॑वज्रंयथामक्षिकयावगीर्णम्/इतीवतद्वाक्यमदुष्टभावा॑सुदृष्टमुक्त्वारजनीचरंतम्/गात्रप्रकम्पाद्व्यथिताबभूव॑वातोद्धतासाकदलीवतन्वी/तांवेपमानामुपलक्ष्यसीतां॑सरावणोमृत्युसमप्रभावः/कुलंबलंनामचकर्मचात्मनः॑समाचचक्षेभयकारणार्थम्/एवंब्रुवत्यांसीतायांसंरब्धःपरुषाक्षरम्/ललाटेभ्रुकुटींकृत्वारावणःप्रत्युवाचह/भ्रातावैश्रवणस्याहंसापत्न्योवरवर्णिनि/रावणोनामभद्रंतेदशग्रीवःप्रतापवान्/यस्यदेवाःसगन्धर्वाःपिशाचपतगोरगाः/विद्रवन्तिभयाद्भीतामृत्योरिवसदाप्रजाः/येनवैश्रवणोभ्रातावैमात्रःकारणान्तरे/द्वन्द्वमासादितःक्रोधाद्रणेविक्रम्यनिर्जितः/मद्भयार्तःपरित्यज्यस्वमधिष्ठानमृद्धिमत्/कैलासंपर्वतश्रेष्ठमध्यास्तेनरवाहनः/यस्यतत्पुष्पकंनामविमानंकामगंशुभम्/वीर्यादावर्जितंभद्रेयेनयामिविहायसं/ममसंजातरोषस्यमुखंदृष्ट्वैवमैथिलि/विद्रवन्तिपरित्रस्ताःसुराःशक्रपुरोगमाः/यत्रतिष्ठाम्यहंतत्रमारुतोवातिशङ्कितः/तीव्रांशुःशिशिरांशुश्चभयात्संपद्यतेरविः/निष्कम्पपत्रास्तरवोनद्यश्चस्तिमितोदकाः/भवन्तियत्रयत्राहंतिष्ठामिचचरामिच/ममपारेसमुद्रस्यलङ्कानामपुरीशुभा/संपूर्णाराक्षसैर्घोरैर्यथेन्द्रस्यामरावती/प्राकारेणपरिक्षिप्तापाण्डुरेणविराजिता/हेमकक्ष्यापुरीरम्यावैदूर्यमयतोरणा/हस्त्यश्वरथसंभाधातूर्यनादविनादिता/सर्वकामफलैर्वृक्षैःसंकुलोद्यानशोभिता/तत्रत्वंवसतीसीतेराजपुत्रिमयासह/नस्रमिष्यसिनारीणांमानुषीणांमनस्विनि/भुञ्जानामानुषान्भोगान्दिव्यांश्चवरवर्णिनि/नस्मरिष्यसिरामस्यमानुषस्यगतायुषः/स्थापयित्वाप्रियंपुत्रंराज्ञादशरथेनयः/मन्दवीर्यःसुतोज्येष्ठस्ततःप्रस्थापितोवनम्/तेनकिंभ्रष्टराज्येनरामेणगतचेतसा/करिष्यसिविशालाक्षितापसेनतपस्विना/सर्वराक्षसभर्तारंकामात्स्वयमिहागतम्/नमन्मथशराविष्टंप्रत्याख्यातुंत्वमर्हसि/प्रत्याख्यायहिमांभीरुपरितापंगमिष्यसि/चरणेनाभिहत्येवपुरूरवसमुर्वशी/एवमुक्तातुवैदेहीक्रुद्धासंरक्तलोचना/अब्रवीत्परुषंवाक्यंरहितेराक्षसाधिपम्/कथंवैश्रवणंदेवंसर्वभूतनमस्कृतम्/भ्रातरंव्यपदिश्यत्वमशुभंकर्तुमिच्छसि/अवश्यंविनशिष्यन्तिसर्वेरावणराक्षसाः/येषांत्वंकर्कशोराजादुर्बुद्धिरजितेन्द्रियः/अपहृत्यशचींभार्यांशक्यमिन्द्रस्यजीवितुम्/नतुरामस्यभार्यांमामपनीयास्तिजीवितम्/जीवेच्चिरंवज्रधरस्यहस्ताच्॑छचींप्रधृष्याप्रतिरूपरूपाम्/नमादृशींराक्षसधर्षयित्वा॑पीतामृतस्यापितवास्तिमोक्षः/सीतायावचनंश्रुत्वादशग्रीवःप्रतापवान्/हस्तेहस्तंसमाहत्यचकारसुमहद्वपुः3491/समैथिलींपुनर्वाक्यंबभाषेचततोभृशम्/नोन्मत्तयाश्रुतौमन्येममवीर्यपराक्रमौ/उद्वहेयंभुजाभ्यांतुमेदिनीमम्बरेस्थितः/आपिबेयंसमुद्रंचमृत्युंहन्यांरणेस्थितः/अर्कंरुन्ध्यांशरैस्तीक्ष्णैर्विभिन्द्यांहिमहीतलम्/कामरूपिणमुन्मत्तेपश्यमांकामदंपतिम्/एवमुक्तवतस्तस्यरावणस्यशिखिप्रभे/क्रुद्धस्यहरिपर्यन्तेरक्तेनेत्रेबभूवतुः/सद्यःसौम्यंपरित्यज्यभिक्षुरूपंसरावणः/स्वंरूपंकालरूपाभंभेजेवैश्रवणानुजः/संरक्तनयनःश्रीमांस्तप्तकाञ्चनकुण्डलः/दशास्यःकार्मुकीबाणीबभूवक्षणदाचरः/सपरिव्राजकच्छद्ममहाकायोविहायतत्/प्रतिपेदेस्वकंरूपंरावणोराक्षसाधिपः/संरक्तनयनःक्रोधाज्जीमूतनिचयप्रभः/रक्ताम्बरधरस्तस्थौस्त्रीरत्नंप्रेक्ष्यमैथिलीम्/सतामसितकेशान्तांभास्करस्यप्रभामिव/वसनाभरणोपेतांमैथिलींरावणोऽब्रवीत्/त्रिषुलोकेषुविख्यातंयदिभर्तारमिच्छसि/मामाश्रयवरारोहेतवाहंसदृशःपतिः/मांभजस्वचिरायत्वमहंश्लाघ्यस्तवप्रियः/नैवचाहंक्वचिद्भद्रेकरिष्येतवविप्रियम्/त्यज्यतांमानुषोभावोमयिभावःप्रणीयताम्/राज्याच्च्युतमसिद्धार्थंरामंपरिमितायुषम्/कैर्गुणैरनुरक्तासिमूढेपण्डितमानिनि/यःस्त्रियावचनाद्राज्यंविहायससुहृज्जनम्/अस्मिन्व्यालानुचरितेवनेवसतिदुर्मतिः/इत्युक्त्वामैथिलींवाक्यंप्रियार्हांप्रियवादिनीम्/जग्राहरावणःसीतांबुधःखेरोहिणीमिव/वामेनसीतांपद्माक्षींमूर्धजेषुकरेणसः/ऊर्वोस्तुदक्षिणेनैवपरिजग्राहपाणिना/तंदृष्ट्वागिरिशृङ्गाभंतीक्ष्णदंष्ट्रंमहाभुजम्/प्राद्रवन्मृत्युसंकाशंभयार्तावनदेवताः/सचमायामयोदिव्यःखरयुक्तःखरस्वनः/प्रत्यदृश्यतहेमाङ्गोरावणस्यमहारथः/ततस्तांपरुषैर्वाक्यैरभितर्ज्यमहास्वनः/अङ्केनादायवैदेहींरथमारोपयत्तदा/सागृहीतातिचुक्रोशरावणेनयशस्विनी/रामेतिसीतादुःखार्तारामंदूरगतंवने/तामकामांसकामार्तःपन्नगेन्द्रवधूमिव/विवेष्टमानामादायउत्पपाथाथरावणः/ततःसाराक्षसेन्द्रेणह्रियमाणाविहायसा/भृशंचुक्रोशमत्तेवभ्रान्तचित्तायथातुरा/हालक्ष्मणमहाबाहोगुरुचित्तप्रसादक/ह्रियमाणांनजानीषेरक्षसाकामरूपिणा/जीवितंसुखमर्थांश्चधर्महेतोःपरित्यजन्/ह्रियमाणामधर्मेणमांराघवनपश्यसि/ननुनामाविनीतानांविनेतासिपरंतप/कथमेवंविधंपापंनत्वंशाधिहिरावणम्/ननुसद्योऽविनीतस्यदृश्यतेकर्मणःफलम्/कालोऽप्यङ्गीभवत्यत्रसस्यानामिवपक्तये/सकर्मकृतवानेतत्कालोपहतचेतनः/जीवितान्तकरंघोरंरामाद्व्यसनमाप्नुहि/हन्तेदानींसकामातुकैकेयीबान्धवैःसह/ह्रियेयंधर्मकामस्यधर्मपत्नीयशस्विनः/आमन्त्रयेजनस्थानंकर्णिकारांश्चपुष्पितान्/क्षिप्रंरामायशंसध्वंसीतांहरतिरावणः/माल्यवन्तंशिखरिणंवन्देप्रस्रवणंगिरिम्/क्षिप्रंरामायशंसध्वंसीतांहरतिरावणः/हंससारससंघुष्टांवन्देगोदावरींनदीम्/क्षिप्रंरामायशंसध्वंसीतांहरतिरावणः/दैवतानिचयान्त्यस्मिन्वनेविविधपादपे/नमस्करोम्यहंतेभ्योभर्तुःशंसतमांहृताम्/यानिकानिचिदप्यत्रसत्त्वानिनिवसन्त्युत/सर्वाणिशरणंयामिमृगपक्षिगणानपि/ह्रियमाणांप्रियांभर्तुःप्राणेभ्योऽपिगरीयसीम्/विवशापहृतासीतारावणेनेतिशंसत/विदित्वामांमहाबाहुरमुत्रापिमहाबलः/आनेष्यतिपराक्रम्यवैवस्वतहृतामपि/रामायतुयथातत्त्वंजटायोहरणंमम/लक्ष्मणायचतत्सर्वमाख्यातव्यमशेषतः/तंशब्दमवसुप्तस्यजटायुरथशुश्रुवे/निरैक्षद्रावणंक्षिप्रंवैदेहींचददर्शसः/ततःपर्वतकूटाभस्तीक्ष्णतुण्डःखगोत्तमः/वनस्पतिगतःश्रीमान्व्याजहारशुभांगिरम्/दशग्रीवस्थितोधर्मेपुराणेसत्यसंश्रयः/जटायुर्नामनाम्नाहंगृध्रराजोमहाबलः/राजासर्वस्यलोकस्यमहेन्द्रवरुणोपमः/लोकानांचहितेयुक्तोरामोदशरथात्मजः/तस्यैषालोकनाथस्यधर्मपत्नीयशस्विनी/सीतानामवरारोहायांत्वंहर्तुमिहेच्छसि/कथंराजास्थितोधर्मेपरदारान्परामृशेत्/रक्षणीयाविशेषेणराजदारामहाबलः/निवर्तयमतिंनीचांपरदाराभिमर्शनम्/नतत्समाचरेद्धीरोयत्परोऽस्यविगर्हयेत्/यथात्मनस्तथान्येषांदारारक्ष्याविमर्शनात्/अर्थंवायदिवाकामंशिष्टाःशास्त्रेष्वनागतम्/व्यवस्यन्त्यनुराजानंधर्मंपौरस्त्यनन्दन/राजाधर्मश्चकामश्चद्रव्याणांचोत्तमोनिधिः/धर्मःशुभंवापापंवाराजमूलंप्रवर्तते/पापस्वभावश्चपलःकथंत्वंरक्षसांवर/ऐश्वर्यमभिसंप्राप्तोविमानमिवदुष्कृती/कामस्वभावोयोयस्यनसशक्यःप्रमार्जितुम्/नहिदुष्टात्मनामार्यमावसत्यालयेचिरम्/विषयेवापुरेवातेयदारामोमहाबलः/नापराध्यतिधर्मात्माकथंतस्यापराध्यसि/यदिशूर्पणखाहेतोर्जनस्थानगतःखरः/अतिवृत्तोहतःपूर्वंरामेणाक्लिष्टकर्मणा/अत्रब्रूहियथासत्यंकोरामस्यव्यतिक्रमः/यस्यत्वंलोकनाथस्यहृत्वाभार्यांगमिष्यसि/क्षिप्रंविसृजवैदेहींमात्वाघोरेणचक्षुषा/दहेद्दहनभूतेनवृत्रमिन्द्राशनिर्यथा/सर्पमाशीविषंबद्ध्वावस्त्रान्तेनावबुध्यसे/ग्रीवायांप्रतिमुक्तंचकालपाशंनपश्यसि/सभारःसौम्यभर्तव्योयोनरंनावसादयेत्/तदन्नमुपभोक्तव्यंजीर्यतेयदनामयम्/यत्कृत्वानभवेद्धर्मोनकीर्तिर्नयशोभुवि/शरीरस्यभवेत्खेदःकस्तत्कर्मसमाचरेत्/षष्टिवर्षसहस्राणिममजातस्यरावण/पितृपैतामहंराज्यंयथावदनुतिष्ठतः/वृद्धोऽहंत्वंयुवाधन्वीसरथःकवचीशरी/तथाप्यादायवैदेहींकुशलीनगमिष्यसि/नशक्तस्त्वंबलाद्धर्तुंवैदेहींममपश्यतः/हेतुभिर्न्यायसंयुक्तैर्ध्रुवांवेदश्रुतीमिव/युध्यस्वयदिशूरोऽसिमुहूर्तंतिष्ठरावण/शयिष्यसेहतोभूमौयथापूर्वंखरस्तथा/असकृत्संयुगेयेननिहतादैत्यदानवाः/नचिराच्चीरवासास्त्वांरामोयुधिवधिष्यति/किंनुशक्यंमयाकर्तुंगतौदूरंनृपात्मजौ/क्षिप्रंत्वंनश्यसेनीचतयोर्भीतोनसंशयः/नहिमेजीवमानस्यनयिष्यसिशुभामिमाम्/सीतांकमलपत्राक्षींरामस्यमहषींप्रियाम्/अवश्यंतुमयाकार्यंप्रियंतस्यमहात्मनः/जीवितेनापिरामस्यतथादशरथस्यच/तिष्ठतिष्ठदशग्रीवमुहूर्तंपश्यरावण/युद्धातिथ्यंप्रदास्यामियथाप्राणंनिशाचर/वृन्तादिवफलंत्वांतुपातयेयंरथोत्तमात्/इत्युक्तस्ययथान्यायंरावणस्यजटायुषा/क्रुद्धस्याग्निनिभाःसर्वारेजुर्विंशतिदृष्टयः/संरक्तनयनःकोपात्तप्तकाञ्चनकुण्डलः/राक्षसेन्द्रोऽभिदुद्रावपतगेन्द्रममर्षणः/ससंप्रहारस्तुमुलस्तयोस्तस्मिन्महावने/बभूववातोद्धतयोर्मेघयोर्गगनेयथा/तद्बभूवाद्भुतंयुद्धंगृध्रराक्षसयोस्तदा/सपक्षयोर्माल्यवतोर्महापर्वतयोरिव/ततोनालीकनाराचैस्तीक्ष्णाग्रैश्चविकर्णिभिः/अभ्यवर्षन्महाघोरैर्गृध्रराजंमहाबलः/सतानिशरजालानिगृध्रःपत्ररथेश्वरः/जटायुःप्रतिजग्राहरावणास्त्राणिसंयुगे/तस्यतीक्ष्णनखाभ्यांतुचरणाभ्यांमहाबलः/चकारबहुधागात्रेव्रणान्पतगसत्तमः/अथक्रोधाद्दशग्रीवोजग्राहदशमार्गणान्/मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया/सतैर्बाणैर्महावीर्यःपूर्णमुक्तैरजिह्मगैः/बिभेदनिशितैस्तीक्ष्णैर्गृध्रंघोरैःशिलीमुखैः/सराक्षसरथेपश्यञ्जानकींबाष्पलोचनाम्/अचिन्तयित्वाबाणांस्तान्राक्षसंसमभिद्रवत्/ततोऽस्यसशरंचापंमुक्तामणिविभूषितम्/चरणाभ्यांमहातेजाबभञ्जपतगेश्वरः/तच्चाग्निसदृशंदीप्तंरावणस्यशरावरम्/पक्षाभ्यांचमहातेजाव्यधुनोत्पतगेश्वरः/काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान्/तांश्चास्यजवसंपन्नाञ्जघानसमरेबली/वरंत्रिवेणुसंपन्नंकामगंपावकार्चिषम्/मणिहेमविचित्राङ्गंबभञ्जचमहारथम्/पूर्णचन्द्रप्रतीकाशंछत्रंचव्यजनैःसह/सभग्नधन्वाविरथोहताश्वोहतसारथिः/अङ्केनादायवैदेहींपपातभुविरावणः/दृष्ट्वानिपतितंभूमौरावणंभग्नवाहनम्/साधुसाध्वितिभूतानिगृध्रराजमपूजयन्/परिश्रान्तंतुतंदृष्ट्वाजरयापक्षियूथपम्/उत्पपातपुनर्हृष्टोमैथिलींगृह्यरावणः/तंप्रहृष्टंनिधायाङ्केगच्छन्तंजनकात्मजाम्/गृध्रराजःसमुत्पत्यजटायुरिदमब्रवीत्/वज्रसंस्पर्शबाणस्यभार्यांरामस्यरावण/अल्पबुद्धेहरस्येनांवधायखलुरक्षसाम्/समित्रबन्धुःसामात्यःसबलःसपरिच्छदः/विषपानंपिबस्येतत्पिपासितइवोदकम्/अनुबन्धमजानन्तःकर्मणामविचक्षणाः/शीघ्रमेवविनश्यन्तियथात्वंविनशिष्यसि/बद्धस्त्वंकालपाशेनक्वगतस्तस्यमोक्ष्यसे/वधायबडिशंगृह्यसामिषंजलजोयथा/नहिजातुदुराधर्षौकाकुत्स्थौतवरावण/धर्षणंचाश्रमस्यास्यक्षमिष्येतेतुराघवौ/यथात्वयाकृतंकर्मभीरुणालोकगर्हितम्/तस्कराचरितोमार्गोनैषवीरनिषेवितः/युध्यस्वयदिशूरोऽसिमुहूर्तंतिष्ठरावण/शयिष्यसेहतोभूमौयथाभ्राताखरस्तथा/परेतकालेपुरुषोयत्कर्मप्रतिपद्यते/विनाशायात्मनोऽधर्म्यंप्रतिपन्नोऽसिकर्मतत्/पापानुबन्धोवैयस्यकर्मणःकोनुतत्पुमान्/कुर्वीतलोकाधिपतिःस्वयम्भूर्भगवानपि/एवमुक्त्वाशुभंवाक्यंजटायुस्तस्यरक्षसः/निपपातभृशंपृष्ठेदशग्रीवस्यवीर्यवान्/तंगृहीत्वानखैस्तीक्ष्णैर्विररादसमन्ततः/अधिरूढोगजारोहियथास्याद्दुष्टवारणम्/विररादनखैरस्यतुण्डंपृष्ठेसमर्पयन्/केशांश्चोत्पाटयामासनखपक्षमुखायुधः/सतथागृध्रराजेनक्लिश्यमानोमुहुर्मुहुः/अमर्षस्फुरितौष्ठःसन्प्राकम्पतसराक्षसः/संपरिष्वज्यवैदेहींवामेनाङ्केनरावणः/तलेनाभिजघानार्तोजटायुंक्रोधमूर्छितः/जटायुस्तमतिक्रम्यतुण्डेनास्यखराधिपः/वामबाहून्दशतदाव्यपाहरदरिंदमः/ततःक्रुद्धोदशक्रीवःसीतामुत्सृज्यवीर्यवान्/मुष्टिभ्यांचरणाभ्यांचगृध्रराजमपोथयत्/ततोमुहूर्तंसंग्रामोबभूवातुलवीर्ययोः/राक्षसानांचमुख्यस्यपक्षिणांप्रवरस्यच/तस्यव्यायच्छमानस्यरामस्यार्थेऽथरावणः/पक्षौपादौचपार्श्वौचखड्गमुद्धृत्यसोऽच्छिनत्/सछिन्नपक्षःसहसारक्षसारौद्रकर्मणा/निपपातहतोगृध्रोधरण्यामल्पजीवितः/तंदृष्ट्वापतितंभूमौक्षतजार्द्रंजटायुषम्/अभ्यधावतवैदेहीस्वबन्धुमिवदुःखिता/तंनीलजीमूतनिकाशकल्पं॑सुपाण्डुरोरस्कमुदारवीर्यम्/ददर्शलङ्काधिपतिःपृथिव्यां॑जटायुषंशान्तमिवाग्निदावम्/ततस्तुतंपत्ररथंमहीतले॑निपातितंरावणवेगमर्दितम्/पुनःपरिष्वज्यशशिप्रभानना॑रुरोदसीताजनकात्मजातदा/तमल्पजीवितंभूमौस्फुरन्तंराक्षसाधिपः/ददर्शगृध्रंपतितंसमीपेराघवाश्रमात्/सातुताराधिपमुखीरावणेनसमीक्ष्यतम्/गृध्रराजंविनिहतंविललापसुदुःखिता/निमित्तंलक्षणज्ञानंशकुनिस्वरदर्शनम्/अवश्यंसुखदुःखेषुनराणांप्रतिदृश्यते/ननूनंरामजानासिमहद्व्यसनमात्मजः/धावन्तिनूनंकाकुत्स्थमदर्थंमृगपक्षिणः/त्राहिमामद्यकाकुत्स्थलक्ष्मणेतिवराङ्गना/सुसंत्रस्तासमाक्रन्दच्छृण्वतांतुयथान्तिके/तांक्लिष्टमाल्याभरणांविलपन्तीमनाथवत्/अभ्यधावतवैदेहींरावणोराक्षसाधिपः/तांलतामिववेष्टन्तीमालिङ्गन्तींमहाद्रुमान्/मुञ्चमुञ्चेतिबहुशःप्रवदन्राक्षसाधिपः/क्रोशन्तींरामरामेतिरामेणरहितांवने/जीवितान्तायकेशेषुजग्राहान्तकसंनिभः/प्रधर्षितायांवैदेह्यांबभूवसचराचरम्/जगत्सर्वममर्यादंतमसान्धेनसंवृतम्/दृष्ट्वासीतांपरामृष्टांदीनांदिव्येनचक्षुषा/कृतंकार्यमितिश्रीमान्व्याजहारपितामहः/प्रहृष्टाव्यथिताश्चासन्सर्वेतेपरमर्षयः/दृष्ट्वासीतांपरामृष्टांदण्डकारण्यवासिनः/सतुतांरामरामेतिरुदन्तींलक्ष्मणेतिच/जगामाकाशमादायरावणोराक्षसाधिपः/तप्ताभरणसर्वाङ्गीपीतकौशेयवासनी/रराजराजपुत्रीतुविद्युत्सौदामनीयथा/उद्धूतेनचवस्त्रेणतस्याःपीतेनरावणः/अधिकंपरिबभ्राजगिरिर्दीपइवाग्निना/तस्याःपरमकल्याण्यास्ताम्राणिसुरभीणिच/पद्मपत्राणिवैदेह्याअभ्यकीर्यन्तरावणम्/तस्याःकौशेयमुद्धूतमाकाशेकनकप्रभम्/बभौचादित्यरागेणताम्रमभ्रमिवातपे/तस्यास्तद्विमलंवक्त्रमाकाशेरावणाङ्कगम्/नरराजविनारामंविनालमिवपङ्कजम्/बभूवजलदंनीलंभित्त्वाचन्द्रइवोदितः/सुललाटंसुकेशान्तंपद्मगर्भाभमव्रणम्/शुक्लैःसुविमलैर्दन्तैःप्रभावद्भिरलंकृतम्/रुदितंव्यपमृष्टास्त्रंचन्द्रवत्प्रियदर्शनम्/सुनासंचारुताम्रौष्ठमाकाषेहाटकप्रभम्/राक्षसेन्द्रसमाधूतंतस्यास्तद्वचनंशुभम्/शुशुभेनविनारामंदिवाचन्द्रइवोदितः/साहेमवर्णानीलाङ्गंमैथिलीराक्षसाधिपम्/शुशुभेकाञ्चनीकाञ्चीनीलंमणिमिवाश्रिता/सापद्मगौरीहेमाभारावणंजनकात्मजा/विद्युद्घनमिवाविश्यशुशुभेतप्तभूषणा/तस्याभूषणघोषेणवैदेह्याराक्षसाधिपः/बभूवविमलोनीलःसघोषइवतोयदः/उत्तमाङ्गच्युतातस्याःपुष्पवृष्टिःसमन्ततः/सीतायाह्रियमाणायाःपपातधरणीतले/सातुरावणवेगेनपुष्पवृष्टिःसमन्ततः/समाधूतादशग्रीवंपुनरेवाभ्यवर्तत/अभ्यवर्ततपुष्पाणांधारावैश्रवणानुजम्/नक्षत्रमालाविमलामेरुंनगमिवोत्तमम्/चरणान्नूपुरंभ्रष्टंवैदेह्यारत्नभूषितम्/विद्युन्मण्डलसंकाशंपपातमधुरस्वनम्/तरुप्रवालरक्तासानीलाङ्गंराक्षसेश्वरम्/प्राशोभयतवैदेहीगजंकष्येवकाञ्चनी/तांमहोल्कामिवाकाशेदीप्यमानांस्वतेजसा/जहाराकाशमाविश्यसीतांवैश्रवणानुजः/तस्यास्तान्यग्निवर्णानिभूषणानिमहीतले/सघोषाण्यवकीर्यन्तक्षीणास्ताराइवाम्बरात्/तस्याःस्तनान्तराद्भ्रष्टोहारस्ताराधिपद्युतिः/वैदेह्यानिपतन्भातिगङ्गेवगगनाच्च्युता/उत्पातवाताभिहतानानाद्विजगणायुताः/माभैरितिविधूताग्राव्याजह्रुरिवपादपाः/नलिन्योध्वस्तकमलास्त्रस्तमीनजलेचराः/सखीमिवगतोत्साहांशोचन्तीवस्ममैथिलीम्/समन्तादभिसंपत्यसिंहव्याघ्रमृगद्विजाः/अन्वधावंस्तदारोषात्सीताच्छायानुगामिनः/जलप्रपातास्रमुखाःशृङ्गैरुच्छ्रितबाहवः/सीतायांह्रियमाणायांविक्रोशन्तीवपर्वताः/ह्रियमाणांतुवैदेहींदृष्ट्वादीनोदिवाकरः/प्रविध्वस्तप्रभःश्रीमानासीत्पाण्डुरमण्डलः/नास्तिधर्मःकुतःसत्यंनार्जवंनानृशंसता/यत्ररामस्यवैदेहींभार्यांहरतिरावणः/इतिसर्वाणिभूतानिगणशःपर्यदेवयन्/वित्रस्तकादीनमुखारुरुदुर्मृगपोतकाः/उद्वीक्ष्योद्वीक्ष्यनयनैरास्रपाताविलेक्षणाः/सुप्रवेपितगात्राश्चबभूवुर्वनदेवताः/विक्रोशन्तींदृढंसीतांदृष्ट्वादुःखंतथागताम्/तांतुलक्ष्मणरामेतिक्रोशन्तींमधुरस्वराम्/अवेक्षमाणांबहुषोवैदेहींधरणीतलम्/सतामाकुलकेशान्तांविप्रमृष्टविशेषकाम्/जहारात्मविनाशायदशग्रीवोमनस्विनाम्/ततस्तुसाचारुदतीशुचिस्मिता॑विनाकृताबन्धुजनेनमैथिली/अपश्यतीराघवलक्ष्मणावुभौ॑विवर्णवक्त्राभयभारपीडिता/खमुत्पतन्तंतंदृष्ट्वामैथिलीजनकात्मजा/दुःखितापरमोद्विग्नाभयेमहतिवर्तिनी/रोषरोदनताम्राक्षीभीमाक्षंराक्षसाधिपम्/रुदतीकरुणंसीताह्रियमाणेदमब्रवीत्/नव्यपत्रपसेनीचकर्मणानेनरावण/ज्ञात्वाविरहितांयोमांचोरयित्वापलायसे/त्वयैवनूनंदुष्टात्मन्भीरुणाहर्तुमिच्छता/ममापवाहितोभर्तामृगरूपेणमायया/योहिमामुद्यतस्त्रातुंसोऽप्ययंविनिपातितः/परमंखलुतेवीर्यंदृश्यतेराक्षसाधम/विश्राव्यनामधेयंहियुद्धेनास्तिजितात्वया/ईदृशंगर्हितंकर्मकथंकृत्वानलज्जसे/स्त्रियाश्चहरणंनीचरहितेचपरस्यच/कथयिष्यन्तिलोकेषुपुरुषाःकर्मकुत्सितम्/सुनृशंसमधर्मिष्ठंतवशौण्डीर्यमानिनः/धिक्तेशौर्यंचसत्त्वंचयत्त्वयाकथितंतदा/कुलाक्रोशकरंलोकेधिक्तेचारित्रमीदृशम्/किंशक्यंकर्तुमेवंहियज्जवेनैवधावसि/मुहूर्तमपितिष्ठस्वनजीवन्प्रतियास्यसि/नहिचक्षुःपथंप्राप्यतयोःपार्थिवपुत्रयोः/ससैन्योऽपिसमर्तःस्त्वंमुहूर्तमपिजीवितुम्/नत्वंतयोःशरस्पर्शंसोढुंशक्तःकथंचन/वनेप्रज्वलितस्येवस्पर्शमग्नेर्विहंगमः/साधुकृत्वात्मनःपथ्यंसाधुमांमुञ्चरावण/मत्प्रधर्षणरुष्टोहिभ्रात्रासहपतिर्मम/विधास्यतिविनाशायत्वंमांयदिनमुञ्चसि/येनत्वंव्यवसायेनबलान्मांहर्तुमिच्छसि/व्यवसायःसतेनीचभविष्यतिनिरर्थकः/नह्यहंतमपश्यन्तीभर्तारंविबुधोपमम्/उत्सहेशत्रुवशगाप्राणान्धारयितुंचिरम्/ननूनंचात्मनःश्रेयःपथ्यंवासमवेक्षसे/मृत्युकालेयथामर्त्योविपरीतानिसेवते/मुमूर्षूणांहिसर्वेषांयत्पथ्यंतन्नरोचते/पश्यामीवहिकण्ठेत्वांकालपाशावपाशितम्/यथाचास्मिन्भयस्थानेनबिभेषेदशानन/व्यक्तंहिरण्मयान्हित्वंसंपश्यसिमहीरुहान्/नदींवैरतणींघोरांरुधिरौघनिवाहिनीम्/खड्गपत्रवनंचैवभीमंपश्यसिरावण/तप्तकाञ्चनपुष्पांचवैदूर्यप्रवरच्छदाम्/द्रक्ष्यसेशाल्मलींतीक्ष्णामायसैःकण्टकैश्चिताम्/नहित्वमीदृशंकृत्वातस्यालीकंमहात्मनः/धारितुंशक्ष्यसिचिरंविषंपीत्वेवनिर्घृणः/बद्धस्त्वंकालपाशेनदुर्निवारेणरावण/क्वगतोलप्स्यसेशर्मभर्तुर्मममहात्मनः/निमेषान्तरमात्रेणविनाभ्रातरमाहवे/राक्षसानिहतायेनसहस्राणिचतुर्दश/सकथंराघवोवीरःसर्वास्त्रकुशलोबली/नत्वांहन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्/एतच्चान्यच्चपरुषंवैदेहीरावणाङ्कगा/भयशोकसमाविष्टाकरुणंविललापह/तथाभृशार्तांबहुचैवभाषिणीं॑विललापपूर्वंकरुणंचभामिनीम्/जहारपापस्तरुणींविवेष्टतीं॑नृपात्मजामागतगात्रवेपथुम्/ह्रियमाणातुवैदेहीकंचिन्नाथमपश्यती/ददर्शगिरिशृङ्गस्थान्पञ्चवानरपुंगवान्/तेषांमध्येविशालाक्षीकौशेयंकनकप्रभम्/उत्तरीयंवरारोहाशुभान्याभरणानिच/मुमोचयदिरामायशंसेयुरितिमैथिली/वस्त्रमुत्सृज्यतन्मध्येविनिक्षिप्तंसभूषणम्/संभ्रमात्तुदशग्रीवस्तत्कर्मनचबुद्धिवान्/पिङ्गाक्षास्तांविशालाक्षींनेत्रैरनिमिषैरिव/विक्रोशन्तींतदासीतांददृशुर्वानरर्षभाः/सचपम्पामतिक्रम्यलङ्कामभिमुखःपुरीम्/जगामरुदतींगृह्यमैथिलींराक्षसेश्वरः/तांजहारसुसंहृष्टोरावणोमृत्युमात्मनः/उत्सङ्गेनैवभुजगींतीक्ष्णदंष्ट्रांमहाविषाम्/वनानिसरितःशैलान्सरांसिचविहायसा/सक्षिप्रंसमतीयायशरश्चापादिवच्युतः/तिमिनक्रनिकेतंतुवरुणालयमक्षयम्/सरितांशरणंगत्वासमतीयायसागरम्/संभ्रमात्परिवृत्तोर्मीरुद्धमीनमहोरगः/वैदेह्यांह्रियमाणायांबभूववरुणालयः/अन्तरिक्षगतावाचःससृजुश्चारणास्तदा/एतदन्तोदशग्रीवइतिसिद्धास्तदाब्रुवन्/सतुसीतांविवेष्टन्तीमङ्केनादायरावणः/प्रविवेशपुरींलङ्कांरूपिणींमृत्युमात्मनः/सोऽभिगम्यपुरींलङ्कांसुविभक्तमहापथाम्/संरूढकक्ष्याबहुलंस्वमन्तःपुरमाविशत्/तत्रतामसितापाङ्गींशोकमोहपरायणाम्/निदधेरावणःसीतांमयोमायामिवासुरीम्/अब्रवीच्चदशग्रीवःपिशाचीर्घोरदर्शनाः/यथानैनांपुमान्स्त्रीवासीतांपश्यत्यसंमतः/मुक्तामणिसुवर्णानिवस्त्राण्याभरणानिच/यद्यदिच्छेत्तदेवास्यादेयंमच्छन्दतोयथा/याचवक्ष्यतिवैदेहींवचनंकिंचिदप्रियम्/अज्ञानाद्यदिवाज्ञानान्नतस्याजीवितंप्रियम्/तथोक्त्वाराक्षसीस्तास्तुराक्षसेन्द्रःप्रतापवान्/निष्क्रम्यान्तःपुरात्तस्मात्किंकृत्यमितिचिन्तयन्/ददर्शाष्टौमहावीर्यान्राक्षसान्पिशिताशनान्/सतान्दृष्ट्वामहावीर्योवरदानेनमोहितः/उवाचैतानिदंवाक्यंप्रशस्यबलवीर्यतः/नानाप्रहरणाःक्षिप्रमितोगच्छतसत्वराः/जनस्थानंहतस्थानंभूतपूर्वंखरालयम्/तत्रोष्यतांजनस्थानेशून्येनिहतराक्षसे/पौरुषंबलमाश्रित्यत्रासमुत्सृज्यदूरतः/बलंहिसुमहद्यन्मेजनस्थानेनिवेशितम्/सदूषणखरंयुद्धेहतंतद्रामसायकैः/ततःक्रोधोममापूर्वोधैर्यस्योपरिवर्धते/वैरंचसुमहज्जातंरामंप्रतिसुदारुणम्/निर्यातयितुमिच्छामितच्चवैरमहंरिपोः/नहिलप्स्याम्यहंनिद्रामहत्वासंयुगेरिपुम्/तंत्विदानीमहंहत्वाखरदूषणघातिनम्/रामंशर्मोपलप्स्यामिधनंलब्ध्वेवनिर्धनः/जनस्थानेवसद्भिस्तुभवद्भीराममाश्रिता/प्रवृत्तिरुपनेतव्याकिंकरोतीतितत्त्वतः/अप्रमादाच्चगन्तव्यंसर्वैरेवनिशाचरैः/कर्तव्यश्चसदायत्नोराघवस्यवधंप्रति/युष्माकंहिबलज्ञोऽहंबहुशोरणमूर्धनि/अतश्चास्मिञ्जनस्थानेमयायूयंनियोजिताः/ततःप्रियंवाक्यमुपेत्यराक्षसा॑महार्थमष्टावभिवाद्यरावणम्/विहायलङ्कांसहिताःप्रतस्थिरे॑यतोजनस्थानमलक्ष्यदर्शनाः/ततस्तुसीतामुपलभ्यरावणः॑सुसंप्रहृष्टःपरिगृह्यमैथिलीम्/प्रसज्यरामेणचवैरमुत्तमं॑बभूवमोहान्मुदितःसराक्षसः/संदिश्यराक्षसान्घोरान्रावणोऽष्टौमहाबलान्/आत्मानंबुद्धिवैक्लव्यात्कृतकृत्यममन्यत/सचिन्तयानोवैदेहींकामबाणसमर्पितः/प्रविवेशगृहंरम्यंसीतांद्रष्टुमभित्वरन्/सप्रविश्यतुतद्वेश्मरावणोराक्षसाधिपः/अपश्यद्राक्षसीमध्येसीतांशोकपरायणम्/अश्रुपूर्णमुखींदीनांशोकभारावपीडिताम्/वायुवेगैरिवाक्रान्तांमज्जन्तींनावमर्णवे/मृगयूथपरिभ्रष्टांमृगींश्वभिरिवावृताम्/अधोमुखमुखींदीनामभ्येत्यचनिशाचरः/तांतुशोकवशांदीनामवशांराक्षसाधिपः/सबलाद्दर्शयामासगृहंदेवगृहोपमम्/हर्म्यप्रासादसंबधंस्त्रीसहस्रनिषेवितम्/नानापक्षिगणैर्जुष्टंनानारत्नसमन्वितम्/काञ्चनैस्तापनीयैश्चस्फाटिकैराजतैस्तथा/वज्रवैदूर्यचित्रैश्चस्तम्भैर्दृष्टिमनोहरैः/दिव्यदुन्दुभिनिर्ह्रादंतप्तकाञ्चनतोरणम्/सोपानंकाञ्चनंचित्रमारुरोहतयासह/दान्तकाराजताश्चैवगवाक्षाःप्रियदर्शनाः/हेमजालावृताश्चासंस्तत्रप्रासादपङ्क्तयः/सुधामणिविचित्राणिभूमिभागानिसर्वशः/दशग्रीवःस्वभवनेप्रादर्शयतमैथिलीम्/दीर्घिकाःपुष्करिण्यश्चनानापुष्पसमावृताः/रावणोदर्शयामाससीतांशोकपरायणाम्/दर्शयित्वातुवैदेहींकृत्स्नंतद्भवनोत्तमम्/उवाचवाक्यंपापात्मारावणोजनकात्मजाम्/दशराक्षसकोट्यश्चद्वाविंशतिरथापराः/वर्जयित्वाजरावृद्धान्बालांश्चरजनीचरान्/तेषांप्रभुरहंसीतेसर्वेषांभीमकर्मणाम्/सहस्रमेकमेकस्यममकार्यपुरःसरम्/यदिदंराज्यतन्त्रंमेत्वयिसर्वंप्रतिष्ठितम्/जीवितंचविशालाक्षित्वंमेप्राणैर्गरीयसी/बहूनांस्त्रीसहस्राणांममयोऽसौपरिग्रहः/तासांत्वमीश्वरीसीतेममभार्याभवप्रिये/साधुकिंतेऽन्ययाबुद्ध्यारोचयस्ववचोमम/भजस्वमाभितप्तस्यप्रसादंकर्तुमर्हसि/परिक्षिप्तासमुद्रेणलङ्केयंशतयोजना/नेयंधर्षयितुंशक्यासेन्द्रैरपिसुरासुरैः/नदेवेषुनयक्षेषुनगन्धर्वेषुनर्षिषु/अहंपश्यामिलोकेषुयोमेवीर्यसमोभवेत्/राज्यभ्रष्टेनदीनेनतापसेनगतायुषा/किंकरिष्यसिरामेणमानुषेणाल्पतेजसा/भजस्वसीतेमामेवभर्ताहंसदृशस्तव/यौवनंह्यध्रुवंभीरुरमस्वेहमयासह/दर्शनेमाकृथाबुद्धिंराघवस्यवरानने/कास्यशक्तिरिहागन्तुमपिसीतेमनोरथैः/नशक्योवायुराकाशेपाशैर्बद्धंमहाजवः/दीप्यमानस्यवाप्यग्नेर्ग्रहीतुंविमलांशिखाम्/त्रयाणामपिलोकानांनतंपश्यामिशोभने/विक्रमेणनयेद्यस्त्वांमद्बाहुपरिपालिताम्/लङ्कायांसुमहद्राज्यमिदंत्वमनुपालय/अभिषेकोदकक्लिन्नातुष्टाचरमयस्वमाम्/दुष्कृतंयत्पुराकर्मवनवासेनतद्गतम्/यश्चतेसुकृतोधर्मस्तस्येहफलमाप्नुहि/इहसर्वाणिमाल्यानिदिव्यगन्धानिमैथिलि/भूषणानिचमुख्यानितानिसेवमयासह/पुष्पकंनामसुश्रोणिभ्रातुर्वैश्रवणस्यमे/विमानंरमणीयंचतद्विमानंमनोजवम्/तत्रसीतेमयासार्धंविहरस्वयथासुखम्/वदनंपद्मसंकाशंविमलंचारुदर्शनम्/शोकार्तंतुवरारोहेनभ्राजतिवरानने/अलंव्रीडेनवैदेहिधर्मलोपकृतेनते/आर्षोऽयंदैवनिष्यन्दोयस्त्वामभिगमिष्यति/एतौपादौमयास्निग्धौशिरोभिःपरिपीडितौ/प्रसादंकुरुमेक्षिप्रंवश्योदासोऽहमस्मिते/नेमाःशून्यामयावाचःशुष्यमाणेनभाषिताः/नचापिरावणःकांचिन्मूर्ध्नास्त्रींप्रणमेतह/एवमुक्त्वादशग्रीवोमैथिलींजनकात्मजाम्/कृतान्तवशमापन्नोममेयमितिमन्यते/सातथोक्तातुवैदेहीनिर्भयाशोककर्षिता/तृणमन्तरतःकृत्वारावणंप्रत्यभाषत/राजादशरथोनामधर्मसेतुरिवाचलः/सत्यसन्धःपरिज्ञातोयस्यपुत्रःसराघवः/रामोनामसधर्मात्मात्रिषुलोकेषुविश्रुतः/दीर्घबाहुर्विशालाक्षोदैवतंसपतिर्मम/इक्ष्वाकूणांकुलेजातःसिंहस्कन्धोमहाद्युतिः/लक्ष्मणेनसहभ्रात्रायस्तेप्राणांहरिष्यति/प्रत्यक्षंयद्यहंतस्यत्वयास्यांधर्षिताबलात्/शयितात्वंहतःसंख्येजनस्थानेयथाखरः/यएतेराक्षसाःप्रोक्ताघोररूपामहाबलाः/राघवेनिर्विषाःसर्वेसुपर्णेपन्नगायथा/तस्यज्याविप्रमुक्तास्तेशराःकाञ्चनभूषणाः/शरीरंविधमिष्यन्तिगङ्गाकूलमिवोर्मयः/असुरैर्वासुरैर्वात्वंयद्यवधोऽसिरावण/उत्पाद्यसुमहद्वैरंजीवंस्तस्यनमोक्ष्यसे/सतेजीवितशेषस्यराघवोऽन्तकरोबली/पशोर्यूपगतस्येवजीवितंतवदुर्लभम्/यदिपश्येत्सरामस्त्वांरोषदीप्तेनचक्षुषा/रक्षस्त्वमद्यनिर्दग्धोगच्छेःसद्यःपराभवम्/यश्चन्द्रंनभसोभूमौपातयेन्नाशयेतवा/सागरंशोषयेद्वापिससीतांमोचयेदिह/गतायुस्त्वंगतश्रीकोगतसत्त्वोगतेन्द्रियः/लङ्कावैधव्यसंयुक्तात्वत्कृतेनभविष्यति/नतेपापमिदंकर्मसुखोदर्कंभविष्यति/याहंनीताविनाभावंपतिपार्श्वात्त्वयावनात्/सहिदैवतसंयुक्तोममभर्तामहाद्युतिः/निर्भयोवीर्यमाश्रित्यशून्येवसतिदण्डके/सतेदर्पंबलंवीर्यमुत्सेकंचतथाविधम्/अपनेष्यतिगात्रेभ्यःशरवर्षेणसंयुगे/यदाविनाशोभूतानांदृश्यतेकालचोदितः/तदाकार्येप्रमाद्यन्तिनराःकालवशंगताः/मांप्रधृष्यसतेकालःप्राप्तोऽयंरक्षसाधम/आत्मनोराक्षसानांचवधायान्तःपुरस्यच/नशक्यायज्ञमध्यस्थावेदिःस्रुग्भाण्डमण्डिता/द्विजातिमन्त्रसंपूताचण्डालेनावमर्दितुम्/इदंशरीरंनिःसंज्ञंबन्धवाघातयस्ववा/नेदंशरीरंरक्ष्यंमेजीवितंवापिराक्षस/नहिशक्ष्याम्युपक्रोशंपृथिव्यांदातुमात्मनः/एवमुक्त्वातुवैदेहीक्रोद्धात्सुपरुषंवचः/रावणंमैथिलीतत्रपुनर्नोवाचकिंचन/सीतायावचनंश्रुत्वापरुषंरोमहर्षणम्/प्रत्युवाचततःसीतांभयसंदर्शनंवचः/शृणुमैथिलिमद्वाक्यंमासान्द्वादशभामिनि/कालेनानेननाभ्येषियदिमांचारुहासिनि/ततस्त्वांप्रातराशार्थंसूदाश्छेत्स्यन्तिलेशशः/इत्युक्त्वापरुषंवाक्यंरावणःशत्रुरावणः/राक्षसीश्चततःक्रुद्धइदंवचनमब्रवीत्/शीघ्रमेवंहिराक्षस्योविकृताघोरदर्शनाः/दर्पमस्याविनेष्यन्तुमांसशोणितभोजनाः/वचनादेवतास्तस्यविकृताघोरदर्शनाः/कृतप्राञ्जलयोभूत्वामैथिलींपर्यवारयन्/सताःप्रोवाचराजातुरावणोघोरदर्शनः/प्रचाल्यचरणोत्कर्षैर्दारयन्निवमेदिनीम्/अशोकवनिकामध्येमैथिलीनीयतामिति/तत्रेयंरक्ष्यतांगूढमुष्माभिःपरिवारिता/तत्रैनांतर्जनैर्घोरैःपुनःसान्त्वैश्चमैथिलीम्/आनयध्वंवशंसर्वावन्यांगजवधूमिव/इतिप्रतिसमादिष्टाराक्षस्योरावणेनताः/अशोकवनिकांजग्मुर्मैथिलींपरिगृह्यताम्/सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्/सर्वकालमदैश्चापिद्विजैःसमुपसेविताम्/सातुशोकपरीताङ्गीमैथिलीजनकात्मजा/राक्षसीवशमापन्नाव्याघ्रीणांहरिणीयथा/नविन्दतेतत्रतुशर्ममैथिली॑विरूपनेत्राभिरतीवतर्जिता/पतिंस्मरन्तीदयितंचदेवरं॑विचेतनाभूद्भयशोकपीडिता/राक्षसंमृगरूपेणचरन्तंकामरूपिणम्/निहत्यरामोमारीचंतूर्णंपथिन्यवर्तत3571/तस्यसंत्वरमाणस्यद्रष्टुकामस्यमैथिलीम्/क्रूरस्वरोऽथगोमायुर्विननादास्यपृष्ठतः/सतस्यस्वरमाज्ञायदारुणंरोमहर्षणम्/चिन्तयामासगोमायोःस्वरेणपरिशङ्कितः/अशुभंबतमन्येऽहंगोमायुर्वाश्यतेयथा/स्वस्तिस्यादपिवैदेह्याराक्षसैर्भक्षणंविना/मारीचेनतुविज्ञायस्वरमालक्ष्यमामकम्/विक्रुष्टंमृगरूपेणलक्ष्मणःशृणुयाद्यदि/ससौमित्रिःस्वरंश्रुत्वातांचहित्वाथमैथिलीम्/तयैवप्रहितःक्षिप्रंमत्सकाशमिहैष्यति/राक्षसैःसहितैर्नूनंसीतायाईप्सितोवधः/काञ्चनश्चमृगोभूत्वाव्यपनीयाश्रमात्तुमाम्/दूरंनीत्वातुमारीचोराक्षसोऽभूच्छराहतः/हालक्ष्मणहतोऽस्मीतियद्वाक्यंव्यजहारह/अपिस्वस्तिभवेद्द्वाभ्यांरहिताभ्यांमयावने/जनस्थाननिमित्तंहिकृतवैरोऽस्मिराक्षसैः/निमित्तानिचघोराणिदृश्यन्तेऽद्यबहूनिच/इत्येवंचिन्तयन्रामःश्रुत्वागोमायुनिःस्वनम्/आत्मनश्चापनयनंमृगरूपेणरक्षसा/आजगामजनस्थानंराघवःपरिशङ्कितः/तंदीनमानसंदीनमासेदुर्मृगपक्षिणः/सव्यंकृत्वामहात्मानंघोरांश्चससृजुःस्वरान्/तानिदृष्ट्वानिमित्तानिमहाघोराणिराघवः/ततोलक्षणमायान्तंददर्शविगतप्रभम्/ततोऽविदूरेरामेणसमीयायसलक्ष्मणः/विषण्णःसविषण्णेनदुःखितोदुःखभागिना/संजगर्हेऽथतंभ्राताजेष्ठोलक्ष्मणमागतम्/विहायसीतांविजनेवनेराक्षससेविते/गृहीत्वाचकरंसव्यंलक्ष्मणंरघुनन्दनः/उवाचमधुरोदर्कमिदंपरुषमार्तवत्/अहोलक्ष्मणगर्ह्यंतेकृतंयत्त्वंविहायताम्/सीतामिहागतःसौम्यकच्चित्स्वस्तिभवेदिति/नमेऽस्तिसंशयोवीरसर्वथाजनकात्मजा/विनष्टाभक्षितावापराक्षसैर्वनचारिभिः/अशुभान्येवभूयिष्ठंयथाप्रादुर्भवन्तिमे/अपिलक्ष्मणसीतायाःसामग्र्यंप्राप्नुयावहे/इदंहिरक्षोमृगसंनिकाशं॑प्रलोभ्यमांदूरमनुप्रयातम्/हतंकथंचिन्महताश्रमेण॑सराक्षसोऽभून्म्रियमाणएव/मनश्चमेदीनमिहाप्रहृष्टं॑चक्षुश्चसव्यंकुरुतेविकारम्/असंशयंलक्ष्मणनास्तिसीता॑हृतामृतावापथिवर्ततेवा/सदृष्ट्वालक्ष्मणंदीनंशून्येदशरथात्मजः/पर्यपृच्छतधर्मात्मावैदेहीमागतंविना/प्रस्थितंदण्डकारण्यंयामामनुजगामह/क्वसालक्ष्मणवैदेहीयांहित्वात्वमिहागतः/राज्यभ्रष्टस्यदीनस्यदण्डकान्परिधावतः/क्वसादुःखसहायामेवैदेहीतनुमध्यमा/यांविनानोत्सहेवीरमुहूर्तमपिजीवितुम्/क्वसाप्राणसहायामेसीतासुरसुतोपमा/पतित्वममराणांवापृथिव्याश्चापिलक्ष्मण/विनातांतपनीयाभांनेच्छेयंजनकात्मजाम्/कच्चिज्जीवतिवैदेहीप्राणैःप्रियतरामम/कच्चित्प्रव्राजनंसौम्यनमेमिथ्याभविष्यति/सीतानिमित्तंसौमित्रेमृतेमयिगतेत्वयि/कच्चित्सकामासुखिताकैकेयीसाभविष्यति/सपुत्रराज्यांसिद्धार्थांमृतपुत्रातपस्विनी/उपस्थास्यतिकौसल्याकच्चिन्सौम्यनकैकयीम्/यदिजीवतिवैदेहीगमिष्याम्याश्रमंपुनः/सुवृत्तायदिवृत्तासाप्राणांस्त्यक्ष्यामिलक्ष्मण/यदिमामाश्रमगतंवैदेहीनाभिभाषते/पुनःप्रहसितासीताविनशिष्यामिलक्ष्मण/ब्रूहिलक्ष्मणवैदेहीयदिजीवतिवानवा/त्वयिप्रमत्तेरक्षोभिर्भक्षितावातपस्विनी/सुकुमारीचबालाचनित्यंचादुःखदर्शिनी/मद्वियोगेनवैदेहीव्यक्तंशोचतिदुर्मनाः/सर्वथारक्षसातेनजिह्मेनसुदुरात्मना/वदतालक्ष्मणेत्युच्चैस्तवापिजनितंभयम्/श्रुतश्चशङ्केवैदेह्यासस्वरःसदृशोमम/त्रस्तयाप्रेषितस्त्वंचद्रष्टुंमांशीघ्रमागतः/सर्वथातुकृतंकष्टंसीतामुत्सृजतावने/प्रतिकर्तुंनृशंसानांरक्षसांदत्तमन्तरम्/दुःखिताःखरघातेनराक्षसाःपिशिताशनाः/तैःसीतानिहताघोरैर्भविष्यतिनसंशयः/अहोऽस्मिव्यसनेमग्नःसर्वथारिपुनाशन/किंत्विदानींकरिष्यामिशङ्केप्राप्तव्यमीदृशम्/इतिसीतांवरारोहांचिन्तयन्नेवराघवः/आजगामजनस्थानंत्वरयासहलक्ष्मणः/विगर्हमाणोऽनुजमार्तरूपं॑क्षुधाश्रमाच्चैवपिपासयाच/विनिःश्वसञ्शुष्कमुखोविषण्णः॑प्रतिश्रयंप्राप्यसमीक्ष्यशून्यम्/स्वमाश्रमंसंप्रविगाह्यवीरो॑विहारदेशाननुसृत्यकांश्चित्/एतत्तदित्येवनिवासभूमौ॑प्रहृष्टरोमाव्यथितोबभूव/अथाश्रमादुपावृत्तमन्तरारघुनन्दनः/परिपप्रच्छसौमित्रिंरामोदुःखार्दितःपुनः3591/तमुवाचकिमर्थंत्वमागतोऽपास्यमैथिलीम्/यदासातवविश्वासाद्वनेविहरितामया/दृष्ट्वैवाभ्यागतंत्वांमेमैथिलींत्यज्यलक्ष्मण/शङ्कमानंमहत्पापंयत्सत्यंव्यथितंमनः/स्फुरतेनयनंसव्यंबाहुश्चहृदयंचमे/दृष्ट्वालक्ष्मणदूरेत्वांसीताविरहितंपथि/एवमुक्तस्तुसौमित्रिर्लक्ष्मणःशुभलक्षणः/भूयोदुःखसमाविष्टोदुःखितंराममब्रवीत्/नस्वयंकामकारेणतांत्यक्त्वाहमिहागतः/प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः/आर्येणेवपरिक्रुष्टंहासीतेलक्ष्मणेतिच/परित्राहीतियद्वाक्यंमैथिल्यास्तच्छ्रुतिंगतम्/सातमार्तस्वरंश्रुत्वातवस्नेहेनमैथिली/गच्छगच्छेतिमामाहरुदन्तीभयविह्वला/प्रचोद्यमानेनमयागच्छेतिबहुशस्तया/प्रत्युक्तामैथिलीवाक्यमिदंत्वत्प्रत्ययान्वितम्/नतत्पश्याम्यहंरक्षोयदस्यभयमावहेत्/निर्वृताभवनास्त्येतत्केनाप्येवमुदाहृतम्/विगर्हितंचनीचंचकथमार्योऽभिधास्यति/त्राहीतिवचनंसीतेयस्त्रायेत्त्रिदशानपि/किंनिमित्तंतुकेनापिभ्रातुरालम्ब्यमेस्वरम्/विस्वरंव्याहृतंवाक्यंलक्ष्मणत्राहिमामिति/नभवत्याव्यथाकार्याकुनारीजनसेविता/अलंवैक्लव्यमालम्ब्यस्वस्थाभवनिरुत्सुका/नचास्तित्रिषुलोकेषुपुमान्योराघवंरणे/जातोवाजायमानोवासंयुगेयःपराजयेत्/एवमुक्तातुवैदेहीपरिमोहितचेतना/उवाचाश्रूणिमुञ्चन्तीदारुणंमामिदंवचः/भावोमयितवात्यर्थंपापएवनिवेशितः/विनष्टेभ्रातरिप्राप्तेनचत्वंमामवाप्स्यसि/संकेताद्भरतेनत्वंरामंसमनुगच्छसि/क्रोशन्तंहियथात्यर्थंनैनमभ्यवपद्यसे/रिपुःप्रच्छन्नचारीत्वंमदर्थमनुगच्छसि/राघवस्यान्तरप्रेप्सुस्तथैनंनाभिपद्यसे/एवमुक्तोहिवैदेह्यासंरब्धोरक्तलोचनः/क्रोधात्प्रस्फुरमाणौष्ठआश्रमादभिनिर्गतः/एवंब्रुवाणंसौमित्रिंरामःसंतापमोहितः/अब्रवीद्दुष्कृतंसौम्यतांविनायत्त्वमागतः/जानन्नपिसमर्थंमांरक्षसांविनिवारणे/अनेनक्रोधवाक्येनमैथिल्यानिःसृतोभवान्/नहितेपरितुष्यामित्यक्त्वायद्यासिमैथिलीम्/क्रुद्धायाःपरुषंश्रुत्वास्त्रियायत्त्वमिहागतः/सर्वथात्वपनीतंतेसीतयायत्प्रचोदितः/क्रोधस्यवशमागम्यनाकरोःशासनंमम/असौहिराक्षसःशेतेशरेणाभिहतोमया/मृगरूपेणयेनाहमाश्रमादपवादितः/विकृष्यचापंपरिधायसायकं॑सलीलबाणेनचताडितोमया/मार्गींतनुंत्यज्यचविक्लवस्वरो॑बभूवकेयूरधरःसराक्षसः/शराहतेनैवतदार्तयागिरा॑स्वरंममालम्ब्यसुदूरसंश्रवम्/उदाहृतंतद्वचनंसुदारुणं॑त्वमागतोयेनविहायमैथिलीम्/भृशमाव्रजमानस्यतस्याधोवामलोचनम्/प्रास्फुरच्चास्खलद्रामोवेपथुश्चास्यजायते/उपालक्ष्यनिमित्तानिसोऽशुभानिमुहुर्मुहुः/अपिक्षेमंतुसीतायाइतिवैव्याजहारह/त्वरमाणोजगामाथसीतादर्शनलालसः/शून्यमावसथंदृष्ट्वाबभूवोद्विग्नमानसः/उद्भ्रमन्निववेगेनविक्षिपन्रघुनन्दनः/तत्रतत्रोटजस्थानमभिवीक्ष्यसमन्ततः/ददर्शपर्णशालांचरहितांसीतयातदा/श्रियाविरहितांध्वस्तांहेमन्तेपद्मिनीमिव/रुदन्तमिववृक्षैश्चम्लानपुष्पमृगद्विजम्/श्रियाविहीनंविध्वस्तंसंत्यक्तवनदैवतम्/विप्रकीर्णाजिनकुशंविप्रविद्धबृसीकटम्/दृष्ट्वाशून्योटजस्थानंविललापपुनःपुनः/हृतामृतावानष्टावाभक्षितावाभविष्यति/निलीनाप्यथवाभीरुरथवावनमाश्रिता/गताविचेतुंपुष्पाणिफलान्यपिचवापुनः/अथवापद्मिनींयाताजलार्थंवानदींगता/यत्नान्मृगयमाणस्तुनाससादवनेप्रियाम्/शोकरक्तेक्षणःशोकादुन्मत्तइवलक्ष्यते/वृक्षाद्वृक्षंप्रधावन्सगिरींश्चापिनदीन्नदीम्/बभूवविलपन्रामःशोकपङ्कार्णवप्लुतः/अस्तिकच्चित्त्वयादृष्टासाकदम्बप्रियाप्रिया/कदम्बयदिजानीषेशंससीतांशुभाननाम्/स्निग्धपल्लवसंकाशांपीतकौशेयवासिनीम्/शंसस्वयदिवादृष्टाबिल्वबिल्वोपमस्तनी/अथवार्जुनशंसत्वंप्रियांतामर्जुनप्रियाम्/जनकस्यसुताभीरुर्यदिजीवतिवानवा/ककुभःककुभोरुंतांव्यक्तंजानातिमैथिलीम्/लतापल्लवपुष्पाढ्योभातिह्येषवनस्पतिः/भ्रमरैरुपगीतश्चयथाद्रुमवरोह्ययम्/एषव्यक्तंविजानातितिलकस्तिलकप्रियाम्/अशोकशोकापनुदशोकोपहतचेतसं/त्वन्नामानंकुरुक्षिप्रंप्रियासंदर्शनेनमाम्/यदितालत्वयादृष्टापक्वतालफलस्तनी/कथयस्ववरारोहांकारुष्यंयदितेमयि/यदिदृष्टात्वयासीताजम्बुजाम्बूनदप्रभा/प्रियांयदिविजानीषेनिःशङ्कंकथयस्वमे/अथवामृगशावाक्षींमृगजानासिमैथिलीम्/मृगविप्रेक्षणीकान्तामृगीभिःसहिताभवेत्/गजसागजनासोरुर्यदिदृष्टात्वयाभवेत्/तांमन्येविदितांतुभ्यमाख्याहिवरवारण/शार्दूलयदिसादृष्टाप्रियाचन्द्रनिभानना/मैथिलीममविस्रब्धःकथयस्वनतेभयम्/किंधावसिप्रियेनूनंदृष्टासिकमलेक्षणे/वृक्षेणाच्छाद्यचात्मानंकिंमांनप्रतिभाषसे/तिष्ठतिष्ठवरारोहेनतेऽस्तिकरुणामयि/नात्यर्थंहास्यशीलासिकिमर्थंमामुपेक्षसे/पीतकौशेयकेनासिसूचितावरवर्णिनि/धावन्त्यपिमयादृष्टातिष्ठयद्यस्तिसौहृदम्/नैवसानूनमथवाहिंसिताचारुहासिनी/कृच्छ्रंप्राप्तंहिमांनूनंयथोपेक्षितुमर्हति/व्यक्तंसाभक्षिताबालाराक्षसैःपिशिताशनैः/विभज्याङ्गानिसर्वाणिमयाविरहिताप्रिया/नूनंतच्छुभदन्तौष्ठंमुखंनिष्प्रभतांगतम्/साहिचम्पकवर्णाभाग्रीवाग्रैवेयशोभिता/कोमलाविलपन्त्यास्तुकान्तायाभक्षिताशुभा/नूनंविक्षिप्यमाणौतौबाहूपल्लवकोमलौ/भक्षितौवेपमानाग्रौसहस्ताभरणाङ्गदौ/मयाविरहिताबालारक्षसांभक्षणायवै/सार्थेनेवपरित्यक्ताभक्षिताबहुबान्धवा/हालक्ष्मणमहाबाहोपश्यसित्वंप्रियांक्वचित्/हाप्रियेक्वगताभद्रेहासीतेतिपुनःपुनः/इत्येवंविलपन्रामःपरिधावन्वनाद्वनम्/क्वचिदुद्भ्रमतेवेगात्क्वचिद्विभ्रमतेबलात्/क्वचिन्मत्तइवाभातिकान्तान्वेषणतत्परः/सवनानिनदीःशैलान्गिरिप्रस्रवणानिच/काननानिचवेगेनभ्रमत्यपरिसंस्थितः/तथासगत्वाविपुलंमहद्वनं॑परीत्यसर्वंत्वथमैथिलींप्रति/अनिष्ठिताशःसचकारमार्गणे॑पुनःप्रियायाःपरमंपरिश्रमम्/दृष्टाश्रमपदंशून्यंरामोदशरथात्मजः/रहितांपर्णशालांचविध्वस्तान्यासनानिच/अदृष्ट्वातत्रवैदेहींसंनिरीक्ष्यचसर्वशः/उवाचरामःप्राक्रुश्यप्रगृह्यरुचिरौभुजौ/क्वनुलक्ष्मणवैदेहीकंवादेशमितोगता/केनाहृतावासौमित्रेभक्षिताकेनवाप्रिया/वृष्केणावार्ययदिमांसीतेहसितुमिच्छसि/अलंतेहसितेनाद्यमांभजस्वसुदुःखितम्/यैःसहक्रीडसेसीतेविश्वस्तैर्मृगपोतकैः/एतेहीनास्त्वयासौम्येध्यायन्त्यस्राविलेक्षणाः/मृतंशोकेनमहतासीताहरणजेनमाम्/परलोकेमहाराजोनूनंद्रक्ष्यतिमेपिता/कथंप्रतिज्ञांसंश्रुत्यमयात्वमभियोजितः/अपूरयित्वातंकालंमत्सकाशमिहागतः/कामवृत्तमनार्यंमांमृषावादिनमेवच/धिक्त्वामितिपरेलोकेव्यक्तंवक्ष्यतिमेपिता/विवशंशोकसंतप्तंदीनंभग्नमनोरथम्/मामिहोत्सृज्यकरुणंकीर्तिर्नरमिवानृजुम्/क्वगच्छसिवरारोहेमामुत्सृज्यसुमध्यमे/त्वयाविरहितश्चाहंमोक्ष्येजीवितमात्मनः/इतीवविलपन्रामःसीतादर्शनलालसः/नददर्शसुदुःखार्तोराघवोजनकात्मजाम्/अनासादयमानंतंसीतांदशरथात्मजम्/पङ्कमासाद्यविपुलंसीदन्तमिवकुञ्जरम्/लक्ष्मणोराममत्यर्थमुवाचहितकाम्यया/माविषादंमहाबाहोकुरुयत्नंमयासह/इदंचहिवनंशूरबहुकन्दरशोभितम्/प्रियकाननसंचारावनोन्मत्ताचमैथिली/सावनंवाप्रविष्टास्यान्नलिनींवासुपुष्पिताम्/सरितंवापिसंप्राप्तामीनवञ्जुरसेविताम्/वित्रासयितुकामावालीनास्यात्काननेक्वचित्/जिज्ञासमानावैदेहीत्वांमांचपुरुषर्षभ/तस्याह्यन्वेषणेश्रीमन्क्षिप्रमेवयतावहे/वनंसर्वंविचिनुवोयत्रसाजनकात्मजा/मन्यसेयदिकाकुत्स्थमास्मशोकेमनःकृथाः/एवमुक्तस्तुसौहार्दाल्लक्ष्मणेनसमाहितः/सहसौमित्रिणारामोविचेतुमुपचक्रमे/तौवनानिगिरींश्चैवसरितश्चसरांसिच/निखिलेनविचिन्वन्तौसीतांदशरथात्मजौ/तस्यशैलस्यसानूनिगुहाश्चशिखराणिच/निखिलेनविचिन्वन्तौनैवतामभिजग्मतुः/विचित्यसर्वतःशैलंरामोलक्ष्मणमब्रवीत्/नेहपश्यामिसौमित्रेवैदेहींपर्वतेशुभे/ततोदुःखाभिसंतप्तोलक्ष्मणोवाक्यमब्रवीत्/विचरन्दण्डकारण्यंभ्रातरंदीप्ततेजसं/प्राप्स्यसित्वंमहाप्राज्ञमैथिलींजनकात्मजाम्/यथाविष्णुर्महाबाहुर्बलिंबद्ध्वामहीमिमाम्/एवमुक्तस्तुवीरेणलक्ष्मणेनसराघवः/उवाचदीनयावाचादुःखाभिहतचेतनः/वनंसर्वंसुविचितंपद्मिन्यःफुल्लपङ्कजाः/गिरिश्चायंमहाप्राज्ञबहुकन्दरनिर्झरः/नहिपश्यामिवैदेहींप्राणेभ्योऽपिगरीयसीम्/एवंसविलपन्रामःसीताहरणकर्शितः/दीनःशोकसमाविष्टोमुहूर्तंविह्वलोऽभवत्/सविह्वलितसर्वाङ्गोगतबुद्धिर्विचेतनः/विषसादातुरोदीनोनिःश्वस्याशीतमायतम्/बहुशःसतुनिःश्वस्यरामोराजीवलोचनः/हाप्रियेतिविचुक्रोशबहुशोबाष्पगद्गदः/तंसान्त्वयामासततोलक्ष्मणःप्रियबान्धवः/बहुप्रकारंधर्मज्ञःप्रश्रितःप्रश्रिताञ्जलिः/अनादृत्यतुतद्वाक्यंलक्ष्मणौष्ठपुटच्युतम्/अपश्यंस्तांप्रियांसीतांप्राक्रोशत्सपुनःपुनः/सदीनोदीनयावाचालक्ष्मणंवाक्यमब्रवीत्/शीघ्रंलक्ष्मणजानीहिगत्वागोदावरींनदीम्/अपिगोदावरींसीतापद्मान्यानयितुंगता/एवमुक्तस्तुरामेणलक्ष्मणःपुनरेवहि/नदींगोदावरींरम्यांजगामलघुविक्रमः/तांलक्ष्मणस्तीर्थवतींविचित्वाराममब्रवीत्/नैनांपश्यामितीर्थेषुक्रोशतोनशृणोतिमे/कंनुसादेशमापन्नावैदेहीक्लेशनाशिनी/नहितंवेद्मिवैरामयत्रसातनुमध्यमा/लक्ष्मणस्यवचःश्रुत्वादीनःसंतापमोहितः/रामःसमभिचक्रामस्वयंगोदावरींनदीम्/सतामुपस्थितोरामःक्वसीतेत्येवमब्रवीत्/भूतानिराक्षसेन्द्रेणवधार्हेणहृतामपि/नतांशशंसूरामायतथागोदावरीनदी/ततःप्रचोदिताभूतैःशंसास्मैतांप्रियामिति/नचसाभ्यवदत्सीतांपृष्टारामेणशोचिता/रावणस्यचतद्रूपंकर्माणिचदुरात्मनः/ध्यात्वाभयात्तुवैदेहींसानदीनशशंसताम्/निराशस्तुतयानद्यासीतायादर्शनेकृतः/उवाचरामःसौमित्रिंसीतादर्शनकर्शितः/किंनुलक्ष्मणवक्ष्यामिसमेत्यजनकंवचः/मातरंचैववैदेह्याविनातामहमप्रियम्/यामेराज्यविहीनस्यवनेवन्येनजीवतः/सर्वंव्यपनयच्छोकंवैदेहीक्वनुसागता/ज्ञातिपक्षविहीनस्यराजपुत्रीमपश्यतः/मन्येदीर्घाभविष्यन्तिरात्रयोममजाग्रतः/गोदावरींजनस्थानमिमंप्रस्रवणंगिरिम्/सर्वाण्यनुचरिष्यामियदिसीताहिदृश्यते/एवंसंभाषमाणौतावन्योन्यंभ्रातरावुभौ/वसुंधरायांपतितंपुष्पमार्गमपश्यताम्/तांपुष्पवृष्टिंपतितांदृष्ट्वारामोमहीतले/उवाचलक्ष्मणंवीरोदुःखितोदुःखितंवचः/अभिजानामिपुष्पाणितानीमामीहलक्ष्मण/अपिनद्धानिवैदेह्यामयादत्तानिकानने/एवमुक्त्वामहाबाहुर्लक्ष्मणंपुरुषर्षभम्/क्रुद्धोऽब्रवीद्गिरिंतत्रसिंहःक्षुद्रमृगंयथा/तांहेमवर्णांहेमाभांसीतांदर्शयपर्वत/यावत्सानूनिसर्वाणिनतेविध्वंसयाम्यहम्/ममबाणाग्निनिर्दग्धोभस्मीभूतोभविष्यसि/असेव्यःसततंचैवनिस्तृणद्रुमपल्लवः/इमांवासरितंचाद्यशोषयिष्यामिलक्ष्मण/यदिनाख्यातिमेसीतामद्यचन्द्रनिभाननाम्/एवंसरुषितोरामोदिधक्षन्निवचक्षुषा/ददर्शभूमौनिष्क्रान्तंराक्षसस्यपदंमहत्/ससमीक्ष्यपरिक्रान्तंसीतायाराक्षसस्यच/संभ्रान्तहृदयोरामःशशंसभ्रातरंप्रियम्/पश्यलक्ष्मणवैदेह्याःशीर्णाःकनकबिन्दवः/भूषणानांहिसौमित्रेमाल्यानिविविधानिच/तप्तबिन्दुनिकाशैश्चचित्रैःक्षतजबिन्दुभिः/आवृतंपश्यसौमित्रेसर्वतोधरणीतलम्/मन्येलक्ष्मणवैदेहीराक्षसैःकामरूपिभिः/भित्त्वाभित्त्वाविभक्तावाभक्षितावाभविष्यति/तस्यनिमित्तंवैदेह्याद्वयोर्विवदमानयोः/बभूवयुद्धंसौमित्रेघोरंराक्षसयोरिह/मुक्तामणिचितंचेदंतपनीयविभूषितम्/धरण्यांपतितंसौम्यकस्यभग्नंमहद्धनुः/तरुणादित्यसंकाशंवैदूर्यगुलिकाचितम्/विशीर्णंपतितंभूमौकवचंकस्यकाञ्चनम्/छत्रंशतशलाकंचदिव्यमाल्योपशोभितम्/भग्नदण्डमिदंकस्यभूमौसौम्यनिपातितम्/काञ्चनोरश्छदाश्चेमेपिशाचवदनाःखराः/भीमरूपामहाकायाःकस्यवानिहतारणे/दीप्तपावकसंकाशोद्युतिमान्समरध्वजः/अपविद्धश्चभग्नश्चकस्यसांग्रामिकोरथः/रथाक्षमात्राविशिखास्तपनीयविभूषणाः/कस्येमेऽभिहताबाणाःप्रकीर्णाघोरकर्मणः/वैरंशतगुणंपश्यममेदंजीवितान्तकम्/सुघोरहृदयैःसौम्यराक्षसैःकामरूपिभिः/हृतामृतावासीताहिभक्षितावातपस्विनी/नधर्मस्त्रायतेसीतांह्रियमाणांमहावने/भक्षितायांहिवैदेह्यांहृतायामपिलक्ष्मण/केहिलोकेप्रियंकर्तुंशक्ताःसौम्यममेश्वराः/कर्तारमपिलोकानांशूरंकरुणवेदिनम्/अज्ञानादवमन्येरन्सर्वभूतानिलक्ष्मण/मृदुंलोकहितेयुक्तंदान्तंकरुणवेदिनम्/निर्वीर्यइतिमन्यन्तेनूनंमांत्रिदशेश्वराः/मांप्राप्यहिगुणोदोषःसंवृत्तःपश्यलक्ष्मण/अद्यैवसर्वभूतानांरक्षसामभवायच/संहृत्यैवशशिज्योत्स्नांमहान्सूर्यइवोदितः/नैवयक्षानगन्धर्वानपिशाचानराक्षसाः/किंनरावामनुष्यावासुखंप्राप्स्यन्तिलक्ष्मण/ममास्त्रबाणसंपूर्णमाकाशंपश्यलक्ष्मण/निःसंपातंकरिष्यामिह्यद्यत्रैलोक्यचारिणाम्/संनिरुद्धग्रहगणमावारितनिशाकरम्/विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्/विनिर्मथितशैलाग्रंशुष्यमाणजलाशयम्/ध्वस्तद्रुमलतागुल्मंविप्रणाशितसागरम्/नतांकुशलिनींसीतांप्रदास्यन्तिममेश्वराः/अस्मिन्मुहूर्तेसौमित्रेममद्रक्ष्यन्तिविक्रमम्/नाकाशमुत्पतिष्यन्तिसर्वभूतानिलक्ष्मण/ममचापगुणान्मुक्तैर्बाणजालैर्निरन्तरम्/अर्दितंममनाराचैर्ध्वस्तभ्रान्तमृगद्विजम्/समाकुलममर्यादंजगत्पश्याद्यलक्ष्मण/आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः/करिष्येमैथिलीहेतोरपिशाचमराक्षसं/ममरोषप्रयुक्तानांसायकानांबलंसुराः/द्रक्ष्यन्त्यद्यविमुक्तानाममर्षाद्दूरगामिनाम्/नैवदेवानदैतेयानपिशाचानराक्षसाः/भविष्यन्तिममक्रोधात्त्रैलोक्येविप्रणाशिते/देवदानवयक्षाणांलोकायेरक्षसामपि/बहुधानिपतिष्यन्तिबाणौघैःशकुलीकृताः/निर्मर्यादानिमांल्लोकान्करिष्याम्यद्यसायकैः/यथाजरायथामृत्युर्यथाकालोयथाविधिः/नित्यंनप्रतिहन्यन्तेसर्वभूतेषुलक्ष्मण/तथाहंक्रोधसंयुक्तोननिवार्योऽस्म्यसंशयम्/पुरेवमेचारुदतीमनिन्दितां॑दिशन्तिसीतांयदिनाद्यमैथिलीम्/सदेवगन्धर्वमनुष्यपन्नगं॑जगत्सशैलंपरिवर्तयाम्यहम्/तप्यमानंतथारामंसीताहरणकर्शितम्/लोकानामभवेयुक्तंसाम्वर्तकमिवानलम्/वीक्षमाणंधनुःसज्यंनिःश्वसन्तंमुहुर्मुहुः/हन्तुकामंपशुंरुद्रंक्रुद्धंदक्षक्रतौयथा/अदृष्टपूर्वंसंक्रुद्धंदृष्ट्वारामंसलक्ष्मणः/अब्रवीत्प्राञ्जलिर्वाक्यंमुखेनपरिशुष्यता/पुराभूत्वामृदुर्दान्तःसर्वभूतहितेरतः/नक्रोधवशमापन्नःप्रकृतिंहातुमर्हसि/चन्द्रेलक्ष्णीःप्रभासूर्येगतिर्वायौभुविक्षमा/एतच्चनियतंसर्वंत्वयिचानुत्तमंयशः/नतुजानामिकस्यायंभग्नःसांग्रामिकोरथः/केनवाकस्यवाहेतोःसायुधःसपरिच्छदः/खुरनेमिक्षतश्चायंसिक्तोरुधिरबिन्दुभिः/देशोनिवृत्तसंग्रामःसुघोरःपार्थिवात्मज/एकस्यतुविमर्दोऽयंनद्वयोर्वदतांवर/नहिवृत्तंहिपश्यामिबलस्यमहतःपदम्/नैकस्यतुकृतेलोकान्विनाशयितुमर्हसि/युक्तदण्डाहिमृदवःप्रशान्तावसुधाधिपाः/सदात्वंसर्वभूतानांशरण्यःपरमागतिः/कोनुदारप्रणाशंतेसाधुमन्येतराघव/सरितःसागराःशैलादेवगन्धर्वदानवाः/नालंतेविप्रियंकर्तुंदीक्षितस्येवसाधवः/येनराजन्हृतासीतातमन्वेषितुमर्हसि/मद्द्वितीयोधनुष्पाणिःसहायैःपरमर्षिभिः/समुद्रंचविचेष्यामःपर्वतांश्चवनानिच/गुहाश्चविविधाघोरानलिनीःपार्वतीश्चह/देवगन्धर्वलोकांश्चविचेष्यामःसमाहिताः/यावन्नाधिगमिष्यामस्तवभार्यापहारिणम्/नचेत्साम्नाप्रदास्यन्तिपत्नींतेत्रिदशेश्वराः/कोसलेन्द्रततःपश्चात्प्राप्तकालंकरिष्यसि/शीलेनसाम्नाविनयेनसीतां॑नयेननप्राप्स्यसिचेन्नरेन्द्र/ततःसमुत्सादयहेमपुङ्खैर्॑महेन्द्रवज्रप्रतिमैःशरौघैः/तंतथाशोकसंतप्तंविलपन्तमनाथवत्/मोहेनमहताविष्टंपरिद्यूनमचेतनम्3661/ततःसौमित्रिराश्वास्यमुहूर्तादिवलक्ष्मणः/रामंसंबोधयामासचरणौचाभिपीडयन्/महतातपसाराममहताचापिकर्मणा/राज्ञादशरथेनासील्लब्धोऽमृतमिवामरैः/तवचैवगुणैर्बद्धस्त्वद्वियोगान्महीपतिः/राजादेवत्वमापन्नोभरतस्ययथाश्रुतम्/यदिदुःखमिदंप्राप्तंकाकुत्स्थनसहिष्यसे/प्राकृतश्चाल्पसत्त्वश्चइतरःकःसहिष्यति/दुःखितोहिभवांल्लोकांस्तेजसायदिधक्ष्यते/आर्ताःप्रजानरव्याघ्रक्वनुयास्यन्तिनिर्वृतिम्/लोकस्वभावएवैषययातिर्नहुषात्मजः/गतःशक्रेणसालोक्यमनयस्तंसमस्पृशत्/महर्षयोवसिष्ठस्तुयःपितुर्नःपुरोहितः/अह्नापुत्रशतंजज्ञेतथैवास्यपुनर्हतम्/याचेयंजगतोमातादेवीलोकनमस्कृता/अस्याश्चचलनंभूमेर्दृश्यतेसत्यसंश्रव/यौचेमौजगतांनेत्रेयत्रसर्वंप्रतिष्ठितम्/आदित्यचन्द्रौग्रहणमभ्युपेतौमहाबलौ/सुमहान्त्यपिभूतानिदेवाश्चपुरुषर्षभ/नदैवस्यप्रमुञ्चन्तिसर्वभूतानिदेहिनः/शक्रादिष्वपिदेवेषुवर्तमानौनयानयौ/श्रूयेतेनरशार्दूलनत्वंव्यथितुमर्हसि/नष्टायामपिवैदेह्यांहृतायामपिचानघ/शोचितुंनार्हसेवीरयथान्यःप्राकृतस्तथा/त्वद्विधाहिनशोचन्तिसततंसत्यदर्शिनः/सुमहत्स्वपिकृच्छ्रेषुरामानिर्विण्णदर्शणाः/तत्त्वतोहिनरश्रेष्ठबुद्ध्यासमनुचिन्तय/बुद्ध्यायुक्तामहाप्राज्ञाविजानन्तिशुभाशुभे/अदृष्टगुणदोषाणामधृतानांचकर्मणाम्/नान्तरेणक्रियांतेषांफलमिष्टंप्रवर्तते/मामेवहिपुरावीरत्वमेवबहुषोऽन्वशाः/अनुशिष्याद्धिकोनुत्वामपिसाक्षाद्बृहस्पतिः/बुद्धिश्चतेमहाप्राज्ञदेवैरपिदुरन्वया/शोकेनाभिप्रसुप्तंतेज्ञानंसंबोधयाम्यहम्/दिव्यंचमानुषंचैवमात्मनश्चपराक्रमम्/इक्ष्वाकुवृषभावेक्ष्ययतस्वद्विषतांबधे/किंतेसर्वविनाशेनकृतेनपुरुषर्षभ/तमेवतुरिपुंपापंविज्ञायोद्धर्तुमर्हसि/पूर्वजोऽप्युक्तमात्रस्तुलक्ष्मणेनसुभाषितम्/सारग्राहीमहासारंप्रतिजग्राहराघवः/संनिगृह्यमहाबाहुःप्रवृद्धंकोपमात्मनः/अवष्टभ्यधनुश्चित्रंरामोलक्ष्मणमब्रवीत्/किंकरिष्यावहेवत्सक्ववागच्छावलक्ष्मण/केनोपायेनपश्येयंसीतामितिविचिन्तय/तंतथापरितापार्तंलक्ष्मणोराममब्रवीत्/इदमेवजनस्थानंत्वमन्वेषितुमर्हसि/राक्षसैर्बहुभिःकीर्णंनानाद्रुमलतायुतम्/सन्तीहगिरिदुर्गाणिनिर्दराःकन्दराणिच/गुहाश्चविविधाघोरानानामृगगणाकुलाः/आवासाःकिंनराणांचगन्धर्वभवनानिच/तानियुक्तोमयासार्धंत्वमन्वेषितुमर्हसि/त्वद्विधोबुद्धिसंपन्नामाहात्मानोनरर्षभ/आपत्सुनप्रकम्पन्तेवायुवेगैरिवाचलाः/इत्युक्तस्तद्वनंसर्वंविचचारसलक्ष्मणः/क्रुद्धोरामःशरंघोरंसंधायधनुषिक्षुरम्/ततःपर्वतकूटाभंमहाभागंद्विजोत्तमम्/ददर्शपतितंभूमौक्षतजार्द्रंजटायुषम्/तंदृष्ट्वागिरिशृङ्गाभंरामोलक्ष्मणमब्रवीत्/अनेनसीतावैदेहीभक्षितानात्रसंशयः/गृध्ररूपमिदंव्यक्तंरक्षोभ्रमतिकाननम्/भक्षयित्वाविशालाक्षीमास्तेसीतांयथासुखम्/एनंवधिष्येदीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः/इत्युक्त्वाभ्यपतद्गृध्रंसंधायधनुषिक्षुरम्/क्रुद्धोरामःसमुद्रान्तांचालयन्निवमेदिनीम्/तंदीनदीनयावाचासफेनंरुधिरंवमन्/अभ्यभाषतपक्षीतुरामंदशरथात्मजम्/यामोषधिमिवायुष्मन्नन्वेषसिमहावने/सादेवीममचप्राणारावणेनोभयंहृतम्/त्वयाविरहितादेवीलक्ष्मणेनचराघव/ह्रियमाणामयादृष्टारावणेनबलीयसा/सीतामभ्यवपन्नोऽहंरावणश्चरणेमया/विध्वंसितरथच्छत्रःपातितोधरणीतले/एतदस्यधनुर्भग्नमेतदस्यशरावरम्/अयमस्यरणेरामभग्नःसांग्रामिकोरथः/परिश्रान्तस्यमेपक्षौछित्त्वाखड्गेनरावणः/सीतामादायवैदेहीमुत्पपातविहायसं/रक्षसानिहतंपूर्व्मनमांहन्तुंत्वमर्हसि/रामस्तस्यतुविज्ञायसीतासक्तांप्रियांकथाम्/गृध्रराजंपरिष्वज्यरुरोदसहलक्ष्मणः/एकमेकायनेदुर्गेनिःश्वसन्तंकथंचन/समीक्ष्यदुःखितोरामःसौमित्रिमिदमब्रवीत्/राज्याद्भ्रंशोवनेवासःसीतानष्टाहतोद्विजः/ईदृशीयंममालक्ष्मीर्निर्दहेदपिपावकम्/संपूर्णमपिचेदद्यप्रतरेयंमहोदधिम्/सोऽपिनूनंममालक्ष्म्याविशुष्येत्सरितांपतिः/नास्त्यभाग्यतरोलोकेमत्तोऽस्मिन्सचराचरे/येनेयंमहतीप्राप्तामयाव्यसनवागुरा/अयंपितृवयस्योमेगृध्रराजोजरान्वितः/शेतेविनिहतोभूमौममभाग्यविपर्ययात्/इत्येवमुक्त्वाबहुशोराघवःसहलक्ष्मणः/जटायुषंचपस्पर्शपितृस्नेहंनिदर्शयन्/निकृत्तपक्षंरुधिरावसिक्तं॑तंगृध्रराजंपरिरभ्यरामः/क्वमैथिलिप्राणसमाममेति॑विमुच्यवाचंनिपपातभूमौ/रामःप्रेक्ष्यतुतंगृध्रंभुविरौद्रेणपातितम्/सौमित्रिंमित्रसंपन्नमिदंवचनमब्रवीत्/ममायंनूनमर्थेषुयतमानोविहंगमः/राक्षसेनहतःसंख्येप्राणांस्त्यजतिदुस्त्यजान्/अयमस्यशरीरेऽस्मिन्प्राणोलक्ष्मणविद्यते/तथास्वरविहीनोऽयंविक्लवंसमुदीक्षते/जटायोयदिशक्नोषिवाक्यंव्याहरितुंपुनः/सीतामाख्याहिभद्रंतेवधमाख्याहिचात्मनः/किंनिमित्तोऽहरत्सीतांरावणस्तस्यकिंमया/अपराद्धंतुयंदृष्ट्वारावणेनहृताप्रिया/कथंतच्चन्द्रसंकाशंमुखमासीन्मनोहरम्/सीतयाकानिचोक्तानितस्मिन्कालेद्विजोत्तम/कथंवीर्यःकथंरूपःकिंकर्मासचराक्षसः/क्वचास्यभवनंतातब्रूहिमेपरिपृच्छतः/तमुद्वीक्ष्याथदीनात्माविलपन्तमनन्तरम्/वाचातिसन्नयारामंजटायुरिदमब्रवीत्/साहृताराक्षसेन्द्रेणरावणेनविहायसा/मायामास्थायविपुलांवातदुर्दिनसंकुलाम्/परिश्रान्तस्यमेतातपक्षौछित्त्वानिशाचरः/सीतामादायवैदेहींप्रयातोदक्षिणामुखः/उपरुध्यन्तिमेप्राणादृष्टिर्भ्रमतिराघव/पश्यामिवृक्षान्सौवर्णानुशीरकृतमूर्धजान्/येनयातिमुहूर्तेनसीतामादायरावणः/विप्रनष्टंधनंक्षिप्रंतत्स्वामिप्रतिपद्यते/विन्दोनाममुहूर्तोऽसौसचकाकुत्स्थनाबुधत्/झषवद्बडिशंगृह्यक्षिप्रमेवविनश्यति/नचत्वयाव्यथाकार्याजनकस्यसुतांप्रति/वैदेह्यारंस्यसेक्षिप्रंहत्वातंराक्षसंरणे/असंमूढस्यगृध्रस्यरामंप्रत्यनुभाषतः/आस्यात्सुस्रावरुधिरंम्रियमाणस्यसामिषम्/पुत्रोविश्रवसःसाक्षाद्भ्रातावैश्रवणस्यच/इत्युक्त्वादुर्लभान्प्राणान्मुमोचपतगेश्वरः/ब्रूहिब्रूहीतिरामस्यब्रुवाणस्यकृताञ्जलेः/त्यक्त्वाशरीरंगृध्रस्यजग्मुःप्राणाविहायसं/सनिक्षिप्यशिरोभूमौप्रसार्यचरणौतदा/विक्षिप्यचशरीरंस्वंपपातधरणीतले/तंगृध्रंप्रेक्ष्यताम्राक्षंगतासुमचलोपमम्/रामःसुबहुभिर्दुःखैर्दीनःसौमित्रिमब्रवीत्/बहूनिरक्षसांवासेवर्षाणिवसतासुखम्/अनेनदण्डकारण्येविचीर्णमिहपक्षिणा/अनेकवार्षिकोयस्तुचिरकालंसमुत्थितः/सोऽयमद्यहतःशेतेकालोहिदुरतिक्रमः/पश्यलक्ष्मणगृध्रोऽयमुपकारीहतश्चमे/सीतामभ्यवपन्नोवैरावणेनबलीयसा/गृध्रराज्यंपरित्यज्यपितृपैतामहंमहत्/ममहेतोरयंप्राणान्मुमोचपतगेश्वरः/सर्वत्रखलुदृश्यन्तेसाधवोधर्मचारिणः/शूराःशरण्याःसौमित्रेतिर्यग्योनिगतेष्वपि/सीताहरणजंदुःखंनमेसौम्यतथागतम्/यथाविनाशोगृध्रस्यमत्कृतेचपरंतप/राजादशरथःश्रीमान्यथामममयायशाः/पूजनीयश्चमान्यश्चतथायंपतगेश्वरः/सौमित्रेहरकाष्ठानिनिर्मथिष्यामिपावकम्/गृध्रराजंदिधक्षामिमत्कृतेनिधनंगतम्/नाथंपतगलोकस्यचितामारोपयाम्यहम्/इमंधक्ष्यामिसौमित्रेहतंरौद्रेणरक्षसा/यागतिर्यज्ञशीलानामाहिताग्नेश्चयागतिः/अपरावर्तिनांयाचयाचभूमिप्रदायिनाम्/मयात्वंसमनुज्ञातोगच्छलोकाननुत्तमान्/गृध्रराजमहासत्त्वसंस्कृतश्चमयाव्रज/एवमुक्त्वाचितांदीप्तामारोप्यपतगेश्वरम्/ददाहरामोधर्मात्मास्वबन्धुमिवदुःखितः/रामोऽथसहसौमित्रिर्वनंयात्वासवीर्यवान्/स्थूलान्हत्वामहारोहीननुतस्तारतंद्विजम्/रोहिमांसानिचोद्धृत्यपेशीकृत्वामहायशाः/शकुनायददौरामोरम्येहरितशाद्वले/यत्तत्प्रेतस्यमर्त्यस्यकथयन्तिद्विजातयः/तत्स्वर्गगमनंतस्यक्षिप्रंरामोजजापह/ततोगोदावरींगत्वानदींनरवरात्मजौ/उदकंचक्रतुस्तस्मैगृध्रराजायतावुभौ/सगृध्रराजःकृतवान्यशस्करं॑सुदुष्करंकर्मरणेनिपातितः/महर्षिकल्पेनचसंस्कृतस्तदा॑जगामपुण्यांगतिमात्मनःशुभाम्/कृत्वैवमुदकंतस्मैप्रस्थितौराघवौतदा/अवेक्षन्तौवनेसीतांपश्चिमांजग्मतुर्दिशम्/तांदिशंदक्षिणांगत्वाशरचापासिधारिणौ/अविप्रहतमैक्ष्वाकौपन्थानंप्रतिपेदतुः/गुल्मैर्वृक्षैश्चबहुभिर्लताभिश्चप्रवेष्टितम्/आवृतंसर्वतोदुर्गंगहनंघोरदर्शनम्/व्यतिक्रम्यतुवेगेनगृहीत्वादक्षिणांदिशम्/सुभीमंतन्महारण्यंव्यतियातौमहाबलौ/ततःपरंजनस्थानात्त्रिक्रोशंगम्यराघवौ/क्रौञ्चारण्यंविविशतुर्गहनंतौमहौजसौ/नानामेघघनप्रख्यंप्रहृष्टमिवसर्वतः/नानावर्णैःशुभैःपुष्पैर्मृगपक्षिगणैर्युतम्/दिदृक्षमाणौवैदेहींतद्वनंतौविचिक्यतुः/तत्रतत्रावतिष्ठन्तौसीताहरणकर्शितौ/लक्ष्मणस्तुमहातेजाःसत्त्ववाञ्शीलवाञ्शुचिः/अब्रवीत्प्राञ्जलिर्वाक्यंभ्रातरंदीप्ततेजसं/स्पन्दतेमेदृढंबाहुरुद्विग्नमिवमेमनः/प्रायशश्चाप्यनिष्टानिनिमित्तान्युपलक्षये/तस्मात्सज्जीभवार्यत्वंकुरुष्ववचनंहितम्/ममैवहिनिमित्तानिसद्यःशंसन्तिसंभ्रमम्/एषवञ्चुलकोनामपक्षीपरमदारुणः/आवयोर्विजयंयुद्धेशंसन्निवविनर्दति/तयोरन्वेषतोरेवंसर्वंतद्वनमोजसा/संजज्ञेविपुलःशब्दःप्रभञ्जन्निवतद्वनम्/संवेष्टितमिवात्यर्थंगहनंमातरिश्वना/वनस्यतस्यशब्दोऽभूद्दिवमापूरयन्निव/तंशब्दंकाङ्क्षमाणस्तुरामःकक्षेसहानुजः/ददर्शसुमहाकायंराक्षसंविपुलोरसं/आसेदतुस्ततस्तत्रतावुभौप्रमुखेस्थितम्/विवृद्धमशिरोग्रीवंकबन्धमुदरेमुखम्/रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्/नीलमेघनिभंरौद्रंमेघस्तनितनिःस्वनम्/महापक्ष्मेणपिङ्गेनविपुलेनायतेनच/एकेनोरसिघोरेणनयनेनाशुदर्शिना/महादंष्ट्रोपपन्नंतंलेलिहानंमहामुखम्/भक्षयन्तंमहाघोरानृक्षसिंहमृगद्विपान्/घोरौभुजौविकुर्वाणमुभौयोजनमायतौ/कराभ्यांविविधान्गृह्यऋष्कान्पक्षिगणान्मृगान्/आकर्षन्तंविकर्षन्तमनेकान्मृगयूथपान्/स्थितमावृत्यपन्थानंतयोर्भ्रात्रोःप्रपन्नयोः/अथतौसमतिक्रम्यक्रोशमात्रेददर्शतुः/महान्तंदारुणंभीमंकबन्धंभुजसंवृतम्/समहाबाहुरत्यर्थंप्रसार्यविपुलौभुजौ/जग्राहसहितावेवराघवौपीडयन्बलात्/खड्गिनौदृढधन्वानौतिग्मतेजौमहाभुजौ/भ्रातरौविवशंप्राप्तौकृष्यमाणौमहाबलौ/तावुवाचमहाबाहुःकबन्धोदानवोत्तमः/कौयुवांवृषभस्कन्धौमहाखड्गधनुर्धरौ/घोरंदेशमिमंप्राप्तौममभक्षावुपस्थितौ/वदतंकार्यमिहवांकिमर्थंचागतौयुवाम्/इमंदेशमनुप्राप्तौक्षुधार्तस्येहतिष्ठतः/सबाणचापखड्गौचतीक्ष्णशृङ्गाविवर्षभौ/ममास्यमनुसंप्राप्तौदुर्लभंजीवितंपुनः/तस्यतद्वचनंश्रुत्वाकबन्धस्यदुरात्मनः/उवाचलक्ष्मणंरामोमुखेनपरिशुष्यता/कृच्छ्रात्कृच्छ्रतरंप्राप्यदारुणंसत्यविक्रम/व्यसनंजीवितान्तायप्राप्तमप्राप्यतांप्रियाम्/कालस्यसुमहद्वीर्यंसर्वभूतेषुलक्ष्मण/त्वांचमांचनरव्याघ्रव्यसनैःपश्यमोहितौ/नातिभारोऽस्तिदैवस्यसर्वभुतेषुलक्ष्मण/शूराश्चबलवन्तश्चकृतास्त्राश्चरणाजिरे/कालाभिपन्नाःसीदन्तियथावालुकसेतवः/इतिब्रुवाणोदृढसत्यविक्रमो॑महायशादाशरथिःप्रतापवान्/अवेक्ष्यसौमित्रिमुदग्रविक्रमं॑स्थिरांतदास्वांमतिमात्मनाकरोत्/तौतुतत्रस्थितौदृष्ट्वाभ्रातरौरामलक्ष्मणौ/बाहुपाशपरिक्षिप्तौकबन्धोवाक्यमब्रवीत्/तिष्ठतःकिंनुमांदृष्ट्वाक्षुधार्तंक्षत्रियर्षभौ/आहारार्थंतुसंदिष्टौदैवेनगतचेतसौ/तच्छ्रुत्वालक्ष्मणोवाक्यंप्राप्तकालंहितंतदा/उवाचार्तिसमापन्नोविक्रमेकृतनिश्चयः/त्वांचमांचपुरातूर्णमादत्तेराक्षसाधमः/तस्मादसिभ्यामस्याशुबाहूछिन्दावहेगुरू/ततस्तौदेशकालज्ञौखड्गाभ्यामेवराघवौ/अच्छिन्दतांसुसंहृष्टौबाहूतस्यांसदेशयोः/दक्षिणोदक्षिणंबाहुमसक्तमसिनाततः/चिच्छेदरामोवेगेनसव्यंवीरस्तुलक्ष्मणः/सपपातमहाबाहुश्छिन्नबाहुर्महास्वनः/खंचगांचदिशश्चैवनादयञ्जलदोयथा/सनिकृत्तौभुजौदृष्ट्वाशोणितौघपरिप्लुतः/दीनःपप्रच्छतौवीरौकौयुवामितिदानवः/इतितस्यब्रुवाणस्यलक्ष्मणःशुभलक्षणः/शशंसतस्यकाकुत्स्थंकबन्धस्यमहाबलः/अयमिक्ष्वाकुदायादोरामोनामजनैःश्रुतः/अस्यैवावरजंविद्धिभ्रातरंमांचलक्ष्मणम्/अस्यदेवप्रभावस्यवसतोविजनेवने/रक्षसापहृताभार्यायामिच्छन्ताविहागतौ/त्वंतुकोवाकिमर्थंवाकबन्धसदृशोवने/आस्येनोरसिदीप्तेनभग्नजङ्घोविचेष्टसे/एवमुक्तःकबन्धस्तुलक्ष्मणेनोत्तरंवचः/उवाचपरमप्रीतस्तदिन्द्रवचनंस्मरन्/स्वागतंवांनरव्याघ्रौदिष्ट्यापश्यामिचाप्यहम्/दिष्ट्याचेमौनिकृत्तौमेयुवाभ्यांबाहुबन्धनौ/विरूपंयच्चमेरूपंप्राप्तंह्यविनयाद्यथा/तन्मेशृणुनरव्याघ्रतत्त्वतःशंसतस्तव/पुराराममहाबाहोमहाबलपराक्रम/रूपमासीन्ममाचिन्त्यंत्रिषुलोकेषुविश्रुतम्/यथासोमस्यशक्रस्यसूर्यस्यचयथावपुः/सोऽहंरूपमिदंकृत्वालोकवित्रासनंमहत्/ऋषीन्वनगतान्रामत्रासयामिततस्ततः/ततःस्थूलशिरानाममहर्षिःकोपितोमया/संचिन्वन्विविधंवन्यंरूपेणानेनधर्षितः/तेनाहमुक्तःप्रेक्ष्यैवंघोरशापाभिधायिना/एतदेवनृशंसंतेरूपमस्तुविगर्हितम्/समयायाचितःक्रुद्धःशापस्यान्तोभवेदिति/अभिशापकृतस्येतितेनेदंभाषितंवचः/यदाछित्त्वाभुजौरामस्त्वांदहेद्विजनेवने/तदात्वंप्राप्स्यसेरूपंस्वमेवविपुलंशुभम्/श्रियाविराजितंपुत्रंदनोस्त्वंविद्धिलक्ष्मण/इन्द्रकोपादिदंरूपंप्राप्तमेवंरणाजिरे/अहंहितपसोग्रेणपितामहमतोषयम्/दीर्घमायुःसमेप्रादात्ततोमांविभ्रमोऽस्पृशत्/दीर्घमायुर्मयाप्राप्तंकिंमेशक्रःकरिष्यति/इत्येवंबुद्धिमास्थायरणेशक्रमधर्षयम्/तस्यबाहुप्रमुक्तेनवज्रेणशतपर्वणा/सक्थिनीचशिरश्चैवशरीरेसंप्रवेशितम्/समयायाच्यमानःसन्नानयद्यमसादनम्/पितामहवचःसत्यंतदस्त्वितिममाब्रवीत्/अनाहारःकथंशक्तोभग्नसक्थिशिरोमुखः/वज्रेणाभिहतःकालंसुदीर्घमपिजीवितुम्/एवमुक्तस्तुमेशक्रोबाहूयोजनमायतौ/प्रादादास्यंचमेकुक्षौतीक्ष्णदंष्ट्रमकल्पयत्/सोऽहंभुजाभ्यांदीर्घाभ्यांसमाकृष्यवनेचरान्/सिंहद्विपमृगव्याघ्रान्भक्षयामिसमन्ततः/सतुमामब्रवीदिन्द्रोयदारामःसलक्ष्मणः/छेत्स्यतेसमरेबाहूतदास्वर्गंगमिष्यसि/सत्वंरामोऽसिभद्रंतेनाहमन्येनराघव/शक्योहन्तुंयथातत्त्वमेवमुक्तंमहर्षिणा/अहंहिमतिसाचिव्यंकरिष्यामिनरर्षभ/मित्रंचैवोपदेक्ष्यामियुवाभ्यांसंस्कृतोऽग्निना/एवमुक्तस्तुधर्मात्मादनुनातेनराघवः/इदंजगादवचनंलक्ष्मणस्योपशृण्वतः/रावणेनहृतासीताममभार्यायशस्विनी/निष्क्रान्तस्यजनस्थानात्सहभ्रात्रायथासुखम्/नाममात्रंतुजानामिनरूपंतस्यरक्षसः/निवासंवाप्रभावंवावयंतस्यनविद्महे/शोकार्तानामनाथानामेवंविपरिधावताम्/कारुण्यंसदृशंकर्तुमुपकारेचवर्तताम्/काष्ठान्यानीयशुष्काणिकालेभग्नानिकुञ्जरैः/भक्ष्यामस्त्वांवयंवीरश्वभ्रेमहतिकल्पिते/सत्वंसीतांसमाचक्ष्वयेनवायत्रवाहृता/कुरुकल्याणमत्यर्थंयदिजानासितत्त्वतः/एवमुक्तस्तुरामेणवाक्यंदनुरनुत्तमम्/प्रोवाचकुशलोवक्तुंवक्तारमपिराघवम्/दिव्यमस्तिनमेज्ञानंनाभिजानामिमैथिलीम्/यस्तांज्ञास्यतितंवक्ष्येदग्धःस्वंरूपमास्थितः/अदग्धस्यहिविज्ञातुंशक्तिरस्तिनमेप्रभो/राक्षसंतंमहावीर्यंसीतायेनहृतातव/विज्ञानंहिमहद्भ्रष्टंशापदोषेणराघव/स्वकृतेनमयाप्राप्तंरूपंलोकविगर्हितम्/किंतुयावन्नयात्यस्तंसविताश्रान्तवाहनः/तावन्मामवटेक्षिप्त्वादहरामयथाविधि/दग्धस्त्वयाहमवटेन्यायेनरघुनन्दन/वक्ष्यामितमहंवीरयस्तंज्ञास्यतिराक्षसं/तेनसख्यंचकर्तव्यंन्याय्यवृत्तेनराघव/कल्पयिष्यतितेप्रीतःसाहाय्यंलघुविक्रमः/नहितस्यास्त्यविज्ञातंत्रिषुलोकेषुराघव/सर्वान्परिसृतोलोकान्पुरावैकारणान्तरे/एवमुक्तौतुतौवीरौकबन्धेननरेश्वरौ/गिरिप्रदरमासाद्यपावकंविससर्जतुः/लक्ष्मणस्तुमहोल्काभिर्ज्वलिताभिःसमन्ततः/चितामादीपयामाससाप्रजज्वालसर्वतः/तच्छरीरंकबन्धस्यघृतपिण्डोपमंमहत्/मेदसापच्यमानस्यमन्दंदहतिपावक/सविधूयचितामाशुविधूमोऽग्निरिवोत्थितः/अरजेवाससीविभ्रन्मालांदिव्यांमहाबलः/ततश्चितायावेगेनभास्वरोविरजाम्बरः/उत्पपाताशुसंहृष्टःसर्वप्रत्यङ्गभूषणः/विमानेभास्वरेतिष्ठन्हंसयुक्तेयशस्करे/प्रभयाचमहातेजादिशोदशविराजयन्/सोऽन्तरिक्षगतोरामंकबन्धोवाक्यमब्रवीत्/शृणुराघवतत्त्वेनयथासीमामवाप्स्यसि/रामषड्युक्तयोलोकेयाभिःसर्वंविमृश्यते/परिमृष्टोदशान्तेनदशाभागेनसेव्यते/दशाभागगतोहीनस्त्वंरामसहलक्ष्मणः/यत्कृतेव्यसनंप्राप्तंत्वयादारप्रधर्षणम्/तदवश्यंत्वयाकार्यःससुहृत्सुहृदांवर/अकृत्वानहितेसिद्धिमहंपश्यामिचिन्तयन्/श्रूयतांरामवक्ष्यामिसुग्रीवोनामवानरः/भ्रात्रानिरस्तःक्रुद्धेनवालिनाशक्रसूनुना/ऋष्यमूकेगिरिवरेपम्पापर्यन्तशोभिते/निवसत्यात्मवान्वीरश्चतुर्भिःसहवानरैः/वयस्यंतंकुरुक्षिप्रमितोगत्वाद्यराघव/अद्रोहायसमागम्यदीप्यमानेविभावसौ/नचतेसोऽवमन्तव्यःसुग्रीवोवानराधिपः/कृतज्ञःकामरूपीचसहायार्थीचवीर्यवान्/शक्तौह्यद्ययुवांकर्तुंकार्यंतस्यचिकीर्षितम्/कृतार्थोवाकृतार्थोवाकृत्यंतवकरिष्यति/सऋक्षरजसःपुत्रःपम्पामटतिशङ्कितः/भास्करस्यौरसःपुत्रोवालिनाकृतकिल्बिषः/संनिधायायुधंक्षिप्रमृष्यमूकालयंकपिम्/कुरुराघवसत्येनवयस्यंवनचारिणम्/सहिस्थानानिसर्वाणिकार्त्स्न्येनकपिकुञ्जरः/नरमांसाशिनांलोकेनैपुण्यादधिगच्छति/नतस्याविदितंलोकेकिंचिदस्तिहिराघव/यावत्सूर्यःप्रतपतिसहस्रांशुररिंदम/सनदीर्विपुलाञ्शैलान्गिरिदुर्गाणिकन्दरान्/अन्विष्यवानरैःसार्धंपत्नींतेऽधिगमिष्यति/वानरांश्चमहाकायान्प्रेषयिष्यतिराघव/दिशोविचेतुंतांसीतांत्वद्वियोगेनशोचतीम्/समेरुशृङ्गाग्रगतामनिन्दितां॑प्रविश्यपातालतलेऽपिवाश्रिताम्/प्लवंगमानांप्रवरस्तवप्रियां॑निहत्यरक्षांसिपुनःप्रदास्यति37227/निदर्शयित्वारामायसीतायाःप्रतिपादने3731/वाक्यमन्वर्थमर्थज्ञःकबन्धःपुनरब्रवीत्/एषरामशिवःपन्थायत्रैतेपुष्पिताद्रुमाः/प्रतीचींदिशमाश्रित्यप्रकाशन्तेमनोरमाः/जम्बूप्रियालपनसाःप्लक्षन्यग्रोधतिन्दुकाः/अश्वत्थाःकर्णिकाराश्चचूताश्चान्येचपादपाः/तानारुह्याथवाभूमौपातयित्वाचतान्बलात्/फलान्यमृतकल्पानिभक्षयन्तौगमिष्यथः/चङ्क्रमन्तौवरान्देशाञ्शैलाच्छैलंवनाद्वनम्/ततःपुष्करिणींवीरौपम्पांनामगमिष्यथः/अशर्करामविभ्रंशांसमतीर्थमशैवलाम्/रामसंजातवालूकांकमलोत्पलशोभिताम्/तत्रहंसाःप्लवाःक्रौञ्चाःकुरराश्चैवराघव/वल्गुस्वरानिकूजन्तिपम्पासलिलगोचराः/नोद्विजन्तेनरान्दृष्ट्वावधस्याकोविदाःशुभाः/घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः/रोहितान्वक्रतुण्डांश्चनलमीनांश्चराघव/पम्पायामिषुभिर्मत्स्यांस्तत्ररामवरान्हतान्/निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्/तवभक्त्यासमायुक्तोलक्ष्मणःसंप्रदास्यति/भृशंतेखादतोमत्स्यान्पम्पायाःपुष्पसंचये/पद्मगन्धिशिवंवारिसुखशीतमनामयम्/उद्धृत्यसतदाक्लिष्टंरूप्यस्फटिकसंनिभम्/अथपुष्करपर्णेनलक्ष्मणःपाययिष्यति/स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः/अपांलोभादुपावृत्तान्वृषभानिवनर्दतः/रूपान्वितांश्चपम्पायांद्रक्ष्यसित्वंनरोत्तम/सायाह्नेविचरन्रामविटपीमाल्यधारिणः/शीतोदकंचपम्पायांदृष्ट्वाशोकंविहास्यसि/सुमनोभिश्चितांस्तत्रतिलकान्नक्तमालकान्/उत्पलानिचफुल्लानिपङ्कजानिचराघव/नतानिकश्चिन्माल्यानितत्रारोपयितानरः/मतङ्गशिष्यास्तत्रासन्नृषयःसुसमाहितः/तेषांभाराभितप्तानांवन्यमाहरतांगुरोः/येप्रपेतुर्महींतूर्णंशरीरात्स्वेदबिन्दवः/तानिमाल्यानिजातानिमुनीनांतपसातदा/स्वेदबिन्दुसमुत्थानिनविनश्यन्तिराघव/तेषामद्यापितत्रैवदृश्यतेपरिचारिणी/श्रमणीशबरीनामकाकुत्स्थचिरजीविनी/त्वांतुधर्मेस्थितानित्यंसर्वभूतनमस्कृतम्/दृष्ट्वादेवोपमंरामस्वर्गलोकंगमिष्यति/ततस्तद्रामपम्पायास्तीरमाश्रित्यपश्चिमम्/आश्रमस्थानमतुलंगुह्यंकाकुत्स्थपश्यसि/नतत्राक्रमितुंनागाःशक्नुवन्तितमाश्रमम्/ऋषेस्तस्यमतङ्गस्यविधानात्तच्चकाननम्/तस्मिन्नन्दनसंकाशेदेवारण्योपमेवने/नानाविहगसंकीर्णेरंस्यसेरामनिर्वृतः/ऋष्यमूकस्तुपम्पायाःपुरस्तात्पुष्पितद्रुमः/सुदुःखारोहणोनामशिशुनागाभिरक्षितः/उदारोब्रह्मणाचैवपूर्वकालेविनिर्मितः/शयानःपुरुषोरामतस्यशैलस्यमूर्धनि/यत्स्वप्नेलभतेवित्तंतत्प्रबुद्धोऽधिगच्छति/नत्वेनंविषमाचारःपापकर्माधिरोहति/तत्रैवप्रहरन्त्येनंसुप्तमादायराक्षसाः/ततोऽपिशिशुनागानामाक्रन्दःश्रूयतेमहान्/क्रीडतांरामपम्पायांमतङ्गारण्यवासिनाम्/सिक्तारुधिरधाराभिःसंहत्यपरमद्विपाः/प्रचरन्तिपृथक्कीर्णामेघवर्णास्तरस्विनः/तेतत्रपीत्वापानीयंविमलंशीतमव्ययम्/निवृत्ताःसंविगाहन्तेवनानिवनगोचराः/रामतस्यतुशैलस्यमहतीशोभतेगुहा/शिलापिधानाकाकुत्स्थदुःखंचास्याःप्रवेशनम्/तस्यागुहायाःप्राग्द्वारेमहाञ्शीतोदकोह्रदः/बहुमूलफलोरम्योनानानगसमावृतः/तस्यांवसतिसुग्रीवश्चतुर्भिःसहवानरैः/कदाचिच्छिखरेतस्यपर्वतस्यावतिष्ठते/कबन्धस्त्वनुशास्यैवंतावुभौरामलक्ष्मणौ/स्रग्वीभास्करवर्णाभःखेव्यरोचतवीर्यवान्/तंतुखस्थंमहाभागंकबन्धंरामलक्ष्मणौ/प्रस्थितौत्वंव्रजस्वेतिवाक्यमूचतुरन्तिकात्/गम्यतांकार्यसिद्ध्यर्थमितितावब्रवीच्चसः/सुप्रीतौतावनुज्ञाप्यकबन्धःप्रस्थितस्तदा/सतत्कबन्धःप्रतिपद्यरूपं॑वृतःश्रियाभास्करतुल्यदेहः/निदर्शयन्राममवेक्ष्यखस्थः॑सख्यंकुरुष्वेतितदाभ्युवाच/तौकबन्धेनतंमार्गंपम्पायादर्शितंवने/आतस्थतुर्दिशंगृह्यप्रतीचींनृवरात्मजौ/तौशैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान्/वीक्षन्तौजग्मतुर्द्रष्टुंसुग्रीवंरामलक्ष्मणौ/कृत्वाचशैलपृष्ठेतुतौवासंरघुनन्दनौ/पम्पायाःपश्चिमंतीरंराघवावुपतस्थतुः/तौपुष्करिण्याःपम्पायास्तीरमासाद्यपश्चिमम्/अपश्यतांततस्तत्रशबर्यारम्यमाश्रमम्/तौतमाश्रममासाद्यद्रुमैर्बहुभिरावृतम्/सुरम्यमभिवीक्षन्तौशबरीमभ्युपेयतुः/तौतुदृष्ट्वातदासिद्धासमुत्थायकृताञ्जलिः/पादौजग्राहरामस्यलक्ष्मणस्यचधीमतः/तामुवाचततोरामःश्रमणींसंशितव्रताम्/कच्चित्तेनिर्जिताविघ्नाःकच्चित्तेवर्धतेतपः/कच्चित्तेनियतःकोपआहारश्चतपोधने/कच्चित्तेनियमाःप्राप्ताःकच्चित्तेमनसःसुखम्/कच्चित्तेगुरुशुश्रूषासफलाचारुभाषिणि/रामेणतापसीपृष्ठासासिद्धासिद्धसंमता/शशंसशबरीवृद्धारामायप्रत्युपस्थिता/चित्रकूटंत्वयिप्राप्तेविमानैरतुलप्रभैः/इतस्तेदिवमारूढायानहंपर्यचारिषम्/तैश्चाहमुक्ताधर्मज्ञैर्महाभागैर्महर्षिभिः/आगमिष्यतितेरामःसुपुण्यमिममाश्रमम्/सतेप्रतिग्रहीतव्यःसौमित्रिसहितोऽतिथिः/तंचदृष्ट्वावरांल्लोकानक्षयांस्त्वंगमिष्यसि/मयातुविविधंवन्यंसंचितंपुरुषर्षभ/तवार्थेपुरुषव्याघ्रपम्पायास्तीरसंभवम्/एवमुक्तःसधर्मात्माशबर्याशबरीमिदम्/राघवःप्राहविज्ञानेतांनित्यमबहिष्कृताम्/दनोःसकाशात्तत्त्वेनप्रभावंतेमहात्मनः/श्रुतंप्रत्यक्षमिच्छामिसंद्रष्टुंयदिमन्यसे/एतत्तुवचनंश्रुत्वारामवक्त्राद्विनिःसृतम्/शबरीदर्शयामासतावुभौतद्वनंमहत्/पश्यमेघघनप्रख्यंमृगपक्षिसमाकुलम्/मतङ्गवनमित्येवविश्रुतंरघुनन्दन/इहतेभावितात्मानोगुरवोमेमहाद्युते/जुहवांश्चक्रिरेतीर्थंमन्त्रवन्मन्त्रपूजितम्/इयंप्रत्यक्स्थलीवेदीयत्रतेमेसुसत्कृताः/पुष्पोपहारंकुर्वन्तिश्रमादुद्वेपिभिःकरैः/तेषांतपःप्रभावेनपश्याद्यापिरघूत्तम/द्योतयन्तिदिशःसर्वाःश्रियावेद्योऽतुलप्रभाः/अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः/चिन्तितेऽभ्यागतान्पश्यसमेतान्सप्तसागरान्/कृताभिषेकैस्तैर्न्यस्तावल्कलाःपादपेष्विह/अद्यापिनविशुष्यन्तिप्रदेशेरघुनन्दन/कृत्स्नंवनमिदंदृष्टंश्रोतव्यंचश्रुतंत्वया/तदिच्छाम्यभ्यनुज्ञातात्यक्तुमेतत्कलेवरम्/तेषामिच्छाम्यहंगन्तुंसमीपंभावितात्मनाम्/मुनीनामाश्रंमोयेषामहंचपरिचारिणी/धर्मिष्ठंतुवचःश्रुत्वाराघवःसहलक्ष्मणः/अनुजानामिगच्छेतिप्रहृष्टवदनोऽब्रवीत्/अनुज्ञातातुरामेणहुत्वात्मानंहुताशने/ज्वलत्पावकसंकाशास्वर्गमेवजगामसा/यत्रतेसुकृतात्मानोविहरन्तिमहर्षयः/तत्पुण्यंशबरीस्थानंजगामात्मसमाधिना/दिवंतुतस्यांयातायांशबर्यांस्वेनकर्मणा/लक्ष्मणेनसहभ्रात्राचिन्तयामासराघवः3751/चिन्तयित्वातुधर्मात्माप्रभावंतंमहात्मनाम्/हितकारिणमेकाग्रंलक्ष्मणंराघवोऽब्रवीत्/दृष्टोऽयमाश्रमःसौम्यबह्वाश्चर्यःकृतात्मनाम्/विश्वस्तमृगशार्दूलोनानाविहगसेवितः/सप्तानांचसमुद्राणामेषुतीर्थेषुलक्ष्मण/उपस्पृष्टंचविधिवत्पितरश्चापितर्पिताः/प्रनष्टमशुभंयत्तत्कल्याणंसमुपस्थितम्/तेनत्वेतत्प्रहृष्टंमेमनोलक्ष्मणसंप्रति/हृदयेहिनरव्याघ्रशुभमाविर्भविष्यति/तदागच्छगमिष्यावःपम्पांतांप्रियदर्शनाम्/ऋश्यमूकोगिरिर्यत्रनातिदूरेप्रकाशते/यस्मिन्वसतिधर्मात्मासुग्रीवोऽंशुमतःसुतः/नित्यंवालिभयात्त्रस्तश्चतुर्भिःसहवानरैः/अभित्वरेचतंद्रष्टुंसुग्रीवंवानरर्षभम्/तदधीनंहिमेसौम्यसीतायाःपरिमार्गणम्/इतिब्रुवाणंतंरामंसौमित्रिरिदमब्रवीत्/गच्छावस्त्वरितंतत्रममापित्वरतेमनः/आश्रमात्तुततस्तस्मान्निष्क्रम्यसविशांपतिः/आजगामततःपम्पांलक्ष्मणेनसहाभिभूः/समीक्षमाणःपुष्पाढ्यंसर्वतोविपुलद्रुमम्/कोयष्टिभिश्चार्जुनकैःशतपत्रैश्चकीचकैः/एतैश्चान्यैश्चविविधैर्नादितंतद्वनंमहत्/सरामोविधिवान्वृक्षान्सरांसिविविधानिच/पश्यन्कामाभिसंतप्तोजगामपरमंह्रदम्/सतामासाद्यवैरामोदूरादुदकवाहिनीम्/मतङ्गसरसंनामह्रदंसमवगाहत/सतुशोकसमाविष्टोरामोदशरथात्मजः/विवेशनलिनींपम्पांपङ्कजैश्चसमावृताम्/तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्/रम्योपवनसंबाधांपद्मसंपीडितोदकाम्/स्फटिकोपमतोयाढ्यांश्लक्ष्णवालुकसंतताम्/मत्स्यकच्छपसंबाधांतीरस्थद्रुमशोभिताम्/सखीभिरिवयुक्ताभिर्लताभिरनुवेष्टिताम्/किंनरोरगगन्धर्वयक्षराक्षससेविताम्/नानाद्रुमलताकीर्णांशीतवारिनिधिंशुभाम्/पद्मैःसौगन्धिकैस्ताम्रांशुक्लांकुमुदमण्डलैः/नीलांकुवलयोद्धातैर्बहुवर्णांकुथामिव/अरविन्दोत्पलवतींपद्मसौगन्धिकायुताम्/पुष्पिताम्रवणोपेतांबर्हिणोद्घुष्टनादिताम्/सतांदृष्ट्वाततःपम्पांरामःसौमित्रिणासह/विललापचतेजस्वीकामाद्दशरथात्मजः/तिलकैर्बीजपूरैश्चवटैःशुक्लद्रुमैस्तथा/पुष्पितैःकरवीरैश्चपुंनागैश्चसुपुष्पितैः/मालतीकुन्दगुल्मैश्चभण्डीरैर्निचुलैस्तथा/अशोकैःसप्तपर्णैश्चकेतकैरतिमुक्तकैः/अन्यैश्चविविधैर्वृक्षैःप्रमदेवोपशोभिताम्/अस्यास्तीरेतुपूर्वोक्तःपर्वतोधातुमण्डितः/ऋश्यमूकइतिख्यातश्चित्रपुष्पितकाननः/हरिरृक्षरजोनाम्नःपुत्रस्तस्यमहात्मनः/अध्यास्तेतंमहावीर्यःसुग्रीवइतिविश्रुतः/सुग्रीवमभिगच्छत्वंवानरेन्द्रंनरर्षभ/इत्युवाचपुनर्वाक्यंलक्ष्मणंसत्यविक्रमम्/ततोमहद्वर्त्मचदूरसंक्रमं॑क्रमेणगत्वाप्रविलोकयन्वनम्/ददर्शपम्पांशुभदर्शकाननाम्॑अनेकनानाविधपक्षिसंकुलाम्/4Kiskindhakand/सतांपुष्करिणींगत्वापद्मोत्पलझषाकुलाम्/रामःसौमित्रिसहितोविललापाकुलेन्द्रियः/तस्यदृष्ट्वैवतांहर्षादिन्द्रियाणिचकम्पिरे/सकामवशमापन्नःसौमित्रिमिदमब्रवीत्/सौमित्रेपश्यपम्पायाःकाननंशुभदर्शनम्/यत्रराजन्तिशैलाभाद्रुमाःसशिखराइव/मांतुशोकाभिसंतप्तमाधयःपीडयन्तिवै/भरतस्यचदुःखेनवैदेह्याहरणेनच/अधिकंप्रविभात्येतन्नीलपीतंतुशाद्वलम्/द्रुमाणांविविधैःपुष्पैःपरिस्तोमैरिवार्पितम्/सुखानिलोऽयंसौमित्रेकालःप्रचुरमन्मथः/गन्धवान्सुरभिर्मासोजातपुष्पफलद्रुमः/पश्यरूपाणिसौमित्रेवनानांपुष्पशालिनाम्/सृजतांपुष्पवर्षाणिवर्षंतोयमुचामिव/प्रस्तरेषुचरम्येषुविविधाःकाननद्रुमाः/वायुवेगप्रचलिताःपुष्पैरवकिरन्तिगाम्/मारुतःसुखंसंस्पर्शेवातिचन्दनशीतलः/षट्पदैरनुकूजद्भिर्वनेषुमधुगन्धिषु/गिरिप्रस्थेषुरम्येषुपुष्पवद्भिर्मनोरमैः/संसक्तशिखराशैलाविराजन्तिमहाद्रुमैः/पुष्पिताग्रांश्चपश्येमान्कर्णिकारान्समन्ततः/हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव/अयंवसन्तःसौमित्रेनानाविहगनादितः/सीतयाविप्रहीणस्यशोकसंदीपनोमम/मांहिशोकसमाक्रान्तंसंतापयतिमन्मथः/हृष्टःप्रवदमानश्चसमाह्वयतिकोकिलः/एषदात्यूहकोहृष्टोरम्येमांवननिर्झरे/प्रणदन्मन्मथाविष्टंशोचयिष्यतिलक्ष्मण/विमिश्राविहगाःपुम्भिरात्मव्यूहाभिनन्दिताः/भृङ्गराजप्रमुदिताःसौमित्रेमधुरस्वराः/मांहिसामृगशावाक्षीचिन्ताशोकबलात्कृतम्/संतापयतिसौमित्रेक्रूरश्चैत्रवनानिलः/शिखिनीभिःपरिवृतामयूरागिरिसानुषु/मन्मथाभिपरीतस्यमममन्मथवर्धनाः/पश्यलक्ष्णमनृत्यन्तंमयूरमुपनृत्यति/शिखिनीमन्मथार्तैषाभर्तारंगिरिसानुषु/मयूरस्यवनेनूनंरक्षसानहृताप्रिया/ममत्वयंविनावासःपुष्पमासेसुदुःसहः/पश्यलक्ष्मणपुष्पाणिनिष्फलानिभवन्तिमे/पुष्पभारसमृद्धानांवनानांशिशिरात्यये/वदन्तिरावंमुदिताःशकुनाःसंघशःकलम्/आह्वयन्तइवान्योन्यंकामोन्मादकरामम/नूनंपरवशासीतासापिशोचत्यहंयथा/श्यामापद्मपलाशाक्षीमृदुभाषाचमेप्रिया/एषपुष्पवहोवायुःसुखस्पर्शोहिमावहः/तांविचिन्तयतःकान्तांपावकप्रतिमोमम/तांविनाथविहंगोऽसौपक्षीप्रणदितस्तदा/वायसःपादपगतःप्रहृष्टमभिनर्दति/एषवैतत्रवैदेह्याविहगःप्रतिहारकः/पक्षीमांतुविशालाक्ष्याःसमीपमुपनेष्यति/पश्यलक्ष्मणसंनादंवनेमदविवर्धनम्/पुष्पिताग्रेषुवृक्षेषुद्विजानामुपकूजताम्/सौमित्रेपश्यपम्पायाश्चित्रासुवनराजिषु/नलिनानिप्रकाशन्तेजलेतरुणसूर्यवत्/एषाप्रसन्नसलिलापद्मनीलोत्पलायता/हंसकारण्डवाकीर्णापम्पासौगन्धिकायुता/चक्रवाकयुतानित्यंचित्रप्रस्थवनान्तरा/मातङ्गमृगयूथैश्चशोभतेसलिलार्थिभिः/पद्मकोशपलाशानिद्रष्टुंदृष्टिर्हिमन्यते/सीतायानेत्रकोशाभ्यांसदृशानीतिलक्ष्मण/पद्मकेसरसंसृष्टोवृक्षान्तरविनिःसृतः/निःश्वासइवसीतायावातिवायुर्मनोहरः/सौमित्रेपश्यपम्पायादक्षिणेगिरिसानुनि/पुष्पितांकर्णिकारस्ययष्टिंपरमशोभनाम्/अधिकंशैलराजोऽयंधातुभिस्तुविभूषितः/विचित्रंसृजतेरेणुंवायुवेगविघट्टितम्/गिरिप्रस्थास्तुसौमित्रेसर्वतःसंप्रपुष्पितैः/निष्पत्रैःसर्वतोरम्यैःप्रदीपाइवकुंशुकैः/पम्पातीररुहाश्चेमेसंसक्तामधुगन्धिनः/मालतीमल्लिकाषण्डाःकरवीराश्चपुष्पिताः/केतक्यःसिन्दुवाराश्चवासन्त्यश्चसुपुष्पिताः/माधव्योगन्धपूर्णाश्चकुन्दगुल्माश्चसर्वशः/चिरिबिल्वामधूकाश्चवञ्जुलाबकुलास्तथा/चम्पकास्तिलकाश्चैवनागवृक्षाश्चपुष्पिताः/नीपाश्चवरणाश्चैवखर्जूराश्चसुपुष्पिताः/अङ्कोलाश्चकुरण्टाश्चचूर्णकाःपारिभद्रकाः/चूताःपाटलयश्चैवकोविदाराश्चपुष्पिताः/मुचुकुन्दार्जुनाश्चैवदृश्यन्तेगिरिसानुषु/केतकोद्दालकाश्चैवशिरीषाःशिंशपाधवाः/शाल्मल्यःकिंशुकाश्चैवरक्ताःकुरबकास्तथा/तिनिशानक्तमालाश्चचन्दनाःस्यन्दनास्तथा/विविधाविविधैःपुष्पैस्तैरेवनगसानुषु/विकीर्णैःपीतरक्ताभाःसौमित्रेप्रस्तराःकृताः/हिमान्तेपश्यसौमित्रेवृक्षाणांपुष्पसंभवम्/पुष्पमासेहितरवःसंघर्षादिवपुष्पिताः/पश्यशीतजलांचेमांसौमित्रेपुष्करायुताम्/चक्रवाकानुचरितांकारण्डवनिषेविताम्/प्लवैःक्रौञ्चैश्चसंपूर्णांवराहमृगसेविताम्/अधिकंशोभतेपम्पाविकूजद्भिर्विहंगमैः/दीपयन्तीवमेकामंविविधामुदिताद्विजाः/श्यामांचन्द्रमुखींस्मृत्वाप्रियांपद्मनिभेक्षणाम्/पयसानुषुचित्रेषुमृगीभिःसहितान्मृगान्/मांपुनर्मृगशावाक्ष्यावैदेह्याविरहीकृतम्/एवंसविलपंस्तत्रशोकोपहतचेतनः/अवेक्षतशिवांपम्पांरम्यवारिवहांशुभाम्/निरीक्षमाणःसहसामहात्मा॑सर्वंवनंनिर्झरकन्दरंच/उद्विग्नचेताःसहलक्ष्मणेन॑विचार्यदुःखोपहतःप्रतस्थे/तावृष्यमूकंसहितौप्रयातौ॑सुग्रीवशाखामृगसेवितंतम्/त्रस्तास्तुदृष्ट्वाहरयोबभूवुर्॑महौजसौराघवलक्ष्मणौतौ/तौतुदृष्ट्वामहात्मानौभ्रातरौरामलक्ष्मणौ/वरायुधधरौवीरौसुग्रीवःशङ्कितोऽभवत्/उद्विग्नहृदयःसर्वादिशःसमवलोकयन्/नव्यतिष्ठतकस्मिंश्चिद्देशेवानरपुंगवः/नैवचक्रेमनःस्थानेवीक्षमाणोमहाबलौ/कपेःपरमभीतस्यचित्तंव्यवससादह/चिन्तयित्वासधर्मात्माविमृश्यगुरुलाघवम्/सुग्रीवःपरमोद्विग्नःसर्वैरनुचरैःसह/ततःससचिवेभ्यस्तुसुग्रीवःप्लवगाधिपः/शशंसपरमोद्विग्नःपश्यंस्तौरामलक्ष्मणौ/एतौवनमिदंदुर्गंवालिप्रणिहितौध्रुवम्/छद्मनाचीरवसनौप्रचरन्ताविहागतौ/ततःसुग्रीवसचिवादृष्ट्वापरमधन्विनौ/जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्/तेक्षिप्रमभिगम्याथयूथपायूथपर्षभम्/हरयोवानरश्रेष्ठंपरिवार्योपतस्थिरे/एकमेकायनगताःप्लवमानागिरेर्गिरिम्/प्रकम्पयन्तोवेगेनगिरीणांशिखराणिच/ततःशाखामृगाःसर्वेप्लवमानामहाबलाः/बभञ्जुश्चनगांस्तत्रपुष्पितान्दुर्गसंश्रितान्/आप्लवन्तोहरिवराःसर्वतस्तंमहागिरिम्/मृगमार्जारशार्दूलांस्त्रासयन्तोययुस्तदा/ततःसुग्रीवसचिवाःपर्वतेन्द्रंसमाश्रिताः/संगम्यकपिमुख्येनसर्वेप्राञ्जलयःस्थिताः/ततस्तंभयसंत्रस्तंवालिकिल्बिषशङ्कितम्/उवाचहनुमान्वाक्यंसुग्रीवंवाक्यकोविदः/यस्मादुद्विग्नचेतास्त्वंप्रद्रुतोहरिपुंगव/तंक्रूरदर्शनंक्रूरंनेहपश्यामिवालिनम्/यस्मात्तवभयंसौम्यपूर्वजात्पापकर्मणः/सनेहवालीदुष्टात्मानतेपश्याम्यहंभयम्/अहोशाखामृगत्वंतेव्यक्तमेवप्लवंगम/लघुचित्ततयात्मानंनस्थापयसियोमतौ/बुद्धिविज्ञानसंपन्नइङ्गितैःसर्वमाचर/नह्यबुद्धिंगतोराजासर्वभूतानिशास्तिहि/सुग्रीवस्तुशुभंवाक्यंश्रुत्वासर्वंहनूमतः/ततःशुभतरंवाक्यंहनूमन्तमुवाचह/दीर्घबाहूविशालाक्षौशरचापासिधारिणौ/कस्यनस्याद्भयंदृष्ट्वाएतौसुरसुतोपमौ/वालिप्रणिहितावेतौशङ्केऽहंपुरुषोत्तमौ/राजानोबहुमित्राश्चविश्वासोनात्रहिक्षमः/अरयश्चमनुष्येणविज्ञेयाश्छन्नचारिणः/विश्वस्तानामविश्वस्ताश्छिद्रेषुप्रहरन्तिहि/कृत्येषुवालीमेधावीराजानोबहुदर्शनाः/भवन्तिपरहन्तारस्तेज्ञेयाःप्राकृतैर्नरैः/तौत्वयाप्राकृतेनैवगत्वाज्ञेयौप्लवंगम/शङ्कितानांप्रकारैश्चरूपव्याभाषणेनच/लक्षयस्वतयोर्भावंप्रहृष्टमनसौयदि/विश्वासयन्प्रशंसाभिरिङ्गितैश्चपुनःपुनः/ममैवाभिमुखंस्थित्वापृच्छत्वंहरिपुंगव/प्रयोजनंप्रवेशस्यवनस्यास्यधनुर्धरौ/शुद्धात्मानौयदित्वेतौजानीहित्वंप्लवंगम/व्याभाषितैर्वारूपैर्वाविज्ञेयादुष्टतानयोः/इत्येवंकपिराजेनसंदिष्टोमारुतात्मजः/चकारगमनेबुद्धिंयत्रतौरामलक्ष्मणौ/तथेतिसंपूज्यवचस्तुतस्य॑कपेःसुभीतस्यदुरासदस्य/महानुभावोहनुमान्ययौतदा॑सयत्ररामोऽतिबलश्चलक्ष्मणः/वचोविज्ञायहनुमान्सुग्रीवस्यमहात्मनः/पर्वतादृश्यमूकात्तुपुप्लुवेयत्रराघवौ/सतत्रगत्वाहनुमान्बलवान्वानरोत्तमः/उपचक्रामतौवाग्भिर्मृद्वीभिःसत्यविक्रमः/स्वकंरूपंपरित्यज्यभिक्षुरूपेणवानरः/आबभाषेचतौवीरौयथावत्प्रशशंसच/राजर्षिदेवप्रतिमौतापसौसंशितव्रतौ/देशंकथमिमंप्राप्तौभवन्तौवरवर्णिनौ/त्रासयन्तौमृगगणानन्यांश्चवनचारिणः/पम्पातीररुहान्वृक्षान्वीक्षमाणौसमन्ततः/इमांनदींशुभजलांशोभयन्तौतरस्विनौ/धैर्यवन्तौसुवर्णाभौकौयुवांचीरवाससौ/सिंहविप्रेक्षितौवीरौसिंहातिबलविक्रमौ/शक्रचापनिभेचापेप्रगृह्यविपुलैर्भुजैः/श्रीमन्तौरूपसंपन्नौवृषभश्रेष्ठविक्रमौ/हस्तिहस्तोपमभुजौद्युतिमन्तौनरर्षभौ/प्रभयापर्वतेन्द्रोऽयंयुवयोरवभासितः/राज्यार्हावमरप्रख्यौकथंदेशमिहागतौ/पद्मपत्रेक्षणौवीरौजटामण्डलधारिणौ/अन्योन्यसदृशौवीरौदेवलोकादिवागतौ/यदृच्छयेवसंप्राप्तौचन्द्रसूर्यौवसुंधराम्/विशालवक्षसौवीरौमानुषौदेवरूपिणौ/सिंहस्कन्धौमहासत्त्वौसमदाविवगोवृषौ/आयताश्चसुवृत्ताश्चबाहवःपरिघोत्तमाः/सर्वभूषणभूषार्हाःकिमर्थंनविभूषितः/उभौयोग्यावहंमन्येरक्षितुंपृथिवीमिमाम्/ससागरवनांकृत्स्नांविन्ध्यमेरुविभूषिताम्/इमेचधनुषीचित्रेश्लक्ष्णेचित्रानुलेपने/प्रकाशेतेयथेन्द्रस्यवज्रेहेमविभूषिते/संपूर्णानिशितैर्बाणैर्तूणाश्चशुभदर्शनाः/जीवितान्तकरैर्घोरैर्ज्वलद्भिरिवपन्नगैः/महाप्रमाणौविपुलौतप्तहाटकभूषितौ/खड्गावेतौविराजेतेनिर्मुक्तभुजगाविव/एवंमांपरिभाषन्तंकस्माद्वैनाभिभाषथः/सुग्रीवोनामधर्मात्माकश्चिद्वानरयूथपः/वीरोविनिकृतोभ्रात्राजगद्भ्रमतिदुःखितः/प्राप्तोऽहंप्रेषितस्तेनसुग्रीवेणमहात्मना/राज्ञावानरमुख्यानांहनुमान्नामवानरः/युवाभ्यांसहधर्मात्मासुग्रीवःसख्यमिच्छति/तस्यमांसचिवंवित्तंवानरंपवनात्मजम्/भिक्षुरूपप्रतिच्छन्नंसुग्रीवप्रियकाम्यया/ऋश्यमूकादिहप्राप्तंकामगंकामरूपिणम्/एवमुक्त्वातुहनुमांस्तौवीरौरामलक्ष्मणौ/वाक्यज्ञौवाक्यकुशलःपुनर्नोवाचकिंचन/एतच्छ्रुत्वावचस्तस्यरामोलक्ष्मणमब्रवीत्/प्रहृष्टवदनःश्रीमान्भ्रातरंपार्श्वतःस्थितम्/सचिवोऽयंकपीन्द्रस्यसुग्रीवस्यमहात्मनः/तमेवकाङ्क्षमाणस्यममान्तिकमुपागतः/तमभ्यभाषसौमित्रेसुग्रीवसचिवंकपिम्/वाक्यज्ञंमधुरैर्वाक्यैःस्नेहयुक्तमरिंदमम्/ततःप्रहृष्टोहनुमान्कृत्यवानितितद्वचः/श्रुत्वामधुरसंभाषंसुग्रीवंमनसागतः/भव्योराज्यागमस्तस्यसुग्रीवस्यमहात्मनः/यदयंकृत्यवान्प्राप्तःकृत्यंचैतदुपागतम्/ततःपरमसंहृष्टोहनूमान्प्लवगर्षभः/प्रत्युवाचततोवाक्यंरामंवाक्यविशारदः/किमर्थंत्वंवनंघोरंपम्पाकाननमण्डितम्/आगतःसानुजोदुर्गंनानाव्यालमृगायुतम्/तस्यतद्वचनंश्रुत्वालक्ष्मणोरामचोदितः/आचचक्षेमहात्मानंरामंदशरथात्मजम्/राजादशरथोनामद्युतिमान्धर्मवत्सलः/तस्यायंपूर्वजःपुत्रोरामोनामजनैःश्रुतः/शरण्यःसर्वभूतानांपितुर्निर्देशपारगः/वीरोदशरथस्यायंपुत्राणांगुणवत्तरः/राज्याद्भ्रष्टोवनेवस्तुंमयासार्धमिहागतः/भार्ययाचमहातेजाःसीतयानुगतोवशी/दिनक्षयेमहातेजाःप्रभयेवदिवाकरः/अहमस्यावरोभ्रातागुणैर्दास्यमुपागतः/कृतज्ञस्यबहुज्ञस्यलक्ष्मणोनामनामतः/सुखार्हस्यमहार्हस्यसर्वभूतहितात्मनः/ऐश्वर्येणविहीनस्यवनवासाश्रितस्यच/रक्षसापहृताभार्यारहितेकामरूपिणा/तच्चनज्ञायतेरक्षःपत्नीयेनास्यसाहृता/दनुर्नामश्रियःपुत्रःशापाद्राक्षसतांगतः/आख्यातस्तेनसुग्रीवःसमर्थोवानराधिपः/सज्ञास्यतिमहावीर्यस्तवभार्यापहारिणम्/एवमुक्त्वादनुःस्वर्गंभ्राजमानोगतःसुखम्/एतत्तेसर्वमाख्यातंयाथातथ्येनपृच्छतः/अहंचैवहिरामश्चसुग्रीवंशरणंगतौ/एषदत्त्वाचवित्तानिप्राप्यचानुत्तमंयशः/लोकनाथःपुराभूत्वासुग्रीवंनाथमिच्छति/शोकाभिभूतेरामेतुशोकार्तेशरणंगते/कर्तुमर्हतिसुग्रीवःप्रसादंसहयूथपैः/एवंब्रुवाणंसौमित्रिंकरुणंसाश्रुपातनम्/हनूमान्प्रत्युवाचेदंवाक्यंवाक्यविशारदः/ईदृशाबुद्धिसंपन्नाजितक्रोधाजितेन्द्रियाः/द्रष्टव्यावानरेन्द्रेणदिष्ट्यादर्शनमागताः/सहिराज्याच्चविभ्रष्टःकृतवैरश्चवालिना/हृतदारोवनेत्रस्तोभ्रात्राविनिकृतोभृशम्/करिष्यतिससाहाय्यंयुवयोर्भास्करात्मजः/सुग्रीवःसहचास्माभिःसीतायाःपरिमार्गणे/इत्येवमुक्त्वाहनुमाञ्श्लक्ष्णंमधुरयागिरा/बभाषेसोऽभिगच्छामःसुग्रीवमितिराघवम्/एवंब्रुवाणंधर्मात्माहनूमन्तंसलक्ष्मणः/प्रतिपूज्ययथान्यायमिदंप्रोवाचराघवम्/कपिःकथयतेहृष्टोयथायंमारुतात्मजः/कृत्यवान्सोऽपिसंप्राप्तःकृतकृत्योऽसिराघव/प्रसन्नमुखवर्णश्चव्यक्तंहृष्टश्चभाषते/नानृतंवक्ष्यतेवीरोहनूमान्मारुतात्मजः/ततःसतुमहाप्राज्ञोहनूमान्मारुतात्मजः/जगामादायतौवीरौहरिराजायराघवौ/सतुविपुलयशाःकपिप्रवीरः॑पवनसुतःकृतकृत्यवत्प्रहृष्टः/गिरिवरमुरुविक्रमःप्रयातः॑सशुभमतिःसहरामलक्ष्मणाभ्याम्/ऋश्यमूकात्तुहनुमान्गत्वातंमलयंगिरम्/आचचक्षेतदावीरौकपिराजायराघवौ/अयंरामोमहाप्राज्ञःसंप्राप्तोदृढविक्रमः/लक्ष्मणेनसहभ्रात्रारामोऽयंसत्यविक्रमः/इक्ष्वाकूणांकुलेजातोरामोदशरथात्मजः/धर्मेनिगदितश्चैवपितुर्निर्देशपालकः/तस्यास्यवसतोऽरण्येनियतस्यमहात्मनः/रक्षसापहृताभार्यासत्वांशरणमागतः/राजसूयाश्वमेधैश्चवह्निर्येनाभितर्पितः/दक्षिणाश्चतथोत्सृष्टागावःशतसहस्रशः/तपसासत्यवाक्येनवसुधायेनपालिता/स्त्रीहेतोस्तस्यपुत्रोऽयंरामस्त्वांशरणंगतः/भवतासख्यकामौतौभ्रातरौरामलक्ष्मणौ/प्रतिगृह्यार्चयस्वेमौपूजनीयतमावुभौ/श्रुत्वाहनुमतोवाक्यंसुग्रीवोहृष्टमानसः/भयंसराघवाद्घोरंप्रजहौविगतज्वरः/सकृत्वामानुषंरूपंसुग्रीवःप्लवगाधिपः/दर्शनीयतमोभूत्वाप्रीत्याप्रोवाचराघवम्/भवान्धर्मविनीतश्चविक्रान्तःसर्ववत्सलः/आख्यातावायुपुत्रेणतत्त्वतोमेभवद्गुणाः/तन्ममैवैषसत्कारोलाभश्चैवोत्तमःप्रभो/यत्त्वमिच्छसिसौहार्दंवानरेणमयासह/रोचतेयदिवासख्यंबाहुरेषप्रसारितः/गृह्यतांपाणिनापाणिर्मर्यादावध्यतांध्रुवा/एतत्तुवचनंश्रुत्वासुग्रीवस्यसुभाषितम्/संप्रहृष्टमनाहस्तंपीडयामासपाणिना/हृद्यंसौहृदमालम्ब्यपर्यष्वजतपीडितम्/ततोहनूमान्संत्यज्यभिक्षुरूपमरिंदमः/काष्ठयोःस्वेनरूपेणजनयामासपावकम्/दीप्यमानंततोवह्निंपुष्पैरभ्यर्च्यसत्कृतम्/तयोर्मध्येतुसुप्रीतोनिदधेसुसमाहितः/ततोऽग्निंदीप्यमानंतौचक्रतुश्चप्रदक्षिणम्/सुग्रीवोराघवश्चैववयस्यत्वमुपागतौ/ततःसुप्रीतमनसौतावुभौहरिराघवौ/अन्योन्यमभिवीक्षन्तौनतृप्तिमुपजग्मतुः/ततःसर्वार्थविद्वांसंरामंदशरथात्मजम्/सुग्रीवःप्राहतेजस्वीवाक्यमेकमनास्तदा/अयमाख्यातिमेरामसचिवोमन्त्रिसत्तमः/हनुमान्यन्निमित्तंत्वंनिर्जनंवनमागतः/लक्ष्मणेनसहभ्रात्रावसतश्चवनेतव/रक्षसापहृताभार्यामैथिलीजनकात्मजा/त्वयावियुक्तारुदतीलक्ष्मणेनचधीमता/अन्तरंप्रेप्सुनातेनहत्वागृध्रंजटायुषम्/भार्यावियोगजंदुःखंनचिरात्त्वंविमोक्ष्यसे/अहंतामानयिष्यामिनष्टांवेदश्रुतिंयथा/रसातलेवावर्तन्तींवर्तन्तींवानभस्तले/अहमानीयदास्यामितवभार्यामरिंदम/इदंतथ्यंममवचस्त्वमवेहिचराघव/त्यजशोकंमहाबाहोतांकान्तामानयामिते/अनुमानात्तुजानामिमैथिलीसानसंशयः/ह्रियमाणामयादृष्टारक्षसाक्रूरकर्मणा/क्रोशन्तीरामरामेतिलक्ष्मणेतिचविस्वरम्/स्फुरन्तीरावणस्याङ्केपन्नगेन्द्रवधूर्यथा/आत्मनापञ्चमंमांहिदृष्ट्वाशैलतटेस्थितम्/उत्तरीयंतयात्यक्तंशुभान्याभरणानिच/तान्यस्माभिर्गृहीतानिनिहितानिचराघव/आनयिष्याम्यहंतानिप्रत्यभिज्ञातुमर्हसि/तमब्रवीत्ततोरामःसुग्रीवंप्रियवादिनम्/आनयस्वसखेशीघ्रंकिमर्थंप्रविलम्बसे/एवमुक्तस्तुसुग्रीवःशैलस्यगहनांगुहाम्/प्रविवेशततःशीघ्रंराघवप्रियकाम्यया/उत्तरीयंगृहीत्वातुशुभान्याभरणानिच/इदंपश्येतिरामायदर्शयामासवानरः/ततोगृहीत्वातद्वासःशुभान्याभरणानिच/अभवद्बाष्पसंरुद्धोनीहारेणेवचन्द्रमाः/सीतास्नेहप्रवृत्तेनसतुबाष्पेणदूषितः/हाप्रियेतिरुदन्धैर्यमुत्सृज्यन्यपतत्क्षितौ/हृदिकृत्वासबहुशस्तमलंकारमुत्तमम्/निशश्वासभृशंसर्पोबिलस्थइवरोषितः/अविच्छिन्नाश्रुवेगस्तुसौमित्रिंवीक्ष्यपार्श्वतः/परिदेवयितुंदीनंरामःसमुपचक्रमे/पश्यलक्ष्मणवैदेह्यासंत्यक्तंह्रियमाणया/उत्तरीयमिदंभूमौशरीराद्भूषणानिच/शाद्वलिन्यांध्रुवंभूम्यांसीतयाह्रियमाणया/उत्सृष्टंभूषणमिदंतथारूपंहिदृश्यते/ब्रूहिसुग्रीवकंदेशंह्रियन्तीलक्षितात्वया/रक्षसारौद्ररूपेणममप्राणसमाप्रिया/क्ववावसतितद्रक्षोमहद्व्यसनदंमम/यन्निमित्तमहंसर्वान्नाशयिष्यामिराक्षसान्/हरतामैथिलींयेनमांचरोषयताभृशम्/आत्मनोजीवितान्तायमृत्युद्वारमपावृतम्/ममदयिततमाहृतावनाद्॑रजनिचरेणविमथ्ययेनसा/कथयममरिपुंतमद्यवै॑प्रवगपतेयमसंनिधिंनयामि/एवमुक्तस्तुसुग्रीवोरामेणार्तेनवानरः/अब्रवीत्प्राञ्जलिर्वाक्यंसबाष्पंबाष्पगद्गदः/नजानेनिलयंतस्यसर्वथापापरक्षसः/सामर्थ्यंविक्रमंवापिदौष्कुलेयस्यवाकुलम्/सत्यंतुप्रतिजानामित्यजशोकमरिंदम/करिष्यामितथायत्नंयथाप्राप्स्यसिमैथिलीम्/रावणंसगणंहत्वापरितोष्यात्मपौरुषम्/तथास्मिकर्तानचिराद्यथाप्रीतोभविष्यसि/अलंवैक्लव्यमालम्ब्यधैर्यमात्मगतंस्मर/त्वद्विधानांनसदृशमीदृशंबुद्धिलाघवम्/मयापिव्यसनंप्राप्तंभार्याहरणजंमहत्/नचाहमेवंशोचामिनचधैर्यंपरित्यजे/नाहंतामनुशोचामिप्राकृतोवानरोऽपिसन्/महात्माचविनीतश्चाकिंपुनर्धृतिमान्भवान्/बाष्पमापतितंधैर्यान्निग्रहीतुंत्वमर्हसि/मर्यादांसत्त्वयुक्तानांधृतिंनोत्स्रष्टुमर्हसि/व्यसनेवार्थकृच्छ्रेवाभयेवाजीवितान्तगे/विमृशन्वैस्वयाबुद्ध्याधृतिमान्नावसीदति/बालिशस्तुनरोनित्यंवैक्लव्यंयोऽनुवर्तते/समज्जत्यवशःशोकेभाराक्रान्तेवनौर्जले/एषोऽञ्जलिर्मयाबद्धःप्रणयात्त्वांप्रसादये/पौरुषंश्रयशोकस्यनान्तरंदातुमर्हसि/येशोकमनुवर्तन्तेनतेषांविद्यतेसुखम्/तेजश्चक्षीयतेतेषांनत्वंशोचितुमर्हसि/हितंवयस्यभावेनब्रूहिनोपदिशामिते/वयस्यतांपूजयन्मेनत्वंशोचितुमर्हसि/मधुरंसान्त्वितस्तेनसुग्रीवेणसराघवः/मुखमश्रुपरिक्लिन्नंवस्त्रान्तेनप्रमार्जयत्/प्रकृतिष्ठस्तुकाकुत्स्थःसुग्रीववचनात्प्रभुः/संपरिष्वज्यसुग्रीवमिदंवचनमब्रवीत्/कर्तव्यंयद्वयस्येनस्निग्धेनचहितेनच/अनुरूपंचयुक्तंचकृतंसुग्रीवतत्त्वया/एषचप्रकृतिष्ठोऽहमनुनीतस्त्वयासखे/दुर्लभोहीदृशोबन्धुरस्मिन्कालेविशेषतः/किंतुयत्नस्त्वयाकार्योमैथिल्याःपरिमार्गणे/राक्षसस्यचरौद्रस्यरावणस्यदुरात्मनः/मयाचयदनुष्ठेयंविस्रब्धेनतदुच्यताम्/वर्षास्विवचसुक्षेत्रेसर्वंसंपद्यतेतव/मयाचयदिदंवाक्यमभिमानात्समीरितम्/तत्त्वयाहरिशार्दूलतत्त्वमित्युपधार्यताम्/अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन/एतत्तेप्रतिजानामिसत्येनैवशपामिते/ततःप्रहृष्टःसुग्रीवोवानरैःसचिवैःसह/राघवस्यवचःश्रुत्वाप्रतिज्ञातंविशेषतः/महानुभावस्यवचोनिशम्य॑हरिर्नराणामृषभस्यतस्य/कृतंसमेनेहरिवीरमुख्यस्॑तदास्वकार्यंहृदयेनविद्वान्/परितुष्टस्तुसुग्रीवस्तेनवाक्येनवानरः/लक्ष्मणस्याग्रजंराममिदंवचनमब्रवीत्/सर्वथाहमनुग्राह्योदेवतानामसंशयः/उपपन्नगुणोपेतःसखायस्यभवान्मम/शक्यंखलुभवेद्रामसहायेनत्वयानघ/सुरराज्यमपिप्राप्तुंस्वराज्यंकिंपुनःप्रभो/सोऽहंसभाज्योबन्धूनांसुहृदांचैवराघव/यस्याग्निसाक्षिकंमित्रंलब्धंराघववंशजम्/अहमप्यनुरूपस्तेवयस्योज्ञास्यसेशनैः/नतुवक्तुंसमर्थोऽहंस्वयमात्मगतान्गुणान्/महात्मनांतुभूयिष्ठंत्वद्विधानांकृतात्मनाम्/निश्चलाभवतिप्रीतिर्धैर्यमात्मवतामिव/रजतंवासुवर्णंवावस्त्राण्याभरणानिवा/अविभक्तानिसाधूनामवगच्छन्तिसाधवः/आढ्योवापिदरिद्रोवादुःखितःसुखितोऽपिवा/निर्दोषोवासदोषोवावयस्यःपरमागतिः/धनत्यागःसुखत्यागोदेहत्यागोऽपिवापुनः/वयस्यार्थेप्रवर्तन्तेस्नेहंदृष्ट्वातथाविधम्/तत्तथेत्यब्रवीद्रामःसुग्रीवंप्रियवादिनम्/लक्ष्मणस्याग्रतोलक्ष्म्यावासवस्येवधीमतः/ततोरामंस्थितंदृष्ट्वालक्ष्मणंचमहाबलम्/सुग्रीवःसर्वतश्चक्षुर्वनेलोलमपातयत्/सददर्शततःसालमविदूरेहरीश्वरः/सुपुष्पमीषत्पत्राढ्यंभ्रमरैरुपशोभितम्/तस्यैकांपर्णबहुलांभङ्क्त्वाशाखांसुपुष्पिताम्/सालस्यास्तीर्यसुग्रीवोनिषसादसराघवः/तावासीनौततोदृष्ट्वाहनूमानपिलक्ष्मणम्/सालशाखांसमुत्पाट्यविनीतमुपवेशयत्/ततःप्रहृष्टःसुग्रीवःश्लक्ष्णंमधुरयागिरा/उवाचप्रणयाद्रामंहर्षव्याकुलिताक्षरम्/अहंविनिकृतोभ्रात्राचराम्येषभयार्दितः/ऋश्यमूकंगिरिवरंहृतभार्यःसुदुःखितः/सोऽहंत्रस्तोभयेमग्नोवसाम्युद्भ्रान्तचेतनः/वालिनानिकृतोभ्रात्राकृतवैरश्चराघव/वालिनोमेभयार्तस्यसर्वलोकाभयंकर/ममापित्वमनाथस्यप्रसादंकर्तुमर्हसि/एवमुक्तस्तुतेजस्वीधर्मज्ञोधर्मवत्सलः/प्रत्युवाचसकाकुत्स्थःसुग्रीवंप्रहसन्निव/उपकारफलंमित्रमपकारोऽरिलक्षणम्/अद्यैवतंहनिष्यामितवभार्यापहारिणम्/इमेहिमेमहावेगाःपत्रिणस्तिग्मतेजसः/कार्तिकेयवनोद्भूताःशराहेमविभूषिताः/कङ्कपत्रप्रतिच्छन्नामहेन्द्राशनिसंनिभाः/सुपर्वाणःसुतीक्ष्णाग्रासरोषाभुजगाइव/भ्रातृसंज्ञममित्रंतेवालिनंकृतकिल्बिषम्/शरैर्विनिहतंपश्यविकीर्णमिवपर्वतम्/राघवस्यवचःश्रुत्वासुग्रीवोवाहिनीपतिः/प्रहर्षमतुलंलेभेसाधुसाध्वितिचाब्रवीत्/रामशोकाभिभूतोऽहंशोकार्तानांभवान्गतिः/वयस्यइतिकृत्वाहित्वय्यहंपरिदेवये/त्वंहिपाणिप्रदानेनवयस्योसोऽग्निसाक्षिकः/कृतःप्राणैर्बहुमतःसत्येनापिशपाम्यहम्/वयस्यइतिकृत्वाचविस्रब्धंप्रवदाम्यहम्/दुःखमन्तर्गतंयन्मेमनोदहतिनित्यशः/एतावदुक्त्वावचनंबाष्पदूषितलोचनः/बाष्पोपहतयावाचानोच्चैःशक्नोतिभाषितुम्/बाष्पवेगंतुसहसानदीवेगमिवागतम्/धारयामासधैर्येणसुग्रीवोरामसंनिधौ/संनिगृह्यतुतंबाष्पंप्रमृज्यनयनेशुभे/विनिःश्वस्यचतेजस्वीराघवंपुनरब्रवीत्/पुराहंवलिनारामराज्यात्स्वादवरोपितः/परुषाणिचसंश्राव्यनिर्धूतोऽस्मिबलीयसा/हृताभार्याचमेतेनप्राणेभ्योऽपिगरीयसी/सुहृदश्चमदीयायेसंयताबन्धनेषुते/यत्नवांश्चसुदुष्टात्मामद्विनाशायराघव/बहुशस्तत्प्रयुक्ताश्चवानरानिहतामया/शङ्कयात्वेतयाचाहंदृष्ट्वात्वामपिराघव/नोपसर्पाम्यहंभीतोभयेसर्वेहिबिभ्यति/केवलंहिसहायामेहनुमत्प्रमुखास्त्विमे/अतोऽहंधारयाम्यद्यप्राणान्कृच्छ्रगतोऽपिसन्/एतेहिकपयःस्निग्धामांरक्षन्तिसमन्ततः/सहगच्छन्तिगन्तव्येनित्यंतिष्ठन्तिचस्थिते/संक्षेपस्त्वेषमेरामकिमुक्त्वाविस्तरंहिते/समेज्येष्ठोरिपुर्भ्रातावालीविश्रुतपौरुषः/तद्विनाशाद्धिमेदुःखंप्रनष्टंस्यादनन्तरम्/सुखंमेजीवितंचैवतद्विनाशनिबन्धनम्/एषमेरामशोकान्तःशोकार्तेननिवेदितः/दुःखितोऽदुःखितोवापिसख्युर्नित्यंसखागतिः/श्रुत्वैतच्चवचोरामःसुग्रीवमिदमब्रवीत्/किंनिमित्तमभूद्वैरंश्रोतुमिच्छामितत्त्वतः/सुखंहिकारणंश्रुत्वावैरस्यतववानर/आनन्तर्यंविधास्यामिसंप्रधार्यबलाबलम्/बलवान्हिममामर्षःश्रुत्वात्वामवमानितम्/वर्धतेहृदयोत्कम्पीप्रावृड्वेगइवाम्भसः/हृष्टःकथयविस्रब्धोयावदारोप्यतेधनुः/सृष्टश्चहिमयाबाणोनिरस्तश्चरिपुस्तव/एवमुक्तस्तुसुग्रीवःकाकुत्स्थेनमहात्मना/प्रहर्षमतुलंलेभेचतुर्भिःसहवानरैः/ततःप्रहृष्टवदनःसुग्रीवोलक्ष्मणाग्रजे/वैरस्यकारणंतत्त्वमाख्यातुमुपचक्रमे/वालीनामममभ्राताज्येष्ठःशत्रुनिषूदनः/पितुर्बहुमतोनित्यंममचापितथापुरा/पितर्युपरतेऽस्माकंज्येष्ठोऽयमितिमन्त्रिभिः/कपीनामीश्वरोराज्येकृतःपरमसंमतः/राज्यंप्रशासतस्तस्यपितृपैतामहंमहत्/अहंसर्वेषुकालेषुप्रणतःप्रेष्यवत्स्थितः/मायावीनामतेजस्वीपूर्वजोदुन्दुभेःसुतः/तेनतस्यमहद्वैरंस्त्रीकृतंविश्रुतंपुरा/सतुसुप्तेजनेरात्रौकिष्किन्धाद्वारमागतः/नर्दतिस्मसुसंरब्धोवालिनंचाह्वयद्रणे/प्रसुप्तस्तुममभ्रातानर्दितंभैरवस्वनम्/श्रुत्वानममृषेवालीनिष्पपातजवात्तदा/सतुवैनिःसृतःक्रोधात्तंहन्तुमसुरोत्तमम्/वार्यमाणस्ततःस्त्रीभिर्मयाचप्रणतात्मना/सतुनिर्धूयसर्वान्नोनिर्जगाममहाबलः/ततोऽहमपिसौहार्दान्निःसृतोवालिनासह/सतुमेभ्रातरंदृष्ट्वामांचदूरादवस्थितम्/असुरोजातसंत्रासःप्रदुद्रावतदाभृशम्/तस्मिन्द्रवतिसंत्रस्तेह्यावांद्रुततरंगतौ/प्रकाशोऽपिकृतोमार्गश्चन्द्रेणोद्गच्छतातदा/सतृणैरावृतंदुर्गंधरण्याविवरंमहत्/प्रविवेशासुरोवेगादावामासाद्यविष्ठितौ/तंप्रविष्टंरिपुंदृष्ट्वाबिलंरोषवशंगतः/मामुवाचतदावालीवचनंक्षुभितेन्द्रियः/इहत्वंतिष्ठसुग्रीवबिलद्वारिसमाहितः/यावदत्रप्रविश्याहंनिहन्मिसमरेरिपुम्/मयात्वेतद्वचःश्रुत्वायाचितःसपरंतप/शापयित्वाचमांपद्भ्यांप्रविवेशबिलंतदा/तस्यप्रविष्टस्यबिलंसाग्रःसंवत्सरोगतः/स्थितस्यचममद्वारिसकालोव्यत्यवर्तत/अहंतुनष्टंतंज्ञात्वास्नेहादागतसंभ्रमः/भ्रातरंनहिपश्यामिपापशङ्किचमेमनः/अथदीर्घस्यकालस्यबिलात्तस्माद्विनिःसृतम्/सफेनंरुधिरंरक्तमहंदृष्ट्वासुदुःखितः/नर्दतामसुराणांचध्वनिर्मेश्रोत्रमागतः/निरस्तस्यचसंग्रामेक्रोशतोनिःस्वनोगुरोः/अहंत्ववगतोबुद्ध्याचिह्नैस्तैर्भ्रातरंहतम्/पिधायचबिलद्वारंशिलयागिरिमात्रया/शोकार्तश्चोदकंकृत्वाकिष्किन्धामागतःसखे/गूहमानस्यमेतत्त्वंयत्नतोमन्त्रिभिःश्रुतम्/ततोऽहंतैःसमागम्यसमेतैरभिषेचितः/राज्यंप्रशासतस्तस्यन्यायतोममराघव/आजगामरिपुंहत्वावालीतमसुरोत्तमम्/अभिषिक्तंतुमांदृष्ट्वाक्रोधात्संरक्तलोचनः/मदीयान्मन्त्रिणोबद्ध्वापरुषंवाक्यमब्रवीत्/निग्रहेऽपिसमर्थस्यतंपापंप्रतिराघव/नप्रावर्ततमेबुद्धिर्भ्रातृगौरवयन्त्रिता/मानयंस्तंमहात्मानंयथावच्चाभ्यवादयम्/उक्ताश्चनाशिषस्तेनसंतुष्टेनान्तरात्मना/ततःक्रोधसमाविष्टंसंरब्धंतमुपागतम्/अहंप्रसादयांचक्रेभ्रातरंप्रियकाम्यया/दिष्ट्यासिकुशलीप्राप्तोनिहतश्चत्वयारिपुः/अनाथस्यहिमेनाथस्त्वमेकोऽनाथनन्दनः/इदंबहुशलाकंतेपूर्णचन्द्रमिवोदितम्/छत्रंसवालव्यजनंप्रतीच्छस्वमयोद्यतम्/त्वमेवराजामानार्हःसदाचाहंयथापुरा/न्यासभूतमिदंराज्यंतवनिर्यातयाम्यहम्/माचरोषंकृथाःसौम्यमयिशत्रुनिबर्हण/याचेत्वांशिरसाराजन्मयाबद्धोऽयमञ्जलिः/बलादस्मिसमागम्यमन्त्रिभिःपुरवासिभिः/राजभावेनियुक्तोऽहंशून्यदेशजिगीषया/स्निग्धमेवंब्रुवाणंमांसतुनिर्भर्त्स्यवानरः/धिक्त्वामितिचमामुक्त्वाबहुतत्तदुवाचह/प्रकृतीश्चसमानीयमन्त्रिणश्चैवसंमतान्/मामाहसुहृदांमध्येवाक्यंपरमगर्हितम्/विदितंवोयथारात्रौमायावीसमहासुरः/मांसमाह्वयतक्रूरोयुद्धाकाङ्क्षीसुदुर्मतिः/तस्यतद्गर्जितंश्रुत्वानिःसृतोऽहंनृपालयात्/अनुयातश्चमांतूर्णमयंभ्रातासुदारुणः/सतुदृष्ट्वैवमांरात्रौसद्वितीयंमहाबलः/प्राद्रवद्भयसंत्रस्तोवीक्ष्यावांतमनुद्रुतौ/अनुद्रुतस्तुवेगेनप्रविवेशमहाबिलम्/तंप्रविष्टंविदित्वातुसुघोरंसुमहद्बिलम्/अयमुक्तोऽथमेभ्रातामयातुक्रूरदर्शनः/अहत्वानास्तिमेशक्तिःप्रतिगन्तुमितःपुरीम्/बिलद्वारिप्रतीक्षत्वंयावदेनंनिहन्म्यहम्/स्थितोऽयमितिमत्वातुप्रविष्टोऽहंदुरासदम्/तंचमेमार्गमाणस्यगतःसंवत्सरस्तदा/सतुदृष्टोमयाशत्रुरनिर्वेदाद्भयावहः/निहतश्चमयातत्रसोऽसुरोबन्धुभिःसह/तस्यास्यात्तुप्रवृत्तेनरुधिरौघेणतद्बिलम्/पूर्णमासीद्दुराक्रामंस्तनतस्तस्यभूतले/सूदयित्वातुतंशत्रुंविक्रान्तंदुन्दुभेःसुतम्/निष्क्रामन्नेवपश्यामिबिलस्यपिहितंमुखम्/विक्रोशमानस्यतुमेसुग्रीवेतिपुनःपुनः/यदाप्रतिवचोनास्तिततोऽहंभृशदुःखितः/पादप्रहारैस्तुमयाबहुशस्तद्विदारितम्/ततोऽहंतेननिष्क्रम्ययथापुनरुपागतः/तत्रानेनास्मिसंरुद्धोराज्यंमार्गयतात्मनः/सुग्रीवेणनृशंसेनविस्मृत्यभ्रातृसौहृदम्/एवमुक्त्वातुमांतत्रवस्त्रेणैकेनवानरः/तदानिर्वासयामासवालीविगतसाध्वसः/तेनाहमपविद्धश्चहृतदारश्चराघव/तद्भयाच्चमहीकृत्स्नाक्रान्तेयंसवनार्णवा/ऋश्यमूकंगिरिवरंभार्याहरणदुःखितः/प्रविष्टोऽस्मिदुराधर्षंवालिनःकारणान्तरे/एतत्तेसर्वमाख्यातंवैरानुकथनंमहत्/अनागसामयाप्राप्तंव्यसनंपश्यराघव/वालिनस्तुभयार्तस्यसर्वलोकाभयंकर/कर्तुमर्हसिमेवीरप्रसादंतस्यनिग्रहात्/एवमुक्तःसतेजस्वीधर्मज्ञोधर्मसंहितम्/वचनंवक्तुमारेभेसुग्रीवंप्रहसन्निव/अमोघाःसूर्यसंकाशाममेमेनिशिताःशराः/तस्मिन्वालिनिदुर्वृत्तेपतिष्यन्तिरुषान्विताः/यावत्तंनहिपश्येयंतवभार्यापहारिणम्/तावत्सजीवेत्पापात्मावालीचारित्रदूषकः/आत्मानुमानात्पश्यामिमग्नंत्वांशोकसागरे/त्वामहंतारयिष्यामिकामंप्राप्स्यसिपुष्कलम्/रामस्यवचनंश्रुत्वाहर्षपौरुषवर्धनम्/सुग्रीवःपूजयांचक्रेराघवंप्रशशंसच/असंशयंप्रज्वलितैस्तीक्ष्णैर्मर्मातिगैःशरैः/त्वंदहेःकुपितोलोकान्युगान्तइवभास्करः/वालिनःपौरुषंयत्तद्यच्चवीर्यंधृतिश्चया/तन्ममैकमनाःश्रुत्वाविधत्स्वयदनन्तरम्/समुद्रात्पश्चिमात्पूर्वंदक्षिणादपिचोत्तरम्/क्रामत्यनुदितेसूर्येवालीव्यपगतक्लमः/अग्राण्यारुह्यशैलानांशिखराणिमहान्त्यपि/ऊर्ध्वमुत्क्षिप्यतरसाप्रतिगृह्णातिवीर्यवान्/बहवःसारवन्तश्चवनेषुविविधाद्रुमाः/वालिनातरसाभग्नाबलंप्रथयतात्मनः/महिषोदुन्दुभिर्नामकैलासशिखरप्रभः/बलंनागसहस्रस्यधारयामासवीर्यवान्/वीर्योत्सेकेनदुष्टात्मावरदानाच्चमोहितः/जगामसमहाकायःसमुद्रंसरितांपतिम्/ऊर्मिमन्तमतिक्रम्यसागरंरत्नसंचयम्/ममयुद्धंप्रयच्छेतितमुवाचमहार्णवम्/ततःसमुद्रोधर्मात्मासमुत्थायमहाबलः/अब्रवीद्वचनंराजन्नसुरंकालचोदितम्/समर्थोनास्मितेदातुंयुद्धंयुद्धविशारद/श्रूयतामभिधास्यामियस्तेयुद्धंप्रदास्यति/शैलराजोमहारण्येतपस्विशरणंपरम्/शंकरश्वशुरोनाम्नाहिमवानितिविश्रुतः/गुहाप्रस्रवणोपेतोबहुकन्दरनिर्झरः/ससमर्थस्तवप्रीतिमतुलांकर्तुमाहवे/तंभीतमितिविज्ञायसमुद्रमसुरोत्तमः/हिमवद्वनमागच्छच्छरश्चापादिवच्युतः/ततस्तस्यगिरेःश्वेतागजेन्द्रविपुलाःशिलाः/चिक्षेपबहुधाभूमौदुन्दुभिर्विननादच/ततःश्वेताम्बुदाकारःसौम्यःप्रीतिकराकृतिः/हिमवानब्रवीद्वाक्यंस्वएवशिखरेस्थितः/क्लेष्टुमर्हसिमांनत्वंदुन्दुभेधर्मवत्सल/रणकर्मस्वकुशलस्तपस्विशरणंह्यहम्/तस्यतद्वचनंश्रुत्वागिरिराजस्यधीमतः/उवाचदुन्दुभिर्वाक्यंक्रोधात्संरक्तलोचनः/यदियुद्धेऽसमर्थस्त्वंमद्भयाद्वानिरुद्यमः/तमाचक्ष्वप्रदद्यान्मेयोऽद्ययुद्धंयुयुत्सतः/हिमवानब्रवीद्वाक्यंश्रुत्वावाक्यविशारदः/अनुक्तपूर्वंधर्मात्माक्रोधात्तमसुरोत्तमम्/वालीनाममहाप्राज्ञःशक्रतुल्यपराक्रमः/अध्यास्तेवानरःश्रीमान्किष्किन्धामतुलप्रभाम्/ससमर्थोमहाप्राज्ञस्तवयुद्धविशारदः/द्वन्द्वयुद्धंमहद्दातुंनमुचेरिववासवः/तंशीघ्रमभिगच्छत्वंयदियुद्धमिहेच्छसि/सहिदुर्धर्षणोनित्यंशूरःसमरकर्मणि/श्रुत्वाहिमवतोवाक्यंक्रोधाविष्टःसदुन्दुभिः/जगामतांपुरींतस्यकिष्किन्धांवालिनस्तदा/धारयन्माहिषंरूपंतीक्ष्णशृङ्गोभयावहः/प्रावृषीवमहामेघस्तोयपूर्णोनभस्तले/ततस्तुद्वारमागम्यकिष्किन्धायामहाबलः/ननर्दकम्पयन्भूमिंदुन्दुभिर्दुन्दुभिर्यथा/समीपजान्द्रुमान्भञ्जन्वसुधांदारयन्खुरैः/विषाणेनोल्लेखन्दर्पात्तद्द्वारंद्विरदोयथा/अन्तःपुरगतोवालीश्रुत्वाशब्दममर्षणः/निष्पपातसहस्त्रीभिस्ताराभिरिवचन्द्रमाः/मितंव्यक्ताक्षरपदंतमुवाचसदुन्दुभिम्/हरीणामीश्वरोवालीसर्वेषांवनचारिणाम्/किमर्थंनगरद्वारमिदंरुद्ध्वाविनर्दसि/दुन्दुभेविदितोमेऽसिरक्षप्राणान्महाबल/तस्यतद्वचनंश्रुत्वावानरेन्द्रस्यधीमतः/उवाचदुन्दुभिर्वाक्यंक्रोधात्संरक्तलोचनः/नत्वंस्त्रीसंनिधौवीरवचनंवक्तुमर्हसि/ममयुद्धंप्रयच्छत्वंततोज्ञास्यामितेबलम्/अथवाधारयिष्यामिक्रोधमद्यनिशामिमाम्/गृह्यतामुदयःस्वैरंकामभोगेषुवानर/योहिमत्तंप्रमत्तंवासुप्तंवारहितंभृशम्/हन्यात्सभ्रूणहालोकेत्वद्विधंमदमोहितम्/सप्रहस्याब्रवीन्मन्दंक्रोधात्तमसुरोत्तमम्/विसृज्यताःस्त्रियःसर्वास्ताराप्रभिऋतिकास्तदा/मत्तोऽयमितिमामंस्थायद्यभीतोऽसिसंयुगे/मदोऽयंसंप्रहारेऽस्मिन्वीरपानंसमर्थ्यताम्/तमेवमुक्त्वासंक्रुद्धोमालामुत्क्षिप्यकाञ्चनीम्/पित्रादत्तांमहेन्द्रेणयुद्धायव्यवतिष्ठत/विषाणयोर्गृहीत्वातंदुन्दुभिंगिरिसंनिभम्/वालीव्यापातयांचक्रेननर्दचमहास्वनम्/युद्धेप्राणहरेतस्मिन्निष्पिष्टोदुन्दुभिस्तदा/श्रोत्राभ्यामथरक्तंतुतस्यसुस्रावपात्यतः/पपातचमहाकायःक्षितौपञ्चत्वमागतः/तंतोलयित्वाबाहुभ्यांगतसत्त्वमचेतनम्/चिक्षेपवेगवान्वालीवेगेनैकेनयोजनम्/तस्यवेगप्रविद्धस्यवक्त्रात्क्षतजबिन्दवः/प्रपेतुर्मारुतोत्क्षिप्तामतङ्गस्याश्रमंप्रति/तान्दृष्ट्वापतितांस्तत्रमुनिःशोणितविप्रुषः/उत्ससर्जमहाशापंक्षेप्तारंवालिनंप्रति/इहतेनाप्रवेष्टव्यंप्रविष्टस्यबधोभवेत्/समहर्षिंसमासाद्ययाचतेस्मकृताञ्जलिः/ततःशापभयाद्भीतऋश्यमूकंमहागिरिम्/प्रवेष्टुंनेच्छतिहरिर्द्रष्टुंवापिनरेश्वर/तस्याप्रवेशंज्ञात्वाहमिदंराममहावनम्/विचरामिसहामात्योविषादेनविवर्जितः/एषोऽस्थिनिचयस्तस्यदुन्दुभेःसंप्रकाशते/वीर्योत्सेकान्निरस्तस्यगिरिकूटनिभोमहान्/इमेचविपुलाःसालाःसप्तशाखावलम्बिनः/यत्रैकंघटतेवालीनिष्पत्रयितुमोजसा/एतदस्यासमंवीर्यंमयारामप्रकाशितम्/कथंतंवालिनंहन्तुंसमरेशक्ष्यसेनृप/यदिभिन्द्याद्भवान्सालानिमांस्त्वेकेषुणाततः/जानीयांत्वांमहाबाहोसमर्थंवालिनोवधे/तस्यतद्वचनंश्रुत्वासुग्रीवस्यमहात्मनः/राघवोदुन्दुभेःकायंपादाङ्गुष्ठेनलीलया/तोलयित्वामहाबाहुश्चिक्षेपदशयोजनम्/क्षिप्तंदृष्ट्वाततःकायंसुग्रीवःपुनरब्रवीत्/लक्ष्मणस्याग्रतोराममिदंवचनमर्थवत्/आर्द्रःसमांसप्रत्यग्रःक्षिप्तःकायःपुरासखे/लघुःसंप्रतिनिर्मांसस्तृणभूतश्चराघव/नात्रशक्यंबलंज्ञातुंतववातस्यवाधिकम्/एतच्चवचनंश्रुत्वासुग्रीवेणसुभाषितम्/प्रत्ययार्थंमहातेजारामोजग्राहकार्मुकम्/सगृहीत्वाधनुर्घोरंशरमेकंचमानदः/सालानुद्दिश्यचिक्षेपज्यास्वनैःपूरयन्दिशः/सविसृष्टोबलवताबाणःस्वर्णपरिष्कृतः/भित्त्वासालान्गिरिप्रस्थेसप्तभूमिंविवेशह/प्रविष्टस्तुमुहूर्तेनरसांभित्त्वामहाजवः/निष्पत्यचपुनस्तूर्णंस्वतूणींप्रविवेशह/तान्दृष्ट्वासप्तनिर्भिन्नान्सालान्वानरपुंगवः/रामस्यशरवेगेनविस्मयंपरमंगतः/समूर्ध्नान्यपतद्भूमौप्रलम्बीकृतभूषणः/सुग्रीवःपरमप्रीतोराघवायकृताञ्जलिः/इदंचोवाचधर्मज्ञंकर्मणातेनहर्षितः/रामंसर्वास्त्रविदुषांश्रेष्ठंशूरमवस्थितम्/सेन्द्रानपिसुरान्सर्वांस्त्वंबाणैःपुरुषर्षभ/समर्थःसमरेहन्तुंकिंपुनर्वालिनंप्रभो/येनसप्तमहासालागिरिर्भूमिश्चदारिताः/बाणेनैकेनकाकुत्स्थस्थातातेकोरणाग्रतः/अद्यमेविगतःशोकःप्रीतिरद्यपरामम/सुहृदंत्वांसमासाद्यमहेन्द्रवरुणोपमम्/तमद्यैवप्रियार्थंमेवैरिणंभ्रातृरूपिणम्/वालिनंजहिकाकुत्स्थमयाबद्धोऽयमञ्जलिः/ततोरामःपरिष्वज्यसुग्रीवंप्रियदर्शनम्/प्रत्युवाचमहाप्राज्ञोलक्ष्मणानुमतंवचः/अस्माद्गच्छामकिष्किन्धांक्षिप्रंगच्छत्वमग्रतः/गत्वाचाह्वयसुग्रीववालिनंभ्रातृगन्धिनम्/सर्वेतेत्वरितंगत्वाकिष्किन्धांवालिनःपुरीम्/वृक्षैरात्मानमावृत्यव्यतिष्ठन्गहनेवने/सुग्रीवोव्यनदद्घोरंवालिनोह्वानकारणात्/गाढंपरिहितोवेगान्नादैर्भिन्दन्निवाम्बरम्/तंश्रुत्वानिनदंभ्रातुःक्रुद्धोवालीमहाबलः/निष्पपातसुसंरब्धोभास्करोऽस्ततटादिव/ततःसुतुमुलंयुद्धंवालिसुग्रीवयोरभूत्/गगनेग्रहयोर्घोरंबुधाङ्गारकयोरिव/तलैरशनिकल्पैश्चवज्रकल्पैश्चमुष्टिभिः/जघ्नतुःसमरेऽन्योन्यंभ्रातरौक्रोधमूर्छितौ/ततोरामोधनुष्पाणिस्तावुभौसमुदीक्ष्यतु/अन्योन्यसदृशौवीरावुभौदेवाविवाश्विनौ/यन्नावगच्छत्सुग्रीवंवालिनंवापिराघवः/ततोनकृतवान्बुद्धिंमोक्तुमन्तकरंशरम्/एतस्मिन्नन्तरेभग्नःसुग्रीवस्तेनवालिना/अपश्यन्राघवंनाथमृश्यमूकंप्रदुद्रुवे/क्लान्तोरुधिरसिक्ताङ्गःप्रहारैर्जर्जरीकृतः/वालिनाभिद्रुतःक्रोधात्प्रविवेशमहावनम्/तंप्रविष्टंवनंदृष्ट्वावालीशापभयात्ततः/मुक्तोह्यसित्वमित्युक्त्वासनिवृत्तोमहाबलः/राघवोऽपिसहभ्रात्रासहचैवहनूमता/तदेववनमागच्छत्सुग्रीवोयत्रवानरः/तंसमीक्ष्यागतंरामंसुग्रीवःसहलक्ष्मणम्/ह्रीमान्दीनमुवाचेदंवसुधामवलोकयन्/आह्वयस्वेतिमामुक्त्वादर्शयित्वाचविक्रमम्/वैरिणाघातयित्वाचकिमिदानींत्वयाकृतम्/तामेववेलांवक्तव्यंत्वयाराघवतत्त्वतः/वालिनंननिहन्मीतिततोनाहमितोव्रजे/तस्यचैवंब्रुवाणस्यसुग्रीवस्यमहात्मनः/करुणंदीनयावाचाराघवःपुनरब्रवीत्/सुग्रीवश्रूयतांतातःक्रोधश्चव्यपनीयताम्/कारणंयेनबाणोऽयंनमयासविसर्जितः/अलंकारेणवेषेणप्रमाणेनगतेनच/त्वंचसुग्रीववालीचसदृशौस्थःपरस्परम्/स्वरेणवर्चसाचैवप्रेक्षितेनचवानर/विक्रमेणचवाक्यैश्चव्यक्तिंवांनोपलक्षये/ततोऽहंरूपसादृश्यान्मोहितोवानरोत्तम/नोत्सृजामिमहावेगंशरंशत्रुनिबर्हणम्/एतन्मुहूर्तेतुमयापश्यवालिनमाहवे/निरस्तमिषुणैकेनवेष्टमानंमहीतले/अभिज्ञानंकुरुष्वत्वमात्मनोवानरेश्वर/येनत्वामभिजानीयांद्वन्द्वयुद्धमुपागतम्/गजपुष्पीमिमांफुल्लामुत्पाट्यशुभलक्षणाम्/कुरुलक्ष्मणकण्ठेऽस्यसुग्रीवस्यमहात्मनः/ततोगिरितटेजातामुत्पाट्यकुसुमायुताम्/लक्ष्मणोगजपुष्पींतांतस्यकण्ठेव्यसर्जयत्/सतथाशुशुभेश्रीमांल्लतयाकण्ठसक्तया/मालयेवबलाकानांससंध्यइवतोयदः/विभ्राजमानोवपुषारामवाक्यसमाहितः/जगामसहरामेणकिष्किन्धांवालिपालिताम्/ऋश्यमूकात्सधर्मात्माकिष्किन्धांलक्ष्मणाग्रजः/जगामसहसुग्रीवोवालिविक्रमपालिताम्/समुद्यम्यमहच्चापंरामःकाञ्चनभूषितम्/शरांश्चादित्यसंकाशान्गृहीत्वारणसाधकान्/अग्रतस्तुययौतस्यराघवस्यमहात्मनः/सुग्रीवःसंहतग्रीवोलक्ष्मणश्चमहाबलः/पृष्ठतोहनुमान्वीरोनलोनीलश्चवानरः/तारश्चैवमहातेजाहरियूथपयूथपाः/तेवीक्षमाणावृक्षांश्चपुष्पभारावलम्बिनः/प्रसन्नाम्बुवहाश्चैवसरितःसागरंगमाः/कन्दराणिचशैलांश्चनिर्झराणिगुहास्तथा/शिखराणिचमुख्यानिदरीश्चप्रियदर्शनाः/वैदूर्यविमलैःपर्णैःपद्मैश्चाकाशकुड्मलैः/शोभितान्सजलान्मार्गेतटाकांश्चव्यलोकयन्/कारण्डैःसारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैः/चक्रवाकैस्तथाचान्यैःशकुनैःप्रतिनादितान्/मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान्/चरतःसर्वतोऽपश्यन्स्थलीषुहरिणान्स्थितान्/तटाकवैरिणश्चापिशुक्लदन्तविभूषितान्/घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः/वनेवनचरांश्चान्यान्खेचरांश्चविहंगमान्/पश्यन्तस्त्वरिताजग्मुःसुग्रीववशवर्तिनः/तेषांतुगच्छतांतत्रत्वरितंरघुनन्दनः/द्रुमषण्डंवनंदृष्ट्वारामःसुग्रीवमब्रवीत्/एषमेघइवाकाशेवृक्षषण्डःप्रकाशते/मेघसंघातविपुलःपर्यन्तकदलीवृतः/किमेतज्ज्ञातुमिच्छामिसखेकौतूहलंमम/कौतूहलापनयनंकर्तुमिच्छाम्यहंत्वया/तस्यतद्वचनंश्रुत्वाराघवस्यमहात्मनः/गच्छन्नेवाचचक्षेऽथसुग्रीवस्तन्महद्वनम्/एतद्राघवविस्तीर्णमाश्रमंश्रमनाशनम्/उद्यानवनसंपन्नंस्वादुमूलफलोदकम्/अत्रसप्तजनानाममुनयःसंशितव्रताः/सप्तैवासन्नधःशीर्षानियतंजलशायिनः/सप्तरात्रकृताहारावायुनावनवासिनः/दिवंवर्षशतैर्याताःसप्तभिःसकलेवराः/तेषामेवंप्रभावेनद्रुमप्राकारसंवृतम्/आश्रमंसुदुराधर्षमपिसेन्द्रैःसुरासुरैः/पक्षिणोवर्जयन्त्येतत्तथान्येवनचारिणः/विशन्तिमोहाद्येऽप्यत्रनिवर्तन्तेनतेपुनः/विभूषणरवाश्चात्रश्रूयन्तेसकलाक्षराः/तूर्यगीतस्वनाश्चापिगन्धोदिव्यश्चराघव/त्रेताग्नयोऽपिदीप्यन्तेधूमोह्येषप्रदृश्यते/वेष्टयन्निववृक्षाग्रान्कपोताङ्गारुणोघनः/कुरुप्रणामंधर्मात्मंस्तान्समुद्दिश्यराघवः/लक्ष्मणेनसहभ्रात्राप्रयतःसंयताञ्जलिः/प्रणमन्तिहियेतेषामृषीणांभावितात्मनाम्/नतेषामशुभंकिंचिच्छरीरेरामदृश्यते/ततोरामःसहभ्रात्रालक्ष्मणेनकृताञ्जलिः/समुद्दिश्यमहात्मानस्तानृषीनभ्यवादयत्/अभिवाद्यचधर्मात्मारामोभ्राताचलक्ष्मणः/सुग्रीवोवानराश्चैवजग्मुःसंहृष्टमानसाः/तेगत्वादूरमध्वानंतस्मात्सप्तजनाश्रमात्/ददृशुस्तांदुराधर्षांकिष्किन्धांवालिपालिताम्/सर्वेतेत्वरितंगत्वाकिष्किन्धांवालिपालिताम्/वृक्षैरात्मानमावृत्यव्यतिष्ठन्गहनेवने/विचार्यसर्वतोदृष्टिंकाननेकाननप्रियः/सुग्रीवोविपुलग्रीवःक्रोधमाहारयद्भृशम्/ततःसनिनदंघोरंकृत्वायुद्धायचाह्वयत्/परिवारैःपरिवृतोनादैर्भिन्दन्निवाम्बरम्/अथबालार्कसदृशोदृप्तसिंहगतिस्तदा/दृष्ट्वारामंक्रियादक्षंसुग्रीवोवाक्यमब्रवीत्/हरिवागुरयाव्याप्तंतप्तकाञ्चनतोरणाम्/प्राप्ताःस्मध्वजयन्त्राढ्यांकिष्किन्धांवालिनःपुरीम्/प्रतिज्ञायात्वयावीरकृतावालिवधेपुरा/सफलांतांकुरुक्षिप्रंलतांकालइवागतः/एवमुक्तस्तुधर्मात्मासुग्रीवेणसराघवः/तमथोवाचसुग्रीवंवचनंशत्रुसूदनः/कृताभिज्ञानचिह्नस्त्वमनयागजसाह्वया/विपरीतइवाकाशेसूर्योनक्षत्रमालया/अद्यवालिसमुत्थंतेभयंवैरंचवानर/एकेनाहंप्रमोक्ष्यामिबाणमोक्षेणसंयुगे/ममदर्शयसुग्रीववैरिणंभ्रातृरूपिणम्/वालीविनिहतोयावद्वनेपांसुषुवेष्टते/यदिदृष्टिपथंप्राप्तोजीवन्सविनिवर्तते/ततोदोषेणमागच्छेत्सद्योगर्हेच्चमाभवान्/प्रत्यक्षंसप्ततेसालामयाबाणेनदारिताः/ततोवेत्सिबलेनाद्यबालिनंनिहतंमया/अनृतंनोक्तपूर्वंमेवीरकृच्छ्रेऽपितिष्ठता/धर्मलोभपरीतेननचवक्ष्येकथंचन/सफलांचकरिष्यामिप्रतिज्ञांजहिसंभ्रमम्/प्रसूतंकलमंक्षेत्रेवर्षेणेवशतक्रतुः/तदाह्वाननिमित्तंत्वंवालिनोहेममालिनः/सुग्रीवकुरुतंशब्दंनिष्पतेद्येनवानरः/जितकाशीजयश्लाघीत्वयाचाधर्षितःपुरात्/निष्पतिष्यत्यसंगेनवालीसप्रियसंयुगः/रिपूणांधर्षणंशूरामर्षयन्तिनसंयुगे/जानन्तस्तुस्वकंवीर्यंस्त्रीसमक्षंविशेषतः/सतुरामवचःश्रुत्वासुग्रीवोहेमपिङ्गलः/ननर्दक्रूरनादेनविनिर्भिन्दन्निवाम्बरम्/तस्यशब्देनवित्रस्तागावोयान्तिहतप्रभाः/राजदोषपरामृष्टाःकुलस्त्रियइवाकुलाः/द्रवन्तिचमृगाःशीघ्रंभग्नाइवरणेहयाः/पतन्तिचखगाभूमौक्षीणपुण्याइवग्रहाः/ततःसजीमूतगणप्रणादो॑नादंव्यमुञ्चत्त्वरयाप्रतीतः/सूर्यात्मजःशौर्यविवृद्धतेजाः॑सरित्पतिर्वानिलचञ्चलोर्मिः/अथतस्यनिनादंतंसुग्रीवस्यमहात्मनः/शुश्रावान्तःपुरगतोवालीभ्रातुरमर्षणः/श्रुत्वातुतस्यनिनदंसर्वभूतप्रकम्पनम्/मदश्चैकपदेनष्टःक्रोधश्चापतितोमहान्/सतुरोषपरीताङ्गोवालीसंध्यातपप्रभः/उपरक्तइवादित्यःसद्योनिष्प्रभतांगतः/वालीदंष्ट्राकरालस्तुक्रोधाद्दीप्ताग्निसंनिभः/भात्युत्पतितपद्माभःसमृणालइवह्रदः/शब्दंदुर्मर्षणंश्रुत्वानिष्पपातततोहरिः/वेगेनचरणन्यासैर्दारयन्निवमेदिनीम्/तंतुतारापरिष्वज्यस्नेहाद्दर्शितसौहृदा/उवाचत्रस्तसंभ्रान्ताहितोदर्कमिदंवचः/साधुक्रोधमिमंवीरनदीवेगमिवागतम्/शयनादुत्थितःकाल्यंत्यजभुक्तामिवस्रजम्/सहसातवनिष्क्रामोममतावन्नरोचते/श्रूयतामभिधास्यामियन्निमित्तंनिवार्यसे/पूर्वमापतितःक्रोधात्सत्वामाह्वयतेयुधि/निष्पत्यचनिरस्तस्तेहन्यमानोदिशोगतः/त्वयातस्यनिरस्तस्यपीडितस्यविशेषतः/इहैत्यपुनराह्वानंशङ्कांजनयतीवमे/दर्पश्चव्यवसायश्चयादृशस्तस्यनर्दतः/निनादस्यचसंरम्भोनैतदल्पंहिकारणम्/नासहायमहंमन्येसुग्रीवंतमिहागतम्/अवष्टब्धसहायश्चयमाश्रित्यैषगर्जति/प्रकृत्यानिपुणश्चैवबुद्धिमांश्चैववानरः/अपरीक्षितवीर्येणसुग्रीवःसहनैष्यति/पूर्वमेवमयावीरश्रुतंकथयतोवचः/अङ्गदस्यकुमारस्यवक्ष्यामित्वाहितंवचः/तवभ्रातुर्हिविख्यातःसहायोरणकर्कशः/रामःपरबलामर्दीयुगान्ताग्निरिवोत्थितः/निवासवृक्षःसाधूनामापन्नानांपरागतिः/आर्तानांसंश्रयश्चैवयशसश्चैकभाजनम्/ज्ञानविज्ञानसंपन्नोनिदेशोनिरतःपितुः/धातूनामिवशैलेन्द्रोगुणानामाकरोमहान्/तत्क्षमंनविरोधस्तेसहतेनमहात्मना/दुर्जयेनाप्रमेयेनरामेणरणकर्मसु/शूरवक्ष्यामितेकिंचिन्नचेच्छाम्यभ्यसूयितुम्/श्रूयतांक्रियतांचैवतववक्ष्यामियद्धितम्/यौवराज्येनसुग्रीवंतूर्णंसाध्वभिषेचय/विग्रहंमाकृथावीरभ्रात्राराजन्बलीयसा/अहंहितेक्षमंमन्येतवरामेणसौहृदम्/सुग्रीवेणचसंप्रीतिंवैरमुत्सृज्यदूरतः/लालनीयोहितेभ्रातायवीयानेषवानरः/तत्रवासन्निहस्थोवासर्वथाबन्धुरेवते/यदितेमत्प्रियंकार्यंयदिचावैषिमांहिताम्/याच्यमानःप्रयत्नेनसाधुवाक्यंकुरुष्वमे/तामेवंब्रुवतींतारांताराधिपनिभाननाम्/वालीनिर्भर्त्सयामासवचनंचेदमब्रवीत्/गर्जतोऽस्यचसंरम्भंभ्रातुःशत्रोर्विशेषतः/मर्षयिष्याम्यहंकेनकारणेनवरानने/अधर्षितानांशूराणांसमरेष्वनिवर्तिनाम्/धर्षणामर्षणंभीरुमरणादतिरिच्यते/सोढुंनचसमर्थोऽहंयुद्धकामस्यसंयुगे/सुग्रीवस्यचसंरम्भंहीनग्रीवस्यगर्जतः/नचकार्योविषादस्तेराघवंप्रतिमत्कृते/धर्मज्ञश्चकृतज्ञश्चकथंपापंकरिष्यति/निवर्तस्वसहस्त्रीभिःकथंभूयोऽनुगच्छसि/सौहृदंदर्शितंतारेमयिभक्तिःकृतात्वया/प्रतियोत्स्याम्यहंगत्वासुग्रीवंजहिसंभ्रमम्/दर्पंचास्यविनेष्यामिनचप्राणैर्विमोक्ष्यते/शापितासिममप्राणैर्निवर्तस्वजयेनच/अहंजित्वानिवर्तिष्येतमलंभ्रातरंरणे/तंतुतारापरिष्वज्यवालिनंप्रियवादिनी/चकाररुदतीमन्दंदक्षिणासाप्रदक्षिणम्/ततःस्वस्त्ययनंकृत्वामन्त्रवद्विजयैषिणी/अन्तःपुरंसहस्त्रीभिःप्रविष्टाशोकमोहिता/प्रविष्टायांतुतारायांसहस्त्रीभिःस्वमालयम्/नगरान्निर्ययौक्रुद्धोमहासर्पइवश्वसन्/सनिःश्वस्यमहावेगोवालीपरमरोषणः/सर्वतश्चारयन्दृष्टिंशत्रुदर्शनकाङ्क्षया/सददर्शततःश्रीमान्सुग्रीवंहेमपिङ्गलम्/सुसंवीतमवष्टब्धंदीप्यमानमिवानलम्/सतंदृष्ट्वामहावीर्यंसुग्रीवंपर्यवस्थितम्/गाढंपरिदधेवासोवालीपरमरोषणः/सवालीगाढसंवीतोमुष्टिमुद्यम्यवीर्यवान्/सुग्रीवमेवाभिमुखोययौयोद्धुंकृतक्षणः/श्लिष्टमुष्टिंसमुद्यम्यसंरब्धतरमागतः/सुग्रीवोऽपिसमुद्दिश्यवालिनंहेममालिनम्/तंवालीक्रोधताम्राक्षःसुग्रीवंरणपण्डितम्/आपतन्तंमहावेगमिदंवचनमब्रवीत्/एषमुष्टिर्मयाबद्धोगाढःसुनिहिताङ्गुलिः/मयावेगविमुक्तस्तेप्राणानादाययास्यति/एवमुक्तस्तुसुग्रीवःक्रुद्धोवालिनमब्रवीत्/तवैवचहरन्प्राणान्मुष्टिःपततुमूर्धनि/ताडितस्तेनसंक्रुद्धःसमभिक्रम्यवेगतः/अभवच्छोणितोद्गारीसोत्पीडइवपर्वतः/सुग्रीवेणतुनिःसंगंसालमुत्पाट्यतेजसा/गात्रेष्वभिहतोवालीवज्रेणेवमहागिरिः/सतुवालीप्रचरितःसालताडनविह्वलः/गुरुभारसमाक्रान्तासागरेनौरिवाभवत्/तौभीमबलविक्रान्तौसुपर्णसमवेगिनौ/प्रवृद्धौघोरवपुषौचन्द्रसूर्याविवाम्बरे/वालिनाभग्नदर्पस्तुसुग्रीवोमन्दविक्रमः/वालिनंप्रतिसामर्षोदर्शयामासलाघवम्/ततोधनुषिसंधायशरमाशीविषोपमम्/राघवेणमहाबाणोवालिवक्षसिपातितः/वेगेनाभिहतोवालीनिपपातमहीतले/अथोक्षितःशोणिततोयविस्रवैः॑सुपुष्पिताशोकइवानिलोद्धतः/विचेतनोवासवसूनुराहवे॑प्रभ्रंशितेन्द्रध्वजवत्क्षितिंगतः/ततःशरेणाभिहतोरामेणरणकर्कशः/पपातसहसावालीनिकृत्तइवपादपः/सभूमौन्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः/अपतद्देवराजस्यमुक्तरश्मिरिवध्वजः/तस्मिन्निपतितेभूमौहर्यृषाणांगणेश्वरे/नष्टचन्द्रमिवव्योमनव्यराजतभूतलम्/भूमौनिपतितस्यापितस्यदेहंमहात्मनः/नश्रीर्जहातिनप्राणानतेजोनपराक्रमः/शक्रदत्तावरामालाकाञ्चनीरत्नभूषिता/दधारहरिमुख्यस्यप्राणांस्तेजःश्रियंचसा/सतयामालयावीरोहैमयाहरियूथपः/संध्यानुगतपर्यन्तःपयोधरइवाभवत्/तस्यमालाचदेहश्चमर्मघातीचयःशरः/त्रिधेवरचितालक्ष्मीःपतितस्यापिशोभते/तदस्त्रंतस्यवीरस्यस्वर्गमार्गप्रभावनम्/रामबाणासनक्षिप्तमावहत्परमांगतिम्/तंतथापतितंसंख्येगतार्चिषमिवानलम्/ययातिमिवपुण्यान्तेदेवलोकात्परिच्युतम्/आदित्यमिवकालेनयुगान्तेभुविपातितम्/महेन्द्रमिवदुर्धर्षंमहेन्द्रमिवदुःसहम्/महेन्द्रपुत्रंपतितंवालिनंहेममालिनम्/सिंहोरस्कंमहाबाहुंदीप्तास्यंहरिलोचनम्/लक्ष्मणानुगतोरामोददर्शोपससर्पच/सदृष्ट्वाराघवंवालीलक्ष्मणंचमहाबलम्/अब्रवीत्प्रश्रितंवाक्यंपरुषंधर्मसंहितम्/पराङ्मुखवधंकृत्वाकोनुप्राप्तस्त्वयागुणः/यदहंयुद्धसंरब्धस्त्वत्कृतेनिधनंगतः/कुलीनःसत्त्वसंपन्नस्तेजस्वीचरितव्रतः/रामःकरुणवेदीचप्रजानांचहितेरतः/सानुक्रोशोमहोत्साहःसमयज्ञोदृढव्रतः/इतितेसर्वभूतानिकथयन्तियशोभुवि/तान्गुणान्संप्रधार्याहमग्र्यंचाभिजनंतव/तारयाप्रतिषिद्धःसन्सुग्रीवेणसमागतः/नमामन्येनसंरब्धंप्रमत्तंवेद्धुमर्हसि/इतिमेबुद्धिरुत्पन्नाबभूवादर्शनेतव/नत्वांविनिहतात्मानंधर्मध्वजमधार्मिकम्/जानेपापसमाचारंतृणैःकूपमिवावृतम्/सतांवेषधरंपापंप्रच्छन्नमिवपावकम्/नाहंत्वामभिजानानिधर्मच्छद्माभिसंवृतम्/विषयेवापुरेवातेयदानापकरोम्यहम्/नचत्वांप्रतिजानेऽहंकस्मात्त्वंहंस्यकिल्बिषम्/फलमूलाशनंनित्यंवानरंवनगोचरम्/मामिहाप्रतियुध्यन्तमन्येनचसमागतम्/त्वंनराधिपतेःपुत्रःप्रतीतःप्रियदर्शनः/लिङ्गमप्यस्तितेराजन्दृश्यतेधर्मसंहितम्/कःक्षत्रियकुलेजातःश्रुतवान्नष्टसंशयः/धर्मलिङ्गप्रतिच्छन्नःक्रूरंकर्मसमाचरेत्/रामराजकुलेजातोधर्मवानितिविश्रुतः/अभव्योभव्यरूपेणकिमर्थंपरिधावसि/सामदानंक्षमाधर्मःसत्यंधृतिपराक्रमौ/पार्थिवानांगुणाराजन्दण्डश्चाप्यपकारिषु/वयंवनचराराममृगामूलफलाशनाः/एषाप्रकृतिरस्माकंपुरुषस्त्वंनरेश्वरः/भूमिर्हिरण्यंरूप्यंचनिग्रहेकारणानिच/तत्रकस्तेवनेलोभोमदीयेषुफलेषुवा/नयश्चविनयश्चोभौनिग्रहानुग्रहावपि/राजवृत्तिरसंकीर्णाननृपाःकामवृत्तयः/त्वंतुकामप्रधानश्चकोपनश्चानवस्थितः/राजवृत्तैश्चसंकीर्णःशरासनपरायणः/नतेऽस्त्यपचितिर्धर्मेनार्थेबुद्धिरवस्थिता/इन्द्रियैःकामवृत्तःसन्कृष्यसेमनुजेश्वर/हत्वाबाणेनकाकुत्स्थमामिहानपराधिनम्/किंवक्ष्यसिसतांमध्येकर्मकृत्वाजुगुप्सितम्/राजहाब्रह्महागोघ्नश्चोरःप्राणिवधेरतः/नास्तिकःपरिवेत्ताचसर्वेनिरयगामिनः/अधार्यंचर्ममेसद्भीरोमाण्यस्थिचवर्जितम्/अभक्ष्याणिचमांसानित्वद्विधैर्धर्मचारिभिः/पञ्चपञ्चनखाभक्ष्याब्रह्मक्षत्रेणराघव/शल्यकःश्वाविधोगोधाशशःकूर्मश्चपञ्चमः/चर्मचास्थिचमेराजन्नस्पृशन्तिमनीषिणः/अभक्ष्याणिचमांसानिसोऽहंपञ्चनखोहतः/त्वयानाथेनकाकुत्स्थनसनाथावसुंधरा/प्रमदाशीलसंपन्नाधूर्तेनपतितायथा/शठोनैकृतिकःक्षुद्रोमिथ्याप्रश्रितमानसः/कथंदशरथेनत्वंजातःपापोमहात्मना/छिन्नचारित्र्यकक्ष्येणसतांधर्मातिवर्तिना/त्यक्तधर्माङ्कुशेनाहंनिहतोरामहस्तिना/दृश्यमानस्तुयुध्येथामयायुधिनृपात्मज/अद्यवैवस्वतंदेवंपश्येस्त्वंनिहतोमया/त्वयादृश्येनतुरणेनिहतोऽहंदुरासदः/प्रसुप्तःपन्नगेनेवनरःपानवशंगतः/सुग्रीवप्रियकामेनयदहंनिहतस्त्वया/कण्ठेबद्ध्वाप्रदद्यांतेऽनिहतंरावणंरणे/न्यस्तांसागरतोयेवापातालेवापिमैथिलीम्/जानयेयंतवादेशाच्छ्वेतामश्वतरीमिव/युक्तंयत्प्रप्नुयाद्राज्यंसुग्रीवःस्वर्गतेमयि/अयुक्तंयदधर्मेणत्वयाहंनिहतोरणे/काममेवंविधंलोकःकालेनविनियुज्यते/क्षमंचेद्भवताप्राप्तमुत्तरंसाधुचिन्त्यताम्/इत्येवमुक्त्वापरिशुष्कवक्त्रः॑शराभिघाताद्व्यथितोमहात्मा/समीक्ष्यरामंरविसंनिकाशं॑तूष्णींबभूवामरराजसूनुः/इत्युक्तःप्रश्रितंवाक्यंधर्मार्थसहितंहितम्/परुषंवालिनारामोनिहतेनविचेतसा/तंनिष्प्रभमिवादित्यंमुक्ततोयमिवाम्बुदम्/उक्तवाक्यंहरिश्रेष्ठमुपशान्तमिवानलम्/धर्मार्थगुणसंपन्नंहरीश्वरमनुत्तमम्/अधिक्षिप्तस्तदारामःपश्चाद्वालिनमब्रवीत्/धर्ममर्थंचकामंचसमयंचापिलौकिकम्/अविज्ञायकथंबाल्यान्मामिहाद्यविगर्हसे/अपृष्ट्वाबुद्धिसंपन्नान्वृद्धानाचार्यसंमतान्/सौम्यवानरचापल्यात्त्वंमांवक्तुमिहेच्छसि/इक्ष्वाकूणामियंभूमिःसशैलवनकानना/मृगपक्षिमनुष्याणांनिग्रहानुग्रहावपि/तांपालयतिधर्मात्माभरतःसत्यवागृजुः/धर्मकामार्थतत्त्वज्ञोनिग्रहानुग्रहेरतः/नयश्चविनयश्चोभौयस्मिन्सत्यंचसुस्थितम्/विक्रमश्चयथादृष्टःसराजादेशकालवित्/तस्यधर्मकृतादेशावयमन्येचपार्थिवः/चरामोवसुधांकृत्स्नांधर्मसंतानमिच्छवः/तस्मिन्नृपतिशार्दूलभरतेधर्मवत्सले/पालयत्यखिलांभूमिंकश्चरेद्धर्मनिग्रहम्/तेवयंमार्गविभ्रष्टंस्वधर्मेपरमेस्थिताः/भरताज्ञांपुरस्कृत्यनिगृह्णीमोयथाविधि/त्वंतुसंक्लिष्टधर्माचकर्मणाचविगर्हितः/कामतन्त्रप्रधानश्चनस्थितोराजवर्त्मनि/ज्येष्ठोभ्रातापिताचैवयश्चविद्यांप्रयच्छति/त्रयस्तेपितरोज्ञेयाधर्मेचपथिवर्तिनः/यवीयानात्मनःपुत्रःशिष्यश्चापिगुणोदितः/पुत्रवत्तेत्रयश्चिन्त्याधर्मश्चेदत्रकारणम्/सूक्ष्मःपरमदुर्ज्ञेयःसतांधर्मःप्लवंगम/हृदिस्थःसर्वभूतानामात्मावेदशुभाशुभम्/चपलश्चपलैःसार्धंवानरैरकृतात्मभिः/जात्यन्धइवजात्यन्धैर्मन्त्रयन्द्रक्ष्यसेनुकिम्/अहंतुव्यक्ततामस्यवचनस्यब्रवीमिते/नहिमांकेवलंरोषात्त्वंविगर्हितुमर्हसि/तदेतत्कारणंपश्ययदर्थंत्वंमयाहतः/भ्रातुर्वर्तसिभार्यायांत्यक्त्वाधर्मंसनातनम्/अस्यत्वंधरमाणस्यसुग्रीवस्यमहात्मनः/रुमायांवर्तसेकामात्स्नुषायांपापकर्मकृत्/तद्व्यतीतस्यतेधर्मात्कामवृत्तस्यवानर/भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयंप्रतिपादितः/नहिधर्मविरुद्धस्यलोकवृत्तादपेयुषः/दण्डादन्यत्रपश्यामिनिग्रहंहरियूथप/औरसींभगिनींवापिभार्यांवाप्यनुजस्ययः/प्रचरेतनरःकामात्तस्यदण्डोवधःस्मृतः/भरतस्तुमहीपालोवयंत्वादेशवर्तिनः/त्वंचधर्मादतिक्रान्तःकथंशक्यमुपेक्षितुम्/गुरुधर्मव्यतिक्रान्तंप्राज्ञोधर्मेणपालयन्/भरतःकामवृत्तानांनिग्रहेपर्यवस्थितः/वयंतुभरतादेशंविधिंकृत्वाहरीश्वर/त्वद्विधान्भिन्नमर्यादान्नियन्तुंपर्यवस्थिताः/सुग्रीवेणचमेसख्यंलक्ष्मणेनयथातथा/दारराज्यनिमित्तंचनिःश्रेयसिरतःसमे/प्रतिज्ञाचमयादत्तातदावानरसंनिधौ/प्रतिज्ञाचकथंशक्यामद्विधेनानवेक्षितुम्/तदेभिःकारणैःसर्वैर्महद्भिर्धर्मसंहितैः/शासनंतवयद्युक्तंतद्भवाननुमन्यताम्/सर्वथाधर्मइत्येवद्रष्टव्यस्तवनिग्रहः/वयस्यस्योपकर्तव्यंधर्ममेवानुपश्यता/राजभिर्धृतदण्डास्तुकृत्वापापानिमानवाः/निर्मलाःस्वर्गमायान्तिसन्तःसुकृतिनोयथा/आर्येणमममान्धात्राव्यसनंघोरमीप्सितम्/श्रमणेनकृतेपापेयथापापंकृतंत्वया/अन्यैरपिकृतंपापंप्रमत्तैर्वसुधाधिपैः/प्रायश्चित्तंचकुर्वन्तितेनतच्छाम्यतेरजः/तदलंपरितापेनधर्मतःपरिकल्पितः/वधोवानरशार्दूलनवयंस्ववशेस्थिताः/वागुराभिश्चपाशैश्चकूटैश्चविविधैर्नराः/प्रतिच्छन्नाश्चदृश्याश्चगृह्णन्तिसुबहून्मृगान्/प्रधावितान्वावित्रस्तान्विस्रब्धानतिविष्ठितान्/प्रमत्तानप्रमत्तान्वानरामांसार्थिनोभृशम्/विध्यन्तिविमुखांश्चापिनचदोषोऽत्रविद्यते/यान्तिराजर्षयश्चात्रमृगयांधर्मकोविदाः/तस्मात्त्वंनिहतोयुद्धेमयाबाणेनवानर/अयुध्यन्प्रतियुध्यन्वायस्माच्छाखामृगोह्यसि/दुर्लभस्यचधर्मस्यजीवितस्यशुभस्यच/राजानोवानरश्रेष्ठप्रदातारोनसंशयः/तान्नहिंस्यान्नचाक्रोशेन्नाक्षिपेन्नाप्रियंवदेत्/देवामानुषरूपेणचरन्त्येतेमहीतले/त्वंतुधर्ममविज्ञायकेवलंरोषमास्थितः/प्रदूषयसिमांधर्मेपितृपैतामहेस्थितम्/एवमुक्तस्तुरामेणवालीप्रव्यथितोभृशम्/प्रत्युवाचततोरामंप्राञ्जलिर्वानरेश्वरः/यत्त्वमात्थनरश्रेष्ठतदेवंनात्रसंशयः/प्रतिवक्तुंप्रकृष्टेहिनापकृष्टस्तुशक्नुयात्/यदयुक्तंमयापूर्वंप्रमादाद्वाक्यमप्रियम्/तत्रापिखलुमेदोषंकर्तुंनार्हसिराघव/त्वंहिदृष्टार्थतत्त्वज्ञःप्रजानांचहितेरतः/कार्यकारणसिद्धौतेप्रसन्नाबुद्धिरव्यया/मामप्यवगतंधर्माद्व्यतिक्रान्तपुरस्कृतम्/धर्मसंहितयावाचाधर्मज्ञपरिपालय/बाष्पसंरुद्धकण्ठस्तुवालीसार्तरवःशनैः/उवाचरामंसंप्रेक्ष्यपङ्कलग्नइवद्विपः/नत्वात्मानमहंशोचेनतारांनापिबान्धवान्/यथापुत्रंगुणश्रेष्ठमङ्गदंकनकाङ्गदम्/सममादर्शनाद्दीनोबाल्यात्प्रभृतिलालितः/तटाकइवपीताम्बुरुपशोषंगमिष्यति/सुग्रीवेचाङ्गदेचैवविधत्स्वमतिमुत्तमाम्/त्वंहिशास्ताचगोप्ताचकार्याकार्यविधौस्थितः/यातेनरपतेवृत्तिर्भरतेलक्ष्मणेचया/सुग्रीवेचाङ्गदेराजंस्तांचिन्तयितुमर्हसि/मद्दोषकृतदोषांतांयथातारांतपस्विनीम्/सुग्रीवोनावमन्येततथावस्थातुमर्हसि/त्वयाह्यनुगृहीतेनशक्यंराज्यमुपासितुम्/त्वद्वशेवर्तमानेनतवचित्तानुवर्तिना/सतमाश्वासयद्रामोवालिनंव्यक्तदर्शनम्/नवयंभवताचिन्त्यानाप्यात्माहरिसत्तम/वयंभवद्विशेषेणधर्मतःकृतनिश्चयाः/दण्ड्येयःपातयेद्दण्डंदण्ड्योयश्चापिदण्ड्यते/कार्यकारणसिद्धार्थावुभौतौनावसीदतः/तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः/गतःस्वांप्रकृतिंधर्म्यांधर्मदृष्ट्तेनवर्त्मना/सतस्यवाक्यंमधुरंमहात्मनः॑समाहितंधर्मपथानुवर्तिनः/निशम्यरामस्यरणावमर्दिनो॑वचःसुयुक्तंनिजगादवानरः/शराभितप्तेनविचेतसामया॑प्रदूषितस्त्वंयदजानताप्रभो/इदंमहेन्द्रोपमभीमविक्रम॑प्रसादितस्त्वंक्षममेमहीश्वर/सवानरमहाराजःशयानःशरविक्षतः/प्रत्युक्तोहेतुमद्वाक्यैर्नोत्तरंप्रत्यपद्यत/अश्मभिःपरिभिन्नाङ्गःपादपैराहतोभृशम्/रामबाणेनचाक्रान्तोजीवितान्तेमुमोहसः/तंभार्याबाणमोक्षेणरामदत्तेनसंयुगे/हतंप्लवगशार्दूलंताराशुश्राववालिनम्/सासपुत्राप्रियंश्रुत्वावधंभर्तुःसुदारुणम्/निष्पपातभृशंत्रस्ताविविधाद्गिरिगह्वरात्/येत्वङ्गदपरीवारावानराहिमहाबलाः/तेसकार्मुकमालोक्यरामंत्रस्ताःप्रदुद्रुवुः/साददर्शततस्त्रस्तान्हरीनापततोद्रुतम्/यूथादिवपरिभ्रष्टान्मृगान्निहतयूथपान्/तानुवाचसमासाद्यदुःखितान्दुःखितासती/रामवित्रासितान्सर्वाननुबद्धानिवेषुभिः/वानराराजसिंहस्ययस्ययूयंपुरःसराः/तंविहायसुवित्रस्ताःकस्माद्द्रवतदुर्गताः/राज्यहेतोःसचेद्भ्राताभ्रातारौद्रेणपातितः/रामेणप्रसृतैर्दूरान्मार्गणैर्दूरपातिभिः/कपिपत्न्यावचःश्रुत्वाकपयःकामरूपिणः/प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्/जीवपुत्रेनिवर्तस्यपुत्रंरक्षस्वचान्दगम्/अन्तकोरामरूपेणहत्वानयतिवालिनम्/क्षिप्तान्वृक्षान्समाविध्यविपुलाश्चशिलास्तथा/वालीवज्रसमैर्बाणैर्वज्रेणेवनिपातितः/अभिद्रुतमिदंसर्वंविद्रुतंप्रसृतंबलम्/अस्मिन्प्लवगशार्दूलेहतेशक्रसमप्रभे/रक्ष्यतांनगरंशूरैरङ्गदश्चाभिषिच्यताम्/पदस्थंवालिनःपुत्रंभजिष्यन्तिप्लवंगमाः/अथवारुचिरंस्थानमिहतेरुचिरानने/आविशन्तिहिदुर्गाणिक्षिप्रमद्यैववानराः/अभार्याःसहभार्याश्चसन्त्यत्रवनचारिणः/लुब्धेभ्योविप्रयुक्तेभ्यःस्वेभ्योनस्तुमुलंभयम्/अल्पान्तरगतानांतुश्रुत्वावचनमङ्गना/आत्मनःप्रतिरूपंसाबभाषेचारुहासिनी/पुत्रेणममकिंकार्यंकिंराज्येनकिमात्मना/कपिसिंहेमहाभागेतस्मिन्भर्तरिनश्यति/पादमूलंगमिष्यामितस्यैवाहंमहात्मनः/योऽसौरामप्रयुक्तेनशरेणविनिपातितः/एवमुक्त्वाप्रदुद्रावरुदतीशोककर्शिता/शिरश्चोरश्चबाहुभ्यांदुःखेनसमभिघ्नती/आव्रजन्तीददर्शाथपतिंनिपतितंभुवि/हन्तारंदानवेन्द्राणांसमरेष्वनिवर्तिनाम्/क्षेप्तारंपर्वतेन्द्राणांवज्राणामिववासवम्/महावातसमाविष्टंमहामेघौघनिःस्वनम्/शक्रतुल्यपराक्रान्तंवृष्ट्वेवोपरतंघनम्/नर्दन्तंनर्दतांभीमंशूरंशूरेणपातितम्/शार्दूलेनामिषस्यार्थेमृगराजंयथाहतम्/अर्चितंसर्वलोकस्यसपताकंसवेदिकम्/नागहेतोःसुपर्णेनचैत्यमुन्मथितंयथा/अवष्टभ्यावतिष्ठन्तंददर्शधनुरूर्जितम्/रामंरामानुजंचैवभर्तुश्चैवानुजंशुभा/तानतीत्यसमासाद्यभर्तारंनिहतंरणे/समीक्ष्यव्यथिताभूमौसंभ्रान्तानिपपातह/सुप्तेवपुनरुत्थायआर्यपुत्रेतिक्रोशती/रुरोदसापतिंदृष्ट्वासंदितंमृत्युदामभिः/तामवेक्ष्यतुसुग्रीवःक्रोशन्तींकुररीमिव/विषादमगमत्कष्टंदृष्ट्वाचाङ्गदमागतम्/रामचापविसृष्टेनशरेणान्तकरेणतम्/दृष्ट्वाविनिहतंभूमौताराताराधिपानना/सासमासाद्यभर्तारंपर्यष्वजतभामिनी/इषुणाभिहतंदृष्ट्वावालिनंकुञ्जरोपमम्/वानरेन्द्रंमहेन्द्राभंशोकसंतप्तमानसा/तारातरुमिवोन्मूलंपर्यदेवयदातुरा/रणेदारुणविक्रान्तप्रवीरप्लवतांवर/किंदीनामपुरोभागामद्यत्वंनाभिभाषसे/उत्तिष्ठहरिशार्दूलभजस्वशयनोत्तमम्/नैवंविधाःशेरतेहिभूमौनृपतिसत्तमाः/अतीवखलुतेकान्तावसुधावसुधाधिप/गतासुरपियांगात्रैर्मांविहायनिषेवसे/व्यक्तमन्यात्वयावीरधर्मतःसंप्रवर्तता/किष्किन्धेवपुरीरम्यास्वर्गमार्गेविनिर्मिता/यान्यस्माभिस्त्वयासार्धंवनेषुमधुगन्धिषु/विहृतानित्वयाकालेतेषामुपरमःकृतः/निरानन्दानिराशाहंनिमग्नाशोकसागरे/त्वयिपञ्चत्वमापन्नेमहायूथपयूथपे/हृदयंसुस्थिरंमह्यंदृष्ट्वाविनिहतंभुवि/यन्नशोकाभिसंतप्तंस्फुटतेऽद्यसहस्रधा/सुग्रीवस्यत्वयाभार्याहृतासचविवासितः/यत्तत्तस्यत्वयाव्युष्टिःप्राप्तेयंप्लवगाधिप/निःश्रेयसपरामोहात्त्वयाचाहंविगर्हिता/यैषाब्रुवंहितंवाक्यंवानरेन्द्रहितैषिणी/कालोनिःसंशयोनूनंजीवितान्तकरस्तव/बलाद्येनावपन्नोऽसिसुग्रीवस्यावशोवशम्/वैधव्यंशोकसंतापंकृपणंकृपणासती/अदुःखोपचितापूर्वंवर्तयिष्याम्यनाथवत्/लालितश्चाङ्गदोवीरःसुकुमारःसुखोचितः/वत्स्यतेकामवस्थांमेपितृव्येक्रोधमूर्छिते/कुरुष्वपितरंपुत्रसुदृष्टंधर्मवत्सलम्/दुर्लभंदर्शनंत्वस्यतववत्सभविष्यति/समाश्वासयपुत्रंत्वंसंदेशंसंदिशस्वच/मूर्ध्निचैनंसमाघ्रायप्रवासंप्रस्थितोह्यसि/रामेणहिमहत्कर्मकृतंत्वामभिनिघ्नता/आनृण्यंतुगतंतस्यसुग्रीवस्यप्रतिश्रवे/सकामोभवसुग्रीवरुमांत्वंप्रतिपत्स्यसे/भुङ्क्ष्वराज्यमनुद्विग्नःशस्तोभ्रातारिपुस्तव/किंमामेवंविलपतींप्रेंणात्वंनाभिभाषसे/इमाःपश्यवराबह्वीर्भार्यास्तेवानरेश्वर/तस्याविलपितंश्रुत्वावानर्यःसर्वतश्चताः/परिगृह्याङ्गदंदीनंदुःखार्ताःपरिचुक्रुशुः/किमङ्गदंसाङ्गदवीरबाहो॑विहाययास्यद्यचिरप्रवासं/नयुक्तमेवंगुणसंनिकृष्टं॑विहायपुत्रंप्रियपुत्रगन्तुम्/किमप्रियंतेप्रियचारुवेष॑कृतंमयानाथसुतेनवाते/सहायिनीमद्यविहायवीर॑यमक्षयंगच्छसिदुर्विनीतम्/यद्यप्रियंकिंचिदसंप्रधार्य॑कृतंमयास्यात्तवदीर्घबाहो/क्षमस्वमेतद्धरिवंशनाथ॑व्रजामिमूर्ध्नातववीरपादौ/तथातुताराकरुणंरुदन्ती॑भर्तुःसमीपेसहवानरीभिः/व्यवस्यतप्रायमनिन्द्यवर्णा॑उपोपवेष्टुंभुवियत्रवाली/ततोनिपतितांतारांच्युतांतारामिवाम्बरात्/शनैराश्वासयामासहनूमान्हरियूथपः/गुणदोषकृतंजन्तुःस्वकर्मफलहेतुकम्/अव्यग्रस्तदवाप्नोतिसर्वंप्रेत्यशुभाशुभम्/शोच्याशोचसिकंशोच्यंदीनंदीनानुकम्पसे/कश्चकस्यानुशोच्योऽस्तिदेहेऽस्मिन्बुद्बुदोपमे/अङ्गदस्तुकुमारोऽयंद्रष्टव्योजीवपुत्रया/आयत्याचविधेयानिसमर्थान्यस्यचिन्तय/जानास्यनियतामेवंभूतानामागतिंगतिम्/तस्माच्छुभंहिकर्तव्यंपण्डितेनैहलौकिकम्/यस्मिन्हरिसहस्राणिप्रयुतान्यर्बुदानिच/वर्तयन्तिकृतांशानिसोऽयंदिष्टान्तमागतः/यदयंन्यायदृष्टार्थःसामदानक्षमापरः/गतोधर्मजितांभूमिंनैनंशोचितुमर्हसि/सर्वेचहरिशार्दूलपुत्रश्चायंतवाङ्गदः/हर्यृष्कपतिराज्यंचत्वत्सनाथमनिन्दिते/ताविमौशोकसंतप्तौशनैःप्रेरयभामिनि/त्वयापरिगृहीतोऽयमङ्गदःशास्तुमेदिनीम्/संततिश्चयथादृष्टाकृत्यंयच्चापिसाम्प्रतम्/राज्ञस्तत्क्रियतांसर्वमेषकालस्यनिश्चयः/संस्कार्योहरिराजस्तुअङ्गदश्चाभिषिच्यताम्/सिंहासनगतंपुत्रंपश्यन्तीशान्तिमेष्यसि/सातस्यवचनंश्रुत्वाभर्तृव्यसनपीडिता/अब्रवीदुत्तरंताराहनूमन्तमवस्थितम्/अङ्गदप्रतिरूपाणांपुत्राणामेकतःशतम्/हतस्याप्यस्यवीरस्यगात्रसंश्लेषणंवरम्/नचाहंहरिराजस्यप्रभवाम्यङ्गदस्यवा/पितृव्यस्तस्यसुग्रीवःसर्वकार्येष्वनन्तरः/नह्येषाबुद्धिरास्थेयाहनूमन्नङ्गदंप्रति/पिताहिबन्धुःपुत्रस्यनमाताहरिसत्तम/नहिममहरिराजसंश्रयात्॑क्षमतरमस्तिपरत्रचेहवा/अभिमुखहतवीरसेवितं॑शयनमिदंममसेवितुंक्षमम्/वीक्षमाणस्तुमन्दासुःसर्वतोमन्दमुच्छ्वसन्/आदावेवतुसुग्रीवंददर्शत्वात्मजाग्रतः/तंप्राप्तविजयंवालीसुग्रीवंप्लवगेश्वरम्/आभाष्यव्यक्तयावाचासस्नेहमिदमब्रवीत्/सुग्रीवदोषेणनमांगन्तुमर्हसिकिल्बिषात्/कृष्यमाणंभविष्येणबुद्धिमोहेनमांबलात्/युगपद्विहितंतातनमन्येसुखमावयोः/सौहार्दंभ्रातृयुक्तंहितदिदंजातमन्यथा/प्रतिपद्यत्वमद्यैवराज्यमेषांवनौकसाम्/मामप्यद्यैवगच्छन्तंविद्धिवैवस्वतक्षयम्/जीवितंचहिराज्यंचश्रियंचविपुलामिमाम्/प्रजहाम्येषवैतूर्णंमहच्चागर्हितंयशः/अस्यांत्वहमवस्थायांवीरवक्ष्यामियद्वचः/यद्यप्यसुकरंराजन्कर्तुमेवतदर्हसि/सुखार्हंसुखसंवृद्धंबालमेनमबालिशम्/बाष्पपूर्णमुखंपश्यभूमौपतितमङ्गदम्/ममप्राणैःप्रियतरंपुत्रंपुत्रमिवौरसं/मयाहीनमहीनार्थंसर्वतःपरिपालय/त्वमप्यस्यहिदाताचपरित्राताचसर्वतः/भयेष्वभयदश्चैवयथाहंप्लवगेश्वर/एषतारात्मजःश्रीमांस्त्वयातुल्यपराक्रमः/रक्षसांतुवधेतेषामग्रतस्तेभविष्यति/अनुरूपाणिकर्माणिविक्रम्यबलवान्रणे/करिष्यत्येषतारेयस्तरस्वीतरुणोऽङ्गदः/सुषेणदुहिताचेयमर्थसूक्ष्मविनिश्चये/औत्पातिकेचविविधेसर्वतःपरिनिष्ठिता/यदेषासाध्वितिब्रूयात्कार्यंतन्मुक्तसंशयम्/नहितारामतंकिंचिदन्यथापरिवर्तते/राघवस्यचतेकार्यंकर्तव्यमविशङ्कया/स्यादधर्मोह्यकरणेत्वांचहिंस्याद्विमानितः/इमांचमालामाधत्स्वदिव्यांसुग्रीवकाञ्चनीम्/उदाराश्रीःस्थिताह्यस्यांसंप्रजह्यान्मृतेमयि/इत्येवमुक्तःसुग्रीवोवालिनाभ्रातृसौहृदात्/हर्षंत्यक्त्वापुनर्दीनोग्रहग्रस्तइवोडुराट्/तद्वालिवचनाच्छान्तःकुर्वन्युक्तमतन्द्रितः/जग्राहसोऽभ्यनुज्ञातोमालांतांचैवकाञ्चनीम्/तांमालांकाञ्चनींदत्त्वावालीदृष्ट्वात्मजंस्थितम्/संसिद्धःप्रेत्यभावायस्नेहादङ्गदमब्रवीत्/देशकालौभजस्वाद्यक्षममाणःप्रियाप्रिये/सुखदुःखसहःकालेसुग्रीववशगोभव/यथाहित्वंमहाबाहोलालितःसततंमया/नतथावर्तमानंत्वांसुग्रीवोबहुमंस्यते/मास्यामित्रैर्गतंगच्छेर्माशत्रुभिररिंदम/भर्तुरर्थपरोदान्तःसुग्रीववशगोभव/नचातिप्रणयःकार्यःकर्तव्योऽप्रणयश्चते/उभयंहिमहादोषंतस्मादन्तरदृग्भव/इत्युक्त्वाथविवृत्ताक्षःशरसंपीडितोभृशम्/विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः/हतेतुवीरेप्लवगाधिपेतदा॑प्लवंगमास्तत्रनशर्मलेभिरे/वनेचराःसिंहयुतेमहावने॑यथाहिगावोनिहतेगवांपतौ/ततस्तुताराव्यसनार्णवप्लुता॑मृतस्याभर्तुर्वदनंसमीक्ष्यसा/जगामभूमिंपरिरभ्यवालिनं॑महाद्रुमंछिन्नमिवाश्रितालता/ततःसमुपजिघ्रन्तीकपिराजस्यतन्मुखम्/पतिंलोकाच्च्युतंतारामृतंवचनमब्रवीत्/शेषेत्वंविषमेदुःखमकृत्वावचनंमम/उपलोपचितेवीरसुदुःखेवसुधातले/मत्तःप्रियतरानूनंवानरेन्द्रमहीतव/शेषेहितांपरिष्वज्यमांचनप्रतिभाषसे/सुग्रीवएवविक्रान्तोवीरसाहसिकप्रिय/ऋक्षवानरमुख्यास्त्वांबलिनंपर्युपासते/एषांविलपितंकृच्छ्रमङ्गदस्यचशोचतः/ममचेमांगिरंश्रुत्वाकिंत्वंनप्रतिबुध्यसे/इदंतच्छूरशयनंयत्रशेषेहतोयुधि/शायितानिहतायत्रत्वयैवरिपवःपुरा/विशुद्धसत्त्वाभिजनप्रिययुद्धममप्रिय/मामनाथांविहायैकांगतस्त्वमसिमानद/शूरायनप्रदातव्याकन्याखलुविपश्चिता/शूरभार्यांहतांपश्यसद्योमांविधवांकृताम्/अवभग्नश्चमेमानोभग्नामेशाश्वतीगतिः/अगाधेचनिमग्नास्मिविपुलेशोकसागरे/अश्मसारमयंनूनमिदंमेहृदयंदृढम्/भर्तारंनिहतंदृष्ट्वायन्नाद्यशतधागतम्/सुहृच्चैवहिभर्ताचप्रकृत्याचममप्रियः/आहवेचपराक्रान्तःशूरःपञ्चत्वमागतः/पतिहीनातुयानारीकामंभवतुपुत्रिणी/धनधान्यैःसुपूर्णापिविधवेत्युच्यतेबुधैः/स्वगात्रप्रभवेवीरशेषेरुधिरमण्डले/कृमिरागपरिस्तोमेत्वमेवंशयनेयथा/रेणुशोणितसंवीतंगात्रंतवसमन्ततः/परिरब्धुंनशक्नोमिभुजाभ्यांप्लवगर्षभ/कृतकृत्योऽद्यसुग्रीवोवैरेऽस्मिन्नतिदारुणे/यस्यरामविमुक्तेनहृतमेकेषुणाभयम्/शरेणहृदिलग्नेनगात्रसंस्पर्शनेतव/वार्यामित्वांनिरीक्षन्तीत्वयिपञ्चत्वमागते/उद्बबर्हशरंनीलस्तस्यगात्रगतंतदा/गिरिगह्वरसंलीनंदीप्तमाशीविषंयथा/तस्यनिष्कृष्यमाणस्यबाणस्यचबभौद्युतिः/अस्तमस्तकसंरुद्धोरश्मिर्दिनकरादिव/पेतुःक्षतजधारास्तुव्रणेभ्यस्तस्यसर्वशः/ताम्रगैरिकसंपृक्ताधाराइवधराधरात्/अवकीर्णंविमार्जन्तीभर्तारंरणरेणुना/अस्रैर्नयनजैःशूरंसिषेचास्त्रसमाहतम्/रुधिरोक्षितसर्वाङ्गंदृष्ट्वाविनिहतंपतिम्/उवाचतारापिङ्गाक्षंपुत्रमङ्गदमङ्गना/अवस्थांपश्चिमांपश्यपितुःपुत्रसुदारुणाम्/संप्रसक्तस्यवैरस्यगतोऽन्तःपापकर्मणा/बालसूर्योदयतनुंप्रयान्तंयमसादनम्/अभिवादयराजानंपितरंपुत्रमानदम्/एवमुक्तःसमुत्थायजग्राहचरणौपितुः/भुजाभ्यांपीनवृताभ्यामङ्गदोऽहमितिब्रुवन्/अभिवादयमानंत्वामङ्गदंत्वंयथापुरा/दीर्घायुर्भवपुत्रेतिकिमर्थंनाभिभाषसे/अहंपुत्रसहायात्वामुपासेगतचेतनम्/सिंहेननिहतंसद्योगौःसवत्सेवगोवृषम्/इष्ट्वासंग्रामयज्ञेननानाप्रहरणाम्भसा/अस्मिन्नवभृथेस्नातःकथंपत्न्यामयाविना/यादत्तादेवराजेनतवतुष्टेनसंयुगे/शातकुम्भमयींमालांतांतेपश्यामिनेहकिम्/राजश्रीर्नजहातित्वांगतासुमपिमानद/सूर्यस्यावर्तमानस्यशैलराजमिवप्रभा/नमेवचःपथ्यमिदंत्वयाकृतं॑नचास्मिशक्ताहिनिवारणेतव/हतासपुत्रास्मिहतेनसंयुगे॑सहत्वयाश्रीर्विजहातिमामिह/गतासुंवालिनंदृष्ट्वाराघवस्तदनन्तरम्/अब्रवीत्प्रश्रितंवाक्यंसुग्रीवंशत्रुतापनः/नशोकपरितापेनश्रेयसायुज्यतेमृतः/यदत्रानन्तरंकार्यंतत्समाधातुमर्हथ/लोकवृत्तमनुष्ठेयंकृतंवोबाष्पमोक्षणम्/नकालादुत्तरंकिंचित्कर्मशक्यमुपासितुम्/नियतःकारणंलोकेनियतिःकर्मसाधनम्/नियतिःसर्वभूतानांनियोगेष्विहकारणम्/नकर्ताकस्यचित्कश्चिन्नियोगेचापिनेश्वरः/स्वभावेवर्ततेलोकस्तस्यकालःपरायणम्/नकालःकालमत्येतिनकालःपरिहीयते/स्वभावंवासमासाद्यनकश्चिदतिवर्तते/नकालस्यास्तिबन्धुत्वंनहेतुर्नपराक्रमः/नमित्रज्ञातिसंबन्धःकारणंनात्मनोवशः/किंतुकालपरीणामोद्रष्टव्यःसाधुपश्यता/धर्मश्चार्थश्चकामश्चकालक्रमसमाहिताः/इतःस्वांप्रकृतिंवालीगतःप्राप्तःक्रियाफलम्/धर्मार्थकामसंयोगैःपवित्रंप्लवगेश्वर/स्वधर्मस्यचसंयोगाज्जितस्तेनमहात्मना/स्वर्गःपरिगृहीतश्चप्राणानपरिरक्षता/एषावैनियतिःश्रेष्ठायांगतोहरियूथपः/तदलंपरितापेनप्राप्तकालमुपास्यताम्/वचनान्तेतुरामस्यलक्ष्मणःपरवीरहा/अवदत्प्रश्रितंवाक्यंसुग्रीवंगतचेतसं/कुरुत्वमस्यसुग्रीवप्रेतकार्यमनन्तरम्/ताराङ्गदाभ्यांसहितोवालिनोदहनंप्रति/समाज्ञापयकाष्ठानिशुष्काणिचबहूनिच/चन्दनानिचदिव्यानिवालिसंस्कारकारणात्/समाश्वासयचैनंत्वमङ्गदंदीनचेतसं/माभूर्बालिशबुद्धिस्त्वंत्वदधीनमिदंपुरम्/अङ्गदस्त्वानयेन्माल्यंवस्त्राणिविविधानिच/घृतंतैलमथोगन्धान्यच्चात्रसमनन्तरम्/त्वंतारशिबिकांशीघ्रमादायागच्छसंभ्रमात्/त्वरागुणवतीयुक्ताह्यस्मिन्कालेविशेषतः/सज्जीभवन्तुप्लवगाःशिबिकावाहनोचिताः/समर्थाबलिनश्चैवनिर्हरिष्यन्तिवालिनम्/एवमुक्त्वातुसुग्रीवंसुमित्रानन्दवर्धनः/तस्थौभ्रातृसमीपस्थोलक्ष्मणःपरवीरहा/लक्ष्मणस्यवचःश्रुत्वातारःसंभ्रान्तमानसः/प्रविवेशगुहांशीघ्रंशिबिकासक्तमानसः/आदायशिबिकांतारःसतुपर्यापयत्पुनः/वानरैरुह्यमानांतांशूरैरुद्वहनोचितैः/ततोवालिनमुद्यम्यसुग्रीवःशिबिकांतदा/आरोपयतविक्रोशन्नङ्गदेनसहैवतु/आरोप्यशिबिकांचैववालिनंगतजीवितम्/अलंकारैश्चविविधैर्माल्यैर्वस्त्रैश्चभूषितम्/आज्ञापयत्तदाराजासुग्रीवःप्लवगेश्वरः/और्ध्वदेहिकमार्यस्यक्रियतामनुरूपतः/विश्राणयन्तोरत्नानिविविधानिबहूनिच/अग्रतःप्लवगायान्तुशिबिकातदनन्तरम्/राज्ञामृद्धिविशेषाहिदृश्यन्तेभुवियादृशाः/तादृशंवालिनःक्षिप्रंप्राकुर्वन्नौर्ध्वदेहिकम्/अङ्गदमप्रिगृह्याशुतारप्रभृतयस्तथा/क्रोशन्तःप्रययुःसर्वेवानराहतबान्धवाः/ताराप्रभृतयःसर्वावानर्योहतयूथपाः/अनुजग्मुर्हिभर्तारंक्रोशन्त्यःकरुणस्वनाः/तासांरुदितशब्देनवानरीणांवनान्तरे/वनानिगिरयःसर्वेविक्रोशन्तीवसर्वतः/पुलिनेगिरिनद्यास्तुविविक्तेजलसंवृते/चितांचक्रुःसुबहवोवानरावनचारिणः/अवरोप्यततःस्कन्धाच्छिबिकांवहनोचिताः/तस्थुरेकान्तमाश्रित्यसर्वेशोकसमन्विताः/ततस्तारापतिंदृष्ट्वाशिबिकातलशायिनम्/आरोप्याङ्केशिरस्तस्यविललापसुदुःखिता/जनंचपश्यसीमंत्वंकस्माच्छोकाभिपीडितम्/प्रहृष्टमिवतेवक्त्रंगतासोरपिमानद/अस्तार्कसमवर्णंचलक्ष्यतेजीवतोयथा/एषत्वांरामरूपेणकालःकर्षतिवानर/येनस्मविधवाःसर्वाःकृताएकेषुणारणे/इमास्तास्तवराजेन्द्रवानर्योवल्लभाःसदा/पादैर्विकृष्टमध्वानमागताःकिंनबुध्यसे/तवेष्टाननुनामैताभार्याश्चन्द्रनिभाननाः/इदानींनेक्षसेकस्मात्सुग्रीवंप्लवगेश्वरम्/एतेहिसचिवाराजंस्तारप्रभृतयस्तव/पुरवासिजनश्चायंपरिवार्यासतेऽनघ/विसर्जयैनान्प्रवलान्यथोचितमरिंदम/ततःक्रीडामहेसर्वावनेषुमदिरोत्कटाः/एवंविलपतींतारांपतिशोकपरिप्लुताम्/उत्थापयन्तिस्मतदावानर्यःशोककर्शिताः/सुग्रीवेणततःसार्धमङ्गदःपितरंरुदन्/चितामारोपयामासशोकेनाभिहतेन्द्रियः/ततोऽग्निंविधिवद्दत्त्वासोऽपसव्यंचकारह/पितरंदीर्घमध्वानंप्रस्थितंव्याकुलेन्द्रियः/संस्कृत्यवालिनंतेतुविधिपूर्वंप्लवंगमाः/आजग्मुरुदकंकर्तुंनदींशीतजलांशुभाम्/ततस्तेसहितास्तत्रअङ्गदंस्थाप्यचाग्रतः/सुग्रीवतारासहिताःसिषिचुर्वालिनेजलम्/सुग्रीवेणैवदीनेनदीनोभूत्वामहाबलः/समानशोकःकाकुत्स्थःप्रेतकार्याण्यकारयत्/ततःशोकाभिसंतप्तंसुग्रीवंक्लिन्नवासनम्/शाखामृगमहामात्राःपरिवार्योपतस्थिरे/अभिगम्यमहाबाहुंराममक्लिष्टकारिणम्/स्थिताःप्राञ्जलयःसर्वेपितामहमिवर्षयः/ततःकाञ्चनशैलाभस्तरुणार्कनिभाननः/अब्रवीत्प्राञ्जलिर्वाक्यंहनुमान्मारुतात्मजः/भवत्प्रसादात्सुग्रीवःपितृपैतामहंमहत्/वानराणांसुदुष्प्रापंप्राप्तोराज्यमिदंप्रभो/भवतासमनुज्ञातःप्रविश्यनगरंशुभम्/संविधास्यतिकार्याणिसर्वाणिससुहृज्जनः/स्नातोऽयंविविधैर्गन्धैरौषधैश्चयथाविधि/अर्चयिष्यतिरत्नैश्चमाल्यैश्चत्वांविशेषतः/इमांगिरिगुहांरम्यामभिगन्तुमितोऽर्हसि/कुरुष्वस्वामिसंबन्धंवानरान्संप्रहर्षयन्/एवमुक्तोहनुमताराघवःपरवीरहा/प्रत्युवाचहनूमन्तंबुद्धिमान्वाक्यकोविदः/चतुर्दशसमाःसौम्यग्रामंवायदिवापुरम्/नप्रवेक्ष्यामिहनुमन्पितुर्निर्देशपालकः/सुसमृद्धांगुहांदिव्यांसुग्रीवोवानरर्षभः/प्रविष्टोविधिवद्वीरःक्षिप्रंराज्येऽभिषिच्यताम्/एवमुक्त्वाहनूमन्तंरामःसुग्रीवमब्रवीत्/इममप्यङ्गदंवीरयौवराज्येऽभिषेचय/पूर्वोऽयंवार्षिकोमासःश्रावणःसलिलागमः/प्रवृत्ताःसौम्यचत्वारोमासावार्षिकसंज्ञिताः/नायमुद्योगसमयःप्रविशत्वंपुरींशुभाम्/अस्मिन्वत्स्याम्यहंसौम्यपर्वतेसहलक्ष्मणः/इयंगिरिगुहारम्याविशालायुक्तमारुता/प्रभूतसलिलासौम्यप्रभूतकमलोत्पला/कार्तिकेसमनुप्राप्तेत्वंरावणवधेयत/एषनःसमयःसौम्यप्रविशत्वंस्वमालयम्/अभिषिञ्चस्वराज्येचसुहृदःसंप्रहर्षय/इतिरामाभ्यनुज्ञातःसुग्रीवोवानरर्षभः/प्रविवेशपुरींरम्यांकिष्किन्धांवालिपालिताम्/तंवानरसहस्राणिप्रविष्टंवानरेश्वरम्/अभिवाद्यप्रहृष्टानिसर्वतःपर्यवारयन्/ततःप्रकृतयःसर्वादृष्ट्वाहरिगणेश्वरम्/प्रणम्यमूर्ध्नापतितावसुधायांसमाहिताः/सुग्रीवःप्रकृतीःसर्वाःसंभाष्योत्थाप्यवीर्यवान्/भ्रातुरन्तःपुरंसौम्यंप्रविवेशमहाबलः/प्रविश्यत्वभिनिष्क्रान्तंसुग्रीवंवानरर्षभम्/अभ्यषिञ्चन्तसुहृदःसहस्राक्षमिवामराः/तस्यपाण्डुरमाजह्रुश्छत्रंहेमपरिष्कृतम्/शुक्लेचबालव्यजनेहेमदण्डेयशस्करे/तथासर्वाणिरत्नानिसर्वबीजौषधानिच/सक्षीराणांचवृक्षाणांप्ररोहान्कुसुमानिच/शुक्लानिचैववस्त्राणिश्वेतंचैवानुलेपनम्/सुगन्धीनिचमाल्यानिस्थलजान्यम्बुजानिच/चन्दनानिचदिव्यानिगन्धांश्चविविधान्बहून्/अक्षतंजातरूपंचप्रियङ्गुमधुसर्पिषी/दधिचर्मचवैयाघ्रंवाराहीचाप्युपानहौ/समालम्भनमादायरोचनांसमनःशिलाम्/आजग्मुस्तत्रमुदितावराःकन्यास्तुषोडश/ततस्तेवानरश्रेष्ठंयथाकालंयथाविधि/रत्नैर्वस्त्रैश्चभक्ष्यैश्चतोषयित्वाद्विजर्षभान्/ततःकुशपरिस्तीर्णंसमिद्धंजातवेदसं/मन्त्रपूतेनहविषाहुत्वामन्त्रविदोजनाः/ततोहेमप्रतिष्ठानेवरास्तरणसंवृते/प्रासादशिखरेरम्येचित्रमाल्योपशोभिते/प्राङ्मुखंविविधिअर्मन्त्रैःस्थापयित्वावरासने/नदीनदेभ्यःसंहृत्यतीर्थेभ्यश्चसमन्ततः/आहृत्यचसमुद्रेभ्यःसर्वेभ्योवानरर्षभाः/अपःकनककुम्भेषुनिधायविमलाःशुभाः/शुभैर्वृषभशृङ्गैश्चकलशैश्चापिकाञ्चनैः/शास्त्रदृष्टेनविधिनामहर्षिविहितेनच/गजोगवाक्षोगवयःशरभोगन्धमादनः/मैन्दश्चद्विविदश्चैवहनूमाञ्जाम्बवान्नलः/अभ्यषिञ्चन्तसुग्रीवंप्रसन्नेनसुगन्धिना/सलिलेनसहस्राक्षंवसवोवासवंयथा/अभिषिक्तेतुसुग्रीवेसर्वेवानरपुंगवाः/प्रचुक्रुशुर्महात्मानोहृष्टास्तत्रसहस्रशः/रामस्यतुवचःकुर्वन्सुग्रीवोहरिपुंगवः/अङ्गदंसंपरिष्वज्ययौवराज्येऽभिषेचयत्/अङ्गदेचाभिषिक्तेतुसानुक्रोशाःप्लवंगमाः/साधुसाध्वितिसुग्रीवंमहात्मानोऽभ्यपूजयन्/हृष्टपुष्टजनाकीर्णापताकाध्वजशोभिता/बभूवनगरीरम्याक्षिकिन्धागिरिगह्वरे/निवेद्यरामायतदामहात्मने॑महाभिषेकंकपिवाहिनीपतिः/रुमांचभार्यांप्रतिलभ्यवीर्यवान्॑अवापराज्यंत्रिदशाधिपोयथा/अभिषिक्तेतुसुग्रीवेप्रविष्टेवानरेगुहाम्/आजगामसहभ्रात्रारामःप्रस्रवणंगिरिम्/शार्दूलमृगसंघुष्टंसिंहैर्भीमरवैर्वृतम्/नानागुल्मलतागूढंबहुपादपसंकुलम्/ऋक्षवानरगोपुच्छैर्मार्जारैश्चनिषेवितम्/मेघराशिनिभंशैलंनित्यंशुचिजलाश्रयम्/तस्यशैलस्यशिखरेमहतीमायतांगुहाम्/प्रत्यगृह्णतवासार्थंरामःसौमित्रिणासह/अवसत्तत्रधर्मात्माराघवःसहलक्ष्मणः/बहुदृश्यदरीकुञ्जेतस्मिन्प्रस्रवणेगिरौ/सुसुखेऽपिबहुद्रव्येतस्मिन्हिधरणीधरे/वसतस्तस्यरामस्यरतिरल्पापिनाभवत्/हृतांहिभार्यांस्मरतःप्राणेभ्योऽपिगरीयसीम्/उदयाभ्युदितंदृष्ट्वाशशाङ्कंचविशेषतः/आविवेशनतंनिद्रानिशासुशयनंगतम्/तत्समुत्थेनशोकेनबाष्पोपहतचेतसं/तंशोचमानंकाकुत्स्थंनित्यंशोकपरायणम्/तुल्यदुःखोऽब्रवीद्भ्रातालक्ष्मणोऽनुनयन्वचः/अलंवीरव्यथांगत्वानत्वंशोचितुमर्हसि/शोचतोह्यवसीदन्तिसर्वार्थाविदितंहिते/भवान्क्रियापरोलोकेभवान्देवपरायणः/आस्तिकोधर्मशीलश्चव्यवसायीचराघव/नह्यव्यवसितःशत्रुंराक्षसंतंविशेषतः/समर्थस्त्वंरणेहन्तुंविक्रमैर्जिह्मकारिणम्/समुन्मूलयशोकंत्वंव्यवसायंस्थिरंकुरु/ततःसपरिवारंतंनिर्मूलंकुरुराक्षसं/पृथिवीमपिकाकुत्स्थससागरवनाचलाम्/परिवर्तयितुंशक्तःकिमङ्गपुनरावणम्/अहंतुखलुतेवीर्यंप्रसुप्तंप्रतिबोधये/दीप्तैराहुतिभिःकालेभस्मच्छन्नमिवानलम्/लक्ष्मणस्यतुतद्वाक्यंप्रतिपूज्यहितंशुभम्/राघवःसुहृदंस्निग्धमिदंवचनमब्रवीत्/वाच्यंयदनुरक्तेनस्निग्धेनचहितेनच/सत्यविक्रमयुक्तेनतदुक्तंलक्ष्मणत्वया/एषशोकःपरित्यक्तःसर्वकार्यावसादकः/विक्रमेष्वप्रतिहतंतेजःप्रोत्साहयाम्यहम्/शरत्कालंप्रतीक्षेऽहमियंप्रावृडुपस्थिता/ततःसराष्ट्रंसगणंराक्षसंतंनिहन्म्यहम्/तस्यतद्वचनंश्रुत्वाहृष्टोरामस्यलक्ष्मणः/पुनरेवाब्रवीद्वाक्यंसौमित्रिर्मित्रनन्दनः/एतत्तेसदृशंवाक्यमुक्तंशत्रुनिबर्हण/इदानीमसिकाकुत्स्थप्रकृतिंस्वामुपागतः/विज्ञायह्यात्मनोवीर्यंतथ्यंभवितुमर्हसि/एतत्सदृशमुक्तंतेश्रुतस्याभिजनस्यच/तस्मात्पुरुषशार्दूलचिन्तयञ्शत्रुनिग्रहम्/वर्षारात्रमनुप्राप्तमतिक्रामयराघव/नियम्यकोपंप्रतिपाल्यतांशरत्॑क्षमस्वमासांश्चतुरोमयासह/वसाचलेऽस्मिन्मृगराजसेविते॑संवर्धयञ्शत्रुवधेसमुद्यतः/सतदावालिनंहत्वासुग्रीवमभिषिच्यच/वसन्माल्यवतःपृष्टेरामोलक्ष्मणमब्रवीत्/अयंसकालःसंप्राप्तःसमयोऽद्यजलागमः/संपश्यत्वंनभोमेघैःसंवृतंगिरिसंनिभैः/नवमासधृतंगर्भंभास्कारस्यगभस्तिभिः/पीत्वारसंसमुद्राणांद्यौःप्रसूतेरसायनम्/शक्यमम्बरमारुह्यमेघसोपानपङ्क्तिभिः/कुटजार्जुनमालाभिरलंकर्तुंदिवाकरम्/संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः/स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम्/मन्दमारुतनिःश्वासंसंध्याचन्दनरञ्जितम्/आपाण्डुजलदंभातिकामातुरमिवाम्बरम्/एषाधर्मपरिक्लिष्टानववारिपरिप्लुता/सीतेवशोकसंतप्तामहीबाष्पंविमुञ्चति/मेघोदरविनिर्मुक्ताःकह्लारसुखशीतलाः/शक्यमञ्जलिभिःपातुंवाताःकेतकिगन्धिनः/एषफुल्लार्जुनःशैलःकेतकैरधिवासितः/सुग्रीवइवशान्तारिर्धाराभिरभिषिच्यते/मेघकृष्णाजिनधराधारायज्ञोपवीतिनः/मारुतापूरितगुहाःप्राधीताइवपर्वताः/कशाभिरिवहैमीभिर्विद्युद्भिरिवताडितम्/अन्तःस्तनितनिर्घोषंसवेदनमिवाम्बरम्/नीलमेघाश्रिताविद्युत्स्फुरन्तीप्रतिभातिमे/स्फुरन्तीरावणस्याङ्केवैदेहीवतपस्विनी/इमास्तामन्मथवतांहिताःप्रतिहतादिशः/अनुलिप्ताइवघनैर्नष्टग्रहनिशाकराः/क्वचिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान्/कुटजान्पश्यसौमित्रेपुष्टितान्गिरिसानुषु/ममशोकाभिभूतस्यकामसंदीपनान्स्थितान्/रजःप्रशान्तंसहिमोऽद्यवायुर्॑निदाघदोषप्रसराःप्रशान्ताः/स्थिताहियात्रावसुधाधिपानां॑प्रवासिनोयान्तिनराःस्वदेशान्/संप्रस्थितामानसवासलुब्धाः॑प्रियान्विताःसंप्रतिचक्रवाकः/अभीक्ष्णवर्षोदकविक्षतेषु॑यानानिमार्गेषुनसंपतन्ति/क्वचित्प्रकाशंक्वचिदप्रकाशं॑नभःप्रकीर्णाम्बुधरंविभाति/क्वचित्क्वचित्पर्वतसंनिरुद्धं॑रूपंयथाशान्तमहार्णवस्य/व्यामिश्रितंसर्जकदम्बपुष्पैर्॑नवंजलंपर्वतधातुताम्रम्/मयूरकेकाभिरनुप्रयातं॑शैलापगाःशीघ्रतरंवहन्ति/रसाकुलंषट्पदसंनिकाशं॑प्रभुज्यतेजम्बुफलंप्रकामम्/अनेकवर्णंपवनावधूतं॑भूमौपतत्याम्रफलंविपक्वम्/विद्युत्पताकाःसबलाकमालाः॑शैलेन्द्रकूटाकृतिसंनिकाशाः/गर्जन्तिमेघाःसमुदीर्णनादा॑मत्तगजेन्द्राइवसंयुगस्थः/मेघाभिकामीपरिसंपतन्ती॑संमोदिताभातिबलाकपङ्क्तिः/वातावधूतावरपौण्डरीकी॑लम्बेवमालारचिताम्बरस्य/निद्राशनैःकेशवमभ्युपैति॑द्रुतंनदीसागरमभ्युपैति/हृष्टाबलाकाघनमभ्युपैति॑कान्तासकामाप्रियमभ्युपैति/जातावनान्ताःशिखिसुप्रनृत्ता॑जाताःकदम्बाःसकदम्बशाखाः/जातावृषागोषुसमानकामा॑जातामहीसस्यवनाभिरामा/वहन्तिवर्षन्तिनदन्तिभान्ति॑ध्यायन्तिनृत्यन्तिसमाश्वसन्ति/नद्योघनामत्तगजावनान्ताः॑प्रियाविनीहाःशिखिनःप्लवंगाः/प्रहर्षिताःकेतकपुष्पगन्धम्॑आघ्रायहृष्टावननिर्झरेषु/प्रपातशब्दाकुलितागजेन्द्राः॑सार्धंमयूरैःसमदानदन्ति/धारानिपातैरभिहन्यमानाः॑कदम्बशाखासुविलम्बमानाः/क्षणार्जितंपुष्परसावगाढं॑शनैर्मदंषट्चरणास्त्यजन्ति/अङ्गारचूर्णोत्करसंनिकाशैः॑फलैःसुपर्याप्तरसैःसमृद्धैः/जम्बूद्रुमाणांप्रविभान्तिशाखा॑निलीयमानाइवषट्पदौघैः/तडित्पताकाभिरलंकृतानाम्॑उदीर्णगम्भीरमहारवाणाम्/विभान्तिरूपाणिबलाहकानां॑रणोद्यतानामिववारणानाम्/मार्गानुगःशैलवनानुसारी॑संप्रस्थितोमेघरवंनिशम्य/युद्धाभिकामःप्रतिनागशङ्की॑मत्तोगजेन्द्रःप्रतिसंनिवृत्तः/मुक्तासकाशंसलिलंपतद्वै॑सुनिर्मलंपत्रपुटेषुलग्नम्/हृष्टाविवर्णच्छदनाविहंगाः॑सुरेन्द्रदत्तंतृषिताःपिबन्ति/नीलेषुनीलानववारिपूर्णा॑मेघेषुमेघाःप्रविभान्तिसक्ताः/दवाग्निदग्धेषुदवाग्निदग्धाः॑शैलेषुशैलाइवबद्धमूलाः/मत्तागजेन्द्रामुदितागवेन्द्रा॑वनेषुविश्रान्ततरामृगेन्द्राः/रम्यानगेन्द्रानिभृतानगेन्द्राः॑प्रक्रीडितोवारिधरैःसुरेन्द्रः/वृत्तायात्रानरेन्द्राणांसेनाप्रतिनिवर्तते/वैराणिचैवमार्गाश्चसलिलेनसमीकृताः/मासिप्रौष्ठपदेब्रह्मब्राह्मणानांविवक्षताम्/अयमध्यायसमयःसामगानामुपस्थितः/निवृत्तकर्मायतनोनूनंसंचितसंचयः/आषाढीमभ्युपगतोभरतःकोषकाधिपः/नूनमापूर्यमाणायाःसरय्वावधतेरयः/मांसमीक्ष्यसमायान्तमयोध्यायाइवस्वनः/इमाःस्फीतगुणावर्षाःसुग्रीवःसुखमश्नुते/विजितारिःसदारश्चराज्येमहतिचस्थितः/अहंतुहृतदारश्चराज्याच्चमहतश्च्युतः/नदीकूलमिवक्लिन्नमवसीदामिलक्ष्मण/शोकश्चममविस्तीर्णोवर्षाश्चभृशदुर्गमाः/रावणश्चमहाञ्शत्रुरपारंप्रतिभातिमे/अयात्रांचैवदृष्ट्वेमांमार्गांश्चभृशदुर्गमान्/प्रणतेचैवसुग्रीवेनमयाकिंचिदीरितम्/अपिचातिपरिक्लिष्टंचिराद्दारैःसमागतम्/आत्मकार्यगरीयस्त्वाद्वक्तुंनेच्छामिवानरम्/स्वयमेवहिविश्रम्यज्ञात्वाकालमुपागतम्/उपकारंचसुग्रीवोवेत्स्यतेनात्रसंशयः/तस्मात्कालप्रतीक्षोऽहंस्थितोऽस्मिशुभलक्षण/सुग्रीवस्यनदीनांचप्रसादमनुपालयन्/उपकारेणवीरोहिप्रतिकारेणयुज्यते/अकृतज्ञोऽप्रतिकृतोहन्तिसत्त्ववतांमनः/अथैवमुक्तःप्रणिधायलक्ष्मणः॑कृताञ्जलिस्तत्प्रतिपूज्यभाषितम्/उवाचरामंस्वभिरामदर्शनं॑प्रदर्शयन्दर्शनमात्मनःशुभम्/यथोक्तमेतत्तवसर्वमीप्सितं॑नरेन्द्रकर्तानचिराद्धरीश्वरः/शरत्प्रतीक्षःक्षमतामिमंभवाञ्॑जलप्रपातंरिपुनिग्रहेधृतः/समीक्ष्यविमलंव्योमगतविद्युद्बलाहकम्/सारसारवसंघुष्टंरम्यज्योत्स्नानुलेपनम्/समृद्धार्थंचसुग्रीवंमन्दधर्मार्थसंग्रहम्/अत्यर्थमसतांमार्गमेकान्तगतमानसं/निवृत्तकार्यंसिद्धार्थंप्रमदाभिरतंसदा/प्राप्तवन्तमभिप्रेतान्सर्वानेवमनोरथान्/स्वांचपात्नीमभिप्रेतांतारांचापिसमीप्सिताम्/विहरन्तमहोरात्रंकृतार्थंविगतज्वलम्/क्रीडन्तमिवदेवेशंनन्दनेऽप्सरसांगणैः/मन्त्रिषुन्यस्तकार्यंचमन्त्रिणामनवेक्षकम्/उत्सन्नराज्यसंदेशंकामवृत्तमवस्थितम्/निश्चितार्थोऽर्थतत्त्वज्ञःकालधर्मविशेषवित्/प्रसाद्यवाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः/वाक्यविद्वाक्यतत्त्वज्ञंहरीशंमारुतात्मजः/हितंतथ्यंचपथ्यंचसामधर्मार्थनीतिमत्/प्रणयप्रीतिसंयुक्तंविश्वासकृतनिश्चयम्/हरीश्वरमुपागम्यहनुमान्वाक्यमब्रवीत्/राज्यंप्राप्तंयशश्चैवकौलीश्रीरभिवर्थिता/मित्राणांसंग्रहःशेषस्तद्भवान्कर्तुमर्हति/योहिमित्रेषुकालज्ञःसततंसाधुवर्तते/तस्यराज्यंचकीर्तिश्चप्रतापश्चाभिवर्धते/यस्यकोशश्चदण्डश्चमित्राण्यात्माचभूमिप/समवेतानिसर्वाणिसराज्यंमहदश्नुते/तद्भवान्वृत्तसंपन्नःस्थितःपथिनिरत्यये/मित्रार्थमभिनीतार्थंयथावत्कर्तुमर्हति/यस्तुकालव्यतीतेषुमित्रकार्येषुवर्तते/सकृत्वामहतोऽप्यर्थान्नमित्रार्थेनयुज्यते/क्रियतांराघवस्यैतद्वैदेह्याःपरिमार्गणम्/तदिदंवीरकार्यंतेकालातीतमरिंदम/नचकालमतीतंतेनिवेदयतिकालवित्/त्वरमाणोऽपिसन्प्राज्ञस्तवराजन्वशानुगः/कुलस्यकेतुःस्फीतस्यदीर्घबन्धुश्चराघवः/अप्रमेयप्रभावश्चस्वयंचाप्रतिमोगुणैः/तस्यत्वंकुरुवैकार्यंपूर्वंतेनकृतंतव/हरीश्वरहरिश्रेष्ठानाज्ञापयितुमर्हसि/नहितावद्भवेत्कालोव्यतीतश्चोदनादृते/चोदितस्यहिकार्यस्यभवेत्कालव्यतिक्रमः/अकर्तुरपिकार्यस्यभवान्कर्ताहरीश्वर/किंपुनःप्रतिकर्तुस्तेराज्येनचधनेनच/शक्तिमानसिविक्रान्तोवानरर्ष्कगणेश्वर/कर्तुंदाशरथेःप्रीतिमाज्ञायांकिंनुसज्जसे/कामंखलुशरैर्शक्तःसुरासुरमहोरगान्/वशेदाशरथिःकर्तुंत्वत्प्रतिज्ञांतुकाङ्क्षते/प्राणत्यागाविशङ्केनकृतंतेनतवप्रियम्/तस्यमार्गामवैदेहींपृथिव्यामपिचाम्बरे/नदेवानचगन्धर्वानासुरानमरुद्गणाः/नचयक्षाभयंतस्यकुर्युःकिमुतराक्षसाः/तदेवंशक्तियुक्तस्यपूर्वंप्रियकृतस्तथा/रामस्यार्हसिपिङ्गेशकर्तुंसर्वात्मनाप्रियम्/नाधस्तादवनौनाप्सुगतिर्नोपरिचाम्बरे/कस्यचित्सज्जतेऽस्माकंकपीश्वरतवाज्ञया/तदाज्ञापयकःकिंतेकृतेवसतुकुत्रचित्/हरयोह्यप्रधृष्यास्तेसन्तिकोट्यग्रतोऽनघ/तस्यतद्वचनंश्रुत्वाकालेसाधुनिवेदितम्/सुग्रीवःसत्त्वसंपन्नश्चकारमतिमुत्तमाम्/ससंदिदेशाभिमतंनीलंनित्यकृतोद्यमम्/दिक्षुसर्वासुसर्वेषांसैन्यानामुपसंग्रहे/यथासेनासमग्रामेयूथपालाश्चसर्वशः/समागच्छन्त्यसंगेनसेनाग्राणितथाकुरु/येत्वन्तपालाःप्लवगाःशीघ्रगाव्यवसायिनः/समानयन्तुतेसैन्यंत्वरिताःशासनान्मम/स्वयंचानन्तरंसैन्यंभवानेवानुपश्यतु/त्रिपञ्चरात्रादूर्ध्वंयःप्राप्नुयान्नेहवानरः/तस्यप्राणान्तिकोदण्डोनात्रकार्याविचारणा/हरींश्चवृद्धानुपयातुसाङ्गदो॑भवान्ममाज्ञामधिकृत्यनिश्चिताम्/इतिव्यवस्थांहरिपुंगवेश्वरो॑विधायवेश्मप्रविवेशवीर्यवान्/गुहांप्रविष्टेसुग्रीवेविमुक्तेगगनेघनैः/वर्षरात्रोषितोरामःकामशोकाभिपीडितः/पाण्डुरंगगनंदृष्ट्वाविमलंचन्द्रमण्डलम्/शारदींरजनींचैवदृष्ट्वाज्योत्स्नानुलेपनाम्/कामवृत्तंचसुग्रीवंनष्टांचजनकात्मजाम्/बुद्ध्वाकालमतीतंचमुमोहपरमातुरः/सतुसंज्ञामुपागम्यमुहूर्तान्मतिमान्पुनः/मनःस्थामपिवैदेहींचिन्तयामासराघवः/आसीनःपर्वतस्याग्रेहेमधातुविभूषिते/शारदंगगनंदृष्ट्वजगाममनसाप्रियाम्/दृष्ट्वाचविमलंव्योमगतविद्युद्बलाहकम्/सारसारवसंघुष्टंविललापार्तयागिरा/सारसारवसंनादैःसारसारवनादिनी/याश्रमेरमतेबालासाद्यमेरमतेकथम्/पुष्पितांश्चासनान्दृष्ट्वाकाञ्चनानिवनिर्मलान्/कथंसरमतेबालापश्यन्तीमामपश्यती/यापुराकलहंसानांस्वरेणकलभाषिणी/बुध्यतेचारुसर्वाङ्गीसाद्यमेबुध्यतेकथम्/निःस्वनंचक्रवाकानांनिशम्यसहचारिणाम्/पुण्डरीकविशालाक्षीकथमेषाभविष्यति/सरांसिसरितोवापीःकाननानिवनानिच/तांविनामृगशावाक्षींचरन्नाद्यसुखंलभे/अपितांमद्वियोगाच्चसौकुमार्याच्चभामिनीम्/नदूरंपीडयेत्कामःशरद्गुणनिरन्तरः/एवमादिनरश्रेष्ठोविललापनृपात्मजः/विहंगइवसारङ्गःसलिलंत्रिदशेश्वरात्/ततश्चञ्चूर्यरम्येषुफलार्थीगिरिसानुषु/ददर्शपर्युपावृत्तोलक्ष्मीवांल्लक्ष्मणोऽग्रजम्/तंचिन्तयादुःसहयापरीतं॑विसंज्ञमेकंविजनेमनस्वी/भ्रातुर्विषादात्परितापदीनः॑समीक्ष्यसौमित्रिरुवाचरामम्/किमार्यकामस्यवशंगतेन॑किमात्मपौरुष्यपराभवेन/अयंसदासंहृइयतेसमाधिः॑किमत्रयोगेननिवर्तितेन/क्रियाभियोगंमनसःप्रसादं॑समाधियोगानुगतंचकालम्/सहायसामर्थ्यमदीनसत्त्व॑स्वकर्महेतुंचकुरुष्वहेतुम्/नजानकीमानववंशनाथ॑त्वयासनाथासुलभापरेण/नचाग्निचूडांज्वलितामुपेत्य॑नदह्यतेवीरवरार्हकश्चित्/सलक्ष्मणंलक्ष्मणमप्रधृष्यं॑स्वभावजंवाक्यमुवाचरामः/हितंचपथ्यंचनयप्रसक्तं॑ससामधर्मार्थसमाहितंच/निःसंशयंकार्यमवेक्षितव्यं॑क्रियाविशेषोह्यनुवर्तितव्यः/ननुप्रवृत्तस्यदुरासदस्य॑कुमारकार्यस्यफलंनचिन्त्यम्/अथपद्मपलाशाक्षींमैथिलीमनुचिन्तयन्/उवाचलक्ष्मणंरामोमुखेनपरिशुष्यता/तर्पयित्वासहस्राक्षःसलिलेनवसुंधराम्/निर्वर्तयित्वासस्यानिकृतकर्माव्यवस्थितः/स्निग्धगम्भीरनिर्घोषाःशैलद्रुमपुरोगमाः/विसृज्यसलिलंमेघाःपरिश्रान्तानृपात्मज/नीलोत्पलदलश्यामःश्यामीकृत्वादिशोदश/विमदाइवमातङ्गाःशान्तवेगाःपयोधराः/जलगर्भामहावेगाःकुटजार्जुनगन्धिनः/चरित्वाविरताःसौम्यवृष्टिवाताःसमुद्यताः/घनानांवारणानांचमयूराणांचलक्ष्मण/नादःप्रस्रवणानांचप्रशान्तःसहसानघ/अभिवृष्टामहामेघैर्निर्मलाश्चित्रसानवः/अनुलिप्ताइवाभान्तिगिरयश्चन्द्ररश्मिभिः/दर्शयन्तिशरन्नद्यःपुलिनानिशनैःशनैः/नवसंगमसव्रीडाजघनानीवयोषितः/प्रसन्नसलिलाःसौम्यकुररीभिर्विनादिताः/चक्रवाकगणाकीर्णाविभान्तिसलिलाशयाः/अन्योन्यबद्धवैराणांजिगीषूणांनृपात्मज/उद्योगसमयःसौम्यपार्थिवानामुपस्थितः/इयंसाप्रथमायात्रापार्थिवानांनृपात्मज/नचपश्यामिसुग्रीवमुद्योगंवातथाविधम्/चत्वारोवार्षिकामासागतावर्षशतोपमाः/ममशोकाभितप्तस्यसौम्यसीतामपश्यतः/प्रियाविहीनेदुःखार्तेहृतराज्येविवासिते/कृपांनकुरुतेराजासुग्रीवोमयिलक्ष्मण/अनाथोहृतराज्योऽयंरावणेनचधर्षितः/दीनोदूरगृहःकामीमांचैवशरणंगतः/इत्येतैःकारणैःसौम्यसुग्रीवस्यदुरात्मनः/अहंवानरराजस्यपरिभूतःपरंतप/सकालंपरिसंख्यायसीतायाःपरिमार्गणे/कृतार्थःसमयंकृत्वादुर्मतिर्नावबुध्यते/त्वंप्रविश्यचकिष्किन्धांब्रूहिवानरपुंगवम्/मूर्खंग्राम्यसुखेसक्तंसुग्रीवंवचनान्मम/अर्थिनामुपपन्नानांपूर्वंचाप्युपकारिणाम्/आशांसंश्रुत्ययोहन्तिसलोकेपुरुषाधमः/शुभंवायदिवापापंयोहिवाक्यमुदीरितम्/सत्येनपरिगृह्णातिसवीरःपुरुषोत्तमः/कृतार्थाह्यकृतार्थानांमित्राणांनभवन्तिये/तान्मृतानपिक्रव्यादःकृतघ्नान्नोपभुञ्जते/नूनंकाञ्चनपृष्ठस्यविकृष्टस्यमयारणे/द्रष्टुमिच्छन्तिचापस्यरूपंविद्युद्गणोपमम्/घोरंज्यातलनिर्घोषंक्रुद्धस्यममसंयुगे/निर्घोषमिववज्रस्यपुनःसंश्रोतुमिच्छति/काममेवंगतेऽप्यस्यपरिज्ञातेपराक्रमे/त्वत्सहायस्यमेवीरनचिन्तास्यान्नृपात्मज/यदर्थमयमारम्भःकृतःपरपुरंजय/समयंनाभिजानातिकृतार्थःप्लवगेश्वरः/वर्षासमयकालंतुप्रतिज्ञायहरीश्वरः/व्यतीतांश्चतुरोमासान्विहरन्नावबुध्यते/सामात्यपरिषत्क्रीडन्पानमेवोपसेवते/शोकदीनेषुनास्मासुसुग्रीवःकुरुतेदयाम्/उच्यतांगच्छसुग्रीवस्त्वयावत्समहाबल/ममरोषस्ययद्रूपंब्रूयाश्चैनमिदंवचः/नचसंकुचितःपन्थायेनवालीहतोगतः/समयेतिष्ठसुग्रीवमावालिपथमन्वगाः/एकएवरणेवालीशरेणनिहतोमया/त्वांतुसत्यादतिक्रान्तंहनिष्यामिसबान्धवम्/तदेवंविहितेकार्येयद्धितंपुरुषर्षभ/तत्तद्ब्रूहिनरश्रेष्ठत्वरकालव्यतिक्रमः/कुरुष्वसत्यंमयिवानरेश्वर॑प्रतिश्रुतंधर्ममवेक्ष्यशाश्वतम्/मावालिनंप्रेत्यगतोयमक्षयं॑त्वमद्यपश्येर्ममचोदितैःशरैः/सपूर्वजंतीव्रविवृद्धकोपं॑लालप्यमानंप्रसमीक्ष्यदीनम्/चकारतीव्रांमतिमुग्रतेजा॑हरीश्वरमानववंशनाथः/सकामिनंदीनमदीनसत्त्वः॑शोकाभिपन्नंसमुदीर्णकोपम्/नरेन्द्रसूनुर्नरदेवपुत्रं॑रामानुजःपूर्वजमित्युवाच/नवानरःस्थास्यतिसाधुवृत्ते॑नमंस्यतेकार्यफलानुषङ्गान्/नभक्ष्यतेवानरराज्यलक्ष्मीं॑तथाहिनाभिक्रमतेऽस्यबुद्धिः/मतिक्षयाद्ग्राम्यसुखेषुसक्तस्॑तवप्रसादाप्रतिकारबुद्धिः/हतोऽग्रजंपश्यतुवालिनंस॑नराज्यमेवंविगुणस्यदेयम्/नधारयेकोपमुदीर्णवेगं॑निहन्मिसुग्रीवमसत्यमद्य/हरिप्रवीरैःसहवालिपुत्रो॑नरेन्द्रपत्न्याविचयंकरोतु/तमात्तबाणासनमुत्पतन्तं॑निवेदितार्थंरणचण्डकोपम्/उवचरामःपरवीरहन्ता॑स्ववेक्षितंसानुनयंचवाक्यम्/नहिवैत्वद्विधोलोकेपापमेवंसमाचरेत्/पापमार्येणयोहन्तिसवीरःपुरुषोत्तमः/नेदमद्यत्वयाग्राह्यंसाधुवृत्तेनलक्ष्मण/तांप्रीतिमनुवर्तस्वपूर्ववृत्तंचसंगतम्/सामोपहितयावाचारूक्षाणिपरिवर्जयन्/वक्तुमर्हसिसुग्रीवंव्यतीतंकालपर्यये/सोऽग्रजेनानुशिष्टार्थोयथावत्पुरुषर्षभः/प्रविवेशपुरींवीरोलक्ष्मणःपरवीरहा/ततःशुभमतिःप्राज्ञोभ्रातुःप्रियहितेरतः/लक्ष्मणःप्रतिसंरब्धोजगामभवनंकपेः/शक्रबाणासनप्रख्यंधनुःकालान्तकोपमः/प्रगृह्यगिरिशृङ्गाभंमन्दरःसानुमानिव/यथोक्तकारीवचनमुत्तरंचैवसोत्तरम्/बृहस्पतिसमोबुद्ध्यामत्त्वारामानुजस्तदा/कामक्रोधसमुत्थेनभ्रातुःकोपाग्निनावृतः/प्रभञ्जनइवाप्रीतःप्रययौलक्ष्मणस्तदा/सालतालाश्वकर्णांश्चतरसापातयन्बहून्/पर्यस्यन्गिरिकूटानिद्रुमानन्यांश्चवेगतः/शिलाश्चशकलीकुर्वन्पद्भ्यांगजइवाशुगः/दूरमेकपदंत्यक्त्वाययौकार्यवशाद्द्रुतम्/तामपश्यद्बलाकीर्णांहरिराजमहापुरीम्/दुर्गामिक्ष्वाकुशार्दूलःकिष्किन्धांगिरिसंकटे/रोषात्प्रस्फुरमाणौष्ठःसुग्रीवंप्रतिकल्ष्मणः/ददर्शवानरान्भीमान्किष्किन्धायाबहिश्चरान्/शैलशृङ्गाणिशतशःप्रवृद्धांश्चमहीरुहान्/जगृहुःकुञ्जरप्रख्यावानराःपर्वतान्तरे/तान्गृहीतप्रहरणान्हरीन्दृष्ट्वातुलक्ष्मणः/बभूवद्विगुणंक्रुद्धोबह्विन्धनइवानलः/तंतेभयपरीताङ्गाःक्रुद्धंदृष्ट्वाप्लवंगमाः/कालमृत्युयुगान्ताभंशतशोविद्रुतादिशः/ततःसुग्रीवभवनंप्रविश्यहरिपुंगवाः/क्रोधमागमनंचैवलक्ष्मणस्यन्यवेदयन्/तारयासहितःकामीसक्तःकपिवृषोरहः/नतेषांकपिवीराणांशुश्राववचनंतदा/ततःसचिवसंदिष्टाहरयोरोमहर्षणाः/गिरिकुञ्जरमेघाभानगर्यानिर्ययुस्तदा/नखदंष्ट्रायुधाघोराःसर्वेविकृतदर्शनाः/सर्वेशार्दूलदर्पाश्चसर्वेचविकृताननाः/दशनागबलाःकेचित्केचिद्दशगुणोत्तराः/केचिन्नागसहस्रस्यबभूवुस्तुल्यविक्रमाः/कृत्स्नांहिकपिभिर्व्याप्तांद्रुमहस्तैर्महाबलैः/अपश्यल्लक्ष्मणःक्रुद्धःकिष्किन्धांतांदुरासदम्/ततस्तेहरयःसर्वेप्राकारपरिखान्तरात्/निष्क्रम्योदग्रसत्त्वास्तुतस्थुराविष्कृतंतदा/सुग्रीवस्यप्रमादंचपूर्वजंचार्तमात्मवान्/बुद्ध्वाकोपवशंवीरःपुनरेवजगामसः/सदीर्घोष्णमहोच्छ्वासःकोपसंरक्तलोचनः/बभूवनरशार्दूलसधूमइवपावकः/बाणशल्यस्फुरज्जिह्वःसायकासनभोगवान्/स्वतेजोविषसंघातःपञ्चास्यइवपन्नगः/तंदीप्तमिवकालाग्निंनागेन्द्रमिवकोपितम्/समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्/सोऽङ्गदंरोषताम्राक्षःसंदिदेशमहायशाः/सुग्रीवःकथ्यतांवत्सममागमनमित्युत/एषरामानुजःप्राप्तस्त्वत्सकाशमरिंदमः/भ्रातुर्व्यसनसंतप्तोद्वारितिष्ठतिलक्ष्मणः/लक्ष्मणस्यवचःश्रुत्वाशोकाविष्टोऽङ्गदोऽब्रवीत्/पितुःसमीपमागम्यसौमित्रिरयमागतः/तेमहौघनिभंदृष्ट्वावज्राशनिसमस्वनम्/सिंहनादंसमंचक्रुर्लक्ष्मणस्यसमीपतः/तेनशब्देनमहताप्रत्यबुध्यतवानरः/मदविह्वलताम्राक्षोव्याकुलस्रग्विभूषणः/अथाङ्गदवचःश्रुत्वातेनैवचसमागतौ/मन्त्रिणोवानरेन्द्रस्यसंमतोदारदर्शिनौ/प्लक्षश्चैवप्रभावश्चमन्त्रिणावर्थधर्मयोः/वक्तुमुच्चावचंप्राप्तंलक्ष्मणंतौशशंसतुः/प्रसादयित्वासुग्रीवंवचनैःसामनिश्चितैः/आसीनंपर्युपासीनौयथाशक्रंमरुत्पतिम्/सत्यसंधौमहाभागौभ्रातरौरामलक्ष्मणौ/वयस्यभावंसंप्राप्तौराज्यार्हौराज्यदायिनौ/तयोरेकोधनुष्पाणिर्द्वारितिष्ठतिलक्ष्मणः/यस्यभीताःप्रवेपन्तेनादान्मुञ्चन्तिवानराः/सएषराघवभ्रातालक्ष्मणोवाक्यसारथिः/व्यवसायरथःप्राप्तस्तस्यरामस्यशासनात्/तस्यमूर्ध्नाप्रणम्यत्वंसपुत्रःसहबन्धुभिः/राजंस्तिष्ठस्वसमयेभवसत्यप्रतिश्रवः/अङ्गदस्यवचःश्रुत्वासुग्रीवःसचिवैःसह/लक्ष्मणंकुपितंश्रुत्वामुमोचासनमात्मवान्/सचिवानब्रवीद्वाक्यंनिश्चित्यगुरुलाघवम्/मन्त्रज्ञान्मन्त्रकुशलोमन्त्रेषुपरिनिष्ठितः/नमेदुर्व्याहृतंकिंचिन्नापिमेदुरनुष्ठितम्/लक्ष्मणोराघवभ्राताक्रुद्धःकिमितिचिन्तये/असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः/ममदोषानसंभूताञ्श्रावितोराघवानुजः/अत्रतावद्यथाबुद्धिसर्वैरेवयथाविधि/भवद्भिर्निश्चयस्तस्यविज्ञेयोनिपुणंशनैः/नखल्वस्तिममत्रासोलक्ष्मणान्नापिराघवात्/मित्रंत्वस्थानकुपितंजनयत्येवसंभ्रमम्/सर्वथासुकरंमित्रंदुष्करंपरिपालनम्/अनित्यत्वात्तुचित्तानांप्रीतिरल्पेऽपिभिद्यते/अतोनिमित्तंत्रस्तोऽहंरामेणतुमहात्मना/यन्ममोपकृतंशक्यंप्रतिकर्तुंनतन्मया/सुग्रीवेणैवमुक्तस्तुहनुमान्हरिपुंगवः/उवाचस्वेनतर्केणमध्येवानरमन्त्रिणाम्/सर्वथानैतदाश्चर्यंयत्त्वंहरिगणेश्वर/नविस्मरसिसुस्निग्धमुपकारकृतंशुभम्/राघवेणतुशूरेणभयमुत्सृज्यदूरतः/त्वत्प्रियार्थंहतोवालीशक्रतुल्यपराक्रमः/सर्वथाप्रणयात्क्रुद्धोराघवोनात्रसंशयः/भ्रातरंसप्रहितवांल्लक्ष्मणंलक्ष्मिवर्धनम्/त्वंप्रमत्तोनजानीषेकालंकलविदांवर/फुल्लसप्तच्छदश्यामाप्रवृत्तातुशरच्छिवा/निर्मलग्रहनक्षत्राद्यौःप्रनष्टबलाहका/प्रसन्नाश्चदिशःसर्वाःसरितश्चसरांसिच/प्राप्तमुद्योगकालंतुनावैषिहरिपुंगव/त्वंप्रमत्तइतिव्यक्तंलक्ष्मणोऽयमिहागतः/आर्तस्यहृतदारस्यपरुषंपुरुषान्तरात्/वचनंमर्षणीयंतेराघवस्यमहात्मनः/कृतापराधस्यहितेनान्यत्पश्याम्यहंक्षमम्/अन्तरेणाञ्जलिंबद्ध्वालक्ष्मणस्यप्रसादनात्/नियुक्तैर्मन्त्रिभिर्वाच्योअवश्यंपार्थिवोहितम्/अतएवभयंत्यक्त्वाब्रवीम्यवधृतंवचः/अभिक्रुद्धःसमर्थोहिचापमुद्यम्यराघवः/सदेवासुरगन्धर्वंवशेस्थापयितुंजगत्/नसक्षमःकोपयितुंयःप्रसाद्यपुनर्भवेत्/पूर्वोपकारंस्मरताकृतज्ञेनविशेषतः/तस्यमूर्ध्नाप्रणम्यत्वंसपुत्रःससुहृज्जनः/राजंस्तिष्ठस्वसमयेभर्तुर्भार्येवतद्वशे/नरामरामानुजशासनंत्वया॑कपीन्द्रयुक्तंमनसाप्यपोहितुम्/मनोहितेज्ञास्यतिमानुषंबलं॑सराघवस्यास्यसुरेन्द्रवर्चसः/अथप्रतिसमादिष्टोलक्ष्मणःपरवीरहा/प्रविवेशगुहांघोरांकिष्किन्धांरामशासनात्/द्वारस्थाहरयस्तत्रमहाकायामहाबलाः/बभूवुर्लक्ष्मणंदृष्ट्वासर्वेप्राञ्जलयःस्थिताः/निःश्वसन्तंतुतंदृष्ट्वाक्रुद्धंदशरथात्मजम्/बभूवुर्हरयस्त्रस्तानचैनंपर्यवारयन्/सतंरत्नमयींश्रीमान्दिव्यांपुष्पितकाननाम्/रम्यांरत्नसमाकीर्णांददर्शमहतींगुहाम्/हर्म्यप्रासादसंबाधांनानापण्योपशोभिताम्/सर्वकामफलैर्वृक्षैःपुष्पितैरुपशोभिताम्/देवगन्धर्वपुत्रैश्चवानरैःकामरूपिभिः/दिव्यमाल्याम्बरधारैःशोभितांप्रियदर्शनैः/चन्दनागरुपद्मानांगन्धैःसुरभिगन्धिनाम्/मैरेयाणांमधूनांचसंमोदितमहापथाम्/विन्ध्यमेरुगिरिप्रस्थैःप्रासादैर्नैकभूमिभिः/ददर्शगिरिनद्यश्चविमलास्तत्रराघवः/अङ्गदस्यगृहंरम्यंमैन्दस्यद्विविदस्यच/गवयस्यगवाक्षस्यगजस्यशरभस्यच/विद्युन्मालेश्चसंपातेःसूर्याक्षस्यहनूमतः/वीरबाहोःसुबाहोश्चनलस्यचमहात्मनः/कुमुदस्यसुषेणस्यतारजाम्बवतोस्तथा/दधिवक्त्रस्यनीलस्यसुपाटलसुनेत्रयोः/एतेषांकपिमुख्यानांराजमार्गेमहात्मनाम्/ददर्शगृहमुख्यानिमहासाराणिलक्ष्मणः/पाण्डुराभ्रप्रकाशानिदिव्यमाल्ययुतानिच/प्रभूतधनधान्यानिस्त्रीरत्नैःशोभितानिच/पाण्डुरेणतुशैलेनपरिक्षिप्तंदुरासदम्/वानरेन्द्रगृहंरम्यंमहेन्द्रसदनोपमम्/शुल्कैःप्रासादशिखरैःकैलासशिखरोपमैः/सर्वकामफलैर्वृक्षैःपुष्टितैरुपशोभितम्/महेन्द्रदत्तैःश्रीमद्भिर्नीलजीमूतसंनिभैः/दिव्यपुष्पफलैर्वृक्षैःशीतच्छायैर्मनोरमैः/हरिभिःसंवृतद्वारंबलिभिःशस्त्रपाणिभिः/दिव्यमाल्यावृतंशुभ्रंतप्तकाञ्चनतोरणम्/सुग्रीवस्यगृहंरम्यंप्रविवेशमहाबलः/अवार्यमाणःसौमित्रिर्महाभ्रमिवभास्करः/ससप्तकक्ष्याधर्मात्मायानासनसमावृताः/प्रविश्यसुमहद्गुप्तंददर्शान्तःपुरंमहत्/हैमराजतपर्यङ्कैर्बहुभिश्चवरासनैः/महार्हास्तरणोपेतैस्तत्रतत्रोपशोभितम्/प्रविशन्नेवसततंशुश्रावमधुरस्वरम्/तन्त्रीगीतसमाकीर्णंसमगीतपदाक्षरम्/बह्वीश्चविविधाकारारूपयौवनगर्विताः/स्त्रियःसुग्रीवभवनेददर्शसमहाबलः/दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः/वरमाल्यकृतव्यग्राभूषणोत्तमभूषिताः/नातृप्तान्नातिचव्यग्रान्नानुदात्तपरिच्छदान्/सुग्रीवानुचरांश्चापिलक्षयामासलक्ष्मणः/ततःसुग्रीवमासीनंकाञ्चनेपरमासने/महार्हास्तरणोपेतेददर्शादित्यसंनिभम्/दिव्याभरणचित्राङ्गंदिव्यरूपंयशस्विनम्/दिव्यमाल्याम्बरधरंमहेन्द्रमिवदुर्जयम्/दिव्याभरणमाल्याभिःप्रमदाभिःसमावृतम्/रुमांतुवीरःपरिरभ्यगाढं॑वरासनस्थोवरहेमवर्णः/ददर्शसौमित्रिमदीनसत्त्वं॑विशालनेत्रःसुविशालनेत्रम्/तमप्रतिहतंक्रुद्धंप्रविष्टंपुरुषर्षभम्/सुग्रीवोलक्ष्मणंदृष्ट्वाबभूवव्यथितेन्द्रियः/क्रुद्धंनिःश्वसमानंतंप्रदीप्तमिवतेजसा/भ्रातुर्व्यसनसंतप्तंदृष्ट्वादशरथात्मजम्/उत्पपातहरिश्रेष्ठोहित्वासौवर्णमासनम्/महान्महेन्द्रस्ययथास्वलंकृतइवध्वजः/उत्पतन्तमनूत्पेतूरुमाप्रभृतयःस्त्रियः/सुग्रीवंगगनेपूर्णंचन्द्रंतारागणाइव/संरक्तनयनःश्रीमान्विचचालकृताञ्जलिः/बभूवावस्थितस्तत्रकल्पवृक्षोमहानिव/रुमाद्वितीयंसुग्रीवंनारीमध्यगतंस्थितम्/अब्रवील्लक्ष्मणःक्रुद्धःसतारंशशिनंयथा/सत्त्वाभिजनसंपन्नःसानुक्रोशोजितेन्द्रियः/कृतज्ञःसत्यवादीचराजालोकेमहीयते/यस्तुराजास्थितोऽधर्मेमित्राणामुपकारिणाम्/मिथ्याप्रतिज्ञांकुरुतेकोनृशंसतरस्ततः/शतमश्वानृतेहन्तिसहस्रंतुगवानृते/आत्मानंस्वजनंहन्तिपुरुषःपुरुषानृते/पूर्वंकृतार्थोमित्राणांनतत्प्रतिकरोतियः/कृतघ्नःसर्वभूतानांसवध्यःप्लवगेश्वर/गीतोऽयंब्रह्मणाश्लोकःसर्वलोकनमस्कृतः/दृष्ट्वाकृतघ्नंक्रुद्धेनतंनिबोधप्लवंगम/ब्रह्मघ्नेचसुरापेचचोरेभग्नव्रतेतथा/निष्कृतिर्विहितासद्भिःकृतघ्नेनास्तिनिष्कृतिः/अनार्यस्त्वंकृतघ्नश्चमिथ्यावादीचवानर/पूर्वंकृतार्थोरामस्यनतत्प्रतिकरोषियत्/ननुनामकृतार्थेनत्वयारामस्यवानर/सीतायामार्गणेयत्नःकर्तव्यःकृतमिच्छता/सत्वंग्राम्येषुभोगेषुसक्तोमिथ्याप्रतिश्रवः/नत्वांरामोविजानीतेसर्पंमण्डूकराविणम्/महाभागेनरामेणपापःकरुणवेदिना/हरीणांप्रापितोराज्यंत्वंदुरात्मामहात्मना/कृतंचेन्नाभिजानीषेरामस्याक्लिष्टकर्मणः/सद्यस्त्वंनिशितैर्बाणैर्हतोद्रक्ष्यसिवालिनम्/नचसंकुचितःपन्थायेनवालीहतोगतः/समयेतिष्ठसुग्रीवमावालिपथमन्वगाः/ननूनमिक्ष्वाकुवरस्यकार्मुकाच्॑च्युताञ्शरान्पश्यसिवज्रसंनिभान्/ततःसुखंनामनिषेवसेसुखी॑नरामकार्यंमनसाप्यवेक्षसे/तथाब्रुवाणंसौमित्रिंप्रदीप्तमिवतेजसा/अब्रवील्लक्ष्मणंताराताराधिपनिभानना/नैवंलक्ष्मणवक्तव्योनायंपरुषमर्हति/हरीणामीश्वरःश्रोतुंतववक्त्राद्विशेषतः/नैवाकृतज्ञःसुग्रीवोनशठोनापिदारुणः/नैवानृतकथोवीरनजिह्मश्चकपीश्वरः/उपकारंकृतंवीरोनाप्ययंविस्मृतःकपिः/रामेणवीरसुग्रीवोयदन्यैर्दुष्करंरणे/रामप्रसादात्कीर्तिंचकपिराज्यंचशाश्वतम्/प्राप्तवानिहसुग्रीवोरुमांमांचपरंतप/सुदुःखंशायितःपूर्वंप्राप्येदंसुखमुत्तमम्/प्राप्तकालंनजानीतेविश्वामित्रोयथामुनिः/घृताच्यांकिलसंसक्तोदशवर्षाणिलक्ष्मण/अहोऽमन्यतधर्मात्माविश्वामित्रोमहामुनिः/सहिप्राप्तंनजानीतेकालंकालविदांवरः/विश्वामित्रोमहातेजाःकिंपुनर्यःपृथग्जनः/देहधर्मंगतस्यास्यपरिश्रान्तस्यलक्ष्मण/अवितृप्तस्यकामेषुरामःक्षन्तुमिहार्हति/नचरोषवशंतातगन्तुमर्हसिलक्ष्मण/निश्चयार्थमविज्ञायसहसाप्राकृतोयथा/सत्त्वयुक्ताहिपुरुषास्त्वद्विधाःपुरुषर्षभ/अविमृश्यनरोषस्यसहसायान्तिवश्यताम्/प्रसादयेत्वांधर्मज्ञसुग्रीवार्थेसमाहिता/महान्रोषसमुत्पन्नःसंरम्भस्त्यज्यतामयम्/रुमांमांकपिराज्यंचधनधान्यवसूनिच/रामप्रियार्थंसुग्रीवस्त्यजेदितिमतिर्मम/समानेष्व्यतिसुग्रीवःसीतयासहराघवम्/शशाङ्कमिवरोहिष्यानिहत्वारावणंरणे/शतकोटिसहस्राणिलङ्कायांकिलरक्षसाम्/अयुतानिचषट्त्रिंशत्सहस्राणिशतानिच/अहत्वातांश्चदुर्धर्षान्राक्षसान्कामरूपिणः/नशक्योरावणोहन्तुंयेनसामैथिलीहृता/तेनशक्यारणेहन्तुमसहायेनलक्ष्मण/रावणःक्रूरकर्माचसुग्रीवेणविशेषतः/एवमाख्यातवान्वालीसह्यभिज्ञोहरीश्वरः/आगमस्तुनमेव्यक्तःश्रवात्तस्यब्रवीम्यहम्/त्वत्सहायनिमित्तंवैप्रेषिताहरिपुंगवाः/आनेतुंवानरान्युद्धेसुबहून्हरियूथपान्/तांश्चप्रतीक्षमाणोऽयंविक्रान्तान्सुमहाबलान्/राघवस्यार्थसिद्ध्यर्थंननिर्यातिहरीश्वरः/कृतातुसंस्थासौमित्रेसुग्रीवेणयथापुरा/अद्यतैर्वानरैर्सर्वैरागन्तव्यंमहाबलैः/ऋक्षकोटिसहस्राणिगोलाङ्गूलशतानिच/अद्यत्वामुपयास्यन्तिजहिकोपमरिंदम/कोट्योऽनेकास्तुकाकुत्स्थकपीनांदीप्ततेजसाम्/तवहिमुखमिदंनिरीक्ष्यकोपात्॑क्षतजनिभेनयनेनिरीक्षमाणाः/हरिवरवनितानयान्तिशान्तिं॑प्रथमभयस्यहिशङ्किताःस्मसर्वाः/इत्युक्तस्तारयावाक्यंप्रश्रितंधर्मसंहितम्/मृदुस्वभावःसौमित्रिःप्रतिजग्राहतद्वचः/तस्मिन्प्रतिगृहीतेतुवाक्येहरिगणेश्वरः/लक्ष्मणात्सुमहत्त्रासंवस्त्रंक्लिन्नमिवात्यजत्/ततःकण्ठगतंमाल्यंचित्रंबहुगुणंमहत्/चिच्छेदविमदश्चासीत्सुग्रीवोवानरेश्वरः/सलक्ष्मणंभीमबलंसर्ववानरसत्तमः/अब्रवीत्प्रश्रितंवाक्यंसुग्रीवःसंप्रहर्षयन्/प्रनष्टाश्रीश्चकीर्तिश्चकपिराज्यंचशाश्वतम्/रामप्रसादात्सौमित्रेपुनःप्राप्तमिदंमया/कःशक्तस्तस्यदेवस्यख्यातस्यस्वेनकर्मणा/तादृशंविक्रमंवीरप्रतिकर्तुमरिंदम/सीतांप्राप्स्यतिधर्मात्मावधिष्यतिचरावणम्/सहायमात्रेणमयाराघवःस्वेनतेजसा/सहायकृत्यंहितस्ययेनसप्तमहाद्रुमाः/शैलश्चवसुधाचैवबाणेनैकेनदारिताः/धनुर्विस्फारमाणस्ययस्यशब्देनलक्ष्मण/सशैलाकम्पिताभूमिःसहायैस्तस्यकिंनुवै/अनुयात्रांनरेन्द्रस्यकरिष्येऽहंनरर्षभ/गच्छतोरावणंहन्तुंवैरिणंसपुरःसरम्/यदिकिंचिदतिक्रान्तंविश्वासात्प्रणयेनवा/प्रेष्यस्यक्षमितव्यंमेनकश्चिन्नापराध्यति/इतितस्यब्रुवाणस्यसुग्रीवस्यमहात्मनः/अभवल्लक्ष्मणःप्रीतःप्रेंणाचेदमुवाचह/सर्वथाहिममभ्रातासनाथोवानरेश्वर/त्वयानाथेनसुग्रीवप्रश्रितेनविशेषतः/यस्तेप्रभावःसुग्रीवयच्चतेशौचमुत्तमम्/अर्हस्तंकपिराज्यस्यश्रियंभोक्तुमनुत्तमाम्/सहायेनचसुग्रीवत्वयारामःप्रतापवान्/वधिष्यतिरणेशत्रूनचिरान्नात्रसंशयः/धर्मज्ञस्यकृतज्ञस्यसंग्रामेष्वनिवर्तिनः/उपपन्नंचयुक्तंचसुग्रीवतवभाषितम्/दोषज्ञःसतिसामर्थ्येकोऽन्योभाषितुमर्हति/वर्जयित्वाममज्येष्ठंत्वांचवानरसत्तम/सदृशश्चासिरामस्यविक्रमेणबलेनच/सहायोदैवतैर्दत्तश्चिरायहरिपुंगव/किंतुशीघ्रमितोवीरनिष्क्रामत्वंमयासह/सान्त्वयस्ववयस्यंचभार्याहरणदुःखितम्/यच्चशोकाभिभूतस्यश्रुत्वारामस्यभाषितम्/मयात्वंपरुषाण्युक्तस्तच्चत्वंक्षन्तुमर्हसि/एवमुक्तस्तुसुग्रीवोलक्ष्मणेनमहात्मना/हनुमन्तंस्थितंपार्श्वेसचिवंवाक्यमब्रवीत्/महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषुच/मन्दरेपाण्डुशिखरेपञ्चशैलेषुयेस्थिताः/तरुणादित्यवर्णेषुभ्राजमानेषुसर्वशः/पर्वतेषुसमुद्रान्तेपश्चिमस्यांतुयेदिशि/आदित्यभवनेचैवगिरौसंध्याभ्रसंनिभे/पद्मतालवनंभीमंसंश्रिताहरिपुंगवाः/अञ्जनाम्बुदसंकाशाःकुञ्जरप्रतिमौजसः/अञ्जनेपरतेचैवयेवसन्तिप्लवंगमाः/मनःशिलागुहावासावानराःकनकप्रभाः/मेरुपार्श्वगताश्चैवयेचधूम्रगिरिंश्रिताः/तरुणादित्यवर्णाश्चपर्वतेयेमहारुणे/पिबन्तोमधुमैरेयंभीमवेगाःप्लवंगमाः/वनेषुचसुरम्येषुसुगन्धिषुमहत्सुच/तापसानांचरम्येषुवनान्तेषुसमन्ततः/तांस्तांस्त्वमानयक्षिप्रंपृथिव्यांसर्ववानरान्/सामदानादिभिःकल्पैराशुप्रेषयवानरान्/प्रेषिताःप्रथमंयेचमयादूतामहाजवाः/त्वरणार्थंतुभूयस्त्वंहरीन्संप्रेषयापरान्/येप्रसक्ताश्चकामेषुदीर्घसूत्राश्चवानराः/इहानयस्वतान्सर्वाञ्शीघ्रंतुममशासनात्/अहोभिर्दशभिर्येचनागच्छन्तिममाज्ञया/हन्तव्यास्तेदुरात्मानोराजशासनदूषकाः/शतान्यथसहस्राणिकोट्यश्चममशासनात्/प्रयान्तुकपिसिंहानांदिशोमममतेस्थिताः/मेघपर्वतसंकाशाश्छादयन्तइवाम्बरम्/घोररूपाःकपिश्रेष्ठायान्तुमच्छासनादितः/तेगतिज्ञागतिंगत्वापृथिव्यांसर्ववानराः/आनयन्तुहरीन्सर्वांस्त्वरिताःशासनान्मम/तस्यवानरराजस्यश्रुत्वावायुसुतोवचः/दिक्षुसर्वासुविक्रान्तान्प्रेषयामासवानरान्/तेपदंविष्णुविक्रान्तंपतत्रिज्योतिरध्वगाः/प्रयाताःप्रहिताराज्ञाहरयस्तत्क्षणेनवै/तेसमुद्रेषुगिरिषुवनेषुचसरित्सुच/वानरावानरान्सर्वान्रामहेतोरचोदयन्/मृत्युकालोपमस्याज्ञांराजराजस्यवानराः/सुग्रीवस्याययुःश्रुत्वासुग्रीवभयदर्शिनः/ततस्तेऽञ्जनसंकाशागिरेस्तस्मान्महाजवाः/तिस्रःकोट्यःप्लवंगानांनिर्ययुर्यत्रराघवः/अस्तंगच्छतियत्रार्कस्तस्मिन्गिरिवरेरताः/तप्तहेमसमाभासास्तस्मात्कोट्योदशच्युताः/कैलासशिखरेभ्यश्चसिंहकेसरवर्चसाम्/ततःकोटिसहस्राणिवानराणामुपागमन्/फलमूलेनजीवन्तोहिमवन्तमुपाश्रिताः/तेषांकोटिसहस्राणांसहस्रंसमवर्तत/अङ्गारकसमानानांभीमानांभीमकर्मणाम्/विन्ध्याद्वानरकोटीनांसहस्राण्यपतन्द्रुतम्/क्षीरोदवेलानिलयास्तमालवनवासिनः/नारिकेलाशनाश्चैवतेषांसंख्यानविद्यते/वनेभ्योगह्वरेभ्यश्चसरिद्भ्यश्चमहाजवाः/आगच्छद्वानरीसेनापिबन्तीवदिवाकरम्/येतुत्वरयितुंयातावानराःसर्ववानरान्/तेवीराहिमवच्छैलंददृशुस्तंमहाद्रुमम्/तस्मिन्गिरिवरेरम्येयज्ञोमहेश्वरःपुरा/सर्वदेवमनस्तोषोबभौदिव्योमनोहरः/अन्नविष्यन्दजातानिमूलानिचफलानिच/अमृतस्वादुकल्पानिददृशुस्तत्रवानराः/तदन्नसंभवंदिव्यंफलंमूलंमनोहरम्/यःकश्चित्सकृदश्नातिमासंभवतितर्पितः/तानिमूलानिदिव्यानिफलानिचफलाशनाः/औषधानिचदिव्यानिजगृहुर्हरियूथपाः/तस्माच्चयज्ञायतनात्पुष्पाणिसुरभीणिच/आनिन्युर्वानरागत्वासुग्रीवप्रियकारणात्/तेतुसर्वेहरिवराःपृथिव्यांसर्ववानरान्/संचोदयित्वात्वरितंयूथानांजग्मुरग्रतः/तेतुतेनमुहूर्तेनयूथपाःशीघ्रकारिणः/किष्किन्धांत्वरयाप्राप्ताःसुग्रीवोयत्रवानरः/तेगृहीत्वौषधीःसर्वाःफलंमूलंचवानराः/तंप्रतिग्राहयामासुर्वचनंचेदमब्रुवन्/सर्वेपरिगताःशैलाःसमुद्राश्चवनानिच/पृथिव्यांवानराःसर्वेशासनादुपयान्तिते/एवंश्रुत्वाततोहृष्टःसुग्रीवःप्लवगाधिपः/प्रतिजग्राहचप्रीतस्तेषांसर्वमुपायनम्/प्रतिगृह्यचतत्सर्वमुपानयमुपाहृतम्/वानरान्सान्त्वयित्वाचसर्वानेवव्यसर्जयत्/विसर्जयित्वासहरीञ्शूरांस्तान्कृतकर्मणः/मेनेकृतार्थमात्मानंराघवंचमहाबलम्/सलक्ष्मणोभीमबलंसर्ववानरसत्तमम्/अब्रवीत्प्रश्रितंवाक्यंसुग्रीवंसंप्रहर्षयन्/किष्किन्धायाविनिष्क्रामयदितेसौम्यरोचते/तस्यतद्वचनंश्रुत्वालक्ष्मणस्यसुभाषितम्/सुग्रीवःपरमप्रीतोवाक्यमेतदुवाचह/एवंभवतुगच्छामःस्थेयंत्वच्छासनेमया/तमेवमुक्त्वासुग्रीवोलक्ष्मणंशुभलक्ष्मणम्/विसर्जयामासतदातारामन्याश्चयोषितः/एतेत्युच्चैर्हरिवरान्सुग्रीवःसमुदाहरत्/तस्यतद्वचनंश्रुत्वाहरयःशीघ्रमाययुः/बद्धाञ्जलिपुटाःसर्वेयेस्युःस्त्रीदर्शनक्षमाः/तानुवाचततःप्राप्तान्राजार्कसदृशप्रभः/उपस्थापयतक्षिप्रंशिबिकांममवानराः/श्रुत्वातुवचनंतस्यहरयःशीघ्रविक्रमाः/समुपस्थापयामासुःशिबिकांप्रियदर्शनाम्/तामुपस्थापितांदृष्ट्वाशिबिकांवानराधिपः/लक्ष्मणारुह्यतांशीघ्रमितिसौमित्रिमब्रवीत्/इत्युक्त्वाकाञ्चनंयानंसुग्रीवःसूर्यसंनिभम्/बृहद्भिर्हरिभिर्युक्तमारुरोहसलक्ष्मणः/पाण्डुरेणातपत्रेणध्रियमाणेनमूर्धनि/शुक्लैश्चबालव्यजनैर्धूयमानैःसमन्ततः/शङ्खभेरीनिनादैश्चबन्दिभिश्चाभिवन्दितः/निर्ययौप्राप्यसुग्रीवोराज्यश्रियमनुत्तमाम्/सवानरशतैस्तीष्क्णैर्बहुभिःशस्त्रपाणिभिः/परिकीर्णोययौतत्रयत्ररामोव्यवस्थितः/सतंदेशमनुप्राप्यश्रेष्ठंरामनिषेवितम्/अवातरन्महातेजाःशिबिकायाःसलक्ष्मणः/आसाद्यचततोरामंकृताञ्जलिपुटोऽभवत्/कृताञ्जलौस्थितेतस्मिन्वानराश्चभवंस्तथा/तटाकमिवतद्दृष्ट्वारामःकुड्मलपङ्कजम्/वानराणांमहत्सैन्यंसुग्रीवेप्रीतिमानभूत्/पादयोःपतितंमूर्ध्नातमुत्थाप्यहरीश्वरम्/प्रेंणाचबहुमानाच्चराघवःपरिषस्वजे/परिष्वज्यचधर्मात्मानिषीदेतिततोऽब्रवीत्/तंनिषण्णंततोदृष्ट्वाक्षितौरामोऽब्रवीद्वचः/धर्ममर्थंचकामंचकालेयस्तुनिषेवते/विभज्यसततंवीरसराजाहरिसत्तम/हित्वाधर्मंतथार्थंचकामंयस्तुनिषेवते/सवृक्षाग्रेयथासुप्तःपतितःप्रतिबुध्यते/अमित्राणांवधेयुक्तोमित्राणांसंग्रहेरतः/त्रिवर्गफलभोक्तातुराजाधर्मेणयुज्यते/उद्योगसमयस्त्वेषप्राप्तःशत्रुविनाशन/संचिन्त्यतांहिपिङ्गेशहरिभिःसहमन्त्रिभिः/एवमुक्तस्तुसुग्रीवोरामंवचनमब्रवीत्/प्रनष्टाश्रीश्चकीर्तिश्चकपिराज्यंचशाश्वतम्/त्वत्प्रसादान्महाबाहोपुनःप्राप्तमिदंमया/तवदेवप्रसदाच्चभ्रातुश्चजयतांवर/कृतंनप्रतिकुर्याद्यःपुरुषाणांसदूषकः/एतेवानरमुख्याश्चशतशःशत्रुसूदन/प्राप्ताश्चादायबलिनःपृथिव्यांसर्ववानरान्/ऋक्षाश्चावहिताःशूरागोलाङ्गूलाश्चराघव/कान्तारवनदुर्गाणामभिज्ञाघोरदर्शनाः/देवगन्धर्वपुत्राश्चवानराःकामरूपिणः/स्वैःस्वैःपरिवृताःसैन्यैर्वर्तन्तेपथिराघव/शतैःशतसहस्रैश्चकोटिभिश्चप्लवंगमाः/अयुतैश्चावृतावीराशङ्कुभिश्चपरंतप/अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्चवानराः/समुद्रैश्चपरार्धैश्चहरयोहरियूथपाः/आगमिष्यन्तितेराजन्महेन्द्रसमविक्रमाः/मेरुमन्दरसंकाशाविन्ध्यमेरुकृतालयाः/तेत्वामभिगमिष्यन्तिराक्षसंयेसबान्धवम्/निहत्यरावणंसंख्येह्यानयिष्यन्तिमैथिलीम्/ततस्तमुद्योगमवेक्ष्यबुद्धिमान्॑हरिप्रवीरस्यनिदेशवर्तिनः/बभूवहर्षाद्वसुधाधिपात्मजः॑प्रबुद्धनीलोत्पलतुल्यदर्शनः/इतिब्रुवाणंसुग्रीवंरामोधर्मभृतांवरः/बाहुभ्यांसंपरिष्वज्यप्रत्युवाचकृताञ्जलिम्/यदिन्द्रोवर्षतेवर्षंनतच्चित्रंभवेद्भुवि/आदित्योवासहस्रांशुःकुर्याद्वितिमिरंनभः/चन्द्रमारश्मिभिःकुर्यात्पृथिवींसौम्यनिर्मलाम्/त्वद्विधोवापिमित्राणांप्रतिकुर्यात्परंतप/एवंत्वयिनतच्चित्रंभवेद्यत्सौम्यशोभनम्/जानाम्यहंत्वांसुग्रीवसततंप्रियवादिनम्/त्वत्सनाथःसखेसंख्येजेतास्मिसकलानरीन्/त्वमेवमेसुहृन्मित्रंसाहाय्यंकर्तुमर्हसि/जहारात्मविनाशायवैदेहींराक्षसाधमः/वञ्चयित्वातुपौलोमीमनुह्लादोयथाशचीम्/नचिरात्तंहनिष्यामिरावणंनिशितैःशरैः/पौलोम्याःपितरंदृप्तंशतक्रतुरिवारिहा/एतस्मिन्नन्तरेचैवरजःसमभिवर्तत/उष्णांतीव्रांसहस्रांशोश्छादयद्गगनेप्रभाम्/दिशःपर्याकुलाश्चासन्रजसातेनमूर्छिताः/चचालचमहीसर्वासशैलवनकानना/ततोनगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः/कृत्स्नासंछादिताभूमिरसंख्येयैःप्लवंगमैः/निमेषान्तरमात्रेणततस्तैर्हरियूथपैः/कोटीशतपरीवारैःकामरूपिभिरावृता/नादेयैःपार्वतीयैश्चसामुद्रैश्चमहाबलैः/हरिभिर्मेघनिर्ह्रादैरन्यैश्चवनचारिभिः/तरुणादित्यवर्णैश्चशशिगौरैश्चवानरैः/पद्मकेसरवर्णैश्चश्वेतैर्मेरुकृतालयैः/कोटीसहस्रैर्दशभिःश्रीमान्परिवृतस्तदा/वीरःशतबलिर्नामवानरःप्रत्यदृश्यत/ततःकाञ्चनशैलाभस्तारायावीर्यवान्पिता/अनेकैर्दशसाहस्रैःकोटिभिःप्रत्यदृश्यत/पद्मकेसरसंकाशस्तरुणार्कनिभाननः/बुद्धिमान्वानरश्रेष्ठःसर्ववानरसत्तमः/अनीकैर्बहुसाहस्रैर्वानराणांसमन्वितः/पिताहनुमतःश्रीमान्केसरीप्रत्यदृश्यत/गोलाङ्गूलमहाराजोगवाक्षोभीमविक्रमः/वृतःकोटिसहस्रेणवानराणामदृश्यत/ऋक्षाणांभीमवेगानांधूम्रःशत्रुनिबर्हणः/वृतःकोटिसहस्राभ्यांद्वाभ्यांसमभिवर्तत/महाचलनिभैर्घोरैःपनसोनामयूथपः/आजगाममहावीर्यस्तिसृभिःकोटिभिर्वृतः/नीलाञ्जनचयाकारोनीलोनामाथयूथपः/अदृश्यतमहाकायःकोटिभिर्दशभिर्वृतः/दरीमुखश्चबलवान्यूथपोऽभ्याययौतदा/वृतःकोटिसहस्रेणसुग्रीवंसमुपस्थितः/मैन्दश्चद्विविदश्चोभावश्विपुत्रौमहावलौ/कोटिकोटिसहस्रेणवानराणामदृश्यताम्/ततःकोटिसहस्राणांसहस्रेणशतेनच/पृष्ठतोऽनुगतःप्राप्तोहरिभिर्गन्धमादनः/ततःपद्मसहस्रेणवृतःशङ्कुशतेनच/युवराजोऽङ्गदःप्राप्तःपितृतुल्यपराक्रमः/ततस्ताराद्युतिस्तारोहरिर्भीमपराक्रमः/पञ्चभिर्हरिकोटीभिर्दूरतःप्रत्यदृश्यत/इन्द्रजानुःकपिर्वीरोयूथपःप्रत्यदृश्यत/एकादशानांकोटीनामीश्वरस्तैश्चसंवृतः/ततोरम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः/अयुतेनवृतश्चैवसहस्रेणशतेनच/ततोयूथपतिर्वीरोदुर्मुखोनामवानरः/प्रत्यदृश्यतकोटिभ्यांद्वाभ्यांपरिवृतोबली/कैलासशिखराकारैर्वानरैर्भीमविक्रमैः/वृतःकोटिसहस्रेणहनुमान्प्रत्यदृश्यत/नलश्चापिमहावीर्यःसंवृतोद्रुमवासिभिः/कोटीशतेनसंप्राप्तःसहस्रेणशतेनच/शरभःकुमुदोवह्निर्वानरोरम्भएवच/एतेचान्येचबहवोवानराःकामरूपिणः/आवृत्यपृथिवींसर्वांपर्वतांश्चवनानिच/आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवंगमाः/अभ्यवर्तन्तसुग्रीवंसूर्यमभ्रगणाइव/कुर्वाणाबहुशब्दांश्चप्रहृष्टाबलशालिनः/शिरोभिर्वानरेन्द्रायसुग्रीवायन्यवेदयन्/अपरेवानरश्रेष्ठाःसंगम्यचयथोचितम्/सुग्रीवेणसमागम्यस्थिताःप्राञ्जलयस्तदा/सुग्रीवस्त्वरितोरामेसर्वांस्तान्वानरर्षभान्/निवेदयित्वाधर्मज्ञःस्थितःप्राञ्जलिरब्रवीत्/यथासुखंपर्वतनिर्झरेषु॑वनेषुसर्वेषुचवानरेन्द्राः/निवेशयित्वाविधिवद्बलानि॑बलंबलज्ञःप्रतिपत्तुमीष्टे/अथराजासमृद्धार्थःसुग्रीवःप्लवगेश्वरः/उवाचनरशार्दूलंरामंपरबलार्दनम्/आगताविनिविष्टाश्चबलिनःकामरूपिणः/वानरेन्द्रामहेन्द्राभायेमद्विषयवासिनः/तइमेबहुसाहस्रैर्हरिभिर्भीमविक्रमैः/आगतावानराघोरादैत्यदानवसंनिभाः/ख्यातकर्मापदानाश्चबलवन्तोजितक्लमाः/पराक्रमेषुविख्याताव्यवसायेषुचोत्तमाः/पृथिव्यम्बुचरारामनानानगनिवासिनः/कोट्यग्रशइमेप्राप्तावानरास्तवकिंकराः/निदेशवर्तिनःसर्वेसर्वेगुरुहितेरताः/अभिप्रेतमनुष्ठातुंतवशक्ष्यन्त्यरिंदम/यन्मन्यसेनरव्याघ्रप्राप्तकालंतदुच्यताम्/तत्सैन्यंत्वद्वशेयुक्तमाज्ञापयितुमर्हसि/काममेषामिदंकार्यंविदितंममतत्त्वतः/तथापितुयथातत्त्वमाज्ञापयितुमर्हसि/तथाब्रुवाणंसुग्रीवंरामोदशरथात्मजः/बाहुभ्यांसंपरिष्वज्यइदंवचनमब्रवीत्/ज्ञायतांसौम्यवैदेहीयदिजीवतिवानवा/सचदेशोमहाप्राज्ञयस्मिन्वसतिरावणः/अधिगम्यचवैदेहींनिलयंरावणस्यच/प्राप्तकालंविधास्यामितस्मिन्कालेसहत्वया/नाहमस्मिन्प्रभुःकार्येवानरेशनलक्ष्मणः/त्वमस्यहेतुःकार्यस्यप्रभुश्चप्लवगेश्वर/त्वमेवाज्ञापयविभोममकार्यविनिश्चयम्/त्वंहिजानासियत्कार्यंममवीरनसंशयः/सुहृद्द्वितीयोविक्रान्तःप्राज्ञःकालविशेषवित्/भवानस्मद्धितेयुक्तःसुकृतार्थोऽर्थवित्तमः/एवमुक्तस्तुसुग्रीवोविनतंनामयूथपम्/अब्रवीद्रामसाम्निध्येलक्ष्मणस्यचधीमतः/शैलाभंमेघनिर्घोषमूर्जितंप्लवगेश्वरम्/सोमसूर्यात्मजैःसार्धंवानरैर्वानरोत्तम/देशकालनयैर्युक्तःकार्याकार्यविनिश्चये/वृतःशतसहस्रेणवानराणांतरस्विनाम्/अधिगच्छदिशंपूर्वांसशैलवनकाननाम्/तत्रसीतांचवैदेहींनिलयंरावणस्यच/मार्गध्वंगिरिदुर्गेषुवनेषुचनदीषुच/नदींभागीरथींरम्यांसरयूंकौशिकींतथा/कालिन्दींयमुनांरम्यांयामुनंचमहागिरिम्/सरस्वतींचसिन्धुंचशोणंमणिनिभोदकम्/महींकालमहींचैवशैलकाननशोभिताम्/ब्रह्ममालान्विदेहांश्चमालवान्काशिकोसलान्/मागधांश्चमहाग्रामान्पुण्ड्रान्वङ्गांस्तथैवच/पत्तनंकोशकाराणांभूमिंचरजताकराम्/सर्वमेतद्विचेतव्यंमृगयद्भिर्ततस्ततः/रामस्यदयितांभार्यांसीतांदशरतःस्नुषाम्/समुद्रमवगाढांश्चपर्वतान्पत्तनानिच/मन्दरस्यचयेकोटिंसंश्रिताःकेचिदायताम्/कर्णप्रावरणाश्चैवतथाचाप्योष्ठकर्णकाः/घोरालोहमुखाश्चैवजवनाश्चैकपादकाः/अक्षयाबलवन्तश्चपुरुषाःपुरुषादकाः/किराताःकर्णचूडाश्चहेमाङ्गाःप्रियदर्शनाः/आममीनाशनास्तत्रकिराताद्वीपवासिनः/अन्तर्जलचराघोरानरव्याघ्राइतिश्रुताः/एतेषामालयाःसर्वेविचेयाःकाननौकसः/गिरिभिर्येचगम्यन्तेप्लवनेनप्लवेनच/रत्नवन्तंयवद्वीपंसप्तराज्योपशोभितम्/सुवर्णरूप्यकंचैवसुवर्णाकरमण्डितम्/यवद्वीपमतिक्रम्यशिशिरोनामपर्वतः/दिवंस्पृशतिशृङ्गेणदेवदानवसेवितः/एतेषांगिरिदुर्गेषुप्रतापेषुवनेषुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/ततःसमुद्रद्वीपांश्चसुभीमान्द्रष्टुमर्हथ/तत्रासुरामहाकायाश्छायांगृह्णन्तिनित्यशः/ब्रह्मणासमनुज्ञातादीर्घकालंबुभुक्षिताः/तंकालमेघप्रतिमंमहोरगनिषेवितम्/अभिगम्यमहानादंतीर्थेनैवमहोदधिम्/ततोरक्तजलंभीमंलोहितंनामसागरम्/गताद्रक्ष्यथतांचैवबृहतींकूटशाल्मलीम्/गृहंचवैनतेयस्यनानारत्नविभूषितम्/तत्रकैलाससंकाशंविहितंविश्वकर्मणा/तत्रशैलनिभाभीमामन्देहानामराक्षसाः/शैलशृङ्गेषुलम्बन्तेनानारूपाभयावहाः/तेपतन्तिजलेनित्यंसूर्यस्योदयनंप्रति/अभितप्ताश्चसूर्येणलम्बन्तेस्मपुनःपुनः/ततःपाण्डुरमेघाभंक्षीरौदंनामसागरम्/गताद्रक्ष्यथदुर्धर्षामुखाहारमिवोर्मिभिः/तस्यमध्येमहाश्वेतऋषभोनामपर्वतः/दिव्यगन्धैःकुसुमितैरजतैश्चनगैर्वृतः/सरश्चराजतैःपद्मैर्ज्वलितैर्हेमकेसरैः/नाम्नासुदर्शनंनामराजहंसैःसमाकुलम्/विबुधाश्चारणायक्षाःकिंनराःसाप्सरोगणाः/हृष्टाःसमभिगच्छन्तिनलिनींतांरिरंसवः/क्षीरोदंसमतिक्रम्यततोद्रक्ष्यथवानराः/जलोदंसागरश्रेष्ठंसर्वभूतभयावहम्/तत्रतत्कोपजंतेजःकृतंहयमुखंमहत्/अस्याहुस्तन्महावेगमोदनंसचराचरम्/तत्रविक्रोशतांनादोभूतानांसागरौकसाम्/श्रूयतेचासमर्थानांदृष्ट्वातद्वडवामुखम्/स्वादूदस्योत्तरेदेशेयोजनानित्रयोदश/जातरूपशिलोनाममहान्कनकपर्वतः/आसीनंपर्वतस्याग्रेसर्वभूतनमस्कृतम्/सहस्रशिरसंदेवमनन्तंनीलवाससं/त्रिशिराःकाञ्चनःकेतुस्तालस्तस्यमहात्मनः/स्थापितःपर्वतस्याग्रेविराजतिसवेदिकः/पूर्वस्यांदिशिनिर्माणंकृतंतत्त्रिदशेश्वरैः/ततःपरंहेममयःश्रीमानुदयपर्वतः/तस्यकोटिर्दिवंस्पृष्ट्वाशतयोजनमायता/जातरूपमयीदिव्याविराजतिसवेदिका/सालैस्तालैस्तमालैश्चकर्णिकारैश्चपुष्पितैः/जातरूपमयैर्दिव्यैःशोभतेसूर्यसंनिभैः/तत्रयोजनविस्तारमुच्छ्रितंदशयोजनम्/शृङ्गंसौमनसंनामजातरूपमयंध्रुवम्/तत्रपूर्वंपदंकृत्वापुराविष्णुस्त्रिविक्रमे/द्वितीयंशिखरंमेरोश्चकारपुरुषोत्तमः/उत्तरेणपरिक्रम्यजम्बूद्वीपंदिवाकरः/दृश्योभवतिभूयिष्ठंशिखरंतन्महोच्छ्रयम्/तत्रवैखानसानामवालखिल्यामहर्षयः/प्रकाशमानादृश्यन्तेसूर्यवर्णास्तपस्विनः/अयंसुदर्शनोद्वीपःपुरोयस्यप्रकाशते/यस्मिंस्तेजश्चचक्षुश्चसर्वप्रानभृतामपि/शैलस्यतस्यकुञ्जेषुकन्दरेषुवनेषुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/काञ्चनस्यचशैलस्यसूर्यस्यचमहात्मनः/आविष्टातेजसासंध्यापूर्वारक्ताप्रकाशते/ततःपरमगम्यास्याद्दिक्पूर्वात्रिदशावृता/रहिताचन्द्रसूर्याभ्यामदृश्यातिमिरावृता/शैलेषुतेषुसर्वेषुकन्दरेषुवनेषुच/यचनोक्तामयादेशाविचेयातेषुजानकी/एतावद्वानरैःशक्यंगन्तुंवानरपुंगवाः/अभास्करममर्यादंनजानीमस्ततःपरम्/अधिगम्यतुवैदेहींनिलयंरावणस्यच/मासेपूर्णेनिवर्तध्वमुदयंप्राप्यपर्वतम्/ऊर्ध्वंमासान्नवस्तव्यंवसन्वध्योभवेन्मम/सिद्धार्थाःसंनिवर्तध्वमधिगम्यचमैथिलीम्/महेन्द्रकान्तांवनषण्डमण्डितां॑दिशंचरित्वानिपुणेनवानराः/अवाप्यसीतांरघुवंशजप्रियां॑ततोनिवृत्ताःसुखितोभविष्यथ/ततःप्रस्थाप्यसुग्रीवस्तन्महद्वानरंबलम्/दक्षिणांप्रेषयामासवानरानभिलक्षितान्/नीलमग्निसुतंचैवहनुमन्तंचवानरम्/पितामहसुतंचैवजाम्बवन्तंमहाकपिम्/सुहोत्रंचशरीरंचशरगुल्मंतथैवच/गजंगवाक्षंगवयंसुषेणमृषभंतथा/मैन्दंचद्विविदंचैवविजयंगन्धमादनम्/उल्कामुखमसङ्गंचहुताशनसुतावुभौ/अङ्गदप्रमुखान्वीरान्वीरःकपिगणेश्वरः/वेगविक्रमसंपन्नान्संदिदेशविशेषवित्/तेषामग्रेषरंचैवमहद्बलमसंगगम्/विधायहरिवीराणामादिशद्दक्षिणांदिशम्/येकेचनसमुद्देशास्तस्यांदिशिसुदुर्गमाः/कपीशःकपिमुख्यानांसतेषांतानुदाहरत्/सहस्रशिरसंविन्ध्यंनानाद्रुमलतावृतम्/नर्मदांचनदींदुर्गांमहोरगनिषेविताम्/ततोगोदावरींरम्यांकृष्णावेणींमहानदीम्/वरदांचमहाभागांमहोरगनिषेविताम्/मेखलानुत्कलांश्चैवदशार्णनगराण्यपि/अवन्तीमभ्रवन्तींचसर्वमेवानुपश्यत/विदर्भानृषिकांश्चैवरम्यान्माहिषकानपि/तथाबङ्गान्कलिङ्गांश्चकौशिकांश्चसमन्ततः/अन्वीक्ष्यदण्डकारण्यंसपर्वतनदीगुहम्/नदींगोदावरींचैवसर्वमेवानुपश्यत/तथैवान्ध्रांश्चपुण्ड्रांश्चचोलान्पाण्ड्यान्सकेरलान्/अयोमुखश्चगन्तव्यःपर्वतोधातुमण्डितः/विचित्रशिखरःश्रीमांश्चित्रपुष्पितकाननः/सचन्दनवनोद्देशोमार्गितव्योमहागिरिः/ततस्तामापगांदिव्यांप्रसन्नसलिलांशिवाम्/तत्रद्रक्ष्यथकावेरींविहृतामप्सरोगणैः/तस्यासीनंनगस्याग्रेमलयस्यमहौजसं/द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम्/ततस्तेनाभ्यनुज्ञाताःप्रसन्नेनमहात्मना/ताम्रपर्णींग्राहजुष्टांतरिष्यथमहानदीम्/साचन्दनवनैर्दिव्यैःप्रच्छन्नाद्वीपशालिनी/कान्तेवयुवतिःकान्तंसमुद्रमवगाहते/ततोहेममयंदिव्यंमुक्तामणिविभूषितम्/युक्तंकवाटंपाण्ड्यानांगताद्रक्ष्यथवानराः/ततःसमुद्रमासाद्यसंप्रधार्यार्थनिश्चयम्/अगस्त्येनान्तरेतत्रसागरेविनिवेशितः/चित्रनानानगःश्रीमान्महेन्द्रःपर्वतोत्तमः/जातरूपमयःश्रीमानवगाढोमहार्णवम्/नानाविधैर्नगैःफुल्लैर्लताभिश्चोपशोभितम्/देवर्षियक्षप्रवरैरप्सरोभिश्चसेवितम्/सिद्धचारणसंघैश्चप्रकीर्णंसुमनोहरम्/तमुपैतिसहस्राक्षःसदापर्वसुपर्वसु/द्वीपस्तस्यापरेपारेशतयोजनमायतः/अगम्योमानुषैर्दीप्तस्तंमार्गध्वंसमन्ततः/तत्रसर्वात्मनासीतामार्गितव्याविशेषतः/सहिदेशस्तुवध्यस्यरावणस्यदुरात्मनः/राक्षसाधिपतेर्वासःसहस्राक्षसमद्युतेः/दक्षिणस्यसमुद्रस्यमध्येतस्यतुराक्षसी/अङ्गारकेतिविख्याताछायामाक्षिप्यभोजिनी/तमतिक्रम्यलक्ष्मीवान्समुद्रेशतयोजने/गिरिःपुष्पितकोनामसिद्धचारणसेवितः/चन्द्रसूर्यांशुसंकाशःसागराम्बुसमावृतः/भ्राजतेविपुलैःशृङ्गैरम्बरंविलिखन्निव/तस्यैकंकाञ्चनंशृङ्गंसेवतेयंदिवाकरः/श्वेतंराजतमेकंचसेवतेयंनिशाकरः/नतंकृतघ्नाःपश्यन्तिननृशंसाननास्तिकाः/प्रणम्यशिरसाशैलंतंविमार्गतवानराः/तमतिक्रम्यदुर्धर्षाःसूर्यवान्नामपर्वतः/अध्वनादुर्विगाहेनयोजनानिचतुर्दश/ततस्तमप्यतिक्रम्यवैद्युतोनामपर्वतः/सर्वकामफलैर्वृक्षैःसर्वकालमनोहरैः/तत्रभुक्त्वावरार्हाणिमूलानिचफलानिच/मधूनिपीत्वामुख्यानिपरंगच्छतवानराः/तत्रनेत्रमनःकान्तःकुञ्जरोनामपर्वतः/अगस्त्यभवनंयत्रनिर्मितंविश्वकर्मणा/तत्रयोजनविस्तारमुच्छ्रितंदशयोजनम्/शरणंकाञ्चनंदिव्यंनानारत्नविभूषितम्/तत्रभोगवतीनामसर्पाणामालयःपुरी/विशालरथ्यादुर्धर्षासर्वतःपरिरक्षिता/रक्षितापन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः/सर्पराजोमहाघोरोयस्यांवसतिवासुकिः/निर्यायमार्गितव्याचसाचभोगवतीपुरी/तंचदेशमतिक्रम्यमहानृषभसंस्थितः/सर्वरत्नमयःश्रीमानृषभोनामपर्वतः/गोशीर्षकंपद्मकंचहरिश्यामंचचन्दनम्/दिव्यमुत्पद्यतेयत्रतच्चैवाग्निसमप्रभम्/नतुतच्चन्दनंदृष्ट्वास्प्रष्टव्यंचकदाचन/रोहितानामगन्धर्वाघोरारक्षन्तितद्वनम्/तत्रगन्धर्वपतयःपञ्चसूर्यसमप्रभाः/शैलूषोग्रामणीर्भिक्षुःशुभ्रोबभ्रुस्तथैवच/अन्तेपृथिव्यादुर्धर्षास्तत्रस्वर्गजितःस्थिताः/ततःपरंनवःसेव्यःपितृलोकःसुदारुणः/राजधानीयमस्यैषाकष्टेनतमसावृता/एतावदेवयुष्माभिर्वीरावानरपुंगवाः/शक्यंविचेतुंगन्तुंवानातोगतिमतांगतिः/सर्वमेतत्समालोक्ययच्चान्यदपिदृश्यते/गतिंविदित्वावैदेह्याःसंनिवर्तितमर्हथ/यस्तुमासान्निवृत्तोऽग्रेदृष्टासीतेतिवक्ष्यति/मत्तुल्यविभवोभोगैःसुखंसविहरिष्यति/ततःप्रियतरोनास्तिममप्राणाद्विशेषतः/कृतापराधोबहुशोममबन्धुर्भविष्यति/अमितबलपराक्रमाभवन्तो॑विपुलगुणेषुकुलेषुचप्रसूताः/मनुजपतिसुतांयथालभध्वं॑तदधिगुणंपुरुषार्थम्/आरभध्वम्/ततःप्रस्थाप्यसुग्रीवस्तान्हरीन्दक्षिणांदिशम्/बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे/अथाहूयमहातेजाःसुषेणंनामयूथपम्/तारायाःपितरंराजाश्वशुरभीमविक्रमम्/अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्यप्रणम्यच/साहाय्यंकुरुरामस्यकृत्येऽस्मिन्समुपस्थिते/वृतःशतसहस्रेणवानराणांतरस्विनाम्/अभिगच्छदिशंसौम्यपश्चिमांवारुणींप्रभो/सुराष्ट्रान्सहबाह्लीकाञ्शूराभीरांस्तथैवच/स्फीताञ्जनपदान्रम्यान्विपुलानिपुराणिच/पुंनागगहनंकुक्षिंबहुलोद्दालकाकुलम्/तथाकेतकषण्डांश्चमार्गध्वंहरियूथपाः/प्रत्यक्स्रोतोगमाश्चैवनद्यःशीतजलाःशिवाः/तापसानामरण्यानिकान्तारागिरयश्चये/गिरिजालावृतांदुर्गांमार्गित्वापश्चिमांदिशम्/ततःपश्चिममासाद्यसमुद्रंद्रष्टुमर्हथ/तिमिनक्रायुतजलमक्षोभ्यमथवानरः/ततःकेतकषण्डेषुतमालगहनेषुच/कपयोविहरिष्यन्तिनारिकेलवनेषुच/तत्रसीतांचमार्गध्वंनिलयंरावणस्यच/मरीचिपत्तनंचैवरम्यंचैवजटीपुरम्/अवन्तीमङ्गलोपांचतथाचालक्षितंवनम्/राष्ट्राणिचविशालानिपत्तनानिततस्ततः/सिन्धुसागरयोश्चैवसंगमेतत्रपर्वतः/महान्हेमगिरिर्नामशतशृङ्गोमहाद्रुमः/तस्यप्रस्थेषुरम्येषुसिंहाःपक्षगमाःस्थिताः/तिमिमत्स्यगजांश्चैवनीडान्यारोपयन्तिते/तानिनीडानिसिंहानांगिरिशृङ्गगताश्चये/दृप्तास्तृप्ताश्चमातङ्गास्तोयदस्वननिःस्वनाः/विचरन्तिविशालेऽस्मिंस्तोयपूर्णेसमन्ततः/तस्यशृङ्गंदिवस्पर्शंकाञ्चनंचित्रपादपम्/सर्वमाशुविचेतव्यंकपिभिःकामरूपिभिः/कोटिंतत्रसमुद्रेतुकाञ्चनींशतयोजनम्/दुर्दर्शांपरियात्रस्यगताद्रक्ष्यथवानराः/कोट्यस्तत्रचतुर्विंशद्गन्धर्वाणांतरस्विनाम्/वसन्त्यग्निनिकाशानांघोराणांकामरूपिणाम्/नात्यासादयितव्यास्तेवानरैर्भीमविक्रमैः/नादेयंचफलंतस्माद्देशात्किंचित्प्लवंगमैः/दुरासदाहितेवीराःसत्त्ववन्तोमहाबलाः/फलमूलानितेतत्ररक्षन्तेभीमविक्रमाः/तत्रयत्नश्चकर्तव्योमार्गितव्याचजानकी/नहितेभ्योभयंकिंचित्कपित्वमनुवर्तताम्/चतुर्भागेसमुद्रस्यचक्रवान्नामपर्वतः/तत्रचक्रंसहस्रारंनिर्मितंविश्वकर्मणा/तत्रपञ्चजनंहत्वाहयग्रीवंचदानवम्/आजहारततश्चक्रंशङ्खंचपुरुषोत्तमः/तस्यसानुषुचित्रेषुविशालासुगुहासुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/योजनानिचतुःषष्टिर्वराहोनामपर्वतः/सुवर्णशृङ्गःसुश्रीमानगाधेवरुणालये/तत्रप्राग्ज्योतिषंनामजातरूपमयंपुरम्/यस्मिन्वस्तिदुष्टात्मानरकोनामगुहासुच/तस्यसानुषुचित्रेषुविशालासुगुहासुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/तमतिक्रम्यशैलेन्द्रंकाञ्चनान्तरनिर्दरः/पर्वतःसर्वसौवर्णोधाराप्रस्रवणायुतः/तंगजाश्चवराहाश्चसिंहाव्याघ्राश्चसर्वतः/अभिगर्जन्तिसततंतेनशब्देनदर्पिताः/तस्मिन्हरिहयःश्रीमान्महेन्द्रःपाकशासनः/अभिषिक्तःसुरैराजामेघवान्नामपर्वतः/तमतिक्रम्यशैलेन्द्रंमहेन्द्रपरिपालितम्/षष्टिंगिरिसहस्राणिकाञ्चनानिगमिष्यथ/तरुणादित्यवर्णानिभ्राजमानानिसर्वतः/जातरूपमयैर्वृक्षैःशोभितानिसुपुष्पितैः/तेषांमध्येस्थितोराजामेरुरुत्तमपर्वतः/आदित्येनप्रसन्नेनशैलोदत्तवरःपुरा/तेनैवमुक्तःशैलेन्द्रःसर्वएवत्वदाश्रयाः/मत्प्रसादाद्भविष्यन्तिदिवारात्रौचकाञ्चनाः/त्वयियेचापिवत्स्यन्तिदेवगन्धर्वदानवाः/तेभविष्यन्तिरक्ताश्चप्रभयाकाञ्चनप्रभाः/आदित्यावसवोरुद्रामरुतश्चदिवौकसः/आगम्यपश्चिमांसंध्यांमेरुमुत्तमपर्वतम्/आदित्यमुपतिष्ठन्तितैश्चसूर्योऽभिपूजितः/अदृश्यःसर्वभूतानामस्तंगच्छतिपर्वतम्/योजनानांसहस्राणिदशतानिदिवाकरः/मुहूर्तार्धेनतंशीघ्रमभियातिशिलोच्चयम्/शृङ्गेतस्यमहद्दिव्यंभवनंसूर्यसंनिभम्/प्रासादगुणसंबाधंविहितंविश्वकर्मणा/शोभितंतरुभिश्चित्रैर्नानापक्षिसमाकुलैः/निकेतंपाशहस्तस्यवरुणस्यमहात्मनः/अन्तरामेरुमस्तंचतालोदशशिरामहान्/जातरूपमयःश्रीमान्भ्राजतेचित्रवेदिकः/तेषुसर्वेषुदुर्गेषुसरःसुचसरित्सुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/यत्रतिष्ठतिधर्मात्मातपसास्वेनभावितः/मेरुसावर्णिरित्येवख्यातोवैब्रह्मणासमः/प्रष्टव्योमेरुसावर्णिर्महर्षिःसूर्यसंनिभः/प्रणम्यशिरसाभूमौप्रवृत्तिंमैथिलींप्रति/एतावज्जीवलोकस्यभास्करोरजनीक्षये/कृत्वावितिमिरंसर्वमस्तंगच्छतिपर्वतम्/एतावद्वानरैःशक्यंगन्तुंवानरपुंगवाः/अभास्करममर्यादंनजानीमस्ततःपरम्/अधिगम्यतुवैदेहींनिलयंरावणस्यच/अस्तंपर्वतमासाद्यपूर्णेमासेनिवर्तत/ऊर्ध्वंमासान्नवस्तव्यंवसन्वध्योभवेन्मम/सहैवशूरोयुष्माभिःश्वशुरोमेगमिष्यति/श्रोतव्यंसर्वमेतस्यभवद्भिर्दिष्टकारिभिः/गुरुरेषमहाबाहुःश्वशुरोमेमहाबलः/भवन्तश्चापिविक्रान्ताःप्रमाणंसर्वकर्मसु/प्रमाणमेनंसंस्थाप्यपश्यध्वंपश्चिमांदिशम्/दृष्टायांतुनरेन्द्रस्यापत्न्याममिततेजसः/कृतकृत्याभविष्यामःकृतस्यप्रतिकर्मणा/अतोऽन्यदपियत्किंचित्कार्यस्यास्यहितंभवेत्/संप्रधार्यभवद्भिश्चदेशकालार्थसंहितम्/ततःसुषेणप्रमुखाःप्लवंगमाः॑सुग्रीववाक्यंनिपुणंनिशम्य/आमन्त्र्यसर्वेप्लवगाधिपंते॑जग्मुर्दिशंतांवरुणाभिगुप्ताम्/ततःसंदिश्यसुग्रीवःश्वशुरंपश्चिमांदिशम्/वीरंशतबलिंनामवानरंवानरर्षभः/उवाचराजामन्त्रज्ञःसर्ववानरसंमतम्/वाक्यमात्महितंचैवरामस्यचहितंतथा/वृतःशतसहस्रेणत्वद्विधानांवनौकसाम्/वैवस्वतसुतैःसार्धंप्रतिष्ठस्वस्वमन्त्रिभिः/दिशंह्युदीचींविक्रान्तांहिमशैलावतंसकाम्/सर्वतःपरिमार्गध्वंरामपत्नीमनिन्दिताम्/अस्मिन्कार्येविनिवृत्तेकृतेदाशरथेःप्रिये/ऋणान्मुक्ताभविष्यामःकृतार्थार्थविदांवराः/कृतंहिप्रियमस्माकंराघवेणमहात्मना/तस्यचेत्प्रतिकारोऽस्तिसफलंजीवितंभवेत्/एतांबुद्धिंसमास्थायदृश्यतेजानकीयथा/तथाभवद्भिःकर्तव्यमस्मत्प्रियहितैषिभिः/अयंहिसर्वभूतानांमान्यस्तुनरसत्तमः/अस्मासुचागतप्रीतीरामःपरपुरंजयः/इमानिवनदुर्गाणिनद्यःशैलान्तराणिच/भवन्तःपरिमार्गंस्तुबुद्धिविक्रमसंपदा/तत्रम्लेच्छान्पुलिन्दांश्चशूरसेनांस्तथाइवच/प्रस्थालान्भरतांश्चैवकुरूंश्चसहमद्रकैः/काम्बोजान्यवनांश्चैवशकानारट्टकानपि/बाह्लीकानृषिकांश्चैवपौरवानथटङ्कणान्/चीनान्परमचीनांश्चनीहारांश्चपुनःपुनः/अन्विष्यदरदांश्चैवहिमवन्तंविचिन्वथ/लोध्रपद्मकषण्डेषुदेवदारुवनेषुच/रावणःसहवैदेह्यमार्गितव्यस्ततस्ततः/ततःसोमाश्रमंगत्वादेवगन्धर्वसेवितम्/कालंनाममहासानुंपर्वतंतंगमिष्यथ/महत्सुतस्यशृङ्गेषुनिर्दरेषुगुहासुच/विचिनुध्वंमहाभागांरामपत्नींयशस्विनीम्/तमतिक्रम्यशैलेन्द्रंहेमवर्गंमहागिरिम्/ततःसुदर्शनंनामपर्वतंगन्तुमर्हथ/तस्यकाननषण्डेषुनिर्दरेषुगुहासुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/तमतिक्रम्यचाकाशंसर्वतःशतयोजनम्/अपर्वतनदीवृक्षंसर्वसत्त्वविवर्जितम्/तंतुशीघ्रमतिक्रम्यकान्तारंरोमहर्षणम्/कैलासंपाण्डुरंशैलंप्राप्यहृष्टाभविष्यथ/तत्रपाण्डुरमेघाभंजाम्बूनदपरिष्कृतम्/कुबेरभवनंदिव्यंनिर्मितंविश्वकर्मणा/विशालानलिनीयत्रप्रभूतकमलोत्पला/हंसकारण्डवाकीर्णाअप्सरोगणसेविता/तत्रवैश्रवणोराजासर्वभूतनमस्कृतः/धनदोरमतेश्रीमान्गुह्यकैःसहयक्षराट्/तस्यचन्द्रनिकशेषुपर्वतेषुगुहासुच/रावणःसहवैदेह्यामार्गितव्यस्ततस्ततः/क्रौञ्चंतुगिरिमासाद्यबिलंतस्यसुदुर्गमम्/अप्रमत्तैःप्रवेष्टव्यंदुष्प्रवेशंहितत्स्मृतम्/वसन्तिहिमहात्मानस्तत्रसूर्यसमप्रभाः/देवैरप्यर्चिताःसम्यग्देवरूपामहर्षयः/क्रौञ्चस्यतुगुहाश्चान्याःसानूनिशिखराणिच/निर्दराश्चनितम्बाश्चविचेतव्यास्ततस्ततः/क्रौञ्चस्यशिखरंचापिनिरीक्ष्यचततस्ततः/अवृक्षंकामशैलंचमानसंविहगालयम्/नगतिस्तत्रभूतानांदेवदानवरक्षसाम्/सचसर्वैर्विचेतव्यःससानुप्रस्थभूधरः/क्रौञ्चंगिरिमतिक्रम्यमैनाकोनामपर्वतः/मयस्यभवनंतत्रदानवस्यस्वयंकृतम्/मैनाकस्तुविचेतव्यःससानुप्रस्थकन्दरः/स्त्रीणामश्वमुखीनांचनिकेतास्तत्रतत्रतु/तंदेशंसमतिक्रम्यआश्रमंसिद्धसेवितम्/सिद्धावैखानसास्तत्रवालखिल्याश्चतापसाः/वन्द्यास्तेतुतपःसिद्धास्तापसावीतकल्मषाः/प्रष्टव्याश्चापिसीतायाःप्रवृत्तंविनयान्वितैः/हेमपुष्करसंछन्नंतत्रवैखानसंसरः/तरुणादित्यसंकाशैर्हंसैर्विचरितंशुभैः/औपवाह्यःकुबेरस्यसर्वभौमइतिस्मृतः/गजःपर्येतितंदेशंसदासहकरेणुभिः/तत्सारःसमतिक्रम्यनष्टचन्द्रदिवाकरम्/अनक्षत्रगणंव्योमनिष्पयोदमनाअदिमत्/गभस्तिभिरिवार्कस्यसतुदेशःप्रकाशते/विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैःस्वयम्प्रभैः/तंतुदेशमतिक्रम्यशैलोदानामनिम्नगा/उभयोस्तीरयोर्यस्याःकीचकानामवेणवः/तेनयन्तिपरंतीरंसिद्धान्प्रत्यानयन्तिच/उत्तराःकुरवस्तत्रकृतपुण्यप्रतिश्रियाः/ततःकाञ्चनपद्माभिःपद्मिनीभिःकृतोदकाः/नीलवैदूर्यपत्राढ्यानद्यस्तत्रसहस्रशः/रक्तोत्पलवनैश्चात्रमण्डिताश्चहिरण्मयैः/तरुणादित्यसदृशैर्भान्तितत्रजलाशयाः/महार्हमणिपत्रैश्चकाञ्चनप्रभकेसरैः/नीलोत्पलवनैश्चित्रैःसदेशःसर्वतोवृतः/निस्तुलाभिश्चमुक्ताभिर्मणिभिश्चमहाधनैः/उद्भूतपुलिनास्तत्रजातरूपैश्चनिम्नगाः/सर्वरत्नमयैश्चित्रैरवगाढानगोत्तमैः/जातरूपमयैश्चापिहुताशनसमप्रभैः/नित्यपुष्पफलाश्चात्रनगाःपत्ररथाकुलाः/दिव्यगन्धरसस्पर्शाःसर्वकामान्स्रवन्तिच/नानाकाराणिवासांसिफलन्त्यन्येनगोत्तमाः/मुक्तावैदूर्यचित्राणिभूषणानितथैवच/स्त्रीणांयान्यनुरूपाणिपुरुषाणांतथैवच/सर्वर्तुसुखसेव्यानिफलन्त्यन्येनगोत्तमाः/महार्हाणिविचित्राणिहैमान्यन्येनगोत्तमाः/शयनानिप्रसूयन्तेचित्रास्तारणवन्तिच/मनःकान्तानिमाल्यानिफलन्त्यत्रापरेद्रुमाः/पानानिचमहार्हाणिभक्ष्याणिविविधानिच/स्त्रियश्चगुणसंपन्नारूपयौवनलक्षिताः/गन्धर्वाःकिंनरासिद्धानागाविद्याधरास्तथा/रमन्तेसहितास्तत्रनारीभिर्भास्करप्रभाः/सर्वेसुकृतकर्माणःसर्वेरतिपरायणाः/सर्वेकामार्थसहितावसन्तिसहयोषितः/गीतवादित्रनिर्घोषःसोत्कृष्टहसितस्वनः/श्रूयतेसततंतत्रसर्वभूतमनोहरः/तत्रनामुदितःकश्चिन्नास्तिकश्चिदसत्प्रियः/अहन्यहनिवर्धन्तेगुणास्तत्रमनोरमाः/समतिक्रम्यतंदेशमुत्तरस्तोयसांनिधिः/तत्रसोमगिरिर्नाममध्येहेममयोमहान्/इन्द्रलोकगतायेचब्रह्मलोकगताश्चये/देवास्तंसमवेक्षन्तेगिरिराजंदिवंगतम्/सतुदेशोविसूर्योऽपितस्यभासाप्रकाशते/सूर्यलक्ष्म्याभिविज्ञेयस्तपसेवविवस्वता/भगवानपिविश्वात्माशम्भुरेकादशात्मकः/ब्रह्मावसतिदेवेशोब्रह्मर्षिपरिवारितः/नकथंचनगन्तव्यंकुरूणामुत्तरेणवः/अन्येषामपिभूतानांनातिक्रामतिवैगतिः/साहिसोमगिरिर्नामदेवानामपिदुर्गमः/तमालोक्यततःक्षिप्रमुपावर्तितुमर्हथ/एतावद्वानरैःशक्यंगन्तुंवानरपुंगवाः/अभास्करममर्यादंनजानीमस्ततःपरम्/सर्वमेतद्विचेतव्यंयन्मयापरिकीर्तितम्/यदन्यदपिनोक्तंचतत्रापिक्रियतांमतिः/ततःकृतंदाशरथेर्महत्प्रियं॑महत्तरंचापिततोममप्रियम्/कृतंभविष्यत्यनिलानलोपमा॑विदेहजादर्शनजेनकर्मणा/ततःकृतार्थाःसहिताःसबान्धवा॑मयार्चिताःसर्वगुणैर्मनोरमैः/चरिष्यथोर्वींप्रतिशान्तशत्रवः॑सहप्रियाभूतधराःप्लवंगमाः/विशेषेणतुसुग्रीवोहनुमत्यर्थमुक्तवान्/सहितस्मिन्हरिश्रेष्ठेनिश्चितार्थोऽर्थसाधने/नभूमौनान्तरिक्षेवानाम्बरेनामरालये/नाप्सुवागतिसंगंतेपश्यामिहरिपुंगव/सासुराःसहगन्धर्वाःसनागनरदेवताः/विदिताःसर्वलोकास्तेससागरधराधराः/गतिर्वेगश्चतेजश्चलाघवंचमहाकपे/पितुस्तेसदृशंवीरमारुतस्यमहौजसः/तेजसावापितेभूतंसमंभुविनविद्यते/तद्यथालभ्यतेसीतातत्त्वमेवोपपादय/त्वय्येवहनुमन्नस्तिबलंबुद्धिःपराक्रमः/देशकालानुवृत्तश्चनयश्चनयपण्डित/ततःकार्यसमासंगमवगम्यहनूमति/विदित्वाहनुमन्तंचचिन्तयामासराघवः/सर्वथानिश्चितार्थोऽयंहनूमतिहरीश्वरः/निश्चितार्थतरश्चापिहनूमान्कार्यसाधने/तदेवंप्रस्थितस्यास्यपरिज्ञातस्यकर्मभिः/भर्त्रापरिगृहीतस्यध्रुवःकार्यफलोदयः/तंसमीक्ष्यमहातेजाव्यवसायोत्तरंहरिम्/कृतार्थइवसंवृत्तःप्रहृष्टेन्द्रियमानसः/ददौतस्यततःप्रीतःस्वनामाङ्कोपशोभितम्/अङ्गुलीयमभिज्ञानंराजपुत्र्याःपरंतपः/अनेनत्वांहरिश्रेष्ठचिह्नेनजनकात्मजा/मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति/व्यवसायश्चतेवीरसत्त्वयुक्तश्चविक्रमः/सुग्रीवस्यचसंदेशःसिद्धिंकथयतीवमे/सतद्गृह्यहरिश्रेष्ठःस्थाप्यमूर्ध्निकृताञ्जलिः/वन्दित्वाचरणौचैवप्रस्थितःप्लवगोत्तमः/सतत्प्रकर्षन्हरिणांबलंमहद्॑बभूववीरःपवनात्मजःकपि/गताम्बुदेव्योम्निविशुद्धमण्डलः॑शशीवनक्षत्रगणोपशोभितः/अतिबलबलमाश्रितस्तवाहं॑हरिवरविक्रमविक्रमैरनल्पैः/पवनसुतयथाभिगम्यतेसा॑जनकसुताहनुमंस्तथाकुरुष्व/तदुग्रशासनंभर्तुर्विज्ञायहरिपुंगवाः/शलभाइवसंछाद्यमेदिनींसंप्रतस्थिरे/रामःप्रस्रवणेतस्मिन्न्यवसत्सहलक्ष्मणः/प्रतीक्षमाणस्तंमासंयःसीताधिगमेकृतः/उत्तरांतुदिशंरम्यांगिरिराजसमावृताम्/प्रतस्थेसहसावीरोहरिःशतबलिस्तदा/पूर्वांदिशंप्रतिययौविनतोहरियूथपः/ताराङ्गदादिसहितःप्लवगःपवनात्मजः/अगस्त्यचरितामाशांदक्षिणांहरियूथपः/पश्चिमांतुदिशंघोरांसुषेणःप्लवगेश्वरः/प्रतस्थेहरिशार्दूलोभृशंवरुणपालिताम्/ततःसर्वादिशोराजाचोदयित्वायथातथम्/कपिसेनापतीन्मुख्यान्मुमोदसुखितःसुखम्/एवंसंचोदिताःसर्वेराज्ञावानरयूथपाः/स्वांस्वांदिशमभिप्रेत्यत्वरिताःसंप्रतस्थिरे/नदन्तश्चोन्नदन्तश्चगर्जन्तश्चप्लवंगमाः/क्ष्वेलन्तोधावमानाश्चययुःप्लवगसत्तमाः/आनयिष्यामहेसीतांहनिष्यामश्चरावणम्/अहमेकोहनिष्यामिप्राप्तंरावणमाहवे/ततश्चोन्मथ्यसहसाहरिष्येजनकात्मजाम्/वेपमानंश्रमेणाद्यभवद्भिःस्थीयतामिति/एकएवाहरिष्यामिपातालादपिजानकीम्/विधमिष्याम्यहंवृक्षान्दारयिष्याम्यहंगिरीन्/धरणींदारयिष्यामिक्षोभयिष्यामिसागरान्/अहंयोजनसंख्यायाःप्लवितानात्रसंशयः/शतंयोजनसंख्यायाःशतंसमधिकंह्यहम्/भूतलेसागरेवापिशैलेषुचवनेषुच/पातालस्यापिवामध्येनममाच्छिद्यतेगतिः/इत्येकैकंतदातत्रवानराबलदर्पिताः/ऊचुश्चवचनंतस्मिन्हरिराजस्यसंनिधौ/गतेषुवानरेन्द्रेषुरामःसुग्रीवमब्रवीत्/कथंभवान्विनाजीतेसर्वंवैमण्डलंभुवः/सुग्रीवस्तुततोराममुवाचप्रणतात्मवान्/श्रूयतांसर्वमाख्यास्येविस्तरेणनरर्षभ/यदातुदुन्दुभिंनामदानवंमहिषाकृतिम्/परिकालयतेवालीमलयंप्रतिपर्वतम्/तदाविवेशमहिषोमलयस्यगुहांप्रति/विवेशवालीतत्रापिमलयंतज्जिघांसया/ततोऽहंतत्रनिक्षिप्तोगुहाद्वारिविनीतवत्/नचनिष्क्रमतेवालीतदासंवत्सरेगते/ततःक्षतजवेगेनआपुपूरेतदाबिलम्/तदहंविस्मितोदृष्ट्वाभ्रातृशोकविषार्दितः/अथाहंकृतबुद्धिस्तुसुव्यक्तंनिहतोगुरुः/शिलापर्वतसंकाशाबिलद्वारिमयाकृता/अशक्नुवन्निष्क्रमितुंमहिषोविनशेदिति/ततोऽहमागांकिष्किन्धांनिराशस्तस्यजीविते/राज्यंचसुमहत्प्राप्तंताराचरुमयासह/मित्रैश्चसहितस्तत्रवसामिविगतज्वरः/आजगामततोवालीहत्वांतंदानवर्षभम्/ततोऽहमददांराज्यंगौरवाद्भययन्त्रितः/समांजिघांसुर्दुष्टात्मावालीप्रव्यथितेन्द्रियः/परिलाकयतेक्रोधाद्धावन्तंसचिवैःसह/ततोऽहंवालिनातेनसानुबन्धःप्रधावितः/नदीश्चविविधाःपश्यन्वनानिनगराणिच/आदर्शतलसंकाशाततोवैपृथिवीमया/अलातचक्रप्रतिमादृष्टागोष्पदवत्तदा/ततःपूर्वमहंगत्वादक्षिणामहमाश्रितः/दिशंचपश्चिमांभूयोगतोऽस्मिभयशङ्कितः/उत्तरांतुदिशंयान्तंहनुमान्मामथाब्रवीत्/इदानींमेस्मृतंराजन्यथावालीहरीश्वरः/मतङ्गेनतदाशप्तोह्यस्मिन्नाश्रममण्डले/प्रविशेद्यदिवावालीमूर्धास्यशतधाभवेत्/तत्रवासःसुखोऽस्माकंनिरुद्विग्नोभविष्यति/ततःपर्वतमासाद्यऋश्यमूकंनृपात्मज/नविवेशतदावालीमतङ्गस्यभयात्तदा/एवंमयातदाराजन्प्रत्यक्षमुपलक्षितम्/पृथिवीमण्डलंकृत्स्नंगुहामस्म्यागतस्ततः/दर्शनार्थंतुवैदेह्याःसर्वतःकपियूथपाः/व्यादिष्टाःकपिराजेनयथोक्तंजग्मुरञ्जसा/सरांसिसरितःकक्षानाकाशंनगराणिच/नदीदुर्गांस्तथाशैलान्विचिन्वन्तिसमन्ततः/सुग्रीवेणसमाख्यातान्सर्वेवानरयूथपाः/प्रदेशान्प्रविचिन्वन्तिसशैलवनकाननान्/विचिन्त्यदिवसंसर्वेसीताधिगमनेधृताः/समायान्तिस्ममेदिन्यांनिशाकालेशुवानराः/सर्वर्तुकांश्चदेशेषुवानराःसफलान्द्रुमान्/आसाद्यरजनींशय्यांचक्रुःसर्वेष्वहःसुते/तदहःप्रथमंकृत्वामासेप्रस्रवणंगताः/कपिराजेनसंगम्यनिराशाःकपियूथपाः/विचित्यतुदिशंपूर्वांयथोक्तांसचिवैःसह/अदृष्ट्वाविनतःसीतामाजगाममहाबलः/उत्तरांतुदिशंसर्वांविचित्यसमहाकपिः/आगतःसहसैन्येनवीरःशतबलिस्तदा/सुषेणःपश्चिमामाशांविचित्यसहवानरैः/समेत्यमासेसंपूर्णेसुग्रीवमुपचक्रमे/तंप्रस्रवणपृष्ठस्थंसमासाद्याभिवाद्यच/आसीनंसहरामेणसुग्रीवमिदमब्रुवन्/विचिताःपर्वताःसर्वेवनानिनगराणिच/निम्नगाःसागरान्ताश्चसर्वेजनपदास्तथा/गुहाश्चविचिताःसर्वायास्त्वयापरिकीर्तिताः/विचिताश्चमहागुल्मालताविततसंतताः/गहनेषुचदेशेषुदुर्गेषुविषमेषुच/सत्त्वान्यतिप्रमाणानिविचितानिहतानिच/येचैवगहनादेशाविचितास्तेपुनःपुनः/उदारसत्त्वाभिजनोमहात्मा॑समैथिलींद्रक्ष्यतिवानरेन्द्रः/दिशंतुयामेवगतातुसीता॑तामास्थितोवायुसुतोहनूमान्/सहताराङ्गदाभ्यांतुगत्वासहनुमान्कपिः/सुग्रीवेणयथोद्दिष्टंतंदेशमुपचक्रमे/सतुदूरमुपागम्यसर्वैस्तैःकपिसत्तमैः/विचिनोतिस्मविन्ध्यस्यगुहाश्चगहनानिच/पर्वताग्रान्नदीदुर्गान्सरांसिविपुलान्द्रुमान्/वृक्षषण्डांश्चविविधान्पर्वतान्घनपादपान्/अन्वेषमाणास्तेसर्वेवानराःसर्वतोदिशम्/नसीतांददृशुर्वीरामैथिलींजनकात्मजाम्/तेभक्षयन्तोमूलानिफलानिविविधानिच/अन्वेषमाणादुर्धर्षान्यवसंस्तत्रतत्रह/सतुदेशोदुरन्वेषोगुहागहनवान्महान्/त्यक्त्वातुतंतदादेशंसर्वेवैहरियूथपाः/देशमन्यंदुराधर्षंविविशुश्चाकुतोभयाः/यत्रवन्ध्यफलावृक्षाविपुष्पाःपर्णवर्जिताः/निस्तोयाःसरितोयत्रमूलंयत्रसुदुर्लभम्/नसन्तिमहिषायत्रनमृगानचहस्तिनः/शार्दूलाःपक्षिणोवापियेचान्येवनगोचराः/स्निग्धपत्राःस्थलेयत्रपद्मिन्यःफुल्लपङ्कजाः/प्रेक्षणीयाःसुगन्धाश्चभ्रमरैश्चापिवर्जिताः/कण्डुर्नाममहाभागःसत्यवादीतपोधनः/महर्षिःपरमामर्षीनियमैर्दुष्प्रधर्षणः/तस्यतस्मिन्वनेपुत्रोबालकोदशवार्षिकः/प्रनष्टोजीवितान्तायक्रुद्धस्तत्रमहामुनिः/तेनधर्मात्मनाशप्तंकृत्स्नंतत्रमहद्वनम्/अशरण्यंदुराधर्षंमृगपक्षिविवर्जितम्/तस्यतेकाननान्तांस्तुगिरीणांकन्दराणिच/प्रभवानिनदीनांचविचिन्वन्तिसमाहिताः/तत्रचापिमहात्मानोनापश्यञ्जनकात्मजाम्/हर्तारंरावणंवापिसुग्रीवप्रियकारिणः/तेप्रविश्यतुतंभीमंलतागुल्मसमावृतम्/ददृशुःक्रूरकर्माणमसुरंसुरनिर्भयम्/तंदृष्ट्वावनराघोरंस्थितंशैलमिवापरम्/गाढंपरिहिताःसर्वेदृष्ट्वातंपर्वतोपमम्/सोऽपितान्वानरान्सर्वान्नष्टाःस्थेत्यब्रवीद्बली/अभ्यधावतसंक्रुद्धोमुष्टिमुद्यम्यसंहितम्/तमापतन्तंसहसावालिपुत्रोऽङ्गदस्तदा/रावणोऽयमितिज्ञात्वातलेनाभिजघानह/सवालिपुत्राभिहतोवक्त्राच्छोणितमुद्वमन्/असुरोन्यपतद्भूमौपर्यस्तइवपर्वतः/तेतुतस्मिन्निरुच्छ्वासेवानराजितकाशिनः/व्यचिन्वन्प्रायशस्तत्रसर्वंतद्गिरिगह्वरम्/विचितंतुततःकृत्वासर्वेतेकाननंपुनः/अन्यदेवापरंघोरंविविशुर्गिरिगह्वरम्/तेविचिन्त्यपुनःखिन्नाविनिष्पत्यसमागताः/एकान्तेवृक्षमूलेतुनिषेदुर्दीनमानसाः/अथाङ्गदस्तदासर्वान्वानरानिदमब्रवीत्/परिश्रान्तोमहाप्राज्ञःसमाश्वास्यशनैर्वचः/वनानिगिरयोनद्योदुर्गाणिगहनानिच/दर्योगिरिगुहाश्चैवविचितानःसमन्ततः/तत्रतत्रसहास्माभिर्जानकीनचदृश्यते/तद्वारक्षोहृतायेनसीतासुरसुतोपमा/कालश्चनोमहान्यातःसुग्रीवश्चोग्रशासनः/तस्माद्भवन्तःसहिताविचिन्वन्तुसमन्ततः/विहायतन्द्रींशोकंचनिद्रांचैवसमुत्थिताम्/विचिनुध्वंयथासीतांपश्यामोजनकात्मजाम्/अनिर्वेदंचदाक्ष्यंचमनसश्चापराजयम्/कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्/अद्यापीदंवनंदुर्गंविचिन्वन्तुवनौकसः/खेदंत्यक्त्वापुनःसर्वंवनमेतद्विचीयताम्/अवश्यंक्रियमाणस्यदृश्यतेकर्मणःफलम्/अलंनिर्वेदमागम्यनहिनोमलिनंक्षमम्/सुग्रीवःक्रोधनोराजातीक्ष्णदण्डश्चवानराः/भेतव्यंतस्यसततंरामस्यचमहात्मनः/हितार्थमेतदुक्तंवःक्रियतांयदिरोचते/उच्यतांवाक्षमंयन्नःसर्वेषामेववानराः/अङ्गदस्यवचःश्रुत्वावचनंगन्धमादनः/उवाचाव्यक्तयावाचापिपासाश्रमखिन्नया/सदृशंखलुवोवाक्यमङ्गदोयदुवाचह/हितंचैवानुकूलंचक्रियतामस्यभाषितम्/पुनर्मार्गामहेशैलान्कन्दरांश्चदरीस्तथा/काननानिचशून्यानिगिरिप्रस्रवणानिच/यथोद्दिष्ठानिसर्वाणिसुग्रीवेणमहात्मना/विचिन्वन्तुवनंसर्वेगिरिदुर्गाणिसर्वशः/ततःसमुत्थायपुनर्वानरास्तेमहाबलाः/विन्ध्यकाननसंकीर्णांविचेरुर्दक्षिणांदिशम्/तेशारदाभ्रप्रतिमंश्रीमद्रजतपर्वतम्/शृङ्गवन्तंदरीवन्तमधिरुह्यचवानराः/तत्रलोध्रवनंरम्यंसप्तपर्णवनानिच/विचिन्वन्तोहरिवराःसीतादर्शनकाङ्क्षिणः/तस्याग्रमधिरूढास्तेश्रान्ताविपुलविक्रमाः/नपश्यन्तिस्मवैदेहींरामस्यमहिषींप्रियाम्/तेतुदृष्टिगतंकृत्वातंशैलंबहुकन्दरम्/अवारोहन्तहरयोवीक्षमाणाःसमन्ततः/अवरुह्यततोभूमिंश्रान्ताविगतचेतसः/स्थित्वामुहूर्तंतत्राथवृक्षमूलमुपाश्रिताः/तेमुहूर्तंसमाश्वस्ताःकिंचिद्भग्नपरिश्रमाः/पुनरेवोद्यताःकृत्स्नांमार्गितुंदक्षिणांदिशम्/हनुमत्प्रमुखास्तेतुप्रस्थिताःप्लवगर्षभाः/विन्ध्यमेवादितस्तावद्विचेरुस्तेसमन्ततः/सहताराङ्गदाभ्यांतुसंगम्यहनुमान्कपिः/विचिनोतिस्मविन्ध्यस्यगुहाश्चगहनानिच/सिंहशार्दूलजुष्टाश्चगुहाश्चपरितस्तथा/विषमेषुनगेन्द्रस्यमहाप्रस्रवणेषुच/तेषांतत्रैववसतांसकालोव्यत्यवर्तत/सहिदेशोदुरन्वेषोगुहागहनवान्महान्/तत्रवायुसुतःसर्वंविचिनोतिस्मपर्वतम्/परस्परेणरहिताअन्योन्यस्याविदूरतः/गजोगवाक्षोगवयःशरभोगन्धमादनः/मैन्दश्चद्विविदश्चैवहनुमाञ्जाम्बवानपि/अङ्गदोयुवराजश्चतारश्चवनगोचरः/गिरिजालावृतान्देशान्मार्गित्वादक्षिणांदिशम्/क्षुत्पिपासापरीताश्चश्रान्ताश्चसलिलार्थिनः/अवकीर्णंलतावृक्षैर्ददृशुस्तेमहाबिलम्/ततःक्रौञ्चाश्चहंसाश्चसारसाश्चापिनिष्क्रमन्/जलार्द्राश्चक्रवाकाश्चरक्ताङ्गाःपद्मरेणुभिः/ततस्तद्बिलमासाद्यसुगन्धिदुरतिक्रमम्/विस्मयव्यग्रमनसोबभूवुर्वानरर्षभाः/संजातपरिशङ्कास्तेतद्बिलंप्लवगोत्तमाः/अभ्यपद्यन्तसंहृष्टास्तेजोवन्तोमहाबलाः/ततःपर्वतकूटाभोहनुमान्मारुतात्मजः/अब्रवीद्वानरान्सर्वान्कान्तारवनकोविदः/गिरिजालावृतान्देशान्मार्गित्वादक्षिणांदिशम्/वयंसर्वेपरिश्रान्तानचपश्यामिमैथिलीम्/अस्माच्चापिबिलाद्धंसाःक्रौञ्चाश्चसहसारसैः/जलार्द्राश्चक्रवाकाश्चनिष्पतन्तिस्मसर्वशः/नूनंसलिलवानत्रकूपोवायदिवाह्रदः/तथाचेमेबिलद्वारेस्निग्धास्तिष्ठन्तिपादपाः/इत्युक्तास्तद्बिलंसर्वेविविशुस्तिमिरावृतम्/अचन्द्रसूर्यंहरयोददृशूरोमहर्षणम्/ततस्तस्मिन्बिलेदुर्गेनानापादपसंकुले/अन्योन्यंसंपरिष्वज्यजग्मुर्योजनमन्तरम्/तेनष्टसंज्ञास्तृषिताःसंभ्रान्ताःसलिलार्थिनः/परिपेतुर्बिलेतस्मिन्कंचित्कालमतन्द्रिताः/तेकृशादीनवदनाःपरिश्रान्ताःप्लवंगमाः/आलोकंददृशुर्वीरानिराशाजीवितेतदा/ततस्तंदेशमागम्यसौम्यंवितिमिरंवनम्/ददृशुःकाञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान्/सालांस्तालांश्चपुंनागान्ककुभान्वञ्जुलान्धवान्/चम्पकान्नागवृक्षांश्चकर्णिकारांश्चपुष्पितान्/तरुणादित्यसंकाशान्वैदूर्यमयवेदिकान्/नीलवैदूर्यवर्णाश्चपद्मिनीःपतगावृताः/महद्भिःकाञ्चनैर्वृक्षैर्वृतंबालार्कसंनिभैः/जातरूपमयैर्मत्स्यैर्महद्भिश्चसकच्छपैः/नलिनीस्तत्रददृशुःप्रसन्नसलिलायुताः/काञ्चनानिविमानानिराजतानितथैवच/तपनीयगवाक्षाणिमुक्ताजालावृतानिच/हैमराजतभौमानिवैदूर्यमणिमन्तिच/ददृशुस्तत्रहरयोगृहमुख्यानिसर्वशः/पुष्पितान्फलिनोवृक्षान्प्रवालमणिसंनिभान्/काञ्चनभ्रमरांश्चैवमधूनिचसमन्ततः/मणिकाञ्चनचित्राणिशयनान्यासनानिच/महार्हाणिचयानानिददृशुस्तेसमन्ततः/हैमराजतकांस्यानांभाजनानांचसंचयान्/अगरूणांचदिव्यानांचन्दनानांचसंचयान्/शुचीन्यभ्यवहार्याणिमूलानिचफलानिच/महार्हाणिचपानानिमधूनिरसवन्तिच/दिव्यानामम्बराणांचमहार्हाणांचसंचयान्/कम्बलानांचचित्राणामजिनानांचसंचयान्/तत्रतत्रविचिन्वन्तोबिलेतत्रमहाप्रभाः/ददृशुर्वानराःशूराःस्त्रियंकांचिददूरतः/तांदृष्ट्वाभृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम्/तापसींनियताहारांज्वलन्तीमिवतेजसा/ततोहनूमान्गिरिसंनिकाशः॑कृताञ्जलिस्तामभिवाद्यवृद्धाम्/पप्रच्छकात्वंभवनंबिलंच॑रत्नानिचेमानिवदस्वकस्य/इत्युक्त्वाहनुमांस्तत्रपुनःकृष्णाजिनाम्बराम्/अब्रवीत्तांमहाभागांतापसींधर्मचारिणीम्/इदंप्रविष्टाःसहसाबिलंतिमिरसंवृतम्/क्षुत्पिपासापरिश्रान्ताःपरिखिन्नाश्चसर्वशः/महद्धिरण्याविवरंप्रविष्टाःस्मपिपासिताः/इमांस्त्वेवंविधान्भावान्विविधानद्भुतोपमान्/दृष्ट्वावयंप्रव्यथिताःसंभ्रान्तानष्टचेतसः/कस्येमेकाञ्चनावृक्षास्तरुणादित्यसंनिभाः/शुचीन्यभ्यवहार्याणिमूलानिचफलानिच/काञ्चनानिविमानानिराजतानिगृहाणिच/तपनीयगवाक्षाणिमणिजालावृतानिच/पुष्पिताःफालवन्तश्चपुण्याःसुरभिगन्धिनः/इमेजाम्बूनदमयाःपादपाःकस्यतेजसा/काञ्चनानिचपद्मानिजातानिविमलेजले/कथंमत्स्याश्चसौवर्णाचरन्तिसहकच्छपैः/आत्मानमनुभावंचकस्यचैतत्तपोबलम्/अजानतांनःसर्वेषांसर्वमाख्यातुमर्हसि/एवमुक्ताहनुमतातापसीधर्मचारिणी/प्रत्युवाचहनूमन्तंसर्वभूतहितेरता/मयोनाममहातेजामायावीदानवर्षभः/तेनेदंनिर्मितंसर्वंमाययाकाञ्चनंवनम्/पुरादानवमुख्यानांविश्वकर्माबभूवह/येनेदंकाञ्चनंदिव्यंनिर्मितंभवनोत्तमम्/सतुवर्षसहस्राणितपस्तप्त्वामहावने/पितामहाद्वरंलेभेसर्वमौशसनंधनम्/विधायसर्वंबलवान्सर्वकामेश्वरस्तदा/उवाससुखितःकालंकंचिदस्मिन्महावने/तमप्सरसिहेमायांसक्तंदानवपुंगवम्/विक्रम्यैवाशनिंगृह्यजघानेशःपुरंदरः/इदंचब्रह्मणादत्तंहेमायैवनमुत्तमम्/शाश्वतःकामभोगश्चगृहंचेदंहिरण्मयम्/दुहितामेरुसावर्णेरहंतस्याःस्वयंप्रभा/इदंरक्षामिभवनंहेमायावानरोत्तम/ममप्रियसखीहेमानृत्तगीतविशारदा/तयादत्तवराचास्मिरक्षामिभवनोत्तमम्/किंकार्यंकस्यवाहेतोःकान्ताराणिप्रपद्यथ/कथंचेदंवनंदुर्गंयुष्माभिरुपलक्षितम्/इमान्यभ्यवहार्याणिमूलानिचफलानिच/भुक्त्वापीत्वाचपानीयंसर्वंमेवक्तुमर्हथ/अथतानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान्/इदंवचनमेकाग्रातापसीधर्मचारिणी/वानरायदिवःखेदःप्रनष्टःफलभक्षणात्/यदिचैतन्मयाश्राव्यंश्रोतुमिच्छामिकथ्यताम्/तस्यास्तद्वचनंश्रुत्वाहनुमान्मारुतात्मजः/आर्जवेनयथातत्त्वमाख्यातुमुपचक्रमे/राजासर्वस्यलोकस्यमहेन्द्रवरुणोपमः/रामोदाशरथिःश्रीमान्प्रविष्टोदण्डकावनम्/लक्ष्मणेनसहभ्रात्रावैदेह्याचापिभार्यया/तस्यभार्याजनस्थानाद्रावणेनहृताबलात्/वीरस्तस्यसखाराज्ञःसुग्रीवोनामवानरः/राजावानरमुख्यानांयेनप्रस्थापितावयम्/अगस्त्यचरितामाशांदक्षिणांयमरक्षिताम्/सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्/रावणंसहिताःसर्वेराक्षसंकामरूपिणम्/सीतयासहवैदेह्यामार्गध्वमितिचोदिताः/विचित्यतुवयंसर्वेसमग्रांदक्षिणांदिशम्/बुभुक्षिताःपरिश्रान्तावृक्षमूलमुपाश्रिताः/विवर्णवदनाःसर्वेसर्वेध्यानपरायणाः/नाधिगच्छामहेपारंमग्नाश्चिन्तामहार्णवे/चारयन्तस्ततश्चक्षुर्दृष्टवन्तोमहद्बिलम्/लतापादपसंछन्नंतिमिरेणसमावृतम्/अस्माद्धंसाजलक्लिन्नाःपक्षैःसलिलरेणुभिः/कुरराःसारसाश्चैवनिष्पतन्तिपतत्रिणः/साध्वत्रप्रविशामेतिमयातूक्ताःप्लवंगमाः/तेषामपिहिसर्वेषामनुमानमुपागतम्/गच्छामःप्रविशामेतिभर्तृकार्यत्वरान्विताः/ततोगाढंनिपतितागृह्यहस्तौपरस्परम्/इदंप्रविष्टाःसहसाबिलंतिमिरसंवृतम्/एतन्नःकायमेतेनकृत्येनवयमागताः/त्वांचैवोपगताःसर्वेपरिद्यूनाबुभुक्षिताः/आतिथ्यधर्मदत्तानिमूलानिचफलानिच/अस्माभिरुपभुक्तानिबुभुक्षापरिपीडितैः/यत्त्वयारक्षिताःसर्वेम्रियमाणाबुभुक्षया/ब्रूहिप्रत्युपकारार्थंकिंतेकुर्वन्तुवानराः/एवमुक्तातुसर्वज्ञावानरैस्तैःस्वयंप्रभा/प्रत्युवाचततःसर्वानिदंवानरयूथपम्/सर्वेषांपरितुष्टास्मिवानराणांतरस्विनाम्/चरन्त्याममधर्मेणनकार्यमिहकेनचित्/एवमुक्तःशुभंवाक्यंतापस्याधर्मसंहितम्/उवाचहनुमान्वाक्यंतामनिन्दितचेष्टिताम्/शरणंत्वांप्रपन्नाःस्मःसर्वेवैधर्मचारिणि/यःकृतःसमयोऽस्माकंसुग्रीवेणमहात्मना/सतुकालोव्यतिक्रान्तोबिलेचपरिवर्तताम्/सात्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि/तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः/त्रातुमर्हसिनःसर्वान्सुग्रीवभयशङ्कितान्/महच्चकार्यमस्माभिःकर्तव्यंधर्मचारिणि/तच्चापिनकृतंकार्यमस्माभिरिहवासिभिः/एवमुक्ताहनुमतातापसीवाक्यमब्रवीत्/जीवतादुष्करंमन्येप्रविष्टेननिवर्तितुम्/तपसस्तुप्रभावेननियमोपार्जितेनच/सर्वानेवबिलादस्मादुद्धरिष्यामिवानरान्/निमीलयतचक्षूंषिसर्वेवानरपुंगवाः/नहिनिष्क्रमितुंशक्यमनिमीलितलोचनैः/ततःसंमीलिताःसर्वेसुकुमाराङ्गुलैःकरैः/सहसापिदधुर्दृष्टिंहृष्टागमनकाङ्क्षिणः/वानरास्तुमहात्मानोहस्तरुद्धमुखास्तदा/निमेषान्तरमात्रेणबिलादुत्तारितास्तया/ततस्तान्वानरान्सर्वांस्तापसीधर्मचारिणी/निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्/एषविन्ध्योगिरिःश्रीमान्नानाद्रुमलतायुतः/एषप्रसवणःशैलःसागरोऽयंमहोदधिः/स्वस्तिवोऽस्तुगमिष्यामिभवनंवानरर्षभाः/इत्युक्त्वातद्बिलंश्रीमत्प्रविवेशस्वयंप्रभा/ततस्तेददृशुर्घोरंसागरंवरुणालयम्/अपारमभिगर्जन्तंघोरैरूर्मिभिराकुलम्/मयस्यमायाविहितंगिरिदुर्गंविचिन्वताम्/तेषांमासोव्यतिक्रान्तोयोराज्ञासमयःकृतः/विन्ध्यस्यतुगिरेःपादेसंप्रपुष्पितपादपे/उपविश्यमहाभागाश्चिन्तामापेदिरेतदा/ततःपुष्पातिभाराग्रांल्लताशतसमावृतान्/द्रुमान्वासन्तिकान्दृष्ट्वाबभूवुर्भयशङ्किताः/तेवसन्तमनुप्राप्तंप्रतिवेद्यपरस्परम्/नष्टसंदेशकालार्थानिपेतुर्धरणीतले/सतुसिंहर्षभस्कन्धःपीनायतभुजःकपिः/युवराजोमहाप्राज्ञअङ्गदोवाक्यमब्रवीत्/शासनात्कपिराजस्यवयंसर्वेविनिर्गताः/मासःपूर्णोबिलस्थानांहरयःकिंनबुध्यते/तस्मिन्नतीतेकालेतुसुग्रीवेणकृतेस्वयम्/प्रायोपवेशनंयुक्तंसर्वेषांचवनौकसाम्/तीक्ष्णःप्रकृत्यासुग्रीवःस्वामिभावेव्यवस्थितः/नक्षमिष्यतिनःसर्वानपराधकृतोगतान्/अप्रवृत्तौचसीतायाःपापमेवकरिष्यति/तस्मात्क्षममिहाद्यैवप्रायोपविशनंहिनः/त्यक्त्वापुत्रांश्चदारांश्चधनानिचगृहाणिच/यावन्नघातयेद्राजासर्वान्प्रतिगतानितः/वधेनाप्रतिरूपेणश्रेयान्मृत्युरिहैवनः/नचाहंयौवराज्येनसुग्रीवेणाभिषेचितः/नरेन्द्रेणाभिषिक्तोऽस्मिरामेणाक्लिष्टकर्मणा/सपूर्वंबद्धवैरोमांराजादृष्ट्वाव्यतिक्रमम्/घातयिष्यतिदण्डेनतीक्ष्णेनकृतनिश्चयः/किंमेसुहृद्भिर्व्यसनंपश्यद्भिर्जीवितान्तरे/इहैवप्रायमासिष्येपुण्येसागररोधसि/एतच्छ्रुत्वाकुमारेणयुवराजेनभाषितम्/सर्वेतेवानरश्रेष्ठाःकरुणंवाक्यमब्रुवन्/तीक्ष्णःप्रकृत्यासुग्रीवःप्रियासक्तश्चराघवः/अदृष्टायांचवैदेह्यांदृष्ट्वास्मांश्चसमागतान्/राघवप्रियकामार्थंघातयिष्यत्यसंशयम्/नक्षमंचापराद्धानांगमनंस्वामिपार्श्वतः/प्लवंगमानांतुभयार्दितानां॑श्रुत्वावचस्तारइदंबभाषे/अलंविषादेनबिलंप्रविश्य॑वसामसर्वेयदिरोचतेवः/इदंहिमायाविहितंसुदुर्गमं॑प्रभूतवृक्षोदकभोज्यपेयम्/इहास्तिनोनैवभयंपुरंदरान्॑नराघवाद्वानरराजतोऽपिवा/श्रुत्वाङ्गदस्यापिवचोऽनुकूलम्॑ऊचुश्चसर्वेहरयःप्रतीताः/यथानहन्येमतथाविधानम्॑असक्तमद्यैवविधीयतांनः/तथाब्रुवतितारेतुताराधिपतिवर्चसि/अथमेनेहृतंराज्यंहनुमानङ्गदेनतत्/बुद्ध्याह्यष्टाङ्गयायुक्तंचतुर्बलसमन्वितम्/चतुर्दशगुणंमेनेहनुमान्वालिनःसुतम्/आपूर्यमाणंशश्वच्चतेजोबलपराक्रमैः/शशिनंशुक्लपक्षादौवर्धमानमिवश्रिया/बृहस्पतिसमंबुद्ध्याविक्रमेसदृशंपितुः/शुश्रूषमाणंतारस्यशुक्रस्येवपुरंदरम्/भर्तुरर्थेपरिश्रान्तंसर्वशास्त्रविशारदम्/अभिसंधातुमारेभेहनुमानङ्गदंततः/सचतुर्णामुपायानांतृतीयमुपवर्णयन्/भेदयामासतान्सर्वान्वानरान्वाक्यसंपदा/तेषुसर्वेषुभिन्नेषुततोऽभीषयदङ्गदम्/भीषणैर्बहुभिर्वाक्यैःकोपोपायसमन्वितैः/त्वंसमर्थतरःपित्रायुद्धेतारेयवैधुरम्/दृढंधारयितुंशक्तःकपिराज्यंयथापिता/नित्यमस्थिरचित्ताहिकपयोहरिपुंगव/नाज्ञाप्यंविषहिष्यन्तिपुत्रदारान्विनात्वया/त्वांनैतेह्यनुयुञ्जेयुःप्रत्यक्षंप्रवदामिते/यथायंजाम्बवान्नीलःसुहोत्रश्चमहाकपिः/नह्यहंतइमेसर्वेसामदानादिभिर्गुणैः/दण्डेननत्वयाशक्याःसुग्रीवादपकर्षितुम्/विगृह्यासनमप्याहुर्दुर्बलेनबलीयसः/आत्मरक्षाकरस्तस्मान्नविगृह्णीतदुर्बलः/यांचेमांमन्यसेधात्रीमेतद्बिलमितिश्रुतम्/एतल्लक्ष्मणबाणानामीषत्कार्यंविदारणे/स्वल्पंहिकृतमिन्द्रेणक्षिपताह्यशनिंपुरा/लक्ष्मणोनिशितैर्बाणैर्भिन्द्यात्पत्रपुटंयथा/लक्ष्मणस्यचनाराचाबहवःसन्तितद्विधाः/अवस्थानेयदैवत्वमासिष्यसिपरंतप/तदैवहरयःसर्वेत्यक्ष्यन्तिकृतनिश्चयाः/स्मरन्तःपुत्रदाराणांनित्योद्विग्नाबुभुक्षिताः/खेदितादुःखशय्याभिस्त्वांकरिष्यन्तिपृष्ठतः/सत्वंहीनःसुहृद्भिश्चहितकामैश्चबन्धुभिः/तृणादपिभृशोद्विग्नःस्पन्दमानाद्भविष्यसि/नचजातुनहिंस्युस्त्वांघोरालक्ष्मणसायकाः/अपवृत्तंजिघांसन्तोमहावेगादुरासदाः/अस्माभिस्तुगतंसार्धंविनीतवदुपस्थितम्/आनुपूर्व्यात्तुसुग्रीवोराज्येत्वांस्थापयिष्यति/धर्मकामःपितृव्यस्तेप्रीतिकामोदृढव्रतः/शुचिःसत्यप्रतिज्ञश्चनात्वांजातुजिघांसति/प्रियकामश्चतेमातुस्तदर्थंचास्यजीवितम्/तस्यापत्यंचनास्त्यन्यत्तस्मादङ्गदगम्यताम्/श्रुत्वाहनुमतोवाक्यंप्रश्रितंधर्मसंहितम्/स्वामिसत्कारसंयुक्तमङ्गदोवाक्यमब्रवीत्/स्थैर्यंसर्वात्मनाशौचमानृशंस्यमथार्जवम्/विक्रमैश्चैवधैर्यंचसुग्रीवेनोपपद्यते/भ्रातुर्ज्येष्ठस्ययोभार्यांजीवितोमहिषींप्रियाम्/धर्मेणमातरंयस्तुस्वीकरोतिजुगुप्सितः/कथंसधर्मंजानीतेयेनभ्रात्रादुरात्मना/युद्धायाभिनियुक्तेनबिलस्यपिहितंमुखम्/सत्यात्पाणिगृहीतश्चकृतकर्मामहायशाः/विस्मृतोराघवोयेनसकस्यसुकृतंस्मरेत्/लक्ष्मणस्यभयाद्येननाधर्मभयभीरुणा/आदिष्टामार्गितुंसीतांधर्ममस्मिन्कथंभवेत्/तस्मिन्पापेकृतघ्नेतुस्मृतिहीनेचलात्मनि/आर्यःकोविश्वसेज्जातुतत्कुलीनोजिजीविषुः/राज्येपुत्रंप्रतिष्ठाप्यसगुणोनिर्गुणोऽपिवा/कथंशत्रुकुलीनंमांसुग्रीवोजीवयिष्यति/भिन्नमन्त्रोऽपराद्धश्चहीनशक्तिःकथंह्यहम्/किष्किन्धांप्राप्यजीवेयमनाथइवदुर्बलः/उपांशुदण्डेनहिमांबन्धनेनोपपादयेत्/शठःक्रूरोनृशंसश्चसुग्रीवोराज्यकारणात्/बन्धनाच्चावसादान्मेश्रेयःप्रायोपवेशनम्/अनुजानीतमांसर्वेगृहान्गच्छन्तुवानराः/अहंवःप्रतिजानामिनगमिष्याम्यहंपुरीम्/इहैवप्रायमासिष्येश्रेयोमरणमेवमे/अभिवादनपूर्वंतुराजाकुशलमेवच/वाच्यस्ततोयवीयान्मेसुग्रीवोवानरेश्वरः/आरोग्यपूर्वंकुशलंवाच्यामातारुमाचमे/मातरंचैवमेतारामाश्वासयितुमर्हथ/प्रकृत्याप्रियपुत्रासासानुक्रोशातपस्विनी/विनष्टंमामिहश्रुत्वाव्यक्तंहास्यतिजीवितम्/एतावदुक्त्वावचनंवृद्धानप्यभिवाद्यच/संविवेशाङ्गदोभूमौरुदन्दर्भेषुदुर्मनाः/तस्यसंविशतस्तत्ररुदन्तोवानरर्षभाः/नयनेभ्यःप्रमुमुचुरुष्णंवैवारिदुःखिताः/सुग्रीवंचैवनिन्दन्तःप्रशंसन्तश्चवालिनम्/परिवार्याङ्गदोसर्वेव्यवस्यन्प्रायमासितुम्/मतंतद्वालिपुत्रस्यविज्ञायप्लवगर्षभाः/उपस्पृश्योदकंसर्वेप्राङ्मुखाःसमुपाविशन्/दक्षिणाग्रेषुदर्भेषुउदक्तीरंसमाश्रिताः/ससंविशद्भिर्बहुभिर्महीधरो॑महाद्रिकूटप्रमितैःप्लवंगमैः/बभूवसंनादितनिर्झरान्तरो॑भृशंनदद्भिर्जलदैरिवोल्बणैः/उपविष्टास्तुतेसर्वेयस्मिन्प्रायंगिरिस्थले/हरयोगृध्रराजश्चतंदेशमुपचक्रमे/सम्पातिर्नामनाम्नातुचिरजीवीविहंगमः/भ्राताजटायुषःश्रीमान्प्रख्यातबलपौरुषः/कन्दरादभिनिष्क्रम्यसविन्ध्यस्यमहागिरेः/उपविष्टान्हरीन्दृष्ट्वाहृष्टात्मागिरमब्रवीत्/विधिःकिलनरंलोकेविधानेनानुवर्तते/यथायंविहितोभक्ष्यश्चिरान्मह्यमुपागतः/परम्पराणांभक्षिष्येवानराणांमृतंमृतम्/उवाचैवंवचःपक्षीतान्निरीक्ष्यप्लवंगमान्/तस्यतद्वचनंश्रुत्वाभक्षलुब्धस्यपक्षिणः/अङ्गदःपरमायस्तोहनूमन्तमथाब्रवीत्/पश्यसीतापदेशेनसाक्षाद्वैवस्वतोयमः/इमंदेशमनुप्राप्तोवानराणांविपत्तये/रामस्यनकृतंकार्यंराज्ञोनचवचःकृतम्/हरीणामियमज्ञाताविपत्तिःसहसागता/वैदेह्याःप्रियकामेनकृतंकर्मजटायुषा/गृध्रराजेनयत्तत्रश्रुतंवस्तदशेषतः/तथासर्वाणिभूतानितिर्यग्योनिगतान्यपि/प्रियंकुर्वन्तिरामस्यत्यक्त्वाप्राणान्यथावयम्/राघवार्थेपरिश्रान्तावयंसंत्यक्तजीविताः/कान्ताराणिप्रपन्नाःस्मनचपश्याममैथिलीम्/ससुखीगृध्रराजस्तुरावणेनहतोरणे/मुक्तश्चसुग्रीवभयाद्गतश्चपरमांगतिम्/जटायुषोविनाशेनराज्ञोदशरथस्यच/हरणेनचवैदेह्याःसंशयंहरयोगताः/रामलक्ष्मणयोर्वासामरण्येसहसीतया/राघवस्यचबाणेनवालिनश्चतथावधः/रामकोपादशेषाणांराक्षसानांतथावधः/कैकेय्यावरदानेनइदंहिविकृतंकृतम्/तत्तुश्रुत्वातदावाक्यमङ्गदस्यमुखोद्गतम्/अब्रवीद्वचनंगृध्रस्तीक्ष्णतुण्डोमहास्वनः/कोऽयंगिराघोषयतिप्राणैःप्रियतरस्यमे/जटायुषोवधंभ्रातुःकम्पयन्निवमेमनः/कथमासीज्जनस्थानेयुद्धंराक्षसगृध्रयोः/नामधेयमिदंभ्रातुश्चिरस्याद्यमयाश्रुतम्/यवीयसोगुणज्ञस्यश्लाघनीयस्यविक्रमैः/तदिच्छेयमहंश्रोतुंविनाशंवानरर्षभाः/भ्रातुर्जटायुषस्तस्यजनस्थाननिवासिनः/तस्यैवचममभ्रातुःसखादशरथःकथम्/यस्यरामःप्रियःपुत्रोज्येष्ठोगुरुजनप्रियः/सूर्यांशुदग्धपक्षत्वान्नशक्नोमिविसर्पितुम्/इच्छेयंपर्वतादस्मादवतर्तुमरिंदमाः/शोकाद्भ्रष्टस्वरमपिश्रुत्वातेहरियूथपाः/श्रद्दधुर्नैवतद्वाक्यंकर्मणातस्यशङ्किताः/तेप्रायमुपविष्टास्तुदृष्ट्वागृध्रंप्लवंगमाः/चक्रुर्बुद्धिंतदारौद्रांसर्वान्नोभक्षयिष्यति/सर्वथाप्रायमासीनान्यदिनोभक्षयिष्यति/कृतकृत्याभविष्यामःक्षिप्रंसिद्धिमितोगताः/एतांबुद्धिंततश्चक्रुःसर्वेतेवानरर्षभाः/अवतार्यगिरेःशृङ्गाद्गृध्रमाहाङ्गदस्तदा/बभूवुर्क्षरजोनामवानरेन्द्रःप्रतापवान्/ममार्यःपार्थिवःपक्षिन्धार्मिकौतस्यचात्मजौ/सुग्रीवश्चैववालीचपुत्रौघनबलावुभौ/लोकेविश्रुतकर्माभूद्राजावालीपितामम/राजाकृत्स्नस्यजगतइक्ष्वाकूणांमहारथः/रामोदाशरथिःश्रीमान्प्रविष्टोदण्डकावनम्/लक्ष्मणेनसहभ्रात्रावैदेह्याचापिभार्यया/पितुर्निदेशनिरतोधर्म्यंपन्थानमाश्रितः/तस्यभार्याजनस्थानाद्रावणेनहृताबलात्/रामस्यचपितुर्मित्रंजटायुर्नामगृध्रराट्/ददर्शसीतांवैदेहींह्रियमाणांविहायसा/रावणंविरथंकृत्वास्थापयित्वाचमैथिलीम्/परिश्रान्तश्चवृद्धश्चरावणेनहतोरणे/एवंगृध्रोहतस्तेनरावणेनबलीयसा/संस्कृतश्चापिरामेणगतश्चगतिमुत्तमाम्/ततोममपितृव्येणसुग्रीवेणमहात्मना/चकारराघवःसख्यंसोऽवधीत्पितरंमम/ममपित्रानिरुद्धोहिसुग्रीवःसचिवैःसह/निहत्यवालिनंरामस्ततस्तमभिषेचयत्/सराज्येस्थापितस्तेनसुग्रीवोवानरेश्वरः/राजावानरमुख्यानांयेनप्रस्थापितावयम्/एवंरामप्रयुक्तास्तुमार्गमाणास्ततस्ततः/वैदेहींनाधिगच्छामोरात्रौसूर्यप्रभामिव/तेवयंदण्डकारण्यंविचित्यसुसमाहिताः/अज्ञानात्तुप्रविष्टाःस्मधरण्याविवृतंबिलम्/मयस्यमायाविहितंतद्बिलंचविचिन्वताम्/व्यतीतस्तत्रनोमासोयोराज्ञासामयःकृतः/तेवयंकपिराजस्यसर्वेवचनकारिणः/कृतांसंस्थामतिक्रान्ताभयात्प्रायमुपास्महे/क्रुद्धेतस्मिंस्तुकाकुत्स्थेसुग्रीवेचसलक्ष्मणे/गतानामपिसर्वेषांतत्रनोनास्तिजीवितम्/इत्युक्तःकरुणंवाक्यंवानरैस्त्यक्तजीवितैः/सबाष्पोवानरान्गृध्रःप्रत्युवाचमहास्वनः/यवीयान्ममसभ्राताजटायुर्नामवानराः/यमाख्यातहतंयुद्धेरावणेनबलीयसा/वृद्धभावादपक्षत्वाच्छृण्वंस्तदपिमर्षये/नहिमेशक्तिरद्यास्तिभ्रातुर्वैरविमोक्षणे/पुरावृत्रवधेवृत्तेसचाहंचजयैषिणौ/आदित्यमुपयातौस्वोज्वलन्तंरश्मिमालिनम्/आवृत्याकाशमार्गेणजवेनस्मगतौभृशम्/मध्यंप्राप्तेचसूर्येचजटायुरवसीदति/तमहंभ्रातरंदृष्ट्वासूर्यरश्मिभिरर्दितम्/पक्षाभ्यंछादयामासस्नेहात्परमविह्वलम्/निर्दग्धपक्षःपतितोविन्ध्येऽहंवानरोत्तमाः/अहमस्मिन्वसन्भ्रातुःप्रवृत्तिंनोपलक्षये/जटायुषस्त्वेवमुक्तोभ्रात्रासंपातिनातदा/युवराजोमहाप्राज्ञःप्रत्युवाचाङ्गदस्तदा/जटायुषोयदिभ्राताश्रुतंतेगदितंमया/आख्याहियदिजानासिनिलयंतस्यरक्षसः/अदीर्घदर्शिनंतंवारावणंराक्षसाधिपम्/अन्तिकेयदिवादूरेयदिजानासिशंसनः/ततोऽब्रवीन्महातेजाज्येष्ठोभ्राताजटायुषः/आत्मानुरूपंवचनंवानरान्संप्रहर्षयन्/निर्दग्धपक्षोगृध्रोऽहंगतवीर्यःप्लवंगमाः/वाङ्मात्रेणतुरामस्यकरिष्येसाह्यमुत्तमम्/जानामिवारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि/देवासुरविमर्दांश्चअमृतस्यचमन्थनम्/रामस्ययदिदंकार्यंकर्तव्यंप्रथमंमया/जरयाचहृतंतेजःप्राणाश्चशिथिलामम/तरुणीरूपसंपन्नासर्वाभरणभूषिता/ह्रियमाणामयादृष्टारावणेनदुरात्मना/क्रोशन्तीरामरामेतिलक्ष्मणेतिचभामिनी/भूषणान्यपविध्यन्तीगात्राणिचविधुन्वती/सूर्यप्रभेवशैलाग्रेतस्याःकौशेयमुत्तमम्/असितेराक्षसेभातियथावातडिदम्बुदे/तांतुसीतामहंमन्येरामस्यपरिकीर्तनात्/श्रूयतांमेकथयतोनिलयंतस्यरक्षसः/पुत्रोविश्रवसःसाक्षाद्भ्रातावैश्रवणस्यच/अध्यास्तेनगरींलङ्कांरावणोनामराक्षसः/इतोद्वीपेसमुद्रस्यसंपूर्णेशतयोजने/तस्मिंल्लङ्कापुरीरम्यानिर्मिताविश्वकर्मणा/तस्यांवसतिवैदेहीदीनाकौशेयवासिनी/रावणान्तःपुरेरुद्धाराक्षसीभिःसुरक्षिता/जनकस्यात्मजांराज्ञस्तस्यांद्रक्ष्यथमैथिलीम्/लङ्कायामथगुप्तायांसागरेणसमन्ततः/संप्राप्यसागरस्यान्तंसंपूर्णंशतयोजनम्/आसाद्यदक्षिणंकूलंततोद्रक्ष्यथरावणम्/तत्रैवत्वरिताःक्षिप्रंविक्रमध्वंप्लवंगमाः/ज्ञानेनखलुपश्यामिदृष्ट्वाप्रत्यागमिष्यथ/आद्यःपन्थाःकुलिङ्गानांयेचान्येधान्यजीविनः/द्वितीयोबलिभोजानांयेचवृक्षफलाशिनः/भासास्तृतीयंगच्छन्तिक्रौञ्चाश्चकुररैःसह/श्येनाश्चतुर्थंगच्छन्तिगृध्रागच्छन्तिपञ्चमम्/बलवीर्योपपन्नानांरूपयौवनशालिनाम्/षष्ठस्तुपन्थाहंसानांवैनतेयगतिःपरा/वैनतेयाच्चनोजन्मसर्वेषांवानरर्षभाः/गर्हितंतुकृतंकर्मयेनस्मपिशिताशनाः/इहस्थोऽहंप्रपश्यामिरावणंजानकींतथा/अस्माकमपिसौवर्णंदिव्यंचक्षुर्बलंतथा/तस्मादाहारवीर्येणनिसर्गेणचवानराः/आयोजनशतात्साग्राद्वयंपश्यामनित्यशः/अस्माकंविहितावृत्तिर्निसर्गेणचदूरतः/विहितापादमूलेतुवृत्तिश्चरणयोधिनाम्/उपायोदृश्यतांकश्चिल्लङ्घनेलवणाम्भसः/अभिगम्यतुवैदेहींसमृद्धार्थागमिष्यथ/समुद्रंनेतुमिच्छामिभवद्भिर्वरुणालयम्/प्रदास्याम्युदकंभ्रातुःस्वर्गतस्यमहात्मनः/ततोनीत्वातुतंदेशंतीरेनदनदीपतेः/निर्दग्धपक्षंसंपातिंवानराःसुमहौजसः/पुनःप्रत्यानयित्वावैतंदेशंपतगेश्वरम्/बभूवुर्वानराहृष्टाःप्रवृत्तिमुपलभ्यते/ततस्तदमृतास्वादंगृध्रराजेनभाषितम्/निशम्यवदतोहृष्टास्तेवचःप्लवगर्षभाः/जाम्बवान्वैहरिश्रेष्ठःसहसर्वैःप्लवंगमैः/भूतलात्सहसोत्थायगृध्रराजानमब्रवीत्/क्वसीताकेनवादृष्टाकोवाहरतिमैथिलीम्/तदाख्यातुभवान्सर्वंगतिर्भववनौकसाम्/कोदाशरथिबाणानांवज्रवेगनिपातिनाम्/स्वयंलक्ष्मणमुक्तानांनचिन्तयतिविक्रमम्/सहरीन्प्रीतिसंयुक्तान्सीताश्रुतिसमाहितान्/पुनराश्वासयन्प्रीतइदंवचनमब्रवीत्/श्रूयतामिहवैदेह्यायथामेहरणंश्रुतम्/येनचापिममाख्यातंयत्रचायतलोचना/अहमस्मिन्गिरौदुर्गेबहुयोजनमायते/चिरान्निपतितोवृद्धःक्षीणप्राणपराक्रमः/तंमामेवंगतंपुत्रःसुपार्श्वोनामनामतः/आहारेणयथाकालंबिभर्तिपततांवरः/तीक्ष्णकामास्तुगन्धर्वास्तीक्ष्णकोपाभुजंगमाः/मृगाणांतुभयंतीक्ष्णंततस्तीक्ष्णक्षुधावयम्/सकदाचित्क्षुधार्तस्यममचाहारकाङ्क्षिणः/गतसूर्योऽहनिप्राप्तोममपुत्रोह्यनामिषः/समयावृद्धभावाच्चकोपाच्चपरिभर्त्सितः/क्षुत्पिपासापरीतेनकुमारःपततांवरः/सममाहारसंरोधात्पीडितःप्रीतिवर्धनः/अनुमान्ययथातत्त्वमिदंवचनमब्रवीत्/अहंतातयथाकालमामिषार्थीखमाप्लुतः/महेन्द्रस्यगिरेर्द्वारमावृत्यचसमास्थितः/तत्रसत्त्वसहस्राणांसागरान्तरचारिणाम्/पन्थानमेकोऽध्यवसंसंनिरोद्धुमवाङ्मुखः/तत्रकश्चिन्मयादृष्टःसूर्योदयसमप्रभाम्/स्त्रियमादायगच्छन्वैभिन्नाञ्जनचयोपमः/सोऽहमभ्यवहारार्थीतौदृष्ट्वाकृतनिश्चयः/तेनसाम्नाविनीतेनपन्थानमभियाचितः/नहिसामोपपन्नानांप्रहर्ताविद्यतेक्वचित्/नीचेष्वपिजनःकश्चित्किमङ्गबतमद्विधः/सयातस्तेजसाव्योमसंक्षिपन्निववेगतः/अथाहंखेचरैर्भूतैरभिगम्यसभाजितः/दिष्ट्याजीवसितातेतिअब्रुवन्मांमहर्षयः/कथंचित्सकलत्रोऽसौगतस्तेस्वस्त्यसंशयम्/एवमुक्तस्ततोऽहंतैःसिद्धैःपरमशोभनैः/सचमेरावणोराजारक्षसांप्रतिवेदितः/हरन्दाशरथेर्भार्यांरामस्यजनकात्मजाम्/भ्रष्टाभरणकौशेयांशोकवेगपराजिताम्/रामलक्ष्मणयोर्नामक्रोशन्तींमुक्तमूर्धजाम्/एषकालात्ययस्तावदितिवाक्यविदांवरः/एतमर्थंसमग्रंमेसुपार्श्वःप्रत्यवेदयत्/तच्छ्रुत्वापिहिमेबुद्धिर्नासीत्काचित्पराक्रमे/अपक्षोहिकथंपक्षीकर्मकिंचिदुपक्रमेत्/यत्तुशक्यंमयाकर्तुंवाग्बुद्धिगुणवर्तिना/श्रूयतांतत्प्रवक्ष्यामिभवतांपौरुषाश्रयम्/वाङ्मतिभ्यांहिसर्वेषांकरिष्यामिप्रियंहिवः/यद्धिदाशरथेःकार्यंममतन्नात्रसंशयः/तेभवन्तोमतिश्रेष्ठाबलवन्तोमनस्विनः/सहिताःकपिराजेनदेवैरपिदुरासदाः/रामलक्ष्मणबाणाश्चनिशिताःकङ्कपत्रिणः/त्रयाणामपिलोकानांपर्याप्तास्त्राणनिग्रहे/कामंखलुदशग्रीवस्तेजोबलसमन्वितः/भवतांतुसमर्थानांनकिंचिदपिदुष्करम्/तदलंकालसंगेनक्रियतांबुद्धिनिश्चयः/नहिकर्मसुसज्जन्तेबुद्धिमन्तोभवद्विधाः/ततःकृतोदकंस्नातंतंगृध्रंहरियूथपाः/उपविष्टागिरौदुर्गेपरिवार्यसमन्ततः/तमङ्गदमुपासीनंतैःसर्वैर्हरिभिर्वृतम्/जनितप्रत्ययोहर्षात्संपातिःपुनरब्रवीत्/कृत्वानिःशब्दमेकाग्राःशृण्वन्तुहरयोमम/तत्त्वंसंकीर्तयिष्यामियथाजानामिमैथिलीम्/अस्यविन्ध्यस्यशिखरेपतितोऽस्मिपुरावने/सूर्यातपपरीताङ्गोनिर्दग्धःसूर्यरश्मिभिः/लब्धसंज्ञस्तुषड्रात्राद्विवशोविह्वलन्निव/वीक्षमाणोदिशःसर्वानाभिजानामिकिंचन/ततस्तुसागराञ्शैलान्नदीःसर्वाःसरांसिच/वनान्यटविदेशांश्चसमीक्ष्यमतिरागमत्/हृष्टपक्षिगणाकीर्णःकन्दरान्तरकूटवान्/दक्षिणस्योदधेस्तीरेविन्ध्योऽयमितिनिश्चितः/आसीच्चात्राश्रमंपुण्यंसुरैरपिसुपूजितम्/ऋषिर्निशाकरोनामयस्मिन्नुग्रतपाभवत्/अष्टौवर्षसहस्राणितेनास्मिन्नृषिणाविना/वसतोममधर्मज्ञाःस्वर्गतेतुनिशाकरे/अवतीर्यचविन्ध्याग्रात्कृच्छ्रेणविषमाच्छनैः/तीक्ष्णदर्भांवसुमतींदुःखेनपुनरागतः/तमृषिंद्रष्टुकामोऽस्मिदुःखेनाभ्यागतोभृशम्/जटायुषामयाचैवबहुशोऽभिगतोहिसः/तस्याश्रमपदाभ्याशेववुर्वाताःसुगन्धिनः/वृक्षोनापुष्पितःकश्चिदफलोवानदृश्यते/उपेत्यचाश्रमंपुण्यंवृक्षमूलमुपाश्रितः/द्रष्टुकामःप्रतीक्षेचभगवन्तंनिशाकरम्/अथापश्यमदूरस्थमृषिंज्वलिततेजसं/कृताभिषेकंदुर्धर्षमुपावृत्तमुदङ्मुखम्/तमृक्षाःसृमराव्याघ्राःसिंहानागाःसरीसृपाः/परिवार्योपगच्छन्तिदातारंप्राणिनोयथा/ततःप्राप्तमृषिंज्ञात्वातानिसत्त्वानिवैययुः/प्रविष्टेराजनियथासर्वंसामात्यकंबलम्/ऋषिस्तुदृष्ट्वामांतुष्टःप्रविष्टश्चाश्रमंपुनः/मुहूर्तमात्रान्निष्क्रम्यततःकार्यमपृच्छत/सौम्यवैकल्यतांदृष्ट्वारोम्णांतेनावगम्यते/अग्निदग्धाविमौपक्षौत्वक्चैवव्रणितातव/द्वौगृध्रौदृष्टपूर्वौमेमातरिश्वसमौजवे/गृध्राणांचैवराजानौभ्रातरौकामरूपिणौ/ज्येष्ठस्त्वंतुचसंपातिर्जटायुरनुजस्तव/मानुषंरूपमास्थायगृह्णीतांचरणौमम/किंतेव्याधिसमुत्थानंपक्षयोःपतनंकथम्/दण्डोवायंधृतःकेनसर्वमाख्याहिपृच्छतः/ततस्तद्दारुणंकर्मदुष्करंसाहसात्कृतम्/आचचक्षेमुनेःसर्वंसूर्यानुगमनंतथा/भगवन्व्रणयुक्तत्वाल्लज्जयाचाकुलेन्द्रियः/परिश्रान्तोनशक्नोमिवचनंपरिभाषितुम्/अहंचैवजटायुश्चसंघर्षाद्दर्पमोहितौ/आकाशंपतितौवीरौजिघासन्तौपराक्रमम्/कैलासशिखरेबद्ध्वामुनीनामग्रतःपणम्/रविःस्यादनुयातव्योयावदस्तंमहागिरिम्/अथावांयुगपत्प्राप्तावपश्यावमहीतले/रथचक्रप्रमाणानिनगराणिपृथक्पृथक्/क्वचिद्वादित्रघोषांश्चब्रह्मघोषांश्चशुश्रुव/गायन्तीश्चाङ्गनाबह्वीःपश्यावोरक्तवाससः/तूर्णमुत्पत्यचाकाशमादित्यपथमास्थितौ/आवामालोकयावस्तद्वनंशाद्वलसंस्थितम्/उपलैरिवसंछन्नादृश्यतेभूःशिलोच्चयैः/आपगाभिश्चसंवीतासूत्रैरिववसुंधरा/हिमवांश्चैवविन्ध्यश्चमेरुश्चसुमहान्नगः/भूतलेसंप्रकाशन्तेनागाइवजलाशये/तीव्रस्वेदश्चखेदश्चभयंचासीत्तदावयोः/समाविशतमोहश्चमोहान्मूर्छाचदारुणा/नदिग्विज्ञायतेयाम्यानाग्नेयीनचवारुणी/युगान्तेनियतोलोकोहतोदग्धइवाग्निना/यत्नेनमहताभूयोरविःसमवलोकितः/तुल्यःपृथ्वीप्रमाणेनभास्करःप्रतिभातिनौ/जटायुर्मामनापृच्छ्यनिपपातमहींततः/तंदृष्ट्वातूर्णमाकाशादात्मानंमुक्तवानहम्/पक्षिभ्यांचमयागुप्तोजटायुर्नप्रदह्यत/प्रमादात्तत्रनिर्दग्धःपतन्वायुपथादहम्/आशङ्केतंनिपतितंजनस्थानेजटायुषम्/अहंतुपतितोविन्ध्येदग्धपक्षोजडीकृतः/राज्येनहीनोभ्रात्राचपक्षाभ्यांविक्रमेणच/सर्वथामर्तुमेवेच्छन्पतिष्येशिखराद्गिरेः/एवमुक्त्वामुनिश्रेष्ठमरुदंदुःखितोभृशम्/अथध्यात्वामुहूर्तंतुभगवानिदमब्रवीत्/पक्षौचतेप्रपक्षौचपुनरन्यौभविष्यतः/चक्षुषीचैवप्राणाश्चविक्रमश्चबलंचते/पुराणेसुमहत्कार्यंभविष्यंहिमयाश्रुतम्/दृष्टंमेतपसाचैवश्रुत्वाचविदितंमम/राजादशरथोनामकश्चिदिक्ष्वाकुनन्दनः/तस्यपुत्रोमहातेजारामोनामभविष्यति/अरण्यंचसहभ्रात्रालक्ष्मणेनगमिष्यति/तस्मिन्नर्थेनियुक्तःसन्पित्रासत्यपराक्रमः/नैरृतोरावणोनामतस्याभार्यांहरिष्यति/राक्षसेन्द्रोजनस्थानादवध्यःसुरदानवैः/साचकामैःप्रलोभ्यन्तीभक्ष्यैर्भोज्यैश्चमैथिली/नभोक्ष्यतिमहाभागादुःखमग्नायशस्विनी/परमान्नंतुवैदेह्याज्ञात्वादास्यतिवासवः/यदन्नममृतप्रख्यंसुराणामपिदुर्लभम्/तदन्नंमैथिलीप्राप्यविज्ञायेन्द्रादिदंत्विति/अग्रमुद्धृत्यरामायभूतलेनिर्वपिष्यति/यदिजीवतिमेभर्तालक्ष्मणेनसहप्रभुः/देवत्वंगतयोर्वापितयोरन्नमिदंत्विति/एष्यन्त्यन्वेषकास्तस्यारामदूताःप्लवंगमाः/आख्येयाराममहिषीत्वयातेभ्योविहंगम/सर्वथातुनगन्तव्यमीदृशःक्वगमिष्यसि/देशकालौप्रतीक्षस्वपक्षौत्वंप्रतिपत्स्यसे/उत्सहेयमहंकर्तुमद्यैवत्वांसपक्षकम्/इहस्थस्त्वंतुलोकानांहितंकार्यंकरिष्यसि/त्वयापिखलुतत्कार्यंतयोश्चनृपपुत्रयोः/ब्राह्मणानांसुराणांचमुनीनांवासवस्यच/इच्छाम्यहमपिद्रष्टुंभ्रातरौरामलक्ष्मणौ/नेच्छेचिरंधारयितुंप्राणांस्त्यक्ष्येकलेवरम्/एतैरन्यैश्चबहुभिर्वाक्यैर्वाक्यविशारदः/मांप्रशस्याभ्यनुज्ञाप्यप्रविष्टःसस्वमाश्रमम्/कन्दरात्तुविसर्पित्वापर्वतस्यशनैःशनैः/अहंविन्ध्यंसमारुह्यभवतःप्रतिपालये/अद्यत्वेतस्यकालस्यसाग्रंवर्षशतंगतम्/देशकालप्रतीक्षोऽस्मिहृदिकृत्वामुनेर्वचः/महाप्रस्थानमासाद्यस्वर्गतेतुनिशाकरे/मांनिर्दहतिसंतापोवितर्कैर्बहुभिर्वृतम्/उत्थितांमरणेबुद्धिंमुनिवाक्यैर्निवर्तये/बुद्धिर्यातेनमेदत्ताप्राणसंरक्षणायतु/सामेऽपनयतेदुःखंदीप्तेवाग्निशिखातमः/बुध्यताचमयावीर्यंरावणस्यदुरात्मनः/पुत्रःसंतर्जितोवाग्भिर्नत्रातामैथिलीकथम्/तस्याविलपितंश्रुत्वातौचसीताविनाकृतौ/नमेदशरथस्नेहात्पुत्रेणोत्पादितंप्रियम्/तस्यत्वेवंब्रुवाणस्यसंपातेर्वानरैःसह/उत्पेततुस्तदापक्षौसमक्षंवनचारिणाम्/सदृष्ट्वास्वांतनुंपक्षैरुद्गतैररुणच्छदैः/प्रहर्षमतुलंलेभेवानरांश्चेदमब्रवीत्/निशाकरस्यमहर्षेःप्रभावादमितात्मनः/आदित्यरश्मिनिर्दग्धौपक्षौमेपुनरुत्थितौ/यौवनेवर्तमानस्यममासीद्यःपराक्रमः/तमेवाद्यावगच्छामिबलंपौरुषमेवच/सर्वथाक्रियतांयत्नःसीतामधिगमिष्यथ/पक्षलाभोममायंवःसिद्धिप्रत्ययकारकः/इत्युक्त्वातान्हरीन्सर्वान्संपातिःपततांवरः/उत्पपातगिरेःशृङ्गाज्जिज्ञासुःखगमोगतिम्/तस्यतद्वचनंश्रुत्वाप्रीतिसंहृष्टमानसाः/बभूवुर्हरिशार्दूलाविक्रमाभ्युदयोन्मुखाः/अथपवनसमानविक्रमाः॑प्लवगवराःप्रतिलब्धपौरुषाः/अभिजिदभिमुखांदिशंययुर्॑जनकसुतापरिमार्गणोन्मुखाः/आख्यातागृध्रराजेनसमुत्पत्यप्लवंगमाः/संगताःप्रीतिसंयुक्ताविनेदुःसिंहविक्रमाः/संपातेर्वचनंश्रुत्वाहरयोरावणक्षयम्/हृष्टाःसागरमाजग्मुःसीतादर्शनकाङ्क्षिणः/अभिक्रम्यतुतंदेशंददृशुर्भीमविक्रमाः/कृत्स्नंलोकस्यमहतःप्रतिबिम्बमिवस्थितम्/दक्षिणस्यसमुद्रस्यसमासाद्योत्तरांदिशम्/संनिवेशंततश्चक्रुःसहितावानरोत्तमाः/सत्त्वैर्महद्भिर्विकृतैःक्रीडद्भिर्विविधैर्जले/व्यात्तास्यैःसुमहाकायैरूर्मिभिश्चसमाकुलम्/प्रसुप्तमिवचान्यत्रक्रीडन्तमिवचान्यतः/क्वचित्पर्वतमात्रैश्चजलराशिभिरावृतम्/संकुलंदानवेन्द्रैश्चपातालतलवासिभिः/रोमहर्षकरंदृष्ट्वाविषेदुःकपिकुञ्जराः/आकाशमिवदुष्पारंसागरंप्रेक्ष्यवानराः/विषेदुःसहसासर्वेकथंकार्यमितिब्रुवन्/विषण्णांवाहिनींदृष्ट्वासागरस्यनिरीक्षणात्/आश्वासयामासहरीन्भयार्तान्हरिसत्तमः/ननिषादेननःकार्यंविषादोदोषवत्तरः/विषादोहन्तिपुरुषंबालंक्रुद्धइवोरगः/विषादोऽयंप्रसहतेविक्रमेपर्युपस्थिते/तेजसातस्यहीनस्यपुरुषार्थोनसिध्यति/तस्यांरात्र्यांव्यतीतायामङ्गदोवानरैःसह/हरिवृद्धैःसमागम्यपुनर्मन्त्रममन्त्रयत्/सावानराणांध्वजिनीपरिवार्याङ्गदंबभौ/वासवंपरिवार्येवमरुतांवाहिनीस्थिता/कोऽन्यस्तांवानरींसेनांशक्तःस्तम्भयितुंभवेत्/अन्यत्रवालितनयादन्यत्रचहनूमतः/ततस्तान्हरिवृद्धांश्चतच्चसैन्यमरिंदमः/अनुमान्याङ्गदःश्रीमान्वाक्यमर्थवदब्रवीत्/कइदानींमहातेजालङ्घयिष्यतिसागरम्/कःकरिष्यतिसुग्रीवंसत्यसंधमरिंदमम्/कोवीरोयोजनशतंलङ्घयेतप्लवंगमाः/इमांश्चयूथपान्सर्वान्मोचयेत्कोमहाभयात्/कस्यप्रसादाद्दारांश्चपुत्रांश्चैवगृहाणिच/इतोनिवृत्ताःपश्येमसिद्धार्थाःसुखिनोवयम्/कस्यप्रसादाद्रामंचलक्ष्मणंचमहाबलम्/अभिगच्छेमसंहृष्टाःसुग्रीवंचमहाबलम्/यदिकश्चित्समर्थोवःसागरप्लवनेहरिः/सददात्विहनःशीघ्रंपुण्यामभयदक्षिणाम्/अङ्गदस्यवचःश्रुत्वानकश्चित्किंचिदब्रवीत्/स्तिमितेवाभवत्सर्वासातत्रहरिवाहिनी/पुनरेवाङ्गदःप्राहतान्हरीन्हरिसत्तमः/सर्वेबलवतांश्रेष्ठाभवन्तोदृढविक्रमाः/व्यपदेश्यकुलेजाताःपूजिताश्चाप्यभीक्ष्णशः/नहिवोगमनेसंगःकदाचिदपिकस्यचित्/ब्रुवध्वंयस्ययाशक्तिर्गमनेप्लवगर्षभाः/ततोऽङ्गदवचःश्रुत्वासर्वेतेवानरोत्तमाः/स्वंस्वंगतौसमुत्साहमाहुस्तत्रयथाक्रमम्/गजोगवाक्षोगवयःशरभोगन्धमादनः/मैन्दश्चद्विविदश्चैवसुषेणोजाम्बवांस्तथा/आबभाषेगजस्तत्रप्लवेयंदशयोजनम्/गवाक्षोयोजनान्याहगमिष्यामीतिविंशतिम्/गवयोवानरस्तत्रवानरांस्तानुवाचह/त्रिंशतंतुगमिष्यामियोजनानांप्लवंगमाः/शरभोवानरस्तत्रवानरांस्तानुवाचह/चत्वारिंशद्गमिष्यामियोजनानांनसंशयः/वानरांस्तुमहातेजाअब्रवीद्गन्धमादनः/योजनानांगमिष्यामिपञ्चाशत्तुनसंशयः/मैन्दस्तुवानरस्तत्रवानरांस्तानुवाचह/योजनानांपरंषष्टिमहंप्लवितुमुत्सहे/ततस्तत्रमहातेजाद्विविदःप्रत्यभाषत/गमिष्यामिनसंदेहःसप्ततिंयोजनान्यहम्/सुषेणस्तुहरिश्रेष्ठःप्रोक्तवान्कपिसत्तमान्/अशीतिंयोजनानांतुप्लवेयंप्लवगर्षभाः/तेषांकथयतांतत्रसर्वांस्ताननुमान्यच/ततोवृद्धतमस्तेषांजाम्बवान्प्रत्यभाषत/पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः/तेवयंवयसःपारमनुप्राप्ताःस्मसाम्प्रतम्/किंतुनैवंगतेशक्यमिदंकार्यमुपेक्षितुम्/यदर्थंकपिराजश्चरामश्चकृतनिश्चयौ/साम्प्रतंकालभेदेनयागतिस्तांनिबोधत/नवतिंयोजनानांतुगमिष्यामिनसंशयः/तांश्चसर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत्/नखल्वेतावदेवासीद्गमनेमेपराक्रमः/मयामहाबलैश्चैवयज्ञेविष्णुःसनातनः/प्रदक्षिणीकृतःपूर्वंक्रममाणस्त्रिविक्रमः/सइदानीमहंवृद्धःप्लवनेमन्दविक्रमः/यौवनेचतदासीन्मेबलमप्रतिमंपरैः/संप्रत्येतावतींशक्तिंगमनेतर्कयाम्यहम्/नैतावताचसंसिद्धिःकार्यस्यास्यभविष्यति/अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा/अनुमान्यमहाप्राज्ञोजाम्बवन्तंमहाकपिम्/अहमेतद्गमिष्यामियोजनानांशतंमहत्/निवर्तनेतुमेशक्तिःस्यान्नवेतिननिश्चितम्/तमुवाचहरिश्रेष्ठोजाम्बवान्वाक्यकोविदः/ज्ञायतेगमनेशक्तिस्तवहर्यृक्षसत्तम/कामंशतसहस्रंवानह्येषविधिरुच्यते/योजनानांभवाञ्शक्तोगन्तुंप्रतिनिवर्तितुम्/नहिप्रेषयिताततस्वामीप्रेष्यःकथंचन/भवतायंजनःसर्वःप्रेष्यःप्लवगसत्तम/भवान्कलत्रमस्माकंस्वामिभावेव्यवस्थितः/स्वामीकलत्रंसैन्यस्यगतिरेषापरंतप/तस्मात्कलत्रवत्तातप्रतिपाल्यःसदाभवान्/अपिचैतस्यकार्यस्यभवान्मूलमरिंदम/मूलमर्थस्यसंरक्ष्यमेषकार्यविदांनयः/मूलेहिसतिसिध्यन्तिगुणाःपुष्पफलादयः/तद्भवानस्याकार्यस्यसाधनेसत्यविक्रमः/बुद्धिविक्रमसंपन्नोहेतुरत्रपरंतपः/गुरुश्चगुरुपुत्रश्चत्वंहिनःकपिसत्तम/भवन्तमाश्रित्यवयंसमर्थाह्यर्थसाधने/उक्तवाक्यंमहाप्राज्ञंजाम्बवन्तंमहाकपिः/प्रत्युवाचोत्तरंवाक्यंवालिसूनुरथाङ्गदः/यदिनाहंगमिष्यामिनान्योवानरपुंगवः/पुनःखल्विदमस्माभिःकार्यंप्रायोपवेशनम्/नह्यकृत्वाहरिपतेःसंदेशंतस्यधीमतः/तत्रापिगत्वाप्राणानांपश्यामिपरिरक्षणम्/सहिप्रसादेचात्यर्थंकोपेचहरिरीश्वरः/अतीत्यतस्यसंदेशंविनाशोगमनेभवेत्/तद्यथाह्यस्यकार्यस्यनभवत्यन्यथागतिः/तद्भवानेवदृष्टार्थःसंचिन्तयितुमर्हति/सोऽङ्गदेनतदावीरःप्रत्युक्तःप्लवगर्षभः/जाम्बवानुत्तरंवाक्यंप्रोवाचेदंततोऽङ्गदम्/अस्यतेवीरकार्यस्यनकिंचित्परिहीयते/एषसंचोदयाम्येनंयःकार्यंसाधयिष्यति/ततःप्रतीतंप्लवतांवरिष्ठम्॑एकान्तमाश्रित्यसुखोपविष्टम्/संचोदयामासहरिप्रवीरो॑हरिप्रवीरंहनुमन्तमेव/अनेकशतसाहस्रींविषण्णांहरिवाहिनीम्/जाम्बवान्समुदीक्ष्यैवंहनुमन्तमथाब्रवीत्/वीरवानरलोकस्यसर्वशास्त्रमथाब्रवीत्/तूष्णीमेकान्तमाश्रित्यहनुमन्किंनजल्पसि/हनुमन्हरिराजस्यसुग्रीवस्यसमोह्यसि/रामलक्ष्मणयोश्चापितेजसाचबलेनच/अरिष्टनेमिनःपुत्रौवैनतेयोमहाबलः/गरुत्मानिवविख्यातउत्तमःसर्वपक्षिणाम्/बहुशोहिमयादृष्टःसागरेसमहाबलः/भुजगानुद्धरन्पक्षीमहावेगोमहायशाः/पक्षयोर्यद्बलंतस्यतावद्भुजबलंतव/विक्रमश्चापिवेगश्चनतेतेनापहीयते/बलंबुद्धिश्चतेजश्चसत्त्वंचहरिसत्तम/विशिष्टंसर्वभूतेषुकिमात्मानंनबुध्यसे/अप्सराप्सरसांश्रेष्ठाविख्यातापुञ्जिकस्थला/अज्ञनेतिपरिख्यातापत्नीकेसरिणोहरेः/अभिशापादभूत्तातवानरीकामरूपिणी/दुहितावानरेन्द्रस्यकुञ्जरस्यमहात्मनः/कपित्वेचारुसर्वाङ्गीकदाचित्कामरूपिणी/मानुषंविग्रहंकृत्वायौवनोत्तमशालिनी/अचरत्पर्वतस्याग्रेप्रावृडम्बुदसंनिभे/विचित्रमाल्याभरणामहार्हक्षौमवासिनी/तस्यावस्त्रंविशालाक्ष्याःपीतंरक्तदशंशुभम्/स्थितायाःपर्वतस्याग्रेमारुतोऽपहरच्छनैः/सददर्शततस्तस्यावृत्तावूरूसुसंहतौ/स्तनौचपीनौसहितौसुजातंचारुचाननम्/तांविशालायतश्रोणींतनुमध्यांयशस्विनीम्/दृष्ट्वैवशुभसर्वाग्नींपवनःकाममोहितः/सतांभुजाभ्यांपीनाभ्यांपर्यष्वजतमारुतः/मन्मथाविष्टसर्वाङ्गोगतात्मातामनिन्दिताम्/सातुतत्रैवसंभ्रान्तासुवृत्तावाक्यमब्रवीत्/एकपत्नीव्रतमिदंकोनाशयितुमिच्छति/अञ्जनायावचःश्रुत्वामारुतःप्रत्यभाषत/नत्वांहिंसामिसुश्रोणिमाभूत्तेसुभगेभयम्/मनसास्मिगतोयत्त्वांपरिष्वज्ययशस्विनि/वीर्यवान्बुद्धिसंपन्नःपुत्रस्तवभविष्यति/अभ्युत्थितंततःसूर्यंबालोदृष्ट्वामहावने/फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्यपतोदिवम्/शतानित्रीणिगत्वाथयोजनानांमहाकपे/तेजसातस्यनिर्धूतोनविषादंततोगतः/तावदापततस्तूर्णमन्तरिक्षंमहाकपे/क्षिप्तमिन्द्रेणतेवज्रंक्रोधाविष्टेनधीमता/ततःशैलाग्रशिखरेवामोहनुरभज्यत/ततोहिनामधेयंतेहनुमानितिकीर्त्यते/ततस्त्वांनिहतंदृष्ट्वावायुर्गन्धवहःस्वयम्/त्रैलोक्येभृशसंक्रुद्धोनववौवैप्रभञ्जनः/संभ्रान्ताश्चसुराःसर्वेत्रैलोक्येक्षुभितेसति/प्रसादयन्तिसंक्रुद्धंमारुतंभुवनेश्वराः/प्रसादितेचपवनेब्रह्मातुभ्यंवरंददौ/अशस्त्रवध्यतांतातसमरेसत्यविक्रम/वज्रस्यचनिपातेनविरुजंत्वांसमीक्ष्यच/सहस्रनेत्रःप्रीतात्माददौतेवरमुत्तमम्/स्वच्छन्दतश्चमरणंतेभूयादितिवैप्रभो/सत्वंकेसरिणःपुत्रःक्षेत्रजोभीमविक्रमः/मारुतस्यौरसःपुत्रस्तेजसाचापितत्समः/त्वंहिवायुसुतोवत्सप्लवनेचापितत्समः/वयमद्यगतप्राणाभवानस्मासुसाम्प्रतम्/दाक्ष्यविक्रमसंपन्नःपक्षिराजइवापरः/त्रिविक्रमेमयातातसशैलवनकानना/त्रिःसप्तकृत्वःपृथिवीपरिक्रान्ताप्रदक्षिणम्/तदाचौषधयोऽस्माभिःसंचितादेवशासनात्/निष्पन्नममृतंयाभिस्तदासीन्नोमहद्बलम्/सइदानीमहंवृद्धःपरिहीनपराक्रमः/साम्प्रतंकालमस्माकंभवान्सर्वगुणान्वितः/तद्विजृम्भस्वविक्रान्तःप्लवतामुत्तमोह्यसि/त्वद्वीर्यंद्रष्टुकामेयंसर्वावानरवाहिनी/उत्तिष्ठहरिशार्दूललङ्घयस्वमहार्णवम्/पराहिसर्वभूतानांहनुमन्यागतिस्तव/विषाण्णाहरयःसर्वेहनुमन्किमुपेक्षसे/विक्रमस्वमहावेगोविष्णुस्त्रीन्विक्रमानिव/ततस्तुवैजाम्बवताभिचोदितः॑प्रतीतवेगःपवनात्मजःकपिः/प्रहर्षयंस्तांहरिवीरवाहिनीं॑चकाररूपंमहदात्मनस्तदा/संस्तूयमानोहनुमान्व्यवर्धतमहाबलः/समाविध्यचलाङ्गूलंहर्षाच्चबलमेयिवान्/तस्यसंस्तूयमानस्यसर्वैर्वानरपुंगवैः/तेजसापूर्यमाणस्यरूपमासीदनुत्तमम्/यथाविजृम्भतेसिंहोविवृद्धोगिरिगह्वरे/मारुतस्यौरसःपुत्रस्तथासंप्रतिजृम्भते/अशोभतमुखंतस्यजृम्भमाणस्यधीमतः/अम्बरीषोपमंदीप्तंविधूमइवपावकः/हरीणामुत्थितोमध्यात्संप्रहृष्टतनूरुहः/अभिवाद्यहरीन्वृद्धान्हनुमानिदमब्रवीत्/अरुजन्पर्वताग्राणिहुताशनसखोऽनिलः/बलवानप्रमेयश्चवायुराकाशगोचरः/तस्याहंशीघ्रवेगस्यशीघ्रगस्यमहात्मनः/मारुतस्यौरसःपुत्रःप्लवनेनास्तिमेसमः/उत्सहेयंहिविस्तीर्णमालिखन्तमिवाम्बरम्/मेरुंगिरिमसंगेनपरिगन्तुंसहस्रशः/बाहुवेगप्रणुन्नेनसागरेणाहमुत्सहे/समाप्लावयितुंलोकंसपर्वतनदीह्रदम्/ममोरुजङ्घावेगेनभविष्यतिसमुत्थितः/संमूर्छितमहाग्राहःसमुद्रोवरुणालयः/पन्नगाशनमाकाशेपतन्तंपक्षिसेवितम्/वैनतेयमहंशक्तःपरिगन्तुंसहस्रशः/उदयात्प्रस्थितंवापिज्वलन्तंरश्मिमालिनम्/अनस्तमितमादित्यमभिगन्तुंसमुत्सहे/ततोभूमिमसंस्पृश्यपुनरागन्तुमुत्सहे/प्रवेगेनैवमहताभीमेनप्लवगर्षभाः/उत्सहेयमतिक्रान्तुंसर्वानाकाशगोचरान्/सागरंक्षोभयिष्यामिदारयिष्यामिमेदिनीम्/पर्वतान्कम्पयिष्यामिप्लवमानःप्लवंगमाः/हरिष्येचोरुवेगेनप्लवमानोमहार्णवम्/लतानांवीरुधांपुष्पंपादपानांचसर्वशः/अनुयास्यतिमामद्यप्लवमानंविहायसा/भविष्यतिहिमेपन्थाःस्वातेःपन्थाइवाम्बरे/चरन्तंघोरमाकाशमुत्पतिष्यन्तमेवच/द्रक्ष्यन्तिनिपतन्तंचसर्वभूतानिवानराः/महामेरुप्रतीकाशंमांद्रक्ष्यध्वंप्लवंगमाः/दिवमावृत्यगच्छन्तंग्रसमानमिवाम्बरम्/विधमिष्यामिजीमूतान्कम्पयिष्यामिपर्वतान्/सागरंक्षोभयिष्यामिप्लवमानःसमाहितः/वैनतेयस्यवाशक्तिर्ममवामारुतस्यवा/ऋतेसुपर्णराजानंमारुतंवामहाबलम्/नहिभूतंप्रपश्यामियोमांप्लुतमनुव्रजेत्/निमेषान्तरमात्रेणनिरालम्भनमम्बरम्/सहसानिपतिष्यामिघनाद्विद्युदिवोत्थिता/भविष्यतिहिमेरूपंप्लवमानस्यसागरम्/विष्णोःप्रक्रममाणस्यतदात्रीन्विक्रमानिव/बुद्ध्याचाहंप्रपश्यामिमनश्चेष्टाचमेतथा/अहंद्रक्ष्यामिवैदेहींप्रमोदध्वंप्लवंगमाः/मारुतस्यसमोवेगेगरुडस्यसमोजवे/अयुतंयोजनानांतुगमिष्यामीतिमेमतिः/वासवस्यसवज्रस्यब्रह्मणोवास्वयम्भुवः/विक्रम्यसहसाहस्तादमृतंतदिहानये/लङ्कांवापिसमुत्क्षिप्यगच्छेयमितिमेमतिः/तमेवंवानरश्रेष्ठंगर्जन्तममितौजसं/उवाचपरिसंहृष्टोजाम्बवान्हरिसत्तमः/वीरकेसरिणःपुत्रवेगवन्मारुतात्मज/ज्ञातीनांविपुलंशोकस्त्वयातातप्रणाशितः/तवकल्याणरुचयःकपिमुख्याःसमागताः/मङ्गलंकार्यसिद्ध्यर्थंकरिष्यन्तिसमाहिताः/ऋषीणांचप्रसादेनकपिवृद्धमतेनच/गुरूणांचप्रसादेनप्लवस्वत्वंमहार्णवम्/स्थास्यामश्चैकपादेनयावदागमनंतव/त्वद्गतानिचसर्वेषांजीवितानिवनौकसाम्/ततस्तुहरिशार्दूलस्तानुवाचवनौकसः/नेयंमममहीवेगंप्लवनेधारयिष्यति/एतानिहिनगस्यास्यशिलासंकटशालिनः/शिखराणिमहेन्द्रस्यस्थिराणिचमहान्तिच/एतानिममनिष्पेषंपादयोःपततांवराः/प्लवतोधारयिष्यन्तियोजनानामितःशतम्/ततस्तुमारुतप्रख्यःसहरिर्मारुतात्मजः/आरुरोहनगश्रेष्ठंमहेन्द्रमरिमर्दनः/वृतंनानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्/लताकुसुमसंबाधंनित्यपुष्पफलद्रुमम्/सिंहशार्दूलचरितंमत्तमातङ्गसेवितम्/मत्तद्विजगणोद्घुष्टंसलिलोत्पीडसंकुलम्/महद्भिरुच्छ्रितंशृङ्गैर्महेन्द्रंसमहाबलः/विचचारहरिश्रेष्ठोमहेन्द्रसमविक्रमः/पादाभ्यांपीडितस्तेनमहाशैलोमहात्मना/रराससिंहाभिहतोमहान्मत्तइवद्विपः/मुमोचसलिलोत्पीडान्विप्रकीर्णशिलोच्चयः/वित्रस्तमृगमातङ्गःप्रकम्पितमहाद्रुमः/नानागन्धर्वमिथुनैःपानसंसर्गकर्कशैः/उत्पतद्भिर्विहंगैश्चविद्याधरगणैरपि/त्यज्यमानमहासानुःसंनिलीनमहोरगः/शैलशृङ्गशिलोद्घातस्तदाभूत्समहागिरिः/निःश्वसद्भिस्तदातैस्तुभुजगैरर्धनिःसृतैः/सपताकइवाभातिसतदाधरणीधरः/ऋषिभिस्त्राससंभ्रान्तैस्त्यज्यमानःशिलोच्चयः/सीदन्महतिकान्तारेसार्थहीनइवाध्वगः/सवेगवान्वेगसमाहितात्मा॑हरिप्रवीरःपरवीरहन्ता/मनःसमाधायमहानुभावो॑जगामलङ्कांमनसामनस्वी/5Sunderkand/ततोरावणनीतायाःसीतायाःशत्रुकर्शनः/इयेषपदमन्वेष्टुंचारणाचरितेपथि/अथवैदूर्यवर्णेषुशाद्वलेषुमहाबलः/धीरःसलिलकल्पेषुविचचारयथासुखम्/द्विजान्वित्रासयन्धीमानुरसापादपान्हरन्/मृगांश्चसुबहून्निघ्नन्प्रवृद्धइवकेसरी/नीललोहितमाञ्जिष्ठपद्मवर्णैःसितासितैः/स्वभावविहितैश्चित्रैर्धातुभिःसमलंकृतम्/कामरूपिभिराविष्टमभीक्ष्णंसपरिच्छदैः/यक्षकिंनरगन्धर्वैर्देवकल्पैश्चपन्नगैः/सतस्यगिरिवर्यस्यतलेनागवरायुते/तिष्ठन्कपिवरस्तत्रह्रदेनागइवाबभौ/ससूर्यायमहेन्द्रायपवनायस्वयम्भुवे/भूतेभ्यश्चाञ्जलिंकृत्वाचकारगमनेमतिम्/अञ्जलिंप्राङ्मुखःकुर्वन्पवनायात्मयोनये/ततोहिववृधेगन्तुंदक्षिणोदक्षिणांदिशम्/प्लवंगप्रवरैर्दृष्टःप्लवनेकृतनिश्चयः/ववृधेरामवृद्ध्यर्थंसमुद्रइवपर्वसु/निष्प्रमाणशरीरःसंल्लिलङ्घयिषुरर्णवम्/बाहुभ्यांपीडयामासचरणाभ्यांचपर्वतम्/सचचालाचलाश्चारुमुहूर्तंकपिपीडितः/तरूणांपुष्पिताग्राणांसर्वंपुष्पमशातयत्/तेनपादपमुक्तेनपुष्पौघेणसुगन्धिना/सर्वतःसंवृतःशैलोबभौपुष्पमयोयथा/तेनचोत्तमवीर्येणपीड्यमानःसपर्वतः/सलिलंसंप्रसुस्रावमदंमत्तइवद्विपः/पीड्यमानस्तुबलिनामहेन्द्रस्तेनपर्वतः/रीतिर्निर्वर्तयामासकाञ्चनाञ्जनराजतीः/मुमोचचशिलाःशैलोविशालाःसमनःशिलाः/गिरिणापीड्यमानेनपीड्यमानानिसर्वशः/गुहाविष्टानिभूतानिविनेदुर्विकृतैःस्वरैः/समहासत्त्वसंनादःशैलपीडानिमित्तजः/पृथिवींपूरयामासदिशश्चोपवनानिच/शिरोभिःपृथुभिःसर्पाव्यक्तस्वस्तिकलक्षणैः/वमन्तःपावकंघोरंददंशुर्दशनैःशिलाः/तास्तदासविषैर्दष्टाःकुपितैस्तैर्महाशिलाः/जज्वलुःपावकोद्दीप्ताविभिदुश्चसहस्रधा/यानिचौषधजालानितस्मिञ्जातानिपर्वते/विषघ्नान्यपिनागानांनशेकुःशमितुंविषम्/भिद्यतेऽयंगिरिर्भूतैरितिमत्वातपस्विनः/त्रस्ताविद्याधरास्तस्मादुत्पेतुःस्त्रीगणैःसह/पानभूमिगतंहित्वाहैममासनभाजनम्/पात्राणिचमहार्हाणिकरकांश्चहिरण्मयान्/लेह्यानुच्चावचान्भक्ष्यान्मांसानिविविधानिच/आर्षभाणिचचर्माणिखड्गांश्चकनकत्सरून्/कृतकण्ठगुणाःक्षीबारक्तमाल्यानुलेपनाः/रक्ताक्षाःपुष्कराक्षाश्चगगनंप्रतिपेदिरे/हारनूपुरकेयूरपारिहार्यधराःस्त्रियः/विस्मिताःसस्मितास्तस्थुराकाशेरमणैःसह/दर्शयन्तोमहाविद्यांविद्याधरमहर्षयः/सहितास्तस्थुराकाशेवीक्षांचक्रुश्चपर्वतम्/शुश्रुवुश्चतदाशब्दमृषीणांभावितात्मनाम्/चारणानांचसिद्धानांस्थितानांविमलेऽम्बरे/एषपर्वतसंकाशोहनूमान्मारुतात्मजः/तितीर्षतिमहावेगंसमुद्रंमकरालयम्/रामार्थंवानरार्थंचचिकीर्षन्कर्मदुष्करम्/समुद्रस्यपरंपारंदुष्प्रापंप्राप्तुमिच्छति/दुधुवेचसरोमाणिचकम्पेचाचलोपमः/ननादचमहानादंसुमहानिवतोयदः/आनुपूर्व्याच्चवृत्तंचलाङ्गूलंरोमभिश्चितम्/उत्पतिष्यन्विचिक्षेपपक्षिराजइवोरगम्/तस्यलाङ्गूलमाविद्धमतिवेगस्यपृष्ठतः/ददृशेगरुडेनेवह्रियमाणोमहोरगः/बाहूसंस्तम्भयामासमहापरिघसंनिभौ/ससादचकपिःकट्यांचरणौसंचुकोपच/संहृत्यचभुजौश्रीमांस्तथैवचशिरोधराम्/तेजःसत्त्वंतथावीर्यमाविवेशसवीर्यवान्/मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः/रुरोधहृदयेप्राणानाकाशमवलोकयन्/पद्भ्यांदृढमवस्थानंकृत्वासकपिकुञ्जरः/निकुञ्च्यकर्णौहनुमानुत्पतिष्यन्महाबलः/वानरान्वानरश्रेष्ठइदंवचनमब्रवीत्/यथाराघवनिर्मुक्तःशरःश्वसनविक्रमः/गच्छेत्तद्वद्गमिष्यामिलङ्कांरावणपालिताम्/नहिद्रक्ष्यामियदितांलङ्कायांजनकात्मजाम्/अनेनैवहिवेगेनगमिष्यामिसुरालयम्/यदिवात्रिदिवेसीतांनद्रक्ष्यामिकृतश्रमः/बद्ध्वाराक्षसराजानमानयिष्यामिरावणम्/सर्वथाकृतकार्योऽहमेष्यामिसहसीतया/आनयिष्यामिवालङ्कांसमुत्पाट्यसरावणाम्/एवमुक्त्वातुहनुमान्वानरान्वानरोत्तमः/उत्पपाताथवेगेनवेगवानविचारयन्/समुत्पततितस्मिंस्तुवेगात्तेनगरोहिणः/संहृत्यविटपान्सर्वान्समुत्पेतुःसमन्ततः/समत्तकोयष्टिभकान्पादपान्पुष्पशालिनः/उद्वहन्नूरुवेगेनजगामविमलेऽम्बरे/ऊरुवेगोद्धतावृक्षामुहूर्तंकपिमन्वयुः/प्रस्थितंदीर्घमध्वानंस्वबन्धुमिवबान्धवाः/तमूरुवेगोन्मथिताःसालाश्चान्येनगोत्तमाः/अनुजग्मुर्हनूमन्तंसैन्याइवमहीपतिम्/सुपुष्पिताग्रैर्बहुभिःपादपैरन्वितःकपिः/हनुमान्पर्वताकारोबभूवाद्भुतदर्शनः/सारवन्तोऽथयेवृक्षान्यमज्जंल्लवणाम्भसि/भयादिवमहेन्द्रस्यपर्वतावरुणालये/सनानाकुसुमैःकीर्णःकपिःसाङ्कुरकोरकैः/शुशुभेमेघसंकाशःखद्योतैरिवपर्वतः/विमुक्तास्तस्यवेगेनमुक्त्वापुष्पाणितेद्रुमाः/अवशीर्यन्तसलिलेनिवृत्ताःसुहृदोयथा/लघुत्वेनोपपन्नंतद्विचित्रंसागरेऽपतत्/द्रुमाणांविविधंपुष्पंकपिवायुसमीरितम्/पुष्पौघेणानुबद्धेननानावर्णेनवानरः/बभौमेघइवोद्यन्वैविद्युद्गणविभूषितः/तस्यवेगसमुद्भूतैःपुष्पैस्तोयमदृश्यत/ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्/तस्याम्बरगतौबाहूददृशातेप्रसारितौ/पर्वताग्राद्विनिष्क्रान्तौपञ्चास्याविवपन्नगौ/पिबन्निवबभौचापिसोर्मिजालंमहार्णवम्/पिपासुरिवचाकाशंददृशेसमहाकपिः/तस्यविद्युत्प्रभाकारेवायुमार्गानुसारिणः/नयनेविप्रकाशेतेपर्वतस्थाविवानलौ/पिङ्गेपिङ्गाक्षमुख्यस्यबृहतीपरिमण्डले/चक्षुषीसंप्रकशेतेचन्द्रसूर्याविवस्थितौ/मुखंनासिकयातस्यताम्रयाताम्रमाबभौ/संध्ययासमभिस्पृष्टंयथासूर्यस्यमण्डलम्/लाङ्गलंचसमाविद्धंप्लवमानस्यशोभते/अम्बरेवायुपुत्रस्यशक्रध्वजइवोच्छ्रितः/लाङ्गूलचक्रेणमहाञ्शुक्लदंष्ट्रोऽनिलात्मजः/व्यरोचतमहाप्राज्ञःपरिवेषीवभास्करः/स्फिग्देशेनाभिताम्रेणरराजसमहाकपिः/महतादारितेनेवगिरिर्गैरिकधातुना/तस्यवानरसिंहस्यप्लवमानस्यसागरम्/कक्षान्तरगतोवायुर्जीमूतइवगर्जति/खेयथानिपतत्युल्काउत्तरान्ताद्विनिःसृता/दृश्यतेसानुबन्धाचतथासकपिकुञ्जरः/पतत्पतंगसंकाशोव्यायतःशुशुभेकपिः/प्रवृद्धइवमातंगःकक्ष्ययाबध्यमानया/उपरिष्टाच्छरीरेणछाययाचावगाढया/सागरेमारुताविष्टानौरिवासीत्तदाकपिः/यंयंदेशंसमुद्रस्यजगामसमहाकपिः/ससतस्याङ्गवेगेनसोन्मादइवलक्ष्यते/सागरस्योर्मिजालानामुरसाशैलवर्ष्मणाम्/अभिघ्नंस्तुमहावेगःपुप्लुवेसमहाकपिः/कपिवातश्चबलवान्मेघवातश्चनिःसृतः/सागरंभीमनिर्घोषंकम्पयामासतुर्भृशम्/विकर्षन्नूर्मिजालानिबृहन्तिलवणाम्भसि/अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव/प्लवमानंसमीक्ष्याथभुजङ्गाःसागरालयाः/व्योम्नितंकपिशार्दूलंसुपर्णमितिमेनिरे/दशयोजनविस्तीर्णात्रिंशद्योजनमायता/छायावानरसिंहस्यजलेचारुतराभवत्/श्वेताभ्रघनराजीववायुपुत्रानुगामिनी/तस्यसाशुशुभेछायाविततालवणाम्भसि/प्लवमानंतुतंदृष्ट्वाप्लवगंत्वरितंतदा/ववृषुःपुष्पवर्षाणिदेवगन्धर्वदानवाः/ततापनहितंसूर्यःप्लवन्तंवानरेश्वरम्/सिषेवेचतदावायूरामकार्यार्थसिद्धये/ऋषयस्तुष्टुवुश्चैनंप्लवमानंविहायसा/जगुश्चदेवगन्धर्वाःप्रशंसन्तोमहौजसं/नागाश्चतुष्टुवुर्यक्षारक्षांसिविबुधाःखगाः/प्रेक्ष्याकाशेकपिवरंसहसाविगतक्लमम्/तस्मिन्प्लवगशार्दूलेप्लवमानेहनूमति/इक्ष्वाकुकुलमानार्थीचिन्तयामाससागरः/साहाय्यंवानरेन्द्रस्ययदिनाहंहनूमतः/करिष्यामिभविष्यामिसर्ववाच्योविवक्षताम्/अहमिक्ष्वाकुनाथेनसगरेणविवर्धितः/इक्ष्वाकुसचिवश्चायंनावसीदितुमर्हति/तथामयाविधातव्यंविश्रमेतयथाकपिः/शेषंचमयिविश्रान्तःसुखेनातिपतिष्यति/इतिकृत्वामतिंसाध्वींसमुद्रश्छन्नमम्भसि/हिरण्यनाभंमैनाकमुवाचगिरिसत्तमम्/त्वमिहासुरसंघानांपातालतलवासिनाम्/देवराज्ञागिरिश्रेष्ठपरिघःसंनिवेशितः/त्वमेषांज्ञातवीर्याणांपुनरेवोत्पतिष्यताम्/पातालस्याप्रमेयस्यद्वारमावृत्यतिष्ठसि/तिर्यगूर्ध्वमधश्चैवशक्तिस्तेशैलवर्धितुम्/तस्मात्संचोदयामित्वामुत्तिष्ठनगसत्तम/सएषकपिशार्दूलस्त्वामुपर्येतिवीर्यवान्/हनूमान्रामकार्यार्थंभीमकर्माखमाप्लुतः/तस्यसाह्यंमयाकार्यमिक्ष्वाकुकुलवर्तिनः/ममइक्ष्वाकवःपूज्याःपरंपूज्यतमास्तव/कुरुसाचिव्यमस्माकंननःकार्यमतिक्रमेत्/कर्तव्यमकृतंकार्यंसतांमन्युमुदीरयेत्/सलिलादूर्ध्वमुत्तिष्ठतिष्ठत्वेषकपिस्त्वयि/अस्माकमतिथिश्चैवपूज्यश्चप्लवतांवरः/चामीकरमहानाभदेवगन्धर्वसेवित/हनूमांस्त्वयिविश्रान्तस्ततःशेषंगमिष्यति/काकुत्स्थस्यानृशंस्यंचमैथिल्याश्चविवासनम्/श्रमंचप्लवगेन्द्रस्यसमीक्ष्योत्थातुमर्हसि/हिरण्यनाभोमैनाकोनिशम्यलवणाम्भसः/उत्पपातजलात्तूर्णंमहाद्रुमलतायुतः/ससागरजलंभित्त्वाबभूवात्युत्थितस्तदा/यथाजलधरंभित्त्वादीप्तरश्मिर्दिवाकरः/शातकुम्भमयैःशृङ्गैःसकिंनरमहोरगैः/आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम्/तस्यजाम्बूनदैःशृङ्गैःपर्वतस्यसमुत्थितैः/आकाशंशस्त्रसंकाशमभवत्काञ्चनप्रभम्/जातरूपमयैःशृङ्गैर्भ्राजमानैःस्वयंप्रभैः/आदित्यशतसंकाशःसोऽभवद्गिरिसत्तमः/तमुत्थितमसंगेनहनूमानग्रतःस्थितम्/मध्येलवणतोयस्यविघ्नोऽयमितिनिश्चितः/सतमुच्छ्रितमत्यर्थंमहावेगोमहाकपिः/उरसापातयामासजीमूतमिवमारुतः/सतदापातितस्तेनकपिनापर्वतोत्तमः/बुद्ध्वातस्यकपेर्वेगंजहर्षचननन्दच/तमाकाशगतंवीरमाकाशेसमवस्थितम्/प्रीतोहृष्टमनावाक्यमब्रवीत्पर्वतःकपिम्/मानुषंधरयन्रूपमात्मनःशिखरेस्थितः/दुष्करंकृतवान्कर्मत्वमिदंवानरोत्तम/निपत्यममशृङ्गेषुविश्रमस्वयथासुखम्/राघावस्यकुलेजातैरुदधिःपरिवर्धितः/सत्वांरामहितेयुक्तंप्रत्यर्चयतिसागरः/कृतेचप्रतिकर्तव्यमेषधर्मःसनातनः/सोऽयंतत्प्रतिकारार्थीत्वत्तःसंमानमर्हति/त्वन्निमित्तमनेनाहंबहुमानात्प्रचोदितः/योजनानांशतंचापिकपिरेषसमाप्लुतः/तवसानुषुविश्रान्तःशेषंप्रक्रमतामिति/तिष्ठत्वंहरिशार्दूलमयिविश्रम्यगम्यताम्/तदिदंगन्धवत्स्वादुकन्दमूलफलंबहु/तदास्वाद्यहरिश्रेष्ठविश्रान्तोऽनुगमिष्यसि/अस्माकमपिसंबन्धःकपिमुख्यस्त्वयास्तिवै/प्रख्यतस्त्रिषुलोकेषुमहागुणपरिग्रहः/वेगवन्तःप्लवन्तोयेप्लवगामारुतात्मज/तेषांमुख्यतमंमन्येत्वामहंकपिकुञ्जर/अतिथिःकिलपूजार्हःप्राकृतोऽपिविजानता/धर्मंजिज्ञासमानेनकिंपुनर्यादृशोभवान्/त्वंहिदेववरिष्ठस्यमारुतस्यमहात्मनः/पुत्रस्तस्यैववेगेनसदृशःकपिकुञ्जर/पूजितेत्वयिधर्मज्ञपूजांप्राप्नोतिमारुतः/तस्मात्त्वंपूजनीयोमेशृणुचाप्यत्रकारणम्/पूर्वंकृतयुगेतातपर्वताःपक्षिणोऽभवन्/तेऽपिजग्मुर्दिशःसर्वागरुडानिलवेगिनः/ततस्तेषुप्रयातेषुदेवसंघाःसहर्षिभिः/भूतानिचभयंजग्मुस्तेषांपतनशङ्कया/ततःक्रुद्धःसहस्राक्षःपर्वतानांशतक्रतुः/पक्षांश्चिच्छेदवज्रेणतत्रतत्रसहस्रशः/समामुपगतःक्रुद्धोवज्रमुद्यम्यदेवराट्/ततोऽहंसहसाक्षिप्तःश्वसनेनमहात्मना/अस्मिंल्लवणतोयेचप्रक्षिप्तःप्लवगोत्तम/गुप्तपक्षःसमग्रश्चतवपित्राभिरक्षितः/ततोऽहंमानयामित्वांमान्योहिमममारुतः/त्वयामेह्येषसंबन्धःकपिमुख्यमहागुणः/अस्मिन्नेवंगतेकार्येसागरस्यममैवच/प्रीतिंप्रीतमनाकर्तुंत्वमर्हसिमहाकपे/श्रमंमोक्षयपूजांचगृहाणकपिसत्तम/प्रीतिंचबहुमन्यस्वप्रीतोऽस्मितवदर्शनात्/एवमुक्तःकपिश्रेष्ठस्तंनगोत्तममब्रवीत्/प्रीतोऽस्मिकृतमातिथ्यंमन्युरेषोऽपनीयताम्/त्वरतेकार्यकालोमेअहश्चाप्यतिवर्तते/प्रतिज्ञाचमयादत्तानस्थातव्यमिहान्तरा/इत्युक्त्वापाणिनाशैलमालभ्यहरिपुंगवः/जगामाकाशमाविश्यवीर्यवान्प्रहसन्निव/सपर्वतसमुद्राभ्यांबहुमानादवेक्षितः/पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः/अथोर्ध्वंदूरमुत्पत्यहित्वाशैलमहार्णवौ/पितुःपन्थानमास्थायजगामविमलेऽम्बरे/भूयश्चोर्ध्वगतिंप्राप्यगिरिंतमवलोकयन्/वायुसूनुर्निरालम्बेजगामविमलेऽम्बरे/तद्द्वितीयंहनुमतोदृष्ट्वाकर्मसुदुष्करम्/प्रशशंसुःसुराःसर्वेसिद्धाश्चपरमर्षयः/देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्यकर्मणा/काञ्चनस्यसुनाभस्यसहस्राक्षश्चवासवः/उवाचवचनंधीमान्परितोषात्सगद्गदम्/सुनाभंपर्वतश्रेष्ठंस्वयमेवशचीपतिः/हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मितेभृशम्/अभयंतेप्रयच्छामितिष्ठसौम्ययथासुखम्/साह्यंकृतंतेसुमहद्विक्रान्तस्यहनूमतः/क्रमतोयोजनशतंनिर्भयस्यभयेसति/रामस्यैषहिदौत्येनयातिदाशरथेर्हरिः/सत्क्रियांकुर्वताशक्यातोषितोऽस्मिदृढंत्वया/ततःप्रहर्षमलभद्विपुलंपर्वतोत्तमः/देवतानांपतिंदृष्ट्वापरितुष्टंशतक्रतुम्/सवैदत्तवरःशैलोबभूवावस्थितस्तदा/हनूमांश्चमुहूर्तेनव्यतिचक्रामसागरम्/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/अब्रुवन्सूर्यसंकाशांसुरसांनागमातरम्/अयंवातात्मजःश्रीमान्प्लवतेसागरोपरि/हनूमान्नामतस्यत्वंमुहूर्तंविघ्नमाचर/राक्षसंरूपमास्थायसुघोरंपर्वतोपमम्/दंष्ट्राकरालंपिङ्गाक्षंवक्त्रंकृत्वानभःस्पृशम्/बलमिच्छामहेज्ञातुंभूयश्चास्यपराक्रमम्/त्वांविजेष्यत्युपायेनविषदंवागमिष्यति/एवमुक्तातुसादेवीदैवतैरभिसत्कृता/समुद्रमध्येसुरसाबिभ्रतीराक्षसंवपुः/विकृतंचविरूपंचसर्वस्यचभयावहम्/प्लवमानंहनूमन्तमावृत्येदमुवाचह/ममभक्षःप्रदिष्टस्त्वमीश्वरैर्वानरर्षभ/अहंत्वांभक्षयिष्यामिप्रविशेदंममाननम्/एवमुक्तःसुरसयाप्राञ्जलिर्वानरर्षभः/प्रहृष्टवदनःश्रीमानिदंवचनमब्रवीत्/रामोदाशरथिर्नामप्रविष्टोदण्डकावनम्/लक्ष्मणेनसहभ्रात्रावैदेह्याचापिभार्यया/अस्यकार्यविषक्तस्यबद्धवैरस्यराक्षसैः/तस्यसीताहृताभार्यारावणेनयशस्विनी/तस्याःसकाशंदूतोऽहंगमिष्येरामशासनात्/कर्तुमर्हसिरामस्यसाह्यंविषयवासिनि/अथवामैथिलींदृष्ट्वारामंचाक्लिष्टकारिणम्/आगमिष्यामितेवक्त्रंसत्यंप्रतिशृणोमिते/एवमुक्ताहनुमतासुरसाकामरूपिणी/अब्रवीन्नातिवर्तेन्मांकश्चिदेषवरोमम/एवमुक्तःसुरसयाक्रुद्धोवानरपुंगवः/अब्रवीत्कुरुवैवक्त्रंयेनमांविषहिष्यसे/इत्युक्त्वासुरसांक्रुद्धोदशयोजनमायतः/दशयोजनविस्तारोबभूवहनुमांस्तदा/तंदृष्ट्वामेघसंकाशंदशयोजनमायतम्/चकारसुरसाप्यास्यंविंशद्योजनमायतम्/हनुमांस्तुततःक्रुद्धस्त्रिंशद्योजनमायतः/चकारसुरसावक्त्रंचत्वारिंशत्तथोच्छ्रितम्/बभूवहनुमान्वीरःपञ्चाशद्योजनोच्छ्रितः/चकारसुरसावक्त्रंषष्टियोजनमायतम्/तथैवहनुमान्वीरःसप्ततिंयोजनोच्छ्रितः/चकारसुरसावक्त्रमशीतिंयोजनायतम्/हनूमानचलप्रख्योनवतिंयोजनोच्छ्रितः/चकारसुरसावक्त्रंशतयोजनमायतम्/तद्दृष्ट्वाव्यादितंत्वास्यंवायुपुत्रःसबुद्धिमान्/दीर्घजिह्वंसुरसयासुघोरंनरकोपमम्/ससंक्षिप्यात्मनःकायंजीमूतइवमारुतिः/तस्मिन्मुहूर्तेहनुमान्बभूवाङ्गुष्ठमात्रकः/सोऽभिपत्याशुतद्वक्त्रंनिष्पत्यचमहाजवः/अन्तरिक्षेस्थितःश्रीमानिदंवचनमब्रवीत्/प्रविष्टोऽस्मिहितेवक्त्रंदाक्षायणिनमोऽस्तुते/गमिष्येयत्रवैदेहीसत्यंचास्तुवचस्तव/तंदृष्ट्वावदनान्मुक्तंचन्द्रंराहुमुखादिव/अब्रवीत्सुरसादेवीस्वेनरूपेणवानरम्/अर्थसिद्ध्यैहरिश्रेष्ठगच्छसौम्ययथासुखम्/समानयचवैदेहींराघवेणमहात्मना/तत्तृतीयंहनुमतोदृष्ट्वाकर्मसुदुष्करम्/साधुसाध्वितिभूतानिप्रशशंसुस्तदाहरिम्/ससागरमनाधृष्यमभ्येत्यवरुणालयम्/जगामाकाशमाविश्यवेगेनगरुणोपमः/सेवितेवारिधारिभिःपतगैश्चनिषेविते/चरितेकैशिकाचार्यैरैरावतनिषेविते/सिंहकुञ्जरशार्दूलपतगोरगवाहनैः/विमानैःसंपतद्भिश्चविमलैःसमलंकृते/वज्राशनिसमाघातैःपावकैरुपशोभिते/कृतपुण्यैर्महाभागैःस्वर्गजिद्भिरलंकृते/बहताहव्यमत्यन्तंसेवितेचित्रभानुना/ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते/महर्षिगणगन्धर्वनागयक्षसमाकुले/विविक्तेविमलेविश्वेविश्वावसुनिषेविते/देवराजगजाक्रान्तेचन्द्रसूर्यपथेशिवे/वितानेजीवलोकस्यविततोब्रह्मनिर्मिते/बहुशःसेवितेवीरैर्विद्याधरगणैर्वरैः/कपिनाकृष्यमाणानिमहाभ्राणिचकाशिरे/प्रविशन्नभ्रजालानिनिष्पतंश्चपुनःपुनः/प्रावृषीन्दुरिवाभातिनिष्पतन्प्रविशंस्तदा/प्लवमानंतुतंदृष्ट्वासिंहिकानामराक्षसी/मनसाचिन्तयामासप्रवृद्धाकामरूपिणी/अद्यदीर्घस्यकालस्यभविष्याम्यहमाशिता/इदंहिमेमहत्सत्त्वंचिरस्यवशमागतम्/इतिसंचिन्त्यमनसाछायामस्यसमक्षिपत्/छायायांसंगृहीतायांचिन्तयामासवानरः/समाक्षिप्तोऽस्मिसहसापङ्गूकृतपराक्रमः/प्रतिलोमेनवातेनमहानौरिवसागरे/तिर्यगूर्ध्वमधश्चैववीक्षमाणस्ततःकपिः/ददर्शसमहासत्त्वमुत्थितंलवणाम्भसि/कपिराज्ञायदाख्यातंसत्त्वमद्भुतदर्शनम्/छायाग्राहिमहावीर्यंतदिदंनात्रसंशयः/सतांबुद्ध्वार्थतत्त्वेनसिंहिकांमतिमान्कपिः/व्यवर्धतमहाकायःप्रावृषीवबलाहकः/तस्यसाकायमुद्वीक्ष्यवर्धमानंमहाकपेः/वक्त्रंप्रसारयामासपातालाम्बरसंनिभम्/सददर्शततस्तस्याविकृतंसुमहन्मुखम्/कायमात्रंचमेधावीमर्माणिचमहाकपिः/सतस्याविवृतेवक्त्रेवज्रसंहननःकपिः/संक्षिप्यमुहुरात्मानंनिष्पपातमहाबलः/आस्येतस्यानिमज्जन्तंददृशुःसिद्धचारणाः/ग्रस्यमानंयथाचन्द्रंपूर्णंपर्वणिराहुणा/ततस्तस्यनखैस्तीक्ष्णैर्मर्माण्युत्कृत्यवानरः/उत्पपाताथवेगेनमनःसंपातविक्रमः/तांहतांवानरेणाशुपतितांवीक्ष्यसिंहिकाम्/भूतान्याकाशचारीणितमूचुःप्लवगर्षभम्/भीममद्यकृतंकर्ममहत्सत्त्वंत्वयाहतम्/साधयार्थमभिप्रेतमरिष्टंप्लवतांवर/यस्यत्वेतानिचत्वारिवानरेन्द्रयथातव/धृतिर्दृष्टिर्मतिर्दाक्ष्यंसकर्मसुनसीदति/सतैःसंभावितःपूज्यःप्रतिपन्नप्रयोजनः/जगामाकाशमाविश्यपन्नगाशनवत्कपिः/प्राप्तभूयिष्ठपारस्तुसर्वतःप्रतिलोकयन्/योजनानांशतस्यान्तेवनराजिंददर्शसः/ददर्शचपतन्नेवविविधद्रुमभूषितम्/द्वीपंशाखामृगश्रेष्ठोमलयोपवनानिच/सागरंसागरानूपान्सागरानूपजान्द्रुमान्/सागरस्यचपत्नीनांमुखान्यपिविलोकयन्/समहामेघसंकाशंसमीक्ष्यात्मानमात्मना/निरुन्धन्तमिवाकाशंचकारमतिमान्मतिम्/कायवृद्धिंप्रवेगंचममदृष्ट्वैवराक्षसाः/मयिकौतूहलंकुर्युरितिमेनेमहाकपिः/ततःशरीरंसंक्षिप्यतन्महीधरसंनिभम्/पुनःप्रकृतिमापेदेवीतमोहइवात्मवान्/सचारुनानाविधरूपधारी॑परंसमासाद्यसमुद्रतीरम्/परैरशक्यप्रतिपन्नरूपः॑समीक्षितात्मासमवेक्षितार्थः/ततःसलम्बस्यगिरेःसमृद्धे॑विचित्रकूटेनिपपातकूटे/सकेतकोद्दालकनालिकेरे॑महाद्रिकूटप्रतिमोमहात्मा/ससागरंदानवपन्नगायुतं॑बलेनविक्रम्यमहोर्मिमालिनम्/निपत्यतीरेचमहोदधेस्तदा॑ददर्शलङ्काममरावतीमिव/ससागरमनाधृष्यमतिक्रम्यमहाबलः/त्रिकूटशिखरेलङ्कांस्थितांस्वस्थोददर्शह/ततःपादपमुक्तेनपुष्पवर्षेणवीर्यवान्/अभिवृष्टःस्थितस्तत्रबभौपुष्पमयोयथा/योजनानांशतंश्रीमांस्तीर्त्वाप्युत्तमविक्रमः/अनिश्वसन्कपिस्तत्रनग्लानिमधिगच्छति/शतान्यहंयोजनानांक्रमेयंसुबहून्यपि/किंपुनःसागरस्यान्तंसंख्यातंशतयोजनम्/सतुवीर्यवतांश्रेष्ठःप्लवतामपिचोत्तमः/जगामवेगवांल्लङ्कांलङ्घयित्वामहोदधिम्/शाद्वलानिचनीलानिगन्धवन्तिवनानिच/गण्डवन्तिचमध्येनजगामनगवन्तिच/शैलांश्चतरुसंछन्नान्वनराजीश्चपुष्पिताः/अभिचक्रामतेजस्वीहनुमान्प्लवगर्षभः/सतस्मिन्नचलेतिष्ठन्वनान्युपवनानिच/सनगाग्रेचतांलङ्कांददर्शपवनात्मजः/सरलान्कर्णिकारांश्चखर्जूरांश्चसुपुष्पितान्/प्रियालान्मुचुलिन्दांश्चकुटजान्केतकानपि/प्रियङ्गून्गन्धपूर्णांश्चनीपान्सप्तच्छदांस्तथा/असनान्कोविदारांश्चकरवीरांश्चपुष्पितान्/पुष्पभारनिबद्धांश्चतथामुकुलितानपि/पादपान्विहगाकीर्णान्पवनाधूतमस्तकान्/हंसकारण्डवाकीर्णावापीःपद्मोत्पलायुताः/आक्रीडान्विविधान्रम्यान्विविधांश्चजलाशयान्/संततान्विविधैर्वृक्षैःसर्वर्तुफलपुष्पितैः/उद्यानानिचरम्याणिददर्शकपिकुञ्जरः/समासाद्यचलक्ष्मीवांल्लङ्कांरावणपालिताम्/परिखाभिःसपद्माभिःसोत्पलाभिरलंकृताम्/सीतापहरणार्थेनरावणेनसुरक्षिताम्/समन्ताद्विचरद्भिश्चराक्षसैरुग्रधन्विभिः/काञ्चनेनावृतांरम्यांप्राकारेणमहापुरीम्/अट्टालकशताकीर्णांपताकाध्वजमालिनीम्/तोरणैःकाञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः/ददर्शहनुमांल्लङ्कांदिविदेवपुरीमिव/गिरिमूर्ध्निस्थितांलङ्कांपाण्डुरैर्भवनैःशुभैः/ददर्शसकपिःश्रीमान्पुरमाकाशगंयथा/पालितांराक्षसेन्द्रेणनिर्मितांविश्वकर्मणा/प्लवमानामिवाकाशेददर्शहनुमान्पुरीम्/संपूर्णांराक्षसैर्घोरैर्नागैर्भोगवतीमिव/अचिन्त्यांसुकृतांस्पष्टांकुबेराध्युषितांपुरा/दंष्ट्रिभिर्बहुभिःशूरैःशूलपट्टिशपाणिभिः/रक्षितांराक्षसैर्घोरैर्गुहामाशीविषैरपि/वप्रप्राकारजघनांविपुलाम्बुनवाम्बराम्/शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्/द्वारमुत्तरमासाद्यचिन्तयामासवानरः/कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम्/ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः/तस्याश्चमहतींगुप्तिंसागरंचनिरीक्ष्यसः/रावणंचरिपुंघोरंचिन्तयामासवानरः/आगत्यापीहहरयोभविष्यन्तिनिरर्थकाः/नहियुद्धेनवैलङ्काशक्याजेतुंसुरैरपि/इमांतुविषमांदुर्गांलङ्कांरावणपालिताम्/प्राप्यापिसमहाबाहुःकिंकरिष्यतिराघवः/अवकाशोनसान्त्वस्यराक्षसेष्वभिगम्यते/नदानस्यनभेदस्यनैवयुद्धस्यदृश्यते/चतुर्णामेवहिगतिर्वानराणांमहात्मनाम्/वालिपुत्रस्यनीलस्यममराज्ञश्चधीमतः/यावज्जानामिवैदेहींयदिजीवतिवानवा/तत्रैवचिन्तयिष्यामिदृष्ट्वातांजनकात्मजाम्/ततःसचिन्तयामासमुहूर्तंकपिकुञ्जरः/गिरिशृङ्गेस्थितस्तस्मिन्रामस्याभ्युदयेरतः/अनेनरूपेणमयानशक्यारक्षसांपुरी/प्रवेष्टुंराक्षसैर्गुप्ताक्रूरैर्बलसमन्वितैः/उग्रौजसोमहावीर्योबलवन्तश्चराक्षसाः/वञ्चनीयामयासर्वेजानकींपरिमार्गिता/लक्ष्यालक्ष्येणरूपेणरात्रौलङ्कापुरीमया/प्रवेष्टुंप्राप्तकालंमेकृत्यंसाधयितुंमहत्/तांपुरींतादृशींदृष्ट्वादुराधर्षांसुरासुरैः/हनूमांश्चिन्तयामासविनिःश्वस्यमुहुर्मुहुः/केनोपायेनपश्येयंमैथिलींजनकात्मजाम्/अदृष्टोराक्षसेन्द्रेणरावणेनदुरात्मना/नविनश्येत्कथंकार्यंरामस्यविदितात्मनः/एकामेकश्चपश्येयंरहितेजनकात्मजाम्/भूताश्चार्थोविपद्यन्तेदेशकालविरोधिताः/विक्लवंदूतमासाद्यतमःसूर्योदयेयथा/अर्थानर्थान्तरेबुद्धिर्निश्चितापिनशोभते/घातयन्तिहिकार्याणिदूताःपण्डितमानिनः/नविनश्येत्कथंकार्यंवैक्लव्यंनकथंभवेत्/लङ्घनंचसमुद्रस्यकथंनुनवृथाभवेत्/मयिदृष्टेतुरक्षोभीरामस्यविदितात्मनः/भवेद्व्यर्थमिदंकार्यंरावणानर्थमिच्छतः/नहिशक्यंक्वचित्स्थातुमविज्ञातेनराक्षसैः/अपिराक्षसरूपेणकिमुतान्येनकेनचित्/वायुरप्यत्रनाज्ञातश्चरेदितिमतिर्मम/नह्यस्त्यविदितंकिंचिद्राक्षसानांबलीयसाम्/इहाहंयदितिष्ठामिस्वेनरूपेणसंवृतः/विनाशमुपयास्यामिभर्तुरर्थश्चहीयते/तदहंस्वेनरूपेणरजन्यांह्रस्वतांगतः/लङ्कामभिपतिष्यामिराघवस्यार्थसिद्धये/रावणस्यपुरींरात्रौप्रविश्यसुदुरासदाम्/विचिन्वन्भवनंसर्वंद्रक्ष्यामिजनकात्मजाम्/इतिसंचिन्त्यहनुमान्सूर्यस्यास्तमयंकपिः/आचकाङ्क्षेतदावीरावैदेह्यादर्शनोत्सुकः/पृषदंशकमात्रःसन्बभूवाद्भुतदर्शनः/प्रदोषकालेहनुमांस्तूर्णमुत्पत्यवीर्यवान्/प्रविवेशपुरींरम्यांसुविभक्तमहापथम्/प्रासादमालाविततांस्तम्भैःकाञ्चनराजतैः/शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम्/सप्तभौमाष्टभौमैश्चसददर्शमहापुरीम्/तलैःस्फाटिकसंपूर्णैःकार्तस्वरविभूषितैः/वैदूर्यमणिचित्रैश्चमुक्ताजालविभूषितैः/तलैःशुशुभिरेतानिभवनान्यत्ररक्षसाम्/काञ्चनानिविचित्राणितोरणानिचरक्षसाम्/लङ्कामुद्द्योतयामासुःसर्वतःसमलंकृताम्/अचिन्त्यामद्भुताकारांदृष्ट्वालङ्कांमहाकपिः/आसीद्विषण्णोहृष्टश्चवैदेह्यादर्शनोत्सुकः/सपाण्डुरोद्विद्धविमानमालिनीं॑महार्हजाम्बूनदजालतोरणाम्/यशस्विनांरावणबाहुपालितां॑क्षपाचरैर्भीमबलैःसमावृताम्/चन्द्रोऽपिसाचिव्यमिवास्यकुर्वंस्॑तारागणैर्मध्यगतोविराजन्/ज्योत्स्नावितानेनवितत्यलोकम्॑उत्तिष्ठतेनैकसहस्ररश्मिः/शङ्खप्रभंक्षीरमृणालवर्णम्॑उद्गच्छमानंव्यवभासमानम्/ददर्शचन्द्रंसकपिप्रवीरः॑पोप्लूयमानंसरसीवहंसं/सलम्बशिखरेलम्बेलम्बतोयदसंनिभे/सत्त्वमास्थायमेधावीहनुमान्मारुतात्मजः/निशिलङ्कांमहासत्त्वोविवेशकपिकुञ्जरः/रम्यकाननतोयाढ्यांपुरींरावणपालिताम्/शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्/सागरोपमनिर्घोषांसागरानिलसेविताम्/सुपुष्टबलसंगुप्तांयथैवविटपावतीम्/चारुतोरणनिर्यूहांपाण्डुरद्वारतोरणाम्/भुजगाचरितांगुप्तांशुभांभोगवतीमिव/तांसविद्युद्घनाकीर्णांज्योतिर्मार्गनिषेविताम्/चण्डमारुतनिर्ह्रादांयथेन्द्रस्यामरावतीम्/शातकुम्भेनमहताप्राकारेणाभिसंवृताम्/किङ्किणीजालघोषाभिःपताकाभिरलंकृताम्/आसाद्यसहसाहृष्टःप्राकारमभिपेदिवान्/विस्मयाविष्टहृदयःपुरीमालोक्यसर्वतः/जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः/मणिस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः/तप्तहाटकनिर्यूहैराजतामलपाण्डुरैः/वैदूर्यतलसोपानैःस्फाटिकान्तरपांसुभिः/चारुसंजवनोपेतैःखमिवोत्पतितैःशुभैः/क्रौञ्चबर्हिणसंघुष्टेराजहंसनिषेवितैः/तूर्याभरणनिर्घोषैःसर्वतःप्रतिनादिताम्/वस्वोकसाराप्रतिमांसमीक्ष्यनगरींततः/खमिवोत्पतितांलङ्कांजहर्षहनुमान्कपिः/तांसमीक्ष्यपुरींलङ्कांराक्षसाधिपतेःशुभाम्/अनुत्तमामृद्धियुतांचिन्तयामासवीर्यवान्/नेयमन्येननगरीशक्याधर्षयितुंबलात्/रक्षितारावणबलैरुद्यतायुधधारिभिः/कुमुदाङ्गदयोर्वापिसुषेणस्यमहाकपेः/प्रसिद्धेयंभवेद्भूमिर्मैन्दद्विविदयोरपि/विवस्वतस्तनूजस्यहरेश्चकुशपर्वणः/ऋक्षस्यकेतुमालस्यममचैवगतिर्भवेत्/समीक्ष्यतुमहाबाहोराघवस्यपराक्रमम्/लक्ष्मणस्यचविक्रान्तमभवत्प्रीतिमान्कपिः/तांरत्नवसनोपेतांकोष्ठागारावतंसकाम्/यन्त्रागारस्तनीमृद्धांप्रमदामिवभूषिताम्/तांनष्टतिमिरांदीपैर्भास्वरैश्चमहागृहैः/नगरींराक्षसेन्द्रस्यददर्शसमहाकपिः/प्रविष्टःसत्त्वसंपन्नोनिशायांमारुतात्मजः/समहापथमास्थायमुक्तापुष्पविराजितम्/हसितोद्घुष्टनिनदैस्तूर्यघोषपुरःसरैः/वज्राङ्कुशनिकाशैश्चवज्रजालविभूषितैः/गृहमेधैःपुरीरम्याबभासेद्यौरिवाम्बुदैः/प्रजज्वालतदालङ्कारक्षोगणगृहैःशुभैः/सिताभ्रसदृशैश्चित्रैःपद्मस्वस्तिकसंस्थितैः/वर्धमानगृहैश्चापिसर्वतःसुविभाषितैः/तांचित्रमाल्याभरणांकपिराजहितंकरः/राघवार्थंचरञ्श्रीमान्ददर्शचननन्दच/शुश्रावमधुरंगीतंत्रिस्थानस्वरभूषितम्/स्त्रीणांमदसमृद्धानांदिविचाप्सरसामिव/शुश्रावकाञ्चीनिनादंनूपुराणांचनिःस्वनम्/सोपाननिनदांश्चैवभवनेषुमहात्मनम्/आस्फोटितनिनादांश्चक्ष्वेडितांश्चततस्ततः/स्वाध्यायनिरतांश्चैवयातुधानान्ददर्शसः/रावणस्तवसंयुक्तान्गर्जतोराक्षसानपि/राजमार्गंसमावृत्यस्थितंरक्षोबलंमहत्/ददर्शमध्यमेगुल्मेराक्षसस्यचरान्बहून्/दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः/दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा/कूटमुद्गरपाणींश्चदण्डायुधधरानपि/एकाक्षानेककर्णांश्चचलल्लम्बपयोधरान्/करालान्भुग्नवक्त्रांश्चविकटान्वामनांस्तथा/धन्विनःखड्गिनश्चैवशतघ्नीमुसलायुधान्/परिघोत्तमहस्तांश्चविचित्रकवचोज्ज्वलान्/नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान्/विरूपान्बहुरूपांश्चसुरूपांश्चसुवर्चसः/शक्तिवृक्षायुधांश्चैवपट्टिशाशनिधारिणः/क्षेपणीपाशहस्तांश्चददर्शसमहाकपिः/स्रग्विणस्त्वनुलिप्तांश्चवराभरणभूषितान्/तीक्ष्णशूलधरांश्चैववज्रिणश्चमहाबलान्/शतसाहस्रमव्यग्रमारक्षंमध्यमंकपिः/प्राकारावृतमत्यन्तंददर्शसमहाकपिः/त्रिविष्टपनिभंदिव्यंदिव्यनादविनादितम्/वाजिहेषितसंघुष्टंनादितंभूषणैस्तथा/रथैर्यानैर्विमानैश्चतथागजहयैःशुभैः/वारणैश्चचतुर्दन्तैःश्वेताभ्रनिचयोपमैः/भूषितंरुचिरद्वारंमत्तैश्चमृगपक्षिभिः/राक्षसाधिपतेर्गुप्तमाविवेशगृहंकपिः/ततःसमध्यंगतमंशुमन्तं॑ज्योत्स्नावितानंमहदुद्वमन्तम्/ददर्शधीमान्दिविभानुमन्तं॑गोष्ठेवृषंमत्तमिवभ्रमन्तम्/लोकस्यपापानिविनाशयन्तं॑महोदधिंचापिसमेधयन्तम्/भूतानिसर्वाणिविराजयन्तं॑ददर्शशीतांशुमथाभियान्तम्/याभातिलक्ष्मीर्भुविमन्दरस्था॑तथाप्रदोषेषुचसागरस्था/तथैवतोयेषुचपुष्करस्था॑रराजसाचारुनिशाकरस्था/हंसोयथाराजतपञ्जुरस्थः॑सिंहोयथामन्दरकन्दरस्थः/वीरोयथागर्वितकुञ्जरस्थश्॑चन्द्रोऽपिबभ्राजतथाम्बरस्थः/स्थितःककुद्मानिवतीक्ष्णशृङ्गो॑महाचलःश्वेतइवोच्चशृङ्गः/हस्तीवजाम्बूनदबद्धशृङ्गो॑विभातिचन्द्रःपरिपूर्णशृङ्गः/प्रकाशचन्द्रोदयनष्टदोषः॑प्रवृद्धरक्षःपिशिताशदोषः/रामाभिरामेरितचित्तदोषः॑स्वर्गप्रकाशोभगवान्प्रदोषः/तन्त्रीस्वनाःकर्णसुखाःप्रवृत्ताः॑स्वपन्तिनार्यःपतिभिःसुवृत्ताः/नक्तंचराश्चापितथाप्रवृत्ता॑विहर्तुमत्यद्भुतरौद्रवृत्ताः/मत्तप्रमत्तानिसमाकुलानि॑रथाश्वभद्रासनसंकुलानि/वीरश्रियाचापिसमाकुलानि॑ददर्शधीमान्सकपिःकुलानि/परस्परंचाधिकमाक्षिपन्ति॑भुजांश्चपीनानधिविक्षिपन्ति/मत्तप्रलापानधिविक्षिपन्ति॑मत्तानिचान्योन्यमधिक्षिपन्ति/रक्षांसिवक्षांसिचविक्षिपन्ति॑गात्राणिकान्तासुचविक्षिपन्ति/ददर्शकान्ताश्चसमालपन्ति॑तथापरास्तत्रपुनःस्वपन्ति/महागजैश्चापितथानदद्भिः॑सूपूजितैश्चापितथासुसद्भिः/रराजवीरैश्चविनिःश्वसद्भिर्॑ह्रदोभुजङ्गैरिवनिःश्वसद्भिः/बुद्धिप्रधानान्रुचिराभिधानान्॑संश्रद्दधानाञ्जगतःप्रधानान्/नानाविधानान्रुचिराभिधानान्॑ददर्शतस्यांपुरियातुधानान्/ननन्ददृष्ट्वासचतान्सुरूपान्॑नानागुणानात्मगुणानुरूपान्/विद्योतमानान्सचतान्सुरूपान्॑ददर्शकांश्चिच्चपुनर्विरूपान्/ततोवरार्हाःसुविशुद्धभावास्॑तेषांस्त्रियस्तत्रमहानुभावाः/प्रियेषुपानेषुचसक्तभावा॑ददर्शताराइवसुप्रभावाः/श्रियाज्वलन्तीस्त्रपयोपगूढा॑निशीथकालेरमणोपगूढाः/ददर्शकाश्चित्प्रमदोपगूढा॑यथाविहंगाःकुसुमोपगूडाः/अन्याःपुनर्हर्म्यतलोपविष्टास्॑तत्रप्रियाङ्केषुसुखोपविष्टाः/भर्तुःप्रियाधर्मपरानिविष्टा॑ददर्शधीमान्मनदाभिविष्टाः/अप्रावृताःकाञ्चनराजिवर्णाः॑काश्चित्परार्ध्यास्तपनीयवर्णाः/पुनश्चकाश्चिच्छशलक्ष्मवर्णाः॑कान्तप्रहीणारुचिराङ्गवर्णाः/ततःप्रियान्प्राप्यमनोऽभिरामान्॑सुप्रीतियुक्ताःप्रसमीक्ष्यरामाः/गृहेषुहृष्टाःपरमाभिरामा॑हरिप्रवीरःसददर्शरामाः/चन्द्रप्रकाशाश्चहिवक्त्रमाला॑वक्राक्षिपक्ष्माश्चसुनेत्रमालाः/विभूषणानांचददर्शमालाः॑शतह्रदानामिवचारुमालाः/नत्वेवसीतांपरमाभिजातां॑पथिस्थितेराजकुलेप्रजाताम्/लतांप्रफुल्लामिवसाधुजातां॑ददर्शतन्वींमनसाभिजाताम्/सनातनेवर्त्मनिसंनिविष्टां॑रामेक्षणींतांमदनाभिविष्टाम्/भर्तुर्मनःश्रीमदनुप्रविष्टां॑स्त्रीभ्योवराभ्यश्चसदाविशिष्टाम्/उष्णार्दितांसानुसृतास्रकण्ठीं॑पुरावरार्होत्तमनिष्ककण्ठीम्/सुजातपक्ष्मामभिरक्तकण्ठीं॑वनेप्रवृत्तामिवनीलकण्ठीम्/अव्यक्तलेखामिवचन्द्रलेखां॑पांसुप्रदिग्धामिवहेमलेखाम्/क्षतप्ररूढामिवबाणलेखां॑वायुप्रभिन्नामिवमेघलेखाम्/सीतामपश्यन्मनुजेश्वरस्य॑रामस्यपत्नींवदतांवरस्य/बभूवदुःखाभिहतश्चिरस्य॑प्लवंगमोमन्दइवाचिरस्य/सनिकामंविनामेषुविचरन्कामरूपधृक्/विचचारकपिर्लङ्कांलाघवेनसमन्वितः/आससादाथलक्ष्मीवान्राक्षसेन्द्रनिवेशनम्/प्राकारेणार्कवर्णेनभास्वरेणाभिसंवृतम्/रक्षितंराक्षसैर्भीमैःसिंहैरिवमहद्वनम्/समीक्षमाणोभवनंचकाशेकपिकुञ्जरः/रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः/विचित्राभिश्चकक्ष्याभिर्द्वारैश्चरुचिरैर्वृतम्/गजास्थितैर्महामात्रैःशूरैश्चविगतश्रमैः/उपस्थितमसंहार्यैर्हयैःस्यन्दनयायिभिः/सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः/घोषवद्भिर्विचित्रैश्चसदाविचरितंरथैः/बहुरत्नसमाकीर्णंपरार्ध्यासनभाजनम्/महारथसमावासंमहारथमहासनम्/दृश्यैश्चपरमोदारैस्तैस्तैश्चमृगपक्षिभिः/विविधैर्बहुसाहस्रैःपरिपूर्णंसमन्ततः/विनीतैरन्तपालैश्चरक्षोभिश्चसुरक्षितम्/मुख्याभिश्चवरस्त्रीभिःपरिपूर्णंसमन्ततः/मुदितप्रमदारत्नंराक्षसेन्द्रनिवेशनम्/वराभरणनिर्ह्रादैःसमुद्रस्वननिःस्वनम्/तद्राजगुणसंपन्नंमुख्यैश्चवरचन्दनैः/भेरीमृदङ्गाभिरुतंशङ्खघोषविनादितम्/नित्यार्चितंपर्वहुतंपूजितंराक्षसैःसदा/समुद्रमिवगम्भीरंसमुद्रमिवनिःस्वनम्/महात्मानोमहद्वेश्ममहारत्नपरिच्छदम्/महाजनसमाकीर्णंददर्शसमहाकपिः/विराजमानंवपुषागजाश्वरथसंकुलम्/लङ्काभरणमित्येवसोऽमन्यतमहाकपिः/गृहाद्गृहंराक्षसानामुद्यानानिचवानरः/वीक्षमाणोह्यसंत्रस्तःप्रासादांश्चचचारसः/अवप्लुत्यमहावेगःप्रहस्तस्यनिवेशनम्/ततोऽन्यत्पुप्लुवेवेश्ममहापार्श्वस्यवीर्यवान्/अथमेघप्रतीकाशंकुम्भकर्णनिवेशनम्/विभीषणस्यचतथापुप्लुवेसमहाकपिः/महोदरस्यचतथाविरूपाक्षस्यचैवहि/विद्युज्जिह्वस्यभवनंविद्युन्मालेस्तथैवच/वज्रदंष्ट्रस्यचतथापुप्लुवेसमहाकपिः/शुकस्यचमहावेगःसारणस्यचधीमतः/तथाचेन्द्रजितोवेश्मजगामहरियूथपः/जम्बुमालेःसुमालेश्चजगामहरियूथपः/रश्मिकेतोश्चभवनंसूर्यशत्रोस्तथैवच/धूम्राक्षस्यचसंपातेर्भवनंमारुतात्मजः/विद्युद्रूपस्यभीमस्यघनस्यविघनस्यच/शुकनाभस्यवक्रस्यशठस्यविकटस्यच/ह्रस्वकर्णस्यदंष्ट्रस्यरोमशस्यचरक्षसः/युद्धोन्मत्तस्यमत्तस्यध्वजग्रीवस्यनादिनः/विद्युज्जिह्वेन्द्रजिह्वानांतथाहस्तिमुखस्यच/करालस्यपिशाचस्यशोणिताक्षस्यचैवहि/क्रममाणःक्रमेणैवहनूमान्मारुतात्मजः/तेषुतेषुमहार्हेषुभवनेषुमहायशाः/तेषामृद्धिमतामृद्धिंददर्शसमहाकपिः/सर्वेषांसमतिक्रम्यभवनानिसमन्ततः/आससादाथलक्ष्मीवान्राक्षसेन्द्रनिवेशनम्/रावणस्योपशायिन्योददर्शहरिसत्तमः/विचरन्हरिशार्दूलोराक्षसीर्विकृतेक्षणाः/शूलमुद्गरहस्ताश्चशक्तोतोमरधारिणीः/ददर्शविविधान्गुल्मांस्तस्यरक्षःपतेर्गृहे/रक्ताञ्श्वेतान्सितांश्चैवहरींश्चैवमहाजवान्/कुलीनान्रूपसंपन्नान्गजान्परगजारुजान्/निष्ठितान्गजशिखायामैरावतसमान्युधि/निहन्तॄन्परसैन्यानांगृहेतस्मिन्ददर्शसः/क्षरतश्चयथामेघान्स्रवतश्चयथागिरीन्/मेघस्तनितनिर्घोषान्दुर्धर्षान्समरेपरैः/सहस्रंवाहिनीस्तत्रजाम्बूनदपरिष्कृताः/हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः/ददर्शराक्षसेन्द्रस्यरावणस्यनिवेशने/शिबिकाविविधाकाराःसकपिर्मारुतात्मजः/लतागृहाणिचित्राणिचित्रशालागृहाणिच/क्रीडागृहाणिचान्यानिदारुपर्वतकानपि/कामस्यगृहकंरम्यंदिवागृहकमेवच/ददर्शराक्षसेन्द्रस्यरावणस्यनिवेशने/समन्दरतलप्रख्यंमयूरस्थानसंकुलम्/ध्वजयष्टिभिराकीर्णंददर्शभवनोत्तमम्/अनन्तरत्ननिचयंनिधिजालंसमन्ततः/धीरनिष्ठितकर्मान्तंगृहंभूतपतेरिव/अर्चिर्भिश्चापिरत्नानांतेजसारावणस्यच/विरराजाथतद्वेश्मरश्मिमानिवरश्मिभिः/जाम्बूनदमयान्येवशयनान्यासनानिच/भाजनानिचशुभ्राणिददर्शहरियूथपः/मध्वासवकृतक्लेदंमणिभाजनसंकुलम्/मनोरममसंबाधंकुबेरभवनंयथा/नूपुराणांचघोषेणकाञ्चीनांनिनदेनच/मृदङ्गतलघोषैश्चघोषवद्भिर्विनादितम्/प्रासादसंघातयुतंस्त्रीरत्नशतसंकुलम्/सुव्यूढकक्ष्यंहनुमान्प्रविवेशमहागृहम्/सवेश्मजालंबलवान्ददर्श॑व्यासक्तवैदूर्यसुवर्णजालम्/यथामहत्प्रावृषिमेघजालं॑विद्युत्पिनद्धंसविहंगजालम्/निवेशनानांविविधाश्चशालाः॑प्रधानशङ्खायुधचापशालाः/मनोहराश्चापिपुनर्विशाला॑ददर्शवेश्माद्रिषुचन्द्रशालाः/गृहाणिनानावसुराजितानि॑देवासुरैश्चापिसुपूजितानि/सर्वैश्चदोषैःपरिवर्जितानि॑कपिर्ददर्शस्वबलार्जितानि/तानिप्रयत्नाभिसमाहितानि॑मयेनसाक्षादिवनिर्मितानि/महीतलेसर्वगुणोत्तराणि॑ददर्शलङ्काधिपतेर्गृहाणि/ततोददर्शोच्छ्रितमेघरूपं॑मनोहरंकाञ्चनचारुरूपम्/रक्षोऽधिपस्यात्मबलानुरूपं॑गृहोत्तमंह्यप्रतिरूपरूपम्/महीतलेस्वर्गमिवप्रकीर्णं॑श्रियाज्वलन्तंबहुरत्नकीर्णम्/नानातरूणांकुसुमावकीर्णं॑गिरेरिवाग्रंरजसावकीर्णम्/नारीप्रवेकैरिवदीप्यमानं॑तडिद्भिरम्भोदवदर्च्यमानम्/हंसप्रवेकैरिववाह्यमानं॑श्रियायुतंखेसुकृतांविमानम्/यथानगाग्रंबहुधातुचित्रं॑यथानभश्चग्रहचन्द्रचित्रम्/ददर्शयुक्तीकृतमेघचित्रं॑विमानरत्नंबहुरत्नचित्रम्/महीकृतापर्वतराजिपूर्णा॑शैलाःकृतावृक्षवितानपूर्णाः/वृक्षाःकृताःपुष्पवितानपूर्णाः॑पुष्पंकृतंकेसरपत्रपूर्णम्/कृतानिवेश्मानिचपाण्डुराणि॑तथासुपुष्पाअपिपुष्करिण्यः/पुनश्चपद्मानिसकेसराणि॑धन्यानिचित्राणितथावनानि/पुष्पाह्वयंनामविराजमानं॑रत्नप्रभाभिश्चविवर्धमानम्/वेश्मोत्तमानामपिचोच्चमानं॑महाकपिस्तत्रमहाविमानम्/कृताश्चवैदूर्यमयाविहंगा॑रूप्यप्रवालैश्चतथाविहंगाः/चित्राश्चनानावसुभिर्भुजंगा॑जात्यानुरूपास्तुरगाःशुभाङ्गाः/प्रवालजाम्बूनदपुष्पपक्षाः॑सलीलमावर्जितजिह्मपक्षाः/कामस्यसाक्षादिवभान्तिपक्षाः॑कृताविहंगाःसुमुखाःसुपक्षाः/नियुज्यमानाश्चगजाःसुहस्ताः॑सकेसराश्चोत्पलपत्रहस्ताः/बभूवदेवीचकृतासुहस्ता॑लक्ष्मीस्तथापद्मिनिपद्महस्ता/इतीवतद्गृहमभिगम्यशोभनं॑सविस्मयोनगमिवचारुशोभनम्/पुनश्चतत्परमसुगन्धिसुन्दरं॑हिमात्ययेनगमिवचारुकन्दरम्/ततःसतांकपिरभिपत्यपूजितां॑चरन्पुरींदशमुखबाहुपालिताम्/अदृश्यतांजनकसुतांसुपूजितां॑सुदुःखितांपतिगुणवेगनिर्जिताम्/ततस्तदाबहुविधभावितात्मनः॑कृतात्मनोजनकसुतांसुवर्त्मनः/अपश्यतोऽभवदतिदुःखितंमनः॑सुचक्षुषःप्रविचरतोमहात्मनः/तस्यालयवरिष्ठस्यमध्येविपुलमायतम्/ददर्शभवनश्रेष्ठंहनूमान्मारुतात्मजः/अर्धयोजनविस्तीर्णमायतंयोजनंहितत्/भवनंराक्षसेन्द्रस्यबहुप्रासादसंकुलम्/मार्गमाणस्तुवैदेहींसीतामायतलोचनाम्/सर्वतःपरिचक्रामहनूमानरिसूदनः/चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैवच/परिक्षिप्तमसंबाधंरक्ष्यमाणमुदायुधैः/राक्षसीभिश्चपत्नीभीरावणस्यनिवेशनम्/आहृताभिश्चविक्रम्यराजकन्याभिरावृतम्/तन्नक्रमकराकीर्णंतिमिंगिलझषाकुलम्/वायुवेगसमाधूतंपन्नगैरिवसागरम्/याहिवैश्वरणेलक्ष्मीर्याचेन्द्रेहरिवाहने/सारावणगृहेसर्वानित्यमेवानपायिनी/याचराज्ञःकुबेरस्ययमस्यवरुणस्यच/तादृशीतद्विशिष्टावाऋद्धीरक्षोगृहेष्विह/तस्यहर्म्यस्यमध्यस्थंवेश्मचान्यत्सुनिर्मितम्/बहुनिर्यूहसंकीर्णंददर्शपवनात्मजः/ब्रह्मणोऽर्थेकृतंदिव्यंदिवियद्विश्वकर्मणा/विमानंपुष्पकंनामसर्वरत्नविभूषितम्/परेणतपसालेभेयत्कुबेरःपितामहात्/कुबेरमोजसाजित्वालेभेतद्राक्षसेश्वरः/ईहामृगसमायुक्तैःकार्यस्वरहिरण्मयैः/सुकृतैराचितंस्तम्भैःप्रदीप्तमिवचश्रिया/मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्/कूटागारैःशुभाकारैःसर्वतःसमलंकृतम्/ज्वलनार्कप्रतीकाशंसुकृतंविश्वकर्मणा/हेमसोपानसंयुक्तंचारुप्रवरवेदिकम्/जालवातायनैर्युक्तंकाञ्चनैःस्थाटिकैरपि/इन्द्रनीलमहानीलमणिप्रवरवेदिकम्/विमानंपुष्पकंदिव्यमारुरोहमहाकपिः/तत्रस्थःसतदागन्धंपानभक्ष्यान्नसंभवम्/दिव्यंसंमूर्छितंजिघ्रन्रूपवन्तमिवानिलम्/सगन्धस्तंमहासत्त्वंबन्धुर्बन्धुमिवोत्तमम्/इतएहीत्युवाचेवतत्रयत्रसरावणः/ततस्तांप्रस्थितःशालांददर्शमहतींशुभाम्/रावणस्यमनःकान्तांकान्तामिववरस्त्रियम्/मणिसोपानविकृतांहेमजालविराजिताम्/स्फाटिकैरावृततलांदन्तान्तरितरूपिकाम्/मुक्ताभिश्चप्रवालैश्चरूप्यचामीकरैरपि/विभूषितांमणिस्तम्भैःसुबहुस्तम्भभूषिताम्/समैरृजुभिरत्युच्चैःसमन्तात्सुविभूषितैः/स्तम्भैःपक्षैरिवात्युच्चैर्दिवंसंप्रस्थितामिव/महत्याकुथयास्त्रीणंपृथिवीलक्षणाङ्कया/पृथिवीमिवविस्तीर्णांसराष्ट्रगृहमालिनीम्/नादितांमत्तविहगैर्दिव्यगन्धाधिवासिताम्/परार्ध्यास्तरणोपेतांरक्षोऽधिपनिषेविताम्/धूम्रामगरुधूपेनविमलांहंसपाण्डुराम्/चित्रांपुष्पोपहारेणकल्माषीमिवसुप्रभाम्/मनःसंह्लादजननींवर्णस्यापिप्रसादिनीम्/तांशोकनाशिनींदिव्यांश्रियःसंजननीमिव/इन्द्रियाणीन्द्रियार्थैस्तुपञ्चपञ्चभिरुत्तमैः/तर्पयामासमातेवतदारावणपालिता/स्वर्गोऽयंदेवलोकोऽयमिन्द्रस्येयंपुरीभवेत्/सिद्धिर्वेयंपराहिस्यादित्यमन्यतमारुतिः/प्रध्यायतइवापश्यत्प्रदीपांस्तत्रकाञ्चनान्/धूर्तानिवमहाधूर्तैर्देवनेनपराजितान्/दीपानांचप्रकाशेनतेजसारावणस्यच/अर्चिर्भिर्भूषणानांचप्रदीप्तेत्यभ्यमन्यत/ततोऽपश्यत्कुथासीनंनानावर्णाम्बरस्रजम्/सहस्रंवरनारीणांनानावेषविभूषितम्/परिवृत्तेऽर्धरात्रेतुपाननिद्रावशंगतम्/क्रीडित्वोपरतंरात्रौसुष्वापबलवत्तदा/तत्प्रसुप्तंविरुरुचेनिःशब्दान्तरभूषणम्/निःशब्दहंसभ्रमरंयथापद्मवनंमहत्/तासांसंवृतदन्तानिमीलिताक्षाणिमारुतिः/अपश्यत्पद्मगन्धीनिवदनानिसुयोषिताम्/प्रबुद्धानीवपद्मानितासांभूत्वाक्षपाक्षये/पुनःसंवृतपत्राणिरात्राविवबभुस्तदा/इमानिमुखपद्मानिनियतंमत्तषट्पदाः/अम्बुजानीवफुल्लानिप्रार्थयन्तिपुनःपुनः/इतिवामन्यतश्रीमानुपपत्त्यामहाकपिः/मेनेहिगुणतस्तानिसमानिसलिलोद्भवैः/सातस्यशुशुभेशालाताभिःस्त्रीभिर्विराजिता/शारदीवप्रसन्नाद्यौस्ताराभिरभिशोभिता/सचताभिःपरिवृतःशुशुभेराक्षसाधिपः/यथाह्युडुपतिःश्रीमांस्ताराभिरभिसंवृतः/याश्च्यवन्तेऽम्बरात्ताराःपुण्यशेषसमावृताः/इमास्ताःसंगताःकृत्स्नाइतिमेनेहरिस्तदा/ताराणामिवसुव्यक्तंमहतीनांशुभार्चिषाम्/प्रभावर्णप्रसादाश्चविरेजुस्तत्रयोषिताम्/व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः/पानव्यायामकालेषुनिद्रापहृतचेतसः/व्यावृत्ततिलकाःकाश्चित्काश्चिदुद्भ्रान्तनूपुराः/पार्श्वेगलितहाराश्चकाश्चित्परमयोषितः/मुखाहारवृताश्चान्याःकाश्चित्प्रस्रस्तवाससः/व्याविद्धरशनादामाःकिशोर्यइववाहिताः/सुकुण्डलधराश्चान्याविच्छिन्नमृदितस्रजः/गजेन्द्रमृदिताःफुल्लालताइवमहावने/चन्द्रांशुकिरणाभाश्चहाराःकासांचिदुत्कटाः/हंसाइवबभुःसुप्ताःस्तनमध्येषुयोषिताम्/अपरासांचवैदूर्याःकादम्बाइवपक्षिणः/हेमसूत्राणिचान्यासांचक्रवाकाइवाभवन्/हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः/आपगाइवतारेजुर्जघनैःपुलिनैरिव/किङ्किणीजालसंकाशास्ताहेमविपुलाम्बुजाः/भावग्राहायशस्तीराःसुप्तानद्यइवाबभुः/मृदुष्वङ्गेषुकासांचित्कुचाग्रेषुचसंस्थिताः/बभूवुर्भूषणानीवशुभाभूषणराजयः/अंशुकान्ताश्चकासांचिन्मुखमारुतकम्पिताः/उपर्युपरिवक्त्राणांव्याधूयन्तेपुनःपुनः/ताःपाताकाइवोद्धूताःपत्नीनांरुचिरप्रभाः/नानावर्णसुवर्णानांवक्त्रमूलेषुरेजिरे/ववल्गुश्चात्रकासांचित्कुण्डलानिशुभार्चिषाम्/मुखमारुतसंसर्गान्मन्दंमन्दंसुयोषिताम्/शर्करासवगन्धःसप्रकृत्यासुरभिःसुखः/तासांवदननिःश्वासःसिषेवेरावणंतदा/रावणाननशङ्काश्चकाश्चिद्रावणयोषितः/मुखानिस्मसपत्नीनामुपाजिघ्रन्पुनःपुनः/अत्यर्थंसक्तमनसोरावणेतावरस्त्रियः/अस्वतन्त्राःसपत्नीनांप्रियमेवाचरंस्तदा/बाहूनुपनिधायान्याःपारिहार्यविभूषिताः/अंशुकानिचरम्याणिप्रमदास्तत्रशिश्यिरे/अन्यावक्षसिचान्यस्यास्तस्याःकाचित्पुनर्भुजम्/अपरात्वङ्कमन्यस्यास्तस्याश्चाप्यपराभुजौ/ऊरुपार्श्वकटीपृष्ठमन्योन्यस्यसमाश्रिताः/परस्परनिविष्टाङ्ग्योमदस्नेहवशानुगाः/अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाःसुमध्यमाः/एकीकृतभुजाःसर्वाःसुषुपुस्तत्रयोषितः/अन्योन्यभुजसूत्रेणस्त्रीमालाग्रथिताहिसा/मालेवग्रथितासूत्रेशुशुभेमत्तषट्पदा/लतानांमाधवेमासिफुल्लानांवायुसेवनात्/अन्योन्यमालाग्रथितंसंसक्तकुसुमोच्चयम्/व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम्/आसीद्वनमिवोद्धूतंस्त्रीवनंरावणस्यतत्/उचितेष्वपिसुव्यक्तंनतासांयोषितांतदा/विवेकःशक्यआधातुंभूषणाङ्गाम्बरस्रजाम्/रावणेसुखसंविष्टेताःस्त्रियोविविधप्रभाः/ज्वलन्तःकाञ्चनादीपाःप्रेक्षन्तानिमिषाइव/राजर्षिपितृदैत्यानांगन्धर्वाणांचयोषितः/रक्षसांचाभवन्कन्यास्तस्यकामवशंगताः/नतत्रकाचित्प्रमदाप्रसह्य॑वीर्योपपन्नेनगुणेनलब्धा/नचान्यकामापिनचान्यपूर्वा॑विनावरार्हांजनकात्मजांतु/नचाकुलीनानचहीनरूपा॑नादक्षिणानानुपचारयुक्ता/भार्याभवत्तस्यनहीनसत्त्वा॑नचापिकान्तस्यनकामनीया/बभूवबुद्धिस्तुहरीश्वरस्य॑यदीदृशीराघवधर्मपत्नी/इमायथाराक्षसराजभार्याः॑सुजातमस्येतिहिसाधुबुद्धेः/पुनश्चसोऽचिन्तयदार्तरूपो॑ध्रुवंविशिष्टागुणतोहिसीता/अथायमस्यांकृतवान्महात्मा॑लङ्केश्वरःकष्टमनार्यकर्म/तत्रदिव्योपमंमुख्यंस्फाटिकंरत्नभूषितम्/अवेक्षमाणोहनुमान्ददर्शशयनासनम्/तस्यचैकतमेदेशेसोऽग्र्यमाल्यविभूषितम्/ददर्शपाण्डुरंछत्रंताराधिपतिसंनिभम्/बालव्यजनहस्ताभिर्वीज्यमानंसमन्ततः/गन्धैश्चविविधैर्जुष्टंवरधूपेनधूपितम्/परमास्तरणास्तीर्णमाविकाजिनसंवृतम्/दामभिर्वरमाल्यानांसमन्तादुपशोभितम्/तस्मिञ्जीमूतसंकाशंप्रदीप्तोत्तमकुण्डलम्/लोहिताक्षंमहाबाहुंमहारजतवाससं/लोहितेनानुलिप्ताङ्गंचन्दनेनसुगन्धिना/संध्यारक्तमिवाकाशेतोयदंसतडिद्गुणम्/वृतमाभरणैर्दिव्यैःसुरूपंकामरूपिणम्/सवृक्षवनगुल्माढ्यंप्रसुप्तमिवमन्दरम्/क्रीडित्वोपरतंरात्रौवराभरणभूषितम्/प्रियंराक्षसकन्यानांराक्षसानांसुखावहम्/पीत्वाप्युपरतंचापिददर्शसमहाकपिः/भास्करेशयनेवीरंप्रसुप्तंराक्षसाधिपम्/निःश्वसन्तंयथानागंरावणंवानरोत्तमः/आसाद्यपरमोद्विग्नःसोऽपासर्पत्सुभीतवत्/अथारोहणमासाद्यवेदिकान्तरमाश्रितः/सुप्तंराक्षसशार्दूलंप्रेक्षतेस्ममहाकपिः/शुशुभेराक्षसेन्द्रस्यस्वपतःशयनोत्तमम्/गन्धहस्तिनिसंविष्टेयथाप्रस्रवणंमहत्/काञ्चनाङ्गदनद्धौचददर्शसमहात्मनः/विक्षिप्तौराक्षसेन्द्रस्यभुजाविन्द्रध्वजोपमौ/ऐरावतविषाणाग्रैरापीडितकृतव्रणौ/वज्रोल्लिखितपीनांसौविष्णुचक्रपरिक्षितौ/पीनौसमसुजातांसौसंगतौबलसंयुतौ/सुलक्षणनखाङ्गुष्ठौस्वङ्गुलीतललक्षितौ/संहतौपरिघाकारौवृत्तौकरिकरोपमौ/विक्षिप्तौशयनेशुभ्रेपञ्चशीर्षाविवोरगौ/शशक्षतजकल्पेनसुशीतेनसुगन्धिना/चन्दनेनपरार्ध्येनस्वनुलिप्तौस्वलंकृतौ/उत्तमस्त्रीविमृदितौगन्धोत्तमनिषेवितौ/यक्षपन्नगगन्धर्वदेवदानवराविणौ/ददर्शसकपिस्तस्यबाहूशयनसंस्थितौ/मन्दरस्यान्तरेसुप्तौमहार्हीरुषिताविव/ताभ्यांसपरिपूर्णाभ्यांभुजाभ्यांराक्षसाधिपः/शुशुभेऽचलसंकाशःशृङ्गाभ्यामिवमन्दरः/चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः/मृष्टान्नरससंयुक्तःपानगन्धपुरःसरः/तस्यराक्षससिंहस्यनिश्चक्राममुखान्महान्/शयानस्यविनिःश्वासःपूरयन्निवतद्गृहम्/मुक्तामणिविचित्रेणकाञ्चनेनविराजता/मुकुटेनापवृत्तेनकुण्डलोज्ज्वलिताननम्/रक्तचन्दनदिग्धेनतथाहारेणशोभिता/पीनायतविशालेनवक्षसाभिविराजितम्/पाण्डुरेणापविद्धेनक्षौमेणक्षतजेक्षणम्/महार्हेणसुसंवीतंपीतेनोत्तमवाससा/माषराशिप्रतीकाशंनिःश्वसन्तंभुजङ्गवत्/गाङ्गेमहतितोयान्तेप्रसुतमिवकुञ्जरम्/चतुर्भिःकाञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम्/प्रकाशीकृतसर्वाङ्गंमेघंविद्युद्गणैरिव/पादमूलगताश्चापिददर्शसुमहात्मनः/पत्नीःसप्रियभार्यस्यतस्यरक्षःपतेर्गृहे/शशिप्रकाशवदनावरकुण्डलभूषिताः/अम्लानमाल्याभरणाददर्शहरियूथपः/नृत्तवादित्रकुशलाराक्षसेन्द्रभुजाङ्कगाः/वराभरणधारिण्योनिषन्नाददृशेकपिः/वज्रवैदूर्यगर्भाणिश्रवणान्तेषुयोषिताम्/ददर्शतापनीयानिकुण्डलान्यङ्गदानिच/तासांचन्द्रोपमैर्वक्त्रैःशुभैर्ललितकुण्डलैः/विरराजविमानंतन्नभस्तारागणैरिव/मदव्यायामखिन्नास्ताराक्षसेन्द्रस्ययोषितः/तेषुतेष्ववकाशेषुप्रसुप्तास्तनुमध्यमाः/काचिद्वीणांपरिष्वज्यप्रसुप्तासंप्रकाशते/महानदीप्रकीर्णेवनलिनीपोतमाश्रिता/अन्याकक्षगतेनैवमड्डुकेनासितेक्षणा/प्रसुप्ताभामिनीभातिबालपुत्रेववत्सला/पटहंचारुसर्वाङ्गीपीड्यशेतेशुभस्तनी/चिरस्यरमणंलब्ध्वापरिष्वज्येवकामिनी/काचिदंशंपरिष्वज्यसुप्ताकमललोचना/निद्रावशमनुप्राप्तासहकान्तेवभामिनी/अन्याकनकसंकाशैर्मृदुपीनैर्मनोरमैः/मृदङ्गंपरिपीड्याङ्गैःप्रसुप्तामत्तलोचना/भुजपार्श्वान्तरस्थेनकक्षगेणकृशोदरी/पणवेनसहानिन्द्यासुप्तामदकृतश्रमा/डिण्डिमंपरिगृह्यान्यातथैवासक्तडिण्डिमा/प्रसुप्तातरुणंवत्समुपगूह्येवभामिनी/काचिदाडम्बरंनारीभुजसंभोगपीडितम्/कृत्वाकमलपत्राक्षीप्रसुप्तामदमोहिता/कलशीमपविद्ध्यान्याप्रसुप्ताभातिभामिनी/वसन्तेपुष्पशबलामालेवपरिमार्जिता/पाणिभ्यांचकुचौकाचित्सुवर्णकलशोपमौ/उपगूह्याबलासुप्तानिद्राबलपराजिता/अन्याकमलपत्राक्षीपूर्णेन्दुसदृशानना/अन्यामालिङ्ग्यसुश्रोणीप्रसुप्तामदविह्वला/आतोद्यानिविचित्राणिपरिष्वज्यवरस्त्रियः/निपीड्यचकुचैःसुप्ताःकामिन्यःकामुकानिव/तासामेकान्तविन्यस्तेशयानांशयनेशुभे/ददर्शरूपसंपन्नामपरांसकपिःस्त्रियम्/मुक्तामणिसमायुक्तैर्भूषणैःसुविभूषिताम्/विभूषयन्तीमिवचस्वश्रियाभवनोत्तमम्/गौरींकनकवर्णाभामिष्टामन्तःपुरेश्वरीम्/कपिर्मन्दोदरींतत्रशयानांचारुरूपिणीम्/सतांदृष्ट्वामहाबाहुर्भूषितांमारुतात्मजः/तर्कयामाससीतेतिरूपयौवनसंपदा/हर्षेणमहतायुक्तोननन्दहरियूथपः/आस्ह्पोटयामासचुचुम्बपुच्छं॑ननन्दचिक्रीडजगौजगाम/स्तम्भानरोहन्निपपातभूमौ॑निदर्शयन्स्वांप्रकृतिंकपीनाम्/अवधूयचतांबुद्धिंबभूवावस्थितस्तदा/जगामचापरांचिन्तांसीतांप्रतिमहाकपिः/नरामेणवियुक्तासास्वप्तुमर्हतिभामिनी/नभोक्तुंनाप्यलंकर्तुंनपानमुपसेवितुम्/नान्यंनरमुपस्थातुंसुराणामपिचेश्वरम्/नहिरामसमःकश्चिद्विद्यतेत्रिदशेष्वपि/अन्येयमितिनिश्चित्यपानभूमौचचारसः/क्रीडितेनापराःक्लान्तागीतेनचतथापराः/नृत्तेनचापराःक्लान्ताःपानविप्रहतास्तथा/मुरजेषुमृदङ्गेषुपीठिकासुचसंस्थिताः/तथास्तरणमुख्य्येषुसंविष्टाश्चापराःस्त्रियः/अङ्गनानांसहस्रेणभूषितेनविभूषणैः/रूपसंलापशीलेनयुक्तगीतार्थभाषिणा/देशकालाभियुक्तेनयुक्तवाक्याभिधायिना/रताभिरतसंसुप्तंददर्शहरियूथपः/तासांमध्येमहाबाहुःशुशुभेराक्षसेश्वरः/गोष्ठेमहतिमुख्यानांगवांमध्येयथावृषः/सराक्षसेन्द्रःशुशुभेताभिःपरिवृतःस्वयम्/करेणुभिर्यथारण्यंपरिकीर्णोमहाद्विपः/सर्वकामैरुपेतांचपानभूमिंमहात्मनः/ददर्शकपिशार्दूलस्तस्यरक्षःपतेर्गृहे/मृगाणांमहिषाणांचवराहाणांचभागशः/तत्रन्यस्तानिमांसानिपानभूमौददर्शसः/रौक्मेषुचविशलेषुभाजनेष्वर्धभक्षितान्/ददर्शकपिशार्दूलमयूरान्कुक्कुटांस्तथा/वराहवार्ध्राणसकान्दधिसौवर्चलायुतान्/शल्यान्मृगमयूरांश्चहनूमानन्ववैक्षत/कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान्/महिषानेकशल्यांश्चछागांश्चकृतनिष्ठितान्/लेख्यमुच्चावचंपेयंभोज्यानिविविधानिच/तथाम्ललवणोत्तंसैर्विविधैरागषाडवैः/हारनूपुरकेयूरैरपविद्धैर्महाधनैः/पानभाजनविक्षिप्तैःफलैश्चविविधैरपि/कृतपुष्पोपहाराभूरधिकंपुष्यतिश्रियम्/तत्रतत्रचविन्यस्तैःसुश्लिष्टैःशयनासनैः/पानभूमिर्विनावह्निंप्रदीप्तेवोपलक्ष्यते/बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः/मांसैःकुशलसंयुक्तैःपानभूमिगतैःपृथक्/दिव्याःप्रसन्नाविविधाःसुराःकृतसुराअपि/शर्करासवमाध्वीकाःपुष्पासवफलासवाः/वासचूर्णैश्चविविधैर्मृष्टास्तैस्तैःपृथक्पृथक्/संतताशुशुभेभूमिर्माल्यैश्चबहुसंस्थितैः/हिरण्मयैश्चकरकैर्भाजनैःस्फाटिकैरपि/जाम्बूनदमयैश्चान्यैःकरकैरभिसंवृता/राजतेषुचकुम्भेषुजाम्बूनदमयेषुच/पानश्रेष्ठंतदाभूरिकपिस्तत्रददर्शह/सोऽपश्यच्छातकुम्भानिशीधोर्मणिमयानिच/राजतानिचपूर्णानिभाजनानिमहाकपिः/क्वचिदर्धावशेषाणिक्वचित्पीतानिसर्वशः/क्वचिन्नैवप्रपीतानिपानानिसददर्शह/क्वचिद्भक्ष्यांश्चविविधान्क्वचित्पानानिभागशः/क्वचिदन्नावशेषाणिपश्यन्वैविचचारह/क्वचित्प्रभिन्नैःकरकैःक्वचिदालोडितैर्घटैः/क्वचित्संपृक्तमाल्यानिजलानिचफलानिच/शयनान्यत्रनारीणांशून्यानिबहुधापुनः/परस्परंसमाश्लिष्यकाश्चित्सुप्तावराङ्गनाः/काचिच्चवस्त्रमन्यस्याअपहृत्योपगुह्यच/उपगम्याबलासुप्तानिद्राबलपराजिता/तासामुच्छ्वासवातेनवस्त्रंमाल्यंचगात्रजम्/नात्यर्थंस्पन्दतेचित्रंप्राप्यमन्दमिवानिलम्/चन्दनस्यचशीतस्यशीधोर्मधुरसस्यच/विविधस्यचमाल्यस्यपुष्पस्यविविधस्यच/बहुधामारुतस्तत्रगन्धंविविधमुद्वहन्/स्नानानांचन्दनानांचधूपानांचैवमूर्छितः/प्रववौसुरभिर्गन्धोविमानेपुष्पकेतदा/श्यामावदातास्तत्रान्याःकाश्चित्कृष्णावराङ्गनाः/काश्चित्काञ्चनवर्णाङ्ग्यःप्रमदाराक्षसालये/तासांनिद्रावशत्वाच्चमदनेनविमूर्छितम्/पद्मिनीनांप्रसुप्तानांरूपमासीद्यथैवहि/एवंसर्वमशेषेणरावणान्तःपुरंकपिः/ददर्शसुमहातेजानददर्शचजानकीम्/निरीक्षमाणश्चततस्ताःस्त्रियःसमहाकपिः/जगाममहतींचिन्तांधर्मसाध्वसशङ्कितः/परदारावरोधस्यप्रसुप्तस्यनिरीक्षणम्/इदंखलुममात्यर्थंधर्मलोपंकरिष्यति/नहिमेपरदाराणांदृष्टिर्विषयवर्तिनी/अयंचात्रमयादृष्टःपरदारपरिग्रहः/तस्यप्रादुरभूच्चिन्तापुनरन्यामनस्विनः/निश्चितैकान्तचित्तस्यकार्यनिश्चयदर्शिनी/कामंदृष्ट्वामयासर्वाविश्वस्तारावणस्त्रियः/नतुमेमनसःकिंचिद्वैकृत्यमुपपद्यते/मनोहिहेतुःसर्वेषामिन्द्रियाणांप्रवर्तते/शुभाशुभास्ववस्थासुतच्चमेसुव्यवस्थितम्/नान्यत्रहिमयाशक्यावैदेहीपरिमार्गितुम्/स्त्रियोहिस्त्रीषुदृश्यन्तेसदासंपरिमार्गणे/यस्यसत्त्वस्ययायोनिस्तस्यांतत्परिमार्ग्यते/नशक्यंप्रमदानष्टामृगीषुपरिमार्गितुम्/तदिदंमार्गितंतावच्छुद्धेनमनसामया/रावणान्तःपुरंसरंदृश्यतेनचजानकी/देवगन्धर्वकन्याश्चनागकन्याश्चवीर्यवान्/अवेक्षमाणोहनुमान्नैवापश्यतजानकीम्/तामपश्यन्कपिस्तत्रपश्यंश्चान्यावरस्त्रियः/अपक्रम्यतदावीरःप्रध्यातुमुपचक्रमे/सतस्यमध्येभवनस्यवानरो॑लतागृहांश्चित्रगृहान्निशागृहान्/जगामसीतांप्रतिदर्शनोत्सुको॑नचैवतांपश्यतिचारुदर्शनाम्/सचिन्तयामासततोमहाकपिः॑प्रियामपश्यन्रघुनन्दनस्यताम्/ध्रुवंनुसीताम्रियतेयथानमे॑विचिन्वतोदर्शनमेतिमैथिली/साराक्षसानांप्रवरेणबाला॑स्वशीलसंरक्षणतत्परासती/अनेननूनंप्रतिदुष्टकर्मणा॑हताभवेदार्यपथेपरेस्थिता/विरूपरूपाविकृताविवर्चसो॑महाननादीर्घविरूपदर्शनाः/समीक्ष्यसाराक्षसराजयोषितो॑भयाद्विनष्टाजनकेश्वरात्मजा/सीतामदृष्ट्वाह्यनवाप्यपौरुषं॑विहृत्यकालंसहवानरैश्चिरम्/नमेऽस्तिसुग्रीवसमीपगागतिः॑सुतीक्ष्णदण्डोबलवांश्चवानरः/दृष्टमन्तःपुरंसर्वंदृष्ट्वारावणयोषितः/नसीतादृश्यतेसाध्वीवृथाजातोममश्रमः/किंनुमांवानराःसर्वेगतंवक्ष्यन्तिसंगताः/गत्वातत्रत्वयावीरकिंकृतंतद्वदस्वनः/अदृष्ट्वाकिंप्रवक्ष्यामितामहंजनकात्मजाम्/ध्रुवंप्रायमुपेष्यन्तिकालस्यव्यतिवर्तने/किंवावक्ष्यतिवृद्धश्चजाम्बवानङ्गदश्चसः/गतंपारंसमुद्रस्यवानराश्चसमागताः/अनिर्वेदःश्रियोमूलमनिर्वेदःपरंसुखम्/भूयस्तावद्विचेष्यामिनयत्रविचयःकृतः/अनिर्वेदोहिसततंसर्वार्थेषुप्रवर्तकः/करोतिसफलंजन्तोःकर्मयच्चकरोतिसः/तस्मादनिर्वेदकृतंयत्नंचेष्टेऽहमुत्तमम्/अदृष्टांश्चविचेष्यामिदेशान्रावणपालितान्/आपानशालाविचितास्तथापुष्पगृहाणिच/चित्रशालाश्चविचिताभूयःक्रीडागृहाणिच/निष्कुटान्तररथ्याश्चविमानानिचसर्वशः/इतिसंचिन्त्यभूयोऽपिविचेतुमुपचक्रमे/भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि/उत्पतन्निपतंश्चापितिष्ठन्गच्छन्पुनःक्वचित्/अपावृण्वंश्चद्वाराणिकपाटान्यवघट्टयन्/प्रविशन्निष्पतंश्चापिप्रपतन्नुत्पतन्नपि/सर्वमप्यवकाशंसविचचारमहाकपिः/चतुरङ्गुलमात्रोऽपिनावकाशःसविद्यते/रावणान्तःपुरेतस्मिन्यंकपिर्नजगामसः/प्राकरान्तररथ्याश्चवेदिकश्चैत्यसंश्रयाः/श्वभ्राश्चपुष्करिण्यश्चसर्वंतेनावलोकितम्/राक्षस्योविविधाकाराविरूपाविकृतास्तथा/दृष्टाहनूमतातत्रनतुसाजनकात्मजा/रूपेणाप्रतिमालोकेवराविद्याधरस्त्रियः/दृटाहनूमतातत्रनतुराघवनन्दिनी/नागकन्यावरारोहाःपूर्णचन्द्रनिभाननाः/दृष्टाहनूमतातत्रनतुसीतासुमध्यमा/प्रमथ्यराक्षसेन्द्रेणनागकन्याबलाद्धृताः/दृष्टाहनूमतातत्रनसाजनकनन्दिनी/सोऽपश्यंस्तांमहाबाहुःपश्यंश्चान्यावरस्त्रियः/विषसादमहाबाहुर्हनूमान्मारुतात्मजः/उद्योगंवानरेन्द्राणंप्लवनंसागरस्यच/व्यर्थंवीक्ष्यानिलसुतश्चिन्तांपुनरुपागमत्/अवतीर्यविमानाच्चहनूमान्मारुतात्मजः/चिन्तामुपजगामाथशोकोपहतचेतनः/विमानात्तुसुसंक्रम्यप्राकारंहरियूथपः/हनूमान्वेगवानासीद्यथाविद्युद्घनान्तरे/संपरिक्रम्यहनुमान्रावणस्यनिवेशनान्/अदृष्ट्वाजानकींसीतामब्रवीद्वचनंकपिः/भूयिष्ठंलोडितालङ्कारामस्यचरताप्रियम्/नहिपश्यामिवैदेहींसीतांसर्वाङ्गशोभनाम्/पल्वलानितटाकानिसरांसिसरितस्तथा/नद्योऽनूपवनान्ताश्चदुर्गाश्चधरणीधराः/लोडितावसुधासर्वानचपश्यामिजानकीम्/इहसंपातिनासीतारावणस्यनिवेशने/आख्यातागृध्रराजेननचपश्यामितामहम्/किंनुसीताथवैदेहीमैथिलीजनकात्मजा/उपतिष्ठेतविवशारावणंदुष्टचारिणम्/क्षिप्रमुत्पततोमन्येसीतामादायरक्षसः/बिभ्यतोरामबाणानामन्तरापतिताभवेत्/अथवाह्रियमाणायाःपथिसिद्धनिषेविते/मन्येपतितमार्यायाहृदयंप्रेक्ष्यसागरम्/रावणस्योरुवेगेनभुजाभ्यांपीडितेनच/तयामन्येविशालाक्ष्यात्यक्तंजीवितमार्यया/उपर्युपरिवानूनंसागरंक्रमतस्तदा/विवेष्टमानापतितासमुद्रेजनकात्मजा/आहोक्षुद्रेणचानेनरक्षन्तीशीलमात्मनः/अबन्धुर्भक्षितासीतारावणेनतपस्विनी/अथवाराक्षसेन्द्रस्यपत्नीभिरसितेक्षणा/अदुष्टादुष्टभावाभिर्भक्षितासाभविष्यति/संपूर्णचन्द्रप्रतिमंपद्मपत्रनिभेक्षणम्/रामस्यध्यायतीवक्त्रंपञ्चत्वंकृपणागता/हारामलक्ष्मणेत्येवहायोध्येतिचमैथिली/विलप्यबहुवैदेहीन्यस्तदेहाभविष्यति/अथवानिहितामन्येरावणस्यनिवेशने/नूनंलालप्यतेमन्दंपञ्जरस्थेवशारिका/जनकस्यकुलेजातारामपत्नीसुमध्यमा/कथमुत्पलपत्राक्षीरावणस्यवशंव्रजेत्/विनष्टावाप्रनष्टावामृतावाजनकात्मजा/रामस्यप्रियभार्यस्यननिवेदयितुंक्षमम्/निवेद्यमानेदोषःस्याद्दोषःस्यादनिवेदने/कथंनुखलुकर्तव्यंविषमंप्रतिभातिमे/अस्मिन्नेवंगतेकर्येप्राप्तकालंक्षमंचकिम्/भवेदितिमतिंभूयोहनुमान्प्रविचारयन्/यदिसीतामदृष्ट्वाहंवानरेन्द्रपुरीमितः/गमिष्यामिततःकोमेपुरुषार्थोभविष्यति/ममेदंलङ्घनंव्यर्थंसागरस्यभविष्यति/प्रवेशश्चिवलङ्कायाराक्षसानांचदर्शनम्/किंवावक्ष्यतिसुग्रीवोहरयोवसमागताः/किष्किन्धांसमनुप्राप्तौतौवादशरथात्मजौ/गत्वातुयदिकाकुत्स्थंवक्ष्यामिपरमप्रियम्/नदृष्टेतिमयासीताततस्त्यक्ष्यन्तिजीवितम्/परुषंदारुणंक्रूरंतीक्ष्णमिन्द्रियतापनम्/सीतानिमित्तंदुर्वाक्यंश्रुत्वासनभविष्यति/तंतुकृच्छ्रगतंदृष्ट्वापञ्चत्वगतमानसं/भृशानुरक्तोमेधावीनभविष्यतिलक्ष्मणः/विनष्टौभ्रातरौश्रुत्वाभरतोऽपिमरिष्यति/भरतंचमृतंदृष्ट्वाशत्रुघ्नोनभविष्यति/पुत्रान्मृतान्समीक्ष्याथनभविष्यन्तिमातरः/कौसल्याचसुमित्राचकैकेयीचनसंशयः/कृतज्ञःसत्यसंधश्चसुग्रीवःप्लवगाधिपः/रामंतथागतंदृष्ट्वाततस्त्यक्ष्यन्तिजीवितम्/दुर्मनाव्यथितादीनानिरानन्दातपस्विनी/पीडिताभर्तृशोकेनरुमात्यक्ष्यतिजीवितम्/वालिजेनतुदुःखेनपीडिताशोककर्शिता/पञ्चत्वगमनेराज्ञस्तारापिनभविष्यति/मातापित्रोर्विनाशेनसुग्रीवव्यसनेनच/कुमारोऽप्यङ्गदःकस्माद्धारयिष्यतिजीवितम्/भर्तृजेनतुशोकेनअभिभूतावनौकसः/शिरांस्यभिहनिष्यन्तितलैर्मुष्टिभिरेवच/सान्त्वेनानुप्रदानेनमानेनचयशस्विना/लालिताःकपिराजेनप्राणांस्त्यक्ष्यन्तिवानराः/नवनेषुनशैलेषुननिरोधेषुवापुनः/क्रीडामनुभविष्यन्तिसमेत्यकपिकुञ्जराः/सपुत्रदाराःसामात्याभर्तृव्यसनपीडिताः/शैलाग्रेभ्यःपतिष्यन्तिसमेत्यविषमेषुच/विषमुद्बन्धनंवापिप्रवेशंज्वलनस्यवा/उपवासमथोशस्त्रंप्रचरिष्यन्तिवानराः/घोरमारोदनंमन्येगतेमयिभविष्यति/इक्ष्वाकुकुलनाशश्चनाशश्चैववनौकसाम्/सोऽहंनैवगमिष्यामिकिष्किन्धांनगरीमितः/नहिशक्ष्याम्यहंद्रष्टुंसुग्रीवंमैथिलींविना/मय्यगच्छतिचेहस्थेधर्मात्मानौमहारथौ/आशयातौधरिष्येतेवनराश्चमनस्विनः/हस्तादानोमुखादानोनियतोवृक्षमूलिकः/वानप्रस्थोभविष्यामिअदृष्ट्वाजनकात्मजाम्/सागरानूपजेदेशेबहुमूलफलोदके/चितांकृत्वाप्रवेक्ष्यामिसमिद्धमरणीसुतम्/उपविष्टस्यवासम्यग्लिङ्गिनंसाधयिष्यतः/शरीरंभक्षयिष्यन्तिवायसाःश्वापदानिच/इदमप्यृषिभिर्दृष्टंनिर्याणमितिमेमतिः/सम्यगापःप्रवेक्ष्यामिनचेत्पश्यामिजानकीम्/सुजातमूलासुभगाकीर्तिमालायशस्विनी/प्रभग्नाचिररात्रीयंममसीतामपश्यतः/तापसोवाभविष्यामिनियतोवृक्षमूलिकः/नेतःप्रतिगमिष्यामितामदृष्ट्वासितेक्षणाम्/यदीतःप्रतिगच्छामिसीतामनधिगम्यताम्/अङ्गदःसहितैःसर्वैर्वानरैर्नभविष्यति/विनाशेबहवोदोषाजीवन्प्राप्नोतिभद्रकम्/तस्मात्प्राणान्धरिष्यामिध्रुवोजीवतिसंगमः/एवंबहुविधंदुःखंमनसाधारयन्मुहुः/नाध्यगच्छत्तदापारंशोकस्यकपिकुञ्जरः/रावणंवावधिष्यामिदशग्रीवंमहाबलम्/काममस्तुहृतासीताप्रत्याचीर्णंभविष्यति/अथवैनंसमुत्क्षिप्यउपर्युपरिसागरम्/रामायोपहरिष्यामिपशुंपशुपतेरिव/इतिचिन्तासमापन्नःसीतामनधिगम्यताम्/ध्यानशोकापरीतात्माचिन्तयामासवानरः/यावत्सीतांनपश्यामिरामपत्नींयशस्विनीम्/तावदेतांपुरींलङ्कांविचिनोमिपुनःपुनः/संपातिवचनाच्चापिरामंयद्यानयाम्यहम्/अपश्यन्राघवोभार्यांनिर्दहेत्सर्ववानरान्/इहैवनियताहारोवत्स्यामिनियतेन्द्रियः/नमत्कृतेविनश्येयुःसर्वेतेनरवानराः/अशोकवनिकाचापिमहतीयंमहाद्रुमा/इमामभिगमिष्यामिनहीयंविचितामया/वसून्रुद्रांस्तथादित्यानश्विनौमरुतोऽपिच/नमस्कृत्वागमिष्यामिरक्षसांशोकवर्धनः/जित्वातुराक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम्/संप्रदास्यामिरामायायथासिद्धिंतपस्विने/समुहूर्तमिवध्यात्वाचिन्ताविग्रथितेन्द्रियः/उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः/नमोऽस्तुरामायसलक्ष्मणाय॑देव्यैचतस्यैजनकात्मजायै/नमोऽस्तुरुद्रेन्द्रयमानिलेभ्यो॑नमोऽस्तुचन्द्रार्कमरुद्गणेभ्यः/सतेभ्यस्तुनमस्कृत्वासुग्रीवायचमारुतिः/दिशःसर्वाःसमालोक्यअशोकवनिकांप्रति/सगत्वामनसापूर्वमशोकवनिकांशुभाम्/उत्तरंचिन्तयामासवानरोमारुतात्मजः/ध्रुवंतुरक्षोबहुलाभविष्यतिवनाकुला/अशोकवनिकाचिन्त्यासर्वसंस्कारसंस्कृता/रक्षिणश्चात्रविहितानूनंरक्षन्तिपादपान्/भगवानपिसर्वात्मानातिक्षोभंप्रवायति/संक्षिप्तोऽयंमयात्माचरामार्थेरावणस्यच/सिद्धिंमेसंविधास्यन्तिदेवाःसर्षिगणास्त्विह/ब्रह्मास्वयम्भूर्भगवान्देवाश्चैवदिशन्तुमे/सिद्धिमग्निश्चवायुश्चपुरुहूतश्चवज्रधृत्/वरुणःपाशहस्तश्चसोमादित्यैतथैवच/अश्विनौचमहात्मानौमरुतःसर्वएवच/सिद्धिंसर्वाणिभूतानिभूतानांचैवयःप्रभुः/दास्यन्तिममयेचान्येअदृष्टाःपथिगोचराः/तदुन्नसंपाण्डुरदन्तमव्रणं॑शुचिस्मितंपद्मपलाशलोचनम्/द्रक्ष्येतदार्यावदनंकदान्वहं॑प्रसन्नताराधिपतुल्यदर्शनम्/क्षुद्रेणपापेननृशंसकर्मणा॑सुदारुणालांकृतवेषधारिणा/बलाभिभूताअबलातपस्विनी॑कथंनुमेदृष्टपथेऽद्यसाभवेत्/समुहूर्तमिवध्यत्वामनसाचाधिगम्यताम्/अवप्लुतोमहातेजाःप्राकारंतस्यवेश्मनः/सतुसंहृष्टसर्वाङ्गःप्राकारस्थोमहाकपिः/पुष्पिताग्रान्वसन्तादौददर्शविविधान्द्रुमान्/सालानशोकान्भव्यांश्चचम्पकांश्चसुपुष्पितान्/उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि/अथाम्रवणसंछन्नांलताशतसमावृताम्/ज्यामुक्तइवनाराचःपुप्लुवेवृक्षवाटिकाम्/सप्रविष्यविचित्रांतांविहगैरभिनादिताम्/राजतैःकाञ्चनैश्चैवपादपैःसर्वतोवृताम्/विहगैर्मृगसंघैश्चविचित्रांचित्रकाननाम्/उदितादित्यसंकाशांददर्शहनुमान्कपिः/वृतांनानाविधैर्वृक्षैःपुष्पोपगफलोपगैः/कोकिलैर्भृङ्गराजैश्चमत्तैर्नित्यनिषेविताम्/प्रहृष्टमनुजेकलेमृगपक्षिसमाकुले/मत्तबर्हिणसंघुष्टांनानाद्विजगणायुताम्/मार्गमाणोवरारोहांराजपुत्रीमनिन्दिताम्/सुखप्रसुप्तान्विहगान्बोधयामासवानरः/उत्पतद्भिर्द्विजगणैःपक्षैःसालाःसमाहताः/अनेकवर्णाविविधामुमुचुःपुष्पवृष्टयः/पुष्पावकीर्णःशुशुभेहनुमान्मारुतात्मजः/अशोकवनिकामध्येयथापुष्पमयोगिरिः/दिशःसर्वाभिदावन्तंवृक्षषण्डगतंकपिम्/दृष्ट्वासर्वाणिभूतानिवसन्तइतिमेनिरे/वृक्षेभ्यःपतितैःपुष्पैरवकीर्णापृथग्विधैः/रराजवसुधातत्रप्रमदेवविभूषिता/तरस्विनातेतरवस्तरसाभिप्रकम्पिताः/कुसुमानिविचित्राणिससृजुःकपिनातदा/निर्धूतपत्रशिखराःशीर्णपुष्पफलद्रुमाः/निक्षिप्तवस्त्राभरणाधूर्ताइवपराजिताः/हनूमतावेगवताकम्पितास्तेनगोत्तमाः/पुष्पपर्णफलान्याशुमुमुचुःपुष्पशालिनः/विहंगसंघैर्हीनास्तेस्कन्धमात्राश्रयाद्रुमाः/बभूवुरगमाःसर्वेमारुतेनेवनिर्धुताः/विधूतकेशीयुवतिर्यथामृदितवर्णिका/निष्पीतशुभदन्तौष्ठीनखैर्दन्तैश्चविक्षता/तथालाङ्गूलहस्तैश्चचरणाभ्यांचमर्दिता/बभूवाशोकवनिकाप्रभग्नवरपादपा/महालतानांदामानिव्यधमत्तरसाकपिः/यथाप्रावृषिविन्ध्यस्यमेघजालानिमारुतः/सतत्रमणिभूमीश्चराजतीश्चमनोरमाः/तथाकाञ्चनभूमीश्चविचरन्ददृशेकपिः/वापीश्चविविधाकाराःपूर्णाःपरमवारिणा/महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः/मुक्ताप्रवालसिकतास्फटिकान्तरकुट्टिमाः/काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः/फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः/नत्यूहरुतसंघुष्टाहंससारसनादिताः/दीर्घाभिर्द्रुमयुक्ताभिःसरिद्भिश्चसमन्ततः/अमृतोपमतोयाभिःशिवाभिरुपसंस्कृताः/लताशतैरवतताःसन्तानकसमावृताः/नानागुल्मावृतवनाःकरवीरकृतान्तराः/ततोऽम्बुधरसंकाशंप्रवृद्धशिखरंगिरिम्/विचित्रकूटंकूटैश्चसर्वतःपरिवारितम्/शिलागृहैरवततंनानावृक्षैःसमावृतम्/ददर्शकपिशार्दूलोरम्यंजगतिपर्वतम्/ददर्शचनगात्तस्मान्नदींनिपतितांकपिः/अङ्कादिवसमुत्पत्यप्रियस्यपतितांप्रियाम्/जलेनिपतिताग्रैश्चपादपैरुपशोभिताम्/वार्यमाणामिवक्रुद्धांप्रमदांप्रियबन्धुभिः/पुनरावृत्ततोयांचददर्शसमहाकपिः/प्रसन्नामिवकान्तस्यकान्तांपुनरुपस्थिताम्/तस्यादूरात्सपद्मिन्योनानाद्विजगणायुताः/ददर्शकपिशार्दूलोहनुमान्मारुतात्मजः/कृत्रिमांदीर्घिकांचापिपूर्णांशीतेनवारिणा/मणिप्रवरसोपानांमुक्तासिकतशोभिताम्/विविधैर्मृगसंघैश्चविचित्रांचित्रकाननाम्/प्रासादैःसुमहद्भिश्चनिर्मितैर्विश्वकर्मणा/काननैःकृत्रिमैश्चापिसर्वतःसमलंकृताम्/येकेचित्पादपास्तत्रपुष्पोपगफलोपगाः/सच्छत्राःसवितर्दीकाःसर्वेसौवर्णवेदिकाः/लताप्रतानैर्बहुभिःपर्णैश्चबहुभिर्वृताम्/काञ्चनींशिंशुपामेकांददर्शसमहाकपिः/सोऽपश्यद्भूमिभागांश्चगर्तप्रस्रवणानिच/सुवर्णवृक्षानपरान्ददर्शशिखिसंनिभान्/तेषांद्रुमाणांप्रभयामेरोरिवमहाकपिः/अमन्यततदावीरःकाञ्चनोऽस्मीतिवानरः/तांकाञ्चनैस्तरुगणैर्मारुतेनचवीजिताम्/किङ्किणीशतनिर्घोषांदृष्ट्वाविस्मयमागमत्/सुपुष्पिताग्रांरुचिरांतरुणाङ्कुरपल्लवाम्/तामारुह्यमहावेगःशिंशपांपर्णसंवृताम्/इतोद्रक्ष्यामिवैदेहींरामदर्शनलालसाम्/इतश्चेतश्चदुःखार्तांसंपतन्तींयदृच्छया/अशोकवनिकाचेयंदृढंरम्यादुरात्मनः/चम्पकैश्चन्दनैश्चापिबकुलैश्चविभूषिता/इयंचनलिनीरम्याद्विजसंघनिषेविता/इमांसाराममहिषीनूनमेष्यतिजानकी/सारामराममहिषीराघवस्यप्रियासदा/वनसंचारकुशलानूनमेष्यतिजानकी/अथवामृगशावाक्षीवनस्यास्यविचक्षणा/वनमेष्यतिसाचेहरामचिन्तानुकर्शिता/रामशोकाभिसंतप्तासादेवीवामलोचना/वनवासरतानित्यमेष्यतेवनचारिणी/वनेचराणांसततंनूनंस्पृहयतेपुरा/रामस्यदयिताभार्याजनकस्यसुतासती/संध्याकालमनाःश्यामाध्रुवमेष्यतिजानकी/नदींचेमांशिवजलांसंध्यार्थेवरवर्णिनी/तस्याश्चाप्यनुरूपेयमशोकवनिकाशुभा/शुभायापार्थिवेन्द्रस्यपत्नीरामस्यसंमिता/यदिजिवतिसादेवीताराधिपनिभानना/आगमिष्यतिसावश्यमिमांशिवजलांनदीम्/एवंतुमत्वाहनुमान्महात्मा॑प्रतीक्षमाणोमनुजेन्द्रपत्नीम्/अवेक्षमाणश्चददर्शसर्वं॑सुपुष्पितेपर्णघनेनिलीनः/सवीक्षमाणस्तत्रस्थोमार्गमाणश्चमैथिलीम्/अवेक्षमाणश्चमहींसर्वांतामन्ववैक्षत/सन्तानकलताभिश्चपादपैरुपशोभिताम्/दिव्यगन्धरसोपेतांसर्वतःसमलंकृताम्/तांसनन्दनसंकाशांमृगपक्षिभिरावृताम्/हर्म्यप्रासादसंबाधांकोकिलाकुलनिःस्वनाम्/काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्/बह्वासनकुथोपेतांबहुभूमिगृहायुताम्/सर्वर्तुकुसुमैरम्यैःफलवद्भिश्चपादपैः/पुष्पितानामशोकानांश्रियासूर्योदयप्रभाम्/प्रदीप्तामिवतत्रस्थोमारुतिःसमुदैक्षत/निष्पत्रशाखांविहगैःक्रियमाणामिवासकृत्/विनिष्पतद्भिःशतशश्चित्रैःपुष्पावतंसकैः/आमूलपुष्पनिचितैरशोकैःशोकनाशनैः/पुष्पभारातिभारैश्चस्पृशद्भिरिवमेदिनीम्/कर्णिकारैःकुसुमितैःकिंशुकैश्चसुपुष्पितैः/सदेशःप्रभयातेषांप्रदीप्तइवसर्वतः/पुंनागाःसप्तपर्णाश्चचम्पकोद्दालकास्तथा/विवृद्धमूलाबहवःशोभन्तेस्मसुपुष्पिताः/शातकुम्भनिभाःकेचित्केचिदग्निशिखोपमाः/नीलाञ्जननिभाःकेचित्तत्राशोकाःसहस्रशः/नन्दनंविविधोद्यानंचित्रंचैत्ररथंयथा/अतिवृत्तमिवाचिन्त्यंदिव्यंरम्यंश्रियावृतम्/द्वितीयमिवचाकाशंपुष्पज्योतिर्गणायुतम्/पुष्परत्नशतैश्चित्रंपञ्चमंसागरंयथा/सर्वर्तुपुष्पैर्निचितंपादपैर्मधुगन्धिभिः/नानानिनादैरुद्यानंरम्यंमृगगणैर्द्विजैः/अनेकगन्धप्रवहंपुण्यगन्धंमनोरमम्/शैलेन्द्रमिवगन्धाढ्यंद्वितीयंगन्धमादनम्/अशोकवनिकायांतुतस्यांवानरपुंगवः/सददर्शाविदूरस्थंचैत्यप्रासादमूर्जितम्/मध्येस्तम्भसहस्रेणस्थितंकैलासपाण्डुरम्/प्रवालकृतसोपानंतप्तकाञ्चनवेदिकम्/मुष्णन्तमिवचक्षूंषिद्योतमानमिवश्रिया/विमलंप्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्/ततोमलिनसंवीतांराक्षसीभिःसमावृताम्/उपवासकृशांदीनांनिःश्वसान्तींपुनःपुनः/ददर्शशुक्लपक्षादौचन्द्ररेखामिवामलाम्/मन्दप्रख्यायमानेनरूपेणरुचिरप्रभाम्/पिनद्धांधूमजालेनशिखामिवविभावसोः/पीतेनैकेनसंवीतांक्लिष्टेनोत्तमवाससा/सपङ्कामनलंकारांविपद्मामिवपद्मिनीम्/व्रीडितांदुःखसंतप्तांपरिम्लानांतपस्विनीम्/ग्रहेणाङ्गारकेणैवपीडितामिवरोहिणीम्/अश्रुपूर्णमुखींदीनांकृशामननशेनच/शोकध्यानपरांदीनांनित्यंदुःखपरायणाम्/प्रियंजनमपश्यन्तींपश्यन्तींराक्षसीगणम्/स्वगणेनमृगींहीनांश्वगणाभिवृतामिव/नीलनागाभयावेण्याजघनंगतयैकया/सुखार्हांदुःखसंतप्तांव्यसनानामकोदिवाम्/तांसमीक्ष्यविशालाक्षीमधिकंमलिनांकृशाम्/तर्कयामाससीतेतिकारणैरुपपादिभिः/ह्रियमाणातदातेनरक्षसाकामरूपिणा/यथारूपाहिदृष्टावैतथारूपेयमङ्गना/पूर्णचन्द्राननांसुभ्रूंचारुवृत्तपयोधराम्/कुर्वन्तींप्रभयादेवींसर्वावितिमिरादिशः/तांनीलकेशींबिम्बौष्ठींसुमध्यांसुप्रतिष्ठिताम्/सीतांपद्मपलाशाक्षींमन्मथस्यरतिंयथा/इष्टांसर्वस्यजगतःपूर्णचन्द्रप्रभामिव/भूमौसुतनुमासीनांनियतामिवतापसीम्/निःश्वासबहुलांभीरुंभुजगेन्द्रवधूमिव/शोकजालेनमहताविततेननराजतीम्/संसक्तांधूमजालेनशिखामिवविभावसोः/तांस्मृतीमिवसंदिघ्दामृद्धिंनिपतितामिव/विहतामिवचश्रद्धामाशांप्रतिहतामिव/सोपसर्गांयथासिद्धिंबुद्धिंसकलुषामिव/अभूतेनापवादेनकीर्तिंनिपतितामिव/रामोपरोधव्यथितांरक्षोहरणकर्शिताम्/अबलांमृगशावाक्षींवीक्षमाणांततस्ततः/बाष्पाम्बुप्रतिपूर्णेनकृष्णवक्त्राक्षिपक्ष्मणा/वदनेनाप्रसन्नेननिःश्वसन्तींपुनःपुनः/मलपङ्कधरांदीनांमण्डनार्हाममण्डिताम्/प्रभांनक्षत्रराजस्यकालमेघैरिवावृताम्/तस्यसंदिदिहेबुद्धिर्मुहुःसीतांनिरीक्ष्यतु/आम्नायानामयोगेनविद्यांप्रशिथिलामिव/दुःखेनबुबुधेसीतांहनुमाननलंकृताम्/संस्कारेणयथाहीनांवाचमर्थान्तरंगताम्/तांसमीक्ष्यविशालाक्षींराजपुत्रीमनिन्दिताम्/तर्कयामाससीतेतिकारणैरुपपादयन्/वैदेह्यायानिचाङ्गेषुतदारामोऽन्वकीर्तयत्/तान्याभरणजालानिगात्रशोभीन्यलक्षयत्/सुकृतौकर्णवेष्टौचश्वदंष्ट्रौचसुसंस्थितौ/मणिविद्रुमचित्राणिहस्तेष्वाभरणानिच/श्यामानिचिरयुक्तत्वात्तथासंस्थानवन्तिच/तान्येवैतानिमन्येऽहंयानिरामोऽव्नकीर्तयत्/तत्रयान्यवहीनानितान्यहंनोपलक्षये/यान्यस्यानावहीनानितानीमानिनसंशयः/पीतंकनकपट्टाभंस्रस्तंतद्वसनंशुभम्/उत्तरीयंनगासक्तंतदादृष्टंप्लवंगमैः/भूषणानिचमुख्यानिदृष्टानिधरणीतले/अनयैवापविद्धानिस्वनवन्तिमहान्तिच/इदंचिरगृहीतत्वाद्वसनंक्लिष्टवत्तरम्/तथाहिनूनंतद्वर्णंतथाश्रीमद्यथेतरत्/इयंकनकवर्णाङ्गीरामस्यमहिषीप्रिया/प्रनष्टापिसतीयस्यमनसोनप्रणश्यति/इयंसायत्कृतेरामश्चतुर्भिःपरितप्यते/कारुण्येनानृशंस्येनशोकेनमदनेनच/स्त्रीप्रनष्टेतिकारुण्यादाश्रितेत्यानृशंस्यतः/पत्नीनष्टेतिशोकेनप्रियेतिमदनेनच/अस्यादेव्यायथारूपमङ्गप्रत्यङ्गसौष्ठवम्/रामस्यचयथारूपंतस्येयमसितेक्षणा/अस्यादेव्यामनस्तस्मिंस्तस्यचास्यांप्रतिष्ठितम्/तेनेयंसचधर्मात्मामुहूर्तमपिजीवति/दुष्करंकुरुतेरामोयइमांमत्तकाशिनीम्/सीतांविनामहाबाहुर्मुहूर्तमपिजीवति/एवंसीतांतदादृष्ट्वाहृष्टःपवनसंभवः/जगाममनसारामंप्रशशंसचतंप्रभुम्/प्रशस्यतुप्रशस्तव्यांसीतांतांहरिपुंगवः/गुणाभिरामंरामंचपुनश्चिन्तापरोऽभवत्/समुहूर्तमिवध्यात्वाबाष्पपर्याकुलेक्षणः/सीतामाश्रित्यतेजस्वीहनुमान्विललापह/मान्यागुरुविनीतस्यलक्ष्मणस्यगुरुप्रिया/यदिसीतापिदुःखार्ताकालोहिदुरतिक्रमः/रामस्यव्यवसायज्ञालक्ष्मणस्यचधीमतः/नात्यर्थंक्षुभ्यतेदेवीगङ्गेवजलदागमे/तुल्यशीलवयोवृत्तांतुल्याभिजनलक्षणाम्/राघवोऽर्हतिवैदेहींतंचेयमसितेक्षणा/तांदृष्ट्वानवहेमाभांलोककान्तामिवश्रियम्/जगाममनसारामंवचनंचेदमब्रवीत्/अस्याहेतोर्विशालाक्ष्याहतोवालीमहाबलः/रावणप्रतिमोवीर्येकबन्धश्चनिपातितः/विराधश्चहतःसंख्येराक्षसोभीमविक्रमः/वनेरामेणविक्रम्यमहेन्द्रेणेवशम्बरः/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/निहतानिजनस्थानेशरैरग्निशिखोपमैः/खरश्चनिहतःसंख्येत्रिशिराश्चनिपातितः/दूषणश्चमहातेजारामेणविदितात्मना/ऐश्वर्यंवानराणांचदुर्लभंवालिपालितम्/अस्यानिमित्तेसुग्रीवःप्राप्तवांल्लोकसत्कृतम्/सागरश्चमयाक्रान्तःश्रीमान्नदनदीपतिः/अस्याहेतोर्विशालाक्ष्याःपुरीचेयंनिरीक्षिता/यदिरामःसमुद्रान्तांमेदिनींपरिवर्तयेत्/अस्याःकृतेजगच्चापियुक्तमित्येवमेमतिः/राज्यंवात्रिषुलोकेषुसीतावाजनकात्मजा/त्रैलोक्यराज्यंसकलंसीतायानाप्नुयात्कलाम्/इयंसाधर्मशीलस्यमैथिलस्यमहात्मनः/सुताजनकराजस्यसीताभर्तृदृढव्रता/उत्थितामेदिनींभित्त्वाक्षेत्रेहलमुखक्षते/पद्मरेणुनिभैःकीर्णाशुभैःकेदारपांसुभिः/विक्रान्तस्यार्यशीलस्यसंयुगेष्वनिवर्तिनः/स्नुषादशरथस्यैषाज्येष्ठाराज्ञोयशस्विनी/धर्मज्ञस्यकृतज्ञस्यरामस्यविदितात्मनः/इयंसादयिताभार्याराक्षसीवशमागता/सर्वान्भोगान्परित्यज्यभर्तृस्नेहबलात्कृता/अचिन्तयित्वादुःखानिप्रविष्टानिर्जनंवनम्/संतुष्टाफलमूलेनभर्तृशुश्रूषणेरता/यापरांभजतेप्रीतिंवनेऽपिभवनेयथा/सेयंकनकवर्णाङ्गीनित्यंसुस्मितभाषिणी/सहतेयातनामेतामनर्थानामभागिनी/इमांतुशीलसंपन्नांद्रष्टुमिच्छतिराघवः/रावणेनप्रमथितांप्रपामिवपिपासितः/अस्यानूनंपुनर्लाभाद्राघवःप्रीतिमेष्यति/राजाराज्यपरिभ्रष्टःपुनःप्राप्येवमेदिनीम्/कामभोगैःपरित्यक्ताहीनाबन्धुजनेनच/धारयत्यात्मनोदेहंतत्समागमकाङ्क्षिणी/नैषापश्यतिराक्षस्योनेमान्पुष्पफलद्रुमान्/एकस्थहृदयानूनंराममेवानुपश्यति/भर्तानामपरंनार्याभूषणंभूषणादपि/एषाहिरहितातेनशोभनार्हानशोभते/दुष्करंकुरुतेरामोहीनोयदनयाप्रभुः/धारयत्यात्मनोदेहंनदुःखेनावसीदति/इमामसितकेशान्तांशतपत्रनिभेक्षणाम्/सुखार्हांदुःखितांदृष्ट्वाममापिव्यथितंमनः/क्षितिक्षमापुष्करसंनिभाक्षी॑यारक्षिताराघवलक्ष्मणाभ्याम्/साराक्षसीभिर्विकृतेक्षणाभिः॑संरक्ष्यतेसंप्रतिवृक्षमूले/हिमहतनलिनीवनष्टशोभा॑व्यसनपरम्परयानिपीड्यमाना/सहचररहितेवचक्रवाकी॑जनकसुताकृपणांदशांप्रपन्ना/अस्याहिपुष्पावनताग्रशाखाः॑शोकंदृढंवैजनयत्यशोकाः/हिमव्यपायेनचमन्दरश्मिर्॑अभ्युत्थितोनैकसहस्ररश्मिः/इत्येवमर्थंकपिरन्ववेक्ष्य॑सीतेयमित्येवनिविष्टबुद्धिः/संश्रित्यतस्मिन्निषसादवृक्षे॑बलीहरीणामृषभस्तरस्वी/ततःकुमुदषण्डाभोनिर्मलंनिर्मलःस्वयम्/प्रजगामनभश्चन्द्रोहंसोनीलमिवोदकम्/साचिव्यमिवकुर्वन्सप्रभयानिर्मलप्रभः/चन्द्रमारश्मिभिःशीतैःसिषेवेपवनात्मजम्/सददर्शततःसीतांपूर्णचन्द्रनिभाननाम्/शोकभारैरिवन्यस्तांभारैर्नावमिवाम्भसि/दिदृक्षमाणोवैदेहींहनूमान्मारुतात्मजः/सददर्शाविदूरस्थाराक्षसीर्घोरदर्शनाः/एकाक्षीमेककर्णांचकर्णप्रावरणांतथा/अकर्णांशङ्कुकर्णांचमस्तकोच्छ्वासनासिकाम्/अतिकायोत्तमाङ्गींचतनुदीर्घशिरोधराम्/ध्वस्तकेशींतथाकेशींकेशकम्बलधारिणीम्/लम्बकर्णललाटांचलम्बोदरपयोधराम्/लम्बौष्ठींचिबुकौष्ठींचलम्बास्यांलम्बजानुकाम्/ह्रस्वांदीर्घांचकुब्जांचविकटांवामनांतथा/करालांभुग्नवस्त्रांचपिङ्गाक्षींविकृताननाम्/विकृताःपिङ्गलाःकालीःक्रोधनाःकलहप्रियाः/कालायसमहाशूलकूटमुद्गरधारिणीः/वराहमृगशार्दूलमहिषाजशिवामुखाः/गजोष्ट्रहयपादाश्चनिखातशिरसोऽपराः/एकहस्तैकपादाश्चखरकर्ण्यश्वकर्णिकाः/गोकर्णीर्हस्तिकर्णीश्चहरिकर्णीस्तथापराः/अनासाअतिनासाश्चतिर्यन्नासाविनासिकाः/गजसंनिभनासाश्चललाटोच्छ्वासनासिकाः/हस्तिपादामहापादागोपादाःपादचूलिकाः/अतिमात्रशिरोग्रीवाअतिमात्रकुचोदरीः/अतिमात्रास्यनेत्राश्चदीर्घजिह्वानखास्तथा/अजामुखीर्हस्तिमुखीर्गोमुखीःसूकरीमुखीः/हयोष्ट्रखरवक्त्राश्चराक्षसीर्घोरदर्शनाः/शूलमुद्गरहस्ताश्चक्रोधनाःकलहप्रियाः/करालाधूम्रकेशीश्चरक्षसीर्विकृताननाः/पिबन्तीःसततंपानंसदामांससुराप्रियाः/मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः/ताददर्शकपिश्रेष्ठोरोमहर्षणदर्शनाः/स्कन्धवन्तमुपासीनाःपरिवार्यवनस्पतिम्/तस्याधस्ताच्चतांदेवींराजपुत्रीमनिन्दिताम्/लक्षयामासलक्ष्मीवान्हनूमाञ्जनकात्मजाम्/निष्प्रभांशोकसंतप्तांमलसंकुलमूर्धजाम्/क्षीणपुण्यांच्युतांभूमौतारांनिपतितामिव/चारित्र्यव्यपदेशाढ्यांभर्तृदर्शनदुर्गताम्/भूषणैरुत्तमैर्हीनांभर्तृवात्सल्यभूषिताम्/राक्षसाधिपसंरुद्धांबन्धुभिश्चविनाकृताम्/वियूथांसिंहसंरुद्धांबद्धांगजवधूमिव/चन्द्रलेखांपयोदान्तेशारदाभ्रैरिवावृताम्/क्लिष्टरूपामसंस्पर्शादयुक्तामिववल्लकीम्/सीतांभर्तृहितेयुक्तामयुक्तांरक्षसांवशे/अशोकवनिकामध्येशोकसागरमाप्लुताम्/ताभिःपरिवृतांतत्रसग्रहामिवरोहिणीम्/ददर्शहनुमान्देवींलतामकुसुमामिव/सामलेनचदिग्धाङ्गीवपुषाचाप्यलंकृता/मृणालीपङ्कदिघ्देवविभातिचनभातिच/मलिनेनतुवस्त्रेणपरिक्लिष्टेनभामिनीम्/संवृतांमृगशावाक्षींददर्शहनुमान्कपिः/तांदेवींदीनवदनामदीनांभर्तृतेजसा/रक्षितांस्वेनशीलेनसीतामसितलोचनाम्/तांदृष्ट्वाहनुमान्सीतांमृगशावनिभेक्षणाम्/मृगकन्यामिवत्रस्तांवीक्षमाणांसमन्ततः/दहन्तीमिवनिःश्वासैर्वृक्षान्पल्लवधारिणः/संघातमिवशोकानांदुःखस्योर्मिमिवोत्थिताम्/तांक्षामांसुविभक्ताङ्गींविनाभरणशोभिनीम्/प्रहर्षमतुलंलेभेमारुतिःप्रेक्ष्यमैथिलीम्/हर्षजानिचसोऽश्रूणितांदृष्ट्वामदिरेक्षणाम्/मुमोचहनुमांस्तत्रनमश्चक्रेचराघवम्/नमस्कृत्वाचरामायलक्ष्मणायचवीर्यवान्/सीतादर्शनसंहृष्टोहनूमान्संवृतोऽभवत्/तथाविप्रेक्षमाणस्यवनंपुष्पितपादपम्/विचिन्वतश्चवैदेहींकिंचिच्छेषानिशाभवत्/षडङ्गवेदविदुषांक्रतुप्रवरयाजिनाम्/शुश्रावब्रह्मघोषांश्चविरात्रेब्रह्मरक्षसाम्/अथमङ्गलवादित्रैःशब्दैःश्रोत्रमनोहरैः/प्राबोध्यतमहाबाहुर्दशग्रीवोमहाबलः/विबुध्यतुयथाकालंराक्षसेन्द्रःप्रतावपान्/स्रस्तमाल्याम्बरधरोवैदेहीमन्वचिन्तयत्/भृशंनियुक्तस्तस्यांचमदनेनमदोत्कटः/नसतंराक्षसःकामंशशाकात्मनिगूहितुम्/ससर्वाभरणैर्युक्तोबिभ्रच्छ्रियमनुत्तमाम्/तांनगैर्विविधैर्जुष्टांसर्वपुष्पफलोपगैः/वृतांपुष्करिणीभिश्चनानापुष्पोपशोभिताम्/सदामदैश्चविहगैर्विचित्रांपरमाद्भुताम्/ईहामृगैश्चविविधैश्वृतांदृष्टिमनोहरैः/वीथीःसंप्रेक्षमाणश्चमणिकाञ्चनतोरणाः/नानामृगगणाकीर्णांफलैःप्रपतितैर्वृताम्/अशोकवनिकामेवप्राविशत्संततद्रुमाम्/अङ्गनाशतमात्रंतुतंव्रजन्तमनुव्रजत्/महेन्द्रमिवपौलस्त्यंदेवगन्धर्वयोषितः/दीपिकाःकाञ्चनीःकाश्चिज्जगृहुस्तत्रयोषितः/बालव्यजनहस्ताश्चतालवृन्तानिचापराः/काञ्चनैरपिभृङ्गारैर्जह्रुःसलिलमग्रतः/मण्डलाग्रानसींश्चैवगृह्यान्याःपृष्ठतोययुः/काचिद्रत्नमयींपात्रींपूर्णांपानस्यभामिनी/दक्षिणादक्षिणेनैवतदाजग्राहपाणिना/राजहंसप्रतीकाशंछत्रंपूर्णशशिप्रभम्/सौवर्णदण्डमपरागृहीत्वापृष्ठतोययौ/निद्रामदपरीताक्ष्योरावणस्योत्तमस्त्रियः/अनुजग्मुःपतिंवीरंघनंविद्युल्लताइव/ततःकाञ्चीनिनादंचनूपुराणांचनिःस्वनम्/शुश्रावपरमस्त्रीणांसकपिर्मारुतात्मजः/तंचाप्रतिमकर्माणमचिन्त्यबलपौरुषम्/द्वारदेशमनुप्राप्तंददर्शहनुमान्कपिः/दीपिकाभिरनेकाभिःसमन्तादवभासितम्/गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः/कामदर्पमदैर्युक्तंजिह्मताम्रायतेक्षणम्/समक्षमिवकन्दर्पमपविद्धशरासनम्/मथितामृतफेनाभमरजोवस्त्रमुत्तमम्/सलीलमनुकर्षन्तंविमुक्तंसक्तमङ्गदे/तंपत्रविटपेलीनःपत्रपुष्पघनावृतः/समीपमुपसंक्रान्तंनिध्यातुमुपचक्रमे/अवेक्षमाणश्चततोददर्शकपिकुञ्जरः/रूपयौवनसंपन्नारावणस्यवरस्त्रियः/ताभिःपरिवृतोराजासुरूपाभिर्महायशाः/तन्मृगद्विजसंघुष्टंप्रविष्टःप्रमदावनम्/क्षीबोविचित्राभरणःशङ्कुकर्णोमहाबलः/तेनविश्रवसःपुत्रःसदृष्टोराक्षसाधिपः/वृतःपरमनारीभिस्ताराभिरिवचन्द्रमाः/तंददर्शमहातेजास्तेजोवन्तंमहाकपिः/रावणोऽयंमहाबाहुरितिसंचिन्त्यवानरः/अवप्लुतोमहातेजाहनूमान्मारुतात्मजः/सतथाप्युग्रतेजाःसन्निर्धूतस्तस्यतेजसा/पत्रगुह्यान्तरेसक्तोहनूमान्संवृतोऽभवत्/सतामसितकेशान्तांसुश्रोणींसंहतस्तनीम्/दिदृक्षुरसितापाङ्गीमुपावर्ततरावणः/तस्मिन्नेवततःकालेराजपुत्रीत्वनिन्दिता/रूपयौवनसंपन्नंभूषणोत्तमभूषितम्/ततोदृष्ट्वैववैदेहीरावणंराक्षसाधिपम्/प्रावेपतवरारोहाप्रवातेकदलीयथा/ऊरुभ्यामुदरंछाद्यबाहुभ्यांचपयोधरौ/उपविष्टाविशालाक्षीरुदन्तीवरवर्णिनी/दशग्रीवस्तुवैदेहींरक्षितांराक्षसीगणैः/ददर्शदीनांदुःखार्तंनावंसन्नामिवार्णवे/असंवृतायामासीनांधरण्यांसंशितव्रताम्/छिन्नांप्रपतितांभूमौशाखामिववनस्पतेः/मलमण्डनदिग्धाङ्गींमण्डनार्हाममण्डिताम्/समीपंराजसिंहस्यरामस्यविदितात्मनः/संकल्पहयसंयुक्तैर्यान्तीमिवमनोरथैः/शुष्यन्तींरुदतीमेकांध्यानशोकपरायणाम्/दुःखस्यान्तमपश्यन्तींरामांराममनुव्रताम्/वेष्टमानामथाविष्टांपन्नगेन्द्रवधूमिव/धूप्यमानांग्रहेणेवरोहिणींधूमकेतुना/वृत्तशीलेकुलेजातामाचारवतिधार्मिके/पुनःसंस्कारमापन्नांजातमिवचदुष्कुले/सन्नामिवमहाकीर्तिंश्रद्धामिवविमानिताम्/प्रज्ञामिवपरिक्षीणामाशांप्रतिहतामिव/आयतीमिवविध्वस्तामाज्ञांप्रतिहतामिव/दीप्तामिवदिशंकालेपूजामपहृतामिव/पद्मिनीमिवविध्वस्तांहतशूरांचमूमिव/प्रभामिवतपोध्वस्तामुपक्षीणामिवापगाम्/वेदीमिवपरामृष्टांशान्तामग्निशिखामिव/पौर्णमासीमिवनिशांराहुग्रस्तेन्दुमण्डलाम्/उत्कृष्टपर्णकमलांवित्रासितविहंगमाम्/हस्तिहस्तपरामृष्टामाकुलांपद्मिनीमिव/पतिशोकातुरांशुष्कांनदींविस्रावितामिव/परयामृजयाहीनांकृष्णपक्षेनिशामिव/सुकुमारींसुजाताङ्गींरत्नगर्भगृहोचिताम्/तप्यमानामिवोष्णेनमृणालीमचिरोद्धृताम्/गृहीतामालितांस्तम्भेयूथपेनविनाकृताम्/निःश्वसन्तींसुदुःखार्तांगजराजवधूमिव/एकयादीर्घयावेण्याशोभमानामयत्नतः/नीलयानीरदापायेवनराज्यामहीमिव/उपवासेनशोकेनध्यानेनचभयेनच/परिक्षीणांकृशांदीनामल्पाहारांतपोधनाम्/आयाचमानांदुःखार्तांप्राञ्जलिंदेवतामिव/भावेनरघुमुख्यस्यदशग्रीवपराभवम्/समीक्षमाणांरुदतीमनिन्दितां॑सुपक्ष्मताम्रायतशुक्ललोचनाम्/अनुव्रतांराममतीवमैथिलीं॑प्रलोभयामासवधायरावणः/सतांपरिवृतांदीनांनिरानन्दांतपस्विनीम्/साकारैर्मधुरैर्वाक्यैर्न्यदर्शयतरावणः/मांदृष्ट्वानागनासोरुगूहमानास्तनोदरम्/अदर्शनमिवात्मानंभयान्नेतुंत्वमिच्छसि/कामयेत्वांविशालाक्षिबहुमन्यस्वमांप्रिये/सर्वाङ्गगुणसंपन्नेसर्वलोकमनोहरे/नेहकेचिन्मनुष्यावाराक्षसाःकामरूपिणः/व्यपसर्पतुतेसीतेभयंमत्तःसमुत्थितम्/स्वधर्मेरक्षसांभीरुसर्वथैषनसंशयः/गमनंवापरस्त्रीणांहरणंसंप्रमथ्यवा/एवंचैतदकामांचनत्वांस्प्रक्ष्यामिमैथिलि/कामंकामःशरीरेमेयथाकामंप्रवर्तताम्/देविनेहभयंकार्यंमयिविश्वसिहिप्रिये/प्रणयस्वचतत्त्वेनमैवंभूःशोकलालसा/एकवेणीधराशय्याध्यानंमलिनमम्बरम्/अस्थानेऽप्युपवासश्चनैतान्यौपयिकानिते/विचित्राणिचमाल्यानिचन्दनान्यगरूणिच/विविधानिचवासांसिदिव्यान्याभरणानिच/महार्हाणिचपानानियानानिशयनानिच/गीतंनृत्तंचवाद्यंचलभमांप्राप्यमैथिलि/स्त्रीरत्नमसिमैवंभूःकुरुगात्रेषुभूषणम्/मांप्राप्यतुकथंहिस्यास्त्वमनर्हासुविग्रहे/इदंतेचारुसंजातंयौवनंव्यतिवर्तते/यदतीतंपुनर्नैतिस्रोतःशीघ्रमपामिव/त्वांकृत्वोपरतोमन्येरूपकर्तासविश्वकृत्/नहिरूपोपमात्वन्यातवास्तिशुभदर्शने/त्वांसमासाद्यवैदेहिरूपयौवनशालिनीम्/कःपुमानतिवर्तेतसाक्षादपिपितामहः/यद्यत्पश्यामितेगात्रंशीतांशुसदृशानने/तस्मिंस्तस्मिन्पृथुश्रोणिचक्षुर्ममनिबध्यते/भवमैथिलिभार्यामेमोहमेनंविसर्जय/बह्वीनामुत्तमस्त्रीणांममाग्रमहिषीभव/लोकेभ्योयानिरत्नानिसंप्रमथ्याहृतानिमे/तानितेभीरुसर्वाणिराज्यंचैतदहंचते/विजित्यपृथिवींसर्वांनानानगरमालिनीम्/जनकायप्रदास्यामितवहेतोर्विलासिनि/नेहपश्यामिलोकेऽन्यंयोमेप्रतिबलोभवेत्/पश्यमेसुमहद्वीर्यमप्रतिद्वन्द्वमाहवे/असकृत्संयुगेभग्नामयाविमृदितध्वजाः/अशक्ताःप्रत्यनीकेषुस्थातुंममसुरासुराः/इच्छमांक्रियतामद्यप्रतिकर्मतवोत्तमम्/सप्रभाण्यवसज्जन्तांतवाङ्गेभूषणानिच/साधुपश्यामितेरूपंसंयुक्तंप्रतिकर्मणा/प्रतिकर्माभिसंयुक्तादाक्षिण्येनवरानने/भुङ्क्ष्वभोगान्यथाकामंपिबभीरुरमस्वच/यथेष्टंचप्रयच्छत्वंपृथिवींवाधनानिच/ललस्वमयिविस्रब्धाधृष्टमाज्ञापयस्वच/मत्प्रभावाल्ललन्त्याश्चललन्तांबान्धवास्तव/ऋद्धिंममानुपश्यत्वंश्रियंभद्रेयशश्चमे/किंकरिष्यसिरामेणसुभगेचीरवाससा/निक्षिप्तविजयोरामोगतश्रीर्वनगोचरः/व्रतीस्थण्डिलशायीचशङ्केजीवतिवानवा/नहिवैदेहिरामस्त्वांद्रष्टुंवाप्युपलप्स्यते/पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्/नचापिममहस्तात्त्वांप्राप्तुमर्हतिराघवः/हिरण्यकशिपुःकीर्तिमिन्द्रहस्तगतामिव/चारुस्मितेचारुदतिचारुनेत्रेविलासिनि/मनोहरसिमेभीरुसुपर्णःपन्नगंयथा/क्लिष्टकौशेयवसनांतन्वीमप्यनलंकृताम्/तांदृष्ट्वास्वेषुदारेषुरतिंनोपलभाम्यहम्/अन्तःपुरनिवासिन्यःस्त्रियःसर्वगुणान्विताः/यावन्त्योममसर्वासामैश्वर्यंकुरुजानकि/ममह्यसितकेशान्तेत्रैलोक्यप्रवराःस्त्रियः/तास्त्वांपरिचरिष्यन्तिश्रियमप्सरसोयथा/यानिवैश्रवणेसुभ्रुरत्नानिचधनानिच/तानिलोकांश्चसुश्रोणिमांचभुङ्क्ष्वयथासुखम्/नरामस्तपसादेविनबलेननविक्रमैः/नधनेनमयातुल्यस्तेजसायशसापिवा/पिबविहररमस्वभुङ्क्ष्वभोगान्॑धननिचयंप्रदिशामिमेदिनींच/मयिललललनेयथासुखंत्वं॑त्वयिचसमेत्यललन्तुबान्धवास्ते/कुसुमिततरुजालसंततानि॑भ्रमरयुतानिसमुद्रतीरजानि/कनकविमलहारभूषिताङ्गी॑विहरमयासहभीरुकाननानि/तस्यतद्वचनंश्रुत्वासीतारौद्रस्यरक्षसः/आर्तादीनस्वरादीनंप्रत्युवाचशनैर्वचः/दुःखार्तारुदतीसीतावेपमानातपस्विनी/चिन्तयन्तीवरारोहापतिमेवपतिव्रता/तृणमन्तरतःकृत्वाप्रत्युवाचशुचिस्मिता/निवर्तयमनोमत्तःस्वजनेक्रियतांमनः/नमांप्रार्थयितुंयुक्तस्त्वंसिद्धिमिवपापकृत्/अकार्यंनमयाकार्यमेकपत्न्याविगर्हितम्/कुलंसंप्राप्तयापुण्यंकुलेमहतिजातया/एवमुक्त्वातुवैदेहीरावणंतंयशस्विनी/राक्षसंपृष्ठतःकृत्वाभूयोवचनमब्रवीत्/नाहमौपयिकीभार्यापरभार्यासतीतव/साधुधर्ममवेक्षस्वसाधुसाधुव्रतंचर/यथातवतथान्येषांरक्ष्यादारानिशाचर/आत्मानमुपमांकृत्वास्वेषुदारेषुरम्यताम्/अतुष्टंस्वेषुदारेषुचपलंचलितेन्द्रियम्/नयन्तिनिकृतिप्रज्ञांपरदाराःपराभवम्/इहसन्तोनवासन्तिसतोवानानुवर्तसे/वचोमिथ्याप्रणीतात्मापथ्यमुक्तंविचक्षणैः/अकृतात्मानमासाद्यराजानमनयेरतम्/समृद्धानिविनश्यन्तिराष्ट्राणिनगराणिच/तथेयंत्वांसमासाद्यलङ्कारत्नौघसंकुला/अपराधात्तवैकस्यनचिराद्विनशिष्यति/स्वकृतैर्हन्यमानस्यरावणादीर्घदर्शिनः/अभिनन्दन्तिभूतानिविनाशेपापकर्मणः/एवंत्वांपापकर्माणंवक्ष्यन्तिनिकृताजनाः/दिष्ट्यैतद्व्यसनंप्राप्तोरौद्रइत्येवहर्षिताः/शक्यालोभयितुंनाहमैश्वर्येणधनेनवा/अनन्याराघवेणाहंभास्करेणप्रभायथा/उपधायभुजंतस्यलोकनाथस्यसत्कृतम्/कथंनामोपधास्यामिभुजमन्यस्यकस्यचित्/अहमौपयिकीभार्यातस्यैववसुधापतेः/व्रतस्नातस्यविप्रस्यविद्येवविदितात्मनः/साधुरावणरामेणमांसमानयदुःखिताम्/वनेवाशितयासार्धंकरेण्वेवगजाधिपम्/मित्रमौपयिकंकर्तुंरामःस्थानंपरीप्सता/वधंचानिच्छताघोरंत्वयासौपुरुषर्षभः/वर्जयेद्वज्रमुत्सृष्टंवर्जयेदन्तकश्चिरम्/त्वद्विधंनतुसंक्रुद्धोलोकनाथःसराघवः/रामस्यधनुषःशब्दंश्रोष्यसित्वंमहास्वनम्/शतक्रतुविसृष्टस्यनिर्घोषमशनेरिव/इहशीघ्रंसुपर्वाणोज्वलितास्याइवोरगाः/इषवोनिपतिष्यन्तिरामलक्ष्मणलक्षणाः/रक्षांसिपरिनिघ्नन्तःपुर्यामस्यांसमन्ततः/असंपातंकरिष्यन्तिपतन्तःकङ्कवाससः/राक्षसेन्द्रमहासर्पान्सरामगरुडोमहान्/उद्धरिष्यतिवेगेनवैनतेयइवोरगान्/अपनेष्यतिमांभर्तात्वत्तःशीघ्रमरिंदमः/असुरेभ्यःश्रियंदीप्तांविष्णुस्त्रिभिरिवक्रमैः/जनस्थानेहतस्थानेनिहतेरक्षसांबले/अशक्तेनत्वयारक्षःकृतमेतदसाधुवै/आश्रमंतुतयोःशून्यंप्रविश्यनरसिंहयोः/गोचरंगतयोर्भ्रात्रोरपनीतात्वयाधम/नहिगन्धमुपाघ्रायरामलक्ष्मणयोस्त्वया/शक्यंसंदर्शनेस्थातुंशुनाशार्दूलयोरिव/तस्यतेविग्रहेताभ्यांयुगग्रहणमस्थिरम्/वृत्रस्येवेन्द्रबाहुभ्यांबाहोरेकस्यनिग्रहः/क्षिप्रंतवसनाथोमेरामःसौमित्रिणासह/तोयमल्पमिवादित्यःप्राणानादास्यतेशरैः/गिरिंकुबेरस्यगतोऽथवालयं॑सभांगतोवावरुणस्यराज्ञः/असंशयंदाशरथेर्नमोक्ष्यसे॑महाद्रुमःकालहतोऽशनेरिव/सीतायावचनंश्रुत्वापरुषंराक्षसाधिपः/प्रत्युवाचततःसीतांविप्रियंप्रियदर्शनाम्/यथायथासान्त्वयितावश्यःस्त्रीणांतथातथा/यथायथाप्रियंवक्तापरिभूतस्तथातथा/संनियच्छतिमेक्रोधंत्वयिकामःसमुत्थितः/द्रवतोमार्गमासाद्यहयानिवसुसारथिः/वामःकामोमनुष्याणांयस्मिन्किलनिबध्यते/जनेतस्मिंस्त्वनुक्रोशःस्नेहश्चकिलजायते/एतस्मात्कारणान्नतांघतयामिवरानने/वधार्हामवमानार्हांमिथ्याप्रव्रजितेरताम्/परुषाणिहिवाक्यानियानियानिब्रवीषिमाम्/तेषुतेषुवधोयुक्तस्तवमैथिलिदारुणः/एवमुक्त्वातुवैदेहींरावणोराक्षसाधिपः/क्रोधसंरम्भसंयुक्तःसीतामुत्तरमब्रवीत्/द्वौमासौरक्षितव्यौमेयोऽवधिस्तेमयाकृतः/ततःशयनमारोहममत्वंवरवर्णिनि/द्वाभ्यामूर्ध्वंतुमासाभ्यांभर्तारंमामनिच्छतीम्/ममत्वांप्रातराशार्थमारभन्तेमहानसे/तांतर्ज्यमानांसंप्रेक्ष्यराक्षसेन्द्रेणजानकीम्/देवगन्धर्वकन्यास्ताविषेदुर्विपुलेक्षणाः/ओष्ठप्रकारैरपरानेत्रवक्त्रैस्तथापराः/सीतामाश्वासयामासुस्तर्जितांतेनरक्षसा/ताभिराश्वासितासीतारावणंराक्षसाधिपम्/उवाचात्महितंवाक्यंवृत्तशौण्डीर्यगर्वितम्/नूनंनतेजनःकश्चिदसिन्निःश्रेयसेस्थितः/निवारयतियोनत्वांकर्मणोऽस्माद्विगर्हितात्/मांहिधर्मात्मनःपत्नींशचीमिवशचीपतेः/त्वदन्यस्त्रिषुलोकेषुप्रार्थयेन्मनसापिकः/राक्षसाधमरामस्यभार्याममिततेजसः/उक्तवानसियत्पापंक्वगतस्तस्यमोक्ष्यसे/यथादृप्तश्चमातङ्गःशशश्चसहितौवने/तथाद्विरदवद्रामस्त्वंनीचशशवत्स्मृतः/सत्वमिक्ष्वाकुनाथंवैक्षिपन्निहनलज्जसे/चक्षुषोविषयंतस्यनतावदुपगच्छसि/इमेतेनयनेक्रूरेविरूपेकृष्णपिङ्गले/क्षितौनपतितेकस्मान्मामनार्यनिरीक्षितः/तस्यधर्मात्मनःपत्नींस्नुषांदशरथस्यच/कथंव्याहरतोमांतेनजिह्वापापशीर्यते/असंदेशात्तुरामस्यतपसश्चानुपालनात्/नत्वांकुर्मिदशग्रीवभस्मभस्मार्हतेजसा/नापहर्तुमहंशक्यातस्यरामस्यधीमतः/विधिस्तववधार्थायविहितोनात्रसंशयः/शूरेणधनदभ्राताबलैःसमुदितेनच/अपोह्यरामंकस्माद्धिदारचाउर्यंत्वयाकृतम्/सीतायावचनंश्रुत्वारावणोराक्षसाधिपः/विवृत्यनयनेक्रूरेजानकीमन्ववैक्षत/नीलजीमूतसंकाशोमहाभुजशिरोधरः/सिंहसत्त्वगतिःश्रीमान्दीप्तजिह्वोग्रलोचनः/चलाग्रमकुटःप्रांशुश्चित्रमाल्यानुलेपनः/रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः/श्रोणीसूत्रेणमहतामेककेनसुसंवृतः/अमृतोत्पादनद्धेनभुजंगेनेवमन्दरः/तरुणादित्यवर्णाभ्यांकुण्डलाभ्यांविभूषितः/रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः/अवेक्षमाणोवैदेहींकोपसंरक्तलोचनः/उवाचरावणःसीतांभुजंगइवनिःश्वसन्/अनयेनाभिसंपन्नमर्थहीनमनुव्रते/नाशयाम्यहमद्यत्वांसूर्यःसंध्यामिवौजसा/इत्युक्त्वामैथिलींराजारावणःशत्रुरावणः/संदिदेशततःसर्वाराक्षसीर्घोरदर्शनाः/एकाक्षीमेककर्णांचकर्णप्रावरणांतथा/गोकर्णींहस्तिकर्णींचलम्बकर्णीमकर्णिकाम्/हस्तिपद्यश्वपद्यौचगोपदींपादचूलिकाम्/एकाक्षीमेकपादींचपृथुपादीमपादिकाम्/अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्/अतिमात्रास्यनेत्रांचदीर्घजिह्वामजिह्विकाम्/अनासिकांसिंहमुखींगोमुखींसूकरीमुखीम्/यथामद्वशगासीताक्षिप्रंभवतिजानकी/तथाकुरुतराक्षस्यःसर्वाःक्षिप्रंसमेत्यच/प्रतिलोमानुलोमैश्चसामदानादिभेदनैः/आवर्तयतवैदेहींदण्डस्योद्यमनेनच/इतिप्रतिसमादिश्यराक्षसेन्द्रःपुनःपुनः/काममन्युपरीतात्माजानकींपर्यतर्जयत्/उपगम्यततःक्षिप्रंराक्षसीधान्यमालिनी/परिष्वज्यदशग्रीवमिदंवचनमब्रवीत्/मयाक्रीडमहाराजसीतयाकिंतवानया/अकामांकामयानस्यशरीरमुपतप्यते/इच्छन्तींकामयानस्यप्रीतिर्भवतिशोभना/एवमुक्तस्तुराक्षस्यासमुत्क्षिप्तस्ततोबली/ज्वलद्भास्करवर्णाभंप्रविवेशनिवेशनम्/देवगन्धर्वकन्याश्चनागकन्याश्चतास्ततः/परिवार्यदशग्रीवंविविशुस्तद्गृहोत्तमम्/समैथिलींधर्मपरामवस्थितां॑प्रवेपमानांपरिभर्त्स्यरावणः/विहायसीतांमदनेनमोहितः॑स्वमेववेश्मप्रविवेशभास्वरम्/इत्युक्त्वामैथिलींराजारावणःशत्रुरावणः/संदिश्यचततःसर्वाराक्षसीर्निर्जगामह/निष्क्रान्तेराक्षसेन्द्रेतुपुनरन्तःपुरंगते/राक्षस्योभीमरूपास्ताःसीतांसमभिदुद्रुवुः/ततःसीतामुपागम्यराक्षस्यःक्रोधमूर्छिताः/परंपरुषयावाचावैदेहीमिदमब्रुवन्/पौलस्त्यस्यवरिष्ठस्यरावणस्यमहात्मनः/दशग्रीवस्यभार्यात्वंसीतेनबहुमन्यसे/ततस्त्वेकजटानामराक्षसीवाक्यमब्रवीत्/आमन्त्र्यक्रोधताम्राक्षीसीतांकरतलोदरीम्/प्रजापतीनांषण्णांतुचतुर्थोयःप्रजापतिः/मानसोब्रह्मणःपुत्रःपुलस्त्यइतिविश्रुतः/पुलस्त्यस्यतुतेजस्वीमहर्षिर्मानसःसुतः/नाम्नासविश्रवानामप्रजापतिसमप्रभः/तस्यपुत्रोविशालाक्षिरावणःशत्रुरावणः/तस्यत्वंराक्षसेन्द्रस्यभार्याभवितुमर्हसि/मयोक्तंचारुसर्वाङ्गिवाक्यंकिंनानुमन्यसे/ततोहरिजटानामराक्षसीवाक्यमब्रवीत्/विवृत्यनयनेकोपान्मार्जारसदृशेक्षणा/येनदेवास्त्रयस्त्रिंशद्देवराजश्चनिर्जितः/तस्यत्वंराक्षसेन्द्रस्यभार्याभवितुमर्हसि/वीर्योत्सिक्तस्यशूरस्यसंग्रामेष्वनिवर्तिनः/बलिनोवीर्ययुक्तस्याभार्यात्वंकिंनलप्स्यसे/प्रियांबहुमतांभार्यांत्यक्त्वाराजामहाबलः/सर्वासांचमहाभागांत्वामुपैष्यतिरावणः/समृद्धंस्त्रीसहस्रेणनानारत्नोपशोभितम्/अन्तःपुरंसमुत्सृज्यत्वामुपैष्यतिरावणः/असकृद्देवतायुद्धेनागगन्धर्वदानवाः/निर्जिताःसमरेयेनसतेपार्श्वमुपागतः/तस्यसर्वसमृद्धस्यारावणस्यमहात्मनः/किमर्थंराक्षसेन्द्रस्यभार्यात्वंनेच्छसेऽधमे/यस्यसूर्योनतपतिभीतोयस्यचमारुतः/नवातिस्मायतापाङ्गेकिंत्वंतस्यनतिष्ठसि/पुष्पवृष्टिंचतरवोमुमुचुर्यस्यवैभयात्/शैलाश्चसुभ्रुपानीयंजलदाश्चयदेच्छति/तस्यनैरृतराजस्यराजराजस्यभामिनि/किंत्वंनकुरुषेबुद्धिंभार्यार्थेरावणस्यहि/साधुतेतत्त्वतोदेविकथितंसाधुभामिनि/गृहाणसुस्मितेवाक्यमन्यथानभविष्यसि/ततःसीतामुपागम्यराक्षस्योविकृताननाः/परुषंपरुषानार्यऊचुस्तावाक्यमप्रियम्/किंत्वमन्तःपुरेसीतेसर्वभूतमनोहरे/महार्हशयनोपेतेनवासमनुमन्यसे/मानुषीमानुषस्यैवभार्यात्वंबहुमन्यसे/प्रत्याहरमनोरामान्नत्वंजातुभविष्यसि/मानुषीमानुषंतंतुराममिच्छसिशोभने/राज्याद्भ्रष्टमसिद्धार्थंविक्लवंतमनिन्दिते/राक्षसीनांवचःश्रुत्वासीतापद्मनिभेक्षणा/नेत्राभ्यामश्रुपूर्णाभ्यामिदंवचनमब्रवीत्/यदिदंलोकविद्विष्टमुदाहरथसंगताः/नैतन्मनसिवाक्यंमेकिल्बिषंप्रतितिष्ठति/नमानुषीराक्षसस्यभार्याभवितुमर्हति/कामंखादतमांसर्वानकरिष्यामिवोवचः/दीनोवाराज्यहीनोवायोमेभर्तासमेगुरुः/सीतायावचनंश्रुत्वाराक्षस्यःक्रोधमूर्छिताः/भर्त्सयन्तिस्मपरुषैर्वाक्यैरावणचोदिताः/अवलीनःसनिर्वाक्योहनुमाञ्शिंशपाद्रुमे/सीतांसंतर्जयन्तीस्ताराक्षसीरशृणोत्कपिः/तामभिक्रम्यसंरब्धावेपमानांसमन्ततः/भृशंसंलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान्/ऊचुश्चपरमक्रुद्धाःप्रगृह्याशुपरश्वधान्/नेयमर्हतिभर्तारंरावणंराक्षसाधिपम्/साभर्त्स्यमानाभीमाभीराक्षसीभिर्वरानना/साबाष्पमपमार्जन्तीशिंशपांतामुपागमत्/ततस्तांशिंशपांसीताराक्षसीभिःसमावृता/अभिगम्यविशालाक्षीतस्थौशोकपरिप्लुता/तांकृशांदीनवदनांमलिनाम्बरधारिणीम्/भर्त्सयांचक्रिरेभीमाराक्षस्यस्ताःसमन्ततः/ततस्तांविनतानामराक्षसीभीमदर्शना/अब्रवीत्कुपिताकाराकरालानिर्णतोदरी/सीतेपर्याप्तमेतावद्भर्तृस्नेहोनिदर्शितः/सर्वत्रातिकृतंभद्रेव्यसनायोपकल्पते/परितुष्टास्मिभद्रंतेमानुषस्तेकृतोविधिः/ममापितुवचःपथ्यंब्रुवन्त्याःकुरुमैथिलि/रावणंभजभर्तारंभर्तारंसर्वरक्षसाम्/विक्रान्तंरूपवन्तंचसुरेशमिववासवम्/दक्षिणंत्यागशीलंचसर्वस्यप्रियवादिनम्/मानुषंकृपणंरामंत्यक्त्वारावणमाश्रय/दिव्याङ्गरागावैदेहिदिव्याभरणभूषिता/अद्यप्रभृतिसर्वेषांलोकानामीश्वरीभव/अग्नेःस्वाहायथादेवीशचीवेन्द्रस्यशोभने/किंतेरामेणवैदेहिकृपणेनगतायुषा/एतदुक्तंचमेवाक्यंयदित्वंनकरिष्यसि/अस्मिन्मुहूर्तेसर्वास्त्वांभक्षयिष्यामहेवयम्/अन्यातुविकटानामलम्बमानपयोधरा/अब्रवीत्कुपितासीतांमुष्टिमुद्यम्यगर्जती/बहून्यप्रतिरूपाणिवचनानिसुदुर्मते/अनुक्रोशान्मृदुत्वाच्चसोढानितवमैथिलि/नचनःकुरुषेवाक्यंहितंकालपुरस्कृतम्/आनीतासिसमुद्रस्यपारमन्यैर्दुरासदम्/रावणान्तःपुरंघोरंप्रविष्टाचासिमैथिलि/रावणस्यगृहेरुधाअस्माभिस्तुसुरक्षिता/नत्वांशक्तःपरित्रातुमपिसाक्षात्पुरंदरः/कुरुष्वहितवादिन्यावचनंमममैथिलि/अलमश्रुप्रपातेनत्यजशोकमनर्थकम्/भजप्रीतिंप्रहर्षंचत्यजैतांनित्यदैन्यताम्/सीतेराक्षसराजेनसहक्रीडयथासुखम्/जानासिहियथाभीरुस्त्रीणांयौवनमध्रुवम्/यावन्नतेव्यतिक्रामेत्तावत्सुखमवाप्नुहि/उद्यानानिचरम्याणिपर्वतोपवनानिच/सहराक्षसराजेनचरत्वंमदिरेक्षणे/स्त्रीसहस्राणितेसप्तवशेस्थास्यन्तिसुन्दरि/रावणंभजभर्तारंभर्तारंसर्वरक्षसाम्/उत्पाट्यवातेहृदयंभक्षयिष्यामिमैथिलि/यदिमेव्याहृतंवाक्यंनयथावत्करिष्यसि/ततश्चण्डोदरीनामराक्षसीक्रूरदर्शना/भ्रामयन्तीमहच्छूलमिदंवचनमब्रवीत्/इमांहरिणलोकाक्षींत्रासोत्कम्पपयोधराम्/रावणेनहृतांदृष्ट्वादौर्हृदोमेमहानभूत्/यकृत्प्लीहमथोत्पीडंहृदयंचसबन्धनम्/अन्त्राण्यपितथाशीर्षंखादेयमितिमेमतिः/ततस्तुप्रघसानामराक्षसीवाक्यमब्रवीत्/कण्ठमस्यानृशंसायाःपीडयामःकिमास्यते/निवेद्यतांततोराज्ञेमानुषीसामृतेतिह/नात्रकश्चनसंदेहःखादतेतिसवक्ष्यति/ततस्त्वजामुखीनामराक्षसीवाक्यमब्रवीत्/विशस्येमांततःसर्वान्समान्कुरुतपीलुकान्/विभजामततःसर्वाविवादोमेनरोचते/पेयमानीयतांक्षिप्रंमाल्यंचविविधंबहु/ततःशूर्पणखानामराक्षसीवाक्यमब्रवीत्/अजामुखायदुक्तंहितदेवममरोचते/सुराचानीयतांक्षिप्रंसर्वशोकविनाशिनी/मानुषंमांसमासाद्यनृत्यामोऽथनिकुम्भिलाम्/एवंसंभर्त्स्यमानासासीतासुरसुतोपमा/राक्षसीभिःसुघोराभिर्धैर्यमुत्सृज्यरोदिति/तथातासांवदन्तीनांपरुषंदारुणंबहु/राक्षसीनामसौम्यानांरुरोदजनकात्मजा/एवमुक्तातुवैदेहीराक्षसीभिर्मनस्विनी/उवाचपरमत्रस्ताबाष्पगद्गदयागिरा/नमानुषीराक्षसस्यभार्याभवितुमर्हति/कामंखादतमांसर्वानकरिष्यामिवोवचः/साराक्षसीमध्यगतासीतासुरसुतोपमा/नशर्मलेभेदुःखार्तारावणेनचतर्जिता/वेपतेस्माधिकंसीताविशन्तीवाङ्गमात्मनः/वनेयूथपरिभ्रष्टामृगीकोकैरिवार्दिता/सात्वशोकस्यविपुलांशाखामालम्ब्यपुष्पिताम्/चिन्तयामासशोकेनभर्तारंभग्नमानसा/सास्नापयन्तीविपुलौस्तनौनेत्रजलस्रवैः/चिन्तयन्तीनशोकस्यतदान्तमधिगच्छति/सावेपमानापतिताप्रवातेकदलीयथा/राक्षसीनांभयत्रस्ताविवर्णवदनाभवत्/तस्यासादीर्घविपुलावेपन्त्याःसीतयातदा/ददृशेकम्पिनीवेणीव्यालीवपरिसर्पती/सानिःश्वसन्तीदुःखार्ताशोकोपहतचेतना/आर्ताव्यसृजदश्रूणिमैथिलीविललापह/हारामेतिचदुःखार्तापुनर्हालक्ष्मणेतिच/हाश्वश्रुममकौसल्येहासुमित्रेतिभाविनि/लोकप्रवादःसत्योऽयंपण्डितैःसमुदाहृतः/अकालेदुर्लभोमृत्युःस्त्रियावापुरुषस्यवा/यत्राहमाभिःक्रूराभीराक्षसीभिरिहार्दिता/जीवामिहीनारामेणमुहूर्तमपिदुःखिता/एषाल्पपुण्याकृपणाविनशिष्याम्यनाथवत्/समुद्रमध्येनौपूर्णावायुवेगैरिवाहता/भर्तारंतमपश्यन्तीराक्षसीवशमागता/सीदामिखलुशोकेनकूलंतोयहतंयथा/तंपद्मदलपत्राक्षंसिंहविक्रान्तगामिनम्/धन्याःपश्यन्तिमेनाथंकृतज्ञंप्रियवादिनम्/सर्वथातेनहीनायारामेणविदितात्मना/तीष्क्णंविषमिवास्वाद्यदुर्लभंममजीवितम्/कीदृशंतुमयापापंपुरादेहान्तरेकृतम्/येनेदंप्राप्यतेदुःखंमयाघोरंसुदारुणम्/जीवितंत्यक्तुमिच्छामिशोकेनमहतावृता/राक्षसीभिश्चरक्षन्त्यारामोनासाद्यतेमया/धिगस्तुखलुमानुष्यंधिगस्तुपरवश्यताम्/नशक्यंयत्परित्यक्तुमात्मच्छन्देनजीवितम्/प्रसक्ताश्रुमुखीत्येवंब्रुवन्तीजनकात्मजा/अधोमुखमुखीबालाविलप्तुमुपचक्रमे/उन्मत्तेवप्रमत्तेवभ्रान्तचित्तेवशोचती/उपावृत्ताकिशोरीवविवेष्टन्तीमहीतले/राघवस्याप्रमत्तस्यरक्षसाकामरूपिणा/रावणेनप्रमथ्याहमानीताक्रोशतीबलात्/राक्षसीवशमापन्नाभर्त्यमानासुदारुणम्/चिन्तयन्तीसुदुःखार्तानाहंजीवितुमुत्सहे/नहिमेजीवितेनार्थोनैवार्थैर्नचभूषणैः/वसन्त्याराक्षसीमध्येविनारामंमहारथम्/धिङ्मामनार्यामसतींयाहंतेनविनाकृता/मुहूर्तमपिरक्षामिजीवितंपापजीविता/काचमेजीवितेश्रद्धासुखेवातंप्रियंविना/भर्तारंसागरान्तायावसुधायाःप्रियंवदम्/भिद्यतांभक्ष्यतांवापिशरीरंविसृजाम्यहम्/नचाप्यहंचिरंदुःखंसहेयंप्रियवर्जिता/चरणेनापिसव्येननस्पृशेयंनिशाचरम्/रावणंकिंपुनरहंकामयेयंविगर्हितम्/प्रत्याख्यातंनजानातिनात्मानंनात्मनःकुलम्/योनृशंसस्वभावेनमांप्रार्थयितुमिच्छति/छिन्नाभिन्नाविभक्तावादीप्तेवाग्नौप्रदीपिता/रावणंनोपतिष्ठेयंकिंप्रलापेनवश्चिरम्/ख्यातःप्राज्ञःकृतज्ञश्चसानुक्रोशश्चराघवः/सद्वृत्तोनिरनुक्रोशःशङ्केमद्भाग्यसंक्षयात्/राक्षसानांजनस्थानेसहस्राणिचतुर्दश/येनैकेननिरस्तानिसमांकिंनाभिपद्यते/निरुद्धारावणेनाहमल्पवीर्येणरक्षसा/समर्थःखलुमेभर्तारावणंहन्तुमाहवे/विराधोदण्डकारण्येयेनराक्षसपुंगवः/रणेरामेणनिहतःसमांकिंनाभिपद्यते/कामंमध्येसमुद्रस्यलङ्केयंदुष्प्रधर्षणा/नतुराघवबाणानांगतिरोधीहविद्यते/किंनुतत्कारणंयेनरामोदृढपराक्रमः/रक्षसापहृतांभार्यामिष्टांनाभ्यवपद्यते/इहस्थांमांनजानीतेशङ्केलक्ष्मणपूर्वजः/जानन्नपिहितेजस्वीधर्षणांमर्षयिष्यति/हृतेतियोऽधिगत्वामांराघवायनिवेदयेत्/गृध्रराजोऽपिसरणेरावणेननिपातितः/कृतंकर्ममहत्तेनमांतदाभ्यवपद्यता/तिष्ठतारावणद्वन्द्वेवृद्धेनापिजटायुषा/यदिमामिहजानीयाद्वर्तमानांसराघवः/अद्यबाणैरभिक्रुद्धःकुर्याल्लोकमराक्षसं/विधमेच्चपुरींलङ्कांशोषयेच्चमहोदधिम्/रावणस्यचनीचस्यकीर्तिंनामचनाशयेत्/ततोनिहतनथानांराक्षसीनांगृहेगृहे/यथाहमेवंरुदतीतथाभूयोनसंशयः/अन्विष्यरक्षसांलङ्कांकुर्याद्रामःसलक्ष्मणः/नहिताभ्यांरिपुर्दृष्टोमुहूतमपिजीवति/चिताधूमाकुलपथागृध्रमण्डलसंकुला/अचिरेणतुलङ्केयंश्मशानसदृशीभवेत्/अचिरेणैवकालेनप्राप्स्याम्येवमनोरथम्/दुष्प्रस्थानोऽयमाख्यातिसर्वेषांवोविपर्ययः/यादृशानितुदृश्यन्तेलङ्कायामशुभानितु/अचिरेणैवकालेनभविष्यतिहतप्रभा/नूनंलङ्काहतेपापेरावणेराक्षसाधिपे/शोषंयास्यतिदुर्धर्षाप्रमदाविधवायथा/पुष्योत्सवसमृद्धाचनष्टभर्त्रीसराक्षसा/भविष्यतिपुरीलङ्कानष्टभर्त्रीयथाङ्गना/नूनंराक्षसकन्यानांरुदन्तीनांगृहेगृहे/श्रोष्यामिनचिरादेवदुःखार्तानामिहध्वनिम्/सान्धकाराहतद्योताहतराक्षसपुंगवा/भविष्यतिपुरीलङ्कानिर्दग्धारामसायकैः/यदिनामसशूरोमांरामोरक्तान्तलोचनः/जानीयाद्वर्तमानांहिरावणस्यनिवेशने/अनेनतुनृशंसेनरावणेनाधमेनमे/समयोयस्तुनिर्दिष्टस्तस्यकालोऽयमागतः/अकार्यंयेनजानन्तिनैरृताःपापकारिणः/अधर्मात्तुमहोत्पातोभविष्यतिहिसाम्प्रतम्/नैतेधर्मंविजानन्तिराक्षसाःपिशिताशनाः/ध्रुवंमांप्रातराशार्थेराक्षसःकल्पयिष्यति/साहंकथंकरिष्यामितंविनाप्रियदर्शनम्/रामंरक्तान्तनयनमपश्यन्तीसुदुःखिता/यदिकश्चित्प्रदातामेविषस्याद्यभवेदिह/क्षिप्रंवैवस्वतंदेवंपश्येयंपतिनाविना/नाजानाज्जीवतींरामःसमांलक्ष्मणपूर्वजः/जानन्तौतौनकुर्यातांनोर्व्यांहिमममार्गणम्/नूनंममैवशोकेनसवीरोलक्ष्मणाग्रजः/देवलोकमितोयातस्त्यक्त्वादेहंमहीतले/धन्यादेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/ममपश्यन्तियेनाथंरामंराजीवलोचनम्/अथवानहितस्यार्थेधर्मकामस्यधीमतः/मयारामस्यराजर्षेर्भार्ययापरमात्मनः/दृश्यमानेभवेत्प्रीतःसौहृदंनास्त्यपश्यतः/नाशयन्तिकृतघ्रास्तुनरामोनाशयिष्यति/किंनुमेनगुणाःकेचित्किंवाभाग्यक्षयोहिमे/याहंसीतावरार्हेणहीनारामेणभामिनी/श्रेयोमेजीवितान्मर्तुंविहीनायामहात्मना/रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्/अथवान्यस्तशस्त्रौतौवनेमूलफलाशनौ/भ्रातरौहिनरश्रेष्ठौचरन्तौवनगोचरौ/अथवाराक्षसेन्द्रेणरावणेनदुरात्मना/छद्मनाघातितौशूरौभ्रातरौरामलक्ष्मणौ/साहमेवंगतेकालेमर्तुमिच्छामिसर्वथा/नचमेविहितोमृत्युरस्मिन्दुःखेऽपिवर्तति/धन्याःखलुमहात्मानोमुनयःसत्यसंमताः/जितात्मानोमहाभागायेषांनस्तःप्रियाप्रिये/प्रियान्नसंभवेद्दुःखमप्रियादधिकंभयम्/ताभ्यांहियेवियुज्यन्तेनमस्तेषांमहात्मनाम्/साहंत्यक्ताप्रियेणेहरामेणविदितात्मना/प्राणांस्त्यक्ष्यामिपापस्यरावणस्यगतावशम्/इत्युक्ताःसीतयाघोरंराक्षस्यःक्रोधमूर्छिताः/काश्चिज्जग्मुस्तदाख्यातुंरावणस्यतरस्विनः/ततःसीतामुपागम्यराक्षस्योघोरदर्शनाः/पुनःपरुषमेकार्थमनर्थार्थमथाब्रुवन्/हन्तेदानींतवानार्येसीतेपापविनिश्चये/राक्षस्योभक्षयिष्यन्तिमांसमेतद्यथासुखम्/सीतांताभिरनार्याभिर्दृष्ट्वासंतर्जितांतदा/राक्षसीत्रिजटावृद्धाशयानावाक्यमब्रवीत्/आत्मानंखादतानार्यानसीतांभक्षयिष्यथ/जनकस्यसुतामिष्टांस्नुषांदशरथस्यच/स्वप्नोह्यद्यमयादृष्टोदारुणोरोमहर्षणः/राक्षसानामभावायभर्तुरस्याभवायच/एवमुक्तास्त्रिजटयाराक्षस्यःक्रोधमूर्छिताः/सर्वाएवाब्रुवन्भीतास्त्रिजटांतामिदंवचः/कथयस्वत्वयादृष्टःस्वप्नेऽयंकीदृशोनिशि/तासांश्रुत्वातुवचनंराक्षसीनांमुखोद्गतम्/उवाचवचनंकालेत्रिजटास्वप्नसंश्रितम्/गजदन्तमयींदिव्यांशिबिकामन्तरिक्षगाम्/युक्तांवाजिसहस्रेणस्वयमास्थायराघवः/स्वप्नेचाद्यमयादृष्टासीताशुक्लाम्बरावृता/सागरेणपरिक्षिप्तंश्वेतपर्वतमास्थिता/रामेणसंगतासीताभास्करेणप्रभायथा/राघवश्चमयादृष्टश्चतुर्दन्तंमहागजम्/आरूढःशैलसंकाशंचचारसहलक्ष्मणः/ततस्तौनरशार्दूलौदीप्यमानौस्वतेजसा/शुक्लमाल्याम्बरधरौजानकींपर्युपस्थितौ/ततस्तस्यनगस्याग्रेआकाशस्थस्यदन्तिनः/भर्त्रापरिगृहीतस्यजानकीस्कन्धमाश्रिता/भर्तुरङ्कात्समुत्पत्यततःकमललोचना/चन्द्रसूर्यौमयादृष्टापाणिभ्यांपरिमार्जती/ततस्ताभ्यांकुमाराभ्यामास्थितःसगजोत्तमः/सीतयाचविशालाक्ष्यालङ्कायाउपरिस्थितः/पाण्डुरर्षभयुक्तेनरथेनाष्टयुजास्वयम्/शुक्लमाल्याम्बरधरोलक्ष्मणेनसमागतः/लक्ष्मणेनसहभ्रात्रासीतयासहभार्यया/विमानात्पुष्पकादद्यरावणःपतितोभुवि/कृष्यपाणःस्त्रियादृष्टोमुण्डःकृष्णाम्बरःपुनः/रथेनखरयुक्तेनरक्तमाल्यानुलेपनः/प्रयातोदक्षिणामाशांप्रविष्टःकर्दमंह्रदम्/कण्ठेबद्ध्वादशग्रीवंप्रमदारक्तवासिनी/कालीकर्दमलिप्ताङ्गीदिशंयाम्यांप्रकर्षति/वराहेणदशग्रीवःशिंशुमारेणचेन्द्रजित्/उष्ट्रेणकुम्भकर्णश्चप्रयातोदक्षिणांदिशम्/समाजश्चमहान्वृत्तोगीतवादित्रनिःस्वनः/पिबतांरक्तमाल्यानांरक्षसांरक्तवाससाम्/लङ्काचेयंपुरीरम्यासवाजिरथसंकुला/सागरेपतितादृष्टाभग्नगोपुरतोरणा/पीत्वतैलंप्रनृत्ताश्चप्रहसन्त्योमहास्वनाः/लङ्कायांभस्मरूक्षायांसर्वाराक्षसयोषितः/कुम्भकर्णादयश्चेमेसर्वेराक्षसपुंगवाः/रक्तंनिवसनंगृह्यप्रविष्टागोमयह्रदे/अपगच्छतनश्यध्वंसीतामाप्नोतिराघवः/घातयेत्परमामर्षीसर्वैःसार्धंहिराक्षसैः/प्रियांबहुमतांभार्यांवनवासमनुव्रताम्/भर्त्सितांतर्जितांवापिनानुमंस्यतिराघवः/तदलंक्रूरवाक्यैर्वःसान्त्वमेवाभिधीयताम्/अभियाचामवैदेहीमेतद्धिममरोचते/यस्याह्येवंविधःस्वप्नोदुःखितायाःप्रदृश्यते/सादुःखैर्बहुभिर्मुक्ताप्रियंप्राप्नोत्यनुत्तमम्/भर्त्सितामपियाचध्वंराक्षस्यःकिंविवक्षया/राघवाद्धिभयंघोरंराक्षसानामुपस्थितम्/प्रणिपातप्रसन्नाहिमैथिलीजनकात्मजा/अलमेषापरित्रातुंराक्षस्योमहतोभयात्/अपिचास्याविशालाक्ष्यानकिंचिदुपलक्षये/विरुद्धमपिचाङ्गेषुसुसूक्ष्ममपिलक्ष्मणम्/छायावैगुण्यमात्रंतुशङ्केदुःखमुपस्थितम्/अदुःखार्हामिमांदेवींवैहायसमुपस्थिताम्/अर्थसिद्धिंतुवैदेह्याःपश्याम्यहमुपस्थिताम्/राक्षसेन्द्रविनाशंचविजयंराघवस्यच/निमित्तभूतमेतत्तुश्रोतुमस्यामहत्प्रियम्/दृश्यतेचस्फुरच्चक्षुःपद्मपत्रमिवायतम्/ईषच्चहृषितोवास्यादक्षिणायाह्यदक्षिणः/अकस्मादेववैदेह्याबाहुरेकःप्रकम्पते/करेणुहस्तप्रतिमःसव्यश्चोरुरनुत्तमः/वेपन्सूचयतीवास्याराघवंपुरतःस्थितम्/पक्षीचशाखानिलयंप्रविष्टः॑पुनःपुनश्चोत्तमसान्त्ववादी/सुखागतांवाचमुदीरयाणः॑पुनःपुनश्चोदयतीवहृष्टः/साराक्षसेन्द्रस्यवचोनिशम्य॑तद्रावणस्याप्रियमप्रियार्ता/सीतावितत्रासयथावनान्ते॑सिंहाभिपन्नागजराजकन्या/साराक्षसीमध्यगताचभीरुर्॑वाग्भिर्भृशंरावणतर्जिताच/कान्तारमध्येविजनेविसृष्टा॑बालेवकन्याविललापसीता/सत्यंबतेदंप्रवदन्तिलोके॑नाकालमृत्युर्भवतीतिसन्तः/यत्राहमेवंपरिभर्त्स्यमाना॑जीवामिकिंचित्क्षणमप्यपुण्या/सुखाद्विहीनंबहुदुःखपूर्णम्॑इदंतुनूनंहृदयंस्थिरंमे/विदीर्यतेयन्नसहस्रधाद्य॑वज्राहतंशृङ्गमिवाचलस्य/नैवास्तिनूनंममदोषमत्र॑वध्याहमस्याप्रियदर्शनस्य/भावंनचास्याहमनुप्रदातुम्॑अलंद्विजोमन्त्रमिवाद्विजाय/नूनंममाङ्गान्यचिरादनार्यः॑शस्त्रैःशितैश्छेत्स्यतिराक्षसेन्द्रः/तस्मिन्ननागच्छतिलोकनाथे॑गर्भस्थजन्तोरिवशल्यकृन्तः/दुःखंबतेदंममदुःखिताया॑मासौचिरायाभिगमिष्यतोद्वौ/बद्धस्यवध्यस्ययथानिशान्ते॑राजापराधादिवतस्करस्य/हारामहालक्ष्मणहासुमित्रे॑हाराममातःसहमेजनन्या/एषाविपद्याम्यहमल्पभाग्या॑महार्णवेनौरिवमूढवाता/तरस्विनौधारयतामृगस्य॑सत्त्वेनरूपंमनुजेन्द्रपुत्रौ/नूनंविशस्तौममकारणात्तौ॑सिंहर्षभौद्वाविववैद्युतेन/नूनंसकालोमृगरूपधारी॑मामल्पभाग्यांलुलुभेतदानीम्/यत्रार्यपुत्रंविससर्जमूढा॑रामानुजंलक्ष्मणपूर्वकंच/हारामसत्यव्रतदीर्घवाहो॑हापूर्णचन्द्रप्रतिमानवक्त्र/हाजीवलोकस्यहितःप्रियश्च॑वध्यांनमांवेत्सिहिराक्षसानाम्/अनन्यदेवत्वमियंक्षमाच॑भूमौचशय्यानियमश्चधर्मे/पतिव्रतात्वंविफलंममेदं॑कृतंकृतघ्नेष्विवमानुषाणाम्/मोघोहिधर्मश्चरितोममायं॑तथैकपत्नीत्वमिदंनिरर्थम्/यात्वांनपश्यामिकृशाविवर्णा॑हीनात्वयासंगमनेनिराशा/पितुर्निर्देशंनियमेनकृत्वा॑वनान्निवृत्तश्चरितव्रतश्च/स्त्रीभिस्तुमन्येविपुलेक्षणाभिः॑संरंस्यसेवीतभयःकृतार्थः/अहंतुरामत्वयिजातकामा॑चिरंविनाशायनिबद्धभावा/मोघंचरित्वाथतपोव्रतंच॑त्यक्ष्यामिधिग्जीवितमल्पभाग्या/साजीवितंक्षिप्रमहंत्यजेयं॑विषेणशस्त्रेणशितेनवापि/विषस्यदातानतुमेऽस्तिकश्चिच्॑छस्त्रस्यवावेश्मनिराक्षसस्य/शोकाभितप्ताबहुधाविचिन्त्य॑सीताथवेण्युद्ग्रथनंगृहीत्वा/उद्बध्यवेण्युद्ग्रथनेनशीघ्रम्॑अहंगमिष्यामियमस्यमूलम्/इतीवसीताबहुधाविलप्य॑सर्वात्मनाराममनुस्मरन्ती/प्रवेपमानापरिशुष्कवक्त्रा॑नगोत्तमंपुष्पितमाससाद/उपस्थितासामृदुर्सर्वगात्री॑शाखांगृहीत्वाथनगस्यतस्य/तस्यास्तुरामंप्रविचिन्तयन्त्या॑रामानुजंस्वंचकुलंशुभाङ्ग्याः/शोकानिमित्तानितदाबहूनि॑धैर्यार्जितानिप्रवराणिलोके/प्रादुर्निमित्तानितदाबभूवुः॑पुरापिसिद्धान्युपलक्षितानि/तथागतांतांव्यथितामनिन्दितां॑व्यपेतहर्षांपरिदीनमानसाम्/शुभांनिमित्तानिशुभानिभेजिरे॑नरंश्रियाजुष्टमिवोपजीविनः/तस्याःशुभंवाममरालपक्ष्म॑राजीवृतंकृष्णविशालशुक्लम्/प्रास्पन्दतैकंनयनंसुकेश्या॑मीनाहतंपद्ममिवाभिताम्रम्/भुजश्चचार्वञ्चितपीनवृत्तः॑परार्ध्यकालागुरुचन्दनार्हः/अनुत्तमेनाध्युषितःप्रियेण॑चिरेणवामःसमवेपताशु/गजेन्द्रहस्तप्रतिमश्चपीनस्॑तयोर्द्वयोःसंहतयोःसुजातः/प्रस्पन्दमानःपुनरूरुरस्या॑रामंपुरस्तात्स्थितमाचचक्षे/शुभंपुनर्हेमसमानवर्णम्॑ईषद्रजोध्वस्तमिवामलाक्ष्याः/वासःस्थितायाःशिखराग्रदन्त्याः॑किंचित्परिस्रंसतचारुगात्र्याः/एतैर्निमित्तैरपरैश्चसुभ्रूः॑संबोधिताप्रागपिसाधुसिद्धैः/वातातपक्लान्तमिवप्रनष्टं॑वर्षेणबीजंप्रतिसंजहर्ष/तस्याःपुनर्बिम्बफलोपमौष्ठं॑स्वक्षिभ्रुकेशान्तमरालपक्ष्म/वक्त्रंबभासेसितशुक्लदंष्ट्रं॑राहोर्मुखाच्चन्द्रइवप्रमुक्तः/सावीतशोकाव्यपनीततन्द्री॑शान्तज्वराहर्षविबुद्धसत्त्वा/अशोभतार्यावदनेनशुक्ले॑शीतान्शुनारात्रिरिवोदितेन/हनुमानपिविक्रान्तःसर्वंशुश्रावतत्त्वतः/सीतायास्त्रिजटायाश्चराक्षसीनांचतर्जनम्/अवेक्षमाणस्तांदेवींदेवतामिवनन्दने/ततोबहुविधांचिन्तांचिन्तयामासवानरः/यांकपीनांसहस्राणिसुबहून्ययुतानिच/दिक्षुसर्वासुमार्गन्तेसेयमासादितामया/चारेणतुसुयुक्तेनशत्रोःशक्तिमवेक्षिता/गूढेनचरतातावदवेक्षितमिदंमया/राक्षसानांविशेषश्चपुरीचेयमवेक्षिता/राक्षसाधिपतेरस्यप्रभावोरावणस्यच/युक्तंतस्याप्रमेयस्यसर्वसत्त्वदयावतः/समाश्वासयितुंभार्यांपतिदर्शनकाङ्क्षिणीम्/अहमाश्वासयाम्येनांपूर्णचन्द्रनिभाननाम्/अदृष्टदुःखांदुःखस्यनह्यन्तमधिगच्छतीम्/यदिह्यहमिमांदेवींशोकोपहतचेतनाम्/अनाश्वास्यगमिष्यामिदोषवद्गमनंभवेत्/गतेहिमयितत्रेयंराजपुत्रीयशस्विनी/परित्राणमविन्दन्तीजानकीजीवितंत्यजेत्/मयाचसमहाबाहुःपूर्णचन्द्रनिभाननः/समाश्वासयितुंन्याय्यःसीतादर्शनलालसः/निशाचरीणांप्रत्यक्षमक्षमंचाभिभाषणम्/कथंनुखलुकर्तव्यमिदंकृच्छ्रगतोह्यहम्/अनेनरात्रिशेषेणयदिनाश्वास्यतेमया/सर्वथानास्तिसंदेहःपरित्यक्ष्यतिजीवितम्/रामश्चयदिपृच्छेन्मांकिंमांसीताब्रवीद्वचः/किमहंतंप्रतिब्रूयामसंभाष्यसुमध्यमाम्/सीतासंदेशरहितंमामितस्त्वरयागतम्/निर्दहेदपिकाकुत्स्थःक्रुद्धस्तीव्रेणचक्षुषा/यदिचेद्योजयिष्यामिभर्तारंरामकारणात्/व्यर्थमागमनंतस्यससैन्यस्यभविष्यति/अन्तरंत्वहमासाद्यराक्षसीनामिहस्थितः/शनैराश्वासयिष्यामिसंतापबहुलामिमाम्/अहंह्यतितनुश्चैववनरश्चविशेषतः/वाचंचोदाहरिष्यामिमानुषीमिहसंस्कृताम्/यदिवाचंप्रदास्यामिद्विजातिरिवसंस्कृताम्/रावणंमन्यमानामांसीताभीताभविष्यति/अवश्यमेववक्तव्यंमानुषंवाक्यमर्थवत्/मयासान्त्वयितुंशक्यानान्यथेयमनिन्दिता/सेयमालोक्यमेरूपंजानकीभाषितंतथा/रक्षोभिस्त्रासितापूर्वंभूयस्त्रासंगमिष्यति/ततोजातपरित्रासाशब्दंकुर्यान्मनस्विनी/जानमानाविशालाक्षीरावणंकामरूपिणम्/सीतयाचकृतेशब्देसहसाराक्षसीगणः/नानाप्रहरणोघोरःसमेयादन्तकोपमः/ततोमांसंपरिक्षिप्यसर्वतोविकृताननाः/वधेचग्रहणेचैवकुर्युर्यत्नंयथाबलम्/तंमांशाखाःप्रशाखाश्चस्कन्धांश्चोत्तमशाखिनाम्/दृष्ट्वाविपरिधावन्तंभवेयुर्भयशङ्किताः/ममरूपंचसंप्रेक्ष्यवनंविचरतोमहत्/राक्षस्योभयवित्रस्ताभवेयुर्विकृताननाः/ततःकुर्युःसमाह्वानंराक्षस्योरक्षसामपि/राक्षसेन्द्रनियुक्तानांराक्षसेन्द्रनिवेशने/तेशूलशरनिस्त्रिंशविविधायुधपाणयः/आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः/संक्रुद्धस्तैस्तुपरितोविधमन्रक्षसांबलम्/शक्नुयंनतुसंप्राप्तुंपरंपारंमहोदधेः/मांवागृह्णीयुराप्लुत्यबहवःशीघ्रकारिणः/स्यादियंचागृहीतार्थाममचग्रहणंभवेत्/हिंसाभिरुचयोहिंस्युरिमांवाजनकात्मजाम्/विपन्नंस्यात्ततःकार्यंरामसुग्रीवयोरिदम्/उद्देशेनष्टमार्गेऽस्मिन्राक्षसैःपरिवारिते/सागरेणपरिक्षिप्तेगुप्तेवसतिजानकी/विशस्तेवागृहीतेवारक्षोभिर्मयिसंयुगे/नान्यंपश्यामिरामस्यसहायंकार्यसाधने/विमृशंश्चनपश्यामियोहतेमयिवानरः/शतयोजनविस्तीर्णंलङ्घयेतमहोदधिम्/कामंहन्तुंसमर्थोऽस्मिसहस्राण्यपिरक्षसाम्/नतुशक्ष्यामिसंप्राप्तुंपरंपारंमहोदधेः/असत्यानिचयुद्धानिसंशयोमेनरोचते/कश्चनिःसंशयंकार्यंकुर्यात्प्राज्ञःससंशयम्/एषदोषोमहान्हिस्यान्ममसीताभिभाषणे/प्राणत्यागश्चवैदेह्याभवेदनभिभाषणे/भूताश्चार्थाविनश्यन्तिदेशकालविरोधिताः/विक्लवंदूतमासाद्यतमःसूर्योदयेयथा/अर्थानर्थान्तरेबुद्धिर्निश्चितापिनशोभते/घातयन्तिहिकार्याणिदूताःपण्डितमानिनः/नविनश्येत्कथंकार्यंवैक्लव्यंनकथंभवेत्/लङ्घनंचसमुद्रस्यकथंनुनवृथाभवेत्/कथंनुखलुवाक्यंमेशृणुयान्नोद्विजेतच/इतिसंचिन्त्यहनुमांश्चकारमतिमान्मतिम्/राममक्लिष्टकर्माणंस्वबन्धुमनुकीर्तयन्/नैनामुद्वेजयिष्यामितद्बन्धुगतमानसाम्/इक्ष्वाकूणांवरिष्ठस्यरामस्यविदितात्मनः/शुभानिधर्मयुक्तानिवचनानिसमर्पयन्/श्रावयिष्यामिसर्वाणिमधुरांप्रब्रुवन्गिरम्/श्रद्धास्यतियथाहीयंतथासर्वंसमादधे/इतिसबहुविधंमहानुभावो॑जगतिपतेःप्रमदामवेक्षमाणः/मधुरमवितथंजगादवाक्यं॑द्रुमविटपान्तरमास्थितोहनूमान्/एवंबहुविधांचिन्तांचिन्तयित्वमहाकपिः/संश्रवेमधुरंवाक्यंवैदेह्याव्याजहारह/राजादशरथोनामरथकुञ्जरवाजिनाम्/पुण्यशीलोमहाकीर्तिरृजुरासीन्महायशाः/चक्रवर्तिकुलेजातःपुरंदरसमोबले/अहिंसारतिरक्षुद्रोघृणीसत्यपराक्रमः/मुख्यश्चेक्ष्वाकुवंशस्यलक्ष्मीवांल्लक्ष्मिवर्धनः/पार्थिवव्यञ्जनैर्युक्तःपृथुश्रीःपार्थिवर्षभः/पृथिव्यांचतुरन्तयांविश्रुतःसुखदःसुखी/तस्यपुत्रःप्रियोज्येष्ठस्ताराधिपनिभाननः/रामोनामविशेषज्ञःश्रेष्ठःसर्वधनुष्मताम्/रक्षितास्वस्यवृत्तस्यस्वजनस्यापिरक्षिता/रक्षिताजीवलोकस्यधर्मस्यचपरंतपः/तस्यसत्याभिसंधस्यवृद्धस्यवचनात्पितुः/सभार्यःसहचभ्रात्रावीरःप्रव्रजितोवनम्/तेनतत्रमहारण्येमृगयांपरिधावता/जनस्थानवधंश्रुत्वाहतौचखरदूषणौ/ततस्त्वमर्षापहृताजानकीरावणेनतु/यथारूपांयथावर्णांयथालक्ष्मींविनिश्चिताम्/अश्रौषंराघवस्याहंसेयमासादितामया/विररामैवमुक्त्वासौवाचंवानरपुंगवः/जानकीचापितच्छ्रुत्वाविस्मयंपरमंगता/ततःसावक्रकेशान्तासुकेशीकेशसंवृतम्/उन्नम्यवदनंभीरुःशिंशपावृक्षमैक्षत/सातिर्यगूर्ध्वंचतथाप्यधस्तान्॑निरीक्षमाणातमचिन्त्यबुद्धिम्/ददर्शपिङ्गाधिपतेरमात्यं॑वातात्मजंसूर्यमिवोदयस्थम्/ततःशाखान्तरेलीनंदृष्ट्वाचलितमानसा/साददर्शकपिंतत्रप्रश्रितंप्रियवादिनम्/सातुदृष्ट्वाहरिश्रेष्ठंविनीतवदुपस्थितम्/मैथिलीचिन्तयामासस्वप्नोऽयमितिभामिनी/सातंसमीक्ष्यैवभृशंविसंज्ञा॑गतासुकल्पेवबभूवसीता/चिरेणसंज्ञांप्रतिलभ्यचैव॑विचिन्तयामासविशालनेत्रा/स्वप्नोमयायंविकृतोऽद्यदृष्टः॑शाखामृगःशास्त्रगणैर्निषिद्धः/स्वस्त्यस्तुरामायसलक्ष्मणाय॑तथापितुर्मेजनकस्यराज्ञः/स्वप्नोऽपिनायंनहिमेऽस्तिनिद्रा॑शोकेनदुःखेनचपीडितायाः/सुखंहिमेनास्तियतोऽस्मिहीना॑तेनेन्दुपूर्णप्रतिमाननेन/अहंहितस्याद्यमनोभवेन॑संपीडितातद्गतसर्वभावा/विचिन्तयन्तीसततंतमेव॑तथैवपश्यामितथाशृणोमि/मनोरथःस्यादितिचिन्तयामि॑तथापिबुद्ध्याचवितर्कयामि/किंकारणंतस्यहिनास्तिरूपं॑सुव्यक्तरूपश्चवदत्ययंमाम्/नमोऽस्तुवाचस्पतयेसवज्रिणे॑स्वयम्भुवेचैवहुताशनाय/अनेनचोक्तंयदिदंममाग्रतो॑वनौकसातच्चतथास्तुनान्यथा/तामब्रवीन्महातेजाहनूमान्मारुतात्मजः/शिरस्यञ्जलिमाधायसीतांमधुरयागिरा/कानुपद्मपलाशाक्षीक्लिष्टकौशेयवासिनी/द्रुमस्यशाखामालम्ब्यतिष्ठसित्वमनिन्दिता/किमर्थंतवनेत्राभ्यांवारिस्रवतिशोकजम्/पुण्डरीकपलाशाभ्यांविप्रकीर्णमिवोदकम्/सुराणामसुराणांचनागगन्धर्वरक्षसाम्/यक्षाणांकिंनराणांचकात्वंभवसिशोभने/कात्वंभवसिरुद्राणांमरुतांवावरानने/वसूनांवावरारोहेदेवताप्रतिभासिमे/किंनुचन्द्रमसाहीनापतिताविबुधालयात्/रोहिणीज्योतिषांश्रेष्ठाश्रेष्ठासर्वगुणान्विता/कोपाद्वायदिवामोहाद्भर्तारमसितेक्षणा/वसिष्ठंकोपयित्वात्वंनासिकल्याण्यरुन्धती/कोनौपुत्रःपिताभ्रातभर्तावातेसुमध्यमे/अस्माल्लोकादमुंलोकंगतंत्वमनुशोचसि/व्यञ्जनानिहितेयानिलक्षणानिचलक्षये/महिषीभूमिपालस्यराजकन्यासिमेमता/रावणेनजनस्थानाद्बलादपहृतायदि/सीतात्वमसिभद्रंतेतन्ममाचक्ष्वपृच्छतः/सातस्यवचनंश्रुत्वारामकीर्तनहर्षिता/उवाचवाक्यंवैदेहीहनूमन्तंद्रुमाश्रितम्/दुहिताजनकस्याहंवैदेहस्यमहात्मनः/सीताचनामनाम्नाहंभार्यारामस्यधीमतः/समाद्वादशतत्राहंराघवस्यनिवेशने/भुञ्जानामानुषान्भोगान्सर्वकामसमृद्धिनी/ततस्त्रयोदशेवर्षेराज्येनेक्ष्वाकुनन्दनम्/अभिषेचयितुंराजासोपाध्यायःप्रचक्रमे/तस्मिन्संभ्रियमाणेतुराघवस्याभिषेचने/कैकेयीनामभर्तारंदेवीवचनमब्रवीत्/नपिबेयंनखादेयंप्रत्यहंममभोजनम्/एषमेजीवितस्यान्तोरामोयद्यभिषिच्यते/यत्तदुक्तंत्वयावाक्यंप्रीत्यानृपतिसत्तम/तच्चेन्नवितथंकार्यंवनंगच्छतुराघवः/सराजासत्यवाग्देव्यावरदानमनुस्मरन्/मुमोहवचनंश्रुत्वाकैकेय्याःक्रूरमप्रियम्/ततस्तुस्थविरोराजासत्यधर्मेव्यवस्थितः/ज्येष्ठंयशस्विनंपुत्रंरुदन्राज्यमयाचत/सपितुर्वचनंश्रीमानभिषेकात्परंप्रियम्/मनसापूर्वमासाद्यवाचाप्रतिगृहीतवान्/दद्यान्नप्रतिगृह्णीयान्नब्रूयत्किंचिदप्रियम्/अपिजीवितहेतोर्हिरामःसत्यपराक्रमः/सविहायोत्तरीयाणिमहार्हाणिमहायशाः/विसृज्यमनसाराज्यंजनन्यैमांसमादिशत्/साहंतस्याग्रतस्तूर्णंप्रस्थितावनचारिणी/नहिमेतेनहीनायावासःस्वर्गेऽपिरोचते/प्रागेवतुमहाभागःसौमित्रिर्मित्रनन्दनः/पूर्वजस्यानुयात्रार्थेद्रुमचीरैरलंकृतः/तेवयंभर्तुरादेशंबहुमान्यदृढव्रताः/प्रविष्टाःस्मपुराद्दृष्टंवनंगम्भीरदर्शनम्/वसतोदण्डकारण्येतस्याहममितौजसः/रक्षसापहृताभार्यारावणेनदुरात्मना/द्वौमासौतेनमेकालोजीवितानुग्रहःकृतः/ऊर्ध्वंद्वाभ्यांतुमासाभ्यांततस्त्यक्ष्यामिजीवितम्/तस्यास्तद्वचनंश्रुत्वाहनूमान्हरियूथपः/दुःखाद्दुःखाभिभूतायाःसान्तमुत्तरमब्रवीत्/अहंरामस्यसंदेशाद्देविदूतस्तवागतः/वैदेहिकुशलीरामस्त्वांचकौशलमब्रवीत्/योब्राह्ममस्त्रंवेदांश्चवेदवेदविदांवरः/सत्वांदाशरथीरामोदेविकौशलमब्रवीत्/लक्ष्मणश्चमहातेजाभर्तुस्तेऽनुचरःप्रियः/कृतवाञ्शोकसंतप्तःशिरसातेऽभिवादनम्/सातयोःकुशलंदेवीनिशम्यनरसिंहयोः/प्रीतिसंहृष्टसर्वाङ्गीहनूमान्तमथाब्रवीत्/कल्याणीबतगथेयंलौकिकीप्रतिभातिमे/एहिजीवन्तमानदोनरंवर्षशतादपि/तयोःसमागमेतस्मिन्प्रीतिरुत्पादिताद्भुता/परस्परेणचालापंविश्वस्तौतौप्रचक्रतुः/तस्यास्तद्वचनंश्रुत्वाहनूमान्हरियूथपः/सीतायाःशोकदीनायाःसमीपमुपचक्रमे/यथायथासमीपंसहनूमानुपसर्पति/तथातथारावणंसातंसीतापरिशङ्कते/अहोधिग्धिक्कृतमिदंकथितंहियदस्यमे/रूपान्तरमुपागम्यसएवायंहिरावणः/तामशोकस्यशाखांसाविमुक्त्वाशोककर्शिता/तस्यामेवानवद्याङ्गीधरण्यांसमुपाविशत्/अवन्दतमहाबाहुस्ततस्तांजनकात्मजाम्/साचैनंभयवित्रस्ताभूयोनैवाभ्युदैक्षत/तंदृष्ट्वावन्दमानंतुसीताशशिनिभानना/अब्रवीद्दीर्घमुच्छ्वस्यवानरंमधुरस्वरा/मायांप्रविष्टोमायावीयदित्वंरावणःस्वयम्/उत्पादयसिमेभूयःसंतापंतन्नशोभनम्/स्वंपरित्यज्यरूपंयःपरिव्राजकरूपधृत्/जनस्थानेमयादृष्टस्त्वंसएवासिरावणः/उपवासकृशांदीनांकामरूपनिशाचर/संतापयसिमांभूयःसंतापंतन्नशोभनम्/यदिरामस्यदूतस्त्वमागतोभद्रमस्तुते/पृच्छामित्वांहरिश्रेष्ठप्रियारामकथाहिमे/गुणान्रामस्यकथयप्रियस्यममवानर/चित्तंहरसिमेसौम्यनदीकूलंयथारयः/अहोस्वप्नस्यसुखतायाहमेवंचिराहृता/प्रेषितंनामपश्यामिराघवेणवनौकसं/स्वप्नेऽपियद्यहंवीरंराघवंसहलक्ष्मणम्/पश्येयंनावसीदेयंस्वप्नोऽपिमममत्सरी/नाहंस्वप्नमिमंमन्येस्वप्नेदृष्ट्वाहिवानरम्/नशक्योऽभ्युदयःप्राप्तुंप्राप्तश्चाभ्युदयोमम/किंनुस्याच्चित्तमोहोऽयंभवेद्वातगतिस्त्वियम्/उन्मादजोविकारोवास्यादियंमृगतृष्णिका/अथवानायमुन्मादोमोहोऽप्युन्मादलक्ष्मणः/संबुध्येचाहमात्मानमिमंचापिवनौकसं/इत्येवंबहुधासीतासंप्रधार्यबलाबलम्/रक्षसांकामरूपत्वान्मेनेतंराक्षसाधिपम्/एतांबुद्धिंतदाकृत्वासीतासातनुमध्यमा/नप्रतिव्याजहाराथवानरंजनकात्मजा/सीतायाश्चिन्तितंबुद्ध्वाहनूमान्मारुतात्मजः/श्रोत्रानुकूलैर्वचनैस्तदातांसंप्रहर्षयत्/आदित्यइवतेजस्वीलोककान्तःशशीयथा/राजासर्वस्यलोकस्यदेवोवैश्रवणोयथा/विक्रमेणोपपन्नश्चयथाविष्णुर्महायशाः/सत्यवादीमधुरवाग्देवोवाचस्पतिर्यथा/रूपवान्सुभगःश्रीमान्कन्दर्पइवमूर्तिमान्/स्थानक्रोधप्रहर्ताचश्रेष्ठोलोकेमहारथः/बाहुच्छायामवष्टब्धोयस्यलोकोमहात्मनः/अपकृष्याश्रमपदान्मृगरूपेणराघवम्/शून्येयेनापनीतासितस्यद्रक्ष्यसियत्फलम्/नचिराद्रावणंसंख्येयोवधिष्यतिवीर्यवान्/रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिवपावकैः/तेनाहंप्रेषितोदूतस्त्वत्सकाशमिहागतः/त्वद्वियोगेनदुःखार्तःसत्वांकौशलमब्रवीत्/लक्ष्मणश्चमहातेजाःसुमित्रानन्दवर्धनः/अभिवाद्यमहाबाहुःसोऽपिकौशलमब्रवीत्/रामस्यचसखादेविसुग्रीवोनामवानरः/राजावानरमुख्यानांसत्वांकौशलमब्रवीत्/नित्यंस्मरतिरामस्त्वांससुग्रीवःसलक्ष्मणः/दिष्ट्याजीवसिवैदेहिराक्षसीवशमागता/नचिराद्द्रक्ष्यसेरामंलक्ष्मणंचमहारथम्/मध्येवानरकोटीनांसुग्रीवंचामितौजसं/अहंसुग्रीवसचिवोहनूमान्नामवानरः/प्रविष्टोनगरींलङ्कांलङ्घयित्वामहोदधिम्/कृत्वामूर्ध्निपदन्यासंरावणस्यदुरात्मनः/त्वांद्रष्टुमुपयातोऽहंसमाश्रित्यपराक्रमम्/नाहमस्मितथादेवियथामामवगच्छसि/विशङ्कात्यज्यतामेषाश्रद्धत्स्ववदतोमम/तांतुरामकथांश्रुत्वावैदेहीवानरर्षभात्/उवाचवचनंसान्त्वमिदंमधुरयागिरा/क्वतेरामेणसंसर्गःकथंजानासिलक्ष्मणम्/वानराणांनराणांचकथमासीत्समागमः/यानिरामस्यलिङ्गानिलक्ष्मणस्यचवानर/तानिभूयःसमाचक्ष्वनमांशोकःसमाविशेत्/कीदृशंतस्यसंस्थानंरूपंरामस्यकीदृशम्/कथमूरूकथंबाहूलक्ष्मणस्यचशंसमे/एवमुक्तस्तुवैदेह्याहनूमान्मारुतात्मजः/ततोरामंयथातत्त्वमाख्यातुमुपचक्रमे/जानन्तीबतदिष्ट्यामांवैदेहिपरिपृच्छसि/भर्तुःकमलपत्राक्षिसंख्यानंलक्ष्मणस्यच/यानिरामस्यचिह्नानिलक्ष्मणस्यचयानिवै/लक्षितानिविशालाक्षिवदतःशृणुतानिमे/रामःकमलपत्राक्षःसर्वभूतमनोहरः/रूपदाक्षिण्यसंपन्नःप्रसूतोजनकात्मजे/तेजसादित्यसंकाशःक्षमयापृथिवीसमः/बृहस्पतिसमोबुद्ध्यायशसावासवोपमः/रक्षिताजीवलोकस्यस्वजनस्यचरक्षिता/रक्षितास्वस्यवृत्तस्यधर्मस्यचपरंतपः/रामोभामिनिलोकस्यचातुर्वर्ण्यस्यरक्षिता/मर्यादानांचलोकस्यकर्ताकारयिताचसः/अर्चिष्मानर्चितोऽत्यर्थंब्रह्मचर्यव्रतेस्थितः/साधूनामुपकारज्ञःप्रचारज्ञश्चकर्मणाम्/राजविद्याविनीतश्चब्राह्मणानामुपासिता/श्रुतवाञ्शीलसंपन्नोविनीतश्चपरंतपः/यजुर्वेदविनीतश्चवेदविद्भिःसुपूजितः/धनुर्वेदेचवेदेचवेदाङ्गेषुचनिष्ठितः/विपुलांसोमहाबाहुःकम्बुग्रीवःशुभाननः/गूढजत्रुःसुताम्राक्षोरामोदेविजनैःश्रुतः/दुन्दुभिस्वननिर्घोषःस्निग्धवर्णःप्रतापवान्/समःसमविभक्ताङ्गोवर्णंश्यामंसमाश्रितः/त्रिस्थिरस्त्रिप्रलम्बश्चत्रिसमस्त्रिषुचोन्नतः/त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान्/चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः/चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः/महौष्ठहनुनासश्चपञ्चस्निग्धोऽष्टवंशवान्/दशपद्मोदशबृहत्त्रिभिर्व्याप्तोद्विशुक्लवान्/षडुन्नतोनवतनुस्त्रिभिर्व्याप्नोतिराघवः/सत्यधर्मपरःश्रीमान्संग्रहानुग्रहेरतः/देशकालविभागज्ञःसर्वलोकप्रियंवदः/भ्राताचतस्यद्वैमात्रःसौमित्रिरपराजितः/अनुरागेणरूपेणगुणैश्चैवतथाविधः/त्वामेवमार्गमाणोतौविचरन्तौवसुंधराम्/ददर्शतुर्मृगपतिंपूर्वजेनावरोपितम्/ऋश्यमूकस्यपृष्ठेतुबहुपादपसंकुले/भ्रातुर्भार्यार्तमासीनंसुग्रीवंप्रियदर्शनम्/वयंतुहरिराजंतंसुग्रीवंसत्यसंगरम्/परिचर्यामहेराज्यात्पूर्वजेनावरोपितम्/ततस्तौचीरवसनौधनुःप्रवरपाणिनौ/ऋश्यमूकस्यशैलस्यरम्यंदेशमुपागतौ/सतौदृष्ट्वानरव्याघ्रौधन्विनौवानरर्षभः/अभिप्लुतोगिरेस्तस्यशिखरंभयमोहितः/ततःसशिखरेतस्मिन्वानरेन्द्रोव्यवस्थितः/तयोःसमीपंमामेवप्रेषयामाससत्वरः/तावहंपुरुषव्याघ्रौसुग्रीववचनात्प्रभू/रूपलक्षणसंपन्नौकृताञ्जलिरुपस्थितः/तौपरिज्ञाततत्त्वार्थौमयाप्रीतिसमन्वितौ/पृष्ठमारोप्यतंदेशंप्रापितौपुरुषर्षभौ/निवेदितौचतत्त्वेनसुग्रीवायमहात्मने/तयोरन्योन्यसंभाषाद्भृशंप्रीतिरजायत/तत्रतौकीर्तिसंपन्नौहरीश्वरनरेश्वरौ/परस्परकृताश्वासौकथयापूर्ववृत्तया/तंततःसान्त्वयामाससुग्रीवंलक्ष्मणाग्रजः/स्त्रीहेतोर्वालिनाभ्रात्रानिरस्तमुरुतेजसा/ततस्त्वन्नाशजंशोकंरामस्याक्लिष्टकर्मणः/लक्ष्मणोवानरेन्द्रायसुग्रीवायन्यवेदयत्/सश्रुत्वावानरेन्द्रस्तुलक्ष्मणेनेरितंवचः/तदासीन्निष्प्रभोऽत्यर्थंग्रहग्रस्तइवांशुमान्/ततस्त्वद्गात्रशोभीनिरक्षसाह्रियमाणया/यान्याभरणजालानिपातितानिमहीतले/तानिसर्वाणिरामायआनीयहरियूथपाः/संहृष्टादर्शयामासुर्गतिंतुनविदुस्तव/तानिरामायदत्तानिमयैवोपहृतानिच/स्वनवन्त्यवकीर्णन्तितस्मिन्विहतचेतसि/तान्यङ्केदर्शनीयानिकृत्वाबहुविधंततः/तेनदेवप्रकाशेनदेवेनपरिदेवितम्/पश्यतस्तस्यारुदतस्ताम्यतश्चपुनःपुनः/प्रादीपयन्दाशरथेस्तानिशोकहुताशनम्/शयितंचचिरंतेनदुःखार्तेनमहात्मना/मयापिविविधैर्वाक्यैःकृच्छ्रादुत्थापितःपुनः/तानिदृष्ट्वामहार्हाणिदर्शयित्वामुहुर्मुहुः/राघवःसहसौमित्रिःसुग्रीवेसन्यवेदयत्/सतवादर्शनादार्येराघवःपरितप्यते/महताज्वलतानित्यमग्निनेवाग्निपर्वतः/त्वत्कृतेतमनिद्राचशोकश्चिन्ताचराघवम्/तापयन्तिमहात्मानमग्न्यगारमिवाग्नयः/तवादर्शनशोकेनराघवःप्रविचाल्यते/महताभूमिकम्पेनमहानिवशिलोच्चयः/कानानानिसुरम्याणिनदीप्रस्रवणानिच/चरन्नरतिमाप्नोतित्वमपश्यन्नृपात्मजे/सत्वांमनुजशार्दूलःक्षिप्रंप्राप्स्यतिराघवः/समित्रबान्धवंहत्वारावणंजनकात्मजे/सहितौरामसुग्रीवावुभावकुरुतांतदा/समयंवालिनंहन्तुंतवचान्वेषणंतथा/ततोनिहत्यतरसारामोवालिनमाहवे/सर्वर्क्षहरिसंघानांसुग्रीवमकरोत्पतिम्/रामसुग्रीवयोरैक्यंदेव्येवंसमजायत/हनूमन्तंचमांविद्धितयोर्दूतमिहागतम्/स्वराज्यंप्राप्यसुग्रीवःसमनीयमहाहरीन्/त्वदर्थंप्रेषयामासदिशोदशमहाबलान्/आदिष्टावानरेन्द्रेणसुग्रीवेणमहौजसः/अद्रिराजप्रतीकाशाःसर्वतःप्रस्थितामहीम्/अङ्गदोनामलक्ष्मीवान्वालिसूनुर्महाबलः/प्रस्थितःकपिशार्दूलस्त्रिभागबलसंवृतः/तेषांनोविप्रनष्टानांविन्ध्येपर्वतसत्तमे/भृशंशोकपरीतनामहोरात्रगणागताः/तेवयंकार्यनैराश्यात्कालस्यातिक्रमेणच/भयाच्चकपिराजस्यप्राणांस्त्यक्तुंव्यवस्थिताः/विचित्यवनदुर्गाणिगिरिप्रस्रवणानिच/अनासाद्यपदंदेव्याःप्राणांस्त्यक्तुंव्यवस्थिताः/भृशंशोकार्णवेमग्नःपर्यदेवयदङ्गदः/तवनाशंचवैदेहिवालिनश्चतथावधम्/प्रायोपवेशमस्माकंमरणंचजटायुषः/तेषांनःस्वामिसंदेशान्निराशानांमुमूर्षताम्/कार्यहेतोरिवायातःशकुनिर्वीर्यवान्महान्/गृध्रराजस्यसोदर्यःसंपातिर्नामगृध्रराट्/श्रुत्वाभ्रातृवधंकोपादिदंवचनमब्रवीत्/यवीयान्केनमेभ्राताहतःक्वचविनाशितः/एतदाख्यातुमिच्छामिभवद्भिर्वानरोत्तमाः/अङ्गदोऽकथयत्तस्यजनस्थानेमहद्वधम्/रक्षसाभीमरूपेणत्वामुद्दिश्ययथातथम्/जटायोस्तुवधंश्रुत्वादुःखितःसोऽरुणात्मजः/त्वामाहसवरारोहेवसन्तींरावणालये/तस्यतद्वचनंश्रुत्वासंपातेःप्रीतिवर्धनम्/अङ्गदप्रमुखाःसर्वेततःसंप्रस्थितावयम्/त्वद्दर्शनकृतोत्साहाहृष्टास्तुष्टाःप्लवंगमाः/अथाहंहरिसैन्यस्यसागरंदृश्यसीदतः/व्यवधूयभयंतीव्रंयोजनानांशतंप्लुतः/लङ्काचापिमयारात्रौप्रविष्टाराक्षसाकुला/रावणश्चमयादृष्टस्त्वंचशोकनिपीडिता/एतत्तेसर्वमाख्यातंयथावृत्तमनिन्दिते/अभिभाषस्वमांदेविदूतोदाशरथेरहम्/त्वंमांरामकृतोद्योगंत्वन्निमित्तमिहागतम्/सुग्रीवसचिवंदेविबुध्यस्वपवनात्मजम्/कुशलीतवकाकुत्स्थःसर्वशस्त्रभृतांवरः/गुरोराराधनेयुक्तोलक्ष्मणश्चसुलक्षणः/तस्यवीर्यवतोदेविभर्तुस्तवहितेरतः/अहमेकस्तुसंप्राप्तःसुग्रीववचनादिह/मयेयमसहायेनचरताकामरूपिणा/दक्षिणादिगनुक्रान्तात्वन्मार्गविचयैषिणा/दिष्ट्याहंहरिसैन्यानांत्वन्नाशमनुशोचताम्/अपनेष्यामिसंतापंतवाभिगमशंसनात्/दिष्ट्याहिनममव्यर्थंदेविसागरलङ्घनम्/प्राप्स्याम्यहमिदंदिष्ट्यात्वद्दर्शनकृतंयशः/राघवश्चमहावीर्यःक्षिप्रंत्वामभिपत्स्यते/समित्रबान्धवंहत्वारावणंराक्षसाधिपम्/कौरजोनामवैदेहिगिरीणामुत्तमोगिरिः/ततोगच्छतिगोकर्णंपर्वतंकेसरीहरिः/सचदेवर्षिभिर्दृष्टःपितामममहाकपिः/तीर्थेनदीपतेःपुण्येशम्बसादनमुद्धरत्/तस्याहंहरिणःक्षेत्रेजातोवातेनमैथिलि/हनूमानितिविख्यातोलोकेस्वेनैवकर्मणा/विश्वासार्थंतुवैदेहिभर्तुरुक्तामयागुणाः/एवंविश्वासितासीताहेतुभिःशोककर्शिता/उपपन्नैरभिज्ञानैर्दूतंतमवगच्छति/अतुलंचगताहर्षंप्रहर्षेणतुजानकी/नेत्राभ्यांवक्रपक्ष्माभ्यांमुमोचानन्दजंजलम्/चारुतच्चाननंतस्यास्ताम्रशुक्लायतेक्षणम्/अशोभतविशालाक्ष्याराहुमुक्तइवोडुराट्/हनूमन्तंकपिंव्यक्तंमन्यतेनान्यथेतिसा/अथोवाचहनूमांस्तामुत्तरंप्रियदर्शनाम्/हतेऽसुरेसंयतिशम्बसादने॑कपिप्रवीरेणमहर्षिचोदनात्/ततोऽस्मिवायुप्रभवोहिमैथिलि॑प्रभावतस्तत्प्रतिमश्चवानरः/भूयएवमहातेजाहनूमान्मारुतात्मजः/अब्रवीत्प्रश्रितंवाक्यंसीताप्रत्ययकारणात्/वानरोऽहंमहाभागेदूतोरामस्यधीमतः/रामनामाङ्कितंचेदंपश्यदेव्यङ्गुलीयकम्/समाश्वसिहिभद्रंतेक्षीणदुःखफलाह्यसि/गृहीत्वाप्रेक्षमाणासाभर्तुःकरविभूषणम्/भर्तारमिवसंप्राप्ताजानकीमुदिताभवत्/चारुतद्वदनंतस्यास्ताम्रशुक्लायतेक्षणम्/बभूवप्रहर्षोदग्रंराहुमुक्तइवोडुराट्/ततःसाह्रीमतीबालाभर्तुःसंदेशहर्षिता/परितुट्षाप्रियंश्रुत्वाप्राशंसतमहाकपिम्/विक्रान्तस्त्वंसमर्थस्त्वंप्राज्ञस्त्वंवानरोत्तम/येनेदंराक्षसपदंत्वयैकेनप्रधर्षितम्/शतयोजनविस्तीर्णःसागरोमकरालयः/विक्रमश्लाघनीयेनक्रमतागोष्पदीकृतः/नहित्वांप्राकृतंमन्येवनरंवनरर्षभ/यस्यतेनास्तिसंत्रासोरावणान्नापिसंभ्रमः/अर्हसेचकपिश्रेष्ठमयासमभिभाषितुम्/यद्यसिप्रेषितस्तेनरामेणविदितात्मना/प्रेषयिष्यतिदुर्धर्षोरामोनह्यपरीक्षितम्/पराक्रममविज्ञायमत्सकाशंविशेषतः/दिष्ट्याचकुशलीरामोधर्मात्माधर्मवत्सलः/लक्ष्मणश्चमहातेजाःसुमित्रानन्दवर्धनः/कुशलीयदिकाकुत्स्थःकिंनुसागरमेखलाम्/महींदहतिकोपेनयुगान्ताग्निरिवोत्थितः/अथवाशक्तिमन्तौतौसुराणामपिनिग्रहे/ममैवतुनदुःखानामस्तिमन्येविपर्ययः/कच्चिच्चव्यथतेरामःकच्चिन्नपरिपत्यते/उत्तराणिचकार्याणिकुरुतेपुरुषोत्तमः/कच्चिन्नदीनःसंभ्रान्तःकार्येषुचनमुह्यति/कच्चिन्पुरुषकार्याणिकुरुतेनृपतेःसुतः/द्विविधंत्रिविधोपायमुपायमपिसेवते/विजिगीषुःसुहृत्कच्चिन्मित्रेषुचपरंतपः/कच्चिन्मित्राणिलभतेमित्रैश्चाप्यभिगम्यते/कच्चित्कल्याणमित्रश्चमित्रैश्चापिपुरस्कृतः/कच्चिदाशास्तिदेवानांप्रसादंपार्थिवात्मजः/कच्चित्पुरुषकारंचदैवंचप्रतिपद्यते/कच्चिन्नविगतस्नेहोविवासान्मयिराघवः/कच्चिन्मांव्यसनादस्मान्मोक्षयिष्यतिवानरः/सुखानामुचितोनित्यमसुखानामनूचितः/दुःखमुत्तरमासाद्यकच्चिद्रामोनसीदति/कौसल्यायास्तथाकच्चित्सुमित्रायास्तथैवच/अभीक्ष्णंश्रूयतेकच्चित्कुशलंभरतस्यच/मन्निमित्तेनमानार्हःकच्चिच्छोकेनराघवः/कच्चिन्नान्यमनारामःकच्चिन्मांतारयिष्यति/कच्चिदक्षाउहिणींभीमांभरतोभ्रातृवत्सलः/ध्वजिनींमन्त्रिभिर्गुप्तांप्रेषयिष्यतिमत्कृते/वानराधिपतिःश्रीमान्सुग्रीवःकच्चिदेष्यति/मत्कृतेहरिभिर्वीरैर्वृतोदन्तनखायुधैः/कच्चिच्चलक्ष्मणःशूरःसुमित्रानन्दवर्धनः/अस्त्रविच्छरजालेनराक्षसान्विधमिष्यति/रौद्रेणकच्चिदस्त्रेणरामेणनिहतंरणे/द्रक्ष्याम्यल्पेनकालेनरावणंससुहृज्जनम्/कच्चिन्नतद्धेमसमानवर्णं॑तस्याननंपद्मसमानगन्धि/मयाविनाशुष्यतिशोकदीनं॑जलक्षयेपद्ममिवातपेन/धर्मापदेशात्त्यजतश्चराज्यां॑मांचाप्यरण्यंनयतःपदातिम्/नासीद्व्यथायस्यनभीर्नशोकः॑कच्चित्सधैर्यंहृदयेकरोति/नचास्यमातानपितानचान्यः॑स्नेहाद्विशिष्टोऽस्तिमयासमोवा/तावद्ध्यहंदूतजिजीविषेयं॑यावत्प्रवृत्तिंशृणुयांप्रियस्य/इतीवदेवीवचनंमहार्थं॑तंवानरेन्द्रंमधुरार्थमुक्त्वा/श्रोतुंपुनस्तस्यवचोऽभिरामं॑रामार्थयुक्तंविररामरामा/सीतायावचनंश्रुत्वामारुतिर्भीमविक्रमः/शिरस्यञ्जलिमाधायवाक्यमुत्तरमब्रवीत्/नत्वामिहस्थांजानीतेरामःकमललोचनः/श्रुत्वैवतुवचोमह्यंक्षिप्रमेष्यतिराघवः/चमूंप्रकर्षन्महतींहर्यृष्कगणसंकुलाम्/विष्टम्भयित्वाबाणौघैरक्षोभ्यंवरुणालयम्/करिष्यतिपुरींलङ्कांकाकुत्स्थःशान्तराक्षसाम्/तत्रयद्यन्तरामृत्युर्यदिदेवाःसहासुराः/स्थास्यन्तिपथिरामस्यसतानपिवधिष्यति/तवादर्शनजेनार्येशोकेनसपरिप्लुतः/नशर्मलभतेरामःसिंहार्दितइवद्विपः/दर्दरेणचतेदेविशपेमूलफलेनच/मलयेनचविन्ध्येनमेरुणामन्दरेणच/यथासुनयनंवल्गुबिम्बौष्ठंचारुकुण्डलम्/मुखंद्रक्ष्यसिरामस्यपूर्णचन्द्रमिवोदितम्/क्षिप्रंद्रक्ष्यसिवैदेहिरामंप्रस्रवणेगिरौ/शतक्रतुमिवासीनंनाकपृष्ठस्यमूर्धनि/नमांसंराघवोभुङ्क्तेनचापिमधुसेवते/वन्यंसुविहितंनित्यंभक्तमश्नातिपञ्चमम्/नैवदंशान्नमशकान्नकीटान्नसरीसृपान्/राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना/नित्यंध्यानपरोरामोनित्यंशोकपरायणः/नान्यच्चिन्तयतेकिंचित्सतुकामवशंगतः/अनिद्रःसततंरामःसुप्तोऽपिचनरोत्तमः/सीतेतिमधुरांवाणींव्याहरन्प्रतिबुध्यते/दृष्ट्वाफलंवापुष्पंवायच्चान्यत्स्त्रीमनोहरम्/बहुशोहाप्रियेत्येवंश्वसंस्त्वामभिभाषते/सदेविनित्यंपरितप्यमानस्॑त्वामेवसीतेत्यभिभाषमाणः/धृतव्रतोराजसुतोमहात्मा॑तवैवलाभायकृतप्रयत्नः/सारामसंकीर्तनवीतशोका॑रामस्यशोकेनसमानशोका/शरन्मुखेनाम्बुदशेषचन्द्रा॑निशेववैदेहसुताबभूव/सीतातद्वचनंश्रुत्वापूर्णचन्द्रनिभानना/हनूमन्तमुवाचेदंधर्मार्थसहितंवचः/अमृतंविषसंसृष्टंत्वयावानरभाषितम्/यच्चनान्यमनारामोयच्चशोकपरायणः/ऐश्वर्येवासुविस्तीर्णेव्यसनेवासुदारुणे/रज्ज्वेवपुरुषंबद्ध्वाकृतान्तःपरिकर्षति/विधिर्नूनमसंहार्यःप्राणिनांप्लवगोत्तम/सौमित्रिंमांचरामंचव्यसनैःपश्यमोहितान्/शोकस्यास्यकदापारंराघवोऽधिगमिष्यति/प्लवमानःपरिश्रान्तोहतनौःसागरेयथा/राक्षसानांक्षयंकृत्वासूदयित्वाचरावणम्/लङ्कामुन्मूलितांकृत्वाकदाद्रक्ष्यतिमांपतिः/सवाच्यःसंत्वरस्वेतियावदेवनपूर्यते/अयंसंवत्सरःकालस्तावद्धिममजीवितम्/वर्ततेदशमोमासोद्वौतुशेषौप्लवंगम/रावणेननृशंसेनसमयोयःकृतोमम/विभीषणेनचभ्रात्राममनिर्यातनंप्रति/अनुनीतःप्रयत्नेननचतत्कुरुतेमतिम्/ममप्रतिप्रदानंहिरावणस्यनरोचते/रावणंमार्गतेसंख्येमृत्युःकालवशंगतम्/ज्येष्ठाकन्यानलानमविभीषणसुताकपे/तयाममैतदाख्यातंमात्राप्रहितयास्वयम्/अविन्ध्योनाममेधावीविद्वान्राक्षसपुंगवः/धृतिमाञ्शीलवान्वृद्धोरावणस्यसुसंमतः/रामात्क्षयमनुप्राप्तंरक्षसांप्रत्यचोदयत्/नचतस्यापिदुष्टात्माशृणोतिवचनंहितम्/आशंसेतिहरिश्रेष्ठक्षिप्रंमांप्राप्स्यतेपतिः/अन्तरात्माहिमेशुद्धस्तस्मिंश्चबहवोगुणाः/उत्साहःपौरुषंसत्त्वमानृशंस्यंकृतज्ञता/विक्रमश्चप्रभावश्चसन्तिवानरराघवे/चतुर्दशसहस्राणिराक्षसानांजघानयः/जनस्थानेविनाभ्रात्राशत्रुःकस्तस्यनोद्विजेत्/नसशक्यस्तुलयितुंव्यसनैःपुरुषर्षभः/अहंतस्यानुभावज्ञाशक्रस्येवपुलोमजा/शरजालांशुमाञ्शूरःकपेरामदिवाकरः/शत्रुरक्षोमयंतोयमुपशोषंनयिष्यति/इतिसंजल्पमानांतांरामार्थेशोककर्शिताम्/अश्रुसंपूर्णवदनामुवाचहनुमान्कपिः/श्रुत्वैवतुवचोमह्यंक्षिप्रमेष्यतिराघवः/चमूंप्रकर्षन्महतींहर्यृक्षगणसंकुलाम्/अथवामोचयिष्यामितामद्यैवहिराक्षसात्/अस्माद्दुःखादुपारोहममपृष्ठमनिन्दिते/त्वंहिपृष्ठगतांकृत्वासंतरिष्यामिसागरम्/शक्तिरस्तिहिमेवोढुंलङ्कामपिसरावणाम्/अहंप्रस्रवणस्थायराघवायाद्यमैथिलि/प्रापयिष्यामिशक्रायहव्यंहुतमिवानलः/द्रक्ष्यस्यद्यैववैदेहिराघवंसहलक्ष्मणम्/व्यवसायसमायुक्तंविष्णुंदैत्यवधेयथा/त्वद्दर्शनकृतोत्साहमाश्रमस्थंमहाबलम्/पुरंदरमिवासीनंनागराजस्यमूर्धनि/पृष्ठमारोहमेदेविमाविकाङ्क्षस्वशोभने/योगमन्विच्छरामेणशशाङ्केनेवरोहिणी/कथयन्तीवचन्द्रेणसूर्येणेवसुवर्चला/मत्पृष्ठमधिरुह्यत्वंतराकाशमहार्णवम्/नहिमेसंप्रयातस्यत्वामितोनयतोऽङ्गने/अनुगन्तुंगतिंशक्ताःसर्वेलङ्कानिवासिनः/यथैवाहमिहप्राप्तस्तथैवाहमसंशयम्/यास्यामिपश्यवैदेहित्वामुद्यम्यविहायसं/मैथिलीतुहरिश्रेष्ठाच्छ्रुत्वावचनमद्भुतम्/हर्षविस्मितसर्वाङ्गीहनूमन्तमथाब्रवीत्/हनूमन्दूरमध्वनंकथंमांवोढुमिच्छसि/तदेवखलुतेमन्येकपित्वंहरियूथप/कथंवाल्पशरीरस्त्वंमामितोनेतुमिच्छसि/सकाशंमानवेन्द्रस्यभर्तुर्मेप्लवगर्षभ/सीतायावचनंश्रुत्वाहनूमान्मारुतात्मजः/चिन्तयामासलक्ष्मीवान्नवंपरिभवंकृतम्/नमेजानातिसत्त्वंवाप्रभावंवासितेक्षणा/तस्मात्पश्यतुवैदेहीयद्रूपंममकामतः/इतिसंचिन्त्यहनुमांस्तदाप्लवगसत्तमः/दर्शयामासवैदेह्याःस्वरूपमरिमर्दनः/सतस्मात्पादपाद्धीमानाप्लुत्यप्लवगर्षभः/ततोवर्धितुमारेभेसीताप्रत्ययकारणात्/मेरुमन्दारसंकाशोबभौदीप्तानलप्रभः/अग्रतोव्यवतस्थेचसीतायावानरर्षभः/हरिःपर्वतसंकाशस्ताम्रवक्त्रोमहाबलः/वज्रदंष्ट्रनखोभीमोवैदेहीमिदमब्रवीत्/सपर्वतवनोद्देशांसाट्टप्राकारतोरणाम्/लङ्कामिमांसनथांवानयितुंशक्तिरस्तिमे/तदवस्थाप्यतांबुद्धिरलंदेविविकाङ्क्षया/विशोकंकुरुवैदेहिराघवंसहलक्ष्मणम्/तंदृष्ट्वाचलसंकाशमुवाचजनकात्मजा/पद्मपत्रविशालाक्षीमारुतस्यौरसंसुतम्/तवसत्त्वंबलंचैवविजानामिमहाकपे/वायोरिवगतिंचापितेजश्चाग्निरिवाद्भुतम्/प्राकृतोऽन्यःकथंचेमांभूमिमागन्तुमर्हति/उदधेरप्रमेयस्यपारंवानरपुंगव/जानामिगमनेशक्तिंनयनेचापितेमम/अवश्यंसाम्प्रधार्याशुकार्यसिद्धिरिहात्मनः/अयुक्तंतुकपिश्रेष्ठमयागन्तुंत्वयासह/वायुवेगसवेगस्यवेगोमांमोहयेत्तव/अहमाकाशमासक्ताउपर्युपरिसागरम्/प्रपतेयंहितेपृष्ठाद्भयाद्वेगेनगच्छतः/पतितासागरेचाहंतिमिनक्रझषाकुले/भयेयमाशुविवशायादसामन्नमुत्तमम्/नचशक्ष्येत्वयासार्धंगन्तुंशत्रुविनाशन/कलत्रवतिसंदेहस्त्वय्यपिस्यादसंशयम्/ह्रियमाणांतुमांदृष्ट्वाराक्षसाभीमविक्रमाः/अनुगच्छेयुरादिष्टारावणेनदुरात्मना/तैस्त्वंपरिवृतःशूरैःशूलमुद्गरपाणिभिः/भवेस्त्वंसंशयंप्राप्तोमयावीरकलत्रवान्/सायुधाबहवोव्योम्निराक्षसास्त्वंनिरायुधः/कथंशक्ष्यसिसंयातुंमांचैवपरिरक्षितुम्/युध्यमानस्यरक्षोभिस्ततस्तैःक्रूरकर्मभिः/प्रपतेयंहितेपृष्ठद्भयार्ताकपिसत्तम/अथरक्षांसिभीमानिमहान्तिबलवन्तिच/कथंचित्साम्परायेत्वांजयेयुःकपिसत्तम/अथवायुध्यमानस्यपतेयंविमुखस्यते/पतितांचगृहीत्वामांनयेयुःपापराक्षसाः/मांवाहरेयुस्त्वद्धस्ताद्विशसेयुरथापिवा/अव्यवस्थौहिदृश्येतेयुद्धेजयपराजयौ/अहंवापिविपद्येयंरक्षोभिरभितर्जिता/त्वत्प्रयत्नोहरिश्रेष्ठभवेन्निष्फलएवतु/कामंत्वमपिपर्याप्तोनिहन्तुंसर्वराक्षसान्/राघवस्ययशोहीयेत्त्वयाशस्तैस्तुराक्षसैः/अथवादायरक्षांसिन्यस्येयुःसंवृतेहिमाम्/यत्रतेनाभिजानीयुर्हरयोनापिराघवः/आरम्भस्तुमदर्थोऽयंततस्तवनिरर्थकः/त्वयाहिसहरामस्यमहानागमनेगुणः/मयिजीवितमायत्तंराघवस्यमहात्मनः/भ्रातॄणांचमहाबाहोतवराजकुलस्यच/तौनिराशौमदर्थेतुशोकसंतापकर्शितौ/सहसर्वर्क्षहरिभिस्त्यक्ष्यतःप्राणसंग्रहम्/भर्तुर्भक्तिंपुरस्कृत्यरामादन्यस्यवानर/नाहंस्प्रष्टुंपदागात्रमिच्छेयंवानरोत्तम/यदहंगात्रसंस्पर्शंरावणस्यगताबलात्/अनीशाकिंकरिष्यामिविनाथाविवशासती/यदिरामोदशग्रीवमिहहत्वासराक्षसं/मामितोगृह्यगच्छेततत्तस्यसदृशंभवेत्/श्रुताहिदृष्टाश्चमयापराक्रमा॑महात्मनस्तस्यरणावमर्दिनः/नदेवगन्धर्वभुजंगराक्षसा॑भवन्तिरामेणसमाहिसंयुगे/समीक्ष्यतंसंयतिचित्रकार्मुकं॑महाबलंवासवतुल्यविक्रमम्/सलक्ष्मणंकोविषहेतराघवं॑हुताशनंदीप्तमिवानिलेरितम्/सलक्ष्मणंराघवमाजिमर्दनं॑दिशागजंमत्तमिवव्यवस्थितम्/सहेतकोवानरमुख्यसंयुगे॑युगान्तसूर्यप्रतिमंशरार्चिषम्/समेहरिश्रेष्ठसलक्ष्मणंपतिं॑सयूथपंक्षिप्रमिहोपपादय/चिरायरामंप्रतिशोककर्शितां॑कुरुष्वमांवानरमुख्यहर्षिताम्/ततःसकपिशार्दूलस्तेनवाक्येनहर्षितः/सीतामुवाचतच्छ्रुत्वावाक्यंवाक्यविशारदः/युक्तरूपंत्वयादेविभाषितंशुभदर्शने/सदृशंस्त्रीस्वभावस्यसाध्वीनांविनयस्यच/स्त्रीत्वंनतुसमर्थंहिसागरंव्यतिवर्तितुम्/मामधिष्ठायविस्तीर्णंशतयोजनमायतम्/द्वितीयंकारणंयच्चब्रवीषिविनयान्विते/रामादन्यस्यनार्हामिसंस्पर्शमितिजानकि/एतत्तेदेविसदृशंपत्न्यास्तस्यमहात्मनः/काह्यन्यात्वामृतेदेविब्रूयाद्वचनमीदृशम्/श्रोष्यतेचैवकाकुत्स्थःसर्वंनिरवशेषतः/चेष्टितंयत्त्वयादेविभाषितंममचाग्रतः/कारणैर्बहुभिर्देविरामप्रियचिकीर्षया/स्नेहप्रस्कन्नमनसामयैतत्समुदीरितम्/लङ्कायादुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः/सामर्थ्यादात्मनश्चैवमयैतत्समुदाहृतम्/इच्छामित्वांसमानेतुमद्यैवरघुबन्धुना/गुरुस्नेहेनभक्त्याचनान्यथातदुदाहृतम्/यदिनोत्सहसेयातुंमयासार्धमनिन्दिते/अभिज्ञानंप्रयच्छत्वंजानीयाद्राघवोहियत्/एवमुक्ताहनुमतासीतासुरसुतोपमा/उवाचवचनंमन्दंबाष्पप्रग्रथिताक्षरम्/इदंश्रेष्ठमभिज्ञानंब्रूयास्त्वंतुममप्रियम्/शैलस्यचित्रकूटस्यपादेपूर्वोत्तरेतदा/तापसाश्रमवासिन्याःप्राज्यमूलफलोदके/तस्मिन्सिद्धाश्रमेदेशेमन्दाकिन्याअदूरतः/तस्योपवनषण्डेषुनानापुष्पसुगन्धिषु/विहृत्यसलिलक्लिन्नातवाङ्केसमुपाविशम्/पर्यायेणप्रसुप्तश्चममाङ्केभरताग्रजः/ततोमांससमायुक्तोवायसःपर्यतुण्डयत्/तमहंलोष्टमुद्यम्यवारयामिस्मवायसं/दारयन्सचमांकाकस्तत्रैवपरिलीयते/नचाप्युपरमन्मांसाद्भक्षार्थीबलिभोजनः/उत्कर्षन्त्यांचरशनांक्रुद्धायांमयिपक्षिणे/स्रंसमानेचवसनेततोदृष्टात्वयाह्यहम्/त्वयाविहसिताचाहंक्रुद्धासंलज्जितातदा/भक्ष्यगृद्धेनकालेनदारितात्वामुपागता/आसीनस्यचतेश्रान्तापुनरुत्सङ्गमाविशम्/क्रुध्यन्तीचप्रहृष्टेनत्वयाहंपरिसान्त्विता/बाष्पपूर्णमुखीमन्दंचक्षुषीपरिमार्जती/लक्षिताहंत्वयानाथवायसेनप्रकोपिता/आशीविषइवक्रुद्धःश्वसान्वाक्यमभाषथाः/केनतेनागनासोरुविक्षतंवैस्तनान्तरम्/कःक्रीडतिसरोषेणपञ्चवक्त्रेणभोगिना/वीक्षमाणस्ततस्तंवैवायसंसमवैक्षथाः/नखैःसरुधिरैस्तीक्ष्णैर्मामेवाभिमुखंस्थितम्/पुत्रःकिलसशक्रस्यवायसःपततांवरः/धरान्तरचरःशीघ्रंपवनस्यगतौसमः/ततस्तस्मिन्महाबाहुःकोपसंवर्तितेक्षणः/वायसेकृतवान्क्रूरांमतिंमतिमतांवर/सदर्भसंस्तराद्गृह्यब्रह्मणोऽस्त्रेणयोजयः/सदीप्तइवकालाग्निर्जज्वालाभिमुखोद्विजम्/चिक्षेपिथप्रदीप्तांतामिषीकांवायसंप्रति/अनुसृष्टस्तदाकालोजगामविविधांगतिम्/त्राणकामइमंलोकंसर्वंवैविचचारह/सपित्राचपरित्यक्तःसुरैःसर्वैर्महर्षिभिः/त्रींल्लोकान्संपरिक्रम्यत्वामेवशरणंगतः/तंत्वंनिपतितंभूमौशरण्यःशरणागतम्/वधार्हमपिकाकुत्स्थकृपयापर्यपालयः/नशर्मलब्ध्वालोकेषुत्वामेवशरणंगतः/परिद्यूनंविषण्णंचसत्वमायान्तमुक्तवान्/मोघंकर्तुंनशक्यंतुब्राह्ममस्त्रंतदुच्यताम्/ततस्तस्याक्षिकाकस्यहिनस्तिस्मसदक्षिणम्/सतेतदानमस्कृत्वाराज्ञेदशरथायच/त्वयावीरविसृष्टस्तुप्रतिपेदेस्वमालयम्/मत्कृतेकाकमात्रेऽपिब्रह्मास्त्रंसमुदीरितम्/कस्माद्योमांहरत्त्वत्तःक्षमसेतंमहीपते/सकुरुष्वमहोत्साहंकृपांमयिनरर्षभ/आनृशंस्यंपरोधर्मस्त्वत्तएवमयाश्रुतः/जानामित्वांमहावीर्यंमहोत्साहंमहाबलम्/अपारपारमक्षोभ्यंगाम्भीर्यात्सागरोपमम्/भर्तारंससमुद्रायाधरण्यावासवोपमम्/एवमस्त्रविदांश्रेष्ठःसत्त्ववान्बलवानपि/किमर्थमस्त्रंरक्षःसुनयोजयसिराघव/ननागानापिगन्धर्वानासुरानमरुद्गणाः/रामस्यसमरेवेगंशक्ताःप्रतिसमाधितुम्/तस्यावीर्यवतःकश्चिद्यद्यस्तिमयिसंभ्रमः/किमर्थंनशरैस्तीक्ष्णैःक्षयंनयतिराक्षसान्/भ्रातुरादेशमादायलक्ष्मणोवापरंतपः/कस्यहेतोर्नमांवीरःपरित्रातिमहाबलः/यदितौपुरुषव्याघ्रौवाय्विन्द्रसमतेजसौ/सुराणामपिदुर्धर्षोकिमर्थंमामुपेक्षतः/ममैवदुष्कृतंकिंचिन्महदस्तिनसंशयः/समर्थावपितौयन्मांनावेक्षेतेपरंतपौ/कौसल्यालोकभर्तारंसुषुवेयंमनस्विनी/तंममार्थेसुखंपृच्छशिरसाचाभिवादय/स्रजश्चसर्वरत्नानिप्रियायाश्चवराङ्गनाः/ऐश्वर्यंचविशालायांपृथिव्यामपिदुर्लभम्/पितरंमातरंचैवसंमान्याभिप्रसाद्यच/अनुप्रव्रजितोरामंसुमित्रायेनसुप्रजाः/आनुकूल्येनधर्मात्मात्यक्त्वासुखमनुत्तमम्/अनुगच्छतिकाकुत्स्थंभ्रातरंपालयन्वने/सिंहस्कन्धोमहाबाहुर्मनस्वीप्रियदर्शनः/पितृवद्वर्ततेरामेमातृवन्मांसमाचरन्/ह्रियमाणांतदावीरोनतुमांवेदलक्ष्मणः/वृद्धोपसेवीलक्ष्मीवाञ्शक्तोनबहुभाषिता/राजपुत्रःप्रियश्रेष्ठःसदृशःश्वशुरस्यमे/मत्तःप्रियतरोनित्यंभ्रातारामस्यलक्ष्मणः/नियुक्तोधुरियस्यांतुतामुद्वहतिवीर्यवान्/यंदृष्ट्वाराघवोनैववृद्धमार्यमनुस्मरत्/सममार्थायकुशलंवक्तव्योवचनान्मम/मृदुर्नित्यंशुचिर्दक्षःप्रियोरामस्यलक्ष्मणः/इदंब्रूयाश्चमेनाथंशूरंरामंपुनःपुनः/जीवितंधारयिष्यामिमासंदशरथात्मज/ऊर्ध्वंमासान्नजीवेयंसत्येनाहंब्रवीमिते/रावणेनोपरुद्धांमांनिकृत्यापापकर्मणा/त्रातुमर्हसिवीरत्वंपातालादिवकौशिकीम्/ततोवस्त्रगतंमुक्त्वादिव्यंचूडामणिंशुभम्/प्रदेयोराघवायेतिसीताहनुमतेददौ/प्रतिगृह्यततोवीरोमणिरत्नमनुत्तमम्/अङ्गुल्यायोजयामासनह्यस्याप्राभवद्भुजः/मणिरत्नंकपिवरःप्रतिगृह्याभिवाद्यच/सीतांप्रदक्षिणंकृत्वाप्रणतःपार्श्वतःस्थितः/हर्षेणमहतायुक्तःसीतादर्शनजेनसः/हृदयेनगतोरामंशरीरेणतुविष्ठितः/मणिवरमुपगृह्यतंमहार्हं॑जनकनृपात्मजयाधृतंप्रभावात्/गिरिवरपवनावधूतमुक्तः॑सुखितमनाःप्रतिसंक्रमंप्रपेदे/मणिंदत्त्वाततःसीताहनूमन्तमथाब्रवीत्/अभिज्ञानमभिज्ञातमेतद्रामस्यतत्त्वतः/मणिंतुदृष्ट्वारामोवैत्रयाणांसंस्मरिष्यति/वीरोजनन्याममचराज्ञोदशरथस्यच/सभूयस्त्वंसमुत्साहेचोदितोहरिसत्तम/अस्मिन्कार्यसमारम्भेप्रचिन्तययदुत्तरम्/त्वमस्मिन्कार्यनिर्योगेप्रमाणंहरिसत्तम/तस्यचिन्तययोयत्नोदुःखक्षयकरोभवेत्/सतथेतिप्रतिज्ञायमारुतिर्भीमविक्रमः/शिरसावन्द्यवैदेहींगमनायोपचक्रमे/ज्ञात्वासंप्रस्थितंदेवीवानरंमारुतात्मजम्/बाष्पगद्गदयावाचामैथिलीवाक्यमब्रवीत्/कुशलंहनुमन्ब्रूयाःसहितौरामलक्ष्मणौ/सुग्रीवंचसहामात्यंवृद्धान्सर्वांश्चवानरान्/यथाचसमहाबाहुर्मांतारयतिराघवः/अस्माद्दुःखाम्बुसंरोधात्त्वंसमाधातुमर्हसि/जीवन्तींमांयथारामःसंभावयतिकीर्तिमान्/तत्त्वयाहनुमन्वाच्यंवाचाधर्ममवाप्नुहि/नित्यमुत्साहयुक्ताश्चवाचःश्रुत्वामयेरिताः/वर्धिष्यतेदाशरथेःपौरुषंमदवाप्तये/मत्संदेशयुतावाचस्त्वत्तःश्रुत्वैवराघवः/पराक्रमविधिंवीरोविधिवत्संविधास्यति/सीतायास्तद्वचःश्रुत्वाहनुमान्मारुतात्मजः/शिरस्यञ्जलिमाधायवाक्यमुत्तरमब्रवीत्/क्षिप्रमेष्यतिकाकुत्स्थोहर्यृक्षप्रवरैर्वृतः/यस्तेयुधिविजित्यारीञ्शोकंव्यपनयिष्यति/नहिपश्यामिमर्त्येषुनामरेष्वसुरेषुवा/यस्तस्यवमतोबाणान्स्थातुमुत्सहतेऽग्रतः/अप्यर्कमपिपर्जन्यमपिवैवस्वतंयमम्/सहिसोढुंरणेशक्तस्तवहेतोर्विशेषतः/सहिसागरपर्यन्तांमहींशासितुमीहते/त्वन्निमित्तोहिरामस्यजयोजनकनन्दिनि/तस्यतद्वचनंश्रुत्वासम्यक्सत्यंसुभाषितम्/जानकीबहुमेनेऽथवचनंचेदमब्रवीत्/ततस्तंप्रस्थितंसीतावीक्षमाणापुनःपुनः/भर्तुःस्नेहान्वितंवाक्यंसौहार्दादनुमानयत्/यदिवामन्यसेवीरवसैकाहमरिंदम/कस्मिंश्चित्संवृतेदेशेविश्रान्तःश्वोगमिष्यसि/ममचेदल्पभाग्यायाःसाम्निध्यात्तववीर्यवान्/अस्यशोकस्यमहतोमुहूर्तंमोक्षणंभवेत्/गतेहिहरिशार्दूलपुनरागमनायतु/प्राणानामपिसंदेहोममस्यान्नात्रसंशयः/तवादर्शनजःशोकोभूयोमांपरितापयेत्/दुःखाद्दुःखपरामृष्टांदीपयन्निववानर/अयंचवीरसंदेहस्तिष्ठतीवममाग्रतः/सुमहांस्त्वत्सहायेषुहर्यृक्षेषुहरीश्वर/कथंनुखलुदुष्पारंतरिष्यन्तिमहोदधिम्/तानिहर्यृक्षसैन्यानितौवानरवरात्मजौ/त्रयाणामेवभूतानांसागरस्येहलङ्घने/शक्तिःस्याद्वैनतेयस्यतववामारुतस्यवा/तदस्मिन्कार्यनिर्योगेवीरैवंदुरतिक्रमे/किंपश्यसिसमाधानंत्वंहिकार्यविदांवरः/काममस्यत्वमेवैकःकार्यस्यपरिसाधने/पर्याप्तःपरवीरघ्नयशस्यस्तेबलोदयः/बलैःसमग्रैर्यदिमांरावणंजित्यसंयुगे/विजयीस्वपुरंयायात्तत्तुमेस्याद्यशस्करम्/बलैस्तुसंकुलांकृत्वालङ्कांपरबलार्दनः/मांनयेद्यदिकाकुत्स्थस्तत्तस्यसदृशंभवेत्/तद्यथातस्यविक्रान्तमनुरूपंमहात्मनः/भवेदाहवशूरस्यतथात्वमुपपादय/तदर्थोपहितंवाक्यंसहितंहेतुसंहितम्/निशम्यहनुमाञ्शेषंवाक्यमुत्तरमब्रवीत्/देविहर्यृक्षसैन्यानामीश्वरःप्लवतांवरः/सुग्रीवःसत्त्वसंपन्नस्तवार्थेकृतनिश्चयः/सवानरसहस्राणांकोटीभिरभिसंवृतः/क्षिप्रमेष्यतिवैदेहिराक्षसानांनिबर्हणः/तस्यविक्रमसंपन्नाःसत्त्ववन्तोमहाबलाः/मनःसंकल्पसंपातानिदेशेहरयःस्थिताः/येषांनोपरिनाधस्तान्नतिर्यक्सज्जतेगतिः/नचकर्मसुसीदन्तिमहत्स्वमिततेजसः/असकृत्तैर्महोत्सहैःससागरधराधरा/प्रदक्षिणीकृताभूमिर्वायुमार्गानुसारिभिः/मद्विशिष्टाश्चतुल्याश्चसन्तितत्रवनौकसः/मत्तःप्रत्यवरःकश्चिन्नास्तिसुग्रीवसंनिधौ/अहंतावदिहप्राप्तःकिंपुनस्तेमहाबलाः/नहिप्रकृष्टाःप्रेष्यन्तेप्रेष्यन्तेहीतरेजनाः/तदलंपरितापेनदेविशोकोव्यपैतुते/एकोत्पातेनतेलङ्कामेष्यन्तिहरियूथपाः/ममपृष्ठगतौतौचचन्द्रसूर्याविवोदितौ/त्वत्सकाशंमहासत्त्वौनृसिंहावागमिष्यतः/तौहिवीरौनरवरौसहितौरामलक्ष्मणौ/आगम्यनगरींलङ्कांसायकैर्विधमिष्यतः/सगणंरावणंहत्वाराघवोरघुनन्दनः/त्वामादायवरारोहेस्वपुरंप्रतियास्यति/तदाश्वसिहिभद्रंतेभवत्वंकालकाङ्क्षिणी/नचिराद्द्रक्ष्यसेरामंप्रज्वजन्तमिवानिलम्/निहतेराक्षसेन्द्रेचसपुत्रामात्यबान्धवे/त्वंसमेष्यसिरामेणशशाङ्केनेवरोहिणी/क्षिप्रंत्वंदेविशोकस्यपारंयास्यसिमैथिलि/रावणंचैवरामेणनिहतंद्रक्ष्यसेऽचिरात्/एवमाश्वस्यवैदेहींहनूमान्मारुतात्मजः/गमनायमतिंकृत्वावैदेहींपुनरब्रवीत्/तमरिघ्नंकृतात्मानंक्षिप्रंद्रक्ष्यसिराघवम्/लक्ष्मणंचधनुष्पाणिंलङ्काद्वारमुपस्थितम्/नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान्/वानरान्वारणेन्द्राभान्क्षिप्रंद्रक्ष्यसिसंगतान्/शैलाम्बुदनिकाशानांलङ्कामलयसानुषु/नर्दतांकपिमुख्यानामार्येयूथान्यनेकशः/सतुमर्मणिघोरेणताडितोमन्मथेषुणा/नशर्मलभतेरामःसिंहार्दितइवद्विपः/मारुदोदेविशोकेनमाभूत्तेमनसोऽप्रियम्/शचीवपथ्याशक्रेणभर्त्रानाथवतीह्यसि/रामाद्विशिष्टःकोऽन्योऽस्तिकश्चित्सौमित्रिणासमः/अग्निमारुतकल्पौतौभ्रातरौतवसंश्रयौ/नास्मिंश्चिरंवत्स्यसिदेविदेशे॑रक्षोगणैरध्युषितोऽतिरौद्रे/नतेचिरादागमनंप्रियस्य॑क्षमस्वमत्संगमकालमात्रम्/श्रुत्वातुवचनंतस्यवायुसूनोर्महात्मनः/उवाचात्महितंवाक्यंसीतासुरसुतोपमा/त्वांदृष्ट्वाप्रियवक्तारंसंप्रहृष्यामिवानर/अर्धसंजातसस्येववृष्टिंप्राप्यवसुंधरा/यथातंपुरुषव्याघ्रंगात्रैःशोकाभिकर्शितैः/संस्पृशेयंसकामाहंतथाकुरुदयांमयि/अभिज्ञानंचरामस्यदत्तंहरिगणोत्तम/क्षिप्तामीषिकांकाकस्यकोपादेकाक्षिशातनीम्/मनःशिलायास्तिकलोगण्डपार्श्वेनिवेशितः/त्वयाप्रनष्टेतिलकेतंकिलस्मर्तुमर्हसि/सवीर्यवान्कथंसीतांहृतांसमनुमन्यसे/वसन्तींरक्षसांमध्येमहेन्द्रवरुणोपम/एषचूडामणिर्दिव्योमयासुपरिरक्षितः/एतंदृष्ट्वाप्रहृष्यामिव्यसनेत्वामिवानघ/एषनिर्यातितःश्रीमान्मयातेवारिसंभवः/अतःपरंनशक्ष्यामिजीवितुंशोकलालसा/असह्यानिचदुःखानिवाचश्चहृदयच्छिदः/राक्षसीनांसुघोराणांत्वत्कृतेमर्षयाम्यहम्/धारयिष्यामिमासंतुजीवितंशत्रुसूदन/मासादूर्ध्वंनजीविष्येत्वयाहीनानृपात्मज/घोरोराक्षसराजोऽयंदृष्टिश्चनसुखामयि/त्वांचश्रुत्वाविपद्यन्तंनजीवेयमहंक्षणम्/वैदेह्यावचनंश्रुत्वाकरुणंसाश्रुभाषितम्/अथाब्रवीन्महातेजाहनुमान्मारुतात्मजः/त्वच्छोकविमुखोरामोदेविसत्येनतेशपे/रामेशोकाभिभूतेतुलक्ष्मणःपरितप्यते/दृष्टाकथंचिद्भवतीनकालःपरिशोचितुम्/इमंमुहूर्तंदुःखानामन्तंद्रक्ष्यसिभामिनि/तावुभौपुरुषव्याघ्रौराजपुत्रावनिन्दितौ/त्वद्दर्शनकृतोत्साहौलङ्कांभस्मीकरिष्यतः/हत्वातुसमरेक्रूरंरावणंसहबान्धवम्/राघवौत्वांविशालाक्षिस्वांपुरींप्रापयिष्यतः/यत्तुरामोविजानीयादभिज्ञानमनिन्दिते/प्रीतिसंजननंतस्यभूयस्त्वंदातुमर्हसि/साब्रवीद्दत्तमेवेहमयाभिज्ञानमुत्तमम्/एतदेवहिरामस्यदृष्ट्वामत्केशभूषणम्/श्रद्धेयंहनुमन्वाक्यंतववीरभविष्यति/सतंमणिवरंगृह्यश्रीमान्प्लवगसत्तमः/प्रणम्यशिरसादेवींगमनायोपचक्रमे/तमुत्पातकृतोत्साहमवेक्ष्यहरिपुंगवम्/वर्धमानंमहावेगमुवाचजनकात्मजा/अश्रुपूर्णमुखीदीनाबाष्पगद्गदयागिरा/हनूमन्सिंहसंकाशौभ्रातरौरामलक्ष्मणौ/सुग्रीवंचसहामात्यंसर्वान्ब्रूयाअनामयम्/यथाचसमहाबाहुर्मांतारयतिराघवः/अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि/इमंचतीव्रंममशोकवेगं॑रक्षोभिरेभिःपरिभर्त्सनंच/ब्रूयास्तुरामस्यगतःसमीपं॑शिवश्चतेऽध्वास्तुहरिप्रवीर/सराजपुत्र्याप्रतिवेदितार्थः॑कपिःकृतार्थःपरिहृष्टचेताः/तदल्पशेषंप्रसमीक्ष्यकार्यं॑दिशंह्युदीचींमनसाजगाम/सचवाग्भिःप्रशस्ताभिर्गमिष्यन्पूजितस्तया/तस्माद्देशादपक्रम्यचिन्तयामासवानरः/अल्पशेषमिदंकार्यंदृष्टेयमसितेक्षणा/त्रीनुपायानतिक्रम्यचतुर्थइहदृश्यते/नसामरक्षःसुगुणायकल्पते॑नदनमर्थोपचितेषुवर्तते/नभेदसाध्याबलदर्पिताजनाः॑पराक्रमस्त्वेषममेहरोचते/नचास्यकार्यस्यपराक्रमादृते॑विनिश्चयःकश्चिदिहोपपद्यते/हृतप्रवीरास्तुरणेहिराक्षसाः॑कथंचिदीयुर्यदिहाद्यमार्दवम्/कार्येकर्मणिनिर्दिष्टोयोबहून्यपिसाधयेत्/पूर्वकार्यविरोधेनसकार्यंकर्तुमर्हति/नह्येकःसाधकोहेतुःस्वल्पस्यापीहकर्मणः/योह्यर्थंबहुधावेदससमर्थोऽर्थसाधने/इहैवतावत्कृतनिश्चयोह्यहं॑यदिव्रजेयंप्लवगेश्वरालयम्/परात्मसंमर्दविशेषतत्त्ववित्॑ततःकृतंस्यान्ममभर्तृशासनम्/कथंनुखल्वद्यभवेत्सुखागतं॑प्रसह्ययुद्धंममराक्षसैः/सह/तथैवखल्वात्मबलंचसारवत्॑समानयेन्मांचरणेदशाननः/इदमस्यनृशंसस्यनन्दनोपममुत्तमम्/वनंनेत्रमनःकान्तंनानाद्रुमलतायुतम्/इदंविध्वंसयिष्यामिशुष्कंवनमिवानलः/अस्मिन्भग्नेततःकोपंकरिष्यतिसरावणः/ततोमहत्साश्वमहारथद्विपं॑बलंसमानेष्वपिराक्षसाधिपः/त्रिशूलकालायसपट्टिशायुधं॑ततोमहद्युद्धमिदंभविष्यति/अहंतुतैःसंयतिचण्डविक्रमैः॑समेत्यरक्षोभिरसंगविक्रमः/निहत्यतद्रावणचोदितंबलं॑सुखंगमिष्यामिकपीश्वरालयम्/ततोमारुतवत्क्रुद्धोमारुतिर्भीमविक्रमः/ऊरुवेगेनमहताद्रुमान्क्षेप्तुमथारभत्/ततस्तद्धनुमान्वीरोबभञ्जप्रमदावनम्/मत्तद्विजसमाघुष्टंनानाद्रुमलतायुतम्/तद्वनंमथितैर्वृक्षैर्भिन्नैश्चसलिलाशयैः/चूर्णितैःपर्वताग्रैश्चबभूवाप्रियदर्शनम्/लतागृहैश्चित्रगृहैश्चनाशितैर्॑महोरगैर्व्यालमृगैश्चनिर्धुतैः/शिलागृहैरुन्मथितैस्तथागृहैः॑प्रनष्टरूपंतदभून्महद्वनम्/सतस्यकृत्वार्थपतेर्महाकपिर्॑महद्व्यलीकंमनसोमहात्मनः/युयुत्सुरेकोबहुभिर्महाबलैः॑श्रियाज्वलंस्तोरणमाश्रितःकपिः/ततःपक्षिनिनादेनवृक्षभङ्गस्वनेनच/बभूवुस्त्राससंभ्रान्ताःसर्वेलङ्कानिवासिनः/विद्रुताश्चभयत्रस्ताविनेदुर्मृगपक्षुणः/रक्षसांचनिमित्तानिक्रूराणिप्रतिपेदिरे/ततोगतायांनिद्रायांराक्षस्योविकृताननाः/तद्वनंददृशुर्भग्नंतंचवीरंमहाकपिम्/सतादृष्ट्वमहाबाहुर्महासत्त्वोमहाबलः/चकारसुमहद्रूपंराक्षसीनांभयावहम्/ततस्तंगिरिसंकाशमतिकायंमहाबलम्/राक्षस्योवानरंदृष्ट्वापप्रच्छुर्जनकात्मजाम्/कोऽयंकस्यकुतोवायंकिंनिमित्तमिहागतः/कथंत्वयासहानेनसंवादःकृतइत्युत/आचक्ष्वनोविशालाक्षिमाभूत्तेसुभगेभयम्/संवादमसितापाङ्गेत्वयाकिंकृतवानयम्/अथाब्रवीत्तदासाध्वीसीतासर्वाङ्गशोभना/रक्षसांकामरूपाणांविज्ञानेममकागतिः/यूयमेवास्यजानीतयोऽयंयद्वाकरिष्यति/अहिरेवअहेःपादान्विजानातिनसंशयः/अहमप्यस्यभीतास्मिनैनंजानामिकोऽन्वयम्/वेद्मिराक्षसमेवैनंकामरूपिणमागतम्/वैदेह्यावचनंश्रुत्वाराक्षस्योविद्रुताद्रुतम्/स्थिताःकाश्चिद्गताःकाश्चिद्रावणायनिवेदितुम्/रावणस्यसमीपेतुराक्षस्योविकृताननाः/विरूपंवानरंभीममाख्यतुमुपचक्रमुः/अशोकवनिकामध्येराजन्भीमवपुःकपिः/सीतयाकृतसंवादस्तिष्ठत्यमितविक्रमः/नचतंजानकीसीताहरिंहरिणलोचणा/अस्माभिर्बहुधापृष्टानिवेदयितुमिच्छति/वासवस्यभवेद्दूतोदूतोवैश्रवणस्यवा/प्रेषितोवापिरामेणसीतान्वेषणकाङ्क्षया/तेनत्वद्भूतरूपेणयत्तत्तवमनोहरम्/नानामृगगणाकीर्णंप्रमृष्टंप्रमदावनम्/नतत्रकश्चिदुद्देशोयस्तेननविनाशितः/यत्रसाजानकीसीतासतेननविनाशितः/जानकीरक्षणार्थंवाश्रमाद्वानोपलभ्यते/अथवाकःश्रमस्तस्यसैवतेनाभिरक्षिता/चारुपल्लवपत्राढ्यंयंसीतास्वयमास्थिता/प्रवृद्धःशिंशपावृक्षःसचतेनाभिरक्षितः/तस्योग्ररूपस्योग्रंत्वंदण्डमाज्ञातुमर्हसि/सीतासंभाषितायेनतद्वनंचविनाशितम्/मनःपरिगृहीतांतांतवरक्षोगणेश्वर/कःसीतामभिभाषेतयोनस्यात्त्यक्तजीवितः/राक्षसीनांवचःश्रुत्वारावणोराक्षसेश्वरः/हुतागिरिवजज्वालकोपसंवर्तितेक्षणः/आत्मनःसदृशाञ्शूरान्किंकरान्नामराक्षसान्/व्यादिदेशमहातेजानिग्रहार्थंहनूमतः/तेषामशीतिसाहस्रंकिंकराणांतरस्विनाम्/निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः/महोदरामहादंष्ट्राघोररूपामहाबलाः/युद्धाभिमनसःसर्वेहनूमद्ग्रहणोन्मुखाः/तेकपिंतंसमासाद्यतोरणस्थमवस्थितम्/अभिपेतुर्महावेगाःपतङ्गाइवपावकम्/तेगदाभिर्विचित्राभिःपरिघैःकाञ्चनाङ्गदैः/आजघ्नुर्वानरश्रेष्ठंशरैरादित्यसंनिभैः/हनूमानपितेजस्वीश्रीमान्पर्वतसंनिभः/क्षितावाविध्यलाङ्गूलंननादचमहास्वनम्/तस्यसंनादशब्देनतेऽभवन्भयशङ्किताः/ददृशुश्चहनूमन्तंसंध्यामेघमिवोन्नतम्/स्वामिसंदेशनिःशङ्कास्ततस्तेराक्षसाःकपिम्/चित्रैःप्रहरणैर्भीमैरभिपेतुस्ततस्ततः/सतैःपरिवृतःशूरैःसर्वतःसमहाबलः/आससादायसंभीमंपरिघंतोरणाश्रितम्/सतंपरिघमादायजघानरजनीचरान्/सपन्नगमिवादायस्फुरन्तंविनतासुतः/विचचाराम्बरेवीरःपरिगृह्यचमारुतिः/सहत्वाराक्षसान्वीरःकिंकरान्मारुतात्मजः/युद्धाकाङ्क्षीपुनर्वीरस्तोरणंसमुपस्थितः/ततस्तस्माद्भयान्मुक्ताःकतिचित्तत्रराक्षसाः/निहतान्किंकरान्सर्वान्रावणायन्यवेदयन्/सराक्षसानांनिहतंमहाबलं॑निशम्यराजापरिवृत्तलोचनः/समादिदेशाप्रतिमंपराक्रमे॑प्रहस्तपुत्रंसमरेसुदुर्जयम्/ततःसकिंकरान्हत्वाहनूमान्ध्यानमास्थितः/वनंभग्नंमयाचैत्यप्रासादोनविनाशितः/तस्मात्प्रासादमप्येवमिमंविध्वंसयाम्यहम्/इतिसंचिन्त्यहनुमान्मनसादर्शयन्बलम्/चैत्यप्रासादमाप्लुत्यमेरुशृङ्गमिवोन्नतम्/आरुरोहहरिश्रेष्ठोहनूमान्मारुतात्मजः/संप्रधृष्यचदुर्धर्षश्चैत्यप्रासादमुन्नतम्/हनूमान्प्रज्वलंल्लक्ष्म्यापारियात्रोपमोऽभवत्/सभूत्वातुमहाकायोहनूमान्मारुतात्मजः/धृष्टमास्फोटयामासलङ्कांशब्देनपूरयन्/तस्यास्फोटितशब्देनमहताश्रोत्रघातिना/पेतुर्विहंगागगनादुच्चैश्चेदमघोषयत्/जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः/राजाजयतिसुग्रीवोराघवेणाभिपालितः/दासोऽहंकोसलेन्द्रस्यरामस्याक्लिष्टकर्मणः/हनुमाञ्शत्रुसैन्यानांनिहन्तामारुतात्मजः/नरावणसहस्रंमेयुद्धेप्रतिबलंभवेत्/शिलाभिस्तुप्रहरतःपादपैश्चसहस्रशः/अर्दयित्वापुरींलङ्कामभिवाद्यचमैथिलीम्/समृद्धार्थोगमिष्यामिमिषतांसर्वरक्षसाम्/एवमुक्त्वाविमानस्थश्चैत्यस्थान्हरिपुंगवः/ननादभीमनिर्ह्रादोरक्षसांजनयन्भयम्/तेनशब्देनमहताचैत्यपालाःशतंययुः/गृहीत्वाविविधानस्त्रान्प्रासान्खड्गान्परश्वधान्/विसृजन्तोमहाक्षयामारुतिंपर्यवारयन्/आवर्तइवगङ्गायास्तोयस्यविपुलोमहान्/परिक्षिप्यहरिश्रेष्ठंसबभौरक्षसांगणः/ततोवातात्मजःक्रुद्धोभीमरूपंसमास्थितः/प्रासादस्यमहांस्तस्यस्तम्भंहेमपरिष्कृतम्/उत्पाटयित्वावेगेनहनूमान्मारुतात्मजः/ततस्तंभ्रामयामासशतधारंमहाबलः/सराक्षसशतंहत्वावज्रेणेन्द्रइवासुरान्/अन्तरिक्षस्थितःश्रीमानिदंवचनमब्रवीत्/मादृशानांसहस्राणिविसृष्टानिमहात्मनाम्/बलिनांवानरेन्द्राणांसुग्रीववशवर्तिनाम्/शतैःशतसहस्रैश्चकोटीभिरयुतैरपि/आगमिष्यतिसुग्रीवःसर्वेषांवोनिषूदनः/नेयमस्तिपुरीलङ्कानयूयंनचरावणः/यस्मादिक्ष्वाकुनाथेनबद्धंवैरंमहात्मना/संदिष्टोराक्षसेन्द्रेणप्रहस्तस्यसुतोबली/जम्बुमालीमहादंष्ट्रोनिर्जगामधनुर्धरः/रक्तमाल्याम्बरधरःस्रग्वीरुचिरकुण्डलः/महान्विवृत्तनयनश्चण्डःसमरदुर्जयः/धनुःशक्रधनुःप्रख्यंमहद्रुचिरसायकम्/विस्फारयाणोवेगेनवज्राशनिसमस्वनम्/तस्यविस्फारघोषेणधनुषोमहतादिशः/प्रदिशश्चनभश्चैवसहसासमपूर्यत/रथेनखरयुक्तेनतमागतमुदीक्ष्यसः/हनूमान्वेगसंपन्नोजहर्षचननादच/तंतोरणविटङ्कस्थंहनूमन्तंमहाकपिम्/जम्बुमालीमहाबाहुर्विव्याधनिशितैःशरैः/अर्धचन्द्रेणवदनेशिरस्येकेनकर्णिना/बाह्वोर्विव्याधनाराचैर्दशभिस्तंकपीश्वरम्/तस्यतच्छुशुभेताम्रंशरेणाभिहतंमुखम्/शरदीवाम्बुजंफुल्लंविद्धंभास्कररश्मिना/चुकोपबाणाभिहतोराक्षसस्यमहाकपिः/ततःपार्श्वेऽतिविपुलांददर्शमहतींशिलाम्/तरसातांसमुत्पाट्यचिक्षेपबलवद्बली/तांशरैर्दशभिःक्रुद्धस्ताडयामासराक्षसः/विपन्नंकर्मतद्दृष्ट्वाहनूमांश्चण्डविक्रमः/सालंविपुलमुत्पाट्यभ्रामयामासवीर्यवान्/भ्रामयन्तंकपिंदृष्ट्वासालवृक्षंमहाबलम्/चिक्षेपसुबहून्बाणाञ्जम्बुमालीमहाबलः/सालंचतुर्भिर्चिच्छेदवानरंपञ्चभिर्भुजे/उरस्येकेनबाणेनदशभिस्तुस्तनान्तरे/सशरैःपूरिततनुःक्रोधेनमहतावृतः/तमेवपरिघंगृह्यभ्रामयामासवेगितः/अतिवेगोऽतिवेगेनभ्रामयित्वाबलोत्कटः/परिघंपातयामासजम्बुमालेर्महोरसि/तस्यचैवशिरोनास्तिनबाहूनचजानुनी/नधनुर्नरथोनाश्वास्तत्रादृश्यन्तनेषवः/सहतस्तरसातेनजम्बुमालीमहारथः/पपातनिहतोभूमौचूर्णिताङ्गविभूषणः/जम्बुमालिंचनिहतंकिंकरांश्चमहाबलान्/चुक्रोधरावणःश्रुत्वाकोपसंरक्तलोचनः/सरोषसंवर्तितताम्रलोचनः॑प्रहस्तपुत्रेनिहतेमहाबले/अमात्यपुत्रानतिवीर्यविक्रमान्॑समादिदेशाशुनिशाचरेश्वरः/ततस्तेराक्षसेन्द्रेणचोदितामन्त्रिणःसुताः/निर्ययुर्भवनात्तस्मात्सप्तसप्तार्चिवर्चसः/महाबलपरीवाराधनुष्मन्तोमहाबलाः/कृतास्त्रास्त्रविदांश्रेष्ठाःपरस्परजयैषिणः/हेमजालपरिक्षिप्तैर्ध्वजवद्भिःपताकिभिः/तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः/तप्तकाञ्चनचित्राणिचापान्यमितविक्रमाः/विस्फारयन्तःसंहृष्टास्तडिद्वन्तइवाम्बुदाः/जनन्यस्तास्ततस्तेषांविदित्वाकिंकरान्हतान्/बभूवुःशोकसंभ्रान्ताःसबान्धवसुहृज्जनाः/तेपरस्परसंघर्षास्तप्तकाञ्चनभूषणाः/अभिपेतुर्हनूमन्तंतोरणस्थमवस्थितम्/सृजन्तोबाणवृष्टिंतेरथगर्जितनिःस्वनाः/वृष्टिमन्तइवाम्भोदाविचेरुर्नैरृतर्षभाः/अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः/अभवत्संवृताकारःशैलराडिववृष्टिभिः/सशरान्वञ्चयामासतेषामाशुचरःकपिः/रथवेगांश्चवीराणांविचरन्विमलेऽम्बरे/सतैःक्रीडन्धनुष्मद्भिर्व्योम्निवीरःप्रकाशते/धनुष्मद्भिर्यथामेघैर्मारुतःप्रभुरम्बरे/सकृत्वानिनदंघोरंत्रासयंस्तांमहाचमूम्/चकारहनुमान्वेगंतेषुरक्षःसुवीर्यवान्/तलेनाभिहनत्कांश्चित्पादैःकांश्चित्परंतपः/मुष्टिनाभ्यहनत्कांश्चिन्नखैःकांश्चिद्व्यदारयत्/प्रममाथोरसाकांश्चिदूरुभ्यामपरान्कपिः/केचित्तस्यैवनादेनतत्रैवपतिताभुवि/ततस्तेष्ववपन्नेषुभूमौनिपतितेषुच/तत्सैन्यमगमत्सर्वंदिशोदशभयार्दितम्/विनेदुर्विस्वरंनागानिपेतुर्भुविवाजिनः/भग्ननीडध्वजच्छत्रैर्भूश्चकीर्णाभवद्रथैः/सतान्प्रवृद्धान्विनिहत्यराक्षसान्॑महाबलश्चण्डपराक्रमःकपिः/युयुत्सुरन्यैःपुनरेवराक्षसैस्॑तदेववीरोऽभिजगामतोरणम्/हतान्मन्त्रिसुतान्बुद्ध्वावानरेणमहात्मना/रावणःसंवृताकारश्चकारमतिमुत्तमाम्/सविरूपाक्षयूपाक्षौदुर्धरंचैवराक्षसं/प्रघसंभासकर्णंचपञ्चसेनाग्रनायकान्/संदिदेशदशग्रीवोवीरान्नयविशारदान्/हनूमद्ग्रहणेव्यग्रान्वायुवेगसमान्युधि/यातसेनाग्रगाःसर्वेमहाबलपरिग्रहाः/सवाजिरथमातङ्गाःसकपिःशास्यतामिति/यत्तैश्चखलुभाव्यंस्यात्तमासाद्यवनालयम्/कर्मचापिसमाधेयंदेशकालविरोधितम्/नह्यहंतंकपिंमन्येकर्मणाप्रतितर्कयन्/सर्वथातन्महद्भूतंमहाबलपरिग्रहम्/भवेदिन्द्रेणवासृष्टमस्मदर्थंतपोबलात्/सनागयक्षगन्धर्वादेवासुरमहर्षयः/युष्माभिःसहितैःसर्वैर्मयासहविनिर्जिताः/तैरवश्यंविधातव्यंव्यलीकंकिंचिदेवनः/तदेवनात्रसंदेहःप्रसह्यपरिगृह्यताम्/नावमन्योभवद्भिश्चहरिःक्रूरपराक्रमः/दृष्टाहिहरयःशीघ्रामयाविपुलविक्रमाः/वालीचसहसुग्रीवोजाम्बवांश्चमहाबलः/नीलःसेनापतिश्चैवयेचान्येद्विविदादयः/नैवतेषांगतिर्भीमानतेजोनपराक्रमः/नमतिर्नबलोत्साहोनरूपपरिकल्पनम्/महत्सत्त्वमिदंज्ञेयंकपिरूपंव्यवस्थितम्/प्रयत्नंमहदास्थायक्रियतामस्यनिग्रहः/कामंलोकास्त्रयःसेन्द्राःससुरासुरमानवाः/भवतामग्रतःस्थातुंनपर्याप्तारणाजिरे/तथापितुनयज्ञेनजयमाकाङ्क्षतारणे/आत्मारक्ष्यःप्रयत्नेनयुद्धसिद्धिर्हिचञ्चला/तेस्वामिवचनंसर्वेप्रतिगृह्यमहौजसः/समुत्पेतुर्महावेगाहुताशसमतेजसः/रथैश्चमत्तैर्नागैश्चवाजिभिश्चमहाजवैः/शस्त्रैश्चविविधैस्तीक्ष्णैःसर्वैश्चोपचिताबलैः/ततस्तंददृशुर्वीरादीप्यमानंमहाकपिम्/रश्मिमन्तमिवोद्यन्तंस्वतेजोरश्मिमालिनम्/तोरणस्थंमहावेगंमहासत्त्वंमहाबलम्/महामतिंमहोत्साहंमहाकायंमहाबलम्/तंसमीक्ष्यैवतेसर्वेदिक्षुसर्वास्ववस्थिताः/तैस्तैःप्रहरणैर्भीमैरभिपेतुस्ततस्ततः/तस्यपञ्चायसास्तीक्ष्णाःसिताःपीतमुखाःशराः/शिरस्त्युत्पलपत्राभादुर्धरेणनिपातिताः/सतैःपञ्चभिराविद्धःशरैःशिरसिवानरः/उत्पपातनदन्व्योम्निदिशोदशविनादयन्/ततस्तुदुर्धरोवीरःसरथःसज्जकार्मुकः/किरञ्शरशतैर्नैकैरभिपेदेमहाबलः/सकपिर्वारयामासतंव्योम्निशरवर्षिणम्/वृष्टिमन्तंपयोदान्तेपयोदमिवमारुतः/अर्द्यमानस्ततस्तेनदुर्धरेणानिलात्मजः/चकारनिनदंभूयोव्यवर्धतचवेगवान्/सदूरंसहसोत्पत्यदुर्धरस्यरथेहरिः/निपपातमहावेगोविद्युद्राशिर्गिराविव/ततस्तंमथिताष्टाश्वंरथंभग्नाक्षकूवरम्/विहायन्यपतद्भूमौदुर्धरस्त्यक्तजीवितः/तंविरूपाक्षयूपाक्षौदृष्ट्वानिपतितंभुवि/संजातरोषौदुर्धर्षावुत्पेततुररिंदमौ/सताभ्यांसहसोत्पत्यविष्ठितोविमलेऽम्बरे/मुद्गराभ्यांमहाबाहुर्वक्षस्यभिहतःकपिः/तयोर्वेगवतोर्वेगंविनिहत्यमहाबलः/निपपातपुनर्भूमौसुपर्णसमविक्रमः/ससालवृक्षमासाद्यसमुत्पाट्यचवानरः/तावुभौराक्षसौवीरौजघानपवनात्मजः/ततस्तांस्त्रीन्हताञ्ज्ञात्वावानरेणतरस्विना/अभिपेदेमहावेगःप्रसह्यप्रघसोहरिम्/भासकर्णश्चसंक्रुद्धःशूलमादायवीर्यवान्/एकतःकपिशार्दूलंयशस्विनमवस्थितौ/पट्टिशेनशिताग्रेणप्रघसःप्रत्यपोथयत्/भासकर्णश्चशूलेनराक्षसःकपिसत्तमम्/सताभ्यांविक्षतैर्गात्रैरसृग्दिग्धतनूरुहः/अभवद्वानरःक्रुद्धोबालसूर्यसमप्रभः/समुत्पाट्यगिरेःशृङ्गंसमृगव्यालपादपम्/जघानहनुमान्वीरोराक्षसौकपिकुञ्जरः/ततस्तेष्ववसन्नेषुसेनापतिषुपञ्चसु/बलंतदवशेषंतुनाशयामासवानरः/अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथैरथान्/सकपिर्नाशयामाससहस्राक्षइवासुरान्/हतैर्नागैश्चतुरगैर्भग्नाक्षैश्चमहारथैः/हतैश्चराक्षसैर्भूमीरुद्धमार्गासमन्ततः/ततःकपिस्तान्ध्वजिनीपतीन्रणे॑निहत्यवीरान्सबलान्सवाहनान्/तदेववीरःपरिगृह्यतोरणं॑कृतक्षणःकालइवप्रजाक्षये/सेनापतीन्पञ्चसतुप्रमापितान्॑हनूमतासानुचरान्सवाहनान्/समीक्ष्यराजासमरोद्धतोन्मुखं॑कुमारमक्षं/प्रसमैक्षताक्षतम्/सतस्यदृष्ट्यर्पणसंप्रचोदितः॑प्रतापवान्काञ्चनचित्रकार्मुकः/समुत्पपाताथसदस्युदीरितो॑द्विजातिमुख्यैर्हविषेवपावकः/ततोमहद्बालदिवाकरप्रभं॑प्रतप्तजाम्बूनदजालसंततम्/रथांसमास्थायययौसवीर्यवान्॑महाहरिंतंप्रतिनैरृतर्षभः/ततस्तपःसंग्रहसंचयार्जितं॑प्रतप्तजाम्बूनदजालशोभितम्/पताकिनंरत्नविभूषितध्वजं॑मनोजवाष्टाश्ववरैःसुयोजितम्/सुरासुराधृष्यमसंगचारिणं॑रविप्रभंव्योमचरंसमाहितम्/सतूणमष्टासिनिबद्धबन्धुरं॑यथाक्रमावेशितशक्तितोमरम्/विराजमानंप्रतिपूर्णवस्तुना॑सहेमदाम्नाशशिसूर्यवर्वसा/दिवाकराभंरथमास्थितस्ततः॑सनिर्जगामामरतुल्यविक्रमः/सपूरयन्खंचमहींचसाचलां॑तुरंगमतङ्गमहारथस्वनैः/बलैःसमेतैःसहितोरणस्थितं॑समर्थमासीनमुपागमत्कपिम्/सतंसमासाद्यहरिंहरीक्षणो॑युगान्तकालाग्निमिवप्रजाक्षये/अवस्थितंविस्मितजातसंभ्रमः॑समैक्षताक्षोबहुमानचक्षुषा/सतस्यवेगंचकपेर्महात्मनः॑पराक्रमंचारिषुपार्ह्तिवात्मजः/विचारयन्खंचबलंमहाबलो॑हिमक्षयेसूर्यइवाभिवर्धते/सजातमन्युःप्रसमीक्ष्यविक्रमं॑स्थिरःस्थितःसंयतिदुर्निवारणम्/समाहितात्माहनुमन्तमाहवे॑प्रचोदयामासशरैस्त्रिभिःशितैः/ततःकपिंतंप्रसमीक्ष्यगर्वितं॑जितश्रमंशत्रुपराजयोर्जितम्/अवैक्षताक्षःसमुदीर्णमानसः॑सबाणपाणिःप्रगृहीतकार्मुकः/सहेमनिष्काङ्गदचारुकुण्डलः॑समाससादाशुपराक्रमःकपिम्/तयोर्बभूवाप्रतिमःसमागमः॑सुरासुराणामपिसंभ्रमप्रदः/ररासभूमिर्नततापभानुमान्॑ववौनवायुःप्रचचालचाचलः/कपेःकुमारस्यचवीक्ष्यसंयुगं॑ननादचद्यौरुदधिश्चचुक्षुभे/ततःसवीरःसुमुखान्पतत्रिणः॑सुवर्णपुङ्खान्सविषानिवोरगान्/समाधिसंयोगविमोक्षतत्त्वविच्॑छरानथत्रीन्कपिमूर्ध्न्यपातयत्/सतैःशरैर्मूर्ध्निसमंनिपातितैः॑क्षरन्नसृग्दिग्धविवृत्तलोचनः/नवोदितादित्यनिभःशरांशुमान्॑व्यराजतादित्यइवांशुमालिकः/ततःसपिङ्गाधिपमन्त्रिसत्तमः॑समीक्ष्यतंराजवरात्मजंरणे/उदग्रचित्रायुधचित्रकार्मुकं॑जहर्षचापूर्यतचाहवोन्मुखः/समन्दराग्रस्थइवांशुमाली॑विवृद्धकोपोबलवीर्यसंयुतः/कुमारमक्षंसबलंसवाहनं॑ददाहनेत्राग्निमरीचिभिस्तदा/ततःसबाणासनशक्रकार्मुकः॑शरप्रवर्षोयुधिराक्षसाम्बुदः/शरान्मुमोचाशुहरीश्वराचले॑बलाहकोवृष्टिमिवाचलोत्तमे/ततःकपिस्तंरणचण्डविक्रमं॑विवृद्धतेजोबलवीर्यसायकम्/कुमारमक्षंप्रसमीक्ष्यसंयुगे॑ननादहर्षाद्घनतुल्यविक्रमः/सबालभावाद्युधिवीर्यदर्पितः॑प्रवृद्धमन्युःक्षतजोपमेक्षणः/समाससादाप्रतिमंरणेकपिं॑गजोमहाकूपमिवावृतंतृणैः/सतेनबाणैःप्रसभंनिपातितैश्॑चकारनादंघननादनिःस्वनः/समुत्पपाताशुनभःसमारुतिर्॑भुजोरुविक्षेपणघोरदर्शनः/समुत्पतन्तंसमभिद्रवद्बली॑सराक्षसानांप्रवरःप्रतापवान्/रथीरथश्रेष्ठतमःकिरञ्शरैः॑पयोधरःशैलमिवाश्मवृष्टिभिः/सताञ्शरांस्तस्यविमोक्षयन्कपिश्॑चचारवीरःपथिवायुसेविते/शरान्तरेमारुतवद्विनिष्पतन्॑मनोजवःसंयतिचण्डविक्रमः/तमात्तबाणासनमाहवोन्मुखं॑खमास्तृणन्तंविविधैःशरोत्तमैः/अवैक्षताक्षंबहुमानचक्षुषा॑जगामचिन्तांचसमारुतात्मजः/ततःशरैर्भिन्नभुजान्तरःकपिः॑कुमारवर्येणमहात्मनानदन्/महाभुजःकर्मविशेषतत्त्वविद्॑विचिन्तयामासरणेपराक्रमम्/अबालवद्बालदिवाकरप्रभः॑करोत्ययंकर्ममहन्महाबलः/नचास्यसर्वाहवकर्मशोभिनः॑प्रमापणेमेमतिरत्रजायते/अयंमहात्माचमहांश्चवीर्यतः॑समाहितश्चातिसहश्चसंयुगे/असंशयंकर्मगुणोदयादयं॑सनागयक्षैर्मुनिभिश्चपूजितः/पराक्रमोत्साहविवृद्धमानसः॑समीक्षतेमांप्रमुखागतःस्थितः/पराक्रमोह्यस्यमनांसिकम्पयेत्॑सुरासुराणामपिशीघ्रकारिणः/नखल्वयंनाभिभवेदुपेक्षितः॑पराक्रमोह्यस्यरणेविवर्धते/प्रमापणंत्वेवममास्यरोचते॑नवर्धमानोऽग्निरुपेक्षितुंक्षमः/इतिप्रवेगंतुपरस्यतर्कयन्॑स्वकर्मयोगंचविधायवीर्यवान्/चकारवेगंतुमहाबलस्तदा॑मतिंचचक्रेऽस्यवधेमहाकपिः/सतस्यतानष्टहयान्महाजवान्॑समाहितान्भारसहान्विवर्तने/जघानवीरःपथिवायुसेविते॑तलप्रहालैःपवनात्मजःकपिः/ततस्तलेनाभिहतोमहारथः॑सतस्यपिङ्गाधिपमन्त्रिनिर्जितः/सभग्ननीडःपरिमुक्तकूबरः॑पपातभूमौहतवाजिरम्बरात्/सतंपरित्यज्यमहारथोरथं॑सकार्मुकःखड्गधरःखमुत्पतत्/तपोऽभियोगादृषिरुग्रवीर्यवान्॑विहायदेहंमरुतामिवालयम्/ततःकपिस्तंविचरन्तमम्बरे॑पतत्रिराजानिलसिद्धसेविते/समेत्यतंमारुतवेगविक्रमः॑क्रमेणजग्राहचपादयोर्दृढम्/सतंसमाविध्यसहस्रशःकपिर्॑महोरगंगृह्यइवाण्डजेश्वरः/मुमोचवेगात्पितृतुल्यविक्रमो॑महीतलेसंयतिवानरोत्तमः/सभग्नबाहूरुकटीशिरोधरः॑क्षरन्नसृन्निर्मथितास्थिलोचनः/सभिन्नसंधिःप्रविकीर्णबन्धनो॑हतःक्षितौवायुसुतेनराक्षसः/महाकपिर्भूमितलेनिपीड्यतं॑चकाररक्षोऽधिपतेर्महद्भयम्/महर्षिभिश्चक्रचरैर्महाव्रतैः॑समेत्यभूतैश्चसयक्षपन्नगैः/सुरैश्चसेन्द्रैर्भृशजातविस्मयैर्॑हतेकुमारेसकपिर्निरीक्षितः/निहत्यतंवज्रसुतोपमप्रभं॑कुमारमक्षंक्षतजोपमेक्षणम्/तदेववीरोऽभिजगामतोरणं॑कृतक्षणःकालइवप्रजाक्षये/ततस्तुरक्षोऽधिपतिर्महात्मा॑हनूमताक्षेनिहतेकुमारे/मनःसमाधायतदेन्द्रकल्पं॑समादिदेशेन्द्रजितंसरोषात्/त्वमस्त्रविच्छस्त्रभृतांवरिष्ठः॑सुरासुराणामपिशोकदाता/सुरेषुसेन्द्रेषुचदृष्टकर्मा॑पितामहाराधनसंचितास्त्रः/तवास्त्रबलमासाद्यनासुरानमरुद्गणाः/नकश्चित्त्रिषुलोकेषुसंयुगेनगतश्रमः/भुजवीर्याभिगुप्तश्चतपसाचाभिरक्षितः/देशकालविभागज्ञस्त्वमेवमतिसत्तमः/नतेऽस्त्यशक्यंसमरेषुकर्मणा॑नतेऽस्त्यकार्यंमतिपूर्वमन्त्रणे/नसोऽस्तिकश्चित्त्रिषुसंग्रहेषुवै॑नवेदयस्तेऽस्त्रबलंबलंचते/ममानुरूपंतपसोबलंचते॑पराक्रमश्चास्त्रबलंचसंयुगे/नत्वांसमासाद्यरणावमर्दे॑मनःश्रमंगच्छतिनिश्चितार्थम्/निहताइंकराःसर्वेजम्बुमालीचराक्षसः/अमात्यपुत्रावीराश्चपञ्चसेनाग्रयायिनः/सहोदरस्तेदयितःकुमारोऽक्षश्चसूदितः/नतुतेष्वेवमेसारोयस्त्वय्यरिनिषूदन/इदंहिदृष्ट्वामतिमन्महद्बलं॑कपेःप्रभावंचपराक्रमंच/त्वमात्मनश्चापिसमीक्ष्यसारं॑कुरुष्ववेगंस्वबलानुरूपम्/बलावमर्दस्त्वयिसंनिकृष्टे॑यथागतेशाम्यतिशान्तशत्रौ/तथासमीक्ष्यात्मबलंपरंच॑समारभस्वास्त्रविदांवरिष्ठ/नखल्वियंमतिःश्रेष्ठायत्त्वांसंप्रेषयाम्यहम्/इयंचराजधर्माणांक्षत्रस्यचमतिर्मता/नानाशस्त्रैश्चसंग्रामेवैशारद्यमरिंदम/अवश्यमेवबोद्धव्यंकाम्यश्चविजयोरणे/ततःपितुस्तद्वचनंनिशम्य॑प्रदक्षिणंदक्षसुतप्रभावः/चकारभर्तारमदीनसत्त्वो॑रणायवीरःप्रतिपन्नबुद्धिः/ततस्तैःस्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः/युद्धोद्धतकृतोत्साहःसंग्रामंप्रतिपद्यत/श्रीमान्पद्मपलाशाक्षोराक्षसाधिपतेःसुतः/निर्जगाममहातेजाःसमुद्रइवपर्वसु/सपक्षिराजोपमतुल्यवेगैर्॑व्यालैश्चतुर्भिःसिततीक्ष्णदंष्ट्रैः/रथंसमायुक्तमसंगवेगं॑समारुरोहेन्द्रजिदिन्द्रकल्पः/सरथीधन्विनांश्रेष्ठःशस्त्रज्ञोऽस्त्रविदांवरः/रथेनाभिययौक्षिप्रंहनूमान्यत्रसोऽभवत्/सतस्यरथनिर्घोषंज्यास्वनंकार्मुकस्यच/निशम्यहरिवीरोऽसौसंप्रहृष्टतरोऽभवत्/सुमहच्चापमादायशितशल्यांश्चसायकान्/हनूमन्तमभिप्रेत्यजगामरणपण्डितः/तस्मिंस्ततःसंयतिजातहर्षे॑रणायनिर्गच्छतिबाणपाणौ/दिशश्चसर्वाःकलुषाबभूवुर्॑मृगाश्चरौद्राबहुधाविनेदुः/समागतास्तत्रतुनागयक्षा॑महर्षयश्चक्रचराश्चसिद्धाः/नभःसमावृत्यचपक्षिसंघा॑विनेदुरुच्चैःपरमप्रहृष्टाः/आयन्तंसरथंदृष्ट्वातूर्णमिन्द्रजितंकपिः/विननादमहानादंव्यवर्धतचवेगवान्/इन्द्रजित्तुरथंदिव्यमास्थितश्चित्रकार्मुकः/धनुर्विस्फारयामासतडिदूर्जितनिःस्वनम्/ततःसमेतावतितीक्ष्णवेगौ॑महाबलौतौरणनिर्विशङ्कौ/कपिश्चरक्षोऽधिपतेश्चपुत्रः॑सुरासुरेन्द्राविवबद्धवैरौ/सतस्यवीरस्यमहारथस्या॑धनुष्मतःसंयतिसंमतस्य/शरप्रवेगंव्यहनत्प्रवृद्धश्॑चचारमार्गेपितुरप्रमेयः/ततःशरानायततीक्ष्णशल्यान्॑सुपत्रिणःकाञ्चनचित्रपुङ्खान्/मुमोचवीरःपरवीरहन्ता॑सुसंततान्वज्रनिपातवेगान्/सतस्यतत्स्यन्दननिःस्वनंच॑मृदङ्गभेरीपटहस्वनंच/विकृष्यमाणस्यचकार्मुकस्य॑निशम्यघोषंपुनरुत्पपात/शराणामन्तरेष्वाशुव्यवर्ततमहाकपिः/हरिस्तस्याभिलक्षस्यमोक्षयंल्लक्ष्यसंग्रहम्/शराणामग्रतस्तस्यपुनःसमभिवर्तत/प्रसार्यहस्तौहनुमानुत्पपातानिलात्मजः/तावुभौवेगसंपन्नौरणकर्मविशारदौ/सर्वभूतमनोग्राहिचक्रतुर्युद्धमुत्तमम्/हनूमतोवेदनराक्षसोऽन्तरं॑नमारुतिस्तस्यमहात्मनोऽन्तरम्/परस्परंनिर्विषहौबभूवतुः॑समेत्यतौदेवसमानविक्रमौ/ततस्तुलक्ष्येसविहन्यमाने॑शरेषुमोघेषुचसंपतत्सु/जगामचिन्तांमहतींमहात्मा॑समाधिसंयोगसमाहितात्मा/ततोमतिंराक्षसराजसूनुश्॑चकारतस्मिन्हरिवीरमुख्ये/अवध्यतांतस्यकपेःसमीक्ष्य॑कथंनिगच्छेदितिनिग्रहार्थम्/ततःपैतामहांवीरःसोऽस्त्रमस्त्रविदांवरः/संदधेसुमहातेजास्तंहरिप्रवरंप्रति/अवध्योऽयमितिज्ञात्वातमस्त्रेणास्त्रतत्त्ववित्/निजग्राहमहाबाहुर्मारुतात्मजमिन्द्रजित्/तेनबद्धस्ततोऽस्त्रेणराक्षसेनसवानरः/अभवन्निर्विचेष्टश्चपपातचमहीतले/ततोऽथबुद्ध्वासतदास्त्रबन्धं॑प्रभोःप्रभावाद्विगताल्पवेगः/पितामहानुग्रहमात्मनश्च॑विचिन्तयामासहरिप्रवीरः/ततःस्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्/हनूमांश्चिन्तयामासवरदानंपितामहात्/नमेऽस्त्रबन्धस्यचशक्तिरस्ति॑विमोक्षणेलोकगुरोःप्रभावात्/इत्येवमेवंविहितोऽस्त्रबन्धो॑मयात्मयोनेरनुवर्तितव्यः/सवीर्यमस्त्रस्यकपिर्विचार्य॑पितामहानुग्रहमात्मनश्च/विमोक्षशक्तिंपरिचिन्तयित्वा॑पितामहाज्ञामनुवर्ततेस्म/अस्त्रेणापिहिबद्धस्यभयंममनजायते/पितामहमहेन्द्राभ्यांरक्षितस्यानिलेनच/ग्रहणेचापिरक्षोभिर्महन्मेगुणदर्शनम्/राक्षसेन्द्रेणसंवादस्तस्माद्गृह्णन्तुमांपरे/सनिश्चितार्थःपरवीरहन्ता॑समीक्ष्यकरीविनिवृत्तचेष्टः/परैःप्रसह्याभिगतैर्निगृह्य॑ननादतैस्तैःपरिभर्त्स्यमानः/ततस्तंराक्षसादृष्ट्वानिर्विचेष्टमरिंदमम्/बबन्धुःशणवल्कैश्चद्रुमचीरैश्चसंहतैः/सरोचयामासपरैश्चबन्धनं॑प्रसह्यवीरैरभिनिग्रहंच/कौतूहलान्मांयदिराक्षसेन्द्रो॑द्रष्टुंव्यवस्येदितिनिश्चितार्थः/सबद्धस्तेनवल्केनविमुक्तोऽस्त्रेणवीर्यवान्/अस्त्रबन्धःसचान्यंहिनबन्धमनुवर्तते/अथेन्द्रजित्तंद्रुमचीरबन्धं॑विचार्यवीरःकपिसत्तमंतम्/विमुक्तमस्त्रेणजगामचिन्ताम्॑अन्येनबद्धोह्यनुवर्ततेऽस्त्रम्/अहोमहत्कर्मकृतंनिरर्थकं॑नराक्षसैर्मन्त्रगतिर्विमृष्टा/पुनश्चनास्त्रेविहतेऽस्त्रमन्यत्॑प्रवर्ततेसंशयिताःस्मसर्वे/अस्त्रेणहनुमान्मुक्तोनात्मानमवबुध्यते/कृष्यमाणस्तुरक्षोभिस्तैश्चबन्धैर्निपीडितः/हन्यमानस्ततःक्रूरैराक्षसैःकाष्ठमुष्टिभिः/समीपंराक्षसेन्द्रस्यप्राकृष्यतसवानरः/अथेन्द्रजित्तंप्रसमीक्ष्यमुक्तम्॑अस्त्रेणबद्धंद्रुमचीरसूत्रैः/व्यदर्शयत्तत्रमहाबलंतं॑हरिप्रवीरंसगणायराज्ञे/तंमत्तमिवमातङ्गंबद्धंकपिवरोत्तमम्/राक्षसाराक्षसेन्द्रायरावणायन्यवेदयन्/कोऽयंकस्यकुतोवापिकिंकार्यंकोव्यपाश्रयः/इतिराक्षसवीराणांतत्रसंजज्ञिरेकथाः/हन्यतांदह्यतांवापिभक्ष्यतामितिचापरे/राक्षसास्तत्रसंक्रुद्धाःपरस्परमथाब्रुवन्/अतीत्यमार्गंसहसामहात्मा॑सतत्ररक्षोऽधिपपादमूले/ददर्शराज्ञःपरिचारवृद्धान्॑गृहंमहारत्नविभूषितंच/सददर्शमहातेजारावणःकपिसत्तमम्/रक्षोभिर्विकृताकारैःकृष्यमाणमितस्ततः/राक्षसाधिपतिंचापिददर्शकपिसत्तमः/तेजोबलसमायुक्तंतपन्तमिवभास्करम्/सरोषसंवर्तितताम्रदृष्टिर्॑दशाननस्तंकपिमन्ववेक्ष्य/अथोपविष्टान्कुलशीलवृद्धान्॑समादिशत्तंप्रतिमन्त्रमुख्यान्/यथाक्रमंतैःसकपिश्चपृष्टः॑कार्यार्थमर्थस्यचमूलमादौ/निवेदयामासहरीश्वरस्य॑दूतःसकाशादहमागतोऽस्मि/ततःसकर्मणातस्यविस्मितोभीमविक्रमः/हनुमान्रोषताम्राक्षोरक्षोऽधिपमवैक्षत/भाजमानंमहार्हेणकाञ्चनेनविराजता/मुक्ताजालावृतेनाथमुकुटेनमहाद्युतिम्/वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः/हैमैराभरणैश्चित्रैर्मनसेवप्रकल्पितैः/महार्हक्षौमसंवीतंरक्तचन्दनरूषितम्/स्वनुलिप्तंविचित्राभिर्विविधभिश्चभक्तिभिः/विपुलैर्दर्शनीयैश्चरक्षाक्षैर्भीमदर्शनैः/दीप्ततीक्ष्णमहादंष्ट्रैःप्रलम्बदशनच्छदैः/शिरोभिर्दशभिर्वीरंभ्राजमानंमहौजसं/नानाव्यालसमाकीर्णैःशिखरैरिवमन्दरम्/नीलाञ्जनचयप्रख्यंहारेणोरसिराजता/पूर्णचन्द्राभवक्त्रेणसबलाकमिवाम्बुदम्/बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः/भ्राजमानाङ्गदैःपीनैःपञ्चशीर्षैरिवोरगैः/महतिस्फाटिकेचित्रेरत्नसंयोगसंस्कृते/उत्तमास्तरणास्तीर्णेउपविष्टंवरासने/अलंकृताभिरत्यर्थंप्रमदाभिःसमन्ततः/वालव्यजनहस्ताभिरारात्समुपसेवितम्/दुर्धरेणप्रहस्तेनमहापार्श्वेनरक्षसा/मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेनचमन्त्रिणा/उपोपविष्टंरक्षोभिश्चतुर्भिर्बलदर्पितैः/कृत्स्नैःपरिवृतंलोकंचतुर्भिरिवसागरैः/मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्चशुभबुद्धिभिः/अन्वास्यमानंसचिवैःसुरैरिवसुरेश्वरम्/अपश्यद्राक्षसपतिंहनूमानतितेजसं/विष्ठितंमेरुशिखरेसतोयमिवतोयदम्/सतैःसंपीड्यमानोऽपिरक्षोभिर्भीमविक्रमैः/विस्मयंपरमंगत्वारक्षोऽधिपमवैक्षत/भ्राजमानंततोदृष्ट्वाहनुमान्राक्षसेश्वरम्/मनसाचिन्तयामासतेजसातस्यमोहितः/अहोरूपमहोधैर्यमहोसत्त्वमहोद्युतिः/अहोराक्षसराजस्यसर्वलक्षणयुक्तता/यद्यधर्मोनबलवान्स्यादयंराक्षसेश्वरः/स्यादयंसुरलोकस्यसशक्रस्यापिरक्षिता/तेनबिभ्यतिखल्वस्माल्लोकाःसामरदानवाः/अयंह्युत्सहतेक्रुद्धःकर्तुमेकार्णवंजगत्/इतिचिन्तांबहुविधामकरोन्मतिमान्कपिः/दृष्ट्वाराक्षसराजस्यप्रभावममितौजसः/तमुद्वीक्ष्यमहाबाहुःपिङ्गाक्षंपुरतःस्थितम्/रोषेणमहताविष्टोरावणोलोकरावणः/सराजारोषताम्राक्षःप्रहस्तंमन्त्रिसत्तमम्/कालयुक्तमुवाचेदंवचोविपुलमर्थवत्/दुरात्मापृच्छ्यतामेषकुतःकिंवास्यकारणम्/वनभङ्गेचकोऽस्यार्थोराक्षसीनांचतर्जने/रावणस्यवचःश्रुत्वाप्रहस्तोवाक्यमब्रवीत्/समाश्वसिहिभद्रंतेनभीःकार्यात्वयाकपे/यदितावत्त्वमिन्द्रेणप्रेषितोरावणालयम्/तत्त्वमाख्याहिमातेभूद्भयंवानरमोक्ष्यसे/यदिवैश्रवणस्यत्वंयमस्यवरुणस्यच/चारुरूपमिदंकृत्वायमस्यवरुणस्यच/विष्णुनाप्रेषितोवापिदूतोविजयकाङ्क्षिणा/नहितेवानरंतेजोरूपमात्रंतुवानरम्/तत्त्वतःकथयस्वाद्यततोवानरमोक्ष्यसे/अनृतंवदतश्चापिदुर्लभंतवजीवितम्/अथवायन्निमित्तस्तेप्रवेशोरावणालये/एवमुक्तोहरिवरस्तदारक्षोगणेश्वरम्/अब्रवीन्नास्मिशक्रस्ययमस्यवरुणस्यवा/धनदेननमेसख्यंविष्णुनानास्मिचोदितः/जातिरेवममत्वेषावानरोऽहमिहागतः/दर्शनेराक्षसेन्द्रस्यदुर्लभेतदिदंमया/वनंराक्षसराजस्यदर्शनार्थेविनाशितम्/ततस्तेराक्षसाःप्राप्ताबलिनोयुद्धकाङ्क्षिणः/रक्षणार्थंचदेहस्यप्रतियुद्धामयारणे/अस्त्रपाशैर्नशक्योऽहंबद्धुंदेवासुरैरपि/पितामहादेववरोममाप्येषोऽभ्युपागतः/राजानंद्रष्टुकामेनमयास्त्रमनुवर्तितम्/विमुक्तोअहमस्त्रेणराक्षसैस्त्वतिपीडितः/दूतोऽहमितिविज्ञेयोराघवस्यामितौजसः/श्रूयतांचापिवचनंममपथ्यमिदंप्रभो/तंसमीक्ष्यमहासत्त्वंसत्त्ववान्हरिसत्तमः/वाक्यमर्थवदव्यग्रस्तमुवाचदशाननम्/अहंसुग्रीवसंदेशादिहप्राप्तस्तवालयम्/राक्षसेन्द्रहरीशस्त्वांभ्राताकुशलमब्रवीत्/भ्रातुःशृणुसमादेशंसुग्रीवस्यमहात्मनः/धर्मार्थोपहितंवाक्यमिहचामुत्रचक्षमम्/राजादशरथोनामरथकुञ्जरवाजिमान्/पितेवबन्धुर्लोकस्यसुरेश्वरसमद्युतिः/ज्येष्ठस्तस्यमहाबाहुःपुत्रःप्रियकरःप्रभुः/पितुर्निदेशान्निष्क्रान्तःप्रविष्टोदण्डकावनम्/लक्ष्मणेनसहभ्रात्रासीतयाचापिभार्यया/रामोनाममहातेजाधर्म्यंपन्थानमाश्रितः/तस्यभार्यावनेनष्टासीतापतिमनुव्रता/वैदेहस्यसुताराज्ञोजनकस्यमहात्मनः/समार्गमाणस्तांदेवींराजपुत्रःसहानुजः/ऋश्यमूकमनुप्राप्तःसुग्रीवेणचसंगतः/तस्यतेनप्रतिज्ञातंसीतायाःपरिमार्गणम्/सुग्रीवस्यापिरामेणहरिराज्यंनिवेदितम्/ततस्तेनमृधेहत्वाराजपुत्रेणवालिनम्/सुग्रीवःस्थापितोराज्येहर्यृक्षाणांगणेश्वरः/ससीतामार्गणेव्यग्रःसुग्रीवःसत्यसंगरः/हरीन्संप्रेषयामासदिशःसर्वाहरीश्वरः/तांहरीणांसहस्राणिशतानिनियुतानिच/दिक्षुसर्वासुमार्गन्तेअधश्चोपरिचाम्बरे/वैनतेयसमाःकेचित्केचित्तत्रानिलोपमाः/असंगगतयःशीघ्राहरिवीरामहाबलाः/अहंतुहनुमान्नाममारुतस्यौरसःसुतः/सीतायास्तुकृतेतूर्णंशतयोजनमायतम्/समुद्रंलङ्घयित्वैवतांदिदृक्षुरिहागतः/तद्भवान्दृष्टधर्मार्थस्तपःकृतपरिग्रहः/परदारान्महाप्राज्ञनोपरोद्धुंत्वमर्हसि/नहिधर्मविरुद्धेषुबह्वपायेषुकर्मसु/मूलघातिषुसज्जन्तेबुद्धिमन्तोभवद्विधाः/कश्चलक्ष्मणमुक्तानांरामकोपानुवर्तिनाम्/शराणामग्रतःस्थातुंशक्तोदेवासुरेष्वपि/नचापित्रिषुलोकेषुराजन्विद्येतकश्चन/राघवस्यव्यलीकंयःकृत्वासुखमवाप्नुयात्/तत्त्रिकालहितंवाक्यंधर्म्यमर्थानुबन्धिच/मन्यस्वनरदेवायजानकीप्रतिदीयताम्/दृष्टाहीयंमयादेवीलब्धंयदिहदुर्लभम्/उत्तरंकर्मयच्छेषंनिमित्तंतत्रराघवः/लक्षितेयंमयासीतातथाशोकपरायणा/गृह्ययांनाभिजानासिपञ्चास्यामिवपन्नगीम्/नेयंजरयितुंशक्यासासुरैरमरैरपि/विषसंसृष्टमत्यर्थंभुक्तमन्नमिवौजसा/तपःसंतापलब्धस्तेयोऽयंधर्मपरिग्रहः/नसनाशयितुंन्याय्यआत्मप्राणपरिग्रहः/अवध्यतांतपोभिर्यांभवान्समनुपश्यति/आत्मनःसासुरैर्देवैर्हेतुस्तत्राप्ययंमहान्/सुग्रीवोनहिदेवोऽयंनासुरोनचमानुषः/नराक्षसोनगन्धर्वोनयक्षोनचपन्नगः/मानुषोराघवोराजन्सुग्रीवश्चहरीश्वरः/तस्मात्प्राणपरित्राणंकथंराजन्करिष्यसि/नतुधर्मोपसंहारमधर्मफलसंहितम्/तदेवफलमन्वेतिधर्मश्चाधर्मनाशनः/प्राप्तंधर्मफलंतावद्भवतानात्रसंशयः/फलमस्याप्यधर्मस्यक्षिप्रमेवप्रपत्स्यसे/जनस्थानवधंबुद्ध्वाबुद्ध्वावालिवधंतथा/रामसुग्रीवसख्यंचबुध्यस्वहितमात्मनः/कामंखल्वहमप्येकःसवाजिरथकुञ्जराम्/लङ्कांनाशयितुंशक्तस्तस्यैषतुविनिश्चयः/रामेणहिप्रतिज्ञातंहर्यृक्षगणसंनिधौ/उत्सादनममित्राणांसीतायैस्तुप्रधर्षिता/अपकुर्वन्हिरामस्यसाक्षादपिपुरंदरः/नसुखंप्राप्नुयादन्यःकिंपुनस्त्वद्विधोजनः/यांसीतेत्यभिजानासियेयंतिष्ठतितेवशे/कालरात्रीतितांविद्धिसर्वलङ्काविनाशिनीम्/तदलंकालपाशेनसीताविग्रहरूपिणा/स्वयंस्कन्धावसक्तेनक्षममात्मनिचिन्त्यताम्/सीतायास्तेजसादग्धांरामकोपप्रपीडिताम्/दह्यमनामिमांपश्यपुरींसाट्टप्रतोलिकाम्/ससौष्ठवोपेतमदीनवादिनः॑कपेर्निशम्याप्रतिमोऽप्रियंवचः/दशाननःकोपविवृत्तलोचनः॑समादिशत्तस्यवधंमहाकपेः/तस्यतद्वचनंश्रुत्वावानरस्यमहात्मनः/आज्ञापयद्वधंतस्यरावणःक्रोधमूर्छितः/वधेतस्यसमाज्ञप्तेरावणेनदुरात्मना/निवेदितवतोदौत्यंनानुमेनेविभीषणः/तंरक्षोऽधिपतिंक्रुद्धंतच्चकार्यमुपस्थितम्/विदित्वाचिन्तयामासकार्यंकार्यविधौस्थितः/निश्चितार्थस्ततःसाम्नापूज्यशत्रुजिदग्रजम्/उवाचहितमत्यर्थंवाक्यंवाक्यविशारदः/राजन्धर्मविरुद्धंचलोकवृत्तेश्चगर्हितम्/तवचासदृशंवीरकपेरस्यप्रमापणम्/असंशयंशत्रुरयंप्रवृद्धः॑कृतंह्यनेनाप्रियमप्रमेयम्/नदूतवध्यांप्रवदन्तिसन्तो॑दूतस्यदृष्टाबहवोहिदण्डाः/वैरूप्यामङ्गेषुकशाभिघातो॑मौण्ड्यंतथालक्ष्मणसंनिपातः/एतान्हिदूतेप्रवदन्तिदण्डान्॑वधस्तुदूतस्यननःश्रुतोऽपि/कथंचधर्मार्थविनीतबुद्धिः॑परावरप्रत्ययनिश्चितार्थः/भवद्विधःकोपवशेहितिष्ठेत्॑कोपंनियच्छन्तिहिसत्त्ववन्तः/नधर्मवादेनचलोकवृत्ते॑नशास्त्रबुद्धिग्रहणेषुवापि/विद्येतकश्चित्तववीरतुल्यस्॑त्वंह्युत्तमःसर्वसुरासुराणाम्/नचाप्यस्यकपेर्घातेकंचित्पश्याम्यहंगुणम्/तेष्वयंपात्यतांदण्डोयैरयंप्रेषितःकपिः/साधुर्वायदिवासाधुर्परैरेषसमर्पितः/ब्रुवन्परार्थंपरवान्नदूतोवधमर्हति/अपिचास्मिन्हतेराजन्नान्यंपश्यामिखेचरम्/इहयःपुनरागच्छेत्परंपारंमहोदधिः/तस्मान्नास्यवधेयत्नःकार्यःपरपुरंजय/भवान्सेन्द्रेषुदेवेषुयत्नमास्थातुमर्हति/अस्मिन्विनष्टेनहिदूतमन्यं॑पश्यामियस्तौनरराजपुत्रौ/युद्धाययुद्धप्रियदुर्विनीताव्॑उद्योजयेद्दीर्घपथावरुद्धौ/पराक्रमोत्साहमनस्विनांच॑सुरासुराणामपिदुर्जयेन/त्वयामनोनन्दननैरृतानां॑युद्धायतिर्नाशयितुंनयुक्ता/हिताश्चशूराश्चसमाहिताश्च॑कुलेषुजाताश्चमहागुणेषु/मनस्विनःशस्त्रभृतांवरिष्ठाः॑कोट्यग्रशस्तेसुभृताश्चयोधाः/तदेकदेशेनबलस्यतावत्॑केचित्तवादेशकृतोऽपयान्तु/तौराजपुत्रौविनिगृह्यमूढौ॑परेषुतेभावयितुंप्रभावम्/तस्यतद्वचनंश्रुत्वादशग्रीवोमहाबलः/देशकालहितंवाक्यंभ्रातुरुत्तममब्रवीत्/सम्यगुक्तंहिभवतादूतवध्याविगर्हिता/अवश्यंतुवधादन्यःक्रियतामस्यनिग्रहः/कपीनांकिललाङ्गूलमिष्टंभवतिभूषणम्/तदस्यदीप्यतांशीघ्रंतेनदग्धेनगच्छतु/ततःपश्यन्त्विमंदीनमङ्गवैरूप्यकर्शितम्/समित्राज्ञातयःसर्वेबान्धवाःससुहृज्जनाः/आज्ञापयद्राक्षसेन्द्रःपुरंसर्वंसचत्वरम्/लाङ्गूलेनप्रदीप्तेनरक्षोभिःपरिणीयताम्/तस्यतद्वचनंश्रुत्वाराक्षसाःकोपकर्कशाः/वेष्टन्तेतस्यलाङ्गूलंजीर्णैःकार्पासिकैःपटैः/संवेष्ट्यमानेलाङ्गूलेव्यवर्धतमहाकपिः/शुष्कमिन्धनमासाद्यवनेष्विवहुताशनः/तैलेनपरिषिच्याथतेऽग्निंतत्रावपातयन्/लाङ्गूलेनप्रदीप्तेनराक्षसांस्तानपातयत्/रोषामर्षपरीतात्माबालसूर्यसमाननः/सभूयःसंगतैःक्रूरैराकसैर्हरिसत्तमः/निबद्धःकृतवान्वीरस्तत्कालसदृशींमतिम्/कामंखलुनमेशक्तानिबधस्यापिराक्षसाः/छित्त्वापाशान्समुत्पत्यहन्यामहमिमान्पुनः/सर्वेषामेवपर्याप्तोराक्षसानामहंयुधि/किंतुरामस्यप्रीत्यर्थंविषहिष्येऽहमीदृशम्/लङ्काचरयितव्यामेपुनरेवभवेदिति/रात्रौनहिसुदृष्टामेदुर्गकर्मविधानतः/अवश्यमेवद्रष्टव्यामयालङ्कानिशाक्षये/कामंबन्धैश्चमेभूयःपुच्छस्योद्दीपनेनच/पीडांकुर्वन्तुरक्षांसिनमेऽस्तिमनसःश्रमः/ततस्तेसंवृताकारंसत्त्ववन्तंमहाकपिम्/परिगृह्यययुर्हृष्टाराक्षसाःकपिकुञ्जरम्/शङ्खभेरीनिनादैस्तैर्घोषयन्तःस्वकर्मभिः/राक्षसाःक्रूरकर्माणश्चारयन्तिस्मतांपुरीम्/हनुमांश्चारयामासराक्षसानांमहापुरीम्/अथापश्यद्विमानानिविचित्राणिमहाकपिः/संवृतान्भूमिभागांश्चसुविभक्तांश्चचत्वरान्/रथ्याश्चगृहसंबाधाःकपिःशृङ्गाटकानिच/चत्वरेषुचतुष्केषुराजमार्गेतथैवच/घोषयन्तिकपिंसर्वेचारीकइतिराक्षसाः/दीप्यमानेततस्तस्यलाङ्गूलाग्रेहनूमतः/राक्षस्यस्ताविरूपाक्ष्यःशंसुर्देव्यास्तदप्रियम्/यस्त्वयाकृतसंवादःसीतेताम्रमुखःकपिः/लाङ्गूलेनप्रदीप्तेनसएषपरिणीयते/श्रुत्वातद्वचनंक्रूरमात्मापहरणोपमम्/वैदेहीशोकसंतप्ताहुताशनमुपागमत्/मङ्गलाभिमुखीतस्यसातदासीन्महाकपेः/उपतस्थेविशालाक्षीप्रयताहव्यवाहनम्/यद्यस्तिपतिशुश्रूषायद्यस्तिचरितंतपः/यदिचास्त्येकपत्नीत्वंशीतोभवहनूमतः/यदिकश्चिदनुक्रोशस्तस्यमय्यस्तिधीमतः/यदिवाभाग्यशेषंमेशीतोभवहनूमतः/यदिमांवृत्तसंपन्नांतत्समागमलालसाम्/सविजानातिधर्मात्माशीतोभवहनूमतः/यदिमांतारयत्यार्यःसुग्रीवःसत्यसंगरः/अस्माद्दुःखान्महाबाहुःशीतोभवहनूमतः/ततस्तीक्ष्णार्चिरव्यग्रःप्रदक्षिणशिखोऽनलः/जज्वालमृगशावाक्ष्याःशंसन्निवशिवंकपेः/दह्यमानेचलाङ्गूलेचिन्तयामासवानरः/प्रदीप्तोऽग्निरयंकस्मान्नमांदहतिसर्वतः/दृश्यतेचमहाज्वालःकरोतिचनमेरुजम्/शिशिरस्येवसंपातोलाङ्गूलाग्रेप्रतिष्ठितः/अथवातदिदंव्यक्तंयद्दृष्टंप्लवतामया/रामप्रभावादाश्चर्यंपर्वतःसरितांपतौ/यदितावत्समुद्रस्यमैनाकस्यचधीमथ/रामार्थंसंभ्रमस्तादृक्किमग्निर्नकरिष्यति/सीतायाश्चानृशंस्येनतेजसाराघवस्यच/पितुश्चममसख्येननमांदहतिपावकः/भूयःसचिन्तयामासमुहूर्तंकपिकुञ्जरः/उत्पपाताथवेगेनननादचमहाकपिः/पुरद्वारंततःश्रीमाञ्शैलशृङ्गमिवोन्नतम्/विभक्तरक्षःसंबाधमाससादानिलात्मजः/सभूत्वाशैलसंकाशःक्षणेनपुनरात्मवान्/ह्रस्वतांपरमांप्राप्तोबन्धनान्यवशातयत्/विमुक्तश्चाभवच्छ्रीमान्पुनःपर्वतसंनिभः/वीक्षमाणश्चददृशेपरिघंतोरणाश्रितम्/सतंगृह्यमहाबाहुःकालायसपरिष्कृतम्/रक्षिणस्तान्पुनःसर्वान्सूदयामासमारुतिः/सतान्निहत्वारणचण्डविक्रमः॑समीक्षमाणःपुनरेवलङ्काम्/प्रदीप्तलाङ्गूलकृतार्चिमाली॑प्रकाशतादित्यइवांशुमाली/वीक्षमाणस्ततोलङ्कांकपिःकृतमनोरथः/वर्धमानसमुत्साहःकार्यशेषमचिन्तयत्/किंनुखल्वविशिष्टंमेकर्तव्यमिहसाम्प्रतम्/यदेषांरक्षसांभूयःसंतापजननंभवेत्/वनंतावत्प्रमथितंप्रकृष्टाराक्षसाहताः/बलैकदेशःक्षपितःशेषंदुर्गविनाशनम्/दुर्गेविनाशितेकर्मभवेत्सुखपरिश्रमम्/अल्पयत्नेनकार्येऽस्मिन्ममस्यात्सफलःश्रमः/योह्ययंममलाङ्गूलेदीप्यतेहव्यवाहनः/अस्यसंतर्पणंन्याय्यंकर्तुमेभिर्गृहोत्तमैः/ततःप्रदीप्तलाङ्गूलःसविद्युदिवतोयदः/भवनाग्रेषुलङ्कायाविचचारमहाकपिः/मुमोचहनुमानग्निंकालानलशिखोपमम्/श्वसनेनचसंयोगादतिवेगोमहाबलः/कालाग्निरिवजज्वालप्रावर्धतहुताशनः/प्रदीप्तमग्निंपवनस्तेषुवेश्मसुचारयत्/तानिकाञ्चनजालानिमुक्तामणिमयानिच/भवनान्यवशीर्यन्तरत्नवन्तिमहान्तिच/तानिभग्नविमानानिनिपेतुर्वसुधातले/भवनानीवसिद्धानामम्बरात्पुण्यसंक्षये/वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्/विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्शसः/नाग्निस्तृप्यतिकाष्ठानांतृणानांचयथातथा/हनूमान्राक्षसेन्द्राणांवधेकिंचिन्नतृप्यति/हुताशनज्वालसमावृतासा॑हतप्रवीरापरिवृत्तयोधा/हनूमातःक्रोधबलाभिभूता॑बभूवशापोपहतेवलङ्का/ससंभ्रमंत्रस्तविषण्णराक्षसां॑समुज्ज्वलज्ज्वालहुताशनाङ्किताम्/ददर्शलङ्कांहनुमान्महामनाः॑स्वयम्भुकोपोपहतामिवावनिम्/सराक्षसांस्तान्सुबहूंश्चहत्वा॑वनंचभङ्क्त्वाबहुपादपंतत्/विसृज्यरक्षोभवनेषुचाग्निं॑जगामरामंमनसामहात्मा/लङ्कांसमस्तांसंदीप्यलाङ्गूलाग्निंमहाकपिः/निर्वापयामासतदासमुद्रेहरिसत्तमः/संदीप्यमानांविध्वस्तांत्रस्तरक्षोगणांपुरीम्/अवेक्ष्यहानुमांल्लङ्कांचिन्तयामासवानरः/तस्याभूत्सुमहांस्त्रासःकुत्साचात्मन्यजायत/लङ्कांप्रदहताकर्मकिंस्वित्कृतमिदंमया/धन्यास्तेपुरुषश्रेष्ठयेबुद्ध्याकोपमुत्थितम्/निरुन्धन्तिमहात्मानोदीप्तमग्निमिवाम्भसा/यदिदग्धात्वियंलङ्कानूनमार्यापिजानकी/दग्धातेनमयाभर्तुर्हतंकार्यमजानता/यदर्थमयमारम्भस्तत्कार्यमवसादितम्/मयाहिदहतालङ्कांनसीतापरिरक्षिता/ईषत्कार्यमिदंकार्यंकृतमासीन्नसंशयः/तस्यक्रोधाभिभूतेनमयामूलक्षयःकृतः/विनष्टाजानकीव्यक्तंनह्यदग्धःप्रदृश्यते/लङ्कायाःकश्चिदुद्देशःसर्वाभस्मीकृतापुरी/यदितद्विहतंकार्यंमयाप्रज्ञाविपर्ययात्/इहैवप्राणसंन्यासोममापिह्यतिरोचते/किमग्नौनिपताम्यद्यआहोस्विद्वडवामुखे/शरीरमाहोसत्त्वानांदद्मिसागरवासिनाम्/कथंहिजीवताशक्योमयाद्रष्टुंहरीश्वरः/तौवापुरुषशार्दूलौकार्यसर्वस्वघातिना/मयाखलुतदेवेदंरोषदोषात्प्रदर्शितम्/प्रथितंत्रिषुलोकेषुकपितमनवस्थितम्/धिगस्तुराजसंभावमनीशमनवस्थितम्/ईश्वरेणापियद्रागान्मयासीतानरक्षिता/विनष्टायांतुसीतायांतावुभौविनशिष्यतः/तयोर्विनाशेसुग्रीवःसबन्धुर्विनशिष्यति/एतदेववचःश्रुत्वाभरतोभ्रातृवत्सलः/धर्मात्मासहशत्रुघ्नःकथंशक्ष्यतिजीवितुम्/इक्ष्वाकुवंशेधर्मिष्ठेगतेनाशमसंशयम्/भविष्यन्तिप्रजाःसर्वाःशोकसंतापपीडिताः/तदहंभाग्यरहितोलुप्तधर्मार्थसंग्रहः/रोषदोषपरीतात्माव्यक्तंलोकविनाशनः/इतिचिन्तयतस्तस्यनिमित्तान्युपपेदिरे/पूरमप्युपलब्धानिसाक्षात्पुनरचिन्तयत्/अथवाचारुसर्वाङ्गीरक्षितास्वेनतेजसा/ननशिष्यतिकल्याणीनाग्निरग्नौप्रवर्तते/नहिधर्मान्मनस्तस्यभार्याममिततेजसः/स्वचारित्राभिगुप्तांतांस्प्रष्टुमर्हतिपावकः/नूनंरामप्रभावेनवैदेह्याःसुकृतेनच/यन्मांदहनकर्मायंनादहद्धव्यवाहनः/त्रयाणांभरतादीनांभ्रातॄणांदेवताचया/रामस्यचमनःकान्तासाकथंविनशिष्यति/यद्वादहनकर्मायंसर्वत्रप्रभुरव्ययः/नमेदहतिलाङ्गूलंकथमार्यांप्रधक्ष्यति/तपसासत्यवाक्येनअनन्यत्वाच्चभर्तरि/अपिसानिर्दहेदग्निंनतामग्निःप्रधक्ष्यति/सतथाचिन्तयंस्तत्रदेव्याधर्मपरिग्रहम्/शुश्रावहनुमान्वाक्यंचारणानांमहात्मनाम्/अहोखलुकृतंकर्मदुर्विषह्यंहनूमता/अग्निंविसृजताभीक्ष्णंभीमंराक्षससद्मनि/दग्धेयंनगरीलङ्कासाट्टप्राकारतोरणा/जानकीनचदग्धेतिविस्मयोऽद्भुतएवनः/सनिमित्तैश्चदृष्टार्थैःकारणैश्चमहागुणैः/ऋषिवाक्यैश्चहनुमानभवत्प्रीतमानसः/ततःकपिःप्राप्तमनोरथार्थस्॑तामक्षतांराजसुतांविदित्वा/प्रत्यक्षतस्तांपुनरेवदृष्ट्वा॑प्रतिप्रयाणायमतिंचकार/ततस्तुशिंशपामूलेजानकींपर्यवस्थिताम्/अभिवाद्याब्रवीद्दिष्ट्यापश्यामित्वामिहाक्षताम्/ततस्तंप्रस्थितंसीतावीक्षमाणापुनःपुनः/भर्तृस्नेहान्वितंवाक्यंहनूमन्तमभाषत/काममस्यत्वमेवैकःकार्यस्यपरिसाधने/पर्याप्तःपरवीरघ्नयशस्यस्तेबलोदयः/बलैस्तुसंकुलांकृत्वालङ्कांपरबलार्दनः/मांनयेद्यदिकाकुत्स्थस्तस्यतत्सादृशंभवेत्/तद्यथातस्यविक्रान्तमनुरूपंमहात्मनः/भवत्याहवशूरस्यतत्त्वमेवोपपादय/तदर्थोपहितंवाक्यंप्रश्रितंहेतुसंहितम्/निशम्यहनुमांस्तस्यावाक्यमुत्तरमब्रवीत्/क्षिप्रमेष्यतिकाकुत्स्थोहर्यृक्षप्रवरैर्वृतः/यस्तेयुधिविजित्यारीञ्शोकंव्यपनयिष्यति/एवमाश्वास्यवैदेहींहनूमान्मारुतात्मजः/गमनायमतिंकृत्वावैदेहीमभ्यवादयत्/ततःसकपिशार्दूलःस्वामिसंदर्शनोत्सुकः/आरुरोहगिरिश्रेष्ठमरिष्टमरिमर्दनः/तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः/सालतालाश्वकर्णैश्चवंशैश्चबहुभिर्वृतम्/लतावितानैर्विततैःपुष्पवद्भिरलंकृतम्/नानामृगगणाकीर्णंधातुनिष्यन्दभूषितम्/बहुप्रस्रवणोपेतंशिलासंचयसंकटम्/महर्षियक्षगन्धर्वकिंनरोरगसेवितम्/लतापादपसंबाधंसिंहाकुलितकन्दरम्/व्याघ्रसंघसमाकीर्णंस्वादुमूलफलद्रुमम्/तमारुरोहातिबलःपर्वतंप्लवगोत्तमः/रामदर्शनशीघ्रेणप्रहर्षेणाभिचोदितः/तेनपादतलाक्रान्तारम्येषुगिरिसानुषु/सघोषाःसमशीर्यन्तशिलाश्चूर्णीकृतास्ततः/सतमारुह्यशैलेन्द्रंव्यवर्धतमहाकपिः/दक्षिणादुत्तरंपारंप्रार्थयंल्लवणाम्भसः/अधिरुह्यततोवीरःपर्वतंपवनात्मजः/ददर्शसागरंभीमंमीनोरगनिषेवितम्/समारुतइवाकाशंमारुतस्यात्मसंभवः/प्रपेदेहरिशार्दूलोदक्षिणादुत्तरांदिशम्/सतदापीडितस्तेनकपिनापर्वतोत्तमः/रराससहतैर्भूतैःप्राविशद्वसुधातलम्/कम्पमानैश्चशिखरैःपतद्भिरपिचद्रुमैः/तस्योरुवेगान्मथिताःपादपाःपुष्पशालिनः/निपेतुर्भूतलेरुग्णाःशक्रायुधहताइव/कन्दरोदरसंस्थानांपीडितानांमहौजसाम्/सिंहानांनिनदोभीमोनभोभिन्दन्सशुश्रुवे/स्रस्तव्याविद्धवसनाव्याकुलीकृतभूषणा/विद्याधर्यःसमुत्पेतुःसहसाधरणीधरात्/अतिप्रमाणाबलिनोदीप्तजिह्वामहाविषाः/निपीडितशिरोग्रीवाव्यवेष्टन्तमहाहयः/किंनरोरगगन्धर्वयक्षविद्याधरास्तथा/पीडितंतंनगवरंत्यक्त्वागगनमास्थिताः/सचभूमिधरःश्रीमान्बलिनातेनपीडितः/सवृक्षशिखरोदग्राःप्रविवेशरसातलम्/दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः/धरण्यांसमतांयातःसबभूवधराधरः/सचन्द्रकुमुदंरम्यंसार्ककारण्डवंशुभम्/तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम्/पुनर्वसुमहामीनंलोहिताङ्गमहाग्रहम्/ऐरावतमहाद्वीपंस्वातीहंसविलोडितम्/वातसंघातजातोर्मिंचन्द्रांशुशिशिराम्बुमत्/भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम्/ग्रसमानइवाकाशंताराधिपमिवालिखन्/हरन्निवसनक्षत्रंगगनंसार्कमण्डलम्/मारुतस्यालयंश्रीमान्कपिर्व्योमचरोमहान्/हनूमान्मेघजालानिविकर्षन्निवगच्छति/पाण्डुरारुणवर्णानिनीलमाञ्जिष्ठकानिच/हरितारुणवर्णानिमहाभ्राणिचकाशिरे/प्रविशन्नभ्रजालानिनिष्क्रमंश्चपुनःपुनः/प्रच्छन्नश्चप्रकाशश्चचन्द्रमाइवलक्ष्यते/नदन्नादेनमहतामेघस्वनमहास्वनः/आजगाममहातेजाःपुनर्मध्येनसागरम्/पर्वतेन्द्रंसुनाभंचसमुपस्पृश्यवीर्यवान्/ज्यामुक्तइवनाराचोमहावेगोऽभ्युपागतः/सकिंचिदनुसंप्राप्तःसमालोक्यमहागिरिम्/महेन्द्रमेघसंकाशंननादहरिपुंगवः/निशम्यनदतोनादंवानरास्तेसमन्ततः/बभूवुरुत्सुकाःसर्वेसुहृद्दर्शनकाङ्क्षिणः/जाम्बवान्सहरिश्रेष्ठःप्रीतिसंहृष्टमानसः/उपामन्त्र्यहरीन्सर्वानिदंवचनमब्रवीत्/सर्वथाकृतकार्योऽसौहनूमान्नात्रसंशयः/नह्यस्याकृतकार्यस्यनादएवंविधोभवेत्/तस्याबाहूरुवेगंचनिनादंचमहात्मनः/निशम्यहरयोहृष्टाःसमुत्पेतुस्ततस्ततः/तेनगाग्रान्नगाग्राणिशिखराच्छिखराणिच/प्रहृष्टाःसमपद्यन्तहनूमन्तंदिदृक्षवः/तेप्रीताःपादपाग्रेषुगृह्यशाखाःसुपुष्पिताः/वासांसीवप्रकाशानिसमाविध्यन्तवानराः/तमभ्रघनसंकाशमापतन्तंमहाकपिम्/दृष्ट्वातेवानराःसर्वेतस्थुःप्राञ्जलयस्तदा/ततस्तुवेगवांस्तस्यगिरेर्गिरिनिभःकपिः/निपपातमहेन्द्रस्यशिखरेपादपाकुले/ततस्तेप्रीतमनसःसर्वेवानरपुंगवाः/हनूमन्तंमहात्मानंपरिवार्योपतस्थिरे/परिवार्यचतेसर्वेपरांप्रीतिमुपागताः/प्रहृष्टवदनाःसर्वेतमरोगमुपागतम्/उपायनानिचादायमूलानिचफलानिच/प्रत्यर्चयन्हरिश्रेष्ठंहरयोमारुतात्मजम्/विनेदुर्मुदिताःकेचिच्चक्रुःकिलकिलांतथा/हृष्टाःपादपशाखाश्चआनिन्युर्वानरर्षभाः/हनूमांस्तुगुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा/कुमारमङ्गदंचैवसोऽवन्दतमहाकपिः/सताभ्यांपूजितःपूज्यःकपिभिश्चप्रसादितः/दृष्टादेवीतिविक्रान्तःसंक्षेपेणन्यवेदयत्/निषसादचहस्तेनगृहीत्वावालिनःसुतम्/रमणीयेवनोद्देशेमहेन्द्रस्यगिरेस्तदा/हनूमानब्रवीद्धृष्टस्तदातान्वानरर्षभान्/अशोकवनिकासंस्थादृष्टासाजनकात्मजा/रक्ष्यमाणासुघोराभीराक्षसीभिरनिन्दिता/एकवेणीधराबालारामदर्शनलालसा/उपवासपरिश्रान्तामलिनाजटिलाकृशा/ततोदृष्टेतिवचनंमहार्थममृतोपमम्/निशम्यमारुतेःसर्वेमुदितावानराभवन्/क्ष्वेडन्त्यन्येनदन्त्यन्येगर्जन्त्यन्येमहाबलाः/चक्रुःकिलकिलामन्येप्रतिगर्जन्तिचापरे/केचिदुच्छ्रितलाङ्गूलाःप्रहृष्टाःकपिकुञ्जराः/अञ्चितायतदीर्घाणिलाङ्गूलानिप्रविव्यधुः/अपरेतुहनूमन्तंवानरावारणोपमम्/आप्लुत्यगिरिशृङ्गेभ्यःसंस्पृशन्तिस्महर्षिताः/उक्तवाक्यंहनूमन्तमङ्गदस्तुतदाब्रवीत्/सर्वेषांहरिवीराणांमध्येवाचमनुत्तमाम्/सत्त्वेवीर्येनतेकश्चित्समोवानरविद्यते/यदवप्लुत्यविस्तीर्णंसागरंपुनरागतः/दिष्ट्यादृष्टात्वयादेवीरामपत्नीयशस्विनी/दिष्ट्यात्यक्ष्यतिकाकुत्स्थःशोकंसीतावियोगजम्/ततोऽङ्गदंहनूमन्तंजाम्बवन्तंचवानराः/परिवार्यप्रमुदिताभेजिरेविपुलाःशिलाः/श्रोतुकामाःसमुद्रस्यलङ्घनंवानरोत्तमाः/दर्शनंचापिलङ्कायाःसीतायारावणस्यच/तस्थुःप्राञ्जलयःसर्वेहनूमद्वदनोन्मुखाः/तस्थौतत्राङ्गदःश्रीमान्वानरैर्बहुभिर्वृतः/उपास्यमानोविबुधैर्दिविदेवपतिर्यथा/हनूमताकीर्तिमतायशस्विना॑तथाङ्गदेनाङ्गदबद्धबाहुना/मुदातदाध्यासितमुन्नतंमहन्॑महीधराग्रंज्वलितंश्रियाभवत्/ततस्तस्यगिरेःशृङ्गेमहेन्द्रस्यमहाबलाः/हनुमत्प्रमुखाःप्रीतिंहरयोजग्मुरुत्तमाम्/तंततःप्रतिसंहृष्टःप्रीतिमन्तंमहाकपिम्/जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम्/कथंदृष्टात्वयादेवीकथंवातत्रवर्तते/तस्यांवासकथंवृत्तःक्रूरकर्मादशाननः/तत्त्वतःसर्वमेतन्नःप्रब्रूहित्वंमहाकपे/श्रुतार्थाश्चिन्तयिष्यामोभूयःकार्यविनिश्चयम्/यश्चार्थस्तत्रवक्तव्योगतैरस्माभिरात्मवान्/रक्षितव्यंचयत्तत्रतद्भवान्व्याकरोतुनः/सनियुक्तस्ततस्तेनसंप्रहृष्टतनूरुहः/नमस्यञ्शिरसादेव्यैसीतायैप्रत्यभाषत/प्रत्यक्षमेवभवतांमहेन्द्राग्रात्खमाप्लुतः/उदधेर्दक्षिणंपारंकाङ्क्षमाणःसमाहितः/गच्छतश्चहिमेघोरंविघ्नरूपमिवाभवत्/काञ्चनंशिखरंदिव्यंपश्यामिसुमनोहरम्/स्थितंपन्थानमावृत्यमेनेविघ्नंचतंनगम्/उपसंगम्यतंदिव्यंकाञ्चनंनगसत्तमम्/कृतामेमनसाबुद्धिर्भेत्तव्योऽयंमयेतिच/प्रहतंचमयातस्यलाङ्गूलेनमहागिरेः/शिखरंसूर्यसंकाशंव्यशीर्यतसहस्रधा/व्यवसायंचमेबुद्ध्वासहोवाचमहागिरिः/पुत्रेतिमधुरांबाणींमनःप्रह्लादयन्निव/पितृव्यंचापिमांविद्धिसखायंमातरिश्वनः/मैनाकमितिविख्यातंनिवसन्तंमहोदधौ/पक्ष्ववन्तःपुरापुत्रबभूवुःपर्वतोत्तमाः/छन्दतःपृथिवींचेरुर्बाधमानाःसमन्ततः/श्रुत्वानगानांचरितंमहेन्द्रःपाकशासनः/चिच्छेदभगवान्पक्षान्वज्रेणैषांसहस्रशः/अहंतुमोक्षितस्तस्मात्तवपित्रामहात्मना/मारुतेनतदावत्सप्रक्षिप्तोऽस्मिमहार्णवे/रामस्यचमयासाह्येवर्तितव्यमरिंदम/रामोधर्मभृतांश्रेष्ठोमहेन्द्रसमविक्रमः/एतच्छ्रुत्वामयातस्यमैनाकस्यमहात्मनः/कार्यमावेद्यतुगिरेरुद्धतंचमनोमम/तेनचाहमनुज्ञातोमैनाकेनमहात्मना/उत्तमंजवमास्थायशेषमध्वानमास्थितः/ततोऽहंसुचिरंकालंवेगेनाभ्यगमंपथि/ततःपश्याम्यहंदेवींसुरसांनागमातरम्/समुद्रमध्येसादेवीवचनंमामभाषत/ममभक्ष्यःप्रदिष्टस्त्वममारैर्हरिसत्तमम्/ततस्त्वांभक्षयिष्यामिविहितस्त्वंचिरस्यमे/एवमुक्तःसुरसयाप्राञ्जलिःप्रणतःस्थितः/विवर्णवदनोभूत्वावाक्यंचेदमुदीरयम्/रामोदाशरथिःश्रीमान्प्रविष्टोदण्डकावनम्/लक्ष्मणेनसहभ्रात्रासीतयाचपरंतपः/तस्यसीताहृताभार्यारावणेनदुरात्मना/तस्याःसकाशंदूतोऽहंगमिष्येरामशासनात्/कर्तुमर्हसिरामस्यसाह्यंविषयवासिनि/अथवामैथिलींदृष्ट्वारामंचाक्लिष्टकारिणम्/आगमिष्यामितेवक्त्रंसत्यंप्रतिशृणोतिमे/एवमुक्तामयासातुसुरसाकामरूपिणी/अब्रवीन्नातिवर्तेतकश्चिदेषवरोमम/एवमुक्तःसुरसयादशयोजनमायतः/ततोऽर्धगुणविस्तारोबभूवाहंक्षणेनतु/मत्प्रमाणानुरूपंचव्यादितंतन्मुखंतया/तद्दृष्ट्वाव्यादितंत्वास्यंह्रस्वंह्यकरवंवपुः/तस्मिन्मुहूर्तेचपुनर्बभूवाङ्गुष्ठसंमितः/अभिपत्याशुतद्वक्त्रंनिर्गतोऽहंततःक्षणात्/अब्रवीत्सुरसादेवीस्वेनरूपेणमांपुनः/अर्थसिद्ध्यैहरिश्रेष्ठगच्छसौम्ययथासुखम्/समानयचवैदेहींराघवेणमहात्मना/सुखीभवमहाबाहोप्रीतास्मितववानर/ततोऽहंसाधुसाध्वीतिसर्वभूतैःप्रशंसितः/ततोऽन्तरिक्षंविपुलंप्लुतोऽहंगरुडोयथा/छायामेनिगृहीताचनचपश्यामिकिंचन/सोऽहंविगतवेगस्तुदिशोदशविलोकयन्/नकिंचित्तत्रपश्यामियेनमेऽपहृतागतिः/ततोमेबुद्धिरुत्पन्नाकिंनामगमनेमम/ईदृशोविघ्नउत्पन्नोरूपंयत्रनदृश्यते/अधोभागेनमेदृष्टिःशोचतापातितामया/ततोऽद्राक्षमहंभीमांराक्षसींसलिलेशयाम्/प्रहस्यचमहानादमुक्तोऽहंभीमयातया/अवस्थितमसंभ्रान्तमिदंवाक्यमशोभनम्/क्वासिगन्तामहाकायक्षुधितायाममेप्सितः/भक्षःप्रीणयमेदेहंचिरमाहारवर्जितम्/बाढमित्येवतांवाणींप्रत्यगृह्णामहंततः/आस्यप्रमाणादधिकंतस्याःकायमपूरयम्/तस्याश्चास्यंमहद्भीमंवर्धतेममभक्षणे/नचमांसातुबुबुधेममवाविकृतंकृतम्/ततोऽहंविपुलंरूपंसंक्षिप्यनिमिषान्तरात्/तस्याहृदयमादायप्रपतामिनभस्तलम्/साविसृष्टभुजाभीमापपातलवणाम्भसि/मयापर्वतसंकाशानिकृत्तहृदयासती/शृणोमिखगतानांचसिद्धानांचारणैःसह/राक्षसीसिंहिकाभीमाक्षिप्रंहनुमताहृता/तांहत्वापुनरेवाहंकृत्यमात्ययिकंस्मरन्/गत्वाचमहदध्वानंपश्यामिनगमण्डितम्/दक्षिणंतीरमुदधेर्लङ्कायत्रचसापुरी/अस्तंदिनकरेयातेरक्षसांनिलयंपुरीम्/प्रविष्टोऽहमविज्ञातोरक्षोभिर्भीमविक्रमैः/तत्राहंसर्वरात्रंतुविचिन्वञ्जनकात्मजाम्/रावणान्तःपुरगतोनचापश्यंसुमध्यमाम्/ततःसीतामपश्यंस्तुरावणस्यनिवेशने/शोकसागरमासाद्यनपारमुपलक्षये/शोचताचमयादृष्टंप्राकारेणसमावृतम्/काञ्चनेनविकृष्टेनगृहोपवनमुत्तमम्/सप्राकारमवप्लुत्यपश्यामिबहुपादपम्/अशोकवनिकामध्येशिंशपापादपोमहान्/तमारुह्यचपश्यामिकाञ्चनंकदलीवनम्/अदूराच्छिंशपावृक्षात्पश्यामिवनवर्णिनीम्/श्यामांकमलपत्राक्षीमुपवासकृशाननाम्/राक्षसीभिर्विरूपाभिःक्रूराभिरभिसंवृताम्/मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणींयथा/तांदृष्ट्वातादृशींनारींरामपत्नीमनिन्दिताम्/तत्रैवशिंशपावृक्षेपश्यन्नहमवस्थितः/ततोहलहलाशब्दंकाञ्चीनूपुरमिश्रितम्/शृणोम्यधिकगम्भीरंरावणस्यनिवेशने/ततोऽहंपरमोद्विग्नःस्वरूपंप्रत्यसंहरम्/अहंचशिंशपावृक्षेपक्षीवगहनेस्थितः/ततोरावणदाराश्चरावणश्चमहाबलः/तंदेशंसमनुप्राप्तायत्रसीताभवत्स्थिता/तंदृष्ट्वाथवरारोहासीतारक्षोगणेश्वरम्/संकुच्योरूस्तनौपीनौबाहुभ्यांपरिरभ्यच/तामुवाचदशग्रीवःसीतांपरमदुःखिताम्/अवाक्शिराःप्रपतितोबहुमन्यस्वमामिति/यदिचेत्त्वंतुमांदर्पान्नाभिनन्दसिगर्विते/द्विमासानन्तरंसीतेपास्यामिरुधिरंतव/एतच्छ्रुत्वावचस्तस्यरावणस्यदुरात्मनः/उवाचपरमक्रुद्धासीतावचनमुत्तमम्/राक्षसाधमरामस्यभार्याममिततेजसः/इक्ष्वाकुकुलनाथस्यस्नुषांदशरथस्यच/अवाच्यंवदतोजिह्वाकथंनपतितातव/किंस्विद्वीर्यंतवानार्ययोमांभर्तुरसंनिधौ/अपहृत्यागतःपापतेनादृष्टोमहात्मना/नत्वंरामस्यसदृशोदास्येऽप्यस्यानयुज्यसे/यज्ञीयःसत्यवाक्चैवरणश्लाघीचराघवः/जानक्यापरुषंवाक्यमेवमुक्तोदशाननः/जज्वालसहसाकोपाच्चितास्थइवपावकः/विवृत्यनयनेक्रूरेमुष्टिमुद्यम्यदक्षिणम्/मैथिलींहन्तुमारब्धःस्त्रीभिर्हाहाकृतंतदा/स्त्रीणांमध्यात्समुत्पत्यतस्यभार्यादुरात्मनः/वरामन्दोदरीनामतयासप्रतिषेधितः/उक्तश्चमधुरांवाणींतयासमदनार्दितः/सीतयातवकिंकार्यंमहेन्द्रसमविक्रम/मयासहरमस्वाद्यमद्विशिष्टानजानकी/देवगन्धर्वकन्याभिर्यक्षकन्याभिरेवच/सार्धंप्रभोरमस्वेहसीतयाकिंकरिष्यसि/ततस्ताभिःसमेताभिर्नारीभिःसमहाबलः/उत्थाप्यसहसानीतोभवनंस्वंनिशाचरः/यातेतस्मिन्दशग्रीवेराक्षस्योविकृताननाः/सीतांनिर्भर्त्सयामासुर्वाक्यैःक्रूरैःसुदारुणैः/तृणवद्भाषितंतासांगणयामासजानकी/तर्जितंचतदातासांसीतांप्राप्यनिरर्थकम्/वृथागर्जितनिश्चेष्टाराक्षस्यःपिशिताशनाः/रावणायशशंसुस्ताःसीताव्यवसितंमहत्/ततस्ताःसहिताःसर्वाविहताशानिरुद्यमाः/परिक्षिप्यसमन्तात्तांनिद्रावशमुपागताः/तासुचैवप्रसुप्तासुसीताभर्तृहितेरता/विलप्यकरुणंदीनाप्रशुशोचसुदुःखिता/तांचाहंतादृशींदृष्ट्वासीतायादारुणांदशाम्/चिन्तयामासविश्रान्तोनचमेनिर्वृतंमनः/संभाषणार्थेचमयाजानक्याश्चिन्तितोविधिः/इक्ष्वाकुकुलवंशस्तुततोममपुरस्कृतः/श्रुत्वातुगदितांवाचंराजर्षिगणपूजिताम्/प्रत्यभाषतमांदेवीबाष्पैःपिहितलोचना/कस्त्वंकेनकथंचेहप्राप्तोवानरपुंगव/काचरामेणतेप्रीतिस्तन्मेशंसितुमर्हसि/तस्यास्तद्वचनंश्रुत्वाअहमप्यब्रुवंवचः/देविरामस्यभर्तुस्तेसहायोभीमविक्रमः/सुग्रीवोनामविक्रान्तोवानरेन्दोमहाबलः/तस्यमांविद्धिभृत्यंत्वंहनूमन्तमिहागतम्/भर्त्राहंप्रहितस्तुभ्यंरामेणाक्लिष्टकर्मणा/इदंचपुरुषव्याघ्रःश्रीमान्दाशरथिःस्वयम्/अङ्गुलीयमभिज्ञानमदात्तुभ्यंयशस्विनि/तदिच्छामित्वयाज्ञप्तंदेविकिंकरवाण्यहम्/रामलक्ष्मणयोःपार्श्वंनयामित्वांकिमुत्तरम्/एतच्छ्रुत्वाविदित्वाचसीताजनकनन्दिनी/आहरावणमुत्साद्यराघवोमांनयत्विति/प्रणम्यशिरसादेवीमहमार्यामनिन्दिताम्/राघवस्यमनोह्लादमभिज्ञानमयाचिषम्/एवमुक्तावरारोहामणिप्रवरमुत्तमम्/प्रायच्छत्परमोद्विग्नावाचामांसंदिदेशह/ततस्तस्यैप्रणम्याहंराजपुत्र्यैसमाहितः/प्रदक्षिणंपरिक्राममिहाभ्युद्गतमानसः/उत्तरंपुनरेवाहनिश्चित्यमनसातदा/हनूमन्ममवृत्तान्तंवक्तुमर्हसिराघवे/यथाश्रुत्वैवनचिरात्तावुभौरामलक्ष्मणौ/सुग्रीवसहितौवीरावुपेयातांतथाकुरु/यद्यन्यथाभवेदेतद्द्वौमासौजीवितंमम/नमांद्रक्ष्यतिकाकुत्स्थोम्रियेसाहमनाथवत्/तच्छ्रुत्वाकरुणंवाक्यंक्रोधोमामभ्यवर्तत/उत्तरंचमयादृष्टंकार्यशेषमनन्तरम्/ततोऽवर्धतमेकायस्तदापर्वतसंनिभः/युद्धकाङ्क्षीवनंतच्चविनाशयितुमारभे/तद्भग्नंवनषण्डंतुभ्रान्तत्रस्तमृगद्विजम्/प्रतिबुद्धानिरीक्षन्तेराक्षस्योविकृताननाः/मांचदृष्ट्वावनेतस्मिन्समागम्यततस्ततः/ताःसमभ्यागताःक्षिप्रंरावणायाचचक्षिरे/राजन्वनमिदंदुर्गंतवभग्नंदुरात्मना/वानरेणह्यविज्ञायतववीर्यंमहाबल/दुर्बुद्धेस्तस्यराजेन्द्रतवविप्रियकारिणः/वधमाज्ञापयक्षिप्रंयथासौविलयंव्रजेत्/तच्छ्रुत्वाराक्षसेन्द्रेणविसृष्टाभृशदुर्जयाः/राक्षसाःकिंकरानामरावणस्यमनोऽनुगाः/तेषामशीतिसाहस्रंशूलमुद्गरपाणिनाम्/मयातस्मिन्वनोद्देशेपरिघेणनिषूदितम्/तेषांतुहतशेषायेतेगतालघुविक्रमाः/निहतंचमयासैन्यंरावणायाचचक्षिरे/ततोमेबुद्धिरुत्पन्नाचैत्यप्रासादमाक्रमम्/तत्रस्थान्राक्षसान्हत्वाशतंस्तम्भेनवैपुनः/ललामभूतोलङ्कायामयाविध्वंसितोरुषा/ततःप्रहस्तस्यसुतंजम्बुमालिनमादिशत्/तमहंबलसंपन्नंराक्षसंरणकोविदम्/परिघेणातिघोरेणसूदयामिसहानुगम्/तच्छ्रुत्वाराक्षसेन्द्रस्तुमन्त्रिपुत्रान्महाबलान्/पदातिबलसंपन्नान्प्रेषयामासरावणः/परिघेणैवतान्सर्वान्नयामियमसादनम्/मन्त्रिपुत्रान्हताञ्श्रुत्वासमरेलघुविक्रमान्/पञ्चसेनाग्रगाञ्शूरान्प्रेषयामासरावणः/तानहंसहसैन्यान्वैसर्वानेवाभ्यसूदयम्/ततःपुनर्दशग्रीवःपुत्रमक्षंमहाबलम्/बहुभीराकसैःसार्धंप्रेषयामाससंयुगे/तंतुमन्दोदरीपुत्रंकुमारंरणपण्डितम्/सहसाखंसमुत्क्रान्तंपादयोश्चगृहीतवान्/चर्मासिनंशतगुणंभ्रामयित्वाव्यपेषयम्/तमक्षमागतंभग्नंनिशम्यसदशाननः/ततइन्द्रजितंनामद्वितीयंरावणःसुतम्/व्यादिदेशसुसंक्रुद्धोबलिनंयुद्धदुर्मदम्/तस्याप्यहंबलंसर्वंतंचराक्षसपुंगवम्/नष्टौजसंरणेकृत्वापरंहर्षमुपागमम्/महताहिमहाबाहुःप्रत्ययेनमहाबलः/प्रेषितोरावणेनैषसहवीरैर्मदोत्कटैः/ब्राह्मेणास्त्रेणसतुमांप्रबध्नाच्चातिवेगतः/रज्जूभिरभिबध्नन्तिततोमांतत्रराक्षसाः/रावणस्यसमीपंचगृहीत्वामामुपानयन्/दृष्ट्वासंभाषितश्चाहंरावणेनदुरात्मना/पृष्टश्चलङ्कागमनंराक्षसानांचतद्वधम्/तत्सर्वंचमयातत्रसीतार्थमितिजल्पितम्/अस्याहंदर्शनाकाङ्क्षीप्राप्तस्त्वद्भवनंविभो/मारुतस्यौरसःपुत्रोवानरोहनुमानहम्/रामदूतंचमांविद्धिसुग्रीवसचिवंकपिम्/सोऽहंदौत्येनरामस्यत्वत्समीपमिहागतः/शृणुचापिसमादेशंयदहंप्रब्रवीमिते/राक्षसेशहरीशस्त्वांवाक्यमाहसमाहितम्/धर्मार्थकामसहितंहितंपथ्यमिवाशनम्/वसतोऋष्यमूकेमेपर्वतेविपुलद्रुमे/राघवोरणविक्रान्तोमित्रत्वंसमुपागतः/तेनमेकथितंराजन्भार्यामेरक्षसाहृता/तत्रसाहाय्यहेतोर्मेसमयंकर्तुमर्हसि/वालिनाहृतराज्येनसुग्रीवेणसहप्रभुः/चक्रेऽग्निसाक्षिकंसक्यंराघवःसहलक्ष्मणः/तेनवालिनमुत्साद्यशरेणैकेनसंयुगे/वानराणांमहाराजःकृतःसंप्लवतांप्रभुः/तस्यसाहाय्यमस्माभिःकार्यंसर्वात्मनात्विह/तेनप्रस्थापितस्तुभ्यंसमीपमिहधर्मतः/क्षिप्रमानीयतांसीतादीयतांराघवस्यच/यावन्नहरयोवीराविधमन्तिबलंतव/वानराणांप्रभवोहिनकेनविदितःपुरा/देवतानांसकाशंचयेगच्छन्तिनिमन्त्रिताः/इतिवानरराजस्त्वामाहेत्यभिहितोमया/मामैक्षतततोरुष्टश्चक्षुषाप्रदहन्निव/तेनवध्योऽहमाज्ञप्तोरक्षसारौद्रकर्मणा/ततोविभीषणोनामतस्यभ्रातामहामतिः/तेनराक्षसराजोऽसौयाचितोममकारणात्/दूतवध्यानदृष्टाहिराजशास्त्रेषुराक्षस/दूतेनवेदितव्यंचयथार्थंहितवादिना/सुमहत्यपराधेऽपिदूतस्यातुलविक्रमः/विरूपकरणंदृष्टंनवधोऽस्तीहशास्त्रतः/विभीषणेनैवमुक्तोरावणःसंदिदेशतान्/राक्षसानेतदेवाद्यलाङ्गूलंदह्यतामिति/ततस्तस्यवचःश्रुत्वाममपुच्छंसमन्ततः/वेष्टितंशणवल्कैश्चपटैःकार्पासकैस्तथा/राक्षसाःसिद्धसंनाहास्ततस्तेचण्डविक्रमाः/तदादीप्यन्तमेपुच्छंहनन्तःकाष्ठमुष्टिभिः/बद्धस्यबहुभिःपाशैर्यन्त्रितस्यचराक्षसैः/नमेपीडाभवेत्काचिद्दिदृक्षोर्नगरींदिवा/ततस्तेराक्षसाःशूराबद्धंमामग्निसंवृतम्/अघोषयन्राजमार्गेनगरद्वारमागताः/ततोऽहंसुमहद्रूपंसंक्षिप्यपुनरात्मनः/विमोचयित्वातंबन्धंप्रकृतिष्ठःस्थितःपुनः/आयसंपरिघंगृह्यतानिरक्षांस्यसूदयम्/ततस्तन्नगरद्वारंवेगेनाप्लुतवानहम्/पुच्छेनचप्रदीप्तेनतांपुरींसाट्टगोपुराम्/दहाम्यहमसंभ्रान्तोयुगान्ताग्निरिवप्रजाः/दग्ध्वालङ्कांपुनश्चैवशङ्कामामभ्यवर्तत/दहताचमयालङ्कांदघ्दासीतानसंशयः/अथाहंवाचमश्रौषंचारणानांशुभाक्षराम्/जानकीनचदग्धेतिविस्मयोदन्तभाषिणाम्/ततोमेबुद्धिरुत्पन्नाश्रुत्वातामद्भुतांगिरम्/पुनर्दृष्टाचवैदेहीविसृष्टश्चतयापुनः/राघवस्यप्रभावेनभवतांचैवतेजसा/सुग्रीवस्यचकार्यार्थंमयासर्वमनुष्ठितम्/एतत्सर्वंमयातत्रयथावदुपपादितम्/अत्रयन्नकृतंशेषंतत्सर्वंक्रियतामिति/एतदाख्यानंतत्सर्वंहनूमान्मारुतात्मजः/भूयःसमुपचक्रामवचनंवक्तुमुत्तरम्/सफलोराघवोद्योगःसुग्रीवस्यचसंभ्रमः/शीलमासाद्यसीतायाममचप्लवनंमहत्/आर्यायाःसदृशंशीलंसीतायाःप्लवगर्षभाः/तपसाधारयेल्लोकान्क्रुद्धावानिर्दहेदपि/सर्वथातिप्रवृद्धोऽसौरावणोराक्षसाधिपः/यस्यतांस्पृशतोगात्रंतपसानविनाशितम्/नतदग्निशिखाकुर्यात्संस्पृष्टापाणिनासती/जनकस्यात्मजाकुर्यादुत्क्रोधकलुषीकृता/अशोकवनिकामध्येरावणस्यदुरात्मनः/अधस्ताच्छिंशपावृक्षेसाध्वीकरुणमास्थिता/राक्षसीभिःपरिवृताशोकसंतापकर्शिता/मेघलेखापरिवृताचन्द्रलेखेवनिष्प्रभा/अचिन्तयन्तीवैदेहीरावणंबलदर्पितम्/पतिव्रताचसुश्रोणीअवष्टब्धाचजानकी/अनुरक्ताहिवैदेहीरामंसर्वात्मनाशुभा/अनन्यचित्तारामेचपौलोमीवपुरंदरे/तदेकवासःसंवीतारजोध्वस्तातथैवच/शोकसंतापदीनाङ्गीसीताभर्तृहितेरता/सामयाराक्षसीमध्येतर्ज्यमानामुहुर्मुहुः/राक्षसीभिर्विरूपाभिर्दृष्टाहिप्रमदावने/एकवेणीधरादीनाभर्तृचिन्तापरायणा/अधःशय्याविवर्णाङ्गीपद्मिनीवहिमागमे/रावणाद्विनिवृत्तार्थामर्तव्यकृतनिश्चया/कथंचिन्मृगशावाक्षीविश्वासमुपपादिता/ततःसंभाषिताचैवसर्वमर्थंचदर्शिता/रामसुग्रीवसख्यंचश्रुत्वाप्रीतिमुपागता/नियतःसमुदाचारोभक्तिर्भर्तरिचोत्तमा/यन्नहन्तिदशग्रीवंसमहात्मादशाननः/निमित्तमात्रंरामस्तुवधेतस्यभविष्यति/एवमास्तेमहाभागासीताशोकपरायणा/यदत्रप्रतिकर्तव्यंतत्सर्वमुपपाद्यताम्/तस्यतद्वचनंश्रुत्वावालिसूनुरभाषत/जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्यमहाकपीन्/अस्मिन्नेवंगतेकार्येभवतांचनिवेदिते/न्याय्यंस्मसहवैदेह्याद्रष्टुंतौपार्थिवात्मजौ/अहमेकोऽपिपर्याप्तःसराक्षसगणांपुरीम्/तांलङ्कांतरसाहन्तुंरावणंचमहाबलम्/किंपुनःसहितोवीरैर्बलवद्भिःकृतात्मभिः/कृतास्त्रैःप्लवगैःशक्तैर्भवद्भिर्विजयैषिभिः/अहंतुरावणंयुद्धेससैन्यंसपुरःसरम्/सपुत्रंविधमिष्यामिसहोदरयुतंयुधि/ब्राह्ममैन्द्रंचरौद्रंचवायव्यंवारुणंतथा/यदिशक्रजितोऽस्त्राणिदुर्निरीक्ष्याणिसंयुगे/तान्यहंविधमिष्यामिनिहनिष्यामिराक्षसान्/भवतामभ्यनुज्ञातोविक्रमोमेरुणद्धितम्/मयातुलाविसृष्टाहिशैलवृष्टिर्निरन्तरा/देवानपिरणेहन्यात्किंपुनस्तान्निशाचरान्/सागरोऽप्यतियाद्वेलांमन्दरःप्रचलेदपि/नजाम्बवन्तंसमरेकम्पयेदरिवाहिनी/सर्वराक्षससंघानांराक्षसायेचपूर्वकाः/अलमेकोविनाशायवीरोवायुसुतःकपिः/पनसस्योरुवेगेननीलस्यचमहात्मनः/मन्दरोऽप्यवशीर्येतकिंपुनर्युधिराक्षसाः/सदेवासुरयुद्धेषुगन्धर्वोरगपक्षिषु/मैन्दस्यप्रतियोद्धारंशंसतद्विविदस्यवा/अश्विपुत्रौमहावेगावेतौप्लवगसत्तमौ/पितामहवरोत्सेकात्परमंदर्पमास्थितौ/अश्विनोर्माननार्थंहिसर्वलोकपितामहः/सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा/वरोत्सेकेनमत्तौचप्रमथ्यमहतींचमूम्/सुराणाममृतंवीरौपीतवन्तौप्लवंगमौ/एतावेवहिसंक्रुद्धौसवाजिरथकुञ्जराम्/लङ्कांनाशयितुंशक्तौसर्वेतिष्ठन्तुवानराः/अयुक्तंतुविनादेवींदृष्टबद्भिःप्लवंगमाः/समीपंगन्तुमस्माभीराघवस्यमहात्मनः/दृष्टादेवीनचानीताइतितत्रनिवेदनम्/अयुक्तमिवपश्यामिभवद्भिःख्यातविक्रमैः/नहिवःप्लवतेकश्चिन्नापिकश्चित्पराक्रमे/तुल्यःसामरदैत्येषुलोकेषुहरिसत्तमाः/तेष्वेवंहतवीरेषुराक्षसेषुहनूमता/किमन्यदत्रकर्तव्यंगृहीत्वायामजानकीम्/तमेवंकृतसंकल्पंजाम्बवान्हरिसत्तमः/उवाचपरमप्रीतोवाक्यमर्थवदर्थवित्/नतावदेषामतिरक्षमानो॑यथाभवान्पश्यतिराजपुत्र/यथातुरामस्यमतिर्निविष्टा॑तथाभवान्पश्यतुकार्यसिद्धिम्/ततोजाम्बवतोवाक्यमगृह्णन्तवनौकसः/अङ्गदप्रमुखावीराहनूमांश्चमहाकपिः/प्रीतिमन्तस्ततःसर्वेवायुपुत्रपुरःसराः/महेन्द्राग्रंपरित्यज्यपुप्लुवुःप्लवगर्षभाः/मेरुमन्दरसंकाशामत्ताइवमहागजाः/छादयन्तइवाकाशंमहाकायामहाबलाः/सभाज्यमानंभूतैस्तमात्मवन्तंमहाबलम्/हनूमन्तंमहावेगंवहन्तइवदृष्टिभिः/राघवेचार्थनिर्वृत्तिंभर्तुश्चपरमंयशः/समाधायसमृद्धार्थाःकर्मसिद्धिभिरुन्नताः/प्रियाख्यानोन्मुखाःसर्वेसर्वेयुद्धाभिनन्दिनः/सर्वेरामप्रतीकारेनिश्चितार्थामनस्विनः/प्लवमानाःखमाप्लुत्यततस्तेकाननौक्षकः/नन्दनोपममासेदुर्वनंद्रुमलतायुतम्/यत्तन्मधुवनंनामसुग्रीवस्याभिरक्षितम्/अधृष्यंसर्वभूतानांसर्वभूतमनोहरम्/यद्रक्षतिमहावीर्यःसदादधिमुखःकपिः/मातुलःकपिमुख्यस्यसुग्रीवस्यमहात्मनः/तेतद्वनमुपागम्यबभूवुःपरमोत्कटाः/वानरावानरेन्द्रस्यमनःकान्ततमंमहत्/ततस्तेवानराहृष्टादृष्ट्वामधुवनंमहत्/कुमारमभ्ययाचन्तमधूनिमधुपिङ्गलाः/ततःकुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन्/अनुमान्यददौतेषांनिसर्गंमधुभक्षणे/ततश्चानुमताःसर्वेसंप्रहृष्टावनौकसः/मुदिताश्चततस्तेचप्रनृत्यन्तिततस्ततः/गायन्तिकेचित्प्रणमन्तिकेचिन्॑नृत्यन्तिकेचित्प्रहसन्तिकेचित्/पतन्तिकेचिद्विचरन्तिकेचित्॑प्लवन्तिकेचित्प्रलपन्तिकेचित्/परस्परंकेचिदुपाश्रयन्ते॑परस्परंकेचिदतिब्रुवन्ते/द्रुमाद्द्रुमंकेचिदभिप्लवन्ते॑क्षितौनगाग्रान्निपतन्तिकेचित्/महीतलात्केचिदुदीर्णवेगा॑महाद्रुमाग्राण्यभिसंपतन्ते/गायन्तमन्यःप्रहसन्नुपैति॑हसन्तमन्यःप्रहसन्नुपैति/रुदन्तमन्यःप्ररुदन्नुपैति॑नुदन्तमन्यःप्रणुदन्नुपैति/समाकुलंतत्कपिसैन्यमासीन्॑मधुप्रपानोत्कटसत्त्वचेष्टम्/नचात्रकश्चिन्नबभूवमत्तो॑नचात्रकश्चिन्नबभूवतृप्तो/ततोवनंतत्परिभक्ष्यमाणं॑द्रुमांश्चविध्वंसितपत्रपुष्पान्/समीक्ष्यकोपाद्दधिवक्त्रनामा॑निवारयामासकपिःकपींस्तान्/सतैःप्रवृद्धैःपरिभर्त्स्यमानो॑वनस्यगोप्ताहरिवीरवृद्धः/चकारभूयोमतिमुग्रतेजा॑वनस्यरक्षांप्रतिवानरेभ्यः/उवाचकांश्चित्परुषाणिधृष्टम्॑असक्तमन्यांश्चतलैर्जघान/समेत्यकैश्चित्कलहंचकार॑तथैवसाम्नोपजगामकांश्चित्/सतैर्मदाच्चाप्रतिवार्यवेगैर्॑बलाच्चतेनाप्रतिवार्यमाणैः/प्रधर्षितस्त्यक्तभयैःसमेत्य॑प्रकृष्यतेचाप्यनवेक्ष्यदोषम्/नखैस्तुदन्तोदशनैर्दशन्तस्॑तलैश्चपादैश्चसमाप्नुवन्तः/मदात्कपिंतंकपयःसमग्रा॑महावनंनिर्विषयंचचक्रुः/तानुवाचहरिश्रेष्ठोहनूमान्वानरर्षभः/अव्यग्रमनसोयूयंमधुसेवतवानराः/श्रुत्वाहनुमतोवाक्यंहरीणांप्रवरोऽङ्गदः/प्रत्युवाचप्रसन्नात्मापिबन्तुहरयोमधु/अवश्यंकृतकार्यस्यवाक्यंहनुमतोमया/अकार्यमपिकर्तव्यंकिमङ्गपुनरीदृशम्/अन्दगस्यमुखाच्छ्रुत्वावचनंवानरर्षभाः/साधुसाध्वितिसंहृष्टावानराःप्रत्यपूजयन्/पूजयित्वाङ्गदंसर्वेवानरावानरर्षभम्/जग्मुर्मधुवनंयत्रनदीवेगइवद्रुतम्/तेप्रहृष्टामधुवनंपालानाक्रम्यवीर्यतः/अतिसर्गाच्चपटवोदृष्ट्वाश्रुत्वाचमैथिलीम्/उत्पत्यचततःसर्वेवनपालान्समागताः/ताडयन्तिस्मशतशःसक्तान्मधुवनेतदा/मधूनिद्रोणमात्राणिबहुभिःपरिगृह्यते/घ्नन्तिस्मसहिताःसर्वेभक्षयन्तितथापरे/केचित्पीत्वापविध्यन्तिमधूनिमधुपिङ्गलाः/मधूच्चिष्टेनकेचिच्चजघ्नुरन्योन्यमुत्कटाः/अपरेवृक्षमूलेषुशाखांगृह्यव्यवस्थितः/अत्यर्थंचमदग्लानाःपर्णान्यास्तीर्यशेरते/उन्मत्तभूताःप्लवगामधुमत्ताश्चहृष्टवत्/क्षिपन्त्यपितथान्योन्यंस्खलन्त्यपितथापरे/केचित्क्ष्वेडान्प्रकुर्वन्तिकेचित्कूजन्तिहृष्टवत्/हरयोमधुनामत्ताःकेचित्सुप्तामहीतले/येऽप्यत्रमधुपालाःस्युःप्रेष्यादधिमुखस्यतु/तेऽपितैर्वानरैर्भीमैःप्रतिषिद्धादिशोगताः/जानुभिश्चप्रकृष्टाश्चदेवमार्गंचदर्शिताः/अब्रुवन्परमोद्विग्नागत्वादधिमुखंवचः/हनूमतादत्तवरैर्हतंमधुवनंबलात्/वयंचजानुभिःकृष्टादेवमार्गंचदर्शिताः/ततोदधिमुखःक्रुद्धोवनपस्तत्रवानरः/हतंमधुवनंश्रुत्वासान्त्वयामासतान्हरीन्/एतागच्छतगच्छामोवानरानतिदर्पितान्/बलेनावारयिष्यामोमधुभक्षयतोवयम्/श्रुत्वादधिमुखस्येदंवचनंवानरर्षभाः/पुनर्वीरामधुवनंतेनैवसहिताययुः/मध्येचैषांदधिमुखःप्रगृह्यसुमहातरुम्/समभ्यधावद्वेगेनातेचसर्वेप्लवंगमाः/तेशिलाःपादपांश्चापिपाषाणांश्चापिवानराः/गृहीत्वाभ्यागमन्क्रुद्धायत्रतेकपिकुञ्जराः/तेस्वामिवचनंवीराहृदयेष्ववसज्यतत्/त्वरयाह्यभ्यधावन्तसालतालशिलायुधाः/वृक्षस्थांश्चतलस्थांश्चवानरान्बलदर्पितान्/अभ्यक्रामन्ततेवीराःपालास्तत्रसहस्रशः/अथदृष्ट्वादधिमुखंक्रुद्धंवानरपुंगवाः/अभ्यधावन्तवेगेनहनूमत्प्रमुखास्तदा/तंसवृक्षंमहाबाहुमापतन्तंमहाबलम्/आर्यकंप्राहरत्तत्रबाहुभ्यांकुपितोऽङ्गदः/मदान्धशनवेदैनमार्यकोऽयंममेतिसः/अथैनंनिष्पिपेषाशुवेगवद्वसुधातले/सभग्नबाहुर्विमुखोविह्वलःशोणितोक्षितः/मुमोहसहसावीरोमुहूर्तंकपिकुञ्जरः/सकथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः/उवाचैकान्तमागम्यभृत्यांस्तान्समुपागतान्/एतेतिष्ठन्तुगच्छामोभर्तानोयत्रवानरः/सुग्रीवोविपुलग्रीवःसहरामेणतिष्ठति/सर्वंचैवाङ्गदेदोषंश्रावयिष्यामिपार्थिव/अमर्षीवचनंश्रुत्वाघातयिष्यतिवानरान्/इष्टंमधुवनंह्येतत्सुग्रीवस्यमहात्मनः/पितृपैतामहंदिव्यंदेवैरपिदुरासदम्/सवानरानिमान्सर्वान्मधुलुब्धान्गतायुषः/घातयिष्यतिदण्डेनसुग्रीवःससुहृज्जनान्/वध्याह्येतेदुरात्मानोनृपाज्ञापरिभाविनः/अमर्षप्रभवोरोषःसफलोनोभविष्यति/एवमुक्त्वादधिमुखोवनपालान्महाबलः/जगामसहसोत्पत्यवनपालैःसमन्वितः/निमेषान्तरमात्रेणसहिप्राप्तोवनालयः/सहस्रांशुसुतोधीमान्सुग्रीवोयत्रवानरः/रामंचलक्ष्मणंचैवदृष्ट्वासुग्रीवमेवच/समप्रतिष्ठांजगतीमाकाशान्निपपातह/सनिपत्यमहावीर्यःसर्वैस्तैःपरिवारितः/हरिर्दधिमुखःपालैःपालानांपरमेश्वरः/सदीनवदनोभूत्वाकृत्वाशिरसिचाञ्जलिम्/सुग्रीवस्यशुभौमूर्ध्नाचरणौप्रत्यपीडयत्/ततोमूर्ध्नानिपतितंवानरंवानरर्षभः/दृष्ट्वैवोद्विग्नहृदयोवाक्यमेतदुवाचह/उत्तिष्ठोत्तिष्ठकस्मात्त्वंपादयोःपतितोमम/अभयंतेभवेद्वीरसत्यमेवाभिधीयताम्/सतुविश्वासितस्तेनसुग्रीवेणमहात्मना/उत्थायचमहाप्राज्ञोवाक्यंदधिमुखोऽब्रवीत्/नैवर्क्षरजसाराजन्नत्वयानापिवालिना/वनंनिसृष्टपूर्वंहिभक्षितंतत्तुवानरैः/एभिःप्रधर्षिताश्चैववारितावनरक्षिभिः/मधून्यचिन्तयित्वेमान्भक्षयन्तिपिबन्तिच/शिष्टमत्रापविध्यन्तिभक्षयन्तितथापरे/निवार्यमाणास्तेसर्वेभ्रुवौवैदर्शयन्तिहि/इमेहिसंरब्धतरास्तथातैःसंप्रधर्षिताः/वारयन्तोवनात्तस्मात्क्रुद्धैर्वानरपुंगवैः/ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः/संरक्तनयनैःक्रोधाद्धरयःसंप्रचालिताः/पाणिभिर्निहताःकेचित्केचिज्जानुभिराहताः/प्रकृष्टाश्चयथाकामंदेवमार्गंचदर्शिताः/एवमेतेहताःशूरास्त्वयितिष्ठतिभर्तरि/कृत्स्नंमधुवनंचैवप्रकामंतैःप्रभक्ष्यते/एवंविज्ञाप्यमानंतुसुग्रीवंवानरर्षभम्/अपृच्छत्तंमहाप्राज्ञोलक्ष्मणःपरवीरहा/किमयंवानरोराजन्वनपःप्रत्युपस्थितः/कंचार्थमभिनिर्दिश्यदुःखितोवाक्यमब्रवीत्/एवमुक्तस्तुसुग्रीवोलक्ष्मणेनमहात्मना/लक्ष्मणंप्रत्युवाचेदंवाक्यंवाक्यविशारदः/आर्यलक्ष्मणसंप्राहवीरोदधिमुखःकपिः/अङ्गदप्रमुखैर्वीरैर्भक्षितंमधुवानरैः/नैषामकृतकृत्यानामीदृशःस्यादुपक्रमः/वनंयथाभिपन्नंतैःसाधितंकर्मवानरैः/दृष्टादेवीनसंदेहोनचान्येनहनूमता/नह्यन्यःसाधनेहेतुःकर्मणोऽस्यहनूमतः/कार्यसिद्धिर्हनुमतिमतिश्चहरिपुंगव/व्यवसायश्चवीर्यंचश्रुतंचापिप्रतिष्ठितम्/जाम्बवान्यत्रनेतास्यादङ्गदस्यबलेश्वरः/हनूमांश्चाप्यधिष्ठातानतस्यगतिरन्यथा/अङ्गदप्रमुखैर्वीरैर्हतंमधुवनंकिल/विचिन्त्यदक्षिणामाशामागतैर्हरिपुंगवैः/आगतैश्चप्रविष्टंतद्यथामधुवनंहितैः/धर्षितंचवनंकृत्स्नमुपयुक्तंचवानरैः/वारिताःसहिताःपालास्तथाजानुभिराहताः/एतदर्थमयंप्राप्तोवक्तुंमधुरवागिह/नाम्नादधिमुखोनामहरिःप्रख्यातविक्रमः/दृष्टासीतामहाबाहोसौमित्रेपश्यतत्त्वतः/अभिगम्ययथासर्वेपिबन्तिमधुवानराः/नचाप्यदृष्ट्वावैदेहींविश्रुताःपुरुषर्षभ/वनंदात्तवरंदिव्यंधर्षयेयुर्वनौकसः/ततःप्रहृष्टोधर्मात्मालक्ष्मणःसहराघवः/श्रुत्वाकर्णसुखांवाणींसुग्रीववदनाच्च्युताम्/प्राहृष्यतभृशंरामोलक्ष्मणश्चमहायशाः/श्रुत्वादधिमुखस्येदंसुग्रीवस्तुप्रहृष्यच/वनपालंपुनर्वाक्यंसुग्रीवःप्रत्यभाषत/प्रीतोऽस्मिसौम्ययद्भुक्तंवनंतैःकृतकर्मभिः/मर्षितंमर्षणीयंचचेष्टितंकृतकर्मणाम्/इच्छामिशीघ्रंहनुमत्प्रधानान्॑शाखामृगांस्तान्मृगराजदर्पान्/द्रष्टुंकृतार्थान्सहराघवाभ्यां॑श्रोतुंचसीताधिगमेप्रयत्नम्/सुग्रीवेणैवमुक्तस्तुहृष्टोदधिमुखःकपिः/राघवंलक्ष्मणंचैवसुग्रीवंचाभ्यवादयत्/सप्रणम्यचसुग्रीवंराघवौचमहाबलौ/वानरैःसहितैःशूरैर्दिवमेवोत्पपातह/सयथैवागतःपूर्वंतथैवत्वरितोगतः/निपत्यगगनाद्भूमौतद्वनंप्रविवेशह/सप्रविष्टोमधुवनंददर्शहरियूथपान्/विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम्/सतानुपागमद्वीरोबद्ध्वाकरपुटाञ्जलिम्/उवाचवचनंश्लक्ष्णमिदंहृष्टवदङ्गदम्/सौम्यरोषोनकर्तव्योयदेभिरभिवारितः/अज्ञानाद्रक्षिभिःक्रोधाद्भवन्तःप्रतिषेधिताः/युवराजस्त्वमीशश्चवनस्यास्यमहाबल/मौर्ख्यात्पूर्वंकृतोदोषस्तद्भवान्क्षन्तुमर्हति/यथैवहिपितातेऽभूत्पूर्वंहरिगणेश्वरः/तथात्वमपिसुग्रीवोनान्यस्तुहरिसत्तम/आख्यातंहिमयागत्वापितृव्यस्यतवानघ/इहोपयानंसर्वेषामेतेषांवनचारिणाम्/सत्वदागमनंश्रुत्वासहैभिर्हरियूथपैः/प्रहृष्टोनतुरुष्टोऽसौवनंश्रुत्वाप्रधर्षितम्/प्रहृष्टोमांपितृव्यस्तेसुग्रीवोवानरेश्वरः/शीघ्रंप्रेषयसर्वांस्तानितिहोवाचपार्थिवः/श्रुत्वादधिमुखस्यैतद्वचनंश्लक्ष्णमङ्गदः/अब्रवीत्तान्हरिश्रेष्ठोवाक्यंवाक्यविशारदः/शङ्केश्रुतोऽयंवृत्तान्तोरामेणहरियूथपाः/तत्क्षमंनेहनःस्थातुंकृतेकार्येपरंतपाः/पीत्वामधुयथाकामंविश्रान्तावनचारिणः/किंशेषंगमनंतत्रसुग्रीवोयत्रमेगुरुः/सर्वेयथामांवक्ष्यन्तिसमेत्यहरियूथपाः/तथास्मिकर्ताकर्तव्येभवद्भिःपरवानहम्/नाज्ञापयितुमीशोऽहंयुवराजोऽस्मियद्यपि/अयुक्तंकृतकर्माणोयूयंधर्षयितुंमया/ब्रुवतश्चाङ्गदश्चैवंश्रुत्वावचनमव्ययम्/प्रहृष्टमनसोवाक्यमिदमूचुर्वनौकसः/एवंवक्ष्यतिकोराजन्प्रभुःसन्वानरर्षभ/ऐश्वर्यमदमत्तोहिसर्वोऽहमितिमन्यते/तवचेदंसुसदृशंवाक्यंनान्यस्यकस्यचित्/संनतिर्हितवाख्यातिभविष्यच्छुभभाग्यताम्/सर्वेवयमपिप्राप्तास्तत्रगन्तुंकृतक्षणाः/सयत्रहरिवीराणांसुग्रीवःपतिरव्ययः/त्वयाह्यनुक्तैर्हरिभिर्नैवशक्यंपदात्पदम्/क्वचिद्गन्तुंहरिश्रेष्ठब्रूमःसत्यमिदंतुते/एवंतुवदतांतेषामङ्गदःप्रत्यभाषत/बाढंगच्छामइत्युक्त्वाउत्पपातमहीतलात्/उत्पतन्तमनूत्पेतुःसर्वेतेहरियूथपाः/कृत्वाकाशंनिराकाशंयज्ञोत्क्षिप्ताइवानलाः/तेऽम्बरंसहसोत्पत्यवेगवन्तःप्लवंगमाः/विनदन्तोमहानादंघनावातेरितायथा/अङ्गदेह्यननुप्राप्तेसुग्रीवोवानराधिपः/उवाचशोकोपहतंरामंकमललोचनम्/समाश्वसिहिभद्रंतेदृष्टादेवीनसंशयः/नागन्तुमिहशक्यंतैरतीतेसमयेहिनः/नमत्सकाशमागच्छेत्कृत्येहिविनिपातिते/युवराजोमहाबाहुःप्लवतांप्रवरोऽङ्गदः/यद्यप्यकृतकृत्यानामीदृशःस्यादुपक्रमः/भवेत्तुदीनवदनोभ्रान्तविप्लुतमानसः/पितृपैतामहंचैतत्पूर्वकैरभिरक्षितम्/नमेमधुवनंहन्यादहृष्टःप्लवगेश्वरः/कौसल्यासुप्रजारामसमाश्वसिहिसुव्रत/दृष्टादेवीनसंदेहोनचान्येनहनूमता/नह्यन्यःकर्मणोहेतुःसाधनेतद्विधोभवेत्/हनूमतिहिसिद्धिश्चमतिश्चमतिसत्तम/व्यवसायश्चवीर्यंचसूर्येतेजइवध्रुवम्/जाम्बवान्यत्रनेतास्यादङ्गदश्चबलेश्वरः/हनूमांश्चाप्यधिष्ठातानतस्यगतिरन्यथा/माभूश्चिन्तासमायुक्तःसंप्रत्यमितविक्रम/ततःकिलकिलाशब्दंशुश्रावासन्नमम्बरे/हनूमत्कर्मदृप्तानांनर्दतांकाननौकसाम्/किष्किन्धामुपयातानांसिद्धिंकथयतामिव/ततःश्रुत्वानिनादंतंकपीनांकपिसत्तमः/आयताञ्चितलाङ्गूलःसोऽभवद्धृष्टमानसः/आजग्मुस्तेऽपिहरयोरामदर्शनकाङ्क्षिणः/अङ्गदंपुरतःकृत्वाहनूमन्तंचवानरम्/तेऽङ्गदप्रमुखावीराःप्रहृष्टाश्चमुदान्विताः/निपेतुर्हरिराजस्यसमीपेराघवस्यच/हनूमांश्चमहाबहुःप्रणम्यशिरसाततः/नियतामक्षतांदेवींराघवायन्यवेदयत्/निश्चितार्थंततस्तस्मिन्सुग्रीवंपवनात्मजे/लक्ष्मणःप्रीतिमान्प्रीतंबहुमानादवैक्षत/प्रीत्याचरममाणोऽथराघवःपरवीरहा/बहुमानेनमहताहनूमन्तमवैक्षत/ततःप्रस्रवणंशैलंतेगत्वाचित्रकाननम्/प्रणम्यशिरसारामंलक्ष्मणंचमहाबलम्/युवराजंपुरस्कृत्यसुग्रीवमभिवाद्यच/प्रवृत्तमथसीतायाःप्रवक्तुमुपचक्रमुः/रावणान्तःपुरेरोधंराक्षसीभिश्चतर्जनम्/रामेसमनुरागंचयश्चापिसमयःकृतः/एतदाख्यान्तितेसर्वेहरयोरामसंनिधौ/वैदेहीमक्षतांश्रुत्वारामस्तूत्तरमब्रवीत्/क्वसीतावर्ततेदेवीकथंचमयिवर्तते/एतन्मेसर्वमाख्यातवैदेहींप्रतिवानराः/रामस्यगदितंश्रुत्वहरयोरामसंनिधौ/चोदयन्तिहनूमन्तंसीतावृत्तान्तकोविदम्/श्रुत्वातुवचनंतेषांहनूमान्मारुतात्मजः/उवाचवाक्यंवाक्यज्ञःसीतायादर्शनंयथा/समुद्रंलङ्घयित्वाहंशतयोजनमायतम्/अगच्छंजानकींसीतांमार्गमाणोदिदृक्षया/तत्रलङ्केतिनगरीरावणस्यदुरात्मनः/दक्षिणस्यसमुद्रस्यतीरेवसतिदक्षिणे/तत्रदृष्टामयासीतारावणान्तःपुरेसती/संन्यस्यत्वयिजीवन्तीरामाराममनोरथम्/दृष्टामेराक्षसीमध्येतर्ज्यमानामुहुर्मुहुः/राक्षसीभिर्विरूपाभीरक्षिताप्रमदावने/दुःखमापद्यतेदेवीतवादुःखोचितासती/रावणान्तःपुरेरुद्ध्वाराक्षसीभिःसुरक्षिता/एकवेणीधरादीनात्वयिचिन्तापरायणा/अधःशय्याविवर्णाङ्गीपद्मिनीवहिमागमे/रावणाद्विनिवृत्तार्थामर्तव्यकृतनिश्चया/देवीकथंचित्काकुत्स्थत्वन्मनामार्गितामया/इक्ष्वाकुवंशविख्यातिंशनैःकीर्तयतानघ/समयानरशार्दूलविश्वासमुपपादिता/ततःसंभाषितादेवीसर्वमर्थंचदर्शिता/रामसुग्रीवसख्यंचश्रुत्वाप्रीतिमुपागता/नियतःसमुदाचारोभक्तिश्चास्यास्तथात्वयि/एवंमयामहाभागादृष्टाजनकनन्दिनी/उग्रेणतपसायुक्तात्वद्भक्त्यापुरुषर्षभ/अभिज्ञानंचमेदत्तंयथावृत्तंतवान्तिके/चित्रकूटेमहाप्राज्ञवायसंप्रतिराघव/विज्ञाप्यश्चनरव्याघ्रोरामोवायुसुतत्वया/अखिलेनेहयद्दृष्टमितिमामाहजानकी/इदंचास्मैप्रदातव्यंयत्नात्सुपरिरक्षितम्/ब्रुवतावचनान्येवंसुग्रीवस्योपशृण्वतः/एषचूडामणिःश्रीमान्मयातेयत्नरक्षितः/मनःशिलायास्तिकलस्तंस्मरस्वेतिचाब्रवीत्/एषनिर्यातितःश्रीमान्मयातेवारिसंभवः/एतंदृष्ट्वाप्रमोदिष्येव्यसनेत्वामिवानघ/जीवितंधारयिष्यामिमासंदशरथात्मज/ऊर्ध्वंमासान्नजीवेयंरक्षसांवशमागता/इतिमामब्रवीत्सीताकृशाङ्गीधर्मचारिणी/रावणान्तःपुरेरुद्धामृगीवोत्फुल्ललोचना/एतदेवमयाख्यातंसर्वंराघवयद्यथा/सर्वथासागरजलेसंतारःप्रविधीयताम्/तौजाताश्वासौराजपुत्रौविदित्वा॑तच्चाभिज्ञानंराघवायप्रदाय/देव्याचाख्यातंसर्वमेवानुपूर्व्याद्॑वाचासंपूर्णंवायुपुत्रःशशंस/एवमुक्तोहनुमतारामोदशरथात्मजः/तंमणिंहृदयेकृत्वाप्ररुरोदसलक्ष्मणः/तंतुदृष्ट्वामणिश्रेष्ठंराघवःशोककर्शितः/नेत्राभ्यामश्रुपूर्णाभ्यांसुग्रीवमिदमब्रवीत्/यथैवधेनुःस्रवतिस्नेहाद्वत्सस्यवत्सला/तथाममापिहृदयंमणिरत्नस्यदर्शनात्/मणिरत्नमिदंदत्तंवैदेह्याःश्वशुरेणमे/वधूकालेयथाबद्धमधिकंमूर्ध्निशोभते/अयंहिजलसंभूतोमणिःप्रवरपूजितः/यज्ञेपरमतुष्टेनदत्तःशक्रेणधीमता/इमंदृष्ट्वामणिश्रेष्ठंतथातातस्यदर्शनम्/अद्यास्म्यवगतःसौम्यवैदेहस्यतथाविभोः/अयंहिशोभतेतस्याःप्रियायामूर्ध्निमेमणिः/अद्यास्यदर्शनेनाहंप्राप्तांतामिवचिन्तये/किमाहसीतावैदेहीब्रूहिसौम्यपुनःपुनः/परासुमिवतोयेनसिञ्चन्तीवाक्यवारिणा/इतस्तुकिंदुःखतरंयदिमंवारिसंभवम्/मणिंपश्यामिसौमित्रेवैदेहीमागतंविना/चिरंजीवतिवैदेहीयदिमासंधरिष्यति/क्षणंसौम्यनजीवेयंविनातामसितेक्षणाम्/नयमामपितंदेशंयत्रदृष्टाममप्रिया/नतिष्ठेयंक्षणमपिप्रवृत्तिमुपलभ्यच/कथंसाममसुश्रोणिभीरुभीरुःसतीतदा/भयावहानांघोराणांमध्येतिष्ठतिरक्षसाम्/शारदस्तिमिरोन्मुखोनूनंचन्द्रइवाम्बुदैः/आवृतंवदनंतस्यानविराजतिराक्षसैः/किमाहसीताहनुमंस्तत्त्वतःकथयस्वमे/एतेनखलुजीविष्येभेषजेनातुरोयथा/मधुरामधुरालापाकिमाहममभामिनी/मद्विहीनावरारोहाहनुमन्कथयस्वमे/दुःखाद्दुःखतरंप्राप्यकथंजीवतिजानकी/एवमुक्तस्तुहनुमान्राघवेणमहात्मना/सीतायाभाषितंसर्वंन्यवेदयतराघवे/इदमुक्तवतीदेवीजानकीपुरुषर्षभ/पूर्ववृत्तमभिज्ञानंचित्रकूटेयथातथम्/सुखसुप्तात्वयासार्धंजानकीपूर्वमुत्थिता/वायसःसहसोत्पत्यविररादस्तनान्तरे/पर्यायेणचसुप्तस्त्वंदेव्यङ्केभरताग्रज/पुनश्चकिलपक्षीसदेव्याजनयतिव्यथाम्/ततःपुनरुपागम्यविररादभृशंकिल/ततस्त्वंबोधितस्तस्याःशोणितेनसमुक्षितः/वायसेनचतेनैवसततंबाध्यमानया/बोधितःकिलदेव्यास्त्वंसुखसुप्तःपरंतप/तांतुदृष्ट्वामहाबाहोरादितांचस्तनान्तरे/आशीविषइवक्रुद्धोनिःश्वसन्नभ्यभाषथाः/नखाग्रैःकेनतेभीरुदारितंतुस्तनान्तरम्/कःक्रीडतिसरोषेणपञ्चवक्त्रेणभोगिना/निरीक्षमाणःसहसावायसंसमवैक्षताः/नखैःसरुधिरैस्तीक्ष्णैर्मामेवाभिमुखंस्थितम्/सुतःकिलसशक्रस्यवायसःपततांवरः/धरान्तरचरःशीघ्रंपवनस्यगतौसमः/ततस्तस्मिन्महाबाहोकोपसंवर्तितेक्षणः/वायसेत्वंकृत्वाःक्रूरांमतिंमतिमतांवर/सदर्भंसंस्तराद्गृह्यब्रह्मास्त्रेणन्ययोजयः/सदीप्तइवकालाग्निर्जज्वालाभिमुखःखगम्/सत्वंप्रदीप्तंचिक्षेपदर्भंतंवायसंप्रति/ततस्तुवायसंदीप्तःसदर्भोऽनुजगामह/सपित्राचपरित्यक्तःसुरैःसर्वैर्महर्षिभिः/त्रींल्लोकान्संपरिक्रम्यत्रातारंनाधिगच्छति/तंत्वंनिपतितंभूमौशरण्यःशरणागतम्/वधार्हमपिकाकुत्स्थकृपयापरिपालयः/मोघमस्त्रंनशक्यंतुकर्तुमित्येवराघव/ततस्तस्याक्षिकाकस्यहिनस्तिस्मसदक्षिणम्/रामत्वांसनमस्कृत्वाराज्ञोदशरथस्यच/विसृष्टस्तुतदाकाकःप्रतिपेदेखमालयम्/एवमस्त्रविदांश्रेष्ठःसत्त्ववाञ्शीलवानपि/किमर्थमस्त्रंरक्षःसुनयोजयसिराघव/ननागानापिगन्धर्वानासुरानमरुद्गणाः/तवराममुखेस्थातुंशक्ताःप्रतिसमाधितुम्/तववीर्यवतःकच्चिन्मयियद्यस्तिसंभ्रमः/क्षिप्रंसुनिशितैर्बाणैर्हन्यतांयुधिरावणः/भ्रातुरादेशमादायलक्ष्मणोवापरंतपः/सकिमर्थंनरवरोनमांरक्षतिराघवः/शक्तौतौपुरुषव्याघ्रौवाय्वग्निसमतेजसौ/सुराणामपिदुर्धर्षौकिमर्थंमामुपेक्षतः/ममैवदुष्कृतंकिंचिन्महदस्तिनसंशयः/समर्थौसहितौयन्मांनापेक्षेतेपरंतपौ/वैदेह्यावचनंश्रुत्वाकरुणंसाश्रुभाषितम्/पुनरप्यहमार्यांतामिदंवचनमब्रुवम्/त्वच्छोकविमुखोरामोदेविसत्येनतेशपे/रामेदुःखाभिभूतेचलक्ष्मणःपरितप्यते/कथंचिद्भवतीदृष्टानकालःपरिशोचितुम्/इमंमुहूर्तंदुःखानामन्तंद्रक्ष्यसिभामिनि/तावुभौनरशार्दूलौराजपुत्रावरिंदमौ/त्वद्दर्शनकृतोत्साहौलङ्कांभस्मीकरिष्यतः/हत्वाचसमरेरौद्रंरावणंसहबान्धवम्/राघवस्त्वांमहाबाहुःस्वांपुरींनयतेध्रुवम्/यत्तुरामोविजानीयादभिज्ञानमनिन्दिते/प्रीतिसंजननंतस्यप्रदातुंतत्त्वमर्हसि/साभिवीक्ष्यदिशःसर्वावेण्युद्ग्रथनमुत्तमम्/मुक्त्वावस्त्राद्ददौमह्यंमणिमेतंमहाबल/प्रतिगृह्यमणिंदिव्यंतवहेतोरघूत्तम/शिरसासंप्रणम्यैनामहमागमनेत्वरे/गमनेचकृतोत्साहमवेक्ष्यवरवर्णिनी/विवर्धमानंचहिमामुवाचजनकात्मजा/अश्रुपूर्णमुखीदीनाबाष्पसंदिग्धभाषिणी/हनुमन्सिंहसंकाशौतावुभौरामलक्ष्मणौ/सुग्रीवंचसहामात्यंसर्वान्ब्रूयाअनामयम्/यथाचसमहाबाहुर्मांतारयतिराघवः/अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि/इमंचतीव्रंममशोकवेगं॑रक्षोभिरेभिःपरिभर्त्सनंच/ब्रूयास्तुरामस्यगतःसमीपं॑शिवश्चतेऽध्वास्तुहरिप्रवीर/एतत्तवार्यानृपराजसिंह॑सीतावचःप्राहविषादपूर्वम्/एतच्चबुद्ध्वागदितंमयात्वं॑श्रद्धत्स्वसीतांकुशलांसमग्राम्/अथाहमुत्तरंदेव्यापुनरुक्तःससंभ्रमम्/तवस्नेहान्नरव्याघ्रसौहार्यादनुमान्यच/एवंबहुविधंवाच्योरामोदाशरथिस्त्वया/यथामामाप्नुयाच्छीघ्रंहत्वारावणमाहवे/यदिवामन्यसेवीरवसैकाहमरिंदम/कस्मिंश्चित्संवृतेदेशेविश्रान्तःश्वोगमिष्यसि/ममचाप्यल्पभाग्यायाःसाम्निध्यात्तववानर/अस्यशोकविपाकस्यमुहूर्तंस्याद्विमोक्षणम्/गतेहित्वयिविक्रान्तेपुनरागमनायवै/प्राणानामपिसंदेहोममस्यान्नात्रसंशयः/तवादर्शनजःशोकोभूयोमांपरितापयेत्/दुःखाद्दुःखपराभूतांदुर्गतांदुःखभागिनीम्/अयंतुवीरसंदेहस्तिष्ठतीवममाग्रतः/सुमहांस्त्वत्सहायेषुहर्यृक्षेषुअसंशयः/कथंनुखलुदुष्पारंतरिष्यन्तिमहोदधिम्/तानिहर्यृक्षसैन्यानितौवानरवरात्मजौ/त्रयाणामेवभूतानांसागरस्यास्यलङ्घने/शक्तिःस्याद्वैनतेयस्यवायोर्वातववानघ/तदस्मिन्कार्यनियोगेवीरैवंदुरतिक्रमे/किंपश्यसिसमाधानंब्रूहिकार्यविदांवर/काममस्यत्वमेवैकःकार्यस्यपरिसाधने/पर्याप्तःपरवीरघ्नयशस्यस्तेबलोदयः/बलैःसमग्रैर्यदिमांहत्वारावणमाहवे/विजयीस्वांपुरींरामोनयेत्तत्स्याद्यशस्करम्/यथाहंतस्यवीरस्यवनादुपधिनाहृता/रक्षसातद्भयादेवतथानार्हतिराघवः/बलैस्तुसंकुलांकृत्वालङ्कांपरबलार्दनः/मांनयेद्यदिकाकुत्स्थस्तत्तस्यसदृशंभवेत्/तद्यथातस्यविक्रान्तमनुरूपंमहात्मनः/भवत्याहवशूरस्यतथात्वमुपपादय/तदर्थोपहितंवाक्यंप्रश्रितंहेतुसंहितम्/निशम्याहंततःशेषंवाक्यमुत्तरमब्रुवम्/देविहर्यृक्षसैन्यानामीश्वरःप्लवतांवरः/सुग्रीवःसत्त्वसंपन्नस्तवार्थेकृतनिश्चयः/तस्यविक्रमसंपन्नाःसत्त्ववन्तोमहाबलाः/मनःसंकल्पसंपातानिदेशेहरयःस्थिताः/येषांनोपरिनाधस्तान्नतिर्यक्सज्जतेगतिः/नचकर्मसुसीदन्तिमहत्स्वमिततेजसः/असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः/प्रदक्षिणीकृताभूमिर्वायुमार्गानुसारिभिः/मद्विशिष्टाश्चतुल्याश्चसन्तितत्रवनौकसः/मत्तःप्रत्यवरःकश्चिन्नास्तिसुग्रीवसंनिधौ/अहंतावदिहप्राप्तःकिंपुनस्तेमहाबलाः/नहिप्रकृष्टाःप्रेष्यन्तेप्रेष्यन्तेहीतरेजनाः/तदलंपरितापेनदेविमन्युर्व्यपैतुते/एकोत्पातेनतेलङ्कामेष्यन्तिहरियूथपाः/ममपृष्ठगतौतौचचन्द्रसूर्याविवोदितौ/त्वत्सकाशंमहाभागेनृसिंहावागमिष्यतः/अरिघ्नंसिंहसंकाशंक्षिप्रंद्रक्ष्यसिराघवम्/लक्ष्मणंचधनुष्पाणिंलङ्काद्वारमुपस्थितम्/नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान्/वानरान्वानरेन्द्राभान्क्षिप्रंद्रक्ष्यसिसंगतान्/शैलाम्बुदन्निकाशानांलङ्कामलयसानुषु/नर्दतांकपिमुख्यानामचिराच्छोष्यसेस्वनम्/निवृत्तवनवासंचत्वयासार्धमरिंदमम्/अभिषिक्तमयोध्यायांक्षिप्रंद्रक्ष्यसिराघवम्/ततोमयावाग्भिरदीनभाषिणी॑शिवाभिरिष्टाभिरभिप्रसादिता/जगामशान्तिंमममैथिलात्मजा॑तवापिशोकेनतथाभिपीडिता//6Uddha/LankaKand/श्रुत्वाहनुमतोवाक्यंयथावदभिभाषितम्/रामःप्रीतिसमायुक्तोवाक्यमुत्तरमब्रवीत्611/कृतंहनुमताकार्यंसुमहद्भुविदुष्करम्/मनसापियदन्येननशक्यंधरणीतले/नहितंपरिपश्यामियस्तरेतमहार्णवम्/अन्यत्रगरुणाद्वायोरन्यत्रचहनूमतः/देवदानवयक्षाणांगन्धर्वोरगरक्षसाम्/अप्रधृष्यांपुरींलङ्कांरावणेनसुरक्षिताम्/प्रविष्टःसत्त्वमाश्रित्यजीवन्कोनामनिष्क्रमेत्/कोविशेत्सुदुराधर्षांराक्षसैश्चसुरक्षिताम्/योवीर्यबलसंपन्नोनसमःस्याद्धनूमतः/भृत्यकार्यंहनुमतासुग्रीवस्यकृतंमहत्/एवंविधायस्वबलंसदृशंविक्रमस्यच/योहिभृत्योनियुक्तःसन्भर्त्राकर्मणिदुष्करे/कुर्यात्तदनुरागेणतमाहुःपुरुषोत्तमम्/नियुक्तोनृपतेःकार्यंनकुर्याद्यःसमाहितः/भृत्योयुक्तःसमर्थश्चतमाहुःपुरुषाधमम्/तन्नियोगेनियुक्तेनकृतंकृत्यंहनूमता/नचात्मालघुतांनीतःसुग्रीवश्चापितोषितः/अहंचरघुवंशश्चलक्ष्मणश्चमहाबलः/वैदेह्यादर्शनेनाद्यधर्मतःपरिरक्षिताः/इदंतुममदीनस्यामनोभूयःप्रकर्षति/यदिहास्यप्रियाख्यातुर्नकुर्मिसदृशंप्रियम्/एषसर्वस्वभूतस्तुपरिष्वङ्गोहनूमतः/मयाकालमिमंप्राप्यदत्तस्तस्यमहात्मनः/सर्वथासुकृतंतावत्सीतायाःपरिमार्गणम्/सागरंतुसमासाद्यपुनर्नष्टंमनोमम/कथंनामसमुद्रस्यदुष्पारस्यमहाम्भसः/हरयोदक्षिणंपारंगमिष्यन्तिसमाहिताः/यद्यप्येषतुवृत्तान्तोवैदेह्यागदितोमम/समुद्रपारगमनेहरीणांकिमिवोत्तरम्/इत्युक्त्वाशोकसंभ्रान्तोरामःशत्रुनिबर्हणः/हनूमन्तंमहाबाहुस्ततोध्यानमुपागमत्6119/तंतुशोकपरिद्यूनंरामंदशरथात्मजम्621/उवाचवचनंश्रीमान्सुग्रीवःशोकनाशनम्/किंत्वंसंतप्यसेवीरयथान्यःप्राकृतस्तथा/मैवंभूस्त्यजसंतापंकृतघ्नइवसौहृदम्/संतापस्यचतेस्थानंनहिपश्यामिराघव/प्रवृत्तावुपलब्धायांज्ञातेचनिलयेरिपोः/धृतिमाञ्शास्त्रवित्प्राज्ञःपण्डितश्चासिराघव/त्यजेमांपापिकांबुद्धिंकृत्वात्मेवार्थदूषणीम्/समुद्रंलङ्घयित्वातुमहानक्रसमाकुलम्/लङ्कामारोहयिष्यामोहनिष्यामश्चतेरिपुम्/निरुत्साहस्यदीनस्यशोकपर्याकुलात्मनः/सर्वार्थाव्यवसीदन्तिव्यसनंचाधिगच्छति/इमेशूराःसमर्थाश्चसर्वेनोहरियूथपाः/त्वत्प्रियार्थंकृतोत्साहाःप्रवेष्टुमपिपावकम्/एषांहर्षेणजानामितर्कश्चास्मिन्दृढोमम/विक्रमेणसमानेष्येसीतांहत्वायथारिपुम्/सेतुरत्रयथावध्येद्यथापश्येमतांपुरीम्/तस्यराक्षसराजस्यतथात्वंकुरुराघव/दृष्ट्वातांहिपुरींलङ्कांत्रिकूटशिखरेस्थिताम्/हतंचरावणंयुद्धेदर्शनादुपधारय/सेतुबद्धःसमुद्रेचयावल्लङ्कासमीपतः/सर्वंतीर्णंचवैसैन्यंजितमित्युपधार्यताम्/इमेहिसमरेशूराहरयःकामरूपिणः/तदलंविक्लवाबुद्धीराजन्सर्वार्थनाशनी/पुरुषस्यहिलोकेऽस्मिञ्शोकःशौर्यापकर्षणः/यत्तुकार्यंमनुष्येणशौण्डीर्यमवलम्बता/शूराणांहिमनुष्याणांत्वद्विधानांमहात्मनाम्/विनष्टेवाप्रनष्टेवाशोकःसर्वार्थनाशनः/त्वंतुबुद्धिमतांश्रेष्ठःसर्वशास्त्रार्थकोविदः/मद्विधैःसचिवैःसार्थमरिंजेतुमिहार्हसि/नहिपश्याम्यहंकंचित्त्रिषुलोकेषुराघव/गृहीतधनुषोयस्तेतिष्ठेदभिमुखोरणे/वानरेषुसमासक्तंनतेकार्यंविपत्स्यते/अचिराद्द्रक्ष्यसेसीतांतीर्त्वासागरमक्षयम्/तदलंशोकमालम्ब्यक्रोधमालम्बभूपते/निश्चेष्टाःक्षत्रियामन्दाःसर्वेचण्डस्यबिभ्यति/लङ्गनार्थंचघोरस्यसमुद्रस्यनदीपतेः/सहास्माभिरिहोपेतःसूक्ष्मबुद्धिर्विचारय/इमेहिसमरेशूराहरयःकामरूपिणः/तानरीन्विधमिष्यन्तिशिलापादपवृष्टिभिः/कथंचित्परिपश्यामस्तेवयंवरुणालयम्/किमुक्त्वाबहुधाचापिसर्वथाविजयीभवान्6224/सुग्रीवस्यवचःश्रुत्वाहेतुमत्परमार्थवित्/प्रतिजग्राहकाकुत्स्थोहनूमन्तमथाब्रवीत्631/तरसासेतुबन्धेनसागरोच्छोषणेनवा/सर्वथासुसमर्थोऽस्मिसागरस्यास्यलङ्घने/कतिदुर्गाणिदुर्गायालङ्कायास्तद्ब्रवीहिमे/ज्ञातुमिच्छामितत्सर्वंदर्शनादिववानर/बलस्यपरिमाणंचद्वारदुर्गक्रियामपि/गुप्तिकर्मचलङ्कायारक्षसांसदनानिच/यथासुखंयथावच्चलङ्कायामसिदृष्टवान्/सरमाचक्ष्वतत्त्वेनसर्वथाकुशलोह्यसि/श्रुत्वारामस्यवचनंहनूमान्मारुतात्मजः/वाक्यंवाक्यविदांश्रेष्ठोरामंपुनरथाब्रवीत्/श्रूयतांसर्वमाख्यास्येदुर्गकर्मविधानतः/गुप्तापुरीयथालङ्कारक्षिताचयथाबलैः/परांसमृद्धिंलङ्कायाःसागरस्यचभीमताम्/विभागंचबलौघस्यनिर्देशंवाहनस्यच/प्रहृष्टामुदितालङ्कामत्तद्विपसमाकुला/महतीरथसंपूर्णारक्षोगणसमाकुला/दृढबद्धकवाटानिमहापरिघवन्तिच/द्वाराणिविपुलान्यस्याश्चत्वारिसुमहान्तिच/वप्रेषूपलयन्त्राणिबलवन्तिमहान्तिच/आगतंपरसैन्यंतैस्तत्रप्रतिनिवार्यते/द्वारेषुसंस्कृताभीमाःकालायसमयाःशिताः/शतशोरोचितावीरैःशतघ्न्योरक्षसांगणैः/सौवर्णश्चमहांस्तस्याःप्राकारोदुष्प्रधर्षणः/मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः/सर्वतश्चमहाभीमाःशीततोयामहाशुभाः/अगाधाग्राहवत्यश्चपरिखामीनसेविताः/द्वारेषुतासांचत्वारःसंक्रमाःपरमायताः/यन्त्रैरुपेताबहुभिर्महद्भिर्दृढसंधिभिः/त्रायन्तेसंक्रमास्तत्रपरसैन्यागमेसति/यन्त्रैस्तैरवकीर्यन्तेपरिखासुसमन्ततः/एकस्त्वकम्प्योबलवान्संक्रमःसुमहादृढः/काञ्चनैर्बहुभिःस्तम्भैर्वेदिकाभिश्चशोभितः/स्वयंप्रकृतिसंपन्नोयुयुत्सूरामरावणः/उत्थितश्चाप्रमत्तश्चबलानामनुदर्शने/लङ्कापुरीनिरालम्बादेवदुर्गाभयावहा/नादेयंपार्वतंवन्यंकृत्रिमंचचतुर्विधम्/स्थितापारेसमुद्रस्यदूरपारस्यराघव/नौपथश्चापिनास्त्यत्रनिरादेशश्चसर्वतः/शैलाग्रेरचितादुर्गासापूर्देवपुरोपमा/वाजिवारणसंपूर्णालङ्कापरमदुर्जया/परिघाश्चशतघ्न्यश्चयन्त्राणिविविधानिच/शोभयन्तिपुरींलङ्कांरावणस्यदुरात्मनः/अयुतंरक्षसामत्रपश्चिमद्वारमाश्रितम्/शूलहस्तादुराधर्षाःसर्वेखड्गाग्रयोधिनः/नियुतंरक्षसामत्रदक्षिणद्वारमाश्रितम्/चतुरङ्गेणसैन्येनयोधास्तत्राप्यनुत्तमाः/प्रयुतंरक्षसामत्रपूर्वद्वारंसमाश्रितम्/चर्मखड्गधराःसर्वेतथासर्वास्त्रकोविदाः/अर्बुदंरक्षसामत्रउत्तरद्वारमाश्रितम्/रथिनश्चाश्ववाहाश्चकुलपुत्राःसुपूजिताः/शतंशतसहस्राणांमध्यमंगुल्ममाश्रितम्/यातुधानादुराधर्षाःसाग्रकोटिश्चरक्षसाम्/तेमयासंक्रमाभग्नाःपरिखाश्चावपूरिताः/दग्धाचनगरीलङ्काप्राकाराश्चावसादिताः/येनकेनतुमार्गेणतरामवरुणालयम्/हतेतिनगरीलङ्कांवानरैरवधार्यताम्/अङ्गदोद्विविदोमैन्दोजाम्बवान्पनसोनलः/नीलःसेनापतिश्चैवबलशेषेणकिंतव/प्लवमानाहिगत्वातांरावणस्यमहापुरीम्/सप्रकारांसभवनामानयिष्यन्तिमैथिलीम्/एवमाज्ञापयक्षिप्रंबलानांसर्वसंग्रहम्/मुहूर्तेनतुयुक्तेनप्रस्थानमभिरोचय6333/श्रुत्वाहनूमतोवाक्यंयथावदनुपूर्वशः641/ततोऽब्रवीन्महातेजारामःसत्यपराक्रमः/यांनिवेदयसेलङ्कांपुरींभीमस्यरक्षसः/क्षिप्रमेनांवधिष्यामिसत्यमेतद्ब्रवीमिते/अस्मिन्मुहूर्तेसुग्रीवप्रयाणमभिरोचये/युक्तोमुहूर्तोविजयःप्राप्तोमध्यंदिवाकरः/उत्तराफल्गुनीह्यद्यश्वस्तुहस्तेनयोक्ष्यते/अभिप्रयामसुग्रीवसर्वानीकसमावृताः/निमित्तानिचधन्यानियानिप्रादुर्भवन्तिमे/निहत्यरावणंसीतामानयिष्यामिजानकीम्/उपरिष्टाद्धिनयनंस्फुरमाणमिदंमम/विजयंसमनुप्राप्तंशंसतीवमनोरथम्/अग्रेयातुबलस्यास्यनीलोमार्गमवेक्षितुम्/वृतःशतसहस्रेणवानराणांतरस्विनाम्/फलमूलवतानीलशीतकाननवारिणा/पथामधुमताचाशुसेनांसेनापतेनय/दूषयेयुर्दुरात्मानःपथिमूलफलोदकम्/राक्षसाःपरिरक्षेथास्तेभ्यस्त्वंनित्यमुद्यतः/निम्नेषुवनदुर्गेषुवनेषुचवनौकसः/अभिप्लुत्याभिपश्येयुःपरेषांनिहतंबलम्/सागरौघनिभंभीममग्रानीकंमहाबलाः/कपिसिंहाप्रकर्षन्तुशतशोऽथसहस्रशः/गजश्चगिरिसंकाशोगवयश्चमहाबलः/गवाक्षश्चाग्रतोयान्तुगवांदृप्ताइवर्षभाः/यातुवानरवाहिन्यावानरःप्लवतांपतिः/पालयन्दक्षिणंपार्श्वमृषभोवानरर्षभः/गन्धहस्तीवदुर्धर्षस्तरस्वीगन्धमादनः/यातुवानरवाहिन्याःसव्यंपार्श्वमधिष्ठितः/यास्यामिबलमध्येऽहंबलौघमभिहर्षयन्/अधिरुह्यहनूमन्तमैरावतमिवेश्वरः/अङ्गदेनैषसंयातुलक्ष्मणश्चान्तकोपमः/सार्वभौमेणभूतेशोद्रविणाधिपतिर्यथा/जाम्बवांश्चसुषेणश्चवेगदर्शीचवानरः/ऋक्षराजोमहासत्त्वःकुक्षिंरक्षन्तुतेत्रयः/राघवस्यवचःश्रुत्वासुग्रीवोवाहिनीपतिः/व्यादिदेशमहावीर्यान्वानरान्वानरर्षभः/तेवानरगणाःसर्वेसमुत्पत्ययुयुत्सवः/गुहाभ्यःशिखरेभ्यश्चआशुपुप्लुविरेतदा/ततोवानरराजेनलक्ष्मणेनचपूजितः/जगामरामोधर्मात्माससैन्योदक्षिणांदिशम्/शतैःशतसहस्रैश्चकोटीभिरयुतैरपि/वारणाभिश्चहरिभिर्ययौपरिवृतस्तदा/तंयान्तमनुयातिस्ममहतीहरिवाहिनी/हृष्टाःप्रमुदिताःसर्वेसुग्रीवेणाभिपालिताः/आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवंगमाः/क्ष्वेलन्तोनिनदन्तश्चजग्मुर्वैदक्षिणांदिशम्/भक्षयन्तःसुगन्धीनिमधूनिचफलानिच/उद्वहन्तोमहावृक्षान्मञ्जरीपुञ्जधारिणः/अन्योन्यंसहसादृष्टानिर्वहन्तिक्षिपन्तिच/पतन्तश्चोत्पतन्त्यन्येपातयन्त्यपरेपरान्/रावणोनोनिहन्तव्यःसर्वेचरजनीचराः/इतिगर्जन्तिहरयोराघवस्यसमीपतः/पुरस्तादृषभोवीरोनीलःकुमुदएवच/पथानंशोधयन्तिस्मवानरैर्बहुभिःसह/मध्येतुराजासुग्रीवोरामोलक्ष्मणएवच/बहुभिर्बलिभिर्भीमैर्वृताःशत्रुनिबर्हणः/हरिःशतबलिर्वीरःकोटीभिर्दशभिर्वृतः/सर्वामेकोह्यवष्टभ्यररक्षहरिवाहिनीम्/कोटीशतपरीवारःकेसरीपनसोगजः/अर्कश्चातिबलःपार्श्वमेकंतस्याभिरक्षति/सुषेणोजाम्बवांश्चैवऋक्षैर्बहुभिरावृतः/सुग्रीवंपुरतःकृत्वाजघनंसंररक्षतुः/तेषांसेनापतिर्वीरोनीलोवानरपुंगवः/संपतन्पततांश्रेष्ठस्तद्बलंपर्यपालयत्/दरीमिखःप्रजङ्घश्चजम्भोऽथरभसःकपिः/सर्वतश्चययुर्वीरास्त्वरयन्तःप्लवंगमान्/एवंतेहरिशार्दूलागच्छन्तोबलदर्पिताः/अपश्यंस्तेगिरिश्रेष्ठंसह्यंद्रुमलतायुतम्/सागरौघनिभंभीमंतद्वानरबलंमहत्/निःससर्पमहाघोषंभीमवेगइवार्णवः/तस्यदाशरथेःपार्श्वेशूरास्तेकपिकुञ्जराः/तूर्णमापुप्लुवुःसर्वेसदश्वाइवचोदिताः/कपिभ्यामुह्यमानौतौशुशुभतेनरर्षभौ/महद्भ्यामिवसंस्पृष्टौग्राहाभ्यांचन्द्रभास्करौ/तमङ्गदगतोरामंलक्ष्मणःशुभयागिरा/उवाचप्रतिपूर्णार्थःस्मृतिमान्प्रतिभानवान्/हृतामवाप्यवैदेहींक्षिप्रंहत्वाचरावणम्/समृद्धार्थःसमृद्धार्थामयोध्यांप्रतियास्यसि/महान्तिचनिमित्तानिदिविभूमौचराघव/शुभान्तितवपश्यामिसर्वाण्येवार्थसिद्धये/अनुवातिशुभोवायुःसेनांमृदुहितःसुखः/पूर्णवल्गुस्वराश्चेमेप्रवदन्तिमृगद्विजाः/प्रसन्नाश्चदिशःसर्वाविमलश्चदिवाकरः/उशनाचप्रसन्नार्चिरनुत्वांभार्गवोगतः/ब्रह्मराशिर्विशुद्धश्चशुद्धाश्चपरमर्षयः/अर्चिष्मन्तःप्रकाशन्तेध्रुवंसर्वेप्रदक्षिणम्/त्रिशङ्कुर्विमलोभातिराजर्षिःसपुरोहितः/पितामहवरोऽस्माकमिष्क्वाकूणांमहात्मनाम्/विमलेचप्रकाशेतेविशाखेनिरुपद्रवे/नक्षत्रंपरमस्माकमिक्ष्वाकूणांमहात्मनाम्/नैरृतंनैरृतानांचनक्षत्रमभिपीड्यते/मूलंमूलवतास्पृष्टंधूप्यतेधूमकेतुना/सरंचैतद्विनाशायराक्षसानामुपस्थितम्/कालेकालगृहीतानांनकत्रंग्रहपीडितम्/प्रसन्नाःसुरसाश्चापोवनानिफलवन्तिच/प्रवान्त्यभ्यधिकंगन्धायथर्तुकुसुमाद्रुमाः/व्यूढानिकपिसैन्यानिप्रकाशन्तेऽधिकंप्रभो/देवानामिवसैन्यानिसंग्रामेतारकामये/एवमार्यसमीक्ष्यैतान्प्रीतोभवितुमर्हसि/इतिभ्रातरमाश्वास्यहृष्टःसौमित्रिरब्रवीत्/अथावृत्यमहींकृत्स्नांजगाममहतीचमूः/ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता/कराग्रैश्चरणाग्रैश्चवानरैरुद्धतंरजः/भौममन्तर्दधेलोकंनिवार्यसवितुःप्रभाम्/सास्मयातिदिवारात्रंमहतीहरिवाहिनी/हृष्टप्रमुदितासेनासुग्रीवेणाभिरक्षिता/वनरास्त्वरितंयान्तिसर्वेयुद्धाभिनन्दनः/मुमोक्षयिषवःसीतांमुहूर्तंक्वापिनासत/ततःपादपसंबाधंनानामृगसमाकुलम्/सह्यपर्वतमासेदुर्मलयंचमहीधरम्/काननानिविचित्राणिनदीप्रस्रवणानिच/पश्यन्नपिययौरामःसह्यस्यमलयस्यच/चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान्/करवीरांश्चतिमिशान्भञ्जन्तिस्मप्लवंगमाः/फलान्यमृतगन्धीनिमूलानिकुसुमानिच/बुभुजुर्वानरास्तत्रपादपानांबलोत्कटाः/द्रोणमात्रप्रमाणानिलम्बमानानिवानराः/ययुःपिबन्तोहृष्टास्तेमधूनिमधुपिङ्गलाः/पादपानवभञ्जन्तोविकर्षन्तस्तथालताः/विधमन्तोगिरिवरान्प्रययुःप्लवगर्षभाः/वृक्षेभ्योऽन्येतुकपयोनर्दन्तोमधुदर्पिताः/अन्येवृक्षान्प्रपद्यन्तेप्रपतन्त्यपिचापरे/बभूववसुधातैस्तुसंपूर्णाहरिपुंगवैः/यथाकमलकेदारैःपक्वैरिववसुंधरा/महेन्द्रमथसंप्राप्यरामोराजीवलोचनः/अध्यारोहन्महाबाहुःशिखरंद्रुमभूषितम्/ततःशिखरमारुह्यरामोदशरथात्मजः/कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम्/तेसह्यंसमतिक्रम्यमलयंचमहागिरिम्/आसेदुरानुपूर्व्येणसमुद्रंभीमनिःस्वनम्/अवरुह्यजगामाशुवेलावनमनुत्तमम्/रामोरमयतांश्रेष्ठःससुग्रीवःसलक्ष्मणः/अथधौतोपलतलांतोयौघैःसहसोत्थितैः/वेलामासाद्यविपुलांरामोवचनमब्रवीत्/एतेवयमनुप्राप्ताःसुग्रीववरुणालयम्/इहेदानींविचिन्तासायानपूर्वंसमुत्थिता/अतःपरमतीरोऽयंसागरःसरितांपति/नचायमनुपायेनशक्यस्तरितुमर्णवः/तदिहैवनिवेशोऽस्तुमन्त्रःप्रस्तूयतामिह/यथेदंवानरबलंपरंपारमवाप्नुयात्/इतीवसमहाबाहुःसीताहरणकर्शितः/रामःसागरमासाद्यवासमाज्ञापयत्तदा/संप्राप्तोमन्त्रकालोनःसागरस्येहलङ्घने/स्वांस्वांसेनांसमुत्सृज्यमाचकश्चित्कुतोव्रजेत्/गच्छन्तुवानराःशूराज्ञेयंछन्नंभयंचनः/रामस्यवचनंश्रुत्वासुग्रीवःसहलक्ष्मणः/सेनांन्यवेशयत्तीरेसागरस्यद्रुमायुते/विरराजसमीपस्थंसागरस्यतुतद्बलम्/मधुपाण्डुजलःश्रीमान्द्वितीयइवसागरः/वेलावनमुपागम्यततस्तेहरिपुंगवाः/विनिविष्टाःपरंपारंकाङ्क्षमाणामहोदधेः/सामहार्णवमासाद्यहृष्टावानरवाहिनी/वायुवेगसमाधूतंपश्यमानामहार्णवम्/दूरपारमसंबाधंरक्षोगणनिषेवितम्/पश्यन्तोवरुणावासंनिषेदुर्हरियूथपाः/चण्डनक्रग्रहंघोरंक्षपादौदिवसक्षये/चन्द्रोदयेसमाधूतंप्रतिचन्द्रसमाकुलम्/चण्डानिलमहाग्राहैःकीर्णंतिमितिमिंगिलैः/दीप्तभोगैरिवाक्रीर्णंभुजंगैर्वरुणालयम्/अवगाढंमहासत्तैर्नानाशैलसमाकुलम्/दुर्गंद्रुगममार्गंतमगाधमसुरालयम्/मकरैर्नागभोगैश्चविगाढावातलोहिताः/उत्पेतुश्चनिपेतुश्चप्रवृद्धाजलराशयः/अग्निचूर्णमिवाविद्धंभास्कराम्बुमनोरगम्/सुरारिविषयंघोरंपातालविषमंसदा/सागरंचाम्बरप्रख्यमम्बरंसागरोपमम्/सागरंचाम्बरंचेतिनिर्विशेषमदृश्यत64115/संपृक्तंनभसाह्यम्भःसंपृक्तंचनभोऽम्भसा/तादृग्रूपेस्मदृश्येतेतारारत्नसमाकुले/समुत्पतितमेघस्यवीच्चिमालाकुलस्यच/विशेषोनद्वयोरासीत्सागरस्याम्बरस्यच/अन्योन्यैराहताःसक्ताःसस्वनुर्भीमनिःस्वनाः/ऊर्मयःसिन्धुराजस्यमहाभेर्यइवाहवे/रत्नौघजलसंनादंविषक्तमिववायुना/उत्पतन्तमिवक्रुद्धंयादोगणसमाकुलम्/ददृशुस्तेमहात्मानोवाताहतजलाशयम्/अनिलोद्धूतमाकाशेप्रवल्गतमिवोर्मिभिः/भ्रान्तोर्मिजलसंनादंप्रलोलमिवसागरम्64121/सातुनीलेनविधिवत्स्वारक्षासुसमाहिता/सागरस्योत्तरेतीरेसाधुसेनानिवेशिता651/मैन्दश्चद्विविधश्चोभौतत्रवानरपुंगवौ/विचेरतुश्चतांसेनांरक्षार्थंसर्वतोदिशम्/निविष्टायांतुसेनायांतीरेनदनदीपतेः/पार्श्वस्थंलक्ष्मणंदृष्ट्वारामोवचनमब्रवीत्/शोकश्चकिलकालेनगच्छताह्यपगच्छति/ममचापश्यतःकान्तामहन्यहनिवर्धते/नमेदुःखंप्रियादूरेनमेदुःखंहृतेतिच/एतदेवानुशोचामिवयोऽस्याह्यतिवर्तते/वाहिवातयतःकन्यातांस्पृष्ट्वामामपिस्पृश/त्वयिमेगात्रसंस्पर्शश्चन्द्रेदृष्टिसमागमः/तन्मेदहतिगात्राणिविषंपीतमिवाशये/हानाथेतिप्रियासामांह्रियमाणायदब्रवीत्/तद्वियोगेन्धनवतातच्चिन्ताविपुलार्चिषा/रात्रिंदिवंशरीरंमेदह्यतेमदनाग्निना/अवगाह्यार्णवंस्वप्स्येसौमित्रेभवताविना/कथंचित्प्रज्वलन्कामःसमासुप्तंजलेदहेत्/बह्वेतत्कामयानस्यशक्यमेतेनजीवितुम्/यदहंसाचवामोरुरेकांधरणिमाश्रितौ/केदारस्येवकेदारःसोदकस्यनिरूदकः/उपस्नेहेनजीवामिजीवन्तींयच्छृणोमिताम्/कदातुखलुसुस्शोणींशतपत्रायतेक्षणाम्/विजित्यशत्रून्द्रक्ष्यामिसीतांस्फीतामिवश्रियम्/कदानुचारुबिम्बौष्ठंतस्याःपद्ममिवाननम्/ईषदुन्नम्यपास्यामिरसायनमिवातुरः/तौतस्याःसंहतौपीनौस्तनौतालफलोपमौ/कदानुखलुसोत्कम्पौहसन्त्यामांभजिष्यतः/सानूनमसितापाङ्गीरक्षोमध्यगतासती/मन्नाथानाथहीनेवत्रातारंनाधिगच्छति/कदाविक्षोभ्यरक्षांसिसाविधूयोत्पतिष्यति/विधूयजलदान्नीलाञ्शशिलेखाशरत्स्विव/स्वभावतनुकानूनंशोकेनानशनेनच/भूयस्तनुतरासीतादेशकालविपर्ययात्/कदानुराक्षसेन्द्रस्यनिधायोरसिसायकान्/सीतांप्रत्याहरिष्यामिशोकमुत्सृज्यमानसं/कदानुखलुमांसाध्वीसीतामरसुतोपमा/सोत्कण्ठाकण्ठमालम्ब्यमोक्ष्यत्यानन्दजंजलम्/कदाशोकमिमंघोरंमैथिलीविप्रयोगजम्/सहसाविप्रमोक्ष्यामिवासःशुक्लेतरंयथा/एवंविलपतस्तस्यतत्ररामस्यधीमतः/दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत्/आश्वासितोलक्ष्मणेनरामःसंध्यामुपासत/स्मरन्कमलपत्राक्षींसीतांशोकाकुलीकृतः6523/लङ्कायांतुकृतंकर्मघोरंदृष्ट्वाभवावहम्/राक्षसेन्द्रोहनुमताशक्रेणेवमहात्मना661/अब्रवीद्राक्षसान्सर्वान्ह्रियाकिंचिदवाङ्मुखः/धर्षिताचप्रविष्टाचलङ्कादुष्प्रसहापुरी/तेनवानरमात्रेणदृष्टासीताचजानकी/प्रसादोधर्षितश्चैत्यःप्रवराराक्षसाहताः/आविलाचपुरीलङ्कासर्वाहनुमताकृता/किंकरिष्यामिभद्रंवःकिंवायुक्तमनन्तरम्/उच्यतांनःसमर्थंयत्कृतंचसुकृतंभवेत्/मन्त्रमूलंहिविजयंप्राहुरार्यामनस्विनः/तस्माद्वैरोचयेमन्त्रंरामंप्रतिमहाबलाः/त्रिविधाःपुरुषालोकेउत्तमाधममध्यमाः/तेषांतुसमवेतानांगुणदोषंवदाम्यहम्/मन्त्रिभिर्हितसंयुक्तैःसमर्थैर्मन्त्रनिर्णये/मित्रैर्वापिसमानार्थैर्बान्धवैरपिवाहितैः/सहितोमन्त्रयित्वायःकर्मारम्भान्प्रवर्तयेत्/दैवेचकुरुतेयत्नंतमाहुःपुरुषोत्तमम्/एकोऽर्थंविमृशेदेकोधर्मेप्रकुरुतेमनः/एकःकार्याणिकुरुतेतमाहुर्मध्यमंनरम्/गुणदोषावनिश्चित्यत्यक्त्वादैवव्यपाश्रयम्/करिष्यामीतियःकार्यमुपेक्षेत्सनराधमः/यथेमेपुरुषानित्यमुत्तमाधममध्यमाः/एवंमन्त्रोऽपिविज्ञेयउत्तमाधममध्यमः/ऐकमत्यमुपागम्यशास्त्रदृष्टेनचक्षुषा/मन्त्रिणोयत्रनिरस्तास्तमाहुर्मन्त्रमुत्तमम्/बह्व्योऽपिमतयोगत्वामन्त्रिणोह्यर्थनिर्णये/पुनर्यत्रैकतांप्राप्तःसमन्त्रोमध्यमःस्मृतः/अन्योन्यमतिमास्थाययत्रसंप्रतिभाष्यते/नचैकमत्येश्रेयोऽस्तिमन्त्रःसोऽधमउच्यते/तस्मात्सुमन्त्रितंसाधुभवन्तोमन्त्रिसत्तमाः/कार्यंसंप्रतिपद्यन्तामेतत्कृत्यतमंमम/वानराणांहिवीराणांसहस्रैःपरिवारितः/रामोऽभ्येतिपुरींलङ्कामस्माकमुपरोधकः/तरिष्यतिचसुव्यक्तंराघवःसागरंसुखम्/तरसायुक्तरूपेणसानुजःसबलानुगः/अस्मिन्नेवंगतेकार्येविरुद्धेवानरैःसह/हितंपुरेचसैन्येचसर्वंसंमन्त्र्यतांमम6618/इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः/ऊचुःप्राञ्जलयःसर्वेरावणंराक्षसेश्वरम्671/राजन्परिघशक्त्यृष्टिशूलपट्टससंकुलम्/सुमहन्नोबलंकस्माद्विषादंभजतेभवान्/कैलासशिखरावासीयक्षैर्बहुभिरावृतः/सुमहत्कदनंकृत्वावश्यस्तेधनदःकृतः/समहेश्वरसख्येनश्लाघमानस्त्वयाविभो/निर्जितःसमरेरोषाल्लोकपालोमहाबलः/विनिहत्यचयक्षौघान्विक्षोभ्यचविगृह्यच/त्वयाकैलासशिखराद्विमानमिदमाहृतम्/मयेनदानवेन्द्रेणत्वद्भयात्सख्यमिच्छता/दुहितातवभार्यार्थेदत्ताराक्षसपुंगव/दानवेन्द्रोमधुर्नामवीर्योत्सिक्तोदुरासदः/विगृह्यवशमानीतःकुम्भीनस्याःसुखावहः/निर्जितास्तेमहाबाहोनागागत्वारसातलम्/वासुकिस्तक्षकःशङ्खोजटीचवशमाहृताः/अक्षयाबलवन्तश्चशूरालब्धवराःपुनः/त्वयासंवत्सरंयुद्ध्वासमरेदानवाविभो/स्वबलंसमुपाश्रित्यनीतावशमरिंदम/मायाश्चाधिगतास्तत्रबहवोराक्षसाधिप/शूराश्चबलवन्तश्चवरुणस्यसुतारणे/निर्जितास्तेमहाबाहोचतुर्विधबलानुगाः/मृत्युदण्डमहाग्राहंशाल्मलिद्वीपमण्डितम्/अवगाह्यत्वयाराजन्यमस्यबलसागरम्/जयश्चविप्लुलःप्राप्तोमृत्युश्चप्रतिषेधितः/सुयुद्धेनचतेसर्वेलोकास्तत्रसुतोषिताः/क्षत्रियैर्बहुभिर्वीरैःशक्रतुल्यपराक्रमैः/आसीद्वसुमतीपूर्णामहद्भिरिवपादपैः/तेषांवीर्यगुणोत्साहैर्नसमोराघवोरणे/प्रसह्यतेत्वयाराजन्हताःपरमदुर्जयाः/राजन्नापदयुक्तेयमागताप्राकृताज्जनात्/हृदिनैवत्वयाकार्यात्वंवधिष्यसिराघवम्6725/ततोनीलाम्बुदनिभःप्रहस्तोनामराक्षसः681/अब्रवीत्प्राञ्जलिर्वाक्यंशूरःसेनापतिस्तदा/देवदानवगन्धर्वाःपिशाचपतगोरगाः/नत्वांधर्षयितुंशक्ताःकिंपुनर्वानरारणे/सर्वेप्रमत्ताविश्वस्तावञ्चिताःस्महनूमता/नहिमेजीवतोगच्छेज्जीवन्सवनगोचरः/सर्वांसागरपर्यन्तांसशैलवनकाननाम्/करोम्यवानरांभूमिमाज्ञापयतुमांभवान्/रक्षांचैवविधास्यामिवानराद्रजनीचर/नागमिष्यतितेदुःखंकिंचिदात्मापराधजम्/अब्रवीच्चसुसंक्रुद्धोदुर्मुखोनामराक्षसः/इदंनक्षमणीयंहिसर्वेषांनःप्रधर्षणम्/अयंपरिभवोभूयःपुरस्यान्तःपुरस्यच/श्रीमतोराक्षसेन्द्रस्यवानरेन्द्रप्रधर्षणम्/अस्मिन्मुहूर्तेहत्वैकोनिवर्तिष्यामिवानरान्/प्रविष्टान्सागरंभीममम्बरंवारसातलम्/ततोऽब्रवीत्सुसंक्रुद्धोवज्रदंष्ट्रोमहाबलः/प्रगृह्यपरिघंघोरंमांसशोणितरूपितम्/किंवोहनुमताकार्यंकृपणेनतपस्विना/रामेतिष्ठतिदुर्धर्षेसुग्रीवेसहलक्ष्मणे/अद्यरामंससुग्रीवंपरिघेणसलक्ष्मणम्/आगमिष्यामिहत्वैकोविक्षोभ्यहरिवाहिनीम्/कौम्भकर्णिस्ततोवीरोनिकुम्भोनामवीर्यवान्/अब्रवीत्परमकुर्द्धोरावणंलोकरावणम्/सर्वेभवन्तस्तिष्ठन्तुमहाराजेनसंगताः/अहमेकोहनिष्यामिराघवंसहलक्ष्मणम्/ततोवज्रहनुर्नामराक्षसःपर्वतोपमः/क्रुद्धःपरिलिहन्वक्त्रंजिह्वयावाक्यमब्रवीत्/स्वैरंकुर्वन्तुकार्याणिभवन्तोविगतज्वराः/एकोऽहंभक्षयिष्यामितान्सर्वान्हरियूथपान्/स्वस्थाःक्रीडन्तुनिश्चिन्ताःपिबन्तुमधुवारुणीम्/अहमेकोहनिष्यामिसुग्रीवंसहलक्ष्मणम्/साङ्गदंचहनूमन्तंरामंचरणकुञ्जरम्6824/ततोनिकुम्भोरभसःसूर्यशत्रुर्महाबलः/सुप्तघ्नोयज्ञकोपश्चमहापार्श्वोमहोअरः691/अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः/इन्द्रजिच्चमहातेजाबलवान्रावणात्मजः/प्रहस्तोऽथविरूपाक्षोवज्रदंष्ट्रोमहाबलः/धूम्राक्षश्चातिकायश्चदुर्मुखश्चैवराक्षसः/परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान्/चापानिचसबाणानिखड्गांश्चविपुलाञ्शितान्/प्रगृह्यपरमक्रुद्धाःसमुत्पत्यचराक्षसाः/अब्रुवन्रावणंसर्वेप्रदीप्ताइवतेजसा/अद्यरामंवधिष्यामःसुग्रीवंचसलक्ष्मणम्/कृपणंचहनूमन्तंलङ्कायेनप्रधर्षिता/तान्गृहीतायुधान्सर्वान्वारयित्वाविभीषणः/अब्रवीत्प्राञ्जलिर्वाक्यंपुनःप्रत्युपवेश्यतान्/अप्युपायैस्त्रिभिस्तातयोऽर्थःप्राप्तुंनशक्यते/तस्यविक्रमकालांस्तान्युक्तानाहुर्मनीषिणः/प्रमत्तेष्वभियुक्तेषुदैवेनप्रहतेषुच/विक्रमास्तातसिध्यन्तिपरीक्ष्यविधिनाकृताः/अप्रमत्तंकथंतंतुविजिगीषुंबलेस्थितम्/जितरोषंदुराधर्षंप्रधर्षयितुमिच्छथ/समुद्रंलङ्घयित्वातुघोरंनदनदीपतिम्/कृतंहनुमताकर्मदुष्करंतर्कयेतकः/बलान्यपरिमेयानिवीर्याणिचनिशाचराः/परेषांसहसावज्ञानकर्तव्याकथंचन/किंचराक्षसराजस्यरामेणापकृतंपुरा/आजहारजनस्थानाद्यस्यभार्यांयशस्विनः/खरोयद्यतिवृत्तस्तुरामेणनिहतोरणे/अवश्यंप्राणिनांप्राणारक्षितव्यायथाबलम्/एतन्निमित्तंवैदेहीभयंनःसुमहद्भवेत्/आहृतासापरित्याज्याकलहार्थेकृतेनकिम्/ननःक्षमंवीर्यवतातेनधर्मानुवर्तिना/वैरंनिरर्थकंकर्तुंदीयतामस्यमैथिली/यावन्नसगजांसाश्वांबहुरत्नसमाकुलाम्/पुरींदारयतेबाणैर्दीयतामस्यमैथिली/यावत्सुघोरामहतीदुर्धर्षाहरिवाहिनी/नावस्कन्दतिनोलङ्कांतावत्सीताप्रदीयताम्/विनश्येद्धिपुरीलङ्काशूराःसर्वेचराक्षसाः/रामस्यदयितापत्नीनस्वयंयदिदीयते/प्रसादयेत्वांबन्धुत्वात्कुरुष्ववचनंमम/हितंपथ्यंत्वहंब्रूमिदीयतामस्यमैथिली/पुराशरत्सूर्यमरीचिसंनिभान्॑नवाग्रपुङ्खान्सुदृढान्नृपात्मजः/सृजत्यमोघान्विशिखान्वधायते॑प्रदीयतांदाशरथायमैथिली/त्यजस्वकोपंसुखधर्मनाशनं॑भजस्वधर्मंरतिकीर्तिवर्धनम्/प्रसीदजीवेमसपुत्रबान्धवाः॑प्रदीयतांदाशरथायमैथिली6922/सुनिविष्टंहितंवाक्यमुक्तवन्तंविभीषणम्/अब्रवीत्परुषंवाक्यंरावणःकालचोदितः6161/वसेत्सहसपत्नेनक्रुद्धेनाशीविषेणवा/नतुमित्रप्रवादेनसंवसेच्छत्रुसेविना/जानामिशीलंज्ञातीनांसर्वलोकेषुराक्षस/हृष्यन्तिव्यसनेष्वेतेज्ञातीनांज्ञातयःसदा/प्रधानंसाधकंवैद्यंधर्मशीलंचराक्षस/ज्ञातयोह्यवमन्यन्तेशूरंपरिभवन्तिच/नित्यमन्योन्यसंहृष्टाव्यसनेष्वाततायिनः/प्रच्छन्नहृदयाघोराज्ञातयस्तुभयावहाः/श्रूयन्तेहस्तिभिर्गीताःश्लोकाःपद्मवनेक्वचित्/पाशहस्तान्नरान्दृष्ट्वाशृणुतान्गदतोमम/नाग्निर्नान्यानिशस्त्राणिननःपाशाभयावहाः/घोराःस्वार्थप्रयुक्तास्तुज्ञातयोनोभयावहाः/उपायमेतेवक्ष्यन्तिग्रहणेनात्रसंशयः/कृत्स्नाद्भयाज्ज्ञातिभयंसुकष्टंविदितंचनः/विद्यतेगोषुसंपन्नंविद्यतेब्राह्मणेदमः/विद्यतेस्त्रीषुचापल्यंविद्यतेज्ञातितोभयम्/ततोनेष्टमिदंसौम्ययदहंलोकसत्कृतः/ऐश्वर्यमभिजातश्चरिपूणांमूर्ध्निचस्थितः/अन्यस्त्वेवंविधंब्रूयाद्वाक्यमेतन्निशाचर/अस्मिन्मुहूर्तेनभवेत्त्वांतुधिक्कुलपांसनम्/इत्युक्तःपरुषंवाक्यंन्यायवादीविभीषणः/उत्पपातगदापाणिश्चतुर्भिःसहराक्षसैः/अब्रवीच्चतदावाक्यंजातक्रोधोविभीषणः/अन्तरिक्षगतःश्रीमान्भ्रातरंराक्षसाधिपम्/सत्वंभ्रातासिमेराजन्ब्रूहिमांयद्यदिच्छसि/इदंतुपरुषंवाक्यंनक्षमाम्यनृतंतव/सुनीतंहितकामेनवाक्यमुक्तंदशानन/नगृह्णन्त्यकृतात्मानःकालस्यवशमागताः/सुलभाःपुरुषाराजन्सततंप्रियवादिनः/अप्रियस्यतुपथ्यस्यवक्ताश्रोताचदुर्लभः/बद्धंकालस्यपाशेनसर्वभूतापहारिणा/ननश्यन्तमुपेक्षेयंप्रदीप्तंशरणंयथा/दीप्तपावकसंकाशैःशितैःकाञ्चनभूषणैः/नत्वामिच्छाम्यहंद्रष्टुंरामेणनिहतंशरैः/शूराश्चबलवन्तश्चकृतास्त्राश्चरणाजिरे/कालाभिपन्नासीदन्तियथावालुकसेतवः/आत्मानंसर्वथारक्षपुरींचेमांसराक्षसाम्/स्वस्तितेऽस्तुगमिष्यामिसुखीभवमयाविना/निवार्यमाणस्यमयाहितैषिणा॑नरोचतेतेवचनंनिशाचर/परीतकालाहिगतायुषोनरा॑हितंनगृह्णन्तिसुहृद्भिरीरितम्61626/इत्युक्त्वापरुषंवाक्यंरावणंरावणानुजः/आजगाममुहूर्तेनयत्ररामःसलक्ष्मणः6171/तंमेरुशिखराकारंदीप्तामिवशतह्रदाम्/गगनस्थंमहीस्थास्तेददृशुर्वानराधिपाः/तमात्मपञ्चमंदृष्ट्वासुग्रीवोवानराधिपः/वानरैःसहदुर्धर्षश्चिन्तयामासबुद्धिमान्/चिन्तयित्वामुहूर्तंतुवानरांस्तानुवाचह/हनूमत्प्रमुखान्सर्वानिदंवचनमुत्तमम्/एषसर्वायुधोपेतश्चतुर्भिःसहराक्षसैः/राक्षसोऽभ्येतिपश्यध्वमस्मान्हन्तुंनसंशयः/सुग्रीवस्यवचःश्रुत्वासर्वेतेवानरोत्तमाः/सालानुद्यम्यशैलांश्चइदंवचनमब्रुवन्/शीघ्रंव्यादिशनोराजन्वधायैषांदुरात्मनाम्/निपतन्तुहताश्चैतेधरण्यामल्पजीविताः/तेषांसंभाषमाणानामन्योन्यंसविभीषणः/उत्तरंतीरमासाद्यखस्थएवव्यतिष्ठत/उवाचचमहाप्राज्ञःस्वरेणमहतामहान्/सुग्रीवंतांश्चसंप्रेक्ष्यखस्थएवविभीषणः/रावणोनामदुर्वृत्तोराक्षसोराक्षसेश्वरः/तस्याहमनुजोभ्राताविभीषणइतिश्रुतः/तेनसीताजनस्थानाद्धृताहत्वाजटायुषम्/रुद्ध्वाचविवशादीनाराक्षसीभिःसुरक्षिता/तमहंहेतुभिर्वाक्यैर्विविधैश्चन्यदर्शयम्/साधुनिर्यात्यतांसीतारामायेतिपुनःपुनः/सचनप्रतिजग्राहरावणःकालचोदितः/उच्यमानोहितंवाक्यंविपरीतइवौषधम्/सोऽहंपरुषितस्तेनदासवच्चावमानितः/त्यक्त्वापुत्रांश्चदारांश्चराघवंशरणंगतः/सर्वलोकशरण्यायराघवायमहात्मने/निवेदयतमांक्षिप्रंविभीषणमुपस्थितम्/एतत्तुवचनंश्रुत्वासुग्रीवोलघुविक्रमः/लक्ष्मणस्याग्रतोरामंसंरब्धमिदमब्रवीत्/रावणस्यानुजोभ्राताविभीषणइतिश्रुतः/चतुर्भिःसहरक्षोभिर्भवन्तंशरणंगतः/रावणेनप्रणिहितंतमवेहिविभीषणम्/तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर/राक्षसोजिह्मयाबुद्ध्यासंदिष्टोऽयमुपस्थितः/प्रहर्तुंमाययाछन्नोविश्वस्तेत्वयिराघव/बध्यतामेषतीव्रेणदण्डेनसचिवैःसह/रावणस्यनृशंसस्यभ्राताह्येषविभीषणः/एवमुक्त्वातुतंरामंसंरब्धोवाहिनीपतिः/वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत्/सुग्रीवस्यतुतद्वाक्यंश्रुत्वारामोमहाबलः/समीपस्थानुवाचेदंहनूमत्प्रमुखान्हरीन्/यदुक्तंकपिराजेनरावणावरजंप्रति/वाक्यंहेतुमदत्यर्थंभवद्भिरपितच्छ्रुतम्/सुहृदाह्यर्थकृच्छेषुयुक्तंबुद्धिमतासता/समर्थेनापिसंदेष्टुंशाश्वतींभूतिमिच्छता/इत्येवंपरिपृष्टास्तेस्वंस्वंमतमतन्द्रिताः/सोपचारंतदाराममूचुर्हितचिकीर्षवः/अज्ञातंनास्तितेकिंचित्त्रिषुलोकेषुराघव/आत्मानंपूजयन्रामपृच्छस्यस्मान्सुहृत्तया/त्वंहिसत्यव्रतःशूरोधार्मिकोदृढविक्रमः/परीक्ष्यकारास्मृतिमान्निसृष्टात्मासुहृत्सुच/तस्मादेकैकशस्तावद्ब्रुवन्तुसचिवास्तव/हेतुतोमतिसंपन्नाःसमर्थाश्चपुनःपुनः/इत्युक्तेराघवायाथमतिमानङ्गदोऽग्रतः/विभीषणपरीक्षार्थमुवाचवचनंहरिः/शत्रोःसकाशात्संप्राप्तःसर्वथाशङ्क्यएवहि/विश्वासयोग्यःसहसानकर्तव्योविभीषणः/छादयित्वात्मभावंहिचरन्तिशठबुद्धयः/प्रहरन्तिचरन्ध्रेषुसोऽनर्थःसुमहान्भवेत्/अर्थानर्थौविनिश्चित्यव्यवसायंभजेतह/गुणतःसंग्रहंकुर्याद्दोषतस्तुविसर्जयेत्/यदिदोषोमहांस्तस्मिंस्त्यज्यतामविशङ्कितम्/गुणान्वापिबहूञ्ज्ञात्वासंग्रहःक्रियतांनृप/शरभस्त्वथनिश्चित्यसार्थंवचनमब्रवीत्/क्षिप्रमस्मिन्नरव्याघ्रचारःप्रतिविधीयताम्/प्रणिधायहिचारेणयथावत्सूक्ष्मबुद्धिना/परीक्ष्यचततःकार्योयथान्यायंपरिग्रहः/जाम्बवांस्त्वथसंप्रेक्ष्यशास्त्रबुद्ध्याविचक्षणः/वाक्यंविज्ञापयामासगुणवद्दोषवर्जितम्/बद्धवैराच्चपापाच्चराक्षसेन्द्राद्विभीषणः/अदेशकालेसंप्राप्तःसर्वथाशङ्क्यतामयम्/ततोमैन्दस्तुसंप्रेक्ष्यनयापनयकोविदः/वाक्यंवचनसंपन्नोबभाषेहेतुमत्तरम्/वचनंनामतस्यैषरावणस्यविभीषणः/पृच्छ्यतांमधुरेणायंशनैर्नरवरेश्वर/भावमस्यतुविज्ञायततस्तत्त्वंकरिष्यसि/यदिदृष्टोनदुष्टोवाबुद्धिपूर्वंनरर्षभ/अथसंस्कारसंपन्नोहनूमान्सचिवोत्तमः/उवाचवचनंश्लक्ष्णमर्थवन्मधुरंलघु/नभवन्तंमतिश्रेष्ठंसमर्थंवदतांवरम्/अतिशाययितुंशक्तोबृहस्पतिरपिब्रुवन्/नवादान्नापिसंघर्षान्नाधिक्यान्नचकामतः/वक्ष्यामिवचनंराजन्यथार्थंरामगौरवात्/अर्थानर्थनिमित्तंहियदुक्तंसचिवैस्तव/तत्रदोषंप्रपश्यामिक्रियानह्युपपद्यते/ऋतेनियोगात्सामर्थ्यमवबोद्धुंनशक्यते/सहसाविनियोगोहिदोषवान्प्रतिभातिमे/चारप्रणिहितंयुक्तंयदुक्तंसचिवैस्तव/अर्थस्यासंभवात्तत्रकारणंनोपपद्यते/अदेशकालेसंप्राप्तइत्ययंयद्विभीषणः/विवक्षाचात्रमेऽस्तीयंतांनिबोधयथामति/सएषदेशःकालश्चभवतीहयथातथा/पुरुषात्पुरुषंप्राप्यतथादोषगुणावपि/दौरात्म्यंरावणेदृष्ट्वाविक्रमंचतथात्वयि/युक्तमागमनंतस्यसदृशंतस्यबुद्धितः/अज्ञातरूपैःपुरुषैःसराजन्पृच्छ्यतामिति/यदुक्तमत्रमेप्रेक्षाकाचिदस्तिसमीक्षिता/पृच्छ्यमानोविशङ्केतसहसाबुद्धिमान्वचः/तत्रमित्रंप्रदुष्येतमिथ्यपृष्टंसुखागतम्/अशक्यःसहसाराजन्भावोवेत्तुंपरस्यवै/अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यंपश्यताभृशम्/नत्वस्यब्रुवतोजातुलक्ष्यतेदुष्टभावता/प्रसन्नंवदनंचापितस्मान्मेनास्तिसंशयः/अशङ्कितमतिःस्वस्थोनशठःपरिसर्पति/नचास्यदुष्टावाक्चापितस्मान्नास्तीहसंशयः/आकारश्छाद्यमानोऽपिनशक्योविनिगूहितुम्/बलाद्धिविवृणोत्येवभावमन्तर्गतंनृणाम्/देशकालोपपन्नंचकार्यंकार्यविदांवर/सफलंकुरुतेक्षिप्रंप्रयोगेणाभिसंहितम्/उद्योगंतवसंप्रेक्ष्यमिथ्यावृत्तंचरावणम्/वालिनश्चवधंश्रुत्वासुग्रीवंचाभिषेचितम्/राज्यंप्रार्थयमानश्चबुद्धिपूर्वमिहागतः/एतावत्तुपुरस्कृत्ययुज्यतेत्वस्यसंग्रहः/यथाशक्तिमयोक्तंतुराक्षसस्यार्जवंप्रति/त्वंप्रमाणंतुशेषस्यश्रुत्वाबुद्धिमतांवर61768/अथरामःप्रसन्नात्माश्रुत्वावायुसुतस्यह/प्रत्यभाषतदुर्धर्षःश्रुतवानात्मनिस्थितम्6181/ममापितुविवक्षास्तिकाचित्प्रतिविभीषणम्/श्रुतमिच्छामितत्सर्वंभवद्भिःश्रेयसिस्थितैः/मित्रभावेनसंप्राप्तंनत्यजेयंकथंचन/दोषोयद्यपितस्यस्यात्सतामेतदगर्हितम्/रामस्यवचनंश्रुत्वासुग्रीवःप्लवगेश्वरः/प्रत्यभाषतकाकुत्स्थंसौहार्देनाभिचोदितः/किमत्रचित्रंधर्मज्ञलोकनाथशिखामणे/यत्त्वमार्यंप्रभाषेथाःसत्त्ववान्सपथेस्थितः/ममचाप्यन्तरात्मायंशुद्धिंवेत्तिविभीषणम्/अनुमनाच्चभावाच्चसर्वतःसुपरीक्षितः/तस्मात्क्षिप्रंसहास्माभिस्तुल्योभवतुराघव/विभीषणोमहाप्राज्ञःसखित्वंचाभ्युपैतुनः/ससुग्रीवस्यतद्वाक्यय्ंरामःश्रुत्वाविमृश्यच/ततःशुभतरंवाक्यमुवाचहरिपुंगवम्/सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः/सूक्ष्ममप्यहितंकर्तुंममाशक्तःकथंचन/पिशाचान्दानवान्यक्षान्पृथिव्यांचैवराक्षसान्/अङ्गुल्यग्रेणतान्हन्यामिच्छन्हरिगणेश्वर/श्रूयतेहिकपोतेनशत्रुःशरणमागतः/अर्चितश्चयथान्यायंस्वैश्चमांसैर्निमन्त्रितः/सहितंप्रतिजग्राहभार्याहर्तारमागतम्/कपोतोवानरश्रेष्ठकिंपुनर्मद्विधोजनः/ऋषेःकण्वस्यपुत्रेणकण्डुनापरमर्षिणा/शृणुगाथांपुरागीतांधर्मिष्ठांसत्यवादिना/बद्धाञ्जलिपुटंदीनंयाचन्तंशरणागतम्/नहन्यादानृशंस्यार्थमपिशत्रुंपरंपत/आर्तोवायदिवादृप्तःपरेषांशरणंगतः/अरिःप्राणान्परित्यज्यरक्षितव्यःकृतात्मना/सचेद्भयाद्वामोहाद्वाकामाद्वापिनरक्षति/स्वयाशक्त्यायथातत्त्वंतत्पापंलोकगर्हितम्/विनष्टःपश्यतस्तस्यरक्षिणःशरणागतः/आदायसुकृतंतस्यसर्वंगच्छेदरक्षितः/एवंदोषोमहानत्रप्रपन्नानामरक्षणे/अस्वर्ग्यंचायशस्यंचबलवीर्यविनाशनम्/करिष्यामियथार्थंतुकण्डोर्वचनमुत्तमम्/धर्मिष्ठंचयशस्यंचस्वर्ग्यंस्यात्तुफलोदये/सकृदेवप्रपन्नायतवास्मीतिचयाचते/अभयंसर्वभूतेभ्योददाम्येतद्व्रतंमम/आनयैनंहरिश्रेष्ठदत्तमस्याभयंमया/विभीषणोवासुग्रीवयदिवारावणःस्वयम्/ततस्तुसुग्रीववचोनिशम्यतद्॑धरीश्वरेणाभिहितंनरेश्वरः/विभीषणेनाशुजगामसंगमं॑पतत्रिराजेनयथापुरंदरः62039/राघवेणाभयेदत्तेसंनतोरावणानुजः/खात्पपातावनिंहृष्टोभक्तैरनुचरैःसह6211/सतुरामस्यधर्मात्मानिपपातविभीषणः/पादयोःशरणान्वेषीचतुर्भिःसहराक्षसैः/अब्रवीच्चतदारामंवाक्यंतत्रविभीषणः/धर्मयुक्तंचयुक्तंचसाम्प्रतंसंप्रहर्षणम्/अनुजोरावणस्याहंतेनचास्म्यवमानितः/भवन्तंसर्वभूतानांशरण्यंशरणंगतः/परित्यक्तामयालङ्कामित्राणिचधनानिच/भवद्गतंमेराज्यंचजीवितंचसुखानिच/राक्षसानांवधेसाह्यंलङ्कायाश्चप्रधर्षणे/करिष्यामियथाप्राणंप्रवेक्ष्यामिचवाहिनीम्/इतिब्रुवाणंरामस्तुपरिष्वज्यविभीषणम्/अब्रवील्लक्ष्मणंप्रीतःसमुद्राज्जलमानय/तेनचेमंमहाप्राज्ञमभिषिञ्चविभीषणम्/राजानंरक्षसांक्षिप्रंप्रसन्नेमयिमानद/एवमुक्तस्तुसौमित्रिरभ्यषिञ्चद्विभीषणम्/मध्येवानरमुख्यानांराजानंरामशासनात्/तंप्रसादंतुरामस्यदृष्ट्वासद्यःप्लवंगमाः/प्रचुक्रुशुर्महानादान्साधुसाध्वितिचाब्रुवन्/अब्रवीच्चहनूमांश्चसुग्रीवश्चविभीषणम्/कथंसागरमक्षोभ्यंतरामवरुणालयम्/उपायैरभिगच्छामोयथानदनदीपतिम्/तरामतरसासर्वेससैन्यावरुणालयम्/एवमुक्तस्तुधर्मज्ञःप्रत्युवाचविभीषणः/समुद्रंराघवोराजाशरणंगन्तुमर्हति/खानितःसगरेणायमप्रमेयोमहोदधिः/कर्तुमर्हतिरामस्यज्ञातेःकार्यंमहोदधिः/एवंविभीषणेनोक्तेराक्षसेनविपश्चिता/प्रकृत्याधर्मशीलस्यराघवस्याप्यरोचत/सलक्ष्मणंमहातेजाःसुग्रीवंचहरीश्वरम्/सत्क्रियार्थंक्रियादक्षःस्मितपूर्वमुवाचह/विभीषणस्यमन्त्रोऽयंममलक्ष्मणरोचते/ब्रूहित्वंसहसुग्रीवस्तवापियदिरोचते/सुग्रीवःपण्डितोनित्यंभवान्मन्त्रविचक्षणः/उभाभ्यांसंप्रधार्यार्यंरोचतेयत्तदुच्यताम्/एवमुक्तौतुतौवीरावुभौसुग्रीवलक्ष्मणौ/समुदाचारसंयुक्तमिदंवचनमूचतुः/किमर्थंनोनरव्याघ्रनरोचिष्यतिराघव/विभीषणेनयत्तूक्तमस्मिन्कालेसुखावहम्/अबद्ध्वासागरेसेतुंघोरेऽस्मिन्वरुणालये/लङ्कानासादितुंशक्यासेन्द्रैरपिसुरासुरैः/विभीषणस्यशूरस्ययथार्थंक्रियतांवचः/अलंकालात्ययंकृत्वासमुद्रोऽयंनियुज्यताम्/एवमुक्तःकुशास्तीर्णेतीरेनदनदीपतेः/संविवेशतदारामोवेद्यामिवहुताशनः61941/तस्यरामस्यसुप्तस्यकुशास्तीर्णेमहीतले/नियमादप्रमत्तस्यनिशास्तिस्रोऽतिचक्रमुः62110/नचदर्शयतेमन्दस्तदारामस्यसागरः/प्रयतेनापिरामेणयथार्हमभिपूजितः/समुद्रस्यततःक्रुद्धोरामोरक्तान्तलोचनः/समीपस्थमुवाचेदंलक्ष्मणंशुभलक्ष्मणम्/पश्यतावदनार्यस्यपूज्यमानस्यलक्ष्मण/अवलेपंसमुद्रस्यनदर्शयतियत्स्वयम्/प्रशमश्चक्षमाचैवआर्जवंप्रियवादिता/असामर्थ्यंफलन्त्येतेनिर्गुणेषुसतांगुणाः/आत्मप्रशंसिनंदुष्टंधृष्टंविपरिधावकम्/सर्वत्रोत्सृष्टदण्डंचलोकःसत्कुरुतेनरम्/नसाम्नाशक्यतेकीर्तिर्नसाम्नाशक्यतेयशः/प्राप्तुंलक्ष्मणलोकेऽस्मिञ्जयोवारणमूधनि/अद्यमद्बाणनिर्भिन्नैर्मकरैर्मकरालयम्/निरुद्धतोयंसौमित्रेप्लवद्भिःपश्यसर्वतः/महाभोगानिमत्स्यानांकरिणांचकरानिह/भोगांश्चपश्यनागानांमयाभिन्नानिलक्ष्मण/सशङ्खशुक्तिकाजालंसमीनमकरंशरैः/अद्ययुद्धेनमहतासमुद्रंपरिशोषये/क्षमयाहिसमायुक्तंमामयंमकरालयः/असमर्थंविजानातिधिक्क्षमामीदृशेजने/चापमानयसौमित्रेशरांश्चाशीविषोपमान्/अद्याक्षोभ्यमपिक्रुद्धःक्षोभयिष्यामिसागरम्/वेलासुकृतमर्यादंसहसोर्मिसमाकुलम्/निर्मर्यादंकरिष्यामिसायकैर्वरुणालयम्/एवमुक्त्वाधनुष्पाणिःक्रोधविस्फारितेक्षणः/बभूवरामोदुर्धर्षोयुगान्ताग्निरिवज्वलन्/संपीड्यचधनुर्घोरंकम्पयित्वाशरैर्जगत्/मुमोचविशिखानुग्रान्वज्राणीवशतक्रतुः/तेज्वलन्तोमहावेगास्तेजसासायकोत्तमाः/प्रविशन्तिसमुद्रस्यसलिलंत्रस्तपन्नगम्/ततोवेगःसमुद्रस्यसनक्रमकरोमहान्/संबभूवमहाघोरःसमारुतरवस्तदा/महोर्मिमालाविततःशङ्खशुक्तिसमाकुलः/सधूमपरिवृत्तोर्मिःसहसाभून्महोदधिः/व्यथिताःपन्नगाश्चासन्दीप्तास्यादीप्तलोचनाः/दानवाश्चमहावीर्याःपातालतलवासिनः/ऊर्मयःसिन्धुराजस्यसनक्रमकरास्तदा/विन्ध्यमन्दरसंकाशाःसमुत्पेतुःसहस्रशः/आघूर्णिततरङ्गौघःसंभ्रान्तोरगराक्षसः/उद्वर्तितमहाग्राहःसंवृत्तःसलिलाशयः62132/ततोमध्यात्समुद्रस्यसागरःस्वयमुत्थितः/उदयन्हिमहाशैलान्मेरोरिवदिवाकरः/पन्नगैःसहदीप्तास्यैःसमुद्रःप्रत्यदृश्यत/स्निग्धवैदूर्यसंकाशोजाम्बूनदविभूषितः/रक्तमाल्याम्बरधरःपद्मपत्रनिभेक्षणः/सागरःसमतिक्रम्यपूर्वमामन्त्र्यवीर्यवान्/अब्रवीत्प्राञ्जलिर्वाक्यंराघवंशरपाणिनम्/पृथिवीवायुराकाशमापोज्योतिश्चराघवः/स्वभावेसौम्यतिष्ठन्तिशाश्वतंमार्गमाश्रिताः/तत्स्वभावोममाप्येषयदगाधोऽहमप्लवः/विकारस्तुभवेद्राधएतत्तेप्रवदाम्यहम्/नकामान्नचलोभाद्वानभयात्पार्थिवात्मज/ग्राहनक्राकुलजलंस्तम्भयेयंकथंचन/विधास्येरामयेनापिविषहिष्येह्यहंतथा/ग्राहानप्रहरिष्यन्तियावत्सेनातरिष्यति/अयंसौम्यनलोनामतनुजोविश्वकर्मणः/पित्रादत्तवरःश्रीमान्प्रतिमोविश्वकर्मणः/एषसेतुंमहोत्साहःकरोतुमयिवानरः/तमहंधारयिष्यामितथाह्येषयथापिता/एवमुक्त्वोदधिर्नष्टःसमुत्थायनलस्ततः/अब्रवीद्वानरश्रेष्ठोवाक्यंरामंमहाबलः/अहंसेतुंकरिष्यामिविस्तीर्णेवरुणालये/पितुःसामर्थ्यमास्थायतत्त्वमाहमहोदधिः/मममातुर्वरोदत्तोमन्दरेविश्वकर्मणा/औरसस्तस्यपुत्रोऽहंसदृशोविश्वकर्मणा/नचाप्यहमनुक्तोवैप्रब्रूयामात्मनोगुणान्/काममद्यैवबध्नन्तुसेतुंवानरपुंगवाः/ततोनिसृष्टरामेणसर्वतोहरियूथपाः/अभिपेतुर्महारण्यंहृष्टाःशतसहस्रशः/तेनगान्नगसंकाशाःशाखामृगगणर्षभाः/बभञ्जुर्वानरास्तत्रप्रचकर्षुश्चसागरम्/तेसालैश्चाश्वकर्णैश्चधवैर्वंशैश्चवानराः/कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि/बिल्वकैःसप्तपर्णैश्चकर्णिकारैश्चपुष्पितैः/चूतैश्चाशोकवृक्षैश्चसागरंसमपूरयन्/समूलांश्चविमूलांश्चपादपान्हरिसत्तमाः/इन्द्रकेतूनिवोद्यम्यप्रजह्रुर्हरयस्तरून्/प्रक्षिप्यमाणैरचलैःसहसाजलमुद्धतम्/समुत्पतितमाकाशमपासर्पत्ततस्ततः/दशयोजनविस्तीर्णंशतयोजनमायतम्/नलश्चक्रेमहासेतुंमध्येनदनदीपतेः/शिलानांक्षिप्यमाणानांशैलानांतत्रपात्यताम्/बभूवतुमुलःशब्दस्तदातस्मिन्महोदधौ/सनलेनकृतःसेतुःसागरेमकरालये/शुशुभेसुभगःश्रीमान्स्वातीपथइवाम्बरे/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवंगमाः/तमचिन्त्यमसह्यंचअद्भुतंलोमहर्षणम्/ददृशुःसर्वभूतानिसागरेसेतुबन्धनम्/तानिकोटिसहस्राणिवानराणांमहौजसाम्/बध्नन्तःसागरेसेतुंजग्मुःपारंमहोदधेः/विशालःसुकृतःश्रीमान्सुभूमिःसुसमाहितः/अशोभतमहासेतुःसीमन्तइवसागरे/ततःपरेसमुद्रस्यगदापाणिर्विभीषणः/परेषामभिघतार्थमतिष्ठत्सचिवैःसह/अग्रतस्तस्यसैन्यस्यश्रीमान्रामःसलक्ष्मणः/जगामधन्वीधर्मात्मासुग्रीवेणसमन्वितः/अन्येमध्येनगच्छन्तिपार्श्वतोऽन्येप्लवंगमाः/सलिलेप्रपतन्त्यन्येमार्गमन्येनलेभिरे/केचिद्वैहायसगताःसुपर्णाइवपुप्लुवुः/घोषेणमहताघोषंसागरस्यसमुच्छ्रितम्/भीममन्तर्दधेभीमातरन्तीहरिवाहिनी/वानराणांहिसातीर्णावाहिनीनलसेतुना/तीरेनिविविशेराज्ञाबहुमूलफलोदके/तदद्भुतंराघवकर्मदुष्करं॑समीक्ष्यदेवाःसहसिद्धचारणैः/उपेत्यरामंसहितामहर्षिभिः॑समभ्यषिञ्चन्सुशुभैर्जलैःपृथक्/जयस्वशत्रून्नरदेवमेदिनीं॑ससागरांपालयशाश्वतीःसमाः/इतीवरामंनरदेवसत्कृतं॑शुभैर्वचोभिर्विविधैरपूजयन्62289/सबलेसागरंतीर्णेरामेदशरथात्मजे/अमात्यौरावणःश्रीमानब्रवीच्छुकसारणौ6251/समग्रंसागरंतीर्णंदुस्तरंवानरंबलम्/अभूतपूर्वंरामेणसागरेसेतुबन्धनम्/सागरेसेतुबन्धंतुनश्रद्दध्यांकथंचन/अवश्यंचापिसंख्येयंतन्मयावानरंबलम्/भवन्तौवानरंसैन्यंप्रविश्यानुपलक्षितौ/परिमाणंचवीर्यंचयेचमुख्याःप्लवंगमाः/मन्त्रिणोयेचरामस्यसुग्रीवस्यचसंमताः/येपूर्वमभिवर्तन्तेयेचशूराःप्लवंगमाः/सचसेतुर्यथाबद्धःसागरेसलिलार्णवे/निवेशश्चयथातेषांवानराणांमहात्मनाम्/रामस्यव्यवसायंचवीर्यंप्रहरणानिच/लक्ष्मणस्यचवीरस्यतत्त्वतोज्ञातुमर्हथ/कश्चसेनापतिस्तेषांवानराणांमहौजसाम्/एतज्ज्ञात्वायथातत्त्वंशीघ्रमगन्तुमर्हथः/इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ/हरिरूपधरौवीरौप्रविष्टौवानरंबलम्/ततस्तद्वानरंसैन्यमचिन्त्यंलोमहर्षणम्/संख्यातुंनाध्यगच्छेतांतदातौशुकसारणौ/तत्स्थितंपर्वताग्रेषुनिर्दरेषुगुहासुच/समुद्रस्यचतीरेषुवनेषूपवनेषुच/तरमाणंचतीर्णंचतर्तुकामंचसर्वशः/निविष्टंनिविशच्चैवभीमनादंमहाबलम्/तौददर्शमहातेजाःप्रच्छन्नौचविभीषणः/आचचक्षेऽथरामायगृहीत्वाशुकसारणौ/लङ्कायाःसमनुप्राप्तौचारौपरपुरंजयौ/तौदृष्ट्वाव्यथितौरामंनिराशौजीवितेतदा/कृताञ्जलिपुटौभीतौवचनंचेदमूचतुः/आवामिहागतौसौम्यरावणप्रहितावुभौ/परिज्ञातुंबलंकृत्स्नंतवेदंरघुनन्दन/तयोस्तद्वचनंश्रुत्वारामोदशरथात्मजः/अब्रवीत्प्रहसन्वाक्यंसर्वभूतहितेरतः/यदिदृष्टंबलंकृत्स्नंवयंवासुसमीक्षिताः/यथोक्तंवाकृतंकार्यंछन्दतःप्रतिगम्यताम्/प्रविश्यनगरींलङ्कांभवद्भ्यांधनदानुजः/वक्तव्योरक्षसांराजायथोक्तंवचनंमम/यद्बलंचसमाश्रित्यसीतांमेहृतवानसि/तद्दर्शययथाकामंससैन्यःसहबान्धवः/श्वःकालेनगरींलङ्कांसप्राकारांसतोरणाम्/राक्षसंचबलंपश्यशरैर्विध्वंसितंमया/घोरंरोषमहंमोक्ष्येबलंधारयरावण/श्वःकालेवज्रवान्वज्रंदानवेष्विववासवः/इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ/आगम्यनगरींलङ्कामब्रूतांराक्षसाधिपम्/विभीषणगृहीतौतुवधार्हौराक्षसेश्वर/दृष्ट्वाधर्मात्मनामुक्तौरामेणामिततेजसा/एकस्थानगतायत्रचत्वारःपुरुषर्षभाः/लोकपालोपमाःशूराःकृतास्त्रादृढविक्रमाः/रामोदाशरथिःश्रीमांल्लक्ष्मणश्चविभीषणः/सुग्रीवश्चमहातेजामहेन्द्रसमविक्रमः/एतेशक्ताःपुरींलङ्कांसप्राकारांसतोरणाम्/उत्पाट्यसंक्रामयितुंसर्वेतिष्ठन्तुवानराः/यादृशंतस्यरामस्यरूपंप्रहरणानिच/वधिष्यतिपुरींलङ्कामेकस्तिष्ठन्तुतेत्रयः/रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी/बभूवदुर्धर्षतरासर्वैरपिसुरासुरैः/प्रहृष्टरूपाध्वजिनीवनौकसां॑महात्मनांसंप्रतियोद्धुमिच्छताम्/अलंविरोधेनशमोविधीयतां॑प्रदीयतांदाशरथायमैथिली62533/तद्वचःपथ्यमक्लीबंसारणेनाभिभाषितम्/निशम्यरावणोराजाप्रत्यभाषतसारणम्6261/यदिमामभियुञ्जीरन्देवगन्धर्वदानवाः/नैवसीतांप्रदास्यामिसर्वलोकभयादपि/त्वंतुसौम्यपरित्रस्तोहरिभिर्निर्जितोभृशम्/प्रतिप्रदानमद्यैवसीतायाःसाधुमन्यसे/कोहिनामसपत्नोमांसमरेजेतुमर्हति/इत्युक्त्वापरुषंवाक्यंरावणोराक्षसाधिपः/आरुरोहततःश्रीमान्प्रासादंहिमपाण्डुरम्/बहुतालसमुत्सेधंरावणोऽथदिदृक्षया/ताभ्यांचराभ्यांसहितोरावणःक्रोधमूर्छितः/पश्यमानःसमुद्रंचपर्वतांश्चवनानिच/ददर्शपृथिवीदेशंसुसंपूर्णंप्लवंगमैः/तदपारमसंख्येयंवानराणांमहद्बलम्/आलोक्यरावणोराजापरिपप्रच्छसारणम्/एषांवानरमुख्यानांकेशूराःकेमहाबलाः/केपूर्वमभिवर्तन्तेमहोत्साहाःसमन्ततः/केषांशृणोतिसुग्रीवःकेवायूथपयूथपाः/सारणाचक्ष्वमेसर्वंकेप्रधानाःप्लवंगमाः/सारणोराक्षसेन्द्रस्यवचनंपरिपृच्छतः/आचचक्षेऽथमुख्यज्ञोमुख्यांस्तांस्तुवनौकसः/एषयोऽभिमुखोलङ्कांनर्दंस्तिष्ठतिवानरः/यूथपानांसहस्राणांशतेनपरिवारितः/यस्यघोषेणमहतासप्राकारासतोरणा/लङ्काप्रवेपतेसर्वासशैलवनकानना/सर्वशाखामृगेन्द्रस्यसुग्रीवस्यमहात्मनः/बलाग्रेतिष्ठतेवीरोनीलोनामैषयूथपः/बाहूप्रगृह्ययःपद्भ्यांमहींगच्छतिवीर्यवान्/लङ्कामभिमुखःकोपादभीक्ष्णंचविजृम्भते/गिरिशृङ्गप्रतीकाशःपद्मकिञ्जल्कसंनिभः/स्फोटयत्यभिसंरब्धोलाङ्गूलंचपुनःपुनः/यस्यलाङ्गूलशब्देनस्वनन्तीवदिशोदश/एषवानरराजेनसुर्ग्रीवेणाभिषेचितः/यौवराज्येऽङ्गदोनामत्वामाह्वयतिसंयुगे/येतुविष्टभ्यगात्राणिक्ष्वेडयन्तिनदन्तिच/उत्थायचविजृम्भन्तेक्रोधेनहरिपुंगवाः/एतेदुष्प्रसहाघोराश्चण्डाश्चण्डपराक्रमाः/अष्टौशतसहस्राणिदशकोटिशतानिच/यएनमनुगच्छन्तिवीराश्चन्दनवासिनः/एषआशंसतेलङ्कांस्वेनानीकेनमर्दितुम्/श्वेतोरजतसंकाशःसबलोभीमविक्रमः/बुद्धिमान्वानरःशूरस्त्रिषुलोकेषुविश्रुतः/तूर्णंसुग्रीवमागम्यपुनर्गच्छतिवानरः/विभजन्वानरींसेनामनीकानिप्रहर्षयन्/यःपुरागोमतीतीरेरम्यंपर्येतिपर्वतम्/नाम्नासंकोचनोनामनानानगयुतोगिरिः/तत्रराज्यंप्रशास्त्येषकुमुदोनामयूथपः/योऽसौशतसहस्राणांसहस्रंपरिकर्षति/यस्यवालाबहुव्यामादीर्घलाङ्गूलमाश्रिताः/ताम्राःपीताःसिताःश्वेताःप्रकीर्णाघोरकर्मणः/अदीनोरोषणश्चण्डःसंग्राममभिकाङ्क्षति/एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम्/यस्त्वेषसिंहसंकाशःकपिलोदीर्घकेसरः/निभृतःप्रेक्षतेलङ्कांदिधक्षन्निवचक्षुषा/विन्ध्यंकृष्णगिरिंसह्यंपर्वतंचसुदर्शनम्/राजन्सततमध्यास्तेरम्भोनामैषयूथपः/शतंशतसहस्राणांत्रिंशच्चहरियूथपाः/परिवार्यानुगच्छन्तिलङ्कांमर्दितुमोजसा/यस्तुकर्णौविवृणुतेजृम्भतेचपुनःपुनः/नचसंविजतेमृत्योर्नचयूथाद्विधावति/महाबलोवीतभयोरम्यंसाल्वेयपर्वतम्/राजन्सततमध्यास्तेशरभोनामयूथपः/एतस्यबलिनःसर्वेविहारानामयूथपाः/राजञ्शतसहस्राणिचत्वारिंशत्तथैवच/यस्तुमेघइवाकाशंमहानावृत्यतिष्ठति/मध्येवानरवीराणांसुराणामिववासवः/भेरीणामिवसंनादोयस्यैषश्रूयतेमहान्/घोरःशाखामृगेन्द्राणांसंग्राममभिकाङ्क्षताम्/एषपर्वतमध्यास्तेपारियात्रमनुत्तमम्/युद्धेदुष्प्रसहोनित्यंपनसोनामयूथपः/एनंशतसहस्राणांशतार्धंपर्युपासते/यूथपायूथपश्रेष्ठंयेषांयूथानिभागशः/यस्तुभीमांप्रवल्गन्तींचमूंतिष्ठतिशोभयन्/स्थितांतीरेसमुद्रस्यद्वितीयइवसागरः/एषदर्दरसंकाशोविनतोनामयूथपः/पिबंश्चरतिपर्णाशांनदीनामुत्तमांनदीम्/षष्टिःशतसहस्राणिबलमस्यप्लवंगमाः/त्वामाह्वयतियुद्धायक्रथनोनामयूथपः/यस्तुगैरिकवर्णाभंवपुःपुष्यतिवानरः/गवयोनामतेजस्वीत्वांक्रोधादभिवर्तते/एनंशतसहस्राणिसप्ततिःपर्युपासते/एषआशंसतेलङ्कांस्वेनानीकेनमर्दितुम्/एतेदुष्प्रसहाघोराबलिनःकामरूपिणः/यूथपायूथपश्रेष्ठायेषांसंख्यानविद्यते62647/तांस्तुतेऽहंप्रवक्ष्यामिप्रेक्षमाणस्ययूथपान्/राघवार्थेपराक्रान्तायेनरक्षन्तिजीवितम्6271/स्निग्धायस्यबहुश्यामाबालालाङ्गूलमाश्रिताः/ताम्राःपीताःसिताःश्वेताःप्रकीर्णाघोरकर्मणः/प्रगृहीताःप्रकाशन्तेसूर्यस्येवमरीचयः/पृथिव्यांचानुकृष्यन्तेहरोनामैषयूथपः/यंपृष्ठतोऽनुगच्छन्तिशतशोऽथसहस्रशः/द्रुमानुद्यम्यसहितालङ्कारोहणतत्पराः/एषकोटीसहस्रेणवानराणांमहौजसाम्/आकाङ्क्षतेत्वांसंग्रामेजेतुंपरपुरंजय/नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि/असिताञ्जनसंकाशान्युद्धेसत्यपराक्रमान्/नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान्/असंख्येयाननिर्देश्यान्परंपारमिवोदधेः/पर्वतेषुचयेकेचिद्विषमेषुनदीषुच/एतेत्वामभिवर्तन्तेराजन्नृष्काःसुदारुणाः/एषांमध्येस्थितोराजन्भीमाक्षोभीमदर्शनः/पर्जन्यइवजीमूतैःसमन्तात्परिवारितः/ऋक्षवन्तंगिरिश्रेष्ठमध्यास्तेनर्मदांपिबन्/सर्वर्क्षाणामधिपतिर्धूम्रोनामैषयूथपः/यवीयानस्यतुभ्रातापश्यैनंपर्वतोपमम्/भ्रात्रासमानोरूपेणविशिष्टस्तुपराक्रमे/सएषजाम्बवान्नाममहायूथपयूथपः/प्रशान्तोगुरुवर्तीचसंप्रहारेष्वमर्षणः/एतेनसाह्यंसुमहत्कृतंशक्रस्यधीमता/देवासुरेजाम्बवतालब्धाश्चबहवोवराः/आरुह्यपर्वताग्रेभ्योमहाभ्रविपुलाःशिलाः/मुञ्चन्तिविपुलाकारानमृत्योरुद्विजन्तिच/राक्षसानांचसदृशाःपिशाचानांचरोमशाः/एतस्यसैन्येबहवोविचरन्त्यग्नितेजसः/यंत्वेनमभिसंरब्धंप्लवमानमिवस्थितम्/प्रेक्षन्तेवानराःसर्वेस्थितंयूथपयूथपम्/एषराजन्सहस्राक्षंपर्युपास्तेहरीश्वरः/बलेनबलसंपन्नोरम्भोनामैषयूथपः/यःस्थितंयोजनेशैलंगच्छन्पार्श्वेनसेवते/ऊर्ध्वंतथैवकायेनगतःप्राप्नोतियोजनम्/यस्मान्नपरमंरूपंचतुष्पादेषुविद्यते/श्रुतःसंनादनोनामवानराणांपितामहः/येनयुद्धंतदादत्तंरणेशक्रस्यधीमता/पराजयश्चनप्राप्तःसोऽयंयूथपयूथपः/यस्यविक्रममाणस्यशक्रस्येवपराक्रमः/एषगन्धर्वकन्यायामुत्पन्नःकृष्णवर्त्मना/पुरादेवासुरेयुद्धेसाह्यार्थंत्रिदिवौकसाम्/यस्यवैश्रवणोराजाजम्बूमुपनिषेवते/योराजापर्वतेन्द्राणांबहुकिंनरसेविनाम्/विहारसुखदोनित्यंभ्रातुस्तेराक्षसाधिप/तत्रैषवसतिश्रीमान्बलवान्वानरर्षभः/युद्धेष्वकत्थनोनित्यंक्रथनोनामयूथपः/वृतःकोटिसहस्रेणहरीणांसमुपस्थितः/एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम्/योगङ्गामनुपर्येतित्रासयन्हस्तियूथपान्/हस्तिनांवानराणांचपूर्ववैरमनुस्मरन्/एषयूथपतिर्नेतागच्छन्गिरिगुहाशयः/हरीणांवाहिनीमुख्योनदींहैमवतीमनु/उशीरबीजमाश्रित्यपर्वतंमन्दरोपमम्/रमतेवानरश्रेष्ठोदिविशक्रइवस्वयम्/एनंशतसहस्राणांसहस्रमभिवर्तते/एषदुर्मर्षणोराजन्प्रमाथीनामयूथपः/वातेनेवोद्धतंमेघंयमेनमनुपश्यसि/विवर्तमानंबहुशोयत्रैतद्बहुलंरजः/एतेऽसितमुखाघोरागोलाङ्गूलामहाबलाः/शतंशतसहस्राणिदृष्ट्वावैसेतुबन्धनम्/गोलाङ्गूलंमहावेगंगवाक्षंनामयूथपम्/परिवार्याभिवर्तन्तेलङ्कांमर्दितुमोजसा/भ्रमराचरितायत्रसर्वकामफलद्रुमाः/यंसूर्यतुल्यवर्णाभमनुपर्येतिपर्वतम्/यस्यभासासदाभान्तितद्वर्णामृगपक्षिणः/यस्यप्रस्थंमहात्मानोनत्यजन्तिमहर्षयः/तत्रैषरमतेराजन्रम्येकाञ्चनपर्वते/मुख्योवानरमुख्यानांकेसरीनामयूथपः/षष्टिर्गिरिसहस्राणांरम्याःकाञ्चनपर्वताः/तेषांमध्येगिरिवरस्त्वमिवानघरक्षसाम्/तत्रैतेकपिलाःश्वेतास्ताम्रास्यामधुपिङ्गलाः/निवसन्त्युत्तमगिरौतीक्ष्णदंष्ट्रानखायुधाः/सिंहइवचतुर्दंष्ट्राव्याघ्राइवदुरासदाः/सर्वेवैश्वनरसमाज्वलिताशीविषोपमाः/सुदीर्घाञ्चितलाङ्गूलामत्तमातंगसंनिभाः/महापर्वतसंकाशामहाजीमूतनिस्वनाः/एषचैषामधिपतिर्मध्येतिष्ठतिवीर्यवान्/नाम्नापृथिव्यांविख्यातोराजञ्शतबलीतियः/एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम्/गजोगवाक्षोगवयोनलोनीलश्चवानरः/एकैकएवयूथानांकोटिभिर्दशभिर्वृतः/तथान्येवानरश्रेष्ठाविन्ध्यपर्वतवासिनः/नशक्यन्तेबहुत्वात्तुसंख्यातुंलघुविक्रमाः/सर्वेमहाराजमहाप्रभावाः॑सर्वेमहाशैलनिकाशकायाः/सर्वेसमर्थाःपृथिवींक्षणेन॑कर्तुंप्रविध्वस्तविकीर्णशैलाम्62748/सारणस्यवचःश्रुत्वारावणंराक्षसाधिपम्/बलमालोकयन्सर्वंशुकोवाक्यमथाब्रवीत्6281/स्थितान्पश्यसियानेतान्मत्तानिवमहाद्विपान्/न्यग्रोधानिवगाङ्गेयान्सालान्हैमवतीनिव/एतेदुष्प्रसहाराजन्बलिनःकामरूपिणः/दैत्यदानवसंकाशायुद्धेदेवपराक्रमाः/एषांकोटिसहस्राणिनवपञ्चचसप्तच/तथाशङ्खसहस्राणितथावृन्दशतानिच/एतेसुग्रीवसचिवाःकिष्किन्धानिलयाःसदा/हरयोदेवगन्धर्वैरुत्पन्नाःकामरूपिणः/यौतौपश्यसितिष्ठन्तौकुमारौदेवरूपिणौ/मैन्दश्चद्विविदश्चोभौताभ्यांनास्तिसमोयुधि/ब्रह्मणासमनुज्ञातावमृतप्राशिनावुभौ/आशंसेतेयुधालङ्कामेतौमर्दितुमोजसा/यावेतावेतयोःपार्श्वेस्थितौपर्वतसंनिभौ/सुमुखोविमुखश्चैवमृत्युपुत्रौपितुःसमौ/यंतुपश्यसितिष्ठन्तंप्रभिन्नमिवकुञ्जरम्/योबलात्क्षोभयेत्क्रुद्धःसमुद्रमपिवानरः/एषोऽभिगन्तालङ्कायावैदेह्यास्तवचप्रभो/एनंपश्यपुरादृष्टंवानरंपुनरागतम्/ज्येष्ठःकेसरिणःपुत्रोवातात्मजइतिश्रुतः/हनूमानितिविख्यातोलङ्घितोयेनसागरः/कामरूपीहरिश्रेष्ठोबलरूपसमन्वितः/अनिवार्यगतिश्चैवयथासततगःप्रभुः/उद्यन्तंभास्करंदृष्ट्वाबालःकिलपिपासितः/त्रियोजनसहस्रंतुअध्वानमवतीर्यहि/आदित्यमाहरिष्यामिनमेक्षुत्प्रतियास्यति/इतिसंचिन्त्यमनसापुरैषबलदर्पितः/अनाधृष्यतमंदेवमपिदेवर्षिदानवैः/अनासाद्यैवपतितोभास्करोदयनेगिरौ/पतितस्यकपेरस्यहनुरेकाशिलातले/किंचिद्भिन्नादृढहनोर्हनूमानेषतेनवै/सत्यमागमयोगेनममैषविदितोहरिः/नास्यशक्यंबलंरूपंप्रभावोवानुभाषितुम्/एषआशंसतेलङ्कामेकोमर्दितुमोजसा/यश्चैषोऽनन्तरःशूरःश्यामःपद्मनिभेक्षणः/इक्ष्वाकूणामतिरथोलोकेविख्यातपौरुषः/यस्मिन्नचलतेधर्मोयोधर्मंनातिवर्तते/योब्राह्ममस्त्रंवेदांश्चवेदवेदविदांवरः/योभिन्द्याद्गगनंबाणैःपर्वतांश्चापिदारयेत्/यस्यमृत्योरिवक्रोधःशक्रस्येवपराक्रमः/सएषरामस्त्वांयोद्धुंराजन्समभिवर्तते/यश्चैषदक्षिणेपार्श्वेशुद्धजाम्बूनदप्रभः/विशालवक्षास्ताम्राक्षोनीलकुञ्चितमूर्धजः/एषोऽस्यलक्ष्मणोनामभ्राताप्राणसमःप्रियः/नयेयुद्धेचकुशलःसर्वशास्त्रविशारदः/अमर्षीदुर्जयोजेताविक्रान्तोबुद्धिमान्बली/रामस्यदक्षिणोबाहुर्नित्यंप्राणोबहिश्चरः/नह्येषराघवस्यार्थेजीवितंपरिरक्षति/एषैवाशंसतेयुद्धेनिहन्तुंसर्वराक्षसान्/यस्तुसव्यमसौपक्षंरामस्याश्रित्यतिष्ठति/रक्षोगणपरिक्षिप्तोराजाह्येषविभीषणः/श्रीमताराजराजेनलङ्कायामभिषेचितः/त्वामेवप्रतिसंरब्धोयुद्धायैषोऽभिवर्तते/यंतुपश्यसितिष्ठन्तंमध्येगिरिमिवाचलम्/सर्वशाखामृगेन्द्राणांभर्तारमपराजितम्/तेजसायशसाबुद्ध्याज्ञानेनाभिजनेनच/यःकपीनतिबभ्राजहिमवानिवपर्वतान्/किष्किन्धांयःसमध्यास्तेगुहांसगहनद्रुमाम्/दुर्गांपर्वतदुर्गस्थांप्रधानैःसहयूथपैः/यस्यैषाकाञ्चनीमालाशोभतेशतपुष्करा/कान्तादेवमनुष्याणांयस्यांलक्ष्मीःप्रतिष्ठिता/एतांचमालांतारांचकपिराज्यंचशाश्वतम्/सुग्रीवोवालिनंहत्वारामेणप्रतिपादितः/एवंकोटिसहस्रेणशङ्कूनांचशतेनच/सुग्रीवोवानरेन्द्रस्त्वांयुद्धार्थमभिवर्तते/इमांमहाराजसमीक्ष्यवाहिनीम्॑उपस्थितांप्रज्वलितग्रहोपमाम्/ततःप्रयत्नःपरमोविधीयतां॑यथाजयःस्यान्नपरैःपराजयः62842/शुकेनतुसमाख्यातांस्तान्दृष्ट्वाहरियूथपान्/समीपस्थंचरामस्यभ्रातरंस्वंविभीषणम्6291/लक्ष्मणंचमहावीर्यंभुजंरामस्यदक्षिणम्/सर्ववानरराजंचसुग्रीवंभीमविक्रमम्/किंचिदाविग्नहृदयोजातक्रोधश्चरावणः/भर्त्सयामासतौवीरौकथान्तेशुकसारणौ/अधोमुखौतौप्रणतावब्रवीच्छुकसारणौ/रोषगद्गदयावाचासंरब्धःपरुषंवचः/नतावत्सदृशंनामसचिवैरुपजीविभिः/विप्रियंनृपतेर्वक्तुंनिग्रहप्रग्रहेविभोः/रिपूणांप्रतिकूलानांयुद्धार्थमभिवर्तताम्/उभाभ्यांसदृशंनामवक्तुमप्रस्तवेस्तवम्/आचार्यागुरवोवृद्धावृथावांपर्युपासिताः/सारंयद्राजशास्त्राणामनुजीव्यंनगृह्यते/गृहीतोवानविज्ञातोभारोज्ञानस्यवोछ्यते/ईदृशैःसचिवैर्युक्तोमूर्खैर्दिष्ट्याधराम्यहम्/किंनुमृत्योर्भयंनास्तिमांवक्तुंपरुषंवचः/यस्यमेशासतोजिह्वाप्रयच्छतिशुभाशुभम्/अप्येवदहनंस्पृष्ट्वावनेतिष्ठन्तिपादपाः/राजदोषपरामृष्टास्तिष्ठन्तेनापराधिनः/हन्यामहमिमौपापौशत्रुपक्षप्रशंसकौ/यदिपूर्वोपकारैर्मेनक्रोधोमृदुतांव्रजेत्/अपध्वंसतगच्छध्वंसंनिकर्षादितोमम/नहिवांहन्तुमिच्छामिस्मरन्नुपकृतानिवाम्/हतावेवकृतघ्नौतौमयिस्नेहपराङ्मुखौ/एवमुक्तौतुसव्रीडौतावुभौशुकसारणौ/रावणंजयशब्देनप्रतिनन्द्याभिनिःसृतौ/अब्रवीत्सदशग्रीवःसमीपस्थंमहोदरम्/उपस्थापयशीघ्रंमेचारान्नीतिविशारदान्/ततश्चराःसंत्वरिताःप्राप्ताःपार्थिवशासनात्/उपस्थिताःप्राञ्जलयोवर्धयित्वाजयाशिषा/तानब्रवीत्ततोवाक्यंरावणोराक्षसाधिपः/चारान्प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान्/इतोगच्छतरामस्यव्यवसायंपरीक्षथ/मन्त्रेष्वभ्यन्तरायेऽस्यप्रीत्यातेनसमागताः/कथंस्वपितिजागर्तिकिमन्यच्चकरिष्यति/विज्ञायनिपुणंसर्वमागन्तव्यमशेषतः/चारेणविदितःशत्रुःपण्डितैर्वसुधाधिपैः/युद्धेस्वल्पेनयत्नेनसमासाद्यनिरस्यते/चारास्तुतेतथेत्युक्त्वाप्रहृष्टाराक्षसेश्वरम्/कृत्वाप्रदक्षिणंजग्मुर्यत्ररामःसलक्ष्मणः/तेसुवेलस्यशैलस्यसमीपेरामलक्ष्मणौ/प्रच्छन्नाददृशुर्गत्वाससुग्रीवविभीषणौ/तेतुधर्मात्मनादृष्टाराक्षसेन्द्रेणराक्षसाः/विभीषणेनतत्रस्थानिगृहीतायदृच्छया/वानरैरर्दितास्तेतुविक्रान्तैर्लघुविक्रमैः/पुनर्लङ्कामनुप्राप्ताःश्वसन्तोनष्टचेतसः/ततोदशग्रीवमुपस्थितास्ते॑चाराबहिर्नित्यचरानिशाचराः/गिरेःसुवेलस्यसमीपवासिनं॑न्यवेदयन्भीमबलंमहाबलाः62929/ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः/सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन्6301/चाराणांरावणःश्रुत्वाप्राप्तंरामंमहाबलम्/जातोद्वेगोऽभवत्किंचिच्छार्दूलंवाक्यमब्रवीत्/अयथावच्चतेवर्णोदीनश्चासिनिशाचर/नासिकच्चिदमित्राणांक्रुद्धानांवशमागतः/इतितेनानुशिष्टस्तुवाचंमन्दमुदीरयत्/तदाराक्षसशार्दूलंशार्दूलोभयविह्वलः/नतेचारयितुंशक्याराजन्वानरपुंगवाः/विक्रान्ताबलवन्तश्चराघवेणचरक्षिताः/नापिसंभाषितुंशक्याःसंप्रश्नोऽत्रनलभ्यते/सर्वतोरक्ष्यतेपन्थावानरैःपर्वतोपमैः/प्रविष्टमात्रेज्ञातोऽहंबलेतस्मिन्नचारिते/बलाद्गृहीतोबहुभिर्बहुधास्मिविदारितः/जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतोभृशम्/परिणीतोऽस्मिहरिभिर्बलवद्भिरमर्षणैः/परिणीयचसर्वत्रनीतोऽहंरामसंसदम्/रुधिरादिग्धसर्वाङ्गोविह्वलश्चलितेन्द्रियः/हरिभिर्वध्यमानश्चयाचमानःकृताञ्जलिः/राघवेणपरित्रातोजीवामिहयदृच्छया/एषशैलैःशिलाभिश्चपूरयित्वामहार्णवम्/द्वारमाश्रित्यलङ्कायारामस्तिष्ठतिसायुधः/गरुडव्यूहमास्थायसर्वतोहरिभिर्वृतः/मांविसृज्यमहातेजालङ्कामेवाभिवर्तते/पुराप्राकारमायातिक्षिप्रमेकतरंकुरु/सीतांचास्मैप्रयच्छाशुसुयुद्धंवाप्रदीयताम्/मनसासंततापाथतच्छ्रुत्वाराक्षसाधिपः/शार्दूलस्यमहद्वाक्यमथोवाचसरावणः/यदिमांप्रतियुध्येरन्देवगन्धर्वदानवाः/नैवसीतांप्रदास्यामिसर्वलोकभयादपि/एवमुक्त्वामहातेजारावणःपुनरब्रवीत्/चारिताभवतासेनाकेऽत्रशूराःप्लवंगमाः/कीदृशाःकिंप्रभावाश्चवानरायेदुरासदाः/कस्यपुत्राश्चपौत्राश्चतत्त्वमाख्याहिराक्षस/तत्रत्रप्रतिपत्स्यामिज्ञात्वातेषांबलाबलम्/अवश्यंबलसंख्यानंकर्तव्यंयुद्धमिच्छता/अथैवमुक्तःशार्दूलोरावणेनोत्तमश्चरः/इदंवचनमारेभेवक्तुंरावणसंनिधौ/अथर्क्षरजसःपुत्रोयुधिराजन्सुदुर्जयः/गद्गदस्याथपुत्रोऽत्रजाम्बवानितिविश्रुतः/गद्गदस्यैवपुत्रोऽन्योगुरुपुत्रःशतक्रतोः/कदनंयस्यपुत्रेणकृतमेकेनरक्षसाम्/सुषेणश्चापिधर्मात्मापुत्रोधर्मस्यवीर्यवान्/सौम्यःसोमात्मजश्चात्रराजन्दधिमुखःकपिः/सुमुखोदुर्मुखश्चात्रवेगदर्शीचवानरः/मृत्युर्वानररूपेणनूनंसृष्टःस्वयम्भुवा/पुत्रोहुतवहस्याथनीलःसेनापतिःस्वयम्/अनिलस्यचपुत्रोऽत्रहनूमानितिविश्रुतः/नप्ताशक्रस्यदुर्धर्षोबलवानङ्गदोयुवा/मैन्दश्चद्विविदश्चोभौबलिनावश्विसंभवौ/पुत्रावैवस्वतस्यात्रपञ्चकालान्तकोपमाः/गजोगवाक्षोगवयःशरभोगन्धमादनः/श्वेतोज्योतिर्मुखश्चात्रभास्करस्यात्मसंभवौ/वरुणस्यचपुत्रोऽथहेमकूटःप्लवंगमः/विश्वकर्मसुतोवीरोनलःप्लवगसत्तमः/विक्रान्तोवेगवानत्रवसुपुत्रःसुदुर्धरः/दशवानरकोट्यश्चशूराणांयुद्धकाङ्क्षिणाम्/श्रीमतांदेवपुत्राणांशेषान्नाख्यातुमुत्सहे/पुत्रोदशरथस्यैषसिंहसंहननोयुवा/दूषणोनिहतोयेनखरश्चत्रिशिरास्तथा/नास्तिरामस्यसदृशोविक्रमेभुविकश्चन/विराधोनिहतोयेनकबन्धश्चान्तकोपमः/वक्तुंनशक्तोरामस्यनरःकश्चिद्गुणान्क्षितौ/जनस्थानगतायेनतावन्तोराक्षसाहताः/लक्ष्मणश्चात्रधर्मात्मामातंगानामिवर्षभः/यस्यबाणपथंप्राप्यनजीवेदपिवासवः/राक्षसानांवरिष्ठश्चतवभ्राताविभीषणः/परिगृह्यपुरींलङ्कांराघवस्यहितेरतः/इतिसर्वंसमाख्यातंतवेदंवानरंबलम्/सुवेलेऽधिष्ठितंशैलेशेषकार्येभवान्गतिः63035/ततस्तमक्षोभ्यबलंलङ्कायांनृपतेश्चरः/सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन्6311/चाराणांरावणःश्रुत्वाप्राप्तंरामंमहाबलम्/जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत्/मन्त्रिणःशीघ्रमायान्तुसर्वेवैसुसमाहिताः/अयंनोमन्त्रकालोहिसंप्राप्तइवराक्षसाः/तस्यतच्छासनंश्रुत्वामन्त्रिणोऽभ्यागमन्द्रुतम्/ततःसंमन्त्रयामाससचिवैराक्षसैःसह/मन्त्रयित्वासदुर्धर्षःक्षमंयत्समनन्तरम्/विसर्जयित्वासचिवान्प्रविवेशस्वमालयम्/ततोराक्षसमाहूयविद्युज्जिह्वंमहाबलम्/मायाविदंमहामायःप्राविशद्यत्रमैथिली/विद्युज्जिह्वंचमायाज्ञमब्रवीद्राक्षसाधिपः/मोहयिष्यामहेसीतांमाययाजनकात्मजाम्/शिरोमायामयंगृह्यराघवस्यनिशाचर/मांत्वंसमुपतिष्ठस्वमहच्चसशरंधनुः/एवमुक्तस्तथेत्याहविद्युज्जिह्वोनिशाचरः/तस्यतुष्टोऽभवद्राजाप्रददौचविभूषणम्/अशोकवनिकायांतुप्रविवेशमहाबलः/ततोदीनामदैन्यार्हांददर्शधनदानुजः/अधोमुखींशोकपरामुपविष्टांमहीतले/भर्तारमेवध्यायन्तीमशोकवनिकांगताम्/उपास्यमानांघोराभीराक्षसीभिरदूरतः/उपसृत्यततःसीतांप्रहर्षन्नामकीर्तयन्/इदंचवचनंधृष्टमुवाचजनकात्मजाम्/सान्त्व्यमानामयाभद्रेयमुपाश्रित्यवल्गसे/खरहन्तासतेभर्ताराघवःसमरेहतः/छिन्नंतेसर्वतोमूलंदर्पस्तेनिहतोमया/व्यसनेनात्मनःसीतेममभार्याभविष्यसि/अल्पपुण्येनिवृत्तार्थेमूढेपण्डितमानिनि/शृणुभर्तृबधंसीतेघोरंवृत्रवधंयथा/समायातःसमुद्रान्तंमांहन्तुंकिलराघवः/वानरेन्द्रप्रणीतेनबलेनमहतावृतः/संनिविष्टःसमुद्रस्यतीरमासाद्यदक्षिणम्/बलेनमहतारामोव्रजत्यस्तंदिवाकरे/अथाध्वनिपरिश्रान्तमर्धरात्रेस्थितंबलम्/सुखसुप्तंसमासाद्यचारितंप्रथमंचरैः/तत्प्रहस्तप्रणीतेनबलेनमहतामम/बलमस्यहतंरात्रौयत्ररामःसुलक्ष्मणः/पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान्/बाणजालानिशूलानिभास्वरान्कूटमुद्गरान्/यष्टीश्चतोमरान्प्रासंश्चक्राणिमुसलानिच/उद्यम्योद्यम्यरक्षोभिर्वानरेषुनिपातिताः/अथसुप्तस्यरामस्यप्रहस्तेनप्रमाथिना/असक्तंकृतहस्तेनशिरश्छिन्नंमहासिना/विभीषणःसमुत्पत्यनिगृहीतोयदृच्छया/दिशःप्रव्राजितःसर्वैर्लक्ष्मणःप्लवगैःसह/सुग्रीवोग्रीवयाशेतेभग्नयाप्लवगाधिपः/निरस्तहनुकःशेतेहनूमान्राक्षसैर्हतः/जाम्बवानथजानुभ्यामुत्पतन्निहतोयुधि/पट्टसैर्बहुभिश्छिन्नोनिकृत्तःपादपोयथा/मैन्दश्चद्विविदश्चोभौनिहतौवानरर्षभौ/निःश्वसन्तौरुदन्तौचरुधिरेणसमुक्षितौ/असिनाभ्याहतश्छिन्नोमध्येरिपुनिषूदनः/अभिष्टनतिमेदिन्यांपनसःपनसोयथा/नाराचैर्बहुभिश्छिन्नःशेतेदर्यांदरीमुखः/कुमुदस्तुमहातेजानिष्कूजन्सायकैर्हतः/अङ्गदोबहुभिश्छिन्नःशरैरासाद्यराक्षसैः/पातितोरुधिरोद्गारीक्षितौनिपतितोऽङ्गदः/हरयोमथितानागैरथजालैस्तथापरे/शायितामृदितास्तत्रवायुवेगैरिवाम्बुदाः/प्रद्रुताश्चपरेत्रस्ताहन्यमानाजघन्यतः/अभिद्रुतास्तुरक्षोभिःसिंहैरिवमहाद्विपाः/सागरेपतिताःकेचित्केचिद्गगनमाश्रिताः/ऋक्षावृक्षानुपारूढावानरैस्तुविमिश्रिताः/सागरस्यचतीरेषुशैलेषुचवनेषुच/पिङ्गाक्षास्तेविरूपाक्षैर्बहुभिर्बहवोहताः/एवंतवहतोभर्ताससैन्योममसेनया/क्षतजार्द्रंरजोध्वस्तमिदंचास्याहृतंशिरः/ततःपरमदुर्धर्षोरावणोराक्षसेश्वरः/सीतायामुपशृण्वन्त्यांराक्षसीमिदमब्रवीत्/राक्षसंक्रूरकर्माणंविद्युज्जिह्वंत्वमानय/येनतद्राघवशिरःसंग्रामात्स्वयमाहृतम्/विद्युज्जिह्वस्ततोगृह्यशिरस्तत्सशरासनम्/प्रणामंशिरसाकृत्वारावणस्याग्रतःस्थितः/तमब्रवीत्ततोराजारावणोराक्षसंस्थितम्/विद्युज्जिह्वंमहाजिह्वंसमीपपरिवर्तिनम्/अग्रतःकुरुसीतायाःशीघ्रंदाशरथेःशिरः/अवस्थांपश्चिमांभर्तुःकृपणासाधुपश्यतु/एवमुक्तंतुतद्रक्षःशिरस्तत्प्रियदर्शनम्/उपनिक्षिप्यसीतायाःक्षिप्रमन्तरधीयत/रावणश्चापिचिक्षेपभास्वरंकार्मुकंमहत्/त्रिषुलोकेषुविख्यातंसीतामिदमुवाचह/इदंतत्तवरामस्यकार्मुकंज्यासमन्वितम्/इहप्रहस्तेनानीतंहत्वातंनिशिमानुषम्/सविद्युज्जिह्वेनसहैवतच्छिरो॑धनुश्चभूमौविनिकीर्यरावणः/विदेहराजस्यसुतांयशस्विनीं॑ततोऽब्रवीत्तांभवमेवशानुगा63145/सासीतातच्छिरोदृष्ट्वातच्चकार्मुकमुत्तमम्/सुग्रीवप्रतिसंसर्गमाख्यातंचहनूमता6321/नयनेमुखवर्णंचभर्तुस्तत्सदृशंमुखम्/केशान्केशान्तदेशंचतंचचूडामणिंशुभम्/एतैःसर्वैरभिज्ञानैरभिज्ञायसुदुःखिता/विजगर्हेऽथकैकेयींक्रोशन्तीकुररीयथा/सकामाभवकैकेयिहतोऽयंकुलनन्दनः/कुलमुत्सादितंसर्वंत्वयाकलहशीलया/आर्येणकिंनुकैकेय्याःकृतंरामेणविप्रियम्/यद्गृहाच्चीरवसनस्तयाप्रस्थापितोवनम्/एवमुक्त्वातुवैदेहीवेपमानातपस्विनी/जगामजगतींबालाछिन्नातुकदलीयथा/सामुहूर्तात्समाश्वस्यप्रतिलभ्यचचेतनाम्/तच्छिरःसमुपाघ्रायविललापायतेक्षणा/हाहतास्मिमहाबाहोवीरव्रतमनुव्रता/इमांतेपश्चिमावस्थांगतास्मिविधवाकृता/प्रथमंमरणंनार्याभर्तुर्वैगुण्यमुच्यते/सुवृत्तःसाधुवृत्तायाःसंवृत्तस्त्वंममाग्रतः/दुःखाद्दुःखंप्रपन्नायामग्नायाःशोकसागरे/योहिमामुद्यतस्त्रातुंसोऽपित्वंविनिपातितः/साश्वश्रूर्ममकौसल्यात्वयापुत्रेणराघव/वत्सेनेवयथाधेनुर्विवत्सावत्सलाकृता/आदिष्टंदीर्घमायुस्तेयैरचिन्त्यपराक्रम/अनृतंवचनंतेषामल्पायुरसिराघव/अथवानश्यतिप्रज्ञाप्राज्ञस्यापिसतस्तव/पचत्येनंतथाकालोभूतानांप्रभवोह्ययम्/अदृष्टंमृत्युमापन्नःकस्मात्त्वंनयशास्त्रवित्/व्यसनानामुपायज्ञःकुशलोह्यसिवर्जने/तथात्वंसंपरिष्वज्यरौद्रयातिनृशंसया/कालरात्र्यामयाच्छिद्यहृतःकमललोचनः/उपशेषेमहाबाहोमांविहायतपस्विनीम्/प्रियामिवशुभांनारींपृथिवींपुरुषर्षभ/अर्चितंसततंयत्नाद्गन्धमाल्यैर्मयातव/इदंतेमत्प्रियंवीरधनुःकाञ्चनभूषितम्/पित्रादशरथेनत्वंश्वशुरेणममानघ/पूर्वैश्चपितृभिःसार्धंनूनंस्वर्गेसमागतः/दिविनक्षत्रभूतस्त्वंमहत्कर्मकृतंप्रियम्/पुण्यंराजर्षिवंशंत्वमात्मनःसमुपेक्षसे/किंमान्नप्रेक्षसेराजन्किंमांनप्रतिभाषसे/बालांबालेनसंप्राप्तांभार्यांमांसहचारिणीम्/संश्रुतंगृह्णतापाणिंचरिष्यामीतियत्त्वया/स्मरतन्ममकाकुत्स्थनयमामपिदुःखिताम्/कस्मान्मामपहायत्वंगतोगतिमतांवर/अस्माल्लोकादमुंलोकंत्यक्त्वामामिहदुःखिताम्/कल्याणैरुचितंयत्तत्परिष्वक्तंमयैवतु/क्रव्यादैस्तच्छरीरंतेनूनंविपरिकृष्यते/अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः/अग्निहोत्रेणसंस्कारंकेनत्वंतुनलप्स्यसे/प्रव्रज्यामुपपन्नानांत्रयाणामेकमागतम्/परिप्रक्ष्यतिकौसल्यालक्ष्मणंशोकलालसा/सतस्याःपरिपृच्छन्त्यावधंमित्रबलस्यते/तवचाख्यास्यतेनूनंनिशायांराक्षसैर्वधम्/सात्वांसुप्तंहतंश्रुत्वामांचरक्षोगृहंगताम्/हृदयेनविदीर्णेननभविष्यतिराघव/साधुपातयमांक्षिप्रंरामस्योपरिरावणः/समानयपतिंपत्न्याकुरुकल्याणमुत्तमम्/शिरसामेशिरश्चास्यकायंकायेनयोजय/रावणानुगमिष्यामिगतिंभर्तुर्महात्मनः/मुहूर्तमपिनेच्छामिजीवितुंपापजीविना/श्रुतंमयावेदविदांब्राह्मणानांपितुर्गृहे/यासांस्त्रीणांप्रियोभर्तातासांलोकामहोदयाः/क्षमायस्मिन्दमस्त्यागःसत्यंधर्मःकृतज्ञता/अहिंसाचैवभूतानांतमृतेकागतिर्मम/इतिसादुःखसंतप्ताविललापायतेक्षणा/भर्तुःशिरोधनुस्तत्रसमीक्ष्यजनकात्मजा/एवंलालप्यमानायांसीतायांतत्रराक्षसः/अभिचक्रामभर्तारमनीकस्थःकृताञ्जलिः/विजयस्वार्यपुत्रेतिसोऽभिवाद्यप्रसाद्यच/न्यवेदयदनुप्राप्तंप्रहस्तंवाहिनीपतिम्/अमात्यैःसहितःसर्वैःप्रहस्तःसमुपस्थितः/किंचिदात्ययिकंकार्यंतेषांत्वंदर्शनंकुरु/एतच्छ्रुत्वादशग्रीवोराक्षसप्रतिवेदितम्/अशोकवनिकांत्यक्त्वामन्त्रिणांदर्शनंययौ/सतुसर्वंसमर्थ्यैवमन्त्रिभिःकृत्यमात्मनः/सभांप्रविश्यविदधेविदित्वारामविक्रमम्/अन्तर्धानंतुतच्छीर्षंतच्चकार्मुकमुत्तमम्/जगामरावणस्यैवनिर्याणसमनन्तरम्/राक्षसेन्द्रस्तुतैःसार्धंमन्त्रिभिर्भीमविक्रमैः/समर्थयामासतदारामकार्यविनिश्चयम्/अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः/अब्रवीत्कालसदृशोरावणोराक्षसाधिपः/शीघ्रंभेरीनिनादेनस्फुटकोणाहतेनमे/समानयध्वंसैन्यानिवक्तव्यंचनकारणम्/ततस्तथेतिप्रतिगृह्यतद्वचो॑बलाधिपास्तेमहदात्मनोबलम्/समानयंश्चैवसमागतंचते॑न्यवेदयन्भर्तरियुद्धकाङ्क्षिणि63244/सीतांतुमोहितांदृष्ट्वासरमानामराक्षसी/आससादाशुवैदेहींप्रियांप्रणयिनीसखी6331/साहितत्रकृतामित्रंसीतयारक्ष्यमाणया/रक्षन्तीरावणादिष्टासानुक्रोशादृढव्रता/साददर्शसखींसीतांसरमानष्टचेतनाम्/उपावृत्योत्थितांध्वस्तांवडवामिवपांसुषु/तांसमाश्वासयामाससखीस्नेहेनसुव्रता/उक्तायद्रावणेनत्वंप्रत्युक्तंचस्वयंत्वया/सखीस्नेहेनतद्भीरुमयासर्वंप्रतिश्रुतम्/लीनयागनहेशूह्येभयमुत्सृज्यरावणात्/तवहेतोर्विशालाक्षिनहिमेजीवितंप्रियम्/ससंभ्रान्तश्चनिष्क्रान्तोयत्कृतेराक्षसाधिपः/तच्चमेविदितंसर्वमभिनिष्क्रम्यमैथिलि/नशक्यंसौप्तिकंकर्तुंरामस्यविदितात्मनः/वधश्चपुरुषव्याघ्रेतस्मिन्नेवोपपद्यते/नचैववानराहन्तुंशक्याःपादपयोधिनः/सुरादेवर्षभेणेवरामेणहिसुरक्षिताः/दीर्घवृत्तभुजःश्रीमान्महोरस्कःप्रतापवान्/धन्वीसंहननोपेतोधर्मात्माभुविविश्रुतः/विक्रान्तोरक्षितानित्यमात्मनश्चपरस्यच/लक्ष्मणेनसहभ्रात्राकुशलीनयशास्त्रवित्/हन्तापरबलौघानामचिन्त्यबलपौरुषः/नहतोराघवःश्रीमान्सीतेशत्रुनिबर्हणः/अयुक्तबुद्धिकृत्येनसर्वभूतविरोधिना/इयंप्रयुक्तारौद्रेणमायामायाविदात्वयि/शोकस्तेविगतःसर्वःकल्याणंत्वामुपस्थितम्/ध्रुवंत्वांभजतेलक्ष्मीःप्रियंप्रीतिकरंशृणु/उत्तीर्यसागरंरामःसहवानरसेनया/संनिविष्टःसमुद्रस्यतीरमासाद्यदक्षिणम्/दृष्टोमेपरिपूर्णार्थःकाकुत्स्थःसहलक्ष्मणः/सहितैःसागरान्तस्थैर्बलैस्तिष्ठतिरक्षितः/अनेनप्रेषितायेचराक्षसालघुविक्रमः/राघवस्तीर्णइत्येवंप्रवृत्तिस्तैरिहाहृता/सतांश्रुत्वाविशालाक्षिप्रवृत्तिंराक्षसाधिपः/एषमन्त्रयतेसर्वैःसचिवैःसहरावणः/इतिब्रुवाणासरमाराक्षसीसीतयासह/सर्वोद्योगेनसैन्यानांशब्दंशुश्रावभैरवम्/दण्डनिर्घातवादिन्याःश्रुत्वाभेर्यामहास्वनम्/उवाचसरमासीतामिदंमधुरभाषिणी/संनाहजननीह्येषाभैरवाभीरुभेरिका/भेरीनादंचगम्भीरंशृणुतोयदनिस्वनम्/कल्प्यन्तेमत्तमातंगायुज्यन्तेरथवाजिनः/तत्रतत्रचसंनद्धाःसंपतन्तिपदातयः/आपूर्यन्तेराजमार्गाःसैन्यैरद्भुतदर्शनैः/वेगवद्भिर्नदद्भिश्चतोयौघैरिवसागरः/शास्त्राणांचप्रसन्नानांचर्मणांवर्मणांतथा/रथवाजिगजानांचभूषितानांचरक्षसाम्/प्रभांविसृजतांपश्यनानावर्णांसमुत्थिताम्/वनंनिर्दहतोधर्मेयथारूपंविभावसोः/घण्टानांशृणुनिर्घोषंरथानांशृणुनिस्वनम्/हयानांहेषमाणानांशृणुतूर्यध्वनिंयथा/उद्यतायुधहस्तानांराक्षसेन्द्रानुयायिनाम्/संभ्रमोरक्षसामेषतुमुलोलोमहर्षणः/श्रीस्त्वांभजतिशोकघ्नीरक्षसांभयमागतम्/रामात्कमलपत्राक्षिदैत्यानामिववासवात्/अवजित्यजितक्रोधस्तमचिन्त्यपराक्रमः/रावणंसमरेहत्वाभर्तात्वाधिगमिष्यति/विक्रमिष्यतिरक्षःसुभर्तातेसहलक्ष्मणः/यथाशत्रुषुशत्रुघ्नोविष्णुनासहवासवः/आगतस्यहिरामस्यक्षिप्रमङ्कगतांसतीम्/अहंद्रक्ष्यामिसिद्धार्थांत्वांशत्रौविनिपातिते/अश्रूण्यानन्दजानित्वंवर्तयिष्यसिशोभने/समागम्यपरिष्वक्तातस्योरसिमहोरसः/अचिरान्मोक्ष्यतेसीतेदेवितेजघनंगताम्/धृतामेतांबहून्मासान्वेणींरामोमहाबलः/तस्यदृष्ट्वामुखंदेविपूर्णचन्द्रमिवोदितम्/मोक्ष्यसेशोकजंवारिनिर्मोकमिवपन्नगी/रावणंसमरेहत्वानचिरादेवमैथिलि/त्वयासमग्रंप्रिययासुखार्होलप्स्यतेसुखम्/समागतात्वंरामेणमोदिष्यसिमहात्मना/सुवर्षेणसमायुक्तायथासस्येनमेदिनी/गिरिवरमभितोऽनुवर्तमानो॑हयइवमण्डलमाशुयःकरोति/तमिहशरणमभ्युपेहिदेवि॑दिवसकरंप्रभवोह्ययंप्रजानाम्63338/अथतांजातसंतापांतेनवाक्येनमोहिताम्/सरमाह्लादयामासपृतिवींद्यौरिवाम्भसा6341/ततस्तस्याहितंसख्याश्चिकीर्षन्तीसखीवचः/उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी/उत्सहेयमहंगत्वात्वद्वाक्यमसितेक्षणे/निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम्/नहिमेक्रममाणायानिरालम्बेविहायसि/समर्थोगतिमन्वेतुंपवनोगरुडोऽपिवा/एवंब्रुवाणांतांसीतासरमांपुनरब्रवीत्/मधुरंश्लक्ष्णयावाचापूर्वशोकाभिपन्नया/समर्थागगनंगन्तुमपिवात्वंरसातलम्/अवगच्छाम्यकर्तव्यंकर्तव्यंतेमदन्तरे/मत्प्रियंयदिकर्तव्यंयदिबुद्धिःस्थिरातव/ज्ञातुमिच्छामितंगत्वाकिंकरोतीतिरावणः/सहिमायाबलःक्रूरोरावणःशत्रुरावणः/मांमोहयतिदुष्टात्मापीतमात्रेववारुणी/तर्जापयतिमांनित्यंभर्त्सापयतिचासकृत्/राक्षसीभिःसुघोराभिर्यामांरक्षन्तिनित्यशः/उद्विग्नाशङ्किताचास्मिनचस्वस्थंमनोमम/तद्भयाच्चाहमुद्विग्नाअशोकवनिकांगताः/यदिनामकथातस्यनिश्चितंवापियद्भवेत्/निवेदयेथाःसर्वंतत्परोमेस्यादनुग्रहः/सात्वेवंब्रुवतींसीतांसरमावल्गुभाषिणी/उवाचवचनंतस्याःस्पृशन्तीबाष्पविक्लवम्/एषतेयद्यभिप्रायस्तस्माद्गच्छामिजानकि/गृह्यशत्रोरभिप्रायमुपावृत्तांचपश्यमाम्/एवमुक्त्वाततोगत्वासमीपंतस्यरक्षसः/शुश्रावकथितंतस्यरावणस्यसमन्त्रिणः/साश्रुत्वानिश्चयंतस्यनिश्चयज्ञादुरात्मनः/पुनरेवागमत्क्षिप्रमशोकवनिकांतदा/साप्रविष्टापुनस्तत्रददर्शजनकात्मजाम्/प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम्/तांतुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम्/परिष्वज्यचसुस्निग्धंददौचस्वयमासनम्/इहासीनासुखंसर्वमाख्याहिममतत्त्वतः/क्रूरस्यनिश्चयंतस्यरावणस्यदुरात्मनः/एवमुक्तातुसरमासीतयावेपमानया/कथितंसर्वमाचष्टरावणस्यसमन्त्रिणः/जनन्याराक्षसेन्द्रोवैत्वन्मोक्षार्थंबृहद्वचः/अविद्धेनचवैदेहिमन्त्रिवृद्धेनबोधितः/दीयतामभिसत्कृत्यमनुजेन्द्रायमैथिली/निदर्शनंतेपर्याप्तंजनस्थानेयदद्भुतम्/लङ्घनंचसमुद्रस्यदर्शनंचहनूमतः/वधंचरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि/एवंसमन्त्रिवृद्धैश्चमात्राचबहुभाषितः/नत्वामुत्सहतेमोक्तुमर्तह्मर्थपरोयथा/नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिलि/सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते/तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता/भयान्नशक्तस्त्वांमोक्तुमनिरस्तस्तुसंयुगे/राक्षसानांचसर्वेषामात्मनश्चवधेनहि/निहत्यरावणंसंख्येसर्वथानिशितैःशरैः/प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणे/एतस्मिन्नन्तरेशब्दोभेरीशङ्खसमाकुलः/श्रुतोवैसर्वसैन्यानांकम्पयन्धरणीतलम्/श्रुत्वातुतंवानरसैन्यशब्दं॑लङ्कागताराक्षसराजभृत्याः/नष्टौजसोदैन्यपरीतचेष्टाः॑श्रेयोनपश्यन्तिनृपस्यदोषैः63428/तेनशङ्खविमिश्रेणभेरीशब्देनराघवः/उपयतोमहाबाहूरामःपरपुरंजयः6351/तंनिनादंनिशम्याथरावणोराक्षसेश्वरः/मुहूर्तंध्यानमास्थायसचिवानभ्युदैक्षत/अथतान्सचिवांस्तत्रसर्वानाभाष्यरावणः/सभांसंनादयन्सर्वामित्युवाचमहाबलः/तरणंसागरस्यापिविक्रमंबलसंचयम्/यदुक्तवन्तोरामस्यभवन्तस्तन्मयाश्रुतम्/भवतश्चाप्यहंवेद्मियुद्धेसत्यपराक्रमान्/ततस्तुसुमहाप्राज्ञोमाल्यवान्नामराक्षसः/रावणस्यवचःश्रुत्वामातुःपैतामहोऽब्रवीत्/विद्यास्वभिविनीतोयोराजाराजन्नयानुगः/सशास्तिचिरमैश्वर्यमरींश्चकुरुतेवशे/संदधानोहिकालेनविगृह्णंश्चारिभिःसह/स्वपक्षवर्धनंकुर्वन्महदैश्वर्यमश्नुते/हीयमानेनकर्तव्योराज्ञासंधिःसमेनच/नशत्रुमवमन्येतज्यायान्कुर्वीतविग्रहम्/तन्मह्यंरोचतेसंधिःसहरामेणरावण/यदर्थमभियुक्ताःस्मसीतातस्मैप्रदीयताम्/तस्यदेवर्षयःसर्वेगन्धर्वाश्चजयैषिणः/विरोधंमागमस्तेनसंधिस्तेतेनरोचताम्/असृजद्भगवान्पक्षौद्वावेवहिपितामहः/सुराणामसुराणांचधर्माधर्मौतदाश्रयौ/धर्मोहिश्रूयतेपक्षःसुराणांचमहात्मनाम्/अधर्मोरक्षसंपक्षोह्यसुराणांचरावण/धर्मोवैग्रसतेऽधर्मंततःकृतमभूद्युगम्/अधर्मोग्रसतेधर्मंततस्तिष्यःप्रवर्तते/तत्त्वयाचरतालोकान्धर्मोविनिहतोमहान्/अधर्मःप्रगृहीतश्चतेनास्मद्बलिनःपरे/सप्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसतेहिनः/विवर्धयतिपक्षंचसुराणांसुरभावनः/विषयेषुप्रसक्तेनयत्किंचित्कारिणात्वया/ऋषीणामग्निकल्पानामुद्वेगोजनितोमहान्/तेषांप्रभावोदुर्धर्षःप्रदीप्तइवपावकः/तपसाभावितात्मानोधर्मस्यानुग्रहेरताः/मुख्यैर्यज्ञैर्यजन्त्येतेनित्यंतैस्तैर्द्विजातयः/जुह्वत्यग्नींश्चविधिवद्वेदांश्चोच्चैरधीयते/अभिभूयचरक्षांसिब्रह्मघोषानुदैरयन्/दिशोविप्रद्रुताःसर्वेस्तनयित्नुरिवोष्णगे/ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः/आदत्तेरक्षसांतेजोधूमोव्याप्यदिशोदश/तेषुतेषुचदेशेषुपुण्येषुचदृढव्रतैः/चर्यमाणंतपस्तीव्रंसंतापयतिराक्षसान्/उत्पातान्विविधान्दृष्ट्वाघोरान्बहुविधांस्तथा/विनाशमनुपश्यामिसर्वेषांरक्षसामहम्/खराभिस्तनिताघोरामेघाःप्रतिभयंकरः/शोणितेनाभिवर्षन्तिलङ्कामुष्णेनसर्वतः/रुदतांवाहनानांचप्रपतन्त्यस्रबिन्दवः/ध्वजाध्वस्ताविवर्णाश्चनप्रभान्तियथापुरम्/व्यालागोमायवोगृध्रावाशन्तिचसुभैरवम्/प्रविश्यलङ्कामनिशंसमवायांश्चकुर्वते/कालिकाःपाण्डुरैर्दन्तैःप्रहसन्त्यग्रतःस्थिताः/स्त्रियःस्वप्नेषुमुष्णन्त्योगृहाणिप्रतिभाष्यच/गृहाणांबलिकर्माणिश्वानःपर्युपभुञ्जते/खरागोषुप्रजायन्तेमूषिकानकुलैःसह/मार्जाराद्वीपिभिःसार्धंसूकराःशुनकैःसह/किंनराराक्षसैश्चापिसमेयुर्मानुषैःसह/पाण्डुरारक्तपादाश्चविहगाःकालचोदिताः/राक्षसानांविनाशायकपोताविचरन्तिच/चीकीकूचीतिवाशन्त्यःशारिकावेश्मसुस्थिताः/पतन्तिग्रथिताश्चापिनिर्जिताःकलहैषिणः/करालोविकटोमुण्डःपुरुषःकृष्णपिङ्गलः/कालोगृहाणिसर्वेषांकालेकालेऽन्ववेक्षते/एतान्यन्यानिदुष्टानिनिमित्तान्युत्पतन्तिच/विष्णुंमन्यामहेरामंमानुषंदेहमास्थितम्/नहिमानुषमात्रोऽसौराघवोदृढविक्रमः/येनबद्धःसमुद्रस्यससेतुःपरमाद्भुतः/कुरुष्वनरराजेनसंधिंरामेणरावण/इदंवचस्तत्रनिगद्यमाल्यवन्॑परीक्ष्यरक्षोऽधिपतेर्मनःपुनः/अनुत्तमेषूत्तमपौरुषोबली॑बभूवतूष्णींसमवेक्ष्यरावणम्63537/तत्तुमाल्यवतोवाक्यंहितमुक्तंदशाननः/नमर्षयतिदुष्टात्माकालस्यवशमागतः6361/सबद्ध्वाभ्रुकुटिंवक्त्रेक्रोधस्यवशमागतः/अमर्षात्परिवृत्ताक्षोमाल्यवन्तमथाब्रवीत्/हितबुद्ध्यायदहितंवचःपरुषमुच्यते/परपक्षंप्रविश्यैवनैतच्छ्रोत्रगतंमम/मानुषंकृपणंराममेकंशाखामृगाश्रयम्/समर्थंमन्यसेकेनत्यक्तंपित्रावनालयम्/रक्षसामीश्वरंमांचदेवतानांभयंकरम्/हीनंमांमन्यसेकेनअहीनंसर्वविक्रमैः/वीरद्वेषेणवाशङ्केपक्षपातेनवारिपोः/त्वयाहंपरुषाण्युक्तःपरप्रोत्साहनेनवा/प्रभवन्तंपदस्थंहिपरुषंकोऽह्बिधास्यति/पण्डितःशास्त्रतत्त्वज्ञोविनाप्रोत्साहनाद्रिपोः/आनीयचवनात्सीतांपद्महीनामिवश्रियम्/किमर्थंप्रतिदास्यामिराघवस्यभयादहम्/वृतंवानरकोटीभिःससुग्रीवंसलक्ष्मणम्/पश्यकैश्चिदहोभिस्त्वंराघवंनिहतंमया/द्वन्द्वेयस्यनतिष्ठन्तिदैवतान्यपिसंयुगे/सकस्माद्रावणोयुद्धेभयमाहारयिष्यति/द्विधाभज्येयमप्येवंननमेयंतुकस्यचित्/एषमेसहजोदोषःस्वभावोदुरतिक्रमः/यदितावत्समुद्रेतुसेतुर्बद्धोयदृच्छया/रामेणविस्मयःकोऽत्रयेनतेभयमागतम्/सतुतीर्त्वार्णवंरामःसहवानरसेनया/प्रतिजानामितेसत्यंनजीवन्प्रतियास्यति/एवंब्रुवाणंसंरब्धंरुष्टंविज्ञायरावणम्/व्रीडितोमाल्यवान्वाक्यंनोत्तरंप्रत्यपद्यत/जयाशिषाचराजानंवर्धयित्वायथोचितम्/माल्यवानभ्यनुज्ञातोजगामस्वंनिवेशनम्/रावणस्तुसहामात्योमन्त्रयित्वाविमृश्यच/लङ्कायामतुलांगुप्तिंकारयामासराक्षसः/व्यादिदेशचपूर्वस्यांप्रहस्तंद्वारिराक्षसं/दक्षिणस्यांमहावीर्यौमहापार्श्वमहोदरौ/पश्चिमायामथोद्वारिपुत्रमिन्द्रजितंतथा/व्यादिदेशमहामायंराक्षसैर्बहुभिर्वृतम्/उत्तरस्यांपुरद्वारिव्यादिश्यशुकसारणौ/स्वयंचात्रभविष्यामिमन्त्रिणस्तानुवाचह/राक्षसंतुविरूपाक्षंमहावीर्यपराक्रमम्/मध्यमेऽस्थापयद्गुल्मेबहुभिःसहराक्षसैः/एवंविधानंलङ्कायांकृत्वाराक्षसपुंगवः/मेनेकृतार्थमात्मानंकृतान्तवशमागतः/विसर्जयामासततःसमन्त्रिणो॑विधानमाज्ञाप्यपुरस्यपुष्कलम्/जयाशिषामन्त्रगणेनपूजितो॑विवेशसोऽन्तःपुरमृद्धिमन्महत्63622/नरवानरराजौतौसचवायुसुतःकपिः/जाम्बवानृक्षराजश्चराक्षसश्चविभीषणः6371/अङ्गदोवालिपुत्रश्चसौमित्रिःशरभःकपिः/सुषेणःसहदायादोमैन्दोद्विविदएवच/गजोगवाक्षोकुमुदोनलोऽथपनसस्तथा/अमित्रविषयंप्राप्ताःसमवेताःसमर्थयन्/इयंसालक्ष्यतेलङ्कापुरीरावणपालिता/सासुरोरगगन्धर्वैरमरैरपिदुर्जया/कार्यसिद्धिंपुरस्कृत्यमन्त्रयध्वंविनिर्णये/नित्यंसंनिहितोह्यत्ररावणोराक्षसाधिपः/तथातेषुब्रुवाणेषुरावणावरजोऽब्रवीत्/वाक्यमग्राम्यपदवत्पुष्कलार्थंविभीषणः/अनलःशरभश्चैवसंपातिःप्रघसस्तथा/गत्वालङ्कांममामात्याःपुरींपुनरिहागताः/भूत्वाशकुनयःसर्वेप्रविष्टाश्चरिपोर्बलम्/विधानंविहितंयच्चतद्दृष्ट्वासमुपस्थिताः/संविधानंयथाहुस्तेरावणस्यदुरात्मनः/रामतद्ब्रुवतःसर्वंयथातथ्येनमेशृणु/पूर्वंप्रहस्तःसबलोद्वारमासाद्यतिष्ठति/दक्षिणंचमहावीर्यौमहापार्श्वमहोदरौ/इन्द्रजित्पश्चिमद्वारंराक्षसैर्बहुभिर्वृतः/पट्टसासिधनुष्मद्भिःशूलमुद्गरपाणिभिः/नानाप्रहरणैःशूरैरावृतोरावणात्मजः/राक्षसानांसहस्रैस्तुबहुभिःशस्त्रपाणिभिः/युक्तःपरमसंविग्नोराक्षसैर्बहुभिर्वृतः/उत्तरंनगरद्वारंरावणःस्वयमास्थितः/विरूपाक्षस्तुमहताशूलखड्गधनुष्मता/बलेनराक्षसैःसार्धंमध्यमंगुल्ममास्थितः/एतानेवंविधान्गुल्मांल्लङ्कायांसमुदीक्ष्यते/मामकाःसचिवाःसर्वेशीघ्रंपुनरिहागताः/गजानांचसहस्रंचरथानामयुतंपुरे/हयानामयुतेद्वेचसाग्रकोटीचरक्षसाम्/विक्रान्ताबलवन्तश्चसंयुगेष्वाततायिनः/इष्टाराक्षसराजस्यनित्यमेतेनिशाचराः/एकैकस्यात्रयुद्धार्थेराक्षसस्यविशांपते/परिवारःसहस्राणांसहस्रमुपतिष्ठते/एतांप्रवृत्तिंलङ्कायांमन्त्रिप्रोक्तंविभीषणः/रामंकमलपत्राक्षमिदमुत्तरमब्रवीत्/कुबेरंतुयदारामरावणःप्रत्ययुध्यत/षष्टिःशतसहस्राणितदानिर्यान्तिराक्षसाः/पराक्रमेणवीर्येणतेजसासत्त्वगौरवात्/सदृशायोऽत्रदर्पेणरावणस्यदुरात्मनः/अत्रमन्युर्नकर्तव्योरोषयेत्वांनभीषये/समर्थोह्यसिवीर्येणसुराणामपिनिग्रहे/तद्भवांश्चतुरङ्गेणबलेनमहतावृतः/व्यूह्येदंवानरानीकंनिर्मथिष्यसिरावणम्/रावणावरजेवाक्यमेवंब्रुवतिराघवः/शत्रूणांप्रतिघातार्थमिदंवचनमब्रवीत्/पूर्वद्वारेतुलङ्कायानीलोवानरपुंगवः/प्रहस्तंप्रतियोद्धास्याद्वानरैर्बहुभिर्वृतः/अङ्गदोवालिपुत्रस्तुबलेनमहतावृतः/दक्षिणेबाधतांद्वारेमहापार्श्वमहोदरौ/हनूमान्पश्चिमद्वारंनिपीड्यपवनात्मजः/प्रविशत्वप्रमेयात्माबहुभिःकपिभिर्वृतः/दैत्यदानवसंघानामृषीणांचमहात्मनाम्/विप्रकारप्रियःक्षुद्रोवरदानबलान्वितः/परिक्रामतियःसर्वांल्लोकान्संतापयन्प्रजाः/तस्याहंराक्षसेन्द्रस्यस्वयमेववधेधृतः/उत्तरंनगरद्वारमहंसौमित्रिणासह/निपीड्याभिप्रवेक्ष्यामिसबलोयत्ररावणः/वानरेन्द्रश्चबलवानृक्षराजश्चजाम्बवान्/राक्षसेन्द्रानुजश्चैवगुल्मेभवतुमध्यमे/नचैवमानुषंरूपंकार्यंहरिभिराहवे/एषाभवतुनःसंज्ञायुद्धेऽस्मिन्वानरेबले/वानराएवनिश्चिह्नंस्वजनेऽस्मिन्भविष्यति/वयंतुमानुषेणैवसप्तयोत्स्यामहेपरान्/अहमेवसहभ्रात्रालक्ष्मणेनमहौजसा/आत्मनापञ्चमश्चायंसखाममविभीषणः/सरामःकार्यसिद्ध्यर्थमेवमुक्त्वाविभीषणम्/सुवेलारोहणेबुद्धिंचकारमतिमान्मतिम्/ततस्तुरामोमहताबलेन॑प्रच्छाद्यसर्वांपृथिवींमहात्मा/प्रहृष्टरूपोऽभिजगामलङ्कां॑कृत्वामतिंसोऽरिवधेमहात्मा63737/सतुकृत्वासुवेलस्यमतिमारोहणंप्रति/लक्ष्मणानुगतोरामःसुग्रीवमिदमब्रवीत्6381/विभीषणंचधर्मज्ञमनुरक्तंनिशाचरम्/मन्त्रज्ञंचविधिज्ञंचश्लक्ष्णयापरयागिरा/सुवेलंसाधुशैलेन्द्रमिमंधातुशतैश्चितम्/अध्यारोहामहेसर्वेवत्स्यामोऽत्रनिशामिमाम्/लङ्कांचालोकयिष्यामोनिलयंतस्यरक्षसः/येनमेमरणान्तायहृताभार्यादुरात्मना/येनधर्मोनविज्ञातोनवृत्तंनकुलंतथा/राक्षस्यानीचयाबुद्ध्यायेनतद्गर्हितंकृतम्/यस्मिन्मेवर्धतेरोषःकीर्तितेराक्षसाधमे/यस्यापराधान्नीचस्यवधंद्रक्ष्यामिरक्षसाम्/एकोहिकुरुतेपापंकालपाशवशंगतः/नीचेनात्मापचारेणकुलंतेनविनश्यति/एवंसंमन्त्रयन्नेवसक्रोधोरावणंप्रति/रामःसुवेलंवासायचित्रसानुमुपारुहत्/पृष्ठतोलक्ष्मणचैनमन्वगच्छत्समाहितः/सशरंचापमुद्यम्यसुमहद्विक्रमेरतः/तमन्वरोहत्सुग्रीवःसामात्यःसविभीषणः/हनूमानङ्गदोनीलोमैन्दोद्विविदएवच/गजोगवाक्षोगवयःशरभोगन्धमादनः/पनसःकुमुदश्चैवहरोरम्भश्चयूथपः/एतेचान्येचबहवोवानराःशीघ्रगामिनः/तेवायुवेगप्रवणास्तंगिरिंगिरिचारिणः/अध्यारोहन्तशतशःसुवेलंयत्रराघवः/तेत्वदीर्घेणकालेनगिरिमारुह्यसर्वतः/ददृशुःशिखरेतस्यविषक्तामिवखेपुरीम्/तांशुभांप्रवरद्वारांप्राकारवरशोभिताम्/लङ्कांराक्षससंपूर्णांददृशुर्हरियूथपाः/प्राकारचयसंस्थैश्चतथानीलैर्निशाचरैः/ददृशुस्तेहरिश्रेष्ठाःप्राकारमपरंकृतम्/तेदृष्ट्वावानराःसर्वेराक्षसान्युद्धकाङ्क्षिणः/मुमुचुर्विपुलान्नादांस्तत्ररामस्यपश्यतः/ततोऽस्तमगमत्सूर्यःसंध्ययाप्रतिरञ्जितः/पूर्णचन्द्रप्रदीपाचक्षपासमभिवर्तते/ततःसरामोहरिवाहिनीपतिर्॑विभीषणेनप्रतिनन्द्यसत्कृतः/सलक्ष्मणोयूथपयूथसंवृतः॑सुवेलपृष्ठेन्यवसद्यथासुखम्63820/तांरात्रिमुषितास्तत्रसुवेलेहरिपुंगवाः/लङ्कायांददृशुर्वीरावनान्युपवनानिच6391/समसौम्यानिरम्याणिविशालान्यायतानिच/दृष्टिरम्याणितेदृष्ट्वाबभूवुर्जातविस्मयाः/चम्पकाशोकपुंनागसालतालसमाकुला/तमालवनसंछन्नानागमालासमावृता/हिन्तालैरर्जुनैर्नीपैःसप्तपर्णैश्चपुष्पितैः/तिलकैःकर्णिकारैश्चपटालैश्चसमन्ततः/शुशुभेपुष्पिताग्रैश्चलतापरिगतैर्द्रुमैः/लङ्काबहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती/विचित्रकुसुमोपेतैरक्तकोमलपल्लवैः/शाद्वलैश्चतथानीलैश्चित्राभिर्वनराजिभिः/गन्धाढ्यान्यभिरम्याणिपुष्पाणिचफलानिच/धारयन्त्यगमास्तत्रभूषणानीवमानवाः/तच्चैत्ररथसंकाशंमनोज्ञंनन्दनोपमम्/वनंसर्वर्तुकंरम्यंशुशुभेषट्पदायुतम्/नत्यूहकोयष्टिभकैर्नृत्यमानैश्चबर्हिभिः/रुतंपरभृतानांचशुश्रुवेवननिर्झरे/नित्यमत्तविहंगानिभ्रमराचरितानिच/कोकिलाकुलषण्डानिविहगाभिरुतानिच/भृङ्गराजाभिगीतानिभ्रमरैःसेवितानिच/कोणालकविघुष्टानिसारसाभिरुतानिच/विविशुस्तेततस्तानिवनान्युपवनानिच/हृष्टाःप्रमुदितावीराहरयःकामरूपिणः/तेषांप्रविशतांतत्रवानराणांमहौजसाम्/पुष्पसंसर्गसुरभिर्ववौघ्राणसुखोऽनिलः/अन्येतुहरिवीराणांयूथान्निष्क्रम्ययूथपाः/सुग्रीवेणाभ्यनुज्ञातालङ्कांजग्मुःपताकिनीम्/वित्रासयन्तोविहगांस्त्रासयन्तोमृगद्विपान्/कम्पयन्तश्चतांलङ्कांनादैःस्वैर्नदतांवराः/कुर्वन्तस्तेमहावेगामहींचारणपीडिताम्/रजश्चसहसैवोर्ध्वंजगामचरणोद्धतम्/ऋक्षाःसिंहावराहाश्चमहिषावारणामृगाः/तेनशब्देनवित्रस्ताजग्मुर्भीतादिशोदश/शिखरंतुत्रिकूटस्यप्रांशुचैकंदिविस्पृशम्/समन्तात्पुष्पसंछन्नंमहारजतसंनिभम्/शतयोजनविस्तीर्णंविमलंचारुदर्शनम्/श्लक्ष्णंश्रीमन्महच्चैवदुष्प्रापंशकुनैरपि/मनसापिदुरारोहंकिंपुनःकर्मणाजनैः/निविष्टातत्रशिखरेलङ्कारावणपालिता/सापुरीगोपुरैरुच्चैःपाण्डुराम्बुदसंनिभैः/काञ्चनेनचसालेनराजतेनचशोभिता/प्रासादैश्चविमानैश्चलङ्कापरमभूषिता/घनैरिवातपापायेमध्यमंवैष्णवंपदम्/यस्यांस्तम्भसहस्रेणप्रासादःसमलंकृतः/कैलासशिखराकारोदृश्यतेखमिवोल्लिखन्/चैत्यःसराक्षसेन्द्रस्यबभूवपुरभूषणम्/शतेनरक्षसांनित्यंयःसमग्रेणरक्ष्यते/तांसमृद्धांसमृद्धार्थोलक्ष्मीवांल्लक्ष्मणाग्रजः/रावणस्यपुरींरामोददर्शसहवानरैः/तांरत्नपूर्णांबहुसंविधानां॑प्रासादमालाभिरलंकृतांच/पुरींमहायन्त्रकवाटमुख्यां॑ददर्शरामोमहताबलेन63928/अथतस्मिन्निमित्तानिदृष्ट्वालक्ष्मणपूर्वजः/लक्ष्मणंलक्ष्मिसंपन्नमिदंवचनमब्रवीत्6411/परिगृह्योदकंशीतंवनानिफलवन्तिच/बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण/लोकक्षयकरंभीमंभयंपश्याम्युपस्थितम्/निबर्हणंप्रवीराणामृक्षवानररक्षसाम्/वाताश्चपरुषंवान्तिकम्पतेचवसुंधरा/पर्वताग्राणिवेपन्तेपतन्तिधरणीधराः/मेघाःक्रव्यादसंकाशाःपरुषाःपरुषस्वनाः/क्रूराःक्रूरंप्रवर्षन्तिमिश्रंशोणितबिन्दुभिः/रक्तचन्दनसंकाशासंध्यापरमदारुणा/ज्वलच्चनिपतत्येतदादित्यादग्निमण्डलम्/आदित्यमभिवाश्यन्तेजनयन्तोमहद्भयम्/दीनादीनस्वराघोराअप्रशस्तामृगद्विजाः/रजन्यामप्रकाशश्चसंतापयतिचन्द्रमाः/कृष्णरक्तांशुपर्यन्तोयथालोकस्यसंक्षये/ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषःसुलोहितः/आदित्यमण्डलेनीलंलक्ष्मलक्ष्मणदृश्यते/दृश्यन्तेनयथावच्चनक्षत्राण्यभिवर्तते/युगान्तमिवलोकस्यपश्यलक्ष्मणशंसति/काकाःश्येनास्तथागृध्रानीचैःपरिपतन्तिच/शिवाश्चाप्यशिवावाचःप्रवदन्तिमहास्वनाः/क्षिप्रमद्यदुराधर्षांपुरींरावणपालिताम्/अभियामजवेनैवसर्वतोहरिभिर्वृताः/इत्येवंतुवदन्वीरोलक्ष्मणंलक्ष्मणाग्रजः/तस्मादवातरच्छीघ्रंपर्वताग्रान्महाबलः/अवतीर्यतुधर्मात्मातस्माच्छैलात्सराघवः/परैःपरमदुर्धर्षंददर्शबलमात्मनः/संनह्यतुससुग्रीवःकपिराजबलंमहत्/कालज्ञोराघवःकालेसंयुगायाभ्यचोदयत्/ततःकालेमहाबाहुर्बलेनमहतावृतः/प्रस्थितःपुरतोधन्वीलङ्कामभिमुखःपुरीम्/तंविभीषणसुग्रीवौहनूमाञ्जाम्बवान्नलः/ऋक्षराजस्तथानीलोलक्ष्मणश्चान्ययुस्तदा/ततःपश्चात्सुमहतीपृतनर्क्षवनौकसाम्/प्रच्छाद्यमहतींभूमिमनुयातिस्मराघवम्/शैलशृङ्गाणिशतशःप्रवृद्धांश्चमहीरुहाम्/जगृहुःकुञ्जरप्रख्यावानराःपरवारणाः/तौत्वदीर्घेणकालेनभ्रातरौरामलक्ष्मणौ/रावणस्यपुरींलङ्कामासेदतुररिंदमौ/पताकामालिनींरम्यामुद्यानवनशोभिताम्/चित्रवप्रांसुदुष्प्रापामुच्चप्राकारतोरणाम्/तांसुरैरपिदुर्धर्षांरामवाक्यप्रचोदिताः/यथानिदेशंसंपीड्यन्यविशन्तवनौकसः/लङ्कायास्तूत्तरद्वारंशैलशृङ्गमिवोन्नतम्/रामःसहानुजोधन्वीजुगोपचरुरोधच/लङ्कामुपनिविष्टश्चरामोदशरथात्मजः/लक्ष्मणानुचरोवीरःपुरींरावणपालिताम्/उत्तरद्वारमासाद्ययत्रतिष्ठतिरावणः/नान्योरामाद्धितद्द्वारंसमर्थःपरिरक्षितुम्/रावणाधिष्ठितंभीमंवरुणेनेवसागरम्/सायुधौराक्षसैर्भीमैरभिगुप्तंसमन्ततः/लघूनांत्रासजननंपातालमिवदानवैः/विन्यस्तानिचयोधानांबहूनिविविधानिच/ददर्शायुधजालानितथैवकवचानिच/पूर्वंतुद्वारमासाद्यनीलोहरिचमूपतिः/अतिष्ठत्सहमैन्देनद्विविदेनचवीर्यवान्/अङ्गदोदक्षिणद्वारंजग्राहसुमहाबलः/ऋषभेणगवाक्षेणगजेनगवयेनच/हनूमान्पश्चिमद्वारंररक्षबलवान्कपिः/प्रमाथिप्रघसाभ्यांचवीरैरन्यैश्चसंगतः/मध्यमेचस्वयंगुल्मेसुग्रीवःसमतिष्ठत/सहसर्वैर्हरिश्रेष्ठैःसुपर्णश्वसनोपमैः/वानराणांतुषट्त्रिंशत्कोट्यःप्रख्यातयूथपाः/निपीड्योपनिविष्टाश्चसुग्रीवोयत्रवानरः/शासनेनतुरामस्यलक्ष्मणःसविभीषणः/द्वारेद्वारेहरीणांतुकोटिंकोटिंन्यवेशयत्/पश्चिमेनतुरामस्यसुग्रीवःसहजाम्बवान्/अदूरान्मध्यमेगुल्मेतस्थौबहुबलानुगः/तेतुवानरशार्दूलाःशार्दूलाइवदंष्ट्रिणः/गृहीत्वाद्रुमशैलाग्रान्हृष्टायुद्धायतस्थिरे/सर्वेविकृतलाङ्गूलाःसर्वेदंष्ट्रानखायुधाः/सर्वेविकृतचित्राङ्गाःसर्वेचविकृताननाः/दशनागबलाःकेचित्केचिद्दशगुणोत्तराः/केचिन्नागसहस्रस्यबभूवुस्तुल्यविक्रमाः/सन्तिचौघाबलाःकेचित्केचिच्छतगुणोत्तराः/अप्रमेयबलाश्चान्येतत्रासन्हरियूथपाः/अद्भुतश्चविचित्रश्चतेषामासीत्समागमः/तत्रवानरसैन्यानांशलभानामिवोद्गमः/परिपूर्णमिवाकाशंसंछन्नेवचमेदिनी/लङ्कामुपनिविष्टैश्चसंपतद्भिश्चवानरैः/शतंशतसहस्राणांपृथगृक्षवनौकसाम्/लङ्काद्वाराण्युपाजग्मुरन्येयोद्धुंसमन्ततः/आवृतःसगिरिःसर्वैस्तैःसमन्तात्प्लवंगमैः/अयुतानांसहस्रंचपुरींतामभ्यवर्तत/वानरैर्बलवद्भिश्चबभूवद्रुमपाणिभिः/सर्वतःसंवृतालङ्कादुष्प्रवेशापिवायुना/राक्षसाविस्मयंजग्मुःसहसाभिनिपीडिताः/वानरैर्मेघसंकाशैःशक्रतुल्यपराक्रमैः/महाञ्शब्दोऽभवत्तत्रबलौघस्याभिवर्ततः/सागरस्येवभिन्नस्ययथास्यात्सलिलस्वनः/तेनशब्देनमहतासप्राकारासतोरणा/लङ्काप्रचलितासर्वासशैलवनकानना/रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी/बभूवदुर्धर्षतरासर्वैरपिसुरासुरैः/राघवःसंनिवेश्यैवंसैन्यंस्वंरक्षसांवधे/संमन्त्र्यमन्त्रिभिःसार्धंनिश्चित्यचपुनःपुनः/आनन्तर्यमभिप्रेप्सुःक्रमयोगार्थतत्त्ववित्/विभीषणस्यानुमतेराजधर्ममनुस्मरन्/अङ्गदंवालितनयंसमाहूयेदमब्रवीत्/गत्वासौम्यदशग्रीवंब्रूहिमद्वचनात्कपे/लङ्घयित्वापुरींलङ्कांभयंत्यक्त्वागतव्यथः/भ्रष्टश्रीकगतैश्वर्यमुमूर्षोनष्टचेतनः/ऋषीणांदेवतानांचगन्धर्वाप्सरसांतथा/नागानामथयक्षाणांराज्ञांचरजनीचर/यच्चपापंकृतंमोहादवलिप्तेनराक्षस/नूनमद्यगतोदर्पःस्वयम्भूवरदानजः/यस्यदण्डधरस्तेऽहंदाराहरणकर्शितः/दण्डंधारयमाणस्तुलङ्काद्वरेव्यवस्थितः/पदवींदेवतानांचमहर्षीणांचराक्षस/राजर्षीणांचसर्वेणांगमिष्यसिमयाहतः/बलेनयेनवैसीतांमाययाराक्षसाधम/मामतिक्रामयित्वात्वंहृतवांस्तद्विदर्शय/अराक्षसमिमंलोकंकर्तास्मिनिशितैःशरैः/नचेच्छरणमभ्येषिमामुपादायमैथिलीम्/धर्मात्मारक्षसांश्रेष्ठःसंप्राप्तोऽयंविभीषणः/लङ्कैश्वर्यंध्रुवंश्रीमानयंप्राप्नोत्यकण्टकम्/नहिराज्यमधर्मेणभोक्तुंक्षणमपित्वया/शक्यंमूर्खसहायेनपापेनाविजितात्मना/युध्यस्ववाधृतिंकृत्वाशौर्यमालम्ब्यराक्षस/मच्छरैस्त्वंरणेशान्तस्ततःपूतोभविष्यसि/यद्याविशसिलोकांस्त्रीन्पक्षिभूतोमनोजवः/ममचक्षुष्पथंप्राप्यनजीवन्प्रतियास्यसि/ब्रवीमित्वांहितंवाक्यंक्रियतामौर्ध्वदेकिकम्/सुदृष्टाक्रियतांलङ्काजीवितंतेमयिस्थितम्/इत्युक्तःसतुतारेयोरामेणाक्लिष्टकर्मणा/जगामाकाशमाविश्यमूर्तिमानिवहव्यवाट्/सोऽतिपत्यमुहूर्तेनश्रीमान्रावणमन्दिरम्/ददर्शासीनमव्यग्रंरावणंसचिवैःसह/ततस्तस्याविदूरेणनिपत्यहरिपुंगवः/दीप्ताग्निसदृशस्तस्थावङ्गदःकनकाङ्गदः/तद्रामवचनंसर्वमन्यूनाधिकमुत्तमम्/सामात्यंश्रावयामासनिवेद्यात्मानमात्मना/दूतोऽहंकोसलेन्द्रस्यरामस्याक्लिष्टकर्मणः/वालिपुत्रोऽङ्गदोनामयदितेश्रोत्रमागतः/आहत्वांराघवोरामःकौसल्यानन्दवर्धनः/निष्पत्यप्रतियुध्यस्वनृशंसंपुरुषाधम/हन्तास्मित्वांसहामात्यंसपुत्रज्ञातिबान्धवम्/निरुद्विग्नास्त्रयोलोकाभविष्यन्तिहतेत्वयि/देवदानवयक्षाणांगन्धर्वोरगरक्षसाम्/शत्रुमद्योद्धरिष्यामित्वामृषीणांचकण्टकम्/विभीषणस्यचैश्वर्यंभविष्यतिहतेत्वयि/नचेत्सत्कृत्यवैदेहींप्रणिपत्यप्रदास्यसि/इत्येवंपरुषंवाक्यंब्रुवाणेहरिपुंगवे/अमर्षवशमापन्नोनिशाचरगणेश्वरः/ततःसरोषताम्राक्षःशशाससचिवांस्तदा/गृह्यतामेषदुर्मेधावध्यतामितिचासकृत्/रावणस्यवचःश्रुत्वादीप्ताग्निसमतेजसः/जगृहुस्तंततोघोराश्चत्वारोरजनीचराः/ग्राहयामासतारेयःस्वयमात्मानमात्मना/बलंदर्शयितुंवीरोयातुधानगणेतदा/सतान्बाहुद्वयेसक्तानादायपतगानिव/प्रासादंशैलसंकाशमुत्पापाताङ्गदस्तदा/तेऽन्तरिक्षाद्विनिर्धूतास्तस्यवेगेनराक्षसाः/भुमौनिपतिताःसर्वेराक्षसेन्द्रस्यपश्यतः/ततःप्रासादशिखरंशैलशृङ्गमिवोन्नतम्/तत्पफालतदाक्रान्तंदशग्रीवस्यपश्यतः/भङ्क्त्वाप्रासादशिखरंनामविश्राव्यचात्मनः/विनद्यसुमहानादमुत्पपातविहायसा/रावणस्तुपरंचक्रेक्रोधंप्रासादधर्षणात्/विनाशंचात्मनःपश्यन्निःश्वासपरमोऽभवत्/रामस्तुबहुभिर्हृष्टैर्निनदद्भिःप्लवंगमैः/वृतोरिपुवधाकाङ्क्षीयुद्धायैवाभ्यवर्तत/सुषेणस्तुमहावीर्योगिरिकूटोपमोहरिः/बहुभिःसंवृतस्तत्रवानरैःकामरूपिभिः/चतुर्द्वाराणिसर्वाणिसुग्रीववचनात्कपिः/पर्याक्रमतदुर्धर्षोनक्षत्राणीवचन्द्रमाः/तेषामक्षौहिणिशतंसमवेक्ष्यवनौकसाम्/लङ्कामुपनिविष्टानांसागरंचातिवर्तताम्/राक्षसाविस्मयंजग्मुस्त्रासंजग्मुस्तथापरे/अपरेसमरोद्धर्षाद्धर्षमेवोपपेदिरे/कृत्स्नंहिकपिभिर्व्याप्तंप्राकारपरिखान्तरम्/ददृशूराक्षसादीनाःप्राकारंवानरीकृतम्/तस्मिन्महाभीषणकेप्रवृत्ते॑कोलाहलेराक्षसराजधान्याम्/प्रगृह्यरक्षांसिमहायुधानि॑युगान्तवाताइवसंविचेरुः64199/ततस्तेराक्षसास्तत्रगत्वारावणमन्दिरम्/न्यवेदयन्पुरींरुद्धांरामेणसहवानरैः6421/रुद्धांतुनगरींश्रुत्वाजातक्रोधोनिशाचरः/विधानंद्विगुणंश्रुत्वाप्रासादंसोऽध्यरोहत/सददर्शावृतांलङ्कांसशैलवनकाननाम्/असंख्येयैर्हरिगणैःसर्वतोयुद्धकाङ्क्षिभिः/सदृष्ट्वावानरैःसर्वांवसुधांकवलीकृताम्/कथंक्षपयितव्याःस्युरितिचिन्तापरोऽभवत्/सचिन्तयित्वासुचिरंधैर्यमालम्ब्यरावणः/राघवंहरियूथांश्चददर्शायतलोचनः/प्रेक्षतोराक्षसेन्द्रस्यतान्यनीकानिभागशः/राघवप्रियकामार्थंलङ्कामारुरुहुस्तदा/तेताम्रवक्त्राहेमाभारामार्थेत्यक्तजीविताः/लङ्कामेवाह्यवर्तन्तसालतालशिलायुधाः/तेद्रुमैःपर्वताग्रैश्चमुष्टिभिश्चप्लवंगमाः/प्रासादाग्राणिचोच्चानिममन्तुस्तोरणानिच/पारिखाःपूरयन्तिस्मप्रसन्नसलिलायुताः/पांसुभिःपर्वताग्रैश्चतृणैःकाष्ठैश्चवानराः/ततःसहस्रयूथाश्चकोटियूथाश्चयूथपाः/कोटीशतयुताश्चान्येलङ्कामारुरुहुस्तदा/काञ्चनानिप्रमृद्नन्तस्तोरणानिप्लवंगमाः/कैलासशिखराभानिगोपुराणिप्रमथ्यच/आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवंगमाः/लङ्कांतामभ्यवर्तन्तमहावारणसंनिभाः/जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः/राजाजयतिसुग्रीवोराघवेणाभिपालितः/इत्येवंघोषयन्तश्चगर्जन्तश्चप्लवंगमाः/अभ्यधावन्तलङ्कायाःप्राकारंकामरूपिणः/वीरबाहुःसुबाहुश्चनलश्चवनगोचरः/निपीड्योपनिविष्टास्तेप्राकारंहरियूथपाः/एतस्मिन्नन्तरेचक्रुःस्कन्धावारनिवेशनम्/पूर्वद्वारंतुकुमुदःकोटिभिर्दशभिर्वृतः/आवृत्यबलवांस्तस्थौहरिभिर्जितकाशिभिः/दक्षिणद्वारमागम्यवीरःशतबलिःकपिः/आवृत्यबलवांस्तस्थौविंशत्याकोटिभिर्वृतः/सुषेणःपश्चिमद्वारंगतस्तारापिताहरिः/आवृत्यबलवांस्तस्थौषष्टिकोटिभिरावृतः/उत्तरद्वारमासाद्यरामःसौमित्रिणासह/आवृत्यबलवांस्तस्थौसुग्रीवश्चहरीश्वरः/गोलाङ्गूलोमहाकायोगवाक्षोभीमदर्शनः/वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्वतः/ऋष्काणांभीमवेगानांधूम्रःशत्रुनिबर्हणः/वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः/संनद्धस्तुमहावीर्योगदापाणिर्विभीषणः/वृतोयस्तैस्तुसचिवैस्तस्थौतत्रमहाबलः/गजोगवाक्षोगवयःशरभोगन्धमादनः/समन्तात्परिघावन्तोररक्षुर्हरिवाहिनीम्/ततःकोपपरीतात्मारावणोराक्षसेश्वरः/निर्याणंसर्वसैन्यानांद्रुतमाज्ञापयत्तदा/निष्पतन्तिततःसैन्याहृष्टारावणचोदिताः/समयेपूर्यमाणस्यवेगाइवमहोदधेः/एतस्मिन्नन्तरेघोरःसंग्रामःसमपद्यत/रक्षसांवानराणांचयथादेवासुरेपुरा/तेगदाभिःप्रदीप्ताभिःशक्तिशूलपरश्वधैः/निजघ्नुर्वानरान्घोराःकथयन्तःस्वविक्रमान्/तथावृक्षैर्महाकायाःपर्वताग्रैश्चवानराः/राक्षसास्तानिरक्षांसिनखैर्दन्तैश्चवेगिताः/राक्षसास्त्वपरेभीमाःप्राकारस्थामहीगतान्/भिण्डिपालैश्चखड्गैश्चशूलैश्चैवव्यदारयन्/वानराश्चापिसंक्रुद्धाःप्राकारस्थान्महीगताः/राक्षसान्पातयामासुःसमाप्लुत्यप्लवंगमाः/ससंप्रहारस्तुमुलोमांसशोणितकर्दमः/रक्षसांवानराणांचसंबभूवाद्भुतोपमाः64247/युध्यतांतुततस्तेषांवानराणांमहात्मनाम्/रक्षसांसंबभूवाथबलकोपःसुदारुणः6431/तेहयैःकाञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः/रथैश्चादित्यसंकाशैःकवचैश्चमनोरमैः/निर्ययूराक्षसव्याघ्रानादयन्तोदिशोदश/राक्षसाभीमकर्माणोरावणस्यजयैषिणः/वानराणामपिचमूर्महतीजयमिच्चताम्/अभ्यधावततांसेनांरक्षसांकामरूपिणाम्/एतस्मिन्नन्तरेतेषामन्योन्यमभिधावताम्/रक्षसांवानराणांचद्वन्द्वयुद्धमवर्तत/अङ्गदेनेन्द्रजित्सार्धंवालिपुत्रेणराक्षसः/अयुध्यतमहातेजास्त्र्यम्बकेणयथान्धकः/प्रजङ्घेनचसंपातिर्नित्यंदुर्मर्षणोरणे/जम्बूमालिनमारब्धोहनूमानपिवानरः/संगतःसुमहाक्रोधोराक्षसोरावणानुजः/समरेतीक्ष्णवेगेनमित्रघ्नेनविभीषणः/तपनेनगजःसार्धंराक्षसेनमहाबलः/निकुम्भेनमहातेजानीलोऽपिसमयुध्यत/वानरेन्द्रस्तुसुग्रीवःप्रघसेनसमागतः/संगतःसमरेश्रीमान्विरूपाक्षेणलक्ष्मणः/अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः/सुप्तघ्नोयज्ञकोपश्चरामेणसहसंगताः/वज्रमुष्टिस्तुमैन्देनद्विविदेनाशनिप्रभः/राक्षसाभ्यांसुघोराभ्यांकपिमुख्यौसमागतौ/वीरःप्रतपनोघोरोराक्षसोरणदुर्धरः/समरेतीक्ष्णवेगेननलेनसमयुध्यत/धर्मस्यपुत्रोबलवान्सुषेणइतिविश्रुतः/सविद्युन्मालिनासार्धमयुध्यतमहाकपिः/वानराश्चापरेभीमाराक्षसैरपरैःसह/द्वन्द्वंसमीयुर्बहुधायुद्धायबहुभिःसह/तत्रासीत्सुमहद्युद्धंतुमुलंलोमहर्षणम्/रक्षसांवानराणांचवीराणांजयमिच्छताम्/हरिराक्षसदेहेभ्यःप्रसृताःकेशशाड्वलाः/शरीरसंघाटवहाःप्रसुस्रुःशोणितापगाः/आजघानेन्द्रजित्क्रुद्धोवज्रेणेवशतक्रतुः/अङ्गदंगदयावीरंशत्रुसैन्यविदारणम्/तस्यकाञ्चनचित्राङ्गंरथंसाश्वंससारथिम्/जघानसमरेश्रीमानङ्गदोवेगवान्कपिः/संपातिस्तुत्रिभिर्बाणैःप्रजङ्घेनसमाहतः/निजघानाश्वकर्णेनप्रजङ्घंरणमूर्धनि/जम्बूमालीरथस्थस्तुरथशक्त्यामहाबलः/बिभेदसमरेक्रुद्धोहनूमन्तंस्तनान्तरे/तस्यतंरथमास्थायहनूमान्मारुतात्मजः/प्रममाथतलेनाशुसहतेनैवरक्षसा/भिन्नगात्रःशरैस्तीक्ष्णैःक्षिप्रहस्तेनरक्षसा/प्रजघानाद्रिशृङ्गेणतपनंमुष्टिनागजः/ग्रसन्तमिवसैन्यानिप्रघसंवानराधिपः/सुग्रीवःसप्तपर्णेननिर्बिभेदजघानच/प्रपीड्यशरवर्षेणराक्षसंभीमदर्शनम्/निजघानविरूपाक्षंशरेणैकेनलक्ष्मणः/अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः/सुप्तिघ्नोयज्ञकोपश्चरामंनिर्बिभिदुःशरैः/तेषांचतुर्णांरामस्तुशिरांसिसमरेशरैः/क्रुद्धश्चतुर्भिश्चिच्छेदघोरैरग्निशिखोपमैः/वज्रमुष्टिस्तुमैन्देनमुष्टिनानिहतोरणे/पपातसरथःसाश्वःपुराट्टइवभूतले/वज्राशनिसमस्पर्शोद्विविदोऽप्यशनिप्रभम्/जघानगिरिशृङ्गेणमिषतांसर्वरक्षसाम्/द्विविदंवानरेन्द्रंतुद्रुमयोधिनमाहवे/शरैरशनिसंकाशैःसविव्याधाशनिप्रभः/सशरैरतिविद्धाङ्गोद्विविदःक्रोधमूर्छितः/सालेनसरथंसाश्वंनिजघानाशनिप्रभम्/निकुम्भस्तुरणेनीलंनीलाञ्जनचयप्रभम्/निर्बिभेदशरैस्तीक्ष्णैःकरैर्मेघमिवांशुमान्/पुनःशरशतेनाथक्षिप्रहस्तोनिशाचरः/बिभेदसमरेनीलंनिकुम्भःप्रजहासच/तस्यैवरथचक्रेणनीलोविष्णुरिवाहवे/शिरश्चिच्छेदसमरेनिकुम्भस्यचसारथेः/विद्युन्मालीरथस्थस्तुशरैःकाञ्चनभूषणैः/सुषेणंताडयामासननादचमुहुर्मुहुः/तंरथस्थमथोदृष्ट्वासुषेणोवानरोत्तमः/गिरिशृङ्गेणमहतारथमाशुन्यपातयत्/लाघवेनतुसंयुक्तोविद्युन्मालीनिशाचरः/अपक्रम्यरथात्तूर्णंगदापाणिःक्षितौस्थितः/ततःक्रोधसमाविष्टःसुषेणोहरिपुंगवः/शिलांसुमहतींगृह्यनिशाचरमभिद्रवत्/तमापतन्तंगदयाविद्युन्मालीनिशाचरः/वक्षस्यभिजग्नानाशुसुषेणंहरिसत्तमम्/गदाप्रहारंतंघोरमचिन्त्यप्लवगोत्तमः/तांशिलांपातयामासतस्योरसिमहामृधे/शिलाप्रहाराभिहतोविद्युन्मालीनिशाचरः/निष्पिष्टहृदयोभूमौगतासुर्निपपातह/एवंतैर्वानरैःशूरैःशूरास्तेरजनीचराः/द्वन्द्वेविमृदितास्तत्रदैत्याइवदिवौकसैः/भल्लैःखड्गैर्गदाभिश्चशक्तितोमरपट्टसैः/अपविद्धश्चभिन्नश्चरथैःसांग्रामिकैर्हयैः/निहतैःकुञ्जरैर्मत्तैस्तथावानरराक्षसैः/चक्राक्षयुगदण्डैश्चभग्नैर्धरणिसंश्रितैः/बभूवायोधनंघोरंगोमायुगणसेवितम्/कबन्धानिसमुत्पेतुर्दिक्षुवानररक्षसाम्/विमर्देतुमुलेतस्मिन्देवासुररणोपमे/विदार्यमाणाहरिपुंगवैस्तदा॑निशाचराःशोणितदिग्धगात्राः/पुनःसुयुद्धंतरसासमाश्रिता॑दिवाकरस्यास्तमयाभिकाङ्क्षिणः64346/युध्यतामेवतेषांतुतदावानररक्षसाम्/रविरस्तंगतोरात्रिःप्रवृत्ताप्राणहारिणी6441/अन्योन्यंबद्धवैराणांघोराणांजयमिच्छताम्/संप्रवृत्तंनिशायुद्धंतदावारणरक्षसाम्/राक्षसोऽसीतिहरयोहरिश्चासीतिराक्षसाः/अन्योन्यंसमरेजघ्नुस्तस्मिंस्तमसिदारुणे/जहिदारयचैतीतिकथंविद्रवसीतिच/एवंसुतुमुलःशब्दस्तस्मिंस्तमसिशुश्रुवे/कालाःकाञ्चनसंनाहास्तस्मिंस्तमसिराक्षसाः/संप्रादृश्यन्तशैलेन्द्रादीप्तौषधिवनाइव/तस्मिंस्तमसिदुष्पारेराक्षसाःक्रोधमूर्छिताः/परिपेतुर्महावेगाभक्षयन्तःप्लवंगमान्/तेहयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान्/आप्लुत्यदशनैस्तीक्ष्णैर्भीमकोपाव्यदारयन्/कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनोरथान्/चकर्षुश्चददंशुश्चदशनैःक्रोधमूर्छिताः/लक्ष्मणश्चापिरामश्चशरैराशीविषोमपैः/दृश्यादृश्यानिरक्षांसिप्रवराणिनिजघ्नतुः/तुरंगखुरविध्वस्तंरथनेमिसमुद्धतम्/रुरोधकर्णनेत्राणिण्युध्यतांधरणीरजः/वर्तमानेतथाघोरेसंग्रामेलोमहर्षणे/रुधिरोदामहावेगानद्यस्तत्रप्रसुस्रुवुः/ततोभेरीमृदङ्गानांपणवानांचनिस्वनः/शङ्खवेणुस्वनोन्मिश्रःसंबभूवाद्भुतोपमः/हतानांस्तनमानानांराक्षसानांचनिस्वनः/शस्त्राणांवानराणांचसंबभूवातिदारुणः/शस्त्रपुष्पोपहाराचतत्रासीद्युद्धमेदिनी/दुर्ज्ञेयादुर्निवेशाचशोणितास्रवकर्दमा/साबभूवनिशाघोराहरिराक्षसहारिणी/कालरात्रीवभूतानांसर्वेषांदुरतिक्रमा/ततस्तेराक्षसास्तत्रतस्मिंस्तमसिदारुणे/राममेवाभ्यधावन्तसंहृष्टाशरवृष्टिभिः/तेषामापततांशब्दःक्रुद्धानामभिगर्जताम्/उद्वर्तइवसप्तानांसमुद्राणामभूत्स्वनः/तेषांरामःशरैःषड्भिःषड्जघाननिशाचरान्/निमेषान्तरमात्रेणशितैरग्निशिखोपमैः/यज्ञशत्रुश्चदुर्धर्षोमहापार्श्वमहोदरौ/वज्रदंष्ट्रोमहाकायस्तौचोभौशुकसारणौ/तेतुरामेणबाणौघःसर्वमर्मसुताडिताः/युद्धादपसृतास्तत्रसावशेषायुषोऽभवन्/ततःकाञ्चनचित्राङ्गैःशरैरग्निशिखोपमैः/दिशश्चकारविमलाःप्रदिशश्चमहाबलः/येत्वन्येराक्षसावीरारामस्याभिमुखेस्थिताः/तेऽपिनष्टाःसमासाद्यपतंगाइवपावकम्/सुवर्णपुङ्खैर्विशिखैःसंपतद्भिःसहस्रशः/बभूवरजनीचित्राखद्योतैरिवशारदी/राक्षसानांचनिनदैर्हरीणांचापिगर्जितैः/साबभूवनिशाघोराभूयोघोरतरातदा/तेनशब्देनमहताप्रवृद्धेनसमन्ततः/त्रिकूटःकन्दराकीर्णःप्रव्याहरदिवाचलः/गोलाङ्गूलामहाकायास्तमसातुल्यवर्चसः/संपरिष्वज्यबाहुभ्यांभक्षयन्रजनीचरान्/अङ्गदस्तुरणेशत्रुंनिहन्तुंसमुपस्थितः/रावणेर्निजघानाशुसारथिंचहयानपि/इन्द्रजित्तुरथंत्यक्त्वाहताश्वोहतसारथिः/अङ्गदेनमहामायस्तत्रैवान्तरधीयत/सोऽन्तर्धानगतःपापोरावणीरणकर्कशः/ब्रह्मदत्तवरोवीरोरावणिःक्रोधमूर्छितः/अदृश्योनिशितान्बाणान्मुमोचाशनिवर्चसः/सरामंलक्ष्मणंचैवघोरैर्नागमयैःशरैः/बिभेदसमरेक्रुद्धःसर्वगात्रेषुराक्षसः64436/सतस्यगतिमन्विच्छन्राजपुत्रःप्रतापवान्/दिदेशातिबलोरामोदशवानरयूथपान्6451/द्वौसुषेणस्यदायादौनीलंचप्लवगर्षभम्/अङ्गदंवालिपुत्रंचशरभंचतरस्विनम्/विनतंजाम्बवन्तंचसानुप्रस्थंमहाबलम्/ऋषभंचर्षभस्कन्धमादिदेशपरंतपः/तेसंप्रहृष्टाहरयोभीमानुद्यम्यपादपान्/आकाशंविविशुःसर्वेमार्गामाणादिशोदश/तेषांवेगवतांवेगमिषुभिर्वेगवत्तरैः/अस्त्रवित्परमास्त्रेणवारयामासरावणिः/तंभीमवेगाहरयोनाराचैःक्षतविक्षताः/अन्धकारेनददृशुर्मेघैःसूर्यमिवावृतम्/रामलक्ष्मणयोरेवसर्वमर्मभिदःशरान्/भृशमावेशयामासरावणिःसमितिंजयः/निरन्तरशरीरौतुभ्रातरौरामलक्ष्मणौ/क्रुद्धेनेन्द्रजोतावीरौपन्नगैःशरतांगतैः/तयोःक्षतजमार्गेणसुस्रावरुधिरंबहु/तावुभौचप्रकाशेतेपुष्पिताविवकिंशुकौ/ततःपर्यन्तरक्ताक्षोभिन्नाञ्जनचयोपमः/रावणिर्भ्रातरौवाक्यमन्तर्धानगतोऽब्रवीत्/युध्यमानमनालक्ष्यंशक्रोऽपित्रिदशेश्वरः/द्रष्टुमासादितुंवापिनशक्तःकिंपुनर्युवाम्/प्रावृताविषुजालेनराघवौकङ्कपत्रिणा/एषरोषपरीतात्मानयामियमसादनम्/एवमुक्त्वातुधर्मज्ञौभ्रातरौरामलक्ष्मणौ/निर्बिभेदशितैर्बाणैःप्रजहर्षननादच/भिन्नाञ्जनचयश्यामोविस्फार्यविपुलंधनुः/भूयोभूयःशरान्घोरान्विससर्जमहामृधे/ततोमर्मसुमर्मज्ञोमज्जयन्निशिताञ्शरान्/रामलक्ष्मणयोर्वीरोननादचमुहुर्मुहुः/बद्धौतुशरबन्धेनतावुभौरणमूर्धनि/निमेषान्तरमात्रेणनशेकतुरुदीक्षितुम्/ततोविभिन्नसर्वाङ्गौशरशल्याचितावुभौ/ध्वजाविवमहेन्द्रस्यरज्जुमुक्तौप्रकम्पितौ/तौसंप्रचलितौवीरौमर्मभेदेनकर्शितौ/निपेततुर्महेष्वासौजगत्यांजगतीपती/तौवीरशयनेवीरौशयानौरुधिरोक्षितौ/शरवेष्टितसर्वाङ्गावार्तौपरमपीडितौ/नह्यविद्धंतयोर्गात्रंबभूवाङ्गुलमन्तरम्/नानिर्भिन्नंनचास्तब्धमाकराग्रादजिह्मगैः/तौतुक्रूरेणनिहतौरक्षसाकामरूपिणा/असृक्सुस्रुवतुस्तीव्रंजलंप्रस्रवणाविव/पपातप्रथमंरामोविद्धोमर्मसुमार्गणैः/क्रोधादिन्द्रजितायेनपुराशक्रोविनिर्जितः/नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि/विव्याधवत्सदन्तैश्चसिंहदंष्ट्रैःक्षुरैस्तथा/सवीरशयनेशिश्येविज्यमादायकार्मुकम्/भिन्नमुष्टिपरीणाहंत्रिणतंरुक्मभूषितम्/बाणपातान्तरेरामंपतितंपुरुषर्षभम्/सतत्रलक्ष्मणोदृष्ट्वानिराशोजीवितेऽभवत्/बद्धौतुवीरौपतितौशयानौ॑तौवानराःसंपरिवार्यतस्थुः/समागतावायुसुतप्रमुख्या॑विषदमार्ताःपरमंचजग्मुः64528/ततोद्यांपृथिवींचैववीक्षमाणावनौकसः/ददृशुःसंततौबाणैर्भ्रातरौरामलक्ष्मणौ6461/वृष्ट्वेवोपरतेदेवेकृतकर्मणिराक्षसे/आजगामाथतंदेशंससुग्रीवोविभीषणः/नीलद्विविदमैन्दाश्चसुषेणसुमुखाङ्गदाः/तूर्णंहनुमतासार्धमन्वशोचन्तराघवौ/निश्चेष्टौमन्दनिःश्वासौशोणितौघपरिप्लुतौ/शरजालाचितौस्तब्धौशयानौशरतल्पयोः/निःश्वसन्तौयथासर्पौनिश्चेष्टौमन्दविक्रमौ/रुधिरस्रावदिग्धाङ्गौतापनीयाविवध्वजौ/तौवीरशयनेवीरौशयानौमन्दचेष्टितौ/यूथपैस्तैःपरिवृतौबाष्पव्याकुललोचनैः/राघवौपतितौदृष्ट्वाशरजालसमावृतौ/बभूवुर्व्यथिताःसर्वेवानराःसविभीषणाः/अन्तरिक्षंनिरीक्षन्तोदिशःसर्वाश्चवानराः/नचैनंमाययाछन्नंददृशूरावणिंरणे/तंतुमायाप्रतिच्छिन्नंमाययैवविभीषणः/वीक्षमाणोददर्शाथभ्रातुःपुत्रमवस्थितम्/तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे/ददर्शान्तर्हितंवीरंवरदानाद्विभीषणः/इन्द्रजित्त्वात्मनःकर्मतौशयानौसमीक्ष्यच/उवाचपरमप्रीतोहर्षयन्सर्वनैरृतान्/दूषणस्यचहन्तारौखरस्यचमहाबलौ/सादितौमामकैर्बाणैर्भ्रातरौरामलक्ष्मणौ/नेमौमोक्षयितुंशक्यावेतस्मादिषुबन्धनात्/सर्वैरपिसमागम्यसर्षिसङ्घैःसुरासुरैः/यत्कृतेचिन्तयानस्यशोकार्तस्यपितुर्मम/अस्पृष्ट्वाशयनंगात्रैस्त्रियामायातिशर्वती/कृत्स्नेयंयत्कृतेलङ्कानदीवर्षास्विवाकुला/सोऽयंमूलहरोऽनर्थःसर्वेषांनिहतोमया/रामस्यलक्ष्मणस्यैवसर्वेषांचवनौकसाम्/विक्रमानिष्फलाःसर्वेयथाशरदितोयदाः/एवमुक्त्वातुतान्सर्वान्राक्षसान्परिपार्श्वगान्/यूथपानपितान्सर्वांस्ताडयामासरावणिः/तानर्दयित्वाबाणौघैस्त्रासयित्वाचवानरान्/प्रजहासमहाबाहुर्वचनंचेदमब्रवीत्/शरबन्धेनघोरेणमयाबद्धौचमूमुखे/सहितौभ्रातरावेतौनिशामयतराक्षसाः/एवमुक्तास्तुतेसर्वेराक्षसाःकूटयोधिनः/परंविस्मयमाजग्मुःकर्मणातेनतोषिताः/विनेदुश्चमहानादान्सर्वेतेजलदोपमाः/हतोरामइतिज्ञात्वारावणिंसमपूजयन्/निष्पन्दौतुतदादृष्ट्वातावुभौरामलक्ष्मणौ/वसुधायांनिरुच्छ्वासौहतावित्यन्वमन्यत/हर्षेणतुसमाविष्टइन्द्रजित्समितिंजयः/प्रविवेशपुरींलङ्कांहर्षयन्सर्वनैरृतान्/रामलक्ष्मणयोर्दृष्ट्वाशरीरेसायकैश्चिते/सर्वाणिचाङ्गोपाङ्गानिसुग्रीवंभयमाविशत्/तमुवाचपरित्रस्तंवानरेन्द्रंविभीषणः/सबाष्पवदनंदीनंशोकव्याकुललोचनम्/अलंत्रासेनसुग्रीवबाष्पवेगोनिगृह्यताम्/एवंप्रायाणियुद्धानिविजयोनास्तिनैष्ठिकः/सशेषभाग्यतास्माकंयदिवीरभविष्यति/मोहमेतौप्रहास्येतेभ्रातरौरामलक्ष्मणौ/पर्यवस्थापयात्मानमनाथंमांचवानर/सत्यधर्मानुरक्तानांनास्तिमृत्युकृतंभयम्/एवमुक्त्वाततस्तस्यजलक्लिन्नेनपाणिना/सुग्रीवस्यशुभेनेत्रेप्रममार्जविभीषणः/प्रमृज्यवदनंतस्यकपिराजस्यधीमतः/अब्रवीत्कालसंप्रातमसंभ्रान्तमिदंवचः/नकालःकपिराजेन्द्रवैक्लव्यमनुवर्तितुम्/अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते/तस्मादुत्सृज्यवैक्लव्यंसर्वकार्यविनाशनम्/हितंरामपुरोगाणांसैन्यानामनुचिन्त्यताम्/अथवारक्ष्यतांरामोयावत्संज्ञाविपर्ययः/लब्धसंज्ञौतुकाकुत्स्थौभयंनोव्यपनेष्यतः/नैतत्किंचनरामस्यनचरामोमुमूर्षति/नह्येनंहास्यतेलक्ष्मीर्दुर्लभायागतायुषाम्/तस्मादाश्वासयात्मानंबलंचाश्वासयस्वकम्/यावत्सर्वाणिसैन्यानिपुनःसंस्थापयाम्यहम्/एतेह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः/कर्णेकर्णेप्रकथिताहरयोहरिपुंगव/मांतुदृष्ट्वाप्रधावन्तमनीकंसंप्रहर्षितुम्/त्यजन्तुहरयस्त्रासंभुक्तपूर्वामिवस्रजम्/समाश्वास्यतुसुग्रीवंराक्षसेन्द्रोविभीषणः/विद्रुतंवानरानीकंतत्समाश्वासयत्पुनः/इन्द्रजित्तुमहामायःसर्वसैन्यसमावृतः/विवेशनगरींलङ्कांपितरंचाभ्युपागमत्/तत्ररावणमासीनमभिवाद्यकृताञ्जलिः/आचचक्षेप्रियंपित्रेनिहतौरामलक्ष्मणौ/उत्पपातततोहृष्टःपुत्रंचपरिषस्वजे/रावणोरक्षसांमध्येश्रुत्वाशत्रूनिपातितौ/उपाघ्रायसमूर्ध्न्येनंपप्रच्छप्रीतमानसः/पृच्छतेचयथावृत्तंपित्रेसर्वंन्यवेदयत्/सहर्षवेगानुगतान्तरात्मा॑श्रुत्वावचस्तस्यमहारथस्य/जहौज्वरंदाशरथेःसमुत्थितं॑प्रहृष्यवाचाभिननन्दपुत्रम्64650/प्रतिप्रविष्टेलङ्कांतुकृतार्थेरावणात्मजे/राघवंपरिवार्यार्ताररक्षुर्वानरर्षभाः6471/हनूमानङ्गदोनीलःसुषेणःकुमुदोनलः/गजोगवाक्षोगवयःशरभोगन्धमादनः/जाम्बवानृषभःसुन्दोरम्भःशतबलिःपृथुः/व्यूढानीकाश्चयत्ताश्चद्रुमानादायसर्वतः/वीक्षमाणादिशःसर्वास्तिर्यगूर्ध्वंचवानराः/तृणेष्वपिचचेष्टत्सुराक्षसाइतिमेनिरे/रावणश्चापिसंहृष्टोविसृज्येन्द्रजितंसुतम्/आजुहावततःसीतारक्षणीराक्षसीस्तदा/राक्षस्यस्त्रिजटाचापिशासनात्तमुपस्थिताः/ताउवाचततोहृष्टोराक्षसीराक्षसेश्वरः/हताविन्द्रजिताख्यातवैदेह्यारामलक्ष्मणौ/पुष्पकंचसमारोप्यदर्शयध्वंहतौरणे/यदाश्रयादवष्टब्धोनेयंमामुपतिष्ठति/सोऽस्याभर्तासहभ्रात्रानिरस्तोरणमूर्धनि/निर्विशङ्कानिरुद्विग्नानिरपेक्षाचमैथिली/मामुपस्थास्यतेसीतासर्वाभरणभूषिता/अद्यकालवशंप्राप्तंरणेरामंसलक्ष्मणम्/अवेक्ष्यविनिवृत्ताशानान्यांगतिमपश्यती/तस्यतद्वचनंश्रुत्वारावणस्यदुरात्मनः/राक्षस्यस्तास्तथेत्युक्त्वाप्रजग्मुर्यत्रपुष्पकम्/ततःपुष्पकमादयराक्षस्योरावणाज्ञया/अशोकवनिकास्थांतांमैथिलींसमुपानयन्/तामादायतुराक्षस्योभर्तृशोकपरायणाम्/सीतामारोपयामासुर्विमानंपुष्पकंतदा/ततःपुष्पकमारोप्यसीतांत्रिजटयासह/रावणोऽकारयल्लङ्कांपताकाध्वजमालिनीम्/प्राघोषयतहृष्टश्चलङ्कायांराक्षसेश्वरः/राघवोलक्ष्मणश्चैवहताविन्द्रजितारणे/विमानेनापिसीतातुगत्वात्रिजटयासह/ददर्शवानराणांतुसर्वंसिन्यंनिपातितम्/प्रहृष्टमनसश्चापिददर्शपिशिताशनान्/वानरांश्चापिदुःखार्तान्रामलक्ष्मणपार्श्वतः/ततःसीताददर्शोभौशयानौशततल्पयोः/लक्ष्मणंचैवरामंचविसंज्ञौशरपीडितौ/विध्वस्तकवचौवीरौविप्रविद्धशरासनौ/सायकैश्छिन्नसर्वाङ्गौशरस्तम्भमयौक्षितौ/तौदृष्ट्वाभ्रातरौतत्रवीरौसापुरुषर्षभौ/दुःखार्तासुभृशंसीताकरुणंविललापह/साबाष्पशोकाभिहतासमीक्ष्य॑तौभ्रातरौदेवसमप्रभावौ/वितर्कयन्तीनिधनंतयोःसा॑दुःखान्वितावाक्यमिदंजगाद64724/भर्तारंनिहतंदृष्ट्वालक्ष्मणंचमहाबलम्/विललापभृशंसीताकरुणंशोककर्शिता6481/ऊचुर्लक्षणिकायेमांपुत्रिण्यविधवेतिच/तेऽस्यसर्वेहतेरामेऽज्ञानिनोऽनृतवादिनः/यज्वनोमहिषींयेमामूचुःपत्नींचसत्रिणः/तेऽद्यसर्वेहतेरामेऽज्ञानिनोऽनृतवादिनः/वीरपार्थिवपत्नीत्वंयेधन्येतिचमांविदुः/तेऽद्यसर्वेहतेरामेऽज्ञानिनोऽनृतवादिनः/ऊचुःसंश्रवणेयेमांद्विजाःकार्तान्तिकाःशुभाम्/तेऽद्यसर्वेहतेरामेऽज्ञानिनोऽनृतवादिनः/इमानिखलुपद्मानिपादयोर्यैःकिलस्त्रियः/अधिराज्येऽभिषिच्यन्तेनरेन्द्रैःपतिभिःसह/वैधव्यंयान्तियैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः/नात्मनस्तानिपश्यामिपश्यन्तीहतलक्षणा/सत्यानीमानिपद्मानिस्त्रीणामुक्त्वानिलक्षणे/तान्यद्यनिहतेरामेवितथानिभवन्तिमे/केशाःसूक्ष्माःसमानीलाभ्रुवौचासंगतेमम/वृत्तेचालोमशेजङ्घेदन्ताश्चाविरलामम/शङ्खेनेत्रेकरौपादौगुल्फावूरूचमेचितौ/अनुवृत्तानखाःस्निग्धाःसमाश्चाङ्गुलयोमम/स्तनौचाविरलौपीनौममेमौमग्नचूचुकौ/मग्नाचोत्सङ्गिनीनाभिःपार्श्वोरस्कंचमेचितम्/ममवर्णोमणिनिभोमृदून्यङ्गरुहाणिच/प्रतिष्ठितांद्वदशभिर्मामूचुःशुभलक्षणाम्/समग्रयवमच्छिद्रंपाणिपादंचवर्णवत्/मन्दस्मितेत्येवचमांकन्यालक्षणिकाविदुः/अधिराज्येऽभिषेकोमेब्राह्मणैःपतिनासह/कृतान्तकुशलैरुक्तंतत्सर्वंवितथीकृतम्/शोधयित्वाजनस्थानंप्रवृत्तिमुपलभ्यच/तीर्त्वासागरमक्षोभ्यंभ्रातरौगोष्पदेहतौ/ननुवारुणमाग्नेयमैन्द्रंवायव्यमेवच/अस्त्रंब्रह्मशिरश्चैवराघवौप्रत्यपद्यताम्/अदृश्यमानेनरणेमाययावासवोपमौ/ममनाथावनाथायानिहतौरामलक्ष्मणौ/नहिदृष्टिपथंप्राप्यराघवस्यरणेरिपुः/जीवन्प्रतिनिवर्तेतयद्यपिस्यान्मनोजवः/नकालस्यातिभारोऽस्तिकृतान्तश्चसुदुर्जयः/यत्ररामःसहभ्रात्राशेतेयुधिनिपाथितः/नाहंशोचामिभर्तारंनिहतंनचलक्ष्मणम्/नात्मानंजननीचापियथाश्वश्रूंतपस्विनीम्/साहिचिन्तयतेनित्यंसमाप्तव्रतमागतम्/कदाद्रक्ष्यामिसीतांचरामंचसहलक्ष्मणम्/परिदेवयमानांतांराक्षसीत्रिजटाब्रवीत्/माविषादंकृथादेविभर्तायंतवजीवति/कारणानिचवक्ष्यामिमहान्तिसदृशानिच/यथेमौजीवतोदेविभ्रातरौरामलक्ष्मणौ/नहिकोपपरीतानिहर्षपर्युत्सुकानिच/भवन्तियुधियोधानांमुखानिनिहतेपतौ/इदंविमानंवैदेहिपुष्पकंनामनामतः/दिव्यंत्वांधारयेन्नेदंयद्येतौगजजीवितौ/हतवीरप्रधानाहिहतोत्साहानिरुद्यमा/सेनाभ्रमतिसंख्येषुहतकर्णेवनौर्जले/इयंपुनरसंभ्रान्तानिरुद्विग्नातरस्विनी/सेनारक्षतिकाकुत्स्थौमाययानिर्जितौरणे/सात्वंभवसुविस्रब्धाअनुमानैःसुखोदयैः/अहतौपश्यकाकुत्स्थौस्नेहादेतद्ब्रवीमिते/अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन/चारित्रसुखशीलत्वात्प्रविष्टासिमनोमम/नेमौशक्यौरणेजेतुंसेन्द्रैरपिसुरासुरैः/एतयोराननंदृष्ट्वामयाचावेदितंतव/इदंचसुमहच्चिह्नंशनैःपश्यस्वमैथिलि/निःसंज्ञावप्युभावेतौनैवलक्ष्मीर्वियुज्यते/प्रायेणगतसत्त्वानांपुरुषाणांगतायुषाम्/दृश्यमानेषुवक्त्रेषुपरंभवतिवैकृतम्/त्यजशोकंचदुःखंचमोहंचजनकात्मजे/रामलक्ष्मणयोरर्थेनाद्यशक्यमजीवितुम्/श्रुत्वातुवचनंतस्याःसीतासुरसुतोपमा/कृताञ्जलिरुवाचेदमेवमस्त्वितिमैथिली/विमानंपुष्पकंतत्तुसमिवर्त्यमनोजवम्/दीनात्रिजटयासीतालङ्कामेवप्रवेशिता/ततस्त्रिजटयासार्धंपुष्पकादवरुह्यसा/अशोकवनिकामेवरक्षसीभिःप्रवेशिता/प्रविश्यसीताबहुवृक्षषण्डां॑तांराक्षसेन्द्रस्यविहारभूमिम्/संप्रेक्ष्यसंचिन्त्यचराजपुत्रौ॑परंविषादंसमुपाजगाम64837/घोरेणशरबन्धेनबद्धौदशरथात्मजौ/निश्वसन्तौयथानागौशयानौरुधिरोक्षितौ6491/सर्वेतेवानरश्रेष्ठाःससुग्रीवामहाबलाः/परिवार्यमहात्मानौतस्थुःशोकपरिप्लुताः/एतस्मिन्नन्तेरेरामःप्रत्यबुध्यतवीर्यवान्/स्थिरत्वात्सत्त्वयोगाच्चशरैःसंदानितोऽपिसन्/ततोदृष्ट्वासरुधिरंविषण्णंगाढमर्पितम्/भ्रातरंदीनवदनंपर्यदेवयदातुरः/किंनुमेसीतयाकार्यंकिंकार्यंजीवितेनवा/शयानंयोऽद्यपश्यामिभ्रातरंयुधिनिर्जितम्/शक्यासीतासमानारीप्राप्तुंलोकेविचिन्वता/नलक्ष्मणसमोभ्रातासचिवःसाम्परायिकः/परित्यक्ष्याम्यहंप्राणान्वानराणांतुपश्यताम्/यदिपञ्चत्वमापन्नःसुमित्रानन्दवर्धनः/किंनुवक्ष्यामिकौसल्यांमातरंकिंनुकैकयीम्/कथमम्बांसुमित्रांचपुत्रदर्शनलालसाम्/विवत्सांवेपमानांचक्रोशन्तींकुररीमिव/कथमाश्वासयिष्यामियदियास्यामितंविना/कथंवक्ष्यामिशत्रुघ्नंभरतंचयशस्विनम्/मयासहवनंयातोविनातेनागतःपुनः/उपालम्भंनशक्ष्यामिसोढुंबतसुमित्रया/इहैवदेहंत्यक्ष्यामिनहिजीवितुमुत्सहे/धिङ्मांदुष्कृतकर्माणमनार्यंयत्कृतेह्यसौ/लक्ष्मणःपतितःशेतेशरतल्पेगतासुवत्/त्वंनित्यंसुविषण्णंमामाश्वासयसिलक्ष्मण/गतासुर्नाद्यशक्नोषिमामार्तमभिभाषितुम्/येनाद्यबहवोयुद्धेराक्षसानिहताःक्षितौ/तस्यामेवक्षितौवीरःसशेतेनिहतःपरैः/शयानःशरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः/शरजालैश्चितोभातिभास्करोऽस्तमिवव्रजन्/बाणाभिहतमर्मत्वान्नशक्नोत्यभिवीक्षितुम्/रुजाचाब्रुवतोह्यस्यदृष्टिरागेणसूच्यते/यथैवमांवनंयान्तमनुयातोमहाद्युतिः/अहमप्यनुयास्यामितथैवैनंयमक्षयम्/इष्टबन्धुजनोनित्यंमांचनित्यमनुव्रतः/इमामद्यगतोऽवस्थांममानार्यस्यदुर्नयैः/सुरुष्टेनापिवीरेणलक्ष्मणेनानसंस्मरे/परुषंविप्रियंवापिश्रावितंनकदाचन/विससर्जैकवेगेनपञ्चबाणशतानियः/इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्चलक्ष्मणः/अस्त्रैरस्त्राणियोहन्याच्छक्रस्यापिमहात्मनः/सोऽयमुर्व्यांहतःशेतेमहार्हशयनोचितः/तच्चमिथ्याप्रलप्तंमांप्रधक्ष्यतिनसंशयः/यन्मयानकृतोराजाराक्षसानांविभीषणः/अस्मिन्मुहूर्तेसुग्रीवप्रतियातुमितोऽर्हसि/मत्वाहीनंमयाराजन्रावणोऽभिद्रवेद्बली/अङ्गदंतुपुरस्कृत्यससैन्यःससुहृज्जनः/सागरंतरसुग्रीवपुनस्तेनैवसेतुना/कृतंहनुमताकार्यंयदन्यैर्दुष्करंरणे/ऋक्षराजेनतुष्यामिगोलाङ्गूलाधिपेनच/अङ्गदेनकृतंकर्ममैन्देनद्विविदेनच/युद्धंकेसरिणासंख्येघोरंसंपातिनाकृतम्/गवयेनगवाक्षेणशरभेणगजेनच/अन्यैश्चहरिभिर्युद्धंमदार्थेत्यक्तजीवितैः/नचातिक्रमितुंशक्यंदैवंसुग्रीवमानुषैः/यत्तुशक्यंवयस्येनसुहृदावापरंतप/कृतंसुग्रीवतत्सर्वंभवताधर्मभीरुणा/मित्रकार्यंकृतमिदंभवद्भिर्वानरर्षभाः/अनुज्ञातामयासर्वेयथेष्टंगन्तुमर्हथ/शुश्रुवुस्तस्यतेसर्वेवानराःपरिदेवितम्/वर्तयांचक्रुरश्रूणिनेत्रैःकृष्णेतरेक्षणाः/ततःसर्वाण्यनीकानिस्थापयित्वाविभीषणः/आजगामगदापाणिस्त्वरितोयत्रराघवः/तंदृष्ट्वात्वरितंयान्तंनीलाञ्जनचयोपमम्/वानरादुद्रुवुःसर्वेमन्यमानास्तुरावणिम्64933/अथोवाचमहातेजाहरिराजोमहाबलः/किमियंव्यथितासेनामूढवातेवनौर्जले6501/सुग्रीवस्यवचःश्रुत्वावालिपुत्रोऽङ्गदोऽब्रवीत्/नत्वंपश्यसिरामंचलक्ष्मणंचमहाबलम्/शरजालाचितौवीरावुभौदशरथात्मजौ/शरतल्पेमहात्मानौशयानाउरुधिरोक्षितौ/अथाब्रवीद्वानरेन्द्रःसुग्रीवःपुत्रमङ्गदम्/नानिमित्तमिदंमन्येभवितव्यंभयेनतु/विषण्णवदनाह्येतेत्यक्तप्रहरणादिशः/प्रपलायन्तिहरयस्त्रासादुत्फुल्ललोचनाः/अन्योन्यस्यनलज्जन्तेननिरीक्षन्तिपृष्ठतः/विप्रकर्षन्तिचान्योन्यंपतितंलङ्घयन्तिच/एतस्मिन्नन्तरेवीरोगदापाणिर्विभीषणः/सुग्रीवंवर्धयामासराघवंचनिरैक्षत/विभीषणंतंसुग्रीवोदृष्ट्वावानरभीषणम्/ऋक्षराजंसमीपस्थंजाम्बवन्तमुवाचह/विभीषणोऽयंसंप्राप्तोयंदृष्ट्वावानरर्षभाः/विद्रवन्तिपरित्रस्तारावणात्मजशङ्कया/शीघ्रमेतान्सुवित्रस्तान्बहुधाविप्रधावितान्/पर्यवस्थापयाख्याहिविभीषणमुपस्थितम्/सुग्रीवेणैवमुक्तस्तुजाम्बवानृक्षपार्थिवः/वानरान्सान्त्वयामाससंनिवर्त्यप्रहावतः/तेनिवृत्ताःपुनःसर्वेवानरास्त्यक्तसंभ्रमाः/ऋक्षराजवचःश्रुत्वातंचदृष्ट्वाविभीषणम्/विभीषणस्तुरामस्यदृष्ट्वागात्रंशरैश्चितम्/लक्ष्मणस्यचधर्मात्माबभूवव्यथितेन्द्रियः/जलक्लिन्नेनहस्तेनतयोर्नेत्रेप्रमृज्यच/शोकसंपीडितमनारुरोदविललापच/इमौतौसत्त्वसंपन्नौविक्रान्तौप्रियसंयुगौ/इमामवस्थांगमितौराकसैःकूटयोधिभिः/भ्रातुःपुत्रेणमेतेनदुष्पुत्रेणदुरात्मना/राक्षस्याजिह्मयाबुद्ध्याछलितावृजुविक्रमौ/शरैरिमावलंविद्धौरुधिरेणसमुक्षितौ/वसुधायामिमसुप्तौदृश्येतेशल्यकाविव/ययोर्वीर्यमुपाश्रित्यप्रतिष्ठाकाङ्क्षितामया/तावुभौदेहनाशायप्रसुप्तौपुरुषर्षभौ/जीवन्नद्यविपन्नोऽस्मिनष्टराज्यमनोरथः/प्राप्तप्रतिज्ञश्चरिपुःसकामोरावणःकृतः/एवंविलपमानंतंपरिष्वज्यविभीषणम्/सुग्रीवःसत्त्वसंपन्नोहरिराजोऽब्रवीदिदम्/राज्यंप्राप्स्यसिधर्मज्ञलङ्कायांनात्रसंशयः/रावणःसहपुत्रेणसराज्यंनेहलप्स्यते/शरसंपीडितावेतावुभौराघवलक्ष्मणौ/त्यक्त्वामोहंवधिष्येतेसगणंरावणंरणे/तमेवंसान्त्वयित्वातुसमाश्वास्यचराक्षसं/सुषेणंश्वशुरंपार्श्वेसुग्रीवस्तमुवाचह/सहशूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ/गच्छत्वंभ्रातरौगृह्यकिष्किन्धांरामलक्ष्मणौ/अहंतुरावणंहत्वासपुत्रंसहबान्धवम्/मैथिलीमानयिष्यामिशक्रोनष्टामिवश्रियम्/श्रुत्वैतद्वानरेन्द्रस्यसुषेणोवाक्यमब्रवीत्/देवासुरंमहायुद्धमनुभूतंसुदारुणम्/तदास्मदानवादेवाञ्शरसंस्पर्शकोविदाः/निजघ्नुःशस्त्रविदुषश्छादयन्तोमुहुर्मुहुः/तानार्तान्नष्टसंज्ञांश्चपरासूंश्चबृहस्पतिः/विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति/तान्यौषधान्यानयितुंक्षीरोदंयान्तुसागरम्/जवेनवानराःशीघ्रंसंपातिपनसादयः/हरयस्तुविजानन्तिपार्वतीतेमहौषधी/संजीवकरणींदिव्यांविशल्यांदेवनिर्मिताम्/चन्द्रश्चनामद्रोणश्चपर्वतौसागरोत्तमे/अमृतंयत्रमथितंतत्रतेपरमौषधी/तेतत्रनिहितेदेवैःपर्वतेपरमौषधी/अयंवायुसुतोराजन्हनूमांस्तत्रगच्छतु/एतस्मिन्नन्तरेवायुर्मेघांश्चापिसविद्युतः/पर्यस्यन्सागरेतोयंकम्पयन्निवपर्वतान्/महतापक्षवातेनसर्वेद्वीपमहाद्रुमाः/निपेतुर्भग्नविटपाःसमूलालवणाम्भसि/अभवन्पन्नगास्त्रस्ताभोगिनस्तत्रवासिनः/शीघ्रंसर्वाणियादांसिजग्मुश्चलवणार्णवम्/ततोमुहूर्तद्गरुडंवैनतेयंमहाबलम्/वानराददृशुःसर्वेज्वलन्तमिवपावकम्/तमागतमभिप्रेक्ष्यनागास्तेविप्रदुद्रुवुः/यैस्तौसत्पुरुषौबद्धौशरभूतैर्महाबलौ/ततःसुपर्णःकाकुत्स्थौदृष्ट्वाप्रत्यभिनन्द्यच/विममर्शचपाणिभ्यांमुखेचन्द्रसमप्रभे/वैनतेयेनसंस्पृष्टास्तयोःसंरुरुहुर्व्रणाः/सुवर्णेचतनूस्निग्धेतयोराशुबभूवतुः/तेजोवीर्यंबलंचौजउत्साहश्चमहागुणाः/प्रदर्शनंचबुद्धिश्चस्मृतिश्चद्विगुणंतयोः/तावुत्थाप्यमहावीर्यौगरुडोवासवोपमौ/उभौतौसस्वजेहृष्टौरामश्चैनमुवाचह/भवत्प्रसादाद्व्यसनंरावणिप्रभवंमहत्/आवामिहव्यतिक्रान्तौशीघ्रंचबलिनौकृतौ/यथातातंदशरथंयथाजंचपितामहम्/तथाभवन्तमासाद्यहृषयंमेप्रसीदति/कोभवान्रूपसंपन्नोदिव्यस्रगनुलेपनः/वसानोविरजेवस्त्रेदिव्याभरणभूषितः/तमुवाचमहातेजावैनतेयोमहाबलः/पतत्रिराजःप्रीतात्माहर्षपर्याकुलेक्षणः/अहंसखातेकाकुत्स्थप्रियःप्राणोबहिश्चरः/गरुत्मानिहसंप्राप्तोयुवयोःसाह्यकारणात्/असुरावामहावीर्यादानवावामहाबलाः/सुराश्चापिसगन्धर्वाःपुरस्कृत्यशतक्रतुम्/नेमंमोक्षयितुंशक्ताःशरबन्धंसुदारुणम्/मायाबलादिन्द्रजितानिर्मितंक्रूरकर्मणा/एतेनागाःकाद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः/रक्षोमायाप्रभावेनशराभूत्वात्वदाश्रिताः/सभाग्यश्चासिधर्मज्ञरामसत्यपराक्रम/लक्ष्मणेनसहभ्रात्रासमरेरिपुघातिना/इमंश्रुत्वातुवृत्तान्तंत्वरमाणोऽहमागतः/सहसायुवयोःस्नेहात्सखित्वमनुपालयन्/मोक्षितौचमहाघोरादस्मात्सायकबन्धनात्/अप्रमादश्चकर्तव्योयुवाभ्यांनित्यमेवहि/प्रकृत्याराक्षसाःसर्वेसंग्रामेकूटयोधिनः/शूराणांशुद्धभावानांभवतामार्जवंबलम्/तन्नविश्वसितव्यंवोराक्षसानांरणाजिरे/एतेनैवोपमानेननित्यजिह्माहिराक्षसाः/एवमुक्त्वाततोरामंसुपर्णःसुमहाबलः/परिष्वज्यसुहृत्स्निग्धमाप्रष्टुमुपचक्रमे/सखेराघवधर्मज्ञरिपूणामपिवत्सल/अभ्यनुज्ञातुमिच्छामिगमिष्यामियथागतम्/बालवृद्धावशेषांतुलङ्कांकृत्वाशरोर्मिभिः/रावणंचरिपुंहत्वासीतांसमुपलप्स्यसे/इत्येवमुक्त्वावचनंसुपर्णःशीघ्रविक्रमः/रामंचविरुजंकृत्वामध्येतेषांवनौकसाम्/प्रदक्षिणंततःकृत्वापरिष्वज्यचवीर्यवान्/जगामाकाशमाविश्यसुपर्णःपवनोयथा/विरुजौराघवौदृष्ट्वाततोवानरयूथपाः/सिंहनादांस्तदानेदुर्लाङ्गूलंदुधुवुश्चते/ततोभेरीःसमाजघ्नुर्मृदङ्गांश्चव्यनादयन्/दध्मुःशङ्खान्संप्रहृष्टाःक्ष्वेलन्त्यपियथापुरम्/आस्फोट्यास्फोट्यविक्रान्तावानरानगयोधिनः/द्रुमानुत्पाट्यविविधांस्तस्थुःशतसहस्रशः/विसृजन्तोमहानादांस्त्रासयन्तोनिशाचरान्/लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाःप्लवंगमाः/ततस्तुभीमस्तुमुलोनिनादो॑बभूवशाखामृगयूथपानाम्/क्षयेनिदाघस्ययथाघनानां॑नादःसुभीमोनदतांनिशीथे65065/तेषांसुतुमुलंशब्दंवानराणांतरस्विनाम्/नर्दतांराक्षसैःसार्धंतदाशुश्रावरावणः6511/स्निग्धगम्भीरनिर्घोषंश्रुत्वासनिनदंभृशम्/सचिवानांततस्तेषांमध्येवचनमब्रवीत्/यथासौसंप्रहृष्टानांवानराणांसमुत्थितः/बहूनांसुमहान्नादोमेघानामिवगर्जताम्/व्यक्तंसुमहतीप्रीतिरेतेषांनात्रसंशयः/तथाहिविपुलैर्नादैश्चुक्षुभेवरुणालयः/तौतुबद्धौशरैस्तीष्क्णैर्भ्रातरौरामलक्ष्मणौ/अयंचसुमहान्नादःशङ्कांजनयतीवमे/एतत्तुवचनंचोक्त्वामन्त्रिणोराक्षसेश्वरः/उवाचनैरृतांस्तत्रसमीपपरिवर्तिनः/ज्ञायतांतूर्णमेतषांसर्वेषांवनचारिणाम्/शोककालेसमुत्पन्नेहर्षकारणमुत्थितम्/तथोक्तास्तेनसंभ्रान्ताःप्राकारमधिरुह्यते/ददृशुःपालितांसेनांसुग्रीवेणमहात्मना/तौचमुक्तौसुघोरेणशरबन्धेनराघवौ/समुत्थितौमहाभागौविषेदुःप्रेक्ष्यराक्षसाः/संत्रस्तहृदयासर्वेप्राकारादवरुह्यते/विषण्णवदनाःसर्वेराक्षसेन्द्रमुपस्थिताः/तदप्रियंदीनमुखारावणस्यनिशाचराः/कृत्स्नंनिवेदयामासुर्यथावद्वाक्यकोविदाः/यौताविन्द्रजितायुद्धेभ्रातरौरामलक्ष्मणौ/निबद्धौशरबन्धेननिष्प्रकम्पभुजौकृतौ/विमुक्तौशरबन्धेनतौदृश्येतेरणाजिरे/पाशानिवगजाउछित्त्वागजेन्द्रसमविक्रमौ/तच्छ्रुत्वावचनंतेषांराक्षसेन्द्रोमहाबलः/चिन्ताशोकसमाक्रान्तोविषण्णवदनोऽब्रवीत्/घोरैर्दत्तवरैर्बद्धौशरैराशीविषोमपैः/अमोघैःसूर्यसंकाशैःप्रमथ्येन्द्रजितायुधि/तमस्त्रबन्धमासाद्ययदिमुक्तौरिपूमम/संशयस्थमिदंसर्वमनुपश्याम्यहंबलम्/निष्फलाःखलुसंवृत्ताःशरावासुकितेजसः/आदत्तंयैस्तुसंग्रामेरिपूणांममजीवितम्/एवमुक्त्वातुसंक्रुद्धोनिश्वसन्नुरगोयथा/अब्रवीद्रक्षसांमध्येधूम्राक्षंनामराकसं/बलेनमहतायुक्तोरक्षसांभीमकर्मणाम्/त्वंवधायाभिनिर्याहिरामस्यसहवानरैः/एवमुक्तस्तुधूम्राक्षोराक्षसेन्द्रेणधीमता/कृत्वाप्रणामंसंहृष्टोनिर्जगामनृपालयात्/अभिनिष्क्रम्यतद्द्वारंबलाध्यक्षमुवाचह/त्वरयस्वबलंतूर्णंकिंचिरेणयुयुत्सतः/धूम्राक्षस्यवचःश्रुत्वाबलाध्यक्षोबलानुगः/बलमुद्योजयामासरावणस्याज्ञयाद्रुतम्/तेबद्धघण्टाबलिनोघोररूपानिशाचराः/विनर्दमानाःसंहृष्टाधूम्राक्षंपर्यवारयन्/विविधायुधहस्ताश्चशूलमुद्गरपाणयः/गदाभिःपट्टसैर्दण्डैरायसैर्मुसलैर्भृशम्/परिघैर्भिण्डिपालैश्चभल्लैःप्रासैःपरश्वधैः/निर्ययूराक्षसाघोरानर्दन्तोजलदायथा/रथैःकवचिनस्त्वन्येध्वजैश्चसमलंकृतैः/सुवर्णजालविहितैःखरैश्चविविधाननैः/हयैःपरमशीघ्रैश्चगजेन्द्रैश्चमदोत्कटैः/निर्ययूराक्षसव्याघ्राव्याघ्राइवदुरासदाः/वृकसिंहमुखैर्युक्तंखरैःकनकभूषणैः/आरुरोहरथंदिव्यंधूम्राक्षःखरनिस्वनः/सनिर्यातोमहावीर्योधूम्राक्षोराक्षसैर्वृतः/प्रहसन्पश्चिमद्वारंहनूमान्यत्रयूथपः/प्रयान्तंतुमहाघोरंराक्षसंभीमदर्शनम्/अन्तरिक्षगताःक्रूराःशकुनाःप्रत्यवारयन्/रथशीर्षेमहाभीमोगृध्रश्चनिपपातह/ध्वजाग्रेग्रथिताश्चैवनिपेतुःकुणपाशनाः/रुधिरार्द्रोमहाञ्श्वेतःकबन्धःपतितोभुवि/विस्वरंचोत्सृजन्नादंधूम्राक्षस्यसमीपतः/ववर्षरुधिरंदेवःसंचचालचमेदिनी/प्रतिलोमंववौवायुर्निर्घातसमनिस्वनः/तिमिरौघावृतास्तत्रदिशश्चनचकाशिरे/सतूत्पातांस्ततोदृष्ट्वाराक्षसानांभयावहान्/प्रादुर्भूतान्सुघोरांश्चधूम्राक्षोव्यथितोऽभवत्/ततःसुभीमोबहुभिर्निशाचरैर्॑वृतोऽभिनिष्क्रम्यरणोत्सुकोबली/ददर्शतांराघवबाहुपालितां॑समुद्रकल्पांबहुवानरींचमूम्65136/धूम्राक्षंप्रेक्ष्यनिर्यान्तंराक्षसंभीमनिस्वनम्/विनेदुर्वानराःसर्वेप्रहृष्टायुद्धकाङ्क्षिणः6521/तेषांतुतुमुलंयुद्धंसंजज्ञेहरिरक्षसाम्/अन्योन्यंपादपैर्घोरैर्निघ्नतंशूलमुद्गरैः/राक्षसैर्वानराघोराविनिकृत्ताःसमन्ततः/वानरैराक्षसाश्चापिद्रुमैर्भूमौसमीकृताः/राक्षसाश्चापिसंक्रुद्धावानरान्निशितैःशरैः/विव्यधुर्घोरसंकाशैःकङ्कपत्रैरजिह्मगैः/तेगदाभिश्चभीमाभिःपट्टसैःकूटमुद्गरैः/घोरैश्चपरिघैश्चित्रैस्त्रिशूलैश्चापिसंशितैः/विदार्यमाणारक्षोभिर्वानरास्तेमहाबलाः/अमर्षाज्जनितोद्धर्षाश्चक्रुःकर्माण्यभीतवत्/शरनिर्भिन्नगात्रास्तेशूलनिर्भिन्नदेहिनः/जगृहुस्तेद्रुमांस्तत्रशिलाश्चहरियूथपाः/तेभीमवेगाहरयोनर्दमानास्ततस्ततः/ममन्थूराक्षसान्भीमान्नामानिचबभाषिरे/तद्बभूवाद्भुतंघोरंयुद्धंवानररक्षसाम्/शिलाभिर्विविधाभिश्चबहुशाखैश्चपादपैः/राक्षसामथिताःकेचिद्वानरैर्जितकाशिभिः/ववर्षूरुधिरंकेचिन्मुखैरुधिरभोजनाः/पार्श्वेषुदारिताःकेचित्केचिद्राशीकृताद्रुमैः/शिलाभिश्चूर्णिताःकेचित्केचिद्दन्तैर्विदारिताः/ध्वजैर्विमथितैर्भग्नैःखरैश्चविनिपातितैः/रथैर्विध्वंसितैश्चापिपतितैरजनीचरैः/वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्यवेगितैः/राक्षसाःकरजैस्तीक्ष्णैर्मुखेषुविनिकर्तिताः/विवर्णवदनाभूयोविप्रकीर्णशिरोरुहाः/मूढाःशोणितगन्धेननिपेतुर्धरणीतले/नयेतुपरमक्रुद्धाराक्षसाभीमविक्रमाः/तलैरेवाभिधावन्तिवज्रस्पर्शसमैर्हरीन्/वनरैरापतन्तस्तेवेगितावेगवत्तरैः/मुष्टिभिश्चरणैर्दन्तैःपादपैश्चापपोथिताः/सन्यंतुविद्रुतंदृष्ट्वाधूम्राक्षोराक्षसर्षभः/क्रोधेनकदनंचक्रेवानराणांयुयुत्सताम्/प्रासैःप्रमथिताःकेचिद्वानराःशोणितस्रवाः/मुद्गरैराहताःकेचित्पतिताधरणीतले/परिघैर्मथितःकेचिद्भिण्डिपालैर्विदारिताः/पट्टसैराहताःकेचिद्विह्वलन्तोगतासवः/केचिद्विनिहताभूमौरुधिरार्द्रावनौकसः/केचिद्विद्रावितानष्टाःसंक्रुद्धैराक्षसैर्युधि/विभिन्नहृदयाःकेचिदेकपार्श्वेनशायिताः/विदारितास्त्रशूलैचकेचिदान्त्रैर्विनिस्रुताः/तत्सुभीमंमहद्युद्धंहरिराकससंकुलम्/प्रबभौशस्त्रबहुलंशिलापादपसंकुलम्/धनुर्ज्यातन्त्रिमधुरंहिक्कातालसमन्वितम्/मन्द्रस्तनितसंगीतंयुद्धगान्धर्वमाबभौ/धूम्राक्षस्तुधनुष्पाणिर्वानरान्रणमूर्धनि/हसन्विद्रावयामासदिशस्ताञ्शरवृष्टिभिः/धूम्राक्षेणार्दितंसैन्यंव्यथितंदृश्यमारुतिः/अभ्यवर्ततसंक्रुद्धःप्रगृह्यविपुलांशिलाम्/क्रोधाद्द्विगुणताम्राक्षःपितृतुल्यपराक्रमः/शिलांतांपातयामासधूम्राक्षस्यरथंप्रति/आपतन्तींशिलांदृष्ट्वागदामुद्यम्यसंभ्रमात्/रथादाप्लुत्यवेगेनवसुधायांव्यतिष्ठत/साप्रमथ्यरथंतस्यनिपपातशिलाभुवि/सचक्रकूबरंसाश्वंसध्वजंसशरासनम्/सभङ्क्त्वातुरथंतस्यहनूमान्मारुतात्मजः/रक्षसांकदनंचक्रेसस्कन्धविटपैर्द्रुमैः/विभिन्नशिरसोभूत्वाराक्षसाःशोणितोक्षिताः/द्रुमैःप्रमथिताश्चान्येनिपेतुर्धरणीतले/विद्राव्यराक्षसंसैन्यंहनूमान्मारुतात्मजः/गिरेःशिखरमादायधूम्राक्षमभिदुद्रुवे/तमापतन्तंधूम्राक्षोगदामुद्यम्यवीर्यवान्/विनर्दमानःसहसाहनूमन्तमभिद्रवत्/ततःक्रुद्धस्तुवेगेनगदांतांबहुकण्टकाम्/पातयामासधूम्राक्षोमस्तकेतुहनूमतः/ताडितःसतयातत्रगदयाभीमरूपया/सकपिर्मारुतबलस्तंप्रहारमचिन्तयन्/धूम्राक्षस्यशिरोमध्येगिरिशृङ्गमपातयत्/सविह्वलितसर्वाङ्गोगिरिशृङ्गेणताडितः/पपातसहसाभूमौविकीर्णइवपर्वतः/धूम्राक्षंनिहतंदृष्ट्वाहतशेषानिशाचराः/त्रस्ताःप्रविविशुर्लङ्कांवध्यमानाःप्लवंगमैः/सतुपवनसुतोनिहत्यशत्रुं॑क्षतजवहाःसरितश्चसंविकीर्य/रिपुवधजनितश्रमोमहात्मा॑मुदमगमत्कपिभिश्चपूज्यमानः65238/धूम्राक्षंनिहतंश्रुत्वारावणोराक्षसेश्वरः/बलाध्यक्षमुवाचेदंकृताञ्जलिमुपस्थितम्6531/शीघ्रंनिर्यान्तुदुर्धर्षाराक्षसाभीमविक्रमाः/अकम्पनंपुरस्कृत्यसर्वशस्त्रप्रकोविदम्/ततोनानाप्रहरणाभीमाक्षाभीमदर्शनाः/निष्पेतूराक्षसामुख्याबलाध्यक्षप्रचोदिताः/रथमास्थायविपुलंतप्तकाञ्चनकुण्डलः/राकसैःसंवृतोघोरैस्तदानिर्यात्यकम्पनः/नहिकम्पयितुंशक्यःसुरैरपिमहामृधे/अकम्पनस्ततस्तेषामादित्यइवतेजसा/तस्यनिधावमानस्यसंरब्धस्ययुयुत्सया/अकस्माद्दैन्यमागच्छद्धयानांरथवाहिनाम्/व्यस्फुरन्नयनंचास्यसव्यंयुद्धाभिनन्दिनः/विवर्णोमुखवर्णश्चगद्गदश्चाभवत्स्वरः/अभवत्सुदिनेचापिदुर्दिनेरूक्षमारुतम्/ऊचुःखगामृगाःसर्वेवाचःक्रूराभयावहाः/ससिंहोपचितस्कन्धःशार्दूलसमविक्रमः/तानुत्पातानचिन्त्यैवनिर्जगामरणाजिरम्/तदानिर्गच्छतस्तस्यरक्षसःसहराक्षसैः/बभूवसुमहान्नादःक्षोभयन्निवसागरम्/तेनशब्देनवित्रस्तावानराणांमहाचमूः/द्रुमशैलप्रहरणायोद्धुंसमवतिष्ठत/तेषांयुद्धंमहारौद्रंसंजज्ञेकपिरक्षसाम्/रामरावणयोरर्थेसमभित्यक्तजीविनाम्/सर्वेह्यतिबलाःशूराःसर्वेपर्वतसंनिभाः/हरयोराक्षसाश्चैवपरस्परजिघंसवः/तेषांविनर्दातांशब्दःसंयुगेऽतितरस्विनाम्/शुश्रुवेसुमहान्क्रोधादन्योन्यमभिगर्जताम्/रजश्चारुणवर्णाभंसुभीममभवद्भृशम्/उद्धूतंहरिरक्षोभिःसंरुरोधदिशोदश/अन्योन्यंरजसातेनकौशेयोद्धूतपाण्डुना/संवृतानिचभूतानिददृशुर्नरणाजिरे/नध्वजोनपताकावावर्मवातुरगोऽपिवा/आयुधंस्यन्दनंवापिददृशेतेनरेणुना/शब्दश्चसुमहांस्तेषांनर्दतामभिधावताम्/श्रूयतेतुमुलेयुद्धेनरूपाणिचकाशिरे/हरीनेवसुसंक्रुद्धाहरयोजघ्नुराहवे/राक्षसाश्चापिरक्षांसिनिजघ्नुस्तिमिरेतदा/परांश्चैवविनिघ्नन्तःस्वांश्चवानरराक्षसाः/रुधिरार्द्रंतदाचक्रुर्महींपङ्कानुलेपनाम्/ततस्तुरुधिरौघेणसिक्तंव्यपगतंरजः/शरीरशवसंकीर्णाबभूवचवसुंधरा/द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः/हरयोराक्षसास्तूर्णंजघ्नुरन्योन्यमोजसा/बाहुभिःपरिघाकारैर्युध्यन्तःपर्वतोपमाः/हरयोभीमकर्माणोराक्षसाञ्जघ्नुराहवे/राक्षसाश्चापिसंक्रुद्धाःप्रासतोमरपाणयः/कपीन्निजघ्निरेतत्रशस्त्रैःपरमदारुणैः/हरयस्त्वपिरक्षांसिमहाद्रुममहाश्मभिः/विदारयन्त्यभिक्रम्यशस्त्राण्याच्छिद्यवीर्यतः/एतस्मिन्नन्तरेवीराहरयःकुमुदोनलः/मैन्दश्चपरमक्रुद्धश्चक्रुर्वेगमनुत्तमम्/तेतुवृक्षैर्महावेगाराक्षसानांचमूमुखे/कदनंसुमहचक्रुर्लीलयाहरियूथपाः65532/तद्दृष्ट्वासुमहत्कर्मकृतंवानरसत्तमैः/क्रोधमाहारयामासयुधितीव्रमकम्पनः6561/क्रोधमूर्छितरूपस्तुध्नुवन्परमकार्मुकम्/दृष्ट्वातुकर्मशत्रूणांसारथिंवाक्यमब्रवीत्/तत्रैवतावत्त्वरितंरथंप्रापयसारथे/एतेऽत्रबहवोघ्नन्तिसुबहून्राक्षसान्रणे/एतेऽत्रबलवन्तोहिभीमकायाश्चवानराः/द्रुमशैलप्रहरणास्तिष्ठन्तिप्रमुखेमम/एतान्निहन्तुमिच्छामिसमरश्लाघिनोह्यहम्/एतैःप्रमथितंसर्वंदृश्यतेराक्षसंबलम्/ततःप्रजविताश्वेनरथेनरथिनांवरः/हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः/नस्थातुंवानराःशेकुःकिंपुनर्योद्धुमाहवे/अकम्पनशरैर्भग्नाःसर्वएवप्रदुद्रुवुः/तान्मृत्युवशमापन्नानकम्पनवशंगतान्/समीक्ष्यहनुमाञ्ज्ञातीनुपतस्थेमहाबलः/तंमहाप्लवगंदृष्ट्वासर्वेप्लवगयूथपाः/समेत्यसमरेवीराःसहिताःपर्यवारयन्/व्यवस्थितंहनूमन्तंतेदृष्ट्वाहरियूथपाः/बभूवुर्बलवन्तोहिबलवन्तमुपाश्रिताः/अकम्पनस्तुशैलाभंहनूमन्तमवस्थितम्/महेन्द्रइवधाराभिःशरैरभिववर्षह/अचिन्तयित्वाबाणौघाञ्शरीरेपतिताञ्शितान्/अकम्पनवधार्थायमनोदध्रेमहाबलः/सप्रहस्यमहातेजाहनूमान्मारुतात्मजः/अभिदुद्रावतद्रक्षःकम्पयन्निवमेदिनीम्/तस्याभिनर्दमानस्यदीप्यमानस्यतेजसा/बभूवरूपंदुर्धर्षंदीप्तस्येवविभावसोः/आत्मानंत्वप्रहरणंज्ञात्वाक्रोधसमन्वितः/शैलमुत्पाटयामासवेगेनहरिपुंगवः/तंगृहीत्वामहाशैलंपाणिनैकेनमारुतिः/विनद्यसुमहानादंभ्रामयामासवीर्यवान्/ततस्तमभिदुद्रावराक्षसेन्द्रमकम्पनम्/यथाहिनमुचिंसंख्येवज्रेणेवपुरंदरः/अकम्पनस्तुतद्दृष्ट्वागिरिशृङ्गंसमुद्यतम्/दूरादेवमहाबाणैरर्धचन्द्रैर्व्यदारयत्/तत्पर्वताग्रमाकाशेरक्षोबाणविदारितम्/विकीर्णंपतितंदृष्ट्वाहनूमान्क्रोधमूर्छितः/सोऽश्वकर्णंसमासाद्यरोषदर्पान्वितोहरिः/तूर्णमुत्पाटयामासमहागिरिमिवोच्छ्रितम्/तंगृहीत्वामहास्कन्धंसोऽश्वकर्णंमहाद्युतिः/प्रहस्यपरयाप्रीत्याभ्रामयामाससंयुगे/प्रधावन्नुरुवेगेनप्रभञ्जंस्तरसाद्रुमान्/हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम्/गजांश्चसगजारोहान्सरथान्रथिनस्तथा/जघानहनुमान्धीमान्राक्षसांश्चपदातिकान्/तमन्तकमिवक्रुद्धंसमरेप्राणहारिणम्/हनूमन्तमभिप्रेक्ष्यराक्षसाविप्रदुद्रुवुः/तमापतन्तंसंक्रुद्धंराक्षसानांभयावहम्/ददर्शाकम्पनोवीरश्चुक्रोधचननादच/सचतुर्दशभिर्बाणैःशितैर्देहविदारणैः/निर्बिभेदहनूमन्तंमहावीर्यमकम्पनः/सतथाप्रतिविद्धस्तुबह्वीभिःशरवृष्टिभिः/हनूमान्ददृशेवीरःप्ररूढइवसानुमान्/ततोऽन्यंवृक्षमुत्पाट्यकृत्वावेगमनुत्तमम्/शिरस्यभिजघानाशुराक्षसेन्द्रमकम्पनम्/सवृक्षेणहतस्तेनसक्रोधेनमहात्मना/राक्षसोवानरेन्द्रेणपपातसममारच/तंदृष्ट्वानिहतंभूमौराक्षसेन्द्रमकम्पनम्/व्यथिताराक्षसाःसर्वेक्षितिकम्पइवद्रुमाः/त्यक्तप्रहरणाःसर्वेराक्षसास्तेपराजिताः/लङ्कामभिययुस्त्रस्तावानरैस्तैरभिद्रुताः/तेमुक्तकेशाःसंभ्रान्ताभग्नमानाःपराजिताः/स्रवच्छ्रमजलैरङ्गैःश्वसन्तोविप्रदुद्रुवुः/अन्योन्यंप्रममन्तुस्तेविविशुर्नगरंभयात्/पृष्ठतस्तेसुसंमूढाःप्रेक्षमाणामुहुर्मुहुः/तेषुलङ्कांप्रविष्टेषुराक्षसेषुमहाबलाः/समेत्यहरयःसर्वेहनूमन्तमपूजयन्/सोऽपिप्रहृष्टस्तान्सर्वान्हरीन्संप्रत्यपूजयत्/हनूमान्सत्त्वसंपन्नोयथार्हमनुकूलतः/विनेदुश्चयथाप्राणंहरयोजितकाशिनः/चकर्षुश्चपुनस्तत्रसप्राणानेवराक्षसान्/सवीरशोभामभजन्महाकपिः॑समेत्यरक्षांसिनिहत्यमारुतिः/महासुरंभीमममित्रनाशनं॑यथैवविष्णुर्बलिनंचमूमुखे/अपूजयन्देवगणास्तदाकपिं॑स्वयंचरामोऽतिबलश्चलक्ष्मणः/तथैवसुग्रीवमुखाःप्लवंगमा॑विभीषणश्चैवमहाबलस्तदा65639/अकम्पनवधंश्रुत्वाक्रुद्धोवैराक्षसेश्वरः/किंचिद्दीनमुखश्चापिसचिवांस्तानुदैक्षत6571/सतुध्यात्वामुहूर्तंतुमन्त्रिभिःसंविचार्यच/पुरींपरिययौलङ्कांसर्वान्गुल्मानवेक्षितुम्/तांराक्षसगणैर्गुप्तांगुल्मैर्बहुभिरावृताम्/ददर्शनगरींलङ्कांपताकाध्वजमालिनीम्/रुद्धांतुनगरींदृष्ट्वारावणोराक्षसेश्वरः/उवाचामर्षितःकालेप्रहस्तंयुद्धकोविदम्/पुरस्योपनिविष्टस्यसहसापीडितस्यच/नान्यंयुद्धात्प्रपश्यामिमोक्षंयुद्धविशारद/अहंवाकुम्भकर्णोवात्वंवासेनापतिर्मम/इन्द्रजिद्वानिकुम्भोवावहेयुर्भारमीदृशम्/सत्वंबलमितःशीघ्रमादायपरिगृह्यच/विजयायाभिनिर्याहियत्रसर्वेवनौकसः/निर्याणादेवतेनूनंचपलाहरिवाहिनी/नर्दतांराक्षसेन्द्राणांश्रुत्वानादंद्रविष्यति/चपलाह्यविनीताश्चचलचित्ताश्चवानराः/नसहिष्यन्तितेनादंसिंहनादमिवद्विपाः/विद्रुतेचबलेतस्मिन्रामःसौमित्रिणासह/अवशस्तेनिरालम्बःप्रहस्तवशमेष्यति/आपत्संशयिताश्रेयोनात्रनिःसंशयीकृता/प्रतिलोमानुलोमंवायद्वानोमन्यसेहितम्/रावणेनैवमुक्तस्तुप्रहस्तोवाहिनीपतिः/राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना/राजन्मन्त्रितपूर्वंनःकुशलैःसहमन्त्रिभिः/विवादश्चापिनोवृत्तःसमवेक्ष्यपरस्परम्/प्रदानेनतुसीतायाःश्रेयोव्यवसितंमया/अप्रदानेपुनर्युद्धंदृष्टमेतत्तथैवनः/सोऽहंदानैश्चमानैश्चसततंपूजितस्त्वया/सान्त्वैश्चविविधैःकालेकिंनकुर्यांप्रियंतव/नहिमेजीवितंरक्ष्यंपुत्रदारधनानिवा/त्वंपश्यमांजुहूषन्तंत्वदर्थेजीवितंयुधि/एवमुक्त्वातुभर्तारंरावणंवाहिनीपतिः/समानयतमेशीघ्रंराक्षसानांमहद्बलम्/मद्बाणाशनिवेगेनहतानांतुरणाजिरे/अद्यतृप्यन्तुमांसेनपक्षिणःकाननौकसाम्/इत्युक्तास्तेप्रहस्तेनबलाध्यक्षाःकृतत्वराः/बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे/साबभूवमुहूर्तेनतिग्मनानाविधायुधैः/लङ्काराक्षसवीरैस्तैर्गजैरिवसमाकुला/हुताशनंतर्पयतांब्राह्मणांश्चनमस्यताम्/आज्यगन्धप्रतिवहःसुरभिर्मारुतोववौ/स्रजश्चविविधाकाराजगृहुस्त्वभिमन्त्रिताः/संग्रामसज्जाःसंहृष्टाधारयन्राक्षसास्तदा/सधनुष्काःकवचिनोवेगादाप्लुत्यराक्षसाः/रावणंप्रेक्ष्यराजानंप्रहस्तंपर्यवारयन्/अथामन्त्र्यचराजानंभेरीमाहत्यभैरवाम्/आरुरोहरथंदिव्यंप्रहस्तःसज्जकल्पितम्/हयैर्महाजवैर्युक्तंसम्यक्सूतसुसंयुतम्/महाजलदनिर्घोषंसाक्षाच्चन्द्रार्कभास्वरम्/उरगध्वजदुर्धर्षंसुवरूथंस्वपस्करम्/सुवर्णजालसंयुक्तंप्रहसन्तमिवश्रिया/ततस्तंरथमास्थायरावणार्पितशासनः/लङ्कायानिर्ययौतूर्णंबलेनमहतावृतः/ततोदुंदुभिनिर्घोषःपर्जन्यनिनदोपमः/शुश्रुवेशङ्खशब्दश्चप्रयातेवाहिनीपतौ/निनदन्तःस्वरान्घोरान्राक्षसाजग्मुरग्रतः/भीमरूपामहाकायाःप्रहस्तस्यपुरःसराः/व्यूढेनैवसुघोरेणपूर्वद्वारात्सनिर्ययौ/गजयूथनिकाशेनबलेनमहतावृतः/सागरप्रतिमौघेनवृतस्तेनबलेनसः/प्रहस्तोनिर्ययौतूर्णंक्रुद्धःकालान्तकोपमः/तस्यनिर्याणघोषेणराक्षसानांचनर्दताम्/लङ्कायांसर्वभूतानिविनेदुर्विकृतैःस्वरैः/व्यभ्रमाकाशमाविश्यमांसशोणितभोजनाः/मण्डलान्यपसव्यानिखगाश्चक्रूरथंप्रति/वमन्त्यःपावकज्वालाःशिवाघोराववाशिरे/अन्तरिक्षात्पपातोल्कावायुश्चपरुषोववौ/अन्योन्यमभिसंरब्धाग्रहाश्चनचकाशिरे/ववर्षूरुधिरंचास्यसिषिचुश्चपुरःसरान्/केतुमूर्धनिगृध्रोऽस्यविलीनोदक्षिणामुखः/सारथेर्बहुशश्चास्यसंग्राममवगाहतः/प्रतोदोन्यपतद्धस्तात्सूतस्यहयसादिनः/निर्याणश्रीश्चयास्यासीद्भास्वराचसुदुर्लभा/साननाशमुहूर्तेनसमेचस्खलिताहयाः/प्रहस्तंत्वभिनिर्यान्तंप्रख्यातबलपौरुषम्/युधिनानाप्रहरणाकपिसेनाभ्यवर्तत/अथघोषःसुतुमुलोहरीणांसमजायत/वृक्षानारुजतांचैवगुर्वीश्चागृह्णतांशिलाः/उभेप्रमुदितेसैन्येरक्षोगणवनौकसाम्/वेगितानांसमर्थानामन्योन्यवधकाङ्क्षिणाम्/परस्परंचाह्वयतांनिनादःश्रूयतेमहान्/ततःप्रहस्तःकपिराजवाहिनीम्॑अभिप्रतस्थेविजयायदुर्मतिः/विवृद्धवेगांचविवेशतांचमूं॑यथामुमूर्षुःशलभोविभावसुम्65744/ततःप्रहस्तंनिर्यान्तंभीमंभीमपराक्रमम्/गर्जन्तंसुमहाकायंराक्षसैरभिसंवृतम्6581/ददर्शमहतीसेनावानराणांबलीयसाम्/अतिसंजातरोषाणांप्रहस्तमभिगर्जताम्/खड्गशक्त्यष्टिबाणाश्चशूलानिमुसलानिच/गदाश्चपरिघाःप्रासाविविधाश्चपरश्वधाः/धनूंषिचविचित्राणिराक्षसानांजयैषिणाम्/प्रगृहीतान्यशोभन्तवानरानभिधावताम्/जगृहुःपादपांश्चापिपुष्पितान्वानरर्षभाः/शिलाश्चविपुलादीर्घायोद्धुकामाःप्लवंगमाः/तेषामन्योन्यमासाद्यसंग्रामःसुमहानभूत्/बहूनामश्मवृष्टिंचशरवृष्टिंचवर्षताम्/बहवोराक्षसायुद्धेबहून्वानरयूथपान्/वानराराक्षसांश्चापिनिजघ्नुर्बहवोबहून्/शूलैःप्रमथिताःकेचित्केचित्तुपरमायुधैः/परिघैराहताःकेचित्केचिच्छिन्नाःपरश्वधैः/निरुच्छ्वासाःपुनःकेचित्पतिताधरणीतले/विभिन्नहृदयाःकेचिदिषुसंतानसंदिताः/केचिद्द्विधाकृताःखड्गैःस्फुरन्तःपतिताभुवि/वानराराक्षसैःशूलैःपार्श्वतश्चविदारिताः/वानरैश्चापिसंक्रुद्धैराक्षसौघाःसमन्ततः/पादपैर्गिरिशृङ्गैश्चसंपिष्टावसुधातले/वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्चहताभृशम्/वेमुःशोणितमास्येभ्योविशीर्णदशनेक्षणः/आर्तस्वरंचस्वनतांसिंहनादंचनर्दताम्/बभूवतुमुलःशब्दोहरीणांरक्षसांयुधि/वानराराक्षसाःक्रुद्धावीरमार्गमनुव्रताः/विवृत्तनयनाःक्रूराश्चक्रुःकर्माण्यभीतवत्/नरान्तकःकुम्भहनुर्महानादःसमुन्नतः/एतेप्रहस्तसचिवाःसर्वेजघ्नुर्वनौकसः/तेषामापततांशीघ्रंनिघ्नतांचापिवानरान्/द्विविदोगिरिशृङ्गेणजघानैकंनरान्तकम्/दुर्मुखःपुनरुत्पाट्यकपिःसविपुलद्रुमम्/राक्षसंक्षिप्रहस्तस्तुसमुन्नतमपोथयत्/जाम्बवांस्तुसुसंक्रुद्धःप्रगृह्यमहतींशिलाम्/पातयामासतेजस्वीमहानादस्यवक्षसि/अथकुम्भहनुस्तत्रतारेणासाद्यवीर्यवान्/वृक्षेणाभिहतोमूर्ध्निप्राणांस्तत्याजराक्षसः/अमृष्यमाणस्तत्कर्मप्रहस्तोरथमास्थितः/चकारकदनंघोरंधनुष्पाणिर्वनौकसाम्/आवर्तइवसंजज्ञेउभयोःसेनयोस्तदा/क्षुभितस्याप्रमेयस्यसागरस्येवनिस्वनः/महताहिशरौघेणप्रहस्तोयुद्धकोविदः/अर्दयामाससंक्रुद्धोवानरान्परमाहवे/वानराणांशरीरैस्तुराक्षसानांचमेदिनी/बभूवनिचिताघोरापतितैरिवपर्वतैः/सामहीरुधिरौघेणप्रच्छन्नासंप्रकाशते/संछन्नामाधवेमासिपलाशैरिवपुष्पितैः/हतवीरौघवप्रांतुभग्नायुधमहाद्रुमाम्/शोणितौघमहातोयांयमसागरगामिनीम्/यकृत्प्लीहमहापङ्कांविनिकीर्णान्त्रशैवलाम्/भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम्/गृध्रहंसगणाकीर्णांकङ्कसारससेविताम्/मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम्/तांकापुरुषदुस्तारांयुद्धभूमिमयींनदीम्/नदीमिवघनापायेहंससारससेविताम्/राक्षसाःकपिमुख्याश्चतेरुस्तांदुस्तरांनदीम्/यथापद्मरजोध्वस्तांनलिनींगजयूथपाः/ततःसृजन्तंबाणौघान्प्रहस्तंस्यन्दनेस्थितम्/ददर्शतरसानीलोविनिघ्नन्तंप्लवंगमान्/सतंपरमदुर्धर्षमापतन्तंमहाकपिः/प्रहस्तंताडयामासवृक्षमुत्पाट्यवीर्यवान्/सतेनाभिहतःक्रुद्धोनदन्राक्षसपुंगवः/ववर्षशरवर्षाणिप्लवगानांचमूपतौ/अपारयन्वारयितुंप्रत्यगृह्णान्निमीलितः/यथैवगोवृषोवर्षंशारदंशीघ्रमागतम्/एवमेवप्रहस्तस्यशरवर्षंदुरासदम्/निमीलिताक्षःसहसानीलःसेहेसुदारुणम्/रोषितःशरवर्षेणसालेनमहतामहान्/प्रजघानहयान्नीलःप्रहस्तस्यमनोजवान्/विधनुस्तुकृतस्तेनप्रहस्तोवाहिनीपतिः/प्रगृह्यमुसलंघोरंस्यन्दनादवपुप्लुवे/तावुभौवाहिनीमुख्यौजातरोषौतरस्विनौ/स्थितौक्षतजदिग्धाङ्गौप्रभिन्नाविवकुञ्जरौ/उल्लिखन्तौसुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्/सिंहशार्दूलसदृशौसिंहशार्दूलचेष्टितौ/विक्रान्तविजयौवीरौसमरेष्वनिवर्तिनौ/काङ्क्षमाणौयशःप्राप्तुंवृत्रवासवयोःसमौ/आजघानतदानीलंललाटेमुसलेनसः/प्रहस्तःपरमायस्तस्तस्यसुस्रावशोणितम्/ततःशोणितदिग्धाङ्गःप्रगृह्यसुमहातरुम्/प्रहस्तस्योरसिक्रुद्धोविससर्जमहाकपिः/तमचिन्त्यप्रहारंसप्रगृह्यमुसलंमहत्/अभिदुद्रावबलिनंबलीनीलंप्लवंगमम्/तमुग्रवेगंसंरब्धमापतन्तंमहाकपिः/ततःसंप्रेक्ष्यजग्राहमहावेगोमहाशिलाम्/तस्ययुद्धाभिकामस्यमृधेमुसलयोधिनः/प्रहस्तस्यशिलांनीलोमूर्ध्नितूर्णमपातयत्/सातेनकपिमुख्येनविमुक्तामहतीशिला/बिभेदबहुधाघोराप्रहस्तस्यशिरस्तदा/सगतासुर्गतश्रीकोगतसत्त्वोगतेन्द्रियः/पपातसहसाभूमौछिन्नमूलइवद्रुमः/विभिन्नशिरसस्तस्यबहुसुस्रावशोणितम्/शरीरादपिसुस्रावगिरेःप्रस्रवणंयथा/हतेप्रहस्तेनीलेनतदकम्प्यंमहद्बलम्/रक्षसामप्रहृष्टानांलङ्कामभिजगामह/नशेकुःसमवस्थातुंनिहतेवाहिनीपतौ/सेतुबन्धंसमासाद्यविशीर्णंसलिलंयथा/हतेतस्मिंश्चमूमुख्येराक्षसस्तेनिरुद्यमाः/रक्षःपतिगृहंगत्वाध्यानमूकत्वमागताः/ततस्तुनीलोविजयीमहाबलः॑प्रशस्यमानःस्वकृतेनकर्मणा/समेत्यरामेणसलक्ष्मणेन॑प्रहृष्टरूपस्तुबभूवयूथपः65861/तस्मिन्हतेराक्षससैन्यपाले॑प्लवंगमानामृषभेणयुद्धे/भीमायुधंसागरतुल्यवेगं॑प्रदुद्रुवेराक्षसराजसैन्यम्6591/गत्वातुरक्षोऽधिपतेःशशंसुः॑सेनापतिंपावकसूनुशस्तम्/तच्चापितेषांवचनंनिशम्य॑रक्षोऽधिपःक्रोधवशंजगाम/संख्येप्रहस्तंनिहतंनिशम्य॑शोकार्दितःक्रोधपरीतचेताः/उवाचतान्नैरृतयोधमुख्यान्॑इन्द्रोयथाचामरयोधमुख्यान्/नावज्ञारिपवेकार्यायैरिन्द्रबलसूदनः/सूदितःसैन्यपालोमेसानुयात्रःसकुञ्जरः/सोऽहंरिपुविनाशायविजयायाविचारयन्/स्वयमेवगमिष्यामिरणशीर्षंतदद्भुतम्/अद्यतद्वानरानीकंरामंचसहलक्ष्मणम्/निर्दहिष्यामिबाणौघैर्वनंदीप्तैरिवाग्निभिः/सएवमुक्त्वाज्वलनप्रकाशं॑रथंतुरंगोत्तमराजियुक्तम्/प्रकाशमानंवपुषाज्वलन्तं॑समारुरोहामरराजशत्रुः/सशङ्खभेरीपटहप्रणादैर्॑आस्फोटितक्ष्वेडितसिंहनादैः/पुण्यैःस्तवैश्चाप्यभिपूज्यमानस्॑तदाययौराक्षसराजमुख्यः/सशैलजीमूतनिकाशरूपैर्॑मांसाशनैःपावकदीप्तनेत्रैः/बभौवृतोराक्षसराजमुख्यैर्॑भूतैर्वृतोरुद्रइवामरेशः/ततोनगर्याःसहसामहौजा॑निष्क्रम्यतद्वानरसैन्यमुग्रम्/महार्णवाभ्रस्तनितंददर्श॑समुद्यतंपादपशैलहस्तम्/तद्राक्षसानीकमतिप्रचण्डम्॑आलोक्यरामोभुजगेन्द्रबाहुः/विभीषणंशस्त्रभृतांवरिष्ठम्॑उवाचसेनानुगतःपृथुश्रीः/नानापताकाध्वजशस्त्रजुष्टं॑प्रासासिशूलायुधचक्रजुष्टम्/सैन्यंनगेन्द्रोपमनागजुष्टं॑कस्येदमक्षोभ्यमभीरुजुष्टम्/ततस्तुरामस्यनिशम्यवाक्यं॑विभीषणःशक्रसमानवीर्यः/शशंसरामस्यबलप्रवेकं॑महात्मनांराक्षसपुंगवानाम्/योऽसौगजस्कन्धगतोमहात्मा॑नवोदितार्कोपमताम्रवक्त्रः/प्रकम्पयन्नागशिरोऽभ्युपैतिह्य्॑अकम्पनंत्वेनमवेहिराजन्/योऽसौरथस्थोमृगराजकेतुर्॑धून्वन्धनुःशक्रधनुःप्रकाशम्/करीवभात्युग्रविवृत्तदंष्ट्रः॑सइन्द्रजिन्नामवरप्रधानः/यश्चैषविन्ध्यास्तमहेन्द्रकल्पो॑धन्वीरथस्थोऽतिरथोऽतिवीर्यः/विस्फारयंश्चापमतुल्यमानं॑नाम्नातिकायोऽतिविवृद्धकायः/योऽसौनवार्कोदितताम्रचक्षुर्॑आरुह्यघण्टानिनदप्रणादम्/गजंखरंगर्जतिवैमहात्मा॑महोदरोनामसएषवीरः/योऽसौहयंकाञ्चनचित्रभाण्डम्॑आरुह्यसंध्याभ्रगिरिप्रकाशम्/प्रासंसमुद्यम्यमरीचिनद्धं॑पिशाचएषाशनितुल्यवेगः/यश्चैषशूलंनिशितंप्रगृह्य॑विद्युत्प्रभंकिंकरवज्रवेगम्/वृषेन्द्रमास्थायगिरिप्रकाशम्॑आयातिसोऽसौत्रिशिरायशस्वी/असौचजीमूतनिकाशरूपः॑कुम्भःपृथुव्यूढसुजातवक्षाः/समाहितःपन्नगराजकेतुर्॑विस्फारयन्भातिधनुर्विधून्वन्/यश्चैषजाम्बूनदवज्रजुष्टं॑दीप्तंसधूमंपरिघंप्रगृह्य/आयातिरक्षोबलकेतुभूतः॑सोऽसौनिकुम्भोऽद्भुतघोरकर्मा/यश्चैषचापासिशरौघजुष्टं॑पताकिनंपावकदीप्तरूपम्/रथंसमास्थायविभात्युदग्रो॑नरान्तकोऽसौनगशृङ्गयोधी/यश्चैषनानाविधघोररूपैर्॑व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः/भूतैर्वृतोभातिविवृत्तनेत्रैः॑सोऽसौसुराणामपिदर्पहन्ता/यत्रैतदिन्दुप्रतिमंविभातिच्॑छत्त्रंसितंसूक्ष्मशलाकमग्र्यम्/अत्रैषरक्षोऽधिपतिर्महात्मा॑भूतैर्वृतोरुद्रइवावभाति/असौकिरीटीचलकुण्डलास्यो॑नागेन्द्रविन्ध्योपमभीमकायः/महेन्द्रवैवस्वतदर्पहन्ता॑रक्षोऽधिपःसूर्यइवावभाति/प्रत्युवाचततोरामोविभीषणमरिंदमम्/अहोदीप्तोमहातेजारावणोराक्षसेश्वरः/आदित्यइवदुष्प्रेक्ष्योरश्मिभिर्भातिरावणः/सुव्यक्तंलक्षयेह्यस्यरूपंतेजःसमावृतम्/देवदानववीराणांवपुर्नैवंविधंभवेत्/यादृशंराक्षसेन्द्रस्यवपुरेतत्प्रकाशते/सर्वेपर्वतसंकाशाःसर्वेपर्वतयोधिनः/सर्वेदीप्तायुधधरायोधश्चास्यमहौजसः/भातिराक्षसराजोऽसौप्रदीप्तैर्भीमविक्रमैः/भूतैःपरिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः/एवमुक्त्वाततोरामोधनुरादायवीर्यवान्/लक्ष्मणानुचरस्तस्थौसमुद्धृत्यशरोत्तमम्/ततःसरक्षोऽधिपतिर्महात्मा॑रक्षांसितान्याहमहाबलानि/द्वारेषुचर्यागृहगोपुरेषु॑सुनिर्वृतास्तिष्ठतनिर्विशङ्काः/विसर्जयित्वासहसाततस्तान्॑गतेषुरक्षःसुयथानियोगम्/व्यदारयद्वानरसागरौघं॑महाझषःपूर्ममिवार्णवौघम्/तमापतन्तंसहसासमीक्ष्य॑दीप्तेषुचापंयुधिराक्षसेन्द्रम्/महत्समुत्पाट्यमहीधराग्रं॑दुद्रावरक्षोऽधिपतिंहरीशः/तच्छैलशृङ्गंबहुवृक्षसानुं॑प्रगृह्यचिक्षेपनिशाचराय/तमापतन्तंसहसासमीक्ष्य॑बिभेदबाणैस्तपनीयपुङ्खैः/तस्मिन्प्रवृद्धोत्तमसानुवृक्षे॑शृङ्गेविकीर्णेपतितेपृथिव्याम्/महाहिकल्पंशरमन्तकाभं॑समाददेराक्षसलोकनाथः/सतंगृहीत्वानिलतुल्यवेगं॑सविस्फुलिङ्गज्वलनप्रकाशम्/बाणंमहेन्द्राशनितुल्यवेगं॑चिक्षेपसुग्रीववधायरुष्टः/ससायकोरावणबाहुमुक्तः॑शक्राशनिप्रख्यवपुःशिताग्रः/सुग्रीवमासाद्यबिभेदवेगाद्॑गुहेरिताक्रौचमिवोग्रशक्तिः/ससायकार्तोविपरीतचेताः॑कूजन्पृथिव्यांनिपपातवीरः/तंप्रेक्ष्यभूमौपतितंविसंज्मं॑नेदुःप्रहृष्टायुधियातुधानाः/ततोगवाक्षोगवयःसुदंष्ट्रस्॑तथर्षभोज्योतिमुखोनलश्च/शैलान्समुद्यम्यविवृद्धकायाः॑प्रदुद्रुवुस्तंप्रतिराक्षसेन्द्रम्/तेषांप्रहारान्सचकारमेघान्॑रक्षोऽधिपोबाणगणैःशिताग्रैः/तान्वानरेन्द्रानपिबाणजालैर्॑बिभेदजाम्बूनदचित्रपुङ्खैः/तेवानरेन्द्रास्त्रिदशारिबाणैर्॑भिन्नानिपेतुर्भुविभीमरूपाः/ततस्तुतद्वानरसैन्यमुग्रं॑प्रच्छादयामाससबाणजालैः/तेवध्यमानाःपतिताग्र्यवीरा॑नानद्यमानाभयशल्यविद्धाः/शाखामृगारावणसायकार्ता॑जग्मुःशरण्यंशरणंस्मरामम्/ततोमहात्मासधनुर्धनुष्मान्॑आदायरामःसहराजगाम/तंलक्ष्मणःप्राञ्जलिरभ्युपेत्य॑उवाचवाक्यंपरमार्थयुक्तम्/काममार्यःसुपर्याप्तोवधायास्यदुरात्मनः/विधमिष्याम्यहंनीचमनुजानीहिमांविभो/तमब्रवीन्महातेजारामःसत्यपराक्रमः/गच्छयत्नपरश्चापिभवलक्ष्मणसंयुगे/रावणोहिमहावीर्योरणेऽद्भुतपराक्रमः/त्रैलोक्येनापिसंक्रुद्धोदुष्प्रसह्योनसंशयः/तस्यच्छिद्राणिमार्गस्वस्वच्छिद्राणिचगोपय/चक्षुषाधनुषायत्नाद्रक्षात्मानंसमाहितः/राघवस्यवचःश्रुत्वासंपरिष्वज्यपूज्यच/अभिवाद्यततोरामंययौसौमित्रिराहवम्/सरावणंवारणहस्तबाहुर्॑ददर्शदीप्तोद्यतभीमचापम्/प्रच्छादयन्तंशरवृष्टिजालैस्॑तान्वानरान्भिन्नविकीर्णदेहान्/तमालोक्यमहातेजाहनूमान्मारुतात्मजा/निवार्यशरजालानिप्रदुद्रावसरावणम्/रथंतस्यसमासाद्यभुजमुद्यम्यदक्षिणम्/त्रासयन्रावणंधीमान्हनूमान्वाक्यमब्रवीत्/देवदानवगन्धर्वायक्षाश्चसहराक्षसैः/अवध्यत्वात्त्वयाभग्नावानरेभ्यस्तुतेभयम्/एषमेदक्षिणोबाहुःपञ्चशाखःसमुद्यतः/विधमिष्यतितेदेहाद्भूतात्मानंचिरोषितम्/श्रुत्वाहनूमतोवाक्यंरावणोभीमविक्रमः/संरक्तनयनःक्रोधादिदंवचनमब्रवीत्/क्षिप्रंप्रहरनिःशङ्कंस्थिरांकीर्तिमवाप्नुहि/ततस्त्वांज्ञातिविक्रान्तंनाशयिष्यामिवानर/रावणस्यवचःश्रुत्वावायुसूनुर्वचोऽब्रवीत्/प्रहृतंहिमयापूर्वमक्षंस्मरसुतंतव/एवमुक्तोमहातेजारावणोराक्षसेश्वरः/आजघानानिलसुतंतलेनोरसिवीर्यवान्/सतलाभिहतस्तेनचचालचमुहुर्मुहुः/आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम्/ततस्तलेनाभिहतोवानरेणमहात्मना/दशग्रीवःसमाधूतोयथाभूमिचलेऽचलः/संग्रामेतंतथादृष्ट्वरावणंतलताडितम्/ऋषयोवानराःसिद्धानेदुर्देवाःसहासुराः/अथाश्वस्यमहातेजारावणोवाक्यमब्रवीत्/साधुवानरवीर्येणश्लाघनीयोऽसिमेरिपुः/रावणेनैवमुक्तस्तुमारुतिर्वाक्यमब्रवीत्/धिगस्तुममवीर्यंतुयत्त्वंजीवसिरावण/सकृत्तुप्रहरेदानींदुर्बुद्धेकिंविकत्थसे/ततस्त्वांमामकोमुष्टिर्नयिष्यामियथाक्षयम्/ततोमारुतिवाक्येनक्रोधस्तस्यतदाज्वलत्/संरक्तनयनोयत्नान्मुष्टिमुद्यम्यदक्षिणम्/पातयामासवेगेनवानरोरसिवीर्यवान्/हनूमान्वक्षसिव्यूधेसंचचालहतःपुनः/विह्वलंतंतदादृष्ट्वाहनूमन्तंमहाबलम्/रथेनातिरथःशीघ्रंनीलंप्रतिसमभ्यगात्/पन्नगप्रतिमैर्भीमैःपरमर्मातिभेदिभिः/शरैरादीपयामासनीलंहरिचमूपतिम्/सशरौघसमायस्तोनीलःकपिचमूपतिः/करेणैकेनशैलाग्रंरक्षोऽधिपतयेऽसृजत्/हनूमानपितेजस्वीसमाश्वस्तोमहामनाः/विप्रेक्षमाणोयुद्धेप्सुःसरोषमिदमब्रवीत्/नीलेनसहसंयुक्तंरावणंराक्षसेश्वरम्/अन्येनयुध्यमानस्यनयुक्तमभिधावनम्/रावणोऽपिमहातेजास्तच्छृङ्गंसप्तभिःशरैः/आजघानसुतीक्ष्णाग्रैस्तद्विकीर्णंपपातह/तद्विकीर्णंगिरेःशृङ्गंदृष्ट्वाहरिचमूपतिः/कालाग्निरिवजज्वालक्रोधेनपरवीरहा/सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापिसुपुष्पितान्/अन्यांश्चविविधान्वृक्षान्नीलश्चिक्षेपसंयुगे/सतान्वृक्षान्समासाद्यप्रतिचिच्छेदरावणः/अभ्यवर्षत्सुघोरेणशरवर्षेणपावकिम्/अभिवृष्टःशरौघेणमेघेनेवमहाचलः/ह्रस्वंकृत्वातदारूपंध्वजाग्रेनिपपातह/पावकात्मजमालोक्यध्वजाग्रेसमवस्थितम्/जज्वालरावणःक्रोधात्ततोनीलोननादह/ध्वजाग्रेधनुषश्चाग्रेकिरीटाग्रेचतंहरिम्/लक्ष्मणोऽथहनूमांश्चदृष्ट्वारामश्चविस्मिताः/रावणोऽपिमहातेजाःकपिलाघवविस्मितः/अस्त्रमाहारयामासदीप्तमाग्नेयमद्भुतम्/ततस्तेचुक्रुशुर्हृष्टालब्धलक्ष्याःप्लवंगमाः/नीललाघवसंभ्रान्तंदृष्ट्वारावणमाहवे/वानराणांचनादेनसंरब्धोरावणस्तदा/संभ्रमाविष्टहृदयोनकिंचित्प्रत्यपद्यत/आग्नेयेनाथसंयुक्तंगृहीत्वारावणःशरम्/ध्वजशीर्षस्थितंनीलमुदैक्षतनिशाचरः/ततोऽब्रवीन्महातेजारावणोराक्षसेश्वरः/कपेलाघवयुक्तोऽसिमाययापरयानया/जीवितंखलुरक्षस्वयदिशक्नोषिवानर/तानितान्यात्मरूपाणिसृजसेत्वमनेकशः/तथापित्वांमयामुक्तःसायकोऽस्त्रप्रयोजितः/जीवितंपरिरक्षन्तंजीविताद्भ्रंशयिष्यति/एवमुक्त्वामहाबाहूरावणोराक्षसेश्वरः/संधायबाणमस्त्रेणचमूपतिमताडयत्/सोऽस्त्रयुक्तेनबाणेननीलोवक्षसिताडितः/निर्दह्यमानःसहसानिपपातमहीतले/पितृमाहात्म्यसंयोगादात्मनश्चापितेजसा/जानुभ्यामपतद्भूमौनचप्राणैर्व्ययुज्यत/विसंज्ञंवानरंदृष्ट्वादशग्रीवोरणोत्सुकः/रथेनाम्बुदनादेनसौमित्रिमभिदुद्रुवे/तमाहसौमित्रिरदीनसत्त्वो॑विस्फारयन्तंधनुरप्रमेयम्/अन्वेहिमामेवनिशाचरेन्द्र॑नवानरांस्त्वंप्रतियोद्धुमर्हसि/सतस्यवाक्यंपरिपूर्णघोषं॑ज्याशब्दमुग्रंचनिशम्यराजा/आसाद्यसौमित्रिमवस्थितंतं॑कोपान्वितंवाक्यमुवाचरक्षः/दिष्ट्यासिमेराघवदृष्टिमार्गं॑प्राप्तोऽन्तगामीविपरीतबुद्धिः/अस्मिन्क्षणेयास्यसिमृत्युदेशं॑संसाद्यमानोममबाणजालैः/तमाहसौमित्रिरविस्मयानो॑गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम्/राजन्नगर्जन्तिमहाप्रभावा॑विकत्थसेपापकृतांवरिष्ठ/जानामिवीर्यंतवराक्षसेन्द्र॑बलंप्रतापंचपराक्रमंच/अवस्थितोऽहंशरचापपाणिर्॑आगच्छकिंमोघविकत्थनेन/सएवमुक्तःकुपितःससर्ज॑रक्षोऽधिपःसप्तशरान्सुपुङ्खान्/तांल्लक्ष्मणःकाञ्चनचित्रपुङ्खैश्॑चिच्छेदबाणैर्निशिताग्रधारैः/तान्प्रेक्षमाणःसहसानिकृत्तान्॑निकृत्तभोगानिवपन्नगेन्द्रान्/लङ्केश्वरःक्रोधवशंजगाम॑ससर्जचान्यान्निशितान्पृषत्कान्/सबाणवर्षंतुववर्षतीव्रं॑रामानुजःकार्मुकसंप्रयुक्तम्/क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः॑शरांश्चचिच्छेदनचुक्षुभेच/सलक्ष्मणश्चाशुशराञ्शिताग्रान्॑महेन्द्रवज्राशनितुल्यवेगान्/संधायचापेज्वलनप्रकाशान्॑ससर्जरक्षोऽधिपतेर्वधाय/सतान्प्रचिच्छेदहिराक्षसेन्द्रश्॑छित्त्वाचतांल्लक्ष्मणमाजघान/शरेणकालाग्निसमप्रभेण॑स्वयम्भुदत्तेनललाटदेशे/सलक्ष्मणोरावणसायकार्तश्॑चचालचापंशिथिलंप्रगृह्य/पुनश्चसंज्ञांप्रतिलभ्यकृच्छ्राच्॑चिच्छेदचापंत्रिदशेन्द्रशत्रोः/निकृत्तचापंत्रिभिराजघान॑बाणैस्तदादाशरथिःशिताग्रैः/ससायकार्तोविचचालराजा॑कृच्छ्राच्चसंज्ञांपुनराससाद/सकृत्तचापःशरताडितश्च॑स्वेदार्द्रगात्रोरुधिरावसिक्तः/जग्राहशक्तिंसमुदग्रशक्तिः॑स्वयम्भुदत्तांयुधिदेवशत्रुः/सतांविधूमानलसंनिकाशां॑वित्रासनींवानरवाहिनीनाम्/चिक्षेपशक्तिंतरसाज्वलन्तीं॑सौमित्रयेराक्षसराष्ट्रनाथः/तामापतन्तींभरतानुजोऽस्त्रैर्॑जघानबाणैश्चहुताग्निकल्पैः/तथापिसातस्यविवेशशक्तिर्॑भुजान्तरंदाशरथेर्विशालम्/शक्त्याब्राम्यातुसौमित्रिस्ताडितस्तुस्तनान्तरे/विष्णोरचिन्त्यंस्वंभागमात्मानंप्रत्यनुस्मरत्/ततोदानवदर्पघ्नंसौमित्रिंदेवकण्टकः/तंपीडयित्वाबाहुभ्यामप्रभुर्लङ्घनेऽभवत्/हिमवान्मन्दरोमेरुस्त्रैलोक्यंवासहामरैः/शक्यंभुजाभ्यामुद्धर्तुंनसंख्येभरतानुजः/अथैनंवैष्णवंभागंमानुषंदेहमास्थितम्/विसंज्ञंलक्ष्मणंदृष्ट्वारावणोविस्मितोऽभवत्/अथवायुसुतःक्रुद्धोरावणंसमभिद्रवत्/आजघानोरसिक्रुद्धोवज्रकल्पेनमुष्टिना/तेनमुष्टिप्रहारेणरावणोराक्षसेश्वरः/जानुभ्यामपतद्भूमौचचालचपपातच/विसंज्ञंरावणंदृष्ट्वासमरेभीमविक्रमम्/ऋषयोवानराश्चैवनेदुर्देवाःसवासवाः/हनूमानपितेजस्वीलक्ष्मणंरावणार्दितम्/अनयद्राघवाभ्याशंबाहुभ्यांपरिगृह्यतम्/वायुसूनोःसुहृत्त्वेनभक्त्यापरमयाचसः/शत्रूणामप्रकम्प्योऽपिलघुत्वमगमत्कपेः/तंसमुत्सृज्यसाशक्तिःसौमित्रिंयुधिदुर्जयम्/रावणस्यरथेतस्मिन्स्थानंपुनरुपागमत्/रावणोऽपिमहातेजाःप्राप्यसंज्ञांमहाहवे/आददेनिशितान्बाणाञ्जग्राहचमहद्धनुः/आश्वस्तश्चविशल्यश्चलक्ष्मणःशत्रुसूदनः/विष्णोर्भागममीमांस्यमात्मानंप्रत्यनुस्मरन्/निपातितमहावीरांवानराणांमहाचमूम्/राघवस्तुरणेदृष्ट्वारावणंसमभिद्रवत्/अथैनमुपसंगम्यहनूमान्वाक्यमब्रवीत्/ममपृष्ठंसमारुह्यरक्षसंशास्तुमर्हसि/तच्छ्रुत्वाराघवोवाक्यंवायुपुत्रेणभाषितम्/आरोहत्सहसाशूरोहनूमन्तंमहाकपिम्/रथस्थंरावणंसंख्येददर्शमनुजाधिपः/तमालोक्यमहातेजाःप्रदुद्रावसराघवः/वैरोचनमिवक्रुद्धोविष्णुरभ्युद्यतायुधः/ज्याशब्दमकरोत्तीव्रंवज्रनिष्पेषनिस्वनम्/गिरागम्भीरयारामोराक्षसेन्द्रमुवाचह/तिष्ठतिष्ठममत्वंहिकृत्वाविप्रियमीदृशम्/क्वनुराक्षसशार्दूलगतोमोक्षमवाप्स्यसि/यदीन्द्रवैवस्वतभास्करान्वा॑स्वयम्भुवैश्वानरशंकरान्वा/गमिष्यसित्वंदशवादिशोवा॑तथापिमेनाद्यगतोविमोक्ष्यसे/यश्चैषशक्त्याभिहतस्त्वयाद्य॑इच्छन्विषादंसहसाभ्युपेतः/सएषरक्षोगणराजमृत्युः॑सपुत्रदारस्यतवाद्ययुद्धे/राघवस्यवचःश्रुत्वाराक्षसेन्द्रोमहाकपिम्/आजघानशरैस्तीक्ष्णैःकालानलशिखोपमैः/राक्षसेनाहवेतस्यताडितस्यापिसायकैः/स्वभावतेजोयुक्तस्यभूयस्तेजोव्यवर्धत/ततोरामोमहातेजारावणेनकृतव्रणम्/दृष्ट्वाप्लवगशार्दूलंक्रोधस्यवशमेयिवान्/तस्याभिसंक्रम्यरथंसचक्रं॑साश्वध्वजच्छत्रमहापताकम्/ससारथिंसाशनिशूलखड्गं॑रामःप्रचिच्छेदशरैःसुपुङ्खैः/अथेन्द्रशत्रुंतरसाजघान॑बाणेनवज्राशनिसंनिभेन/भुजान्तरेव्यूढसुजातरूपे॑वज्रेणमेरुंभगवानिवेन्द्रः/योवज्रपाताशनिसंनिपातान्॑नचुक्षुभेनापिचचालराजा/सरामबाणाभिहतोभृशार्तश्॑चचालचापंचमुमोचवीरः/तंविह्वलन्तंप्रसमीक्ष्यरामः॑समाददेदीप्तमथार्धचन्द्रम्/तेनार्कवर्णंसहसाकिरीटं॑चिच्छेदरक्षोऽधिपतेर्महात्माः/तंनिर्विषाशीविषसंनिकाशं॑शान्तार्चिषंसूर्यमिवाप्रकाशम्/गतश्रियंकृत्तकिरीटकूटम्॑उवाचरामोयुधिराक्षसेन्द्रम्/कृतंत्वयाकर्ममहत्सुभीमं॑हतप्रवीरश्चकृतस्त्वयाहम्/तस्मात्परिश्रान्तइतिव्यवस्य॑नत्वंशरैर्मृत्युवशंनयामि/सएवमुक्तोहतदर्पहर्षो॑निकृत्तचापःसहताश्वसूतः/शरार्दितःकृत्तमहाकिरीटो॑विवेशलङ्कांसहसास्मराजा/तस्मिन्प्रविष्टेरजनीचरेन्द्रे॑महाबलेदानवदेवशत्रौ/हरीन्विशल्यान्सहलक्ष्मणेन॑चकाररामःपरमाहवाग्रे/तस्मिन्प्रभग्नेत्रिदशेन्द्रशत्रौ॑सुरासुराभूतगणादिशश्च/ससागराःसर्षिमहोरगाश्च॑तथैवभूम्यम्बुचराश्चहृष्टाः659146/सप्रविश्यपुरींलङ्कांरामबाणभयार्दितः/भग्नदर्पस्तदाराजाबभूवव्यथितेन्द्रियः6601/मातंगइवसिंहेनगरुडेनेवपन्नगः/अभिभूतोऽभवद्राजाराघवेणमहात्मना/ब्रह्मदण्डप्रकाशानांविद्युत्सदृशवर्चसाम्/स्मरन्राघवबाणानांविव्यथेराक्षसेश्वरः/सकाञ्चनमयंदिव्यमाश्रित्यपरमासनम्/विक्प्रेक्षमाणोरक्षांसिरावणोवाक्यमब्रवीत्/सर्वंतत्खलुमेमोघंयत्तप्तंपरमंतपः/यत्समानोमहेन्द्रेणमानुषेणास्मिनिर्जितः/इदंतद्ब्रह्मणोघोरंवाक्यंमामभ्युपस्थितम्/मानुषेभ्योविजानीहिभयंत्वमितितत्तथा/देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः/अवध्यत्वंमयाप्राप्तंमानुषेभ्योनयाचितम्/एतदेवाभ्युपागम्ययत्नंकर्तुमिहार्हथ/राक्षसाश्चापितिष्ठन्तुचर्यागोपुरमूर्धसु/सचाप्रतिमगम्भीरोदेवदानवदर्पहा/ब्रह्मशापाभिभूतस्तुकुम्भकर्णोविबोध्यताम्/सपराजितमात्मानंप्रहस्तंचनिषूदितम्/ज्ञात्वारक्षोबलंभीममादिदेशमहाबलः/द्वारेषुयत्नःक्रियतांप्राकाराश्चाधिरुह्यताम्/निद्रावशसमाविष्टःकुम्भकर्णोविबोध्यताम्/नवषट्सप्तचाष्टौचमासान्स्वपितिराक्षसः/तंतुबोधयतक्षिप्रंकुम्भकर्णंमहाबलम्/सहिसंख्येमहाबाहुःककुदंसर्वरक्षसाम्/वानरान्राजपुत्रौचक्षिप्रमेववधिष्यति/कुम्भकर्णःसदाशेतेमूढोग्राम्यसुखेरतः/रामेणाभिनिरस्तस्यसंग्रामोऽस्मिन्सुदारुणे/भविष्यतिनमेशोकःकुम्भकर्णेविबोधिते/किंकरिष्याम्यहंतेनशक्रतुल्यबलेनहि/ईदृशेव्यसनेप्राप्तेयोनसाह्यायकल्पते/तेतुतद्वचनंश्रुत्वाराक्षसेन्द्रस्यराक्षसाः/जग्मुःपरमसंभ्रान्ताःकुम्भकर्णनिवेशनम्/तेरावणसमादिष्टामांसशोणितभोजनाः/गन्धमाल्यांस्तथाभक्ष्यानादायसहसाययुः/तांप्रविश्यमहाद्वारांसर्वतोयोजनायताम्/कुम्भकर्णगुहांरम्यांसर्वगन्धप्रवाहिनीम्/प्रतिष्ठमानाःकृच्छ्रेणयत्नात्प्रविविशुर्गुहाम्/तांप्रविश्यगुहांरम्यांशुभांकाञ्चनकुट्टिमाम्/ददृशुर्नैरृतव्याघ्रंशयानंभीमदर्शनम्/तेतुतंविकृतंसुप्तंविकीर्णमिवपर्वतम्/कुम्भकर्णंमहानिद्रंसहिताःप्रत्यबोधयन्/ऊर्ध्वरोमाञ्चिततनुंश्वसन्तमिवपन्नगम्/त्रासयन्तंमहाश्वासैःशयानंभीमदर्शनम्/भीमनासापुटंतंतुपातालविपुलाननम्/ददृशुर्नैरृतव्याघ्रंकुम्भकर्णंमहाबलम्/ततश्चक्रुर्महात्मानःकुम्भकर्णाग्रतस्तदा/मांसानांमेरुसंकाशंराशिंपरमतर्पणम्/मृगाणांमहिषाणांचवराहाणांचसंचयान्/चक्रुर्नैरृतशार्दूलाराशिमन्नस्यचाद्भुतम्/ततःशोणितकुम्भांश्चमद्यानिविविधानिच/पुरस्तात्कुम्भकर्णस्यचक्रुस्त्रिदशशत्रवः/लिलिपुश्चपरार्ध्येनचन्दनेनपरंतपम्/दिव्यैराच्छादयामासुर्माल्यैर्गन्धैःसुगन्धिभिः/धूपंसुगन्धंससृजुस्तुष्टुवुश्चपरंतपम्/जलदाइवचोनेदुर्यातुधानाःसहस्रशः/शङ्खानापूरयामासुःशशाङ्कसदृशप्रभान्/तुमुलंयुगपच्चापिविनेदुश्चाप्यमर्षिताः/नेदुरास्फोटयामासुश्चिक्षिपुस्तेनिशाचराः/कुम्भकर्णविबोधार्थंचक्रुस्तेविपुलंस्वनम्/सशङ्खभेरीपटहप्रणादम्॑आस्फोटितक्ष्वेडितसिंहनादम्/दिशोद्रवन्तस्त्रिदिवंकिरन्तः॑श्रुत्वाविहंगाःसहसानिपेतुः/यदाभृशंतैर्निनदैर्महात्मा॑नकुम्भकर्णोबुबुधेप्रसुप्तः/ततोमुसुण्डीमुसलानिसर्वे॑रक्षोगणास्तेजगृहुर्गदाश्च/तंशैलशृङ्गैर्मुसलैर्गदाभिर्॑वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च/सुखप्रसुप्तंभुविकुम्भकर्णं॑रक्षांस्युदग्राणितदानिजघ्नुः/तस्यनिश्वासवातेनकुम्भकर्णस्यरक्षसः/राक्षसाबलवन्तोऽपिस्थातुंनाशक्नुवन्पुरः/ततोऽस्यपुरतोगाढंराक्षसाभीमविक्रमाः/मृदङ्गपणवान्भेरीःशङ्खकुम्भगणांस्तथा/दशराक्षससाहस्रंयुगपत्पर्यवादयन्/नीलाञ्जनचयाकारंतेतुतंप्रत्यबोधयन्/अभिघ्नन्तोनदन्तश्चनैवसंविविदेतुसः/यदाचैनंनशेकुस्तेप्रतिबोधयितुंतदा/ततोगुरुतरंयत्नंदारुणंसमुपाक्रमन्/अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः/भेरीशङ्खमृदङ्गांश्चसर्वप्राणैरवादयन्/निजघ्नुश्चास्यगात्राणिमहाकाष्ठकटंकरैः/मुद्गरैर्मुसलैश्चैवसर्वप्राणसमुद्यतैः/तेनशब्देनमहतालङ्कासमभिपूरिता/सपर्वतवनासर्वासोऽपिनैवप्रबुध्यते/ततःसहस्रंभेरीणांयुगपत्समहन्यत/मृष्टकाञ्चनकोणानामसक्तानांसमन्ततः/एवमप्यतिनिद्रस्तुयदानैवप्रबुध्यत/शापस्यवशमापन्नस्ततःक्रुद्धानिशाचराः/महाक्रोधसमाविष्टाःसर्वेभीमपराक्रमाः/तद्रक्षोबोधयिष्यन्तश्चक्रुरन्येपराक्रमम्/अन्येभेरीःसमाजघ्नुरन्येचक्रुर्महास्वनम्/केशानन्येप्रलुलुपुःकर्णावन्येदशन्तिच/नकुम्भकर्णःपस्पन्देमहानिद्रावशंगतः/अन्येचबलिनस्तस्यकूटमुद्गरपाणयः/मूर्ध्निवक्षसिगात्रेषुपातयन्कूटमुद्गरान्/रज्जुबन्धनबद्धाभिःशतघ्नीभिश्चसर्वतः/वध्यमानोमहाकायोनप्राबुध्यतराक्षसः/वारणानांसहस्रंतुशरीरेऽस्यप्रधावितम्/कुम्भकर्णस्ततोबुद्धःस्पर्शंपरमबुध्यत/सपात्यमानैर्गिरिशृङ्गवृक्षैर्॑अचिन्तयंस्तान्विपुलान्प्रहारान्/निद्राक्षयात्क्षुद्भयपीडितश्च॑विजृम्भमाणःसहसोत्पपात/सनागभोगाचलशृङ्गकल्पौ॑विक्षिप्यबाहूगिरिशृङ्गसारौ/विवृत्यवक्त्रंवडवामुखाभं॑निशाचरोऽसौविकृतंजजृम्भे/तस्यजाजृम्भमाणस्यवक्त्रंपातालसंनिभम्/ददृशेमेरुशृङ्गाग्रेदिवाकरइवोदितः/विजृम्भमाणोऽतिबलःप्रतिबुद्धोनिशाचरः/निश्वासश्चास्यसंजज्ञेपर्वतादिवमारुतः/रूपमुत्तिष्ठतस्तस्यकुम्भकर्णस्यतद्बभौ/तपान्तेसबलाकस्यमेघस्येवविवर्षतः/तस्यदीप्ताग्निसदृशेविद्युत्सदृशवर्चसी/ददृशातेमहानेत्रेदीप्ताविवमहाग्रहौ/आदद्बुभुक्षितोमांसंशोणितंतृषितोऽपिबत्/मेदःकुम्भंचमद्यंचपपौशक्ररिपुस्तदा/ततस्तृप्तइतिज्ञात्वासमुत्पेतुर्निशाचराः/शिरोभिश्चप्रणम्यैनंसर्वतःपर्यवारयन्/ससर्वान्सान्त्वयामासनैरृतान्नैरृतर्षभः/बोधनाद्विस्मितश्चापिराक्षसानिदमब्रवीत्/किमर्थमहमाहत्यभवद्भिःप्रतिबोधितः/कच्चित्सुकुशलंराज्ञोभयंवानेहकिंचन/अथवाध्रुवमन्येभ्योभयंपरमुपस्थितम्/यदर्थमेवत्वरितैर्भवद्भिःप्रतिबोधितः/अद्यराक्षसराजस्यभयमुत्पाटयाम्यहम्/पातयिष्येमहेन्द्रंवाशातयिष्येतथानलम्/नह्यल्पकारणेसुप्तंबोधयिष्यतिमांभृशम्/तदाख्यातार्थतत्त्वेनमत्प्रबोधनकारणम्/एवंब्रुवाणंसंरब्धंकुम्भकर्णमरिंदमम्/यूपाक्षःसचिवोराज्ञःकृताञ्जलिरुवाचह/ननोदेवकृतंकिंचिद्भयमस्तिकदाचन/नदैत्यदानवेभ्योवाभयमस्तिहितादृशम्/यादृशंमानुषंराजन्भयमस्मानुपस्थितम्/वानरैःपर्वताकारैर्लङ्केयंपरिवारिता/सीताहरणसंतप्ताद्रामान्नस्तुमुलंभयम्/एकेनवानरेणेयंपूर्वंदग्धामहापुरी/कुमारोनिहतश्चाक्षःसानुयात्रःसकुञ्जरः/स्वयंरक्षोऽधिपश्चापिपौलस्त्योदेवकण्टकः/मृतेतिसंयुगेमुक्तारामेणादित्यतेजसा/यन्नदेवैःकृतोराजानापिदैत्यैर्नदानवैः/कृतःसइहरामेणविमुक्तःप्राणसंशयात्/सयूपाक्षवचःश्रुत्वाभ्रातुर्युधिपराजयम्/कुम्भकर्णोविवृत्ताक्षोयूपाक्षमिदमब्रवीत्/सर्वमद्यैवयूपाक्षहरिसैन्यंसलक्ष्मणम्/राघवंचरणेहत्वापश्चाद्द्रक्ष्यामिरावणम्/राक्षसांस्तर्पयिष्यामिहरीणांमांसशोणितैः/रामलक्ष्मणयोश्चापिस्वयंपास्यामिशोणितम्/तत्तस्यवाक्यंब्रुवतोनिशम्य॑सगर्वितंरोषविवृद्धदोषम्/महोदरोनैरृतयोधमुख्यः॑कृताञ्जलिर्वाक्यमिदंबभाषे/रावणस्यवचःश्रुत्वागुणदोषुविमृश्यच/पश्चादपिमहाबाहोशत्रून्युधिविजेष्यसि/महोदरवचःश्रुत्वाराक्षसैःपरिवारितः/कुम्भकर्णोमहातेजाःसंप्रतस्थेमहाबलः/तंसमुत्थाप्यभीमाक्षंभीमरूपपराक्रमम्/राक्षसास्त्वरिताजग्मुर्दशग्रीवनिवेशनम्/ततोगत्वादशग्रीवमासीनंपरमासने/ऊचुर्बद्धाञ्जलिपुटाःसर्वएवनिशाचराः/प्रबुद्धःकुम्भकर्णोऽसौभ्रातातेराक्षसर्षभ/कथंतत्रैवनिर्यातुद्रक्ष्यसेतमिहागतम्/रावणस्त्वब्रवीद्धृष्टोयथान्यायंचपूजितम्/द्रष्टुमेनमिहेच्छामियथान्यायंचपूजितम्/तथेत्युक्त्वातुतेसर्वेपुनरागम्यराक्षसाः/कुम्भकर्णमिदंवाक्यमूचूरावणचोदिताः/द्रष्टुंत्वांकाङ्क्षतेराजासर्वराक्षसपुंगवः/गमनेक्रियतांबुद्धिर्भ्रातरंसंप्रहर्षय/कुम्भकर्णस्तुदुर्धर्षोभ्रातुराज्ञायशासनम्/तथेत्युक्त्वामहावीर्यःशयनादुत्पपातह/प्रक्षाल्यवदनंहृष्टःस्नातःपरमभूषितः/पिपासुस्त्वरयामासपानंबलसमीरणम्/ततस्तेत्वरितास्तस्यराज्षसारावणाज्ञया/मद्यंभक्ष्यांश्चविविधान्क्षिप्रमेवोपहारयन्/पीत्वाघटसहस्रंसगमनायोपचक्रमे/ईषत्समुत्कटोमत्तस्तेजोबलसमन्वितः/कुम्भकर्णोबभौहृष्टःकालान्तकयमोपमः/भ्रातुःसभवनंगच्छन्रक्षोबलसमन्वितः/कुम्भकर्णःपदन्यासैरकम्पयतमेदिनीम्/सराजमार्गंवपुषाप्रकाशयन्॑सहस्ररश्मिर्धरणीमिवांशुभिः/जगामतत्राञ्जलिमालयावृतः॑शतक्रतुर्गेहमिवस्वयम्भुवः/केचिच्छरण्यंशरणंस्मरामं॑व्रजन्तिकेचिद्व्यथिताःपतन्ति/केचिद्दिशःस्मव्यथिताःप्रयान्ति॑केचिद्भयार्ताभुविशेरतेस्म/तमद्रिशृङ्गप्रतिमंकिरीटिनं॑स्पृशन्तमादित्यमिवात्मतेजसा/वनौकसःप्रेक्ष्यविवृद्धमद्भुतं॑भयार्दितादुद्रुविरेततस्ततः66098/ततोरामोमहातेजाधनुरादायवीर्यवान्/किरीटिनंमहाकायंकुम्भकर्णंददर्शह6611/तंदृष्ट्वाराक्षसश्रेष्ठंपर्वताकारदर्शनम्/क्रममाणमिवाकाशंपुरानारायणंप्रभुम्/सतोयाम्बुदसंकाशंकाञ्चनाङ्गदभूषणम्/दृष्ट्वापुनःप्रदुद्राववानराणांमहाचमूः/विद्रुतांवाहिनींदृष्ट्वावर्धमानंचराक्षसं/सविस्मयमिदंरामोविभीषणमुवाचह/कोऽसौपर्वतसंकशःकिरीटीहरिलोचनः/लङ्कायांदृश्यतेवीरःसविद्युदिवतोयदः/पृथिव्याःकेतुभूतोऽसौमहानेकोऽत्रदृश्यते/यंदृष्ट्वावानराःसर्वेविद्रवन्तिततस्ततः/आचक्ष्वमेमहान्कोऽसौरक्षोवायदिवासुरः/नमयैवंविधंभूतंदृष्टपूर्वंकदाचन/सपृष्टोराजपुत्रेणरामेणाक्लिष्टकारिणा/विभीषणोमहाप्राज्ञःकाकुत्स्थमिदमब्रवीत्/येनवैवस्वतोयुद्धेवासवश्चपराजितः/सैषविश्रवसःपुत्रःकुम्भकर्णःप्रतापवान्/एतेनदेवायुधिदानवाश्च॑यक्षाभुजंगाःपिशिताशनाश्च/गन्धर्वविद्याधरकिंनराश्च॑सहस्रशोराघवसंप्रभग्नाः/शूलपाणिंविरूपाक्षंकुम्भकर्णंमहाबलम्/हन्तुंनशेकुस्त्रिदशाःकालोऽयमितिमोहिताः/प्रकृत्याह्येषतेजस्वीकुम्भकर्णोमहाबलः/अन्येषांराक्षसेन्द्राणांवरदानकृतंबलम्/एतेनजातमात्रेणक्षुधार्तेनमहात्मना/भक्षितानिसहस्राणिसत्त्वानांसुबहून्यपि/तेषुसंभक्ष्यमाणेषुप्रजाभयनिपीडिताः/यान्तिस्मशरणंशक्रंतमप्यर्थंन्यवेदयन्/सकुम्भकर्णंकुपितोमहेन्द्रो॑जघानवज्रेणशितेनवज्री/सशक्रवज्राभिहतोमहात्मा॑चचालकोपाच्चभृशंननाद/तस्यनानद्यमानस्यकुम्भकर्णस्यधीमतः/श्रुत्वानिनादंवित्रस्ताभूयोभूमिर्वितत्रसे/ततःकोपान्महेन्द्रस्यकुम्भकर्णोमहाबलः/विकृष्यैरावताद्दन्तंजघानोरसिवासवम्/कुम्भकर्णप्रहारार्तोविचचालसवासवः/ततोविषेदुःसहसादेवब्रह्मर्षिदानवाः/प्रजाभिःसहशक्रश्चययौस्थानंस्वयम्भुवः/कुम्भकर्णस्यदौरात्म्यंशशंसुस्तेप्रजापतेः/प्रजानांभक्षणंचापिदेवानांचापिधर्षणम्/एवंप्रजायदित्वेषभक्षयिष्यतिनित्यशः/अचिरेणैवकालेनशून्योलोकोभविष्यति/वासवस्यवचःश्रुत्वासर्वलोकपितामहः/रक्षांस्यावाहयामासकुम्भकर्णंददर्शह/कुम्भकर्णंसमीक्ष्यैववितत्रासप्रजापतिः/दृष्ट्वानिश्वस्यचैवेदंस्वयम्भूरिदमब्रवीत्/ध्रुवंलोकविनाशायपौरस्त्येनासिनिर्मितः/तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसि/ब्रह्मशापाभिभूतोऽथनिपपाताग्रतःप्रभोः/ततःपरमसंभ्रान्तोरावणोवाक्यमब्रवीत्/विवृद्धःकाञ्चनोवृक्षःफलकालेनिकृत्यते/ननप्तारंस्वकंन्याय्यंशप्तुमेवंप्रजापते/नमिथ्यावचनश्चत्वंस्वप्स्यत्येषनसंशयः/कालस्तुक्रियतामस्यशयनेजागरेतथा/रावणस्यवचःश्रुत्वास्वयम्भूरिदमब्रवीत्/शयिताह्येषषण्मासानेकाहंजागरिष्यति/एकेनाह्नात्वसौवीरश्चरन्भूमिंबुभुक्षितः/व्यात्तास्योभक्षयेल्लोकान्संक्रुद्धइवपावकः/सोऽसौव्यसनमापन्नःकुम्भकर्णमबोधयत्/त्वत्पराक्रमभीतश्चराजासंप्रतिरावणः/सएषनिर्गतोवीरःशिबिराद्भीमविक्रमः/वानरान्भृशसंक्रुद्धोभक्षयन्परिधावति/कुम्भकर्णंसमीक्ष्यैवहरयोविप्रदुद्रुवुः/कथमेनंरणेक्रुद्धंवारयिष्यन्तिवानराः/उच्यन्तांवानराःसर्वेयन्त्रमेतत्समुच्छ्रितम्/इतिविज्ञायहरयोभविष्यन्तीहनिर्भयाः/विभीषणवचःश्रुत्वाहेतुमत्सुमुखोद्गतम्/उवाचराघवोवाक्यंनीलंसेनापतिंतदा/गच्छसैन्यानिसर्वाणिव्यूह्यतिष्ठस्वपावके/द्वाराण्यादायलङ्कायाश्चर्याश्चाप्यथसंक्रमान्/शैलशृङ्गाणिवृक्षांश्चशिलाश्चाप्युपसंहरन्/तिष्ठन्तुवानराःसर्वेसायुधाःशैलपाणयः/राघवेणसमादिष्टोनीलोहरिचमूपतिः/शशासवानरानीकंयथावत्कपिकुञ्जरः/ततोगवाक्षःशरभोहनुमानङ्गदोनलः/शैलशृङ्गाणिशैलाभागृहीत्वाद्वारमभ्ययुः/ततोहरीणांतदनीकमुग्रं॑रराजशैलोद्यतवृक्षहस्तम्/गिरेःसमीपानुगतंयथैव॑महन्महाम्भोधरजालमुग्रम्66140/सतुराक्षसशार्दूलोनिद्रामदसमाकुलः/राजमार्गंश्रियाजुष्टंययौविपुलविक्रमः6621/राक्षसानांसहस्रैश्चवृतःपरमदुर्जयः/गृहेभ्यःपुष्पवर्षेणकार्यमाणस्तदाययौ/सहेमजालविततंभानुभास्वरदर्शनम्/ददर्शविपुलंरम्यंराक्षसेन्द्रनिवेशनम्/सतत्तदासूर्यइवाभ्रजालं॑प्रविश्यरक्षोऽधिपतेर्निवेशनम्/ददर्शदूरेऽग्रजमासनस्थं॑स्वयम्भुवंशक्रइवासनस्थम्/सोऽभिगम्यगृहंभ्रातुःकक्ष्यामभिविगाह्यच/ददर्शोद्विग्नमासीनंविमानेपुष्पकेगुरुम्/अथदृष्ट्वादशग्रीवःकुम्भकर्णमुपस्थितम्/तूर्णमुत्थायसंहृष्टःसंनिकर्षमुपानयत्/अथासीनस्यपर्यङ्केकुम्भकर्णोमहाबलः/भ्रातुर्ववन्देचरणांकिंकृत्यमितिचाब्रवीत्/उत्पत्यचैनंमुदितोरावणःपरिषस्वजे/सभ्रात्रासंपरिष्वक्तोयथावच्चाभिनन्दितः/कुम्भकर्णःशुभंदिव्यंप्रतिपेदेवरासनम्/सतदासनमाश्रित्यकुम्भकर्णोमहाबलः/संरक्तनयनःकोपाद्रावणंवाक्यमब्रवीत्/किमर्थमहमादृत्यत्वयाराजन्प्रबोधितः/शंसकस्माद्भयंतेऽस्तिकोऽद्यप्रेतोभविष्यति/भ्रातरंरावणःक्रुद्धंकुम्भकर्णमवस्थितम्/ईषत्तुपरिवृत्ताभ्यांनेत्राभ्यांवाक्यमब्रवीत्/अद्यतेसुमहान्कालःशयानस्यमहाबल/सुखितस्त्वंनजानीषेममरामकृतंभयम्/एषदाशरथीरामःसुग्रीवसहितोबली/समुद्रंसबलस्तीर्त्वामूलंनःपरिकृन्तति/हन्तपश्यस्वलङ्कायावनान्युपवनानिच/सेतुनासुखमागम्यवानरैकार्णवंकृतम्/येराक्षसामुख्यतमाहतास्तेवानरैर्युधि/वानराणांक्षयंयुद्धेनपश्यामिकदाचन/सर्वक्षपितकोशंचसत्वमभ्यवपद्यमाम्/त्रायस्वेमांपुरींलङ्कांबालवृद्धावशेषिताम्/भ्रातुरर्थेमहाबाहोकुरुकर्मसुदुष्करम्/मयैवंनोक्तपूर्वोहिकश्चिद्भ्रातःपरंतप/त्वय्यस्तिममचस्नेहःपरासंभावनाचमे/देवासुरविमर्देषुबहुशोराक्षसर्षभ/त्वयादेवाःप्रतिव्यूह्यनिर्जिताश्चासुरायुधि/नहितेसर्वभूतेषुदृश्यतेसदृशोबली/कुरुष्वमेप्रियहितमेतदुत्तमं॑यथाप्रियंप्रियरणबान्धवप्रिय/स्वतेजसाविधमसपत्नवाहिनीं॑शरद्घनंपवनइवोद्यतोमहान्66224/तस्यराक्षसराजस्यनिशम्यपरिदेवितम्/कुम्भकर्णोबभाषेऽथवचनंप्रजहासच6631/दृष्टोदोषोहियोऽस्माभिःपुरामन्त्रविनिर्णये/हितेष्वनभियुक्तेनसोऽयमासादितस्त्वया/शीघ्रंखल्वभ्युपेतंत्वांफलंपापस्यकर्मणः/निरयेष्वेवपतनंयथादुष्कृतकर्मणः/प्रथमंवैमहाराजकृत्यमेतदचिन्तितम्/केवलंवीर्यदर्पेणनानुबन्धोविचारितः/यःपश्चात्पूर्वकार्याणिकुर्यादैश्वर्यमास्थितः/पूर्वंचोत्तरकार्याणिनसवेदनयानयौ/देशकालविहीनानिकर्माणिविपरीतवत्/क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव/त्रयाणांपञ्चधायोगंकर्मणांयःप्रपश्यति/सचिवैःसमयंकृत्वाससभ्येवर्ततेपथि/यथागमंचयोराजासमयंविचिकीर्षति/बुध्यतेसचिवान्बुद्ध्यासुहृदश्चानुपश्यति/धर्ममर्थंचकामंचसर्वान्वारक्षसांपते/भजतेपुरुषःकालेत्रीणिद्वन्द्वानिवापुनः/त्रिषुचैतेषुयच्छ्रेष्ठंश्रुत्वातन्नावबुध्यते/राजावाराजमात्रोवाव्यर्थंतस्यबहुश्रुतम्/उपप्रदानंसान्त्वंवाभेदंकालेचविक्रमम्/योगंचरक्षसांश्रेष्ठतावुभौचनयानयौ/कालेधर्मार्थकामान्यःसंमन्त्र्यसचिवैःसह/निषेवेतात्मवांल्लोकेनसव्यसनमाप्नुयात्/हितानुबन्धमालोक्यकार्याकार्यमिहात्मनः/राजासहार्थतत्त्वज्ञैःसचिवैःसहजीवति/अनभिज्ञायशास्त्रार्थान्पुरुषाःपशुबुद्धयः/प्रागल्भ्याद्वक्तुमिच्छन्तिमन्त्रेष्वभ्यन्तरीकृताः/अशास्त्रविदुषांतेषांनकार्यमहितंवचः/अर्थशास्त्रानभिज्ञानांविपुलांश्रियमिच्छताम्/अहितंचहिताकारंधार्ष्ट्याज्जल्पन्तियेनराः/अवेक्ष्यमन्त्रबाह्यास्तेकर्तव्याःकृत्यदूषणाः/विनाशयन्तोभर्तारंसहिताःशत्रुभिर्बुधैः/विपरीतानिकृत्यानिकारयन्तीहमन्त्रिणः/तान्भर्तामित्रसंकाशानमित्रान्मन्त्रनिर्णये/व्यवहारेणजानीयात्सचिवानुपसंहितान्/चपलस्येहकृत्यानिसहसानुप्रधावतः/छिद्रमन्येप्रपद्यन्तेक्रौञ्चस्यखमिवद्विजाः/योहिशत्रुमवज्ञायनात्मानमभिरक्षति/अवाप्नोतिहिसोऽनर्थान्स्थानाच्चव्यवरोप्यते/तत्तुश्रुत्वादशग्रीवःकुम्भकर्णस्यभाषितम्/भ्रुकुटिंचैवसंचक्रेक्रुद्धश्चैनमुवाचह/मान्योगुरुरिवाचार्यःकिंमांत्वमनुशासति/किमेवंवाक्श्रमंकृत्वाकालेयुक्तंविधीयताम्/विभ्रमाच्चित्तमोहाद्वाबलवीर्याश्रयेणवा/नाभिपन्नमिदानींयद्व्यर्थास्तस्यपुनःकृथाः/अस्मिन्कालेतुयद्युक्तंतदिदानींविधीयताम्/ममापनयजंदोषंविक्रमेणसमीकुरु/यदिखल्वस्तिमेस्नेहोभ्रातृत्वंवावगच्छसि/यदिवाकार्यमेतत्तेहृदिकार्यतमंमतम्/ससुहृद्योविपन्नार्थंदीनमभ्यवपद्यते/सबन्धुर्योऽपनीतेषुसाहाय्यायोपकल्पते/तमथैवंब्रुवाणंतुवचनंधीरदारुणम्/रुष्टोऽयमितिविज्ञायशनैःश्लक्ष्णमुवाचह/अतीवहिसमालक्ष्यभ्रातरंक्षुभितेन्द्रियम्/कुम्भकर्णःशनैर्वाक्यंबभाषेपरिसान्त्वयन्/अलंराक्षसराजेन्द्रसंतापमुपपद्यते/रोषंचसंपरित्यज्यस्वस्थोभवितुमर्हसि/नैतन्मनसिकर्तव्व्यंमयिजीवतिपार्थिव/तमहंनाशयिष्यामियत्कृतेपरितप्यसे/अवश्यंतुहितंवाच्यंसर्वावस्थंमयातव/बन्धुभावादभिहितंभ्रातृस्नेहाच्चपार्थिव/सदृशंयत्तुकालेऽस्मिन्कर्तुंस्निग्धेनबन्धुना/शत्रूणांकदनंपश्यक्रियमाणंमयारणे/अद्यपश्यमहाबाहोमयासमरमूर्धनि/हतेरामेसहभ्रात्राद्रवन्तींहरिवाहिनीम्/अद्यरामस्यतद्दृष्ट्वामयानीतंरणाच्छिरः/सुखीभवमहाबाहोसीताभवतुदुःखिता/अद्यरामस्यपश्यन्तुनिधनंसुमहत्प्रियम्/लङ्कायांराक्षसाःसर्वेयेतेनिहतबान्धवाः/अद्यशोकपरीतानांस्वबन्धुवधकारणात्/शत्रोर्युधिविनाशेनकरोम्यस्रप्रमार्जनम्/अद्यपर्वतसंकाशंससूर्यमिवतोयदम्/विकीर्णंपश्यसमरेसुग्रीवंप्लवगेश्वरम्/नपरःप्रेषणीयस्तेयुद्धायातुलविक्रम/अहमुत्सादयिष्यामिशत्रूंस्तवमहाबल/यदिशक्रोयदियमोयदिपावकमारुतौ/तानहंयोधयिष्यामिकुबेरवरुणावपि/गिरिमात्रशरीरस्यशितशूलधरस्यमे/नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाच्चपुरंदरः/अथवात्यक्तशस्त्रस्यमृद्गतस्तरसारिपून्/नमेप्रतिमुखेकश्चिच्छक्तःस्थातुंजिजीविषुः/नैवशक्त्यानगदयानासिनानशितैःशरैः/हस्ताभ्यामेवसंरब्धोहनिष्याम्यपिवज्रिणम्/यदिमेमुष्टिवेगंसराघवोऽद्यसहिष्यति/ततःपास्यन्तिबाणौघारुधिरंराघवस्यते/चिन्तयाबाध्यसेराजन्किमर्थंमयितिष्ठति/सोऽहंशत्रुविनाशायतवनिर्यातुमुद्यतः/मुञ्चरामाद्भयंराजन्हनिष्यामीहसंयुगे/राघवंलक्ष्मणंचैवसुग्रीवंचमहाबलम्/असाधारणमिच्छामितवदातुंमहद्यशः/वधेनतेदाशरथेःसुखावहं॑सुखंसमाहर्तुमहंव्रजामि/निहत्यरामंसहलक्ष्मणेन॑खादामिसर्वान्हरियूथमुख्यान्/रमस्वकामंपिबचाग्र्यवारुणीं॑कुरुष्वकृत्यानिविनीयतांज्वरः/मयाद्यरामेगमितेयमक्षयं॑चिरायसीतावशगाभविष्यति66358/तदुक्तमतिकायस्यबलिनोबाहुशालिनः/कुम्भकर्णस्यवचनंश्रुत्वोवाचमहोदरः6641/कुम्भकर्णकुलेजातोधृष्टःप्राकृतदर्शनः/अवलिप्तोनशक्नोषिकृत्यंसर्वत्रवेदितुम्/नहिराजानजानीतेकुम्भकर्णनयानयौ/त्वंतुकैशोरकाद्धृष्टःकेवलंवक्तुमिच्छसि/स्थानंवृद्धिंचहानिंचदेशकालविभागवित्/आत्मनश्चपरेषांचबुध्यतेराक्षसर्षभ/यत्तुशक्यंबलवताकर्तुंप्राकृतबुद्धिना/अनुपासितवृद्धेनकःकुर्यात्तादृशंबुधः/यांस्तुधर्मार्थकामांस्त्वंब्रवीषिपृथगाश्रयान्/अनुबोद्धुंस्वभावेननहिलक्षणमस्तिते/कर्मचैवहिसर्वेषांकारणानांप्रयोजनम्/श्रेयःपापीयसांचात्रफलंभवतिकर्मणाम्/निःश्रेयसफलावेवधर्मार्थावितरावपि/अधर्मानर्थयोःप्राप्तिःफलंचप्रत्यवायिकम्/ऐहलौकिकपारत्र्यंकर्मपुम्भिर्निषेव्यते/कर्माण्यपितुकल्प्यानिलभतेकाममास्थितः/तत्रकॢप्तमिदंराज्ञाहृदिकार्यंमतंचनः/शत्रौहिसाहसंयत्स्यात्किमिवात्रापनीयते/एकस्यैवाभियानेतुहेतुर्यःप्रकृतस्त्वया/तत्राप्यनुपपन्नंतेवक्ष्यामियदसाधुच/येनपूर्वंजनस्थानेबहवोऽतिबलाहताः/राक्षसाराघवंतंत्वंकथमेकोजयिष्यसि/येपुरानिर्जितास्तेनजनस्थानेमहौजसः/राक्षसांस्तान्पुरेसर्वान्भीतानद्यापिपश्यसि/तंसिंहमिवसंक्रुद्धंरामंदशरथात्मजम्/सर्पंसुप्तमिवाबुद्ध्याप्रबोधयितुमिच्छसि/ज्वलन्तंतेजसानित्यंक्रोधेनचदुरासदम्/कस्तंमृत्युमिवासह्यमासादयितुमर्हति/संशयस्थमिदंसर्वंशत्रोःप्रतिसमासने/एकस्यगमनंतत्रनहिमेरोचतेतव/हीनार्थस्तुसमृद्धार्थंकोरिपुंप्राकृतोयथा/निश्चितंजीवितत्यागेवशमानेतुमिच्छति/यस्यनास्तिमनुष्येषुसदृशोराक्षसोत्तम/कथमाशंससेयोद्धुंतुल्येनेन्द्रविवस्वतोः/एवमुक्त्वातुसंरब्धंकुम्भकर्णंमहोदरः/उवाचरक्षसांमध्येरावणोलोकरावणम्/लब्ध्वापुनस्तांवैदेहींकिमर्थंत्वंप्रजल्पसि/यदेच्छसितदासीतावशगातेभविष्यति/दृष्टःकश्चिदुपायोमेसीतोपस्थानकारकः/रुचितश्चेत्स्वयाबुद्ध्याराक्षसेश्वरतंशृणु/अहंद्विजिह्वःसंह्रादीकुम्भकर्णोवितर्दनः/पञ्चरामवधायैतेनिर्यान्तीत्यवघोषय/ततोगत्वावयंयुद्धंदास्यामस्तस्ययत्नतः/जेष्यामोयदितेशत्रून्नोपायैःकृत्यमस्तिनः/अथजीवतिनःशत्रुर्वयंचकृतसंयुगाः/ततःसमभिपत्स्यामोमनसायत्समीक्षितुम्/वयंयुद्धादिहैष्यामोरुधिरेणसमुक्षिताः/विदार्यस्वतनुंबाणैरामनामाङ्कितैःशितैः/भक्षितोराघवोऽस्माभिर्लक्ष्मणश्चेतिवादिनः/तवपादौग्रहीष्यामस्त्वंनःकामप्रपूरय/ततोऽवघोषयपुरेगजस्कन्धेनपार्थिव/हतोरामःसहभ्रात्राससैन्यइतिसर्वतः/प्रीतोनामततोभूत्वाभृत्यानांत्वमरिंदम/भोगांश्चपरिवारांश्चकामांश्चवसुदापय/ततोमाल्यानिवासांसिवीराणामनुलेपनम्/पेयंचबहुयोधेभ्यःस्वयंचमुदितःपिब/ततोऽस्मिन्बहुलीभूतेकौलीनेसर्वतोगते/प्रविश्याश्वास्यचापित्वंसीतांरहसिसान्त्वय/धनधान्यैश्चकामैश्चरत्नैश्चैनांप्रलोभय/अनयोपधयाराजन्भयशोकानुबन्धया/अकामात्वद्वशंसीतानष्टनाथागमिष्यति/रञ्जनीयंहिभर्तारंविनष्टमवगम्यसा/नैराश्यात्स्त्रीलघुत्वाच्चत्वद्वशंप्रतिपत्स्यते/सापुरासुखसंवृद्धासुखार्हादुःखकर्षिता/त्वय्यधीनःसुखंज्ञात्वासर्वथोपगमिष्यति/एतत्सुनीतंममदर्शनेन॑रामंहिदृष्ट्वैवभवेदनर्थः/इहैवतेसेत्स्यतिमोत्सुकोभूर्॑महानयुद्धेनसुखस्यलाभः/अनष्टसैन्योह्यनवाप्तसंशयो॑रिपूनयुद्धेनजयञ्जनाधिप/यशश्चपुण्यंचमहन्महीपते॑श्रियंचकीर्तिंचचिरंसमश्नुते66436/सतथोक्तस्तुनिर्भर्त्स्यकुम्भकर्णोमहोदरम्/अब्रवीद्राक्षसश्रेष्ठंभ्रातरंरावणंततः6651/सोऽहंतवभयंघोरंवधात्तस्यदुरात्मनः/रामस्याद्यप्रमार्जामिनिर्वैरस्त्वंसुखीभव/गर्जन्तिनवृथाशूरनिर्जलाइवतोयदाः/पश्यसंपाद्यमानंतुगर्जितंयुधिकर्मणा/नमर्षयतिचात्मानंसंभावयतिनात्मना/अदर्शयित्वाशूरास्तुकर्मकुर्वन्तिदुष्करम्/विक्लवानामबुद्धीनांराज्ञांपण्डितमानिनाम्/शृण्वतामादितइदंत्वद्विधानांमहोदर/युद्धेकापुरुषैर्नित्यंभवद्भिःप्रियवादिभिः/राजानमनुगच्छद्भिःकृत्यमेतद्विनाशितम्/राजशेषाकृतालङ्काक्षीणःकोशोबलंहतम्/राजानमिममासाद्यसुहृच्चिह्नममित्रकम्/एषनिर्याम्यहंयुद्धमुद्यतःशत्रुनिर्जये/दुर्नयंभवतामद्यसमीकर्तुंमहाहवे/एवमुक्तवतोवाक्यंकुम्भकर्णस्यधीमतः/प्रत्युवाचततोवाक्यंप्रहसन्राक्षसाधिपः/महोदरोऽयंरामात्तुपरित्रस्तोनसंशयः/नहिरोचयतेतातयुद्धंयुद्धविशारद/कश्चिन्मेत्वत्समोनास्तिसौहृदेनबलेनच/गच्छशत्रुवधायत्वंकुम्भकर्णजयायच/आददेनिशितंशूलंवेगाच्छत्रुनिबर्हणः/सर्वकालायसंदीप्तंतप्तकाञ्चनभूषणम्/इन्द्राशनिसमंभीमंवज्रप्रतिमगौरवम्/देवदानवगन्धर्वयक्षकिंनरसूदनम्/रक्तमाल्यमहादामस्वतश्चोद्गतपावकम्/आदायनिशितंशूलंशत्रुशोणितरञ्जितम्/कुम्भकर्णोमहातेजारावणंवाक्यमब्रवीत्/गमिष्याम्यहमेकाकीतिष्ठत्विहबलंमहत्/अद्यतान्क्षुधितःक्रुद्धोभक्षयिष्यामिवानरान्/कुम्भकर्णवचःश्रुत्वारावणोवाक्यमब्रवीत्/सैन्यैःपरिवृतोगच्छशूलमुद्गलपाणिभिः/वानराहिमहात्मानःशीघ्राश्चव्यवसायिनः/एकाकिनंप्रमत्तंवानयेयुर्दशनैःक्षयम्/तस्मात्परमदुर्धर्षैःसैन्यैःपरिवृतोव्रज/रक्षसामहितंसर्वंशत्रुपक्षंनिसूदय/अथासनात्समुत्पत्यस्रजंमणिकृतान्तराम्/आबबन्धमहातेजाःकुम्भकर्णस्यरावणः/अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानिच/हारंचशशिसंकाशमाबबन्धमहात्मनः/दिव्यानिचसुगन्धीनिमाल्यदामानिरावणः/श्रोत्रेचासज्जयामासश्रीमतीचास्यकुण्डले/काञ्चनाङ्गदकेयूरोनिष्काभरणभूषितः/कुम्भकर्णोबृहत्कर्णःसुहुतोऽग्निरिवाबभौ/श्रोणीसूत्रेणमहतामेचकेनविराजितः/अमृतोत्पादनेनद्धोभुजंगेनेवमन्दरः/सकाञ्चनंभारसहंनिवातं॑विद्युत्प्रभंदीप्तमिवात्मभासा/आबध्यमानःकवचंरराज॑संध्याभ्रसंवीतइवाद्रिराजः/सर्वाभरणनद्धाङ्गःशूलपाणिःसराक्षसः/त्रिविक्रमकृतोत्साहोनारायणइवाबभौ/भ्रातरंसंपरिष्वज्यकृत्वाचापिप्रदक्षिणम्/प्रणम्यशिरसातस्मैसंप्रतस्थेमहाबलिः/तमाशीर्भिःप्रशस्ताभिःप्रेषयामासरावणः/शङ्खदुन्दुभिनिर्घोषैःसैन्यैश्चापिवरायुधैः/तंगजैश्चतुरंगैश्चस्यन्दनैश्चाम्बुदस्वनैः/अनुजग्मुर्महात्मानंरथिनोरथिनांवरम्/सर्पैरुष्ट्रैःखरैरश्वैःसिंहद्विपमृगद्विजैः/अनुजग्मुश्चतंघोरंकुम्भकर्णंमहाबलम्/सपुष्पवर्णैरवकीर्यमाणो॑धृतातपत्रःशितशूलपाणिः/मदोत्कटःशोणितगन्धमत्तो॑विनिर्ययौदानवदेवशत्रुः/पदातयशबहवोमहानादामहाबलाः/अन्वयूराक्षसाभीमाभीमाक्षाःशस्त्रपाणयः/रक्ताक्षाःसुमहाकायानीलाञ्जनचयोपमाः/शूरानुद्यम्यखड्गांश्चनिशितांश्चपरश्वधान्/बहुव्यामांश्चविपुलान्क्षेपणीयान्दुरासदान्/तालस्कन्धांश्चविपुलान्क्षेपणीयान्दुरासदान्/अथान्यद्वपुरादायदारुणंलोमहर्षणम्/निष्पपातमहातेजाःकुम्भकर्णोमहाबलः/धनुःशतपरीणाहःसषट्शतसमुच्छितः/रौद्रःशकटचक्राक्षोमहापर्वतसंनिभः/संनिपत्यचरक्षांसिदग्धशैलोपमोमहान्/कुम्भकर्णोमहावक्त्रःप्रहसन्निदमब्रवीत्/अद्यवानरमुख्यानांतानियूथानिभागशः/निर्दहिष्यामिसंक्रुद्धःशलभानिवपावकः/नापराध्यन्तिमेकामंवानरावनचारिणः/जातिरस्मद्विधानांसापुरोद्यानविभूषणम्/पुररोधस्यमूलंतुराघवःसहलक्ष्मणः/हतेतस्मिन्हतंसर्वंतंवधिष्यामिसंयुगे/एवंतस्यब्रुवाणस्यकुम्भकर्णस्यराक्षसाः/नादंचक्रुर्महाघोरंकम्पयन्तइवार्णवम्/तस्यनिष्पततस्तूर्णंकुम्भकर्णस्यधीमतः/बभूवुर्घोररूपाणिनिमित्तानिसमन्ततः/उल्काशनियुतामेघाविनेदुश्चसुदारुणाः/ससागरवनाचैववसुधासमकम्पत/घोररूपाःशिवानेदुःसज्वालकवलैर्मुखैः/मण्डलान्यपसव्यानिबबन्धुश्चविहंगमाः/निष्पपातचगृध्रेऽस्यशूलेवैपथिगच्छतः/प्रास्फुरन्नयनंचास्यसव्योबाहुरकम्पत/निष्पपाततदाचोक्लाज्वलन्तीभीमनिस्वना/आदित्योनिष्प्रभश्चासीन्नप्रवातिसुखोऽनिलः/अचिन्तयन्महोत्पातानुत्थितांल्लोमहर्षणान्/निर्ययौकुम्भकर्णस्तुकृतान्तबलचोदितः/सलङ्घयित्वाप्राकारंपद्भ्यांपर्वतसंनिभः/ददर्शाभ्रघनप्रख्यंवानरानीकमद्भुतम्/तेदृष्ट्वाराक्षसश्रेष्ठंवानराःपर्वतोपमम्/वायुनुन्नाइवघनाययुःसर्वादिशस्तदा/तद्वानरानीकमतिप्रचण्डं॑दिशोद्रवद्भिन्नमिवाभ्रजालम्/सकुम्भकर्णःसमवेक्ष्यहर्षान्॑ननादभूयोघनवद्घनाभः/तेतस्यघोरंनिनदंनिशम्य॑यथानिनादंदिविवारिदस्य/पेतुर्धरण्यांबहवःप्लवंगा॑निकृत्तमूलाइवसालवृक्षाः/विपुलपरिघवान्सकुम्भकर्णो॑रिपुनिधनायविनिःसृतोमहात्मा/कपिगणभयमाददत्सुभीमं॑प्रभुरिवकिंकरदण्डवान्युगान्ते66557/सननादमहानादंसमुद्रमभिनादयन्/जनयन्निवनिर्घातान्विधमन्निवपर्वतान्6662/तमवध्यंमघवतायमेनवरुणेनच/प्रेक्ष्यभीमाक्षमायान्तंवानराविप्रदुद्रुवुः/तांस्तुविद्रवतोदृष्ट्वावालिपुत्रोऽङ्गदोऽब्रवीत्/नलंनीलंगवाक्षंचकुमुदंचमहाबलम्/आत्मानमत्रविस्मृत्यवीर्याण्यभिजनानिच/क्वगच्छतभयत्रस्ताःप्राकृताहरयोयथा/साधुसौम्यानिवर्तध्वंकिंप्राणान्परिरक्षथ/नालंयुद्धायवैरक्षोमहतीयंविभीषिकाः/महतीमुत्थितामेनांराक्षसानांविभीषिकाम्/विक्रमाद्विधमिष्यामोनिवर्तध्वंप्लवंगमाः/कृच्छ्रेणतुसमाश्वास्यसंगम्यचततस्ततः/वृक्षाद्रिहस्ताहरयःसंप्रतस्थूरणाजिरम्/तेनिवृत्यतुसंक्रुद्धाःकुम्भकर्णंवनौकसः/निजघ्नुःपरमक्रुद्धाःसमदाइवकुञ्जराः/प्रांशुभिर्गिरिशृङ्गैश्चशिलाभिश्चमहाबलाः/पादपैःपुष्पिताग्रैश्चहन्यमानोनकम्पते/तस्यगात्रेषुपतिताभिद्यन्तेशतशःशिलाः/पादपाःपुष्पिताग्राश्चभग्नाःपेतुर्महीतले/सोऽपिसैन्यानिसंक्रुद्धोवानराणांमहौजसाम्/ममन्थपरमायत्तोवनान्यग्निरिवोत्थितः/लोहितार्द्रास्तुबहवःशेरतेवानरर्षभाः/निरस्ताःपतिताभूमौताम्रपुष्पाइवद्रुमाः/लङ्घयन्तःप्रधावन्तोवानरानावलोकयन्/केचित्समुद्रेपतिताःकेचिद्गगनमाश्रिताः/वध्यमानास्तुतेवीराराक्षसेनबलीयसा/सागरंयेनतेतीर्णाःपथातेनैवदुद्रुवुः/तेस्थलानितथानिम्नंविषण्णवदनाभयात्/ऋक्षावृक्षान्समारूढाःकेचित्पर्वतमाश्रिताः/ममज्जुरर्णवेकेचिद्गुहाःकेचित्समाश्रिताः/निषेदुःप्लवगाःकेचित्केचिन्नैवावतस्थिरे/तान्समीक्ष्याङ्गदोभङ्गान्वानरानिदमब्रवीत्/अवतिष्ठतयुध्यामोनिवर्तध्वंप्लवंगमाः/भग्नानांवोनपश्यामिपरिगम्यमहीमिमाम्/स्थानंसर्वेनिवर्तध्वंकिंप्राणान्परिरक्षथ/निरायुधानांद्रवतामसंगगतिपौरुषाः/दाराह्यपहसिष्यन्तिसवैघातस्तुजीविताम्/कुलेषुजाताःसर्वेस्मविस्तीर्णेषुमहत्सुच/अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यंप्रधावत/विकत्थनानिवोयानियदावैजनसंसदि/तानिवःक्वचयतानिसोदग्राणिमहान्तिच/भीरुप्रवादाःश्रूयन्तेयस्तुजीवतिधिक्कृतः/मार्गःसत्पुरुषैर्जुष्टःसेव्यतांत्यज्यतांभयम्/शयामहेवानिहताःपृथिव्यामल्पजीविताः/दुष्प्रापंब्रह्मलोकंवाप्राप्नुमोयुधिसूदिताः/संप्राप्नुयामःकीर्तिंवानिहत्यशत्रुमाहवे/नकुम्भकर्णःकाकुत्स्थंदृष्ट्वाजीवन्गमिष्यति/दीप्यमानमिवासाद्यपतंगोज्वलनंयथा/पलायनेनचोद्दिष्टाःप्राणान्रक्षामहेवयम्/एकेनबहवोभग्नायशोनाशंगमिष्यति/एवंब्रुवाणंतंशूरमङ्गदंकनकाङ्गदम्/द्रवमाणास्ततोवाक्यमूचुःशूरविगर्हितम्/कृतंनःकदनंघोरंकुम्भकर्णेनरक्षसा/नस्थानकालोगच्छामोदयितंजीवितंहिनः/एतावदुक्त्वावचनंसर्वेतेभेजिरेदिशः/भीमंभीमाक्षमायान्तंदृष्ट्वावानरयूथपाः/द्रवमाणास्तुतेवीराअङ्गदेनवलीमुखाः/सान्त्वैश्चबहुमानैश्चततःसर्वेनिवर्तिताः/ऋषभशरभमैन्दधूम्रनीलाः॑कुमुदसुषेणगवाक्षरम्भताराः/द्विविदपनसवायुपुत्रमुख्यास्॑त्वरिततराभिमुखंरणंप्रयाताः66633/तेनिवृत्तामहाकायाःश्रुत्वाङ्गदवचस्तदा/नैष्ठिकींबुद्धिमास्थायसर्वेसंग्रामकाङ्क्षिणः6671/समुदीरितवीर्यास्तेसमारोपितविक्रमाः/पर्यवस्थापितावाक्यैरङ्गदेनवलीमुखाः/प्रयाताश्चगताहर्षंमरणेकृतनिश्चयाः/चक्रुःसुतुमुलंयुद्धंवानरास्त्यक्तजीविताः/अथवृक्षान्महाकायाःसानूनिसुमहान्तिच/वानरास्तूर्णमुद्यम्यकुम्भकर्णमभिद्रवन्/सकुम्भकर्णःसंक्रुद्धोगदामुद्यम्यवीर्यवान्/अर्दयन्सुमहाकायःसमन्ताद्व्याक्षिपद्रिपून्/शतानिसप्तचाष्टौचसहस्राणिचवानराः/प्रकीर्णाःशेरतेभूमौकुम्भकर्णेनपोथिताः/षोडशाष्टौचदशचविंशत्त्रिंशत्तथैवच/परिक्षिप्यचबाहुभ्यांखादन्विपरिधावति/भक्षयन्भृशसंक्रुद्धोगरुडःपन्नगानिव/हनूमाञ्शैलशृङ्गाणिवृक्षांश्चविविधान्बहून्/ववर्षकुम्भकर्णस्यशिरस्यम्बरमास्थितः/तानिपर्वतशृङ्गाणिशूलेनतुबिभेदह/बभञ्जवृक्षवर्षंचकुम्भकर्णोमहाबलः/ततोहरीणांतदनीकमुग्रं॑दुद्रावशूलंनिशितंप्रगृह्य/तस्थौततोऽस्यापततःपुरस्तान्॑महीधराग्रंहनुमान्प्रगृह्य/सकुम्भकर्णंकुपितोजघान॑वेगेनशैलोत्तमभीमकायम्/सचुक्षुभेतेनतदाभिबूतो॑मेदार्द्रगात्रोरुधिरावसिक्तः/सशूलमाविध्यतडित्प्रकाशं॑गिरिंयथाप्रज्वलिताग्रशृङ्गम्/बाह्वन्तरेमारुतिमाजघान॑गुहोऽचलंक्रौञ्चमिवोग्रशक्त्या/सशूलनिर्भिन्नमहाभुजान्तरः॑प्रविह्वलःशोणितमुद्वमन्मुखात्/ननादभीमंहनुमान्महाहवे॑युगान्तमेघस्तनितस्वनोपमम्/ततोविनेदुःसहसाप्रहृष्टा॑रक्षोगणास्तंव्यथितंसमीक्ष्य/प्लवंगमास्तुव्यथिताभयार्ताः॑प्रदुद्रुवुःसंयतिकुम्भकर्णात्/नीलश्चिक्षेपशैलाग्रंकुम्भकर्णायधीमते/तमापतन्तंसंप्रेक्ष्यमुष्टिनाभिजघानह/मुष्टिप्रहाराभिहतंतच्छैलाग्रंव्यशीर्यत/सविस्फुलिङ्गंसज्वालंनिपपातमहीतले/ऋषभःशरभोनीलोगवाक्षोगन्धमादनः/पञ्चवानरशार्दूलाःकुम्भकर्णमुपाद्रवन्/शैलैर्वृक्षैस्तलैःपादैर्मुष्टिभिश्चमहाबलाः/कुम्भकर्णंमहाकायंसर्वतोऽभिनिजघ्निरे/स्पर्शानिवप्रहारांस्तान्वेदयानोनविव्यथे/ऋषभंतुमहावेगंबाहुभ्यांपरिषस्वजे/कुम्भकर्णभुजाभ्यांतुपीडितोवानरर्षभः/निपपातर्षभोभीमःप्रमुखागतशोणितः/मुष्टिनाशरभंहत्वाजानुनानीलमाहवे/आजघानगवाक्षंचतलेनेन्द्ररिपुस्तदा/दत्तप्रहरव्यथितामुमुहुःशोणितोक्षिताः/निपेतुस्तेतुमेदिन्यांनिकृत्ताइवकिंशुकाः/तेषुवानरमुख्येषुपतितेषुमहात्मसु/वानराणांसहस्राणिकुम्भकर्णंप्रदुद्रुवुः/तंशैलमिवशैलाभाःसर्वेतुप्लवगर्षभाः/समारुह्यसमुत्पत्यददंशुश्चमहाबलाः/तंनखैर्दशनैश्चापिमुष्टिभिर्जानुभिस्तथा/कुम्भकर्णंमहाकायंतेजघ्नुःप्लवगर्षभाः/सवानरसहस्रैस्तैराचितःपर्वतोपमः/रराजराक्षसव्याघ्रोगिरिरात्मरुहैरिव/बाहुभ्यांवानरान्सर्वान्प्रगृह्यसमहाबलः/भक्षयामाससंक्रुद्धोगरुडःपन्नगानिव/प्रक्षिप्ताःकुम्भकर्णेनवक्त्रेपातालसंनिभे/नासापुटाभ्यांनिर्जग्मुःकर्णाभ्यांचैववानराः/भक्षयन्भृशसंक्रुद्धोहरीन्पर्वतसंनिभः/बभञ्जवानरान्सर्वान्संक्रुद्धोराक्षसोत्तमः/मांसशोणितसंक्लेदांभूमिंकुर्वन्सराक्षसः/चचारहरिसैन्येषुकालाग्निरिवमूर्छितः/वज्रहस्तोयथाशक्रःपाशहस्तइवान्तकः/शूलहस्तोबभौतस्मिन्कुम्भकर्णोमहाबलः/यथाशुष्काण्यरण्यानिग्रीष्मेदहतिपावकः/तथावानरसैन्यानिकुम्भकर्णोविनिर्दहत्/ततस्तेवध्यमानास्तुहतयूथाविनायकाः/वानराभयसंविग्नाविनेदुर्विस्वरंभृशम्/अनेकशोवध्यमानाःकुम्भकर्णेनवानराः/राघवंशरणंजग्मुर्व्यथिताःखिन्नचेतसः/तमापतन्तंसंप्रेक्ष्यकुम्भकर्णंमहाबलम्/उत्पपाततदावीरःसुग्रीवोवानराधिपः/सपर्वताग्रमुत्क्षिप्यसमाविध्यमहाकपिः/अभिदुद्राववेगेनकुम्भकर्णंमहाबलम्/तमापतन्तंसंप्रेक्ष्यकुम्भकर्णःप्लवंगमम्/तस्थौविवृतसर्वाङ्गोवानरेन्द्रस्यसंमुखः/कपिशोणितदिग्धाङ्गंभक्षयन्तंमहाकपीन्/कुम्भकर्णंस्थितंदृष्ट्वासुग्रीवोवाक्यमब्रवीत्/पातिताश्चत्वयावीराःकृतंकर्मसुदुष्करम्/भक्षितानिचसैन्यानिप्राप्तंतेपरमंयशः/त्यजतद्वानरानीकंप्राकृतैःकिंकरिष्यसि/सहस्वैकंनिपातंमेपर्वतस्यास्यराक्षस/तद्वाक्यंहरिराजस्यसत्त्वधैर्यसमन्वितम्/श्रुत्वाराक्षसशार्दूलःकुम्भकर्णोऽब्रवीद्वचः/प्रजापतेस्तुपौत्रस्त्वंतथैवर्क्षरजःसुतः/श्रुतपौरुषसंपन्नस्तस्माद्गर्जसिवानर/सकुम्भकर्णस्यवचोनिशम्य॑व्याविध्यशैलंसहसामुमोच/तेनाजघानोरसिकुम्भकर्णं॑शैलेनवज्राशनिसंनिभेन/तच्छैलशृङ्गंसहसाविकीर्णं॑भुजान्तरेतस्यतदाविशाले/ततोविषेदुःसहसाप्लवंगमा॑रक्षोगणाश्चापिमुदाविनेदुः/सशैलशृङ्गाभिहतश्चुकोप॑ननादकोपाच्चविवृत्यवक्त्रम्/व्याविध्यशूलंचतडित्प्रकाशं॑चिक्षेपहर्यृक्षपतेर्वधाय/तत्कुम्भकर्णस्यभुजप्रविद्धं॑शूलंशितंकाञ्चनदामजुष्टम्/क्षिप्रंसमुत्पत्यनिगृह्यदोर्भ्यां॑बभञ्जवेगेनसुतोऽनिलस्य/कृतंभारसहस्रस्यशूलंकालायसंमहत्/बभञ्जजनौमारोप्यप्रहृष्टःप्लवगर्षभः/सतत्तदाभग्नमवेक्ष्यशूलं॑चुकोपरक्षोऽधिपतिर्महात्मा/उत्पाट्यलङ्कामलयात्सशृङ्गं॑जघानसुग्रीवमुपेत्यतेन/सशैलशृङ्गाभिहतोविसंज्ञः॑पपातभूमौयुधिवानरेन्द्रः/तंप्रेक्ष्यभूमौपतितंविसंज्ञं॑नेदुःप्रहृष्टायुधियातुधानाः/तमभ्युपेत्याद्भुतघोरवीर्यं॑सकुम्भकर्णोयुधिवानरेन्द्रम्/जहारसुग्रीवमभिप्रगृह्य॑यथानिलोमेघमतिप्रचण्डः/सतंमहामेघनिकाशरूपम्॑उत्पाट्यगच्छन्युधिकुम्भकर्णः/रराजमेरुप्रतिमानरूपो॑मेरुर्यथात्युच्छ्रितघोरशृङ्गः/ततःसमुत्पाट्यजगामवीरः॑संस्तूयमानोयुधिराक्षसेन्द्रैः/शृण्वन्निनादंत्रिदशालयानां॑प्लवंगराजग्रहविस्मितानाम्/ततस्तमादायतदासमेने॑हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः/अस्मिन्हृतेसर्वमिदंहृतंस्यात्॑सराघवंसैन्यमितीन्द्रशत्रुः/विद्रुतांवाहिनींदृष्ट्वावानराणांततस्ततः/कुम्भकर्णेनसुग्रीवंगृहीतंचापिवानरम्/हनूमांश्चिन्तयामासमतिमान्मारुतात्मजः/एवंगृहीतेसुग्रीवेकिंकर्तव्यंमयाभवेत्/यद्वैन्याय्यंमयाकर्तुंतत्करिष्यामिसर्वथा/भूत्वापर्वतसंकाशोनाशयिष्यामिराक्षसं/मयाहतेसंयतिकुम्भकर्णे॑महाबलेमुष्टिविशीर्णदेहे/विमोचितेवानरपार्थिवेच॑भवन्तुहृष्टाःप्रवगाःसमग्राः/अथवास्वयमप्येषमोक्षंप्राप्स्यतिपार्थिवः/गृहीतोऽयंयदिभवेत्त्रिदशैःसासुरोरगैः/मन्येनतावदात्मानंबुध्यतेवानराधिपः/शैलप्रहाराभिहतःकुम्भकर्णेनसंयुगे/अयंमुहूर्तात्सुग्रीवोलब्धसंज्ञोमहाहवे/आत्मनोवानराणांचयत्पथ्यंतत्करिष्यति/मयातुमोक्षितस्यास्यसुग्रीवस्यमहात्मनः/अप्रीतश्चभवेत्कष्टाकीर्तिनाशश्चशाश्वतः/तस्मान्मुहूर्तंकाङ्क्षिष्येविक्रमंपार्थिवस्यनः/भिन्नंचवानरानीकंतावदाश्वासयाम्यहम्/इत्येवंचिन्तयित्वातुहनूमान्मारुतात्मजः/भूयःसंस्तम्भयामासवानराणांमहाचमूम्/सकुम्भकर्णोऽथविवेशलङ्कां॑स्फुरन्तमादायमहाहरिंतम्/विमानचर्यागृहगोपुरस्थैः॑पुष्पाग्र्यवर्षैरवकीर्यमाणः/ततःससंज्ञामुपलभ्यकृच्छ्राद्॑बलीयसस्तस्यभुजान्तरस्थः/अवेक्षमाणःपुरराजमार्गं॑विचिन्तयामासमुहुर्महात्मा/एवंगृहीतेनकथंनुनाम॑शक्यंमयासंप्रतिकर्तुमद्य/तथाकरिष्यामियथाहरीणां॑भविष्यतीष्टंचहितंचकार्यम्/ततःकराग्रैःसहसासमेत्य॑राजाहरीणाममरेन्द्रशत्रोः/नखैश्चकर्णौदशनैश्चनासां॑ददंशपार्श्वेषुचकुम्भकर्णम्/सकुम्भकर्णौहृतकर्णनासो॑विदारितस्तेनविमर्दितश्च/रोषाभिभूतःक्षतजार्द्रगात्रः॑सुग्रीवमाविध्यपिपेषभूमौ/सभूतलेभीमबलाभिपिष्टः॑सुरारिभिस्तैरभिहन्यमानः/जगामखंवेगवदभ्युपेत्य॑पुनश्चरामेणसमाजगाम/कर्णनासाविहीनस्यकुम्भकर्णोमहाबलः/रराजशोणितोत्सिक्तोगिरिःप्रस्रवणैरिव/ततःसपुर्याःसहसामहात्मा॑निष्क्रम्यतद्वानरसैन्यमुग्रम्/बभक्षरक्षोयुधिकुम्भकर्णः॑प्रजायुगान्ताग्निरिवप्रदीप्तः/बुभुक्षितःशोणितमांसगृध्नुः॑प्रविश्यतद्वानरसैन्यमुग्रम्/चखादरक्षांसिहरीन्पिशाचान्॑ऋक्षांश्चमोहाद्युधिकुम्भकर्णः/एकंद्वौत्रीन्बहून्क्रुद्धोवानरान्सहराक्षसैः/समादायैकहस्तेनप्रचिक्षेपत्वरन्मुखे/संप्रस्रवंस्तदामेदःशोणितंचमहाबलः/वध्यमानोनगेन्द्राग्रैर्भक्षयामासवानरान्/तेभक्ष्यमाणाहरयोरामंजग्मुस्तदागतिम्/तस्मिन्कालेसुमित्रायाःपुत्रःपरबलार्दनः/चकारलक्ष्मणःक्रुद्धोयुद्धंपरपुरंजयः/सकुम्भकर्णस्यशराञ्शरीरेसप्तवीर्यवान्/निचखानाददेचान्यान्विससर्जचलक्ष्मणः/अतिक्रम्यचसौमित्रिंकुम्भकर्णोमहाबलः/राममेवाभिदुद्रावदारयन्निवमेदिनीम्/अथदाशरथीरामोरौद्रमस्त्रंप्रयोजयन्/कुम्भकर्णस्यहृदयेससर्जनिशिताञ्शरान्/तस्यरामेणविद्धस्यसहसाभिप्रधावतः/अङ्गारमिश्राःक्रुद्धस्यमुखान्निश्चेरुरर्चिषः/तस्योरसिनिमग्नाश्चशराबर्हिणवाससः/हस्ताच्चास्यपरिभ्रष्टापपातोर्व्यांमहागदा/सनिरायुधमात्मानंयदामेनेमहाबलः/मुष्टिभ्यांचारणाभ्यांचचकारकदनंमहत्/सबाणैरतिविद्धाङ्गःक्षतजेनसमुक्षितः/रुधिरंपरिसुस्रावगिरिःप्रस्रवणानिव/सतीव्रेणचकोपेनरुधिरेणचमूर्छितः/वानरान्राक्षसानृक्षान्खादन्विपरिधावति/तस्मिन्कालेसधर्मात्मालक्ष्मणोराममब्रवीत्/कुम्भकर्णवधेयुक्तोयोगान्परिमृशन्बहून्/नैवायंवानरान्राजन्नविजानातिराक्षसान्/मत्तःशोणितगन्धेनस्वान्परांश्चैवखादति/साध्वेनमधिरोहन्तुसर्वतोवानरर्षभाः/यूथपाश्चयथामुख्यास्तिष्ठन्त्वस्यसमन्ततः/अप्ययंदुर्मतिःकालेगुरुभारप्रपीडितः/प्रपतन्राक्षसोभूमौनान्यान्हन्यात्प्लवंगमान्/तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः/तेसमारुरुहुर्हृष्टाःकुम्भकर्णंप्लवंगमाः/कुम्भकर्णस्तुसंक्रुद्धःसमारूढःप्लवंगमैः/व्यधूनयत्तान्वेगेनदुष्टहस्तीवहस्तिपान्/तान्दृष्ट्वानिर्धूतान्रामोरुष्टोऽयमितिराक्षसः/समुत्पपातवेगेनधनुरुत्तममाददे/सचापमादायभुजंगकल्पं॑दृढज्यमुग्रंतपनीयचित्रम्/हरीन्समाश्वास्यसमुत्पपात॑रामोनिबद्धोत्तमतूणबाणः/सवानरगणैस्तैस्तुवृतःपरमदुर्जयः/लक्ष्मणानुचरोरामःसंप्रतस्थेमहाबलः/सददर्शमहात्मानंकिरीटिनमरिंदमम्/शोणिताप्लुतसर्वाङ्गंकुम्भकर्णंमहाबलम्/सर्वान्समभिधावन्तंयथारुष्टंदिशागजम्/मार्गमाणंहरीन्क्रुद्धंराक्षसैःपरिवारितम्/विन्ध्यमन्दरसंकाशंकाञ्चनाङ्गदभूषणम्/स्रवन्तंरुधिरंवक्त्राद्वर्षमेघमिवोत्थितम्/जिह्वयापरिलिह्यन्तंशोणितंशोणितोक्षितम्/मृद्नन्तंवानरानीकंकालान्तकयमोपमम्/तंदृष्ट्वाराक्षसश्रेष्ठंप्रदीप्तानलवर्चसं/विस्फारयामासतदाकार्मुकंपुरुषर्षभः/सतस्यचापनिर्घोषात्कुपितोनैरृतर्षभः/अमृष्यमाणस्तंघोषमभिदुद्रावराघवम्/ततस्तुवातोद्धतमेघकल्पं॑भुजंगराजोत्तमभोगबाहुम्/तमापतन्तंधरणीधराभम्॑उवाचरामोयुधिकुम्भकर्णम्/आगच्छरक्षोऽधिपमाविषादम्॑अवस्थितोऽहंप्रगृहीतचापः/अवेहिमांशक्रसपत्नरामम्॑अयंमुहूर्ताद्भविताविचेताः/रामोऽयमितिविज्ञायजहासविकृतस्वनम्/पातयन्निवसर्वेषांहृदयानिवनौकसाम्/प्रहस्यविकृतंभीमंसमेघस्वनितोपमम्/कुम्भकर्णोमहातेजाराघवंवाक्यमब्रवीत्/नाहंविराधोविज्ञेयोनकबन्धःखरोनच/नवालीनचमारीचःकुम्भकर्णोऽहमागतः/पश्यमेमुद्गरंघोरंसर्वकालायसंमहत्/अनेननिर्जितादेवादानवाश्चमयापुरा/विकर्णनासइतिमांनावज्ञातुंत्वमर्हसि/स्वल्पापिहिनमेपीडाकर्णनासाविनाशनात्/दर्शयेक्ष्वाकुशार्दूलवीर्यंगात्रेषुमेलघु/ततस्त्वांभक्षयिष्यामिदृष्टपौरुषविक्रमम्/सकुम्भकर्णस्यवचोनिशम्य॑रामःसुपुङ्खान्विससर्जबाणान्/तैराहतोवज्रसमप्रवेगैर्॑नचुक्षुभेनव्यथतेसुरारिः/यैःसायकैःसालवरानिकृत्ता॑वालीहतोवानरपुंगवश्च/तेकुम्भकर्णस्यतदाशरीरं॑वज्रोपमानव्यथयांप्रचक्रुः/सवारिधाराइवसायकांस्तान्॑पिबञ्शरीरेणमहेन्द्रशत्रुः/जघानरामस्यशरप्रवेगं॑व्याविध्यतंमुद्गरमुग्रवेगम्/ततस्तुरक्षःक्षतजानुलिप्तं॑वित्रासनंदेवमहाचमूनाम्/व्याविध्यतंमुद्गरमुग्रवेगं॑विद्रावयामासचमूंहरीणाम्/वायव्यमादायततोवरास्त्रं॑रामःप्रचिक्षेपनिशाचराय/समुद्गरंतेनजहारबाहुं॑सकृत्तबाहुस्तुमुलंननाद/सतस्यबाहुर्गिरिशृङ्गकल्पः॑समुद्गरोराघवबाणकृत्तः/पपाततस्मिन्हरिराजसैन्ये॑जघानतांवानरवाहिनींच/तेवानराभग्नहतावशेषाः॑पर्यन्तमाश्रित्यतदाविषण्णाः/प्रवेपिताङ्गाददृशुःसुघोरं॑नरेन्द्ररक्षोऽधिपसंनिपातम्/सकुम्भकर्णोऽस्त्रनिकृत्तबाहुर्॑महान्निकृत्ताग्रइवाचलेन्द्रः/उत्पाटयामासकरेणवृक्षं॑ततोऽभिदुद्रावरणेनरेन्द्रम्/तंतस्यबाहुंसहसालवृक्षं॑समुद्यतंपन्नगभोगकल्पम्/ऐन्द्रास्त्रयुक्तेनजहाररामो॑बाणेनजाम्बूनदचित्रितेन/सकुम्भकर्णस्यभुजोनिकृत्तः॑पपातभूमौगिरिसंनिकाशः/विवेष्टमानोनिजघानवृक्षाञ्॑शैलाञ्शिलावानरराक्षसांश्च/तंछिन्नबाहुंसमवेक्ष्यरामः॑समापतन्तंसहसानदन्तम्/द्वावर्धचन्द्रौनिशितौप्रगृह्य॑चिच्छेदपादौयुधिराक्षसस्य/निकृत्तबाहुर्विनिकृत्तपादो॑विदार्यवक्त्रंवडवामुखाभम्/दुद्रावरामंसहसाभिगर्जन्॑राहुर्यथाचन्द्रमिवान्तरिक्षे/अपूरयत्तस्यमुखंशिताग्रै॑रामःशरैर्हेमपिनद्धपुङ्खैः/सपूर्णवक्त्रोनशशाकवक्तुं॑चुकूजकृच्छ्रेणमुमोहचापि/अथाददेसूर्यमरीचिकल्पं॑सब्रह्मदण्डान्तककालकल्पम्/अरिष्टमैन्द्रंनिशितंसुपुङ्खं॑रामःशरंमारुततुल्यवेगम्/तंवज्रजाम्बूनदचारुपुङ्खं॑प्रदीप्तसूर्यज्वलनप्रकाशम्/महेन्द्रवज्राशनितुल्यवेगं॑रामःप्रचिक्षेपनिशाचराय/ससायकोराघवबाहुचोदितो॑दिशःस्वभासादशसंप्रकाशयन्/विधूमवैश्वानरदीप्तदर्शनो॑जगामशक्राशनितुल्यविक्रमः/सतन्महापर्वतकूटसंनिभं॑विवृत्तदंष्ट्रंचलचारुकुण्डलम्/चकर्तरक्षोऽधिपतेःशिरस्तदा॑यथैववृत्रस्यपुरापुरंदरः/तद्रामबाणाभिहतंपपात॑रक्षःशिरःपर्वतसंनिकाशम्/बभञ्जचर्यागृहगोपुराणि॑प्राकारमुच्चंतमपातयच्च/तच्चातिकायंहिमवत्प्रकाशं॑रक्षस्तदातोयनिधौपपात/ग्राहान्महामीनचयान्भुजंगमान्॑ममर्दभूमिंचतथाविवेश/तस्मिर्हतेब्राह्मणदेवशत्रौ॑महाबलेसंयतिकुम्भकर्णे/चचालभूर्भूमिधराश्चसर्वे॑हर्षाच्चदेवास्तुमुलंप्रणेदुः/ततस्तुदेवर्षिमहर्षिपन्नगाः॑सुराश्चभूतानिसुपर्णगुह्यकाः/सयक्षगन्धर्वगणानभोगताः॑प्रहर्षितारामपराक्रमेण/प्रहर्षमीयुर्बहवस्तुवानराः॑प्रबुद्धपद्मप्रतिमैरिवाननैः/अपूजयन्राघवमिष्टभागिनं॑हतेरिपौभीमबलेदुरासदे/सकुम्भकर्णंसुरसैन्यमर्दनं॑महत्सुयुद्धेष्वपराजितश्रमम्/ननन्दहत्वाभरताग्रजोरणे॑महासुरंवृत्रमिवामराधिपः667177/कुम्भकर्णंहतंदृष्ट्वाराघवेणमहात्मना/राक्षसाराक्षसेन्द्रायरावणायन्यवेदयन्6681/श्रुत्वाविनिहतंसंख्येकुम्भकर्णंमहाबलम्/रावणःशोकसंतप्तोमुमोहचपपातच/पितृव्यंनिहतंश्रुत्वादेवान्तकनरान्तकौ/त्रिशिराश्चातिकायश्चरुरुदुःशोकपीडिताः/भ्रातरंनिहतंश्रुत्वारामेणाक्लिष्टकर्मणा/महोदरमहापार्श्वौशोकाक्रान्तौबभूवतुः/ततःकृच्छ्रात्समासाद्यसंज्ञांराक्षसपुंगवः/कुम्भकर्णवधाद्दीनोविललापसरावणः/हावीररिपुदर्पघ्नकुम्भकर्णमहाबल/शत्रुसैन्यंप्रताप्यैकःक्वमांसंत्यज्यगच्छसि/इदानींखल्वहंनास्मियस्यमेपतितोभुजः/दक्षिणोयंसमाश्रित्यनबिभेमिसुरासुरान्/कथमेवंविधोवीरोदेवदानवदर्पहा/कालाग्निप्रतिमोह्यद्यराघवेणरणेहतः/यस्यतेवज्रनिष्पेषोनकुर्याद्व्यसनंसदा/सकथंरामबाणार्तःप्रसुप्तोऽसिमहीतले/एतेदेवगणाःसार्धमृषिभिर्गगनेस्थिताः/निहतंत्वांरणेदृष्ट्वानिनदन्तिप्रहर्षिताः/ध्रुवमद्यैवसंहृष्टालब्धलक्ष्याःप्लवंगमाः/आरोक्ष्यन्तीहदुर्गाणिलङ्काद्वाराणिसर्वशः/राज्येननास्तिमेकार्यंकिंकरिष्यामिसीतया/कुम्भकर्णविहीनस्यजीवितेनास्तिमेरतिः/यद्यहंभ्रातृहन्तारंनहन्मियुधिराघवम्/ननुमेमरणंश्रेयोनचेदंव्यर्थजीवितम्/अद्यैवतंगमिष्यामिदेशंयत्रानुजोमम/नहिभ्रातॄन्समुत्सृज्यक्षणंजीवितुमुत्सहे/देवाहिमांहसिष्यन्तिदृष्ट्वापूर्वापकारिणम्/कथमिन्द्रंजयिष्यामिकुम्भकर्णहतेत्वयि/तदिदंमामनुप्राप्तंविभीषणवचःशुभम्/यदज्ञानान्मयातस्यनगृहीतंमहात्मनः/विभीषणवचोयावत्कुम्भकर्णप्रहस्तयोः/विनाशोऽयंसमुत्पन्नोमांव्रीडयतिदारुणः/तस्यायंकर्मणःप्रातोविपाकोममशोकदः/यन्मयाधार्मिकःश्रीमान्सनिरस्तोविभीषणः/इतिबहुविधमाकुलान्तरात्मा॑कृपणमतीवविलप्यकुम्भकर्णम्/न्यपतदथदशाननोभृशार्तस्॑तमनुजमिन्द्ररिपुंहतंविदित्वा66824/एवंविलपमानस्यरावणस्यदुरात्मनः/श्रुत्वाशोकाभितप्तस्यत्रिशिरावाक्यमब्रवीत्6691/एवमेवमहावीर्योहतोनस्तातमध्यमः/नतुसत्पुरुषाराजन्विलपन्तियथाभवान्/नूनंत्रिभुवणस्यापिपर्याप्तस्त्वमसिप्रभो/सकस्मात्प्राकृतइवशोकस्यात्मानमीदृशम्/ब्रह्मदत्तास्तितेशक्तिःकवचःसायकोधनुः/सहस्रखरसंयुक्तोरथोमेघसमस्वनः/त्वयासकृद्विशस्त्रेणविशस्तादेवदानवाः/ससर्वायुधसंपन्नोराघवंशास्तुमर्हसि/कामंतिष्ठमहाराजनिर्गमिष्याम्यहंरणम्/उद्धरिष्यामितेशत्रून्गरुडःपन्नगानिह/शम्बरोदेवराजेननरकोविष्णुनायथा/तथाद्यशयितारामोमयायुधिनिपातितः/श्रुत्वात्रिशिरसोवाक्यंरावणोराक्षसाधिपः/पुनर्जातमिवात्मानंमन्यतेकालचोदितः/श्रुत्वात्रिशिरसोवाक्यंदेवान्तकनरान्तकौ/अतिकायश्चतेजस्वीबभूवुर्युद्धहर्षिताः/ततोऽहमहमित्येवंगर्जन्तोनैरृतर्षभाः/रावणस्यसुतावीराःशक्रतुल्यपराक्रमाः/अन्तरिक्षचराःसर्वेसर्वेमायाविशारदाः/सर्वेत्रिदशदर्पघ्नाःसर्वेचरणदुर्मदाः/सर्वेऽस्त्रबलसंपन्नाःसर्वेविस्तीर्णकीर्तयः/सर्वेसमरमासाद्यनश्रूयन्तेस्मनिर्जिताः/सर्वेऽस्त्रविदुषोवीराःसर्वेयुद्धविशारदाः/सर्वेप्रवरजिज्ञानाःसर्वेलब्धवरास्तथा/सतैस्तथाभास्करतुल्यवर्चसैः॑सुतैर्वृतःशत्रुबलप्रमर्दनैः/रराजराजामघवान्यथामरैर्॑वृतोमहादानवदर्पनाशनैः/सपुत्रान्संपरिष्वज्यभूषयित्वाचभूषणैः/आशीर्भिश्चप्रशस्ताभिःप्रेषयामाससंयुगे/महोदरमहापार्श्वौभ्रातरौचापिरावणः/रक्षणार्थंकुमाराणांप्रेषयामाससंयुगे/तेऽभिवाद्यमहात्मानंरावणंरिपुरावणम्/कृत्वाप्रदक्षिणंचैवमहाकायाःप्रतस्थिरे/सर्वौषधीभिर्गन्धैश्चसमालभ्यमहाबलाः/निर्जग्मुर्नैरृतश्रेष्ठाःषडेतेयुद्धकाङ्क्षिणः/ततःसुदर्शनंनामनीलजीमूतसंनिभम्/ऐरावतकुलेजातमारुरोहमहोदरः/सर्वायुधसमायुक्तंतूणीभिश्चस्वलंकृतम्/रराजगजमास्थायसवितेवास्तमूर्धनि/हयोत्तमसमायुक्तंसर्वायुधसमाकुलम्/आरुरोहरथश्रेष्ठंत्रिशिरारावणात्मजः/त्रिशिरारथमास्थायविरराजधनुर्धरः/सविद्युदुल्कःसज्वालःसेन्द्रचापइवाम्बुदः/त्रिभिःकिरीटैस्त्रिशिराःशुशुभेसरथोत्तमे/हिमवानिवशैलेन्द्रस्त्रिभिःकाञ्चनपर्वतैः/अतिकायोऽपितेजस्वीराक्षसेन्द्रसुतस्तदा/आरुरोहरथश्रेष्ठंश्रेष्ठःसर्वधनुष्मताम्/सुचक्राक्षंसुसंयुक्तंसानुकर्षंसकूबरम्/तूणीबाणासनैर्दीप्तंप्रासासिपरिघाकुलम्/सकाञ्चनविचित्रेणकिरीटेनविराजता/भूषणैश्चबभौमेरुःप्रभाभिरिवभास्वरः/सरराजरथेतस्मिन्राजसूनुर्महाबलः/वृतोनैरृतशार्दूलैर्वज्रपाणिरिवामरैः/हयमुच्चैःश्रवःप्रख्यंश्वेतंकनकभूषणम्/मनोजवंमहाकायमारुरोहनरान्तकः/गृहीत्वाप्रासमुक्लाभंविरराजनरान्तकः/शक्तिमादायतेजस्वीगुहःशत्रुष्विवाहवे/देवान्तकःसमादायपरिघंवज्रभूषणम्/परिगृह्यगिरिंदोर्भ्यांवपुर्विष्णोर्विडम्बयन्/महापार्श्वोमहातेजागदामादायवीर्यवान्/विरराजगदापाणिःकुबेरइवसंयुगे/तेप्रतस्थुर्महात्मानोबलैरप्रतिमैर्वृताः/सुराइवामरावत्यांबलैरप्रतिमैर्वृताः/तान्गजैश्चतुरंगैश्चरथैश्चाम्बुदनिस्वनैः/अनुजग्मुर्महात्मानोराक्षसाःप्रवरायुधाः/तेविरेजुर्महात्मानोकुमाराःसूर्यवर्चसः/किरीटिनःश्रियाजुष्टाग्रहादीप्ताइवाम्बरे/प्रगृहीताबभौतेषांछत्राणामावलिःसिता/शारदाभ्रप्रतीकाशांहंसावलिरिवाम्बरे/मरणंवापिनिश्चित्यशत्रूणांवापराजयम्/इतिकृत्वामतिंवीरानिर्जग्मुःसंयुगार्थिनः/जगर्जुश्चप्रणेदुश्चचिक्षिपुश्चापिसायकान्/जहृषुश्चमहात्मानोनिर्यान्तोयुद्धदुर्मदाः/क्ष्वेडितास्फोटनिनदैःसंचचालेवमेदिनी/रक्षसांसिंहनादैश्चपुस्फोटेवतदाम्बरम्/तेऽभिनिष्क्रम्यमुदिताराक्षसेन्द्रामहाबलाः/ददृशुर्वानरानीकंसमुद्यतशिलानगम्/हरयोऽपिमहात्मानोददृशुर्नैरृतंबलम्/हस्त्यश्वरथसंबाधंकिङ्किणीशतनादितम्/नीलजीमूतसंकाशंसमुद्यतमहायुधम्/दीप्तानलरविप्रख्यैर्नैरृतैःसर्वतोवृतम्/तद्दृष्ट्वाबलमायान्तंलब्धलक्ष्याःप्लवंगमाः/समुद्यतमहाशैलाःसंप्रणेदुर्मुहुर्मुहुः/ततःसमुद्घुष्टरवंनिशम्य॑रक्षोगणावानरयूथपानाम्/अमृष्यमाणाःपरहर्षमुग्रं॑महाबलाभीमतरंविनेदुः/तेराक्षसबलंघोरंप्रविश्यहरियूथपाः/विचेरुरुद्यतैःशैलैर्नगाःशिखरिणोयथा/केचिदाकाशमाविश्यकेचिदुर्व्यांप्लवंगमाः/रक्षःसैन्येषुसंक्रुद्धाश्चेरुर्द्रुमशिलायुधाः/तेपादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम्/बाणौघैर्वार्यमाणाश्चहरयोभीमविक्रमाः/सिंहनादान्विनेदुश्चरणेराक्षसवानराः/शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः/निजघ्नुःसंयुगेक्रुद्धाःकवचाभरणावृतान्/केचिद्रथगतान्वीरान्गजवाजिगतानपि/निजघ्नुःसहसाप्लुत्ययातुधानान्प्लवंगमाः/शैलशृङ्गनिपातैश्चमुष्टिभिर्वान्तलोचनाः/चेलुःपेतुश्चनेदुश्चतत्रराक्षसपुंगवाः/ततःशैलैश्चखड्गैश्चविसृष्टैर्हरिराक्षसैः/मुहूर्तेनावृताभूमिरभवच्छोणिताप्लुता/विकीर्णपर्वताकारैरक्षोभिररिमर्दनैः/आक्षिप्ताःक्षिप्यमाणाश्चभग्नशूलाश्चवानरैः/वानरान्वानरैरेवजग्नुस्तेरजनीचराः/राक्षसान्राक्षसैरेवजघ्नुस्तेवानराअपि/आक्षिप्यचशिलास्तेषांनिजघ्नूराक्षसाहरीन्/तेषांचाच्छिद्यशस्त्राणिजघ्नूरक्षांसिवानराः/निजघ्नुःशैलशूलास्त्रैर्विभिदुश्चपरस्परम्/सिंहनादान्विनेदुश्चरणेवानरराक्षसाः/छिन्नवर्मतनुत्राणाराक्षसावानरैर्हताः/रुधिरंप्रस्रुतास्तत्ररससारमिवद्रुमाः/रथेनचरथंचापिवारणेनचवारणम्/हयेनचहयंकेचिन्निजघ्नुर्वानरारणे/क्षुरप्रैरर्धचन्द्रैश्चभल्लैश्चनिशितैःशरैः/राक्षसावानरेन्द्राणांचिच्छिदुःपादपाञ्शिलाः/विकीर्णैःपर्वताग्रैश्चद्रुमैश्छिन्नैश्चसंयुगे/हतैश्चकपिरक्षोभिर्दुर्गमावसुधाभवत्/तस्मिन्प्रवृत्तेतुमुलेविमर्दे॑प्रहृष्यमाणेषुवलीमुखेषु/निपात्यमानेषुचराक्षसेषु॑महर्षयोदेवगणाश्चनेदुः/ततोहयंमारुततुल्यवेगम्॑आरुह्यशक्तिंनिशितांप्रगृह्य/नरान्तकोवानरराजसैन्यं॑महार्णवंमीनइवाविवेश/सवानरान्सप्तशतानिवीरः॑प्रासेनदीप्तेनविनिर्बिभेद/एकःक्षणेनेन्द्ररिपुर्महात्मा॑जघानसैन्यंहरिपुंगवानाम्/ददृशुश्चमहात्मानंहयपृष्ठेप्रतिष्ठितम्/चरन्तंहरिसैन्येषुविद्याधरमहर्षयः/सतस्यददृशेमार्गोमांसशोणितकर्दमः/पतितैःपर्वताकारैर्वानरैरभिसंवृतः/यावद्विक्रमितुंबुद्धिंचक्रुःप्लवगपुंगवाः/तावदेतानतिक्रम्यनिर्बिभेदनरान्तकः/ज्वलन्तंप्रासमुद्यम्यसंग्रामान्तेनरान्तकः/ददाहहरिसैन्यानिवनानीवविभावसुः/यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः/तावत्प्रासहताःपेतुर्वज्रकृत्ताइवाचलाः/दिक्षुसर्वासुबलवान्विचचारनरान्तकः/प्रमृद्नन्सर्वतोयुद्धेप्रावृट्कालेयथानिलः/नशेकुर्धावितुंवीरानस्थातुंस्पन्दितुंकुतः/उत्पतन्तंस्थितंयान्तंसर्वान्विव्याधवीर्यवान्/एकेनान्तककल्पेनप्रासेनादित्यतेजसा/भिन्नानिहरिसैन्यानिनिपेतुर्धरणीतले/वज्रनिष्पेषसदृशंप्रासस्याभिनिपातनम्/नशेकुर्वानराःसोढुंतेविनेदुर्महास्वनम्/पततांहरिवीराणांरूपाणिप्रचकाशिरे/वज्रभिन्नाग्रकूटानांशैलानांपततामिव/येतुपूर्वंमहात्मानःकुम्भकर्णेनपातिताः/तेऽस्वस्थावानरश्रेष्ठाःसुग्रीवमुपतस्थिरे/विप्रेक्षमाणःसुग्रीवोददर्शहरिवाहिनीम्/नरान्तकभयत्रस्तांविद्रवन्तीमितस्ततः/विद्रुतांवाहिनींदृष्ट्वासददर्शनरान्तकम्/गृहीतप्रासमायान्तंहयपृष्ठेप्रतिष्ठितम्/अथोवाचमहातेजाःसुग्रीवोवानराधिपः/कुमारमङ्गदंवीरंशक्रतुल्यपराक्रमम्/गच्छैनंराक्षसंवीरयोऽसौतुरगमास्थितः/क्षोभयन्तंहरिबलंक्षिप्रंप्राणैर्वियोजय/सभर्तुर्वचनंश्रुत्वानिष्पपाताङ्गदस्तदा/अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान्/शैलसंघातसंकाशोहरीणामुत्तमोऽङ्गदः/रराजाङ्गदसंनद्धःसधातुरिवपर्वतः/निरायुधोमहातेजाःकेवलंनखदंष्ट्रवान्/नरान्तकमभिक्रम्यवालिपुत्रोऽब्रवीद्वचः/तिष्ठकिंप्राकृतैरेभिर्हरिभिस्त्वंकरिष्यसि/अस्मिन्वज्रसमस्पर्शेप्रासंक्षिपममोरसि/अङ्गदस्यवचःश्रुत्वाप्रचुक्रोधनरान्तकः/संदश्यदशनैरोष्ठंनिश्वस्यचभुजंगवत्/सप्रासमाविध्यतदाङ्गदाय॑समुज्ज्वलन्तंसहसोत्ससर्ज/सवालिपुत्रोरसिवज्रकल्पे॑बभूवभग्नोन्यपतच्चभूमौ/तंप्रासमालोक्यतदाविभग्नं॑सुपर्णकृत्तोरगभोगकल्पम्/तलंसमुद्यम्यसवालिपुत्रस्॑तुरंगमस्याभिजघानमूर्ध्नि/निमग्नपादःस्फुटिताक्षितारो॑निष्क्रान्तजिह्वोऽचलसंनिकाशः/सतस्यवाजीनिपपातभूमौ॑तलप्रहारेणविकीर्णमूर्धा/नरान्तकःक्रोधवशंजगाम॑हतंतुरगंपतितंनिरीक्ष्य/समुष्टिमुद्यम्यमहाप्रभावो॑जघानशीर्षेयुधिवालिपुत्रम्/अथाङ्गदोमुष्टिविभिन्नमूर्धा॑सुस्रावतीव्रंरुधिरंभृशोष्णम्/मुहुर्विजज्वालमुमोहचापि॑संज्ञांसमासाद्यविसिष्मियेच/अथाङ्गदोवज्रसमानवेगं॑संवर्त्यमुष्टिंगिरिशृङ्गकल्पम्/निपातयामासतदामहात्मा॑नरान्तकस्योरसिवालिपुत्रः/समुष्टिनिष्पिष्टविभिन्नवक्षा॑ज्वालांवमञ्शोणितदिग्धगात्रः/नरान्तकोभूमितलेपपात॑यथाचलोवज्रनिपातभग्नः/अथान्तरिक्षेत्रिदशोत्तमानां॑वनौकसांचैवमहाप्रणादः/बभूवतस्मिन्निहतेऽग्र्यवीरे॑नरान्तकेवालिसुतेनसंख्ये/अथाङ्गदोराममनःप्रहर्षणं॑सुदुष्करंतंकृतवान्हिविक्रमम्/विसिष्मियेसोऽप्यतिवीर्यविक्रमः॑पुनश्चयुद्धेसबभूवहर्षितः66996/नरान्तकंहतंदृष्ट्वाचुक्रुशुर्नैरृतर्षभाः/देवान्तकस्त्रिमूर्धाचपौलस्त्यश्चमहोदरः6701/आरूढोमेघसंकाशंवारणेन्द्रंमहोदरः/वालिपुत्रंमहावीर्यमभिदुद्राववीर्यवान्/भ्रातृव्यसनसंतप्तस्तदादेवान्तकोबली/आदायपरिघंदीप्तमङ्गदंसमभिद्रवत्/रथमादित्यसंकाशंयुक्तंपरमवाजिभिः/आस्थायत्रिशिरावीरोवालिपुत्रमथाभ्ययात्/सत्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः/वृक्षमुत्पाटयामासमहाविटपमङ्गदः/देवान्तकायतंवीरश्चिक्षेपसहसाङ्गदः/महावृक्षंमहाशाखंशक्रोदीप्तमिवाशनिम्/त्रिशिरास्तंप्रचिच्छेदशरैराशीविषोपमैः/सवृक्षंकृत्तमालोक्यउत्पपातततोऽङ्गदः/सववर्षततोवृक्षाञ्शिलाश्चकपिकुञ्जरः/तान्प्रचिच्छेदसंक्रुद्धस्त्रिशिरानिशितैःशरैः/परिघाग्रेणतान्वृक्षान्बभञ्जचसुरान्तकः/त्रिशिराश्चाङ्गदंवीरमभिदुद्रावसायकैः/गजेनसमभिद्रुत्यवालिपुत्रंमहोदरः/जघानोरसिसंक्रुद्धस्तोमरैर्वज्रसंनिभैः/देवान्तकश्चसंक्रुद्धःपरिघेणतदाङ्गदम्/उपगम्याभिहत्याशुव्यपचक्रामवेगवान्/सत्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः/नविव्यथेमहातेजावालिपुत्रःप्रतापवान्/तलेनभृशमुत्पत्यजघानास्यमहागजम्/पेततुर्लोचनेतस्यविननादसवारणः/विषाणंचास्यनिष्कृष्यवालिपुत्रोमहाबलः/देवान्तकमभिद्रुत्यताडयामाससंयुगे/सविह्वलितसर्वाङ्गोवातोद्धतइवद्रुमः/लाक्षारससवर्णंचसुस्रावरुधिरंमुखात्/अथाश्वास्यमहातेजाःकृच्छ्राद्देवान्तकोबली/आविध्यपरिघंघोरमाजघानतदाङ्गदम्/परिघाभिहतश्चापिवानरेन्द्रात्मजस्तदा/जानुभ्यांपतितोभूमौपुनरेवोत्पपातह/समुत्पतन्तंत्रिशिरास्त्रिभिराशीविषोपमैः/घोरैर्हरिपतेःपुत्रंललाटेऽभिजघानह/ततोऽङ्गदंपरिक्षिप्तंत्रिभिर्नैरृतपुंगवैः/हनूमानपिविज्ञायनीलश्चापिप्रतस्थतुः/ततश्चिक्षेपशैलाग्रंनीलस्त्रिशिरसेतदा/तद्रावणसुतोधीमान्बिभेदनिशितैःशरैः/तद्बाणशतनिर्भिन्नंविदारितशिलातलम्/सविस्फुलिङ्गंसज्वालंनिपपातगिरेःशिरः/ततोजृम्भितमालोक्यहर्षाद्देवान्तकस्तदा/परिघेणाभिदुद्रावमारुतात्मजमाहवे/तमापतन्तमुत्पत्यहनूमान्मारुतात्मजः/आजघानतदामूर्ध्निवज्रवेगेनमुष्टिना/समुष्टिनिष्पिष्टविकीर्णमूर्धा॑निर्वान्तदन्ताक्षिविलम्बिजिह्वः/देवान्तकोराक्षसराजसूनुर्॑गतासुरुर्व्यांसहसापपात/तस्मिन्हतेराक्षसयोधमुख्ये॑महाबलेसंयतिदेवशत्रौ/क्रुद्धस्त्रिमूर्धानिशिताग्रमुग्रं॑ववर्षनीलोरसिबाणवर्षम्/सतैःशरौघैरभिवर्ष्यमाणो॑विभिन्नगात्रःकपिसैन्यपालः/नीलोबभूवाथविसृष्टगात्रो॑विष्टम्भितस्तेनमहाबलेन/ततस्तुनीलःप्रतिलभ्यसंज्ञां॑शैलंसमुत्पाट्यसवृक्षषण्डम्/ततःसमुत्पत्यभृशोग्रवेगो॑महोदरंतेनजघानमूर्ध्नि/ततःसशैलाभिनिपातभग्नो॑महोदरस्तेनसहद्विपेन/विपोथितोभूमितलेगतासुः॑पपातवर्जाभिहतोयथाद्रिः/पितृव्यंनिहतंदृष्ट्वात्रिशिराश्चापमाददे/हनूमन्तंचसंक्रुद्धोविव्याधनिशितैःशरैः/हनूमांस्तुसमुत्पत्यहयांस्त्रिशिरसस्तदा/विददारनखैःक्रुद्धोगजेन्द्रंमृगराडिव/अथशक्तिंसमादायकालरात्रिमिवान्तकः/चिक्षेपानिलपुत्रायत्रिशिरारावणात्मजः/दिविक्षिप्तामिवोल्कांतांशक्तिंक्षिप्तामसंगताम्/गृहीत्वाहरिशार्दूलोबभञ्जचननादच/तांदृष्ट्वाघोरसंकाशांशक्तिंभग्नांहनूमता/प्रहृष्टावानरगणाविनेदुर्जलदाइव/ततःखड्गंसमुद्यम्यत्रिशिराराक्षसोत्तमः/निचखानतदारोषाद्वानरेन्द्रस्यवक्षसि/खड्गप्रहाराभिहतोहनूमान्मारुतात्मजः/आजघानत्रिमूर्धानंतलेनोरसिवीर्यवान्/सतलभिहतस्तेनस्रस्तहस्ताम्बरोभुवि/निपपातमहातेजास्त्रिशिरास्त्यक्तचेतनः/सतस्यपततःखड्गंसमाच्छिद्यमहाकपिः/ननादगिरिसंकाशस्त्रासयन्सर्वनैरृतान्/अमृष्यमाणस्तंघोषमुत्पपातनिशाचरः/उत्पत्यचहनूमन्तंताडयामासमुष्टिना/तेनमुष्टिप्रहारेणसंचुकोपमहाकपिः/कुपितश्चनिजग्राहकिरीटेराक्षसर्षभम्/सतस्यशीर्षाण्यसिनाशितेन॑किरीटजुष्टानिसकुण्डलानि/क्रुद्धःप्रचिच्छेदसुतोऽनिलस्य॑त्वष्टुःसुतस्येवशिरांसिशक्रः/तान्यायताक्षाण्यगसंनिभानि॑प्रदीप्तवैश्वानरलोचनानि/पेतुःशिरांसीन्द्ररिपोर्धरण्यां॑ज्योतींषिमुक्तानियथार्कमार्गात्/तस्मिन्हतेदेवरिपौत्रिशीर्षे॑हनूमतशक्रपराक्रमेण/नेदुःप्लवंगाःप्रचचालभूमी॑रक्षांस्यथोदुद्रुविरेसमन्तात्/हतंत्रिशिरसंदृष्ट्वातथैवचमहोदरम्/हतौप्रेक्ष्यदुराधर्षौदेवान्तकनरान्तकौ/चुकोपपरमामर्षीमहापार्श्वोमहाबलः/जग्राहार्चिष्मतींचापिगदांसर्वायसींशुभाम्/हेमपट्टपरिक्षिप्तांमांसशोणितलेपनाम्/विराजमानांवपुषाशत्रुशोणितरञ्जिताम्/तेजसासंप्रदीप्ताग्रांरक्तमाल्यविभूषिताम्/ऐरावतमहापद्मसार्वभौमभयावहाम्/गदामादायसंक्रुद्धोमहापार्श्वोमहाबलः/हरीन्समभिदुद्रावयुगान्ताग्निरिवज्वलन्/अथर्षयःसमुत्पत्यवानरोरवणानुजम्/महापार्श्वमुपागम्यतस्थौतस्याग्रतोबली/तंपुरस्तात्स्थितंदृष्ट्वावानरंपर्वतोपमम्/आजघानोरसिक्रुद्धोगदयावज्रकल्पया/सतयाभिहतस्तेनगदयावानरर्षभः/भिन्नवक्षाःसमाधूतःसुस्रावरुधिरंबहु/ससंप्राप्यचिरात्संज्ञामृषभोवानरर्षभः/क्रुद्धोविस्फुरमाणौष्ठोमहापार्श्वमुदैक्षत/तांगृहीत्वागदांभीमामाविध्यचपुनःपुनः/मत्तानीकंमहापार्श्वंजघानरणमूर्धनि/सस्वयागदयाभिन्नोविकीर्णदशनेक्षणः/निपपातमहापार्श्वोवज्राहतइवाचलः/तस्मिन्हतेभ्रातरिरावणस्य॑तन्नैरृतानांबलमर्णवाभम्/त्यक्तायुधंकेवलजीवितार्थं॑दुद्रावभिन्नार्णवसंनिकाशम्67067/स्वबलंव्यथितंदृष्ट्वातुमुलंलोमहर्षणम्/भ्रातॄंश्चनिहतान्दृष्ट्वाशक्रतुल्यपराक्रमान्6711/पितृव्यौचापिसंदृश्यसमरेसंनिषूदितौ/महोदरमहापार्श्वौभ्रातरौराक्षसर्षभौ/चुकोपचमहातेजाब्रह्मदत्तवरोयुधि/अतिकायोऽद्रिसंकाशोदेवदानवदर्पहा/सभास्करसहस्रस्यसंघातमिवभास्वरम्/रथमास्थायशक्रारिरभिदुद्राववानरान्/सविस्फार्यमहच्चापंकिरीटीमृष्टकुण्डलः/नामविश्रावयामासननादचमहास्वनम्/तेनसिंहप्रणादेननामविश्रावणेनच/ज्याशब्देनचभीमेनत्रासयामासवानरान्/तेतस्यरूपमालोक्ययथाविष्णोस्त्रिविक्रमे/भयार्तावानराःसर्वेविद्रवन्तिदिशोदश/तेऽतिकायंसमासाद्यवानरामूढचेतसः/शरण्यंशरणंजग्मुर्लक्ष्मणाग्रजमाहवे/ततोऽतिकायंकाकुत्स्थोरथस्थंपर्वतोपमम्/ददर्शधन्विनंदूराद्गर्जन्तंकालमेघवत्/सतंदृष्ट्वामहात्मानंराघवस्तुसुविस्मितः/वानरान्सान्त्वयित्वातुविभीषणमुवाचह/कोऽसौपर्वतसंकाशोधनुष्मान्हरिलोचनः/युक्तेहयसहस्रेणविशालेस्यन्दनेस्थितः/यएषनिशितैःशूलैःसुतीक्ष्णैःप्रासतोमरैः/अर्चिष्मद्भिर्वृतोभातिभूतैरिवमहेश्वरः/कालजिह्वाप्रकाशाभिर्यएषोऽभिविराजते/आवृतोरथशक्तीभिर्विद्युद्भिरिवतोयदः/धनूंसिचास्यसज्यानिहेमपृष्ठानिसर्वशः/शोभयन्तिरथश्रेष्ठंशक्रपातमिवाम्बरम्/कएषरक्षःशार्दूलोरणभूमिंविराजयन्/अभ्येतिरथिनांश्रेष्ठोरथेनादित्यतेजसा/ध्वजशृङ्गप्रतिष्ठेनराहुणाभिविराजते/सूर्यरश्मिप्रभैर्बाणैर्दिशोदशविराजयन्/त्रिणतंमेघनिर्ह्रादंहेमपृष्ठमलंकृतम्/शतक्रतुधनुःप्रख्यंधनुश्चास्यविराजते/सध्वजःसपताकश्चसानुकर्षोमहारथः/चतुःसादिसमायुक्तोमेघस्तनितनिस्वनः/विंशतिर्दशचाष्टौचतूणीररथमास्थिताः/कार्मुकाणिचभीमानिज्याश्चकाञ्चनपिङ्गलाः/द्वौचखड्गौरथगतौपार्श्वस्थौपार्श्वशोभिनौ/चतुर्हस्तत्सरुचितौव्यक्तहस्तदशायतौ/रक्तकण्ठगुणोधीरोमहापर्वतसंनिभः/कालःकालमहावक्त्रोमेघस्थइवभास्करः/काञ्चनाङ्गदनद्धाभ्यांभुजाभ्यामेषशोभते/शृङ्गाभ्यामिवतुङ्गाभ्यांहिमवान्पर्वतोत्तमः/कुण्डलाभ्यांतुयस्यैतद्भातिवक्त्रंशुभेक्षणम्/पुनर्वस्वन्तरगतंपूर्णबिम्बमिवैन्दवम्/आचक्ष्वमेमहाबाहोत्वमेनंराक्षसोत्तमम्/यंदृष्ट्वावानराःसर्वेभयार्ताविद्रुतादिशः/सपृष्ठोराजपुत्रेणरामेणामिततेजसा/आचचक्षेमहातेजाराघवायविभीषणः/दशग्रीवोमहातेजाराजावैश्रवणानुजः/भीमकर्मामहोत्साहोरावणोराक्षसाधिपः/तस्यासीद्वीर्यवान्पुत्रोरावणप्रतिमोरणे/वृद्धसेवीश्रुतधरःसर्वास्त्रविदुषांवरः/अश्वपृष्ठेरथेनागेखड्गेधनुषिकर्षणे/भेदेसान्त्वेचदानेचनयेमन्त्रेचसंमतः/यस्यबाहुंसमाश्रित्यलङ्काभवतिनिर्भया/तनयंधान्यमालिन्याअतिकायमिमंविदुः/एतेनाराधितोब्रह्मातपसाभावितात्मना/अस्त्राणिचाप्यवाप्तानिरिपवश्चपराजिताः/सुरासुरैरवध्यत्वंदत्तमस्मैस्वयम्भुवा/एतच्चकवचंदिव्यंरथश्चैषोऽर्कभास्करः/एतेनशतशोदेवादानवाश्चपराजिताः/रक्षितानिचरक्षामियक्षाश्चापिनिषूदिताः/वज्रंविष्टम्भितंयेनबाणैरिन्द्रस्यधीमतः/पाशःसलिलराजस्ययुद्धेप्रतिहतस्तथा/एषोऽतिकायोबलवान्राक्षसानामथर्षभः/रावणस्यसुतोधीमान्देवदनवदर्पहा/तदस्मिन्क्रियतांयत्नःक्षिप्रंपुरुषपुंगव/पुरावानरसैन्यानिक्षयंनयतिसायकैः/ततोऽतिकायोबलवान्प्रविश्यहरिवाहिनीम्/विस्फारयामासधनुर्ननादचपुनःपुनः/तंभीमवपुषंदृष्ट्वारथस्थंरथिनांवरम्/अभिपेतुर्महात्मानोयेप्रधानाःप्लवंगमाः/कुमुदोद्विविदोमैन्दोनीलःशरभएवच/पादपैर्गिरिशृङ्गैश्चयुगपत्समभिद्रवन्/तेषांवृक्षांश्चशैलांश्चशरैःकाञ्चनभूषणैः/अतिकायोमहातेजाश्चिच्छेदास्त्रविदांवरः/तांश्चैवसरान्सहरीञ्शरैःसर्वायसैर्बली/विव्याधाभिमुखःसंख्येभीमकायोनिशाचरः/तेऽर्दिताबाणबर्षेणभिन्नगात्राःप्लवंगमाः/नशेकुरतिकायस्यप्रतिकर्तुंमहारणे/तत्सैन्यंहरिवीराणांत्रासयामासराक्षसः/मृगयूथमिवक्रुद्धोहरिर्यौवनमास्थितः/सराषसेन्द्रोहरिसैन्यमध्ये॑नायुध्यमानंनिजघानकंचित्/उपेत्यरामंसधनुःकलापी॑सगर्वितंवाक्यमिदंबभाषे/रथेस्थितोऽहंशरचापपाणिर्॑नप्राकृतंकंचनयोधयामि/यस्यास्तिशक्तिर्व्यवसाययुक्ता॑ददातुंमेक्षिप्रमिहाद्ययुद्धम्/तत्तस्यवाक्यंब्रुवतोनिशम्य॑चुकोपसौमित्रिरमित्रहन्ता/अमृष्यमाणश्चसमुत्पपात॑जग्राहचापंचततःस्मयित्वा/क्रुद्धःसौमित्रिरुत्पत्यतूणादाक्षिप्यसायकम्/पुरस्तादतिकायस्यविचकर्षमहद्धनुः/पूरयन्समहींशैलानाकाशंसागरंदिशः/ज्याशब्दोलक्ष्मणस्योग्रस्त्रासयन्रजनीचरान्/सौमित्रेश्चापनिर्घोषंश्रुत्वाप्रतिभयंतदा/विसिष्मियेमहातेजाराक्षसेन्द्रात्मजोबली/अथातिकायःकुपितोदृष्ट्वालक्ष्मणमुत्थितम्/आदायनिशितंबाणमिदंवचनमब्रवीत्/बालस्त्वमसिसौमित्रेविक्रमेष्वविचक्षणः/गच्छकिंकालसदृशंमांयोधयितुमिच्छसि/नहिमद्बाहुसृष्टानामस्त्राणांहिमवानपि/सोढुमुत्सहतेवेगमन्तरिक्षमथोमही/सुखप्रसुप्तंकालाग्निंप्रबोधयितुमिच्छसि/न्यस्यचापंनिवर्तस्वमाप्राणाञ्जहिमद्गतः/अथवात्वंप्रतिष्टब्धोननिवर्तितुमिच्छसि/तिष्ठप्राणान्परित्यज्यगमिष्यसियमक्षयम्/पश्यमेनिशितान्बाणानरिदर्पनिषूदनान्/ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्/एषतेसर्पसंकाशोबाणःपास्यतिशोणितम्/मृगराजइवक्रुद्धोनागराजस्यशोणितम्/श्रुत्वातिकायस्यवचःसरोषं॑सगर्वितंसंयतिराजपुत्रः/ससंचुकोपातिबलोबृहच्छ्रीर्॑उवाचवाक्यंचततोमहार्थम्/नवाक्यमात्रेणभवान्प्रधानो॑नकत्थनात्सत्पुरुषाभवन्ति/मयिस्थितेधन्विनिबाणपाणौ॑विदर्शयस्वात्मबलंदुरात्मन्/कर्मणासूचयात्मानंनविकत्थितुमर्हसि/पौरुषेणतुयोयुक्तःसतुशूरइतिस्मृतः/सर्वायुधसमायुक्तोधन्वीत्वंरथमास्थितः/शरैर्वायदिवाप्यस्त्रैर्दर्शयस्वपराक्रमम्/ततःशिरस्तेनिशितैःपातयिष्याम्यहंशरैः/मारुतःकालसंपक्वंवृन्तात्तालफलंयथा/अद्यतेमामकाबाणास्तप्तकाञ्चनभूषणाः/पास्यन्तिरुधिरंगात्राद्बाणशल्यान्तरोत्थितम्/बालोऽयमितिविज्ञायनमावज्ञातुमर्हसि/बालोवायदिवावृद्धोमृत्युंजानीहिसंयुगे/लक्ष्मणस्यवचःश्रुत्वाहेतुमत्परमार्थवत्/अतिकायःप्रचुक्रोधबाणंचोत्तममाददे/ततोविद्याधराभूतादेवादैत्यामहर्षयः/गुह्यकाश्चमहात्मानस्तद्युद्धंददृशुस्तदा/ततोऽतिकायःकुपितश्चापमारोप्यसायकम्/लक्ष्मणस्यप्रचिक्षेपसंक्षिपन्निवचाम्बरम्/तमापतन्तंनिशितंशरमाशीविषोपमम्/अर्धचन्द्रेणचिच्छेदलक्ष्मणःपरवीरहा/तंनिकृत्तंशरंदृष्ट्वाकृत्तभोगमिवोरगम्/अतिकायोभृशंक्रुद्धःपञ्चबाणान्समाददे/ताञ्शरान्संप्रचिक्षेपलक्ष्मणायनिशाचरः/तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेदभरतानुजः/सतांश्छित्त्वाशरैस्तीक्ष्णैर्लक्ष्मणःपरवीरहा/आददेनिशितंबाणंज्वलन्तमिवतेजसा/तमादायधनुःश्रेष्ठेयोजयामासलक्ष्मणः/विचकर्षचवेगेनविससर्जचसायकम्/पूर्णायतविसृष्टेनशरेणानतपर्वणा/ललाटेराक्षसश्रेष्ठमाजघानसवीर्यवान्/सललाटेशरोमग्नस्तस्यभीमस्यरक्षसः/ददृशेशोणितेनाक्तःपन्नगेन्द्रइवाहवे/राक्षसःप्रचकम्पेचलक्ष्मणेषुप्रकम्पितः/रुद्रबाणहतंभीमंयथात्रिपुरगोपुरम्/चिन्तयामासचाश्वस्यविमृश्यचमहाबलः/साधुबाणनिपातेनश्वाघनीयोऽसिमेरिपुः/विचार्यैवंविनम्यास्यंविनम्यचभुजावुभौ/सरथोपस्थमास्थायरथेनप्रचचारह/एकंत्रीन्पञ्चसप्तेतिसायकान्राक्षसर्षभः/आददेसंदधेचापिविचकर्षोत्ससर्जच/तेबाणाःकालसंकाशाराक्षसेन्द्रधनुश्च्युताः/हेमपुङ्खारविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्/ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः/असंभ्रान्तःप्रचिच्छेदनिशितैर्बहुभिःशरैः/ताञ्शरान्युधिसंप्रेक्ष्यनिकृत्तान्रावणात्मजः/चुकोपत्रिदशेन्द्रारिर्जग्राहनिशितंशरम्/ससंधायमहातेजास्तंबाणंसहसोत्सृजत्/ततःसौमित्रिमायान्तमाजघानस्तनान्तरे/अतिकायेनसौमित्रिस्ताडितोयुधिवक्षसि/सुस्रावरुधिरंतीव्रंमदंमत्तइवद्विपः/सचकारतदात्मानंविशल्यंसहसाविभुः/जग्राहचशरंतीष्णमस्त्रेणापिसमादधे/आग्नेयेनतदास्त्रेणयोजयामाससायकम्/सजज्वालतदाबाणोधनुश्चास्यमहात्मनः/अतिकायोऽतितेजस्वीसौरमस्त्रंसमाददे/तेनबाणंभुजंगाभंहेमपुङ्खमयोजयत्/ततस्तंज्वलितंघोरंलक्ष्मणःशरमाहितम्/अतिकायायचिक्षेपकालदण्डमिवान्तकः/आग्नेयेनाभिसंयुक्तंदृष्ट्वाबाणंनिशाचरः/उत्ससर्जतदाबाणंदीप्तंसूर्यास्त्रयोजितम्/तावुभावम्बरेबाणावन्योन्यमभिजघ्नतुः/तेजसासंप्रदीप्ताग्रौक्रुद्धाविवभुजंगमौ/तावन्योन्यंविनिर्दह्यपेततुर्धरणीतले/निरर्चिषौभस्मकृतौनभ्राजेतेशरोत्तमौ/ततोऽतिकायःसंक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत्/तत्प्रचिच्छेदसौमित्रिरस्त्रमैन्द्रेणवीर्यवान्/ऐषीकंनिहतंदृष्ट्वाकुमारोरावणात्मजः/याम्येनास्त्रेणसंक्रुद्धोयोजयामाससायकम्/ततस्तदस्त्रंचिक्षेपलक्ष्मणायनिशाचरः/वायव्येनतदस्त्रंतुनिजघानसलक्ष्मणः/अथैनंशरधाराभिर्धाराभिरिवतोयदः/अभ्यवर्षतसंक्रुद्धोलक्ष्मणोरावणात्मजम्/तेऽतिकायंसमासाद्यकवचेवज्रभूषिते/भग्नाग्रशल्याःसहसापेतुर्बाणामहीतले/तान्मोघानभिसंप्रेक्ष्यलक्ष्मणःपरवीरहा/अभ्यवर्षतबाणानांसहस्रेणमहायशाः/सवर्ष्यमाणोबाणौघैरतिकायोमहाबलः/अवध्यकवचःसंख्येराक्षसोनैवविव्यथे/नशशाकरुजंकर्तुंयुधितस्यनरोत्तमः/अथैनमभ्युपागम्यवायुर्वाक्यमुवाचह/ब्रह्मदत्तवरोह्येषअवध्यकवचावृतः/ब्राह्मेणास्त्रेणभिन्ध्येनमेषवध्योहिनान्यथा/ततःसवायोर्वचनंनिशम्य॑सौमित्रिरिन्द्रप्रतिमानवीर्यः/समाददेबाणममोघवेगं॑तद्ब्राह्ममस्त्रंसहसानियोज्य/तस्मिन्वरास्त्रेतुनियुज्यमाने॑सौमित्रिणाबाणवरेशिताग्रे/दिशःसचन्द्रार्कमहाग्रहाश्च॑नभश्चतत्रासररासचोर्वी/तंब्रह्मणोऽस्त्रेणनियुज्यचापे॑शरंसुपुङ्खंयमदूतकल्पम्/सौमित्रिरिन्द्रारिसुतस्यतस्य॑ससर्जबाणंयुधिवज्रकल्पम्/तंलक्ष्मणोत्सृष्टममोघवेगं॑समापतन्तंज्वलनप्रकाशम्/सुवर्णवज्रोत्तमचित्रपुङ्खं॑तदातिकायःसमरेददर्श/तंप्रेक्षमाणःसहसातिकायो॑जघानबाणैर्निशितैरनेकैः/ससायकस्तस्यसुपर्णवेगस्॑तदातिवेगेनजगामपार्श्वम्/तमागतंप्रेक्ष्यतदातिकायो॑बाणंप्रदीप्तान्तककालकल्पम्/जघानशक्त्यृष्टिगदाकुठारैः॑शूलैर्हलैश्चाप्यविपन्नचेष्टः/तान्यायुधान्यद्भुतविग्रहाणि॑मोघानिकृत्वासशरोऽग्निदीप्तः/प्रसह्यतस्यैवकिरीटजुष्टं॑तदातिकायस्यशिरोजहार/तच्छिरःसशिरस्त्राणंलक्ष्मणेषुप्रपीडितम्/पपातसहसाभूमौशृङ्गंहिमवतोयथा/प्रहर्षयुक्ताबहवस्तुवानरा॑प्रबुद्धपद्मप्रतिमाननास्तदा/अपूजयंल्लक्ष्मणमिष्टभागिनं॑हतेरिपौभीमबलेदुरासदे671115/ततोहतान्राक्षसपुंगवांस्तान्॑देवान्तकादित्रिशिरोऽतिकायान्/रक्षोगणास्तत्रहतावशिष्टास्॑तेरावणायत्वरितंशशंसुः6731/ततोहतांस्तान्सहसानिशम्य॑राजामुमोहाश्रुपरिप्लुताक्षः/पुत्रक्षयंभ्रातृवधंचघोरं॑विचिन्त्यराजाविपुलंप्रदध्यौ/ततस्तुराजानमुदीक्ष्यदीनं॑शोकार्णवेसंपरिपुप्लुवानम्/अथर्षभोराक्षसराजसूनुर्॑अथेन्द्रजिद्वाक्यमिदंबभाषे/नतातमोहंप्रतिगन्तुमर्हसि॑यत्रेन्द्रजिज्जीवतिराक्षसेन्द्र/नेन्द्रारिबाणाभिहतोहिकश्चित्॑प्राणान्समर्थःसमरेऽभिधर्तुम्/पश्याद्यरामंसहलक्ष्मणेन॑मद्बाणनिर्भिन्नविकीर्णदेहम्/गतायुषंभूमितलेशयानं॑शरैःशितैराचितसर्वगात्रम्/इमांप्रतिज्ञांशृणुशक्रशत्रोः॑सुनिश्चितांपौरुषदैवयुक्ताम्/अद्यैवरामंसहलक्ष्मणेन॑संतापयिष्यामिशरैरमोघैः/अद्येन्द्रवैवस्वतविष्णुमित्र॑साध्याश्विवैश्वानरचन्द्रसूर्याः/द्रक्ष्यन्तिमेविक्रममप्रमेयं॑विष्णोरिवोग्रंबलियज्ञवाटे/सएवमुक्त्वात्रिदशेन्द्रशत्रुर्॑आपृच्छ्यराजानमदीनसत्त्वः/समारुरोहानिलतुल्यवेगं॑रथंखरश्रेष्ठसमाधियुक्तम्/समास्थायमहातेजारथंहरिरथोपमम्/जगामसहसातत्रयत्रयुद्धमरिंदम/तंप्रस्थितंमहात्मानमनुजग्मुर्महाबलाः/संहर्षमाणाबहवोधनुःप्रवरपाणयः/गजस्कन्धगताःकेचित्केचित्परमवाजिभिः/प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः/सशङ्खनिनदैर्भीमैर्भेरीणांचमहास्वनैः/जगामत्रिदशेन्द्रारिःस्तूयमानोनिशाचरैः/सशङ्खशशिवर्णेनछत्रेणरिपुसादनः/रराजपरिपूर्णेननभश्चन्द्रमसायथा/अवीज्यतततोवीरोहैमैर्हेमविभूषितैः/चारुचामरमुख्यैश्चमुख्यःसर्वधनुष्मताम्/ततस्त्विन्द्रजितालङ्कासूर्यप्रतिमतेजसा/रराजाप्रतिवीर्येणद्यौरिवार्केणभास्वता/सतुदृष्ट्वाविनिर्यान्तंबलेनमहतावृतम्/राक्षसाधिपतिःश्रीमान्रावणःपुत्रमब्रवीत्/त्वमप्रतिरथःपुत्रजितस्तेयुधिवासवः/किंपुनर्मानुषंधृष्यंनवधिष्यसिराघवम्/तथोक्तोराक्षसेन्द्रेणप्रतिगृह्यमहाशिषः/रथेनाश्वयुजावीरःशीघ्रंगत्वानिकुम्भिलाम्/ससंप्राप्यमहातेजायुद्धभूमिमरिंदमः/स्थापयामासरक्षांसिरथंप्रतिसमन्ततः/ततस्तुहुतभोक्तारंहुतभुक्सदृशप्रभः/जुहुवेराक्षसश्रेष्ठोमन्त्रवद्विधिवत्तदा/सहविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः/जुहुवेपावकंतत्रराक्षसेन्द्रःप्रतापवान्/शस्त्राणिशरपत्राणिसमिधोऽथविभीतकः/लोहितानिचवासांसिस्रुवंकार्ष्णायसंतथा/सतत्राग्निंसमास्तीर्यशरपत्रैःसतोमरैः/छागस्यसर्वकृष्णस्यगलंजग्राहजीवतः/सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः/बभूवुस्तानिलिङ्गानिविजयंयान्यदर्शयन्/प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः/हविस्तत्प्रतिजग्राहपावकःस्वयमुत्थितः/सोऽस्त्रमाहारयामासब्राह्ममस्त्रविदांवरः/धनुश्चात्मरथंचैवसर्वंतत्राभ्यमन्त्रयत्/तस्मिन्नाहूयमानेऽस्त्रेहूयमानेचपावके/सार्कग्रहेन्दुनक्षत्रंवितत्रासनभस्तलम्/सपावकंपावकदीप्ततेजा॑हुत्वामहेन्द्रप्रतिमप्रभावः/सचापबाणासिरथाश्वसूतः॑खेऽन्तर्दधआत्मानमचिन्त्यरूपः/ससैन्यमुत्सृज्यसमेत्यतूर्णं॑महारणेवानरवाहिनीषु/अदृश्यमानःशरजालमुग्रं॑ववर्षनीलाम्बुधरोयथाम्बु/तेशक्रजिद्बाणविशीर्णदेहा॑मायाहताविस्वरमुन्नदन्तः/रणेनिपेतुर्हरयोऽद्रिकल्पा॑यथेन्द्रवज्राभिहतानगेन्द्राः/तेकेवलंसंददृशुःशिताग्रान्॑बाणान्रणेवानरवाहिनीषु/मायानिगूढंचसुरेन्द्रशत्रुं॑नचात्रतंराक्षसमभ्यपश्यन्/ततःसरक्षोऽधिपतिर्महात्मा॑सर्वादिशोबाणगणैःशिताग्रैः/प्रच्छादयामासरविप्रकाशैर्॑विषादयामासचवानरेन्द्रान्/सशूलनिस्त्रिंशपरश्वधानि॑व्याविध्यदीप्तानलसंनिभानि/सविस्फुलिङ्गोज्ज्वलपावकानि॑ववर्षतीव्रंप्लवगेन्द्रसैन्ये/ततोज्वलनसंकाशैःशितैर्वानरयूथपाः/ताडिताःशक्रजिद्बाणैःप्रफुल्लाइवकिंशुकाः/अन्योन्यमभिसर्पन्तोनिनदन्तश्चविस्वरम्/राक्षसेन्द्रास्त्रनिर्भिन्नानिपेतुर्वानरर्षभाः/उदीक्षमाणागगनंकेचिन्नेत्रेषुताडिताः/शरैर्विविशुरन्योन्यंपेतुश्चजगतीतले/हनूमन्तंचसुग्रीवमङ्गदंगन्धमादनम्/जाम्बवन्तंसुषेणंचवेगदर्शिनमेवच/मैन्दंचद्विविदंनीलंगवाक्षंगजगोमुखौ/केसरिंहरिलोमानंविद्युद्दंष्ट्रंचवानरम्/सूर्याननंज्योतिमुखंतथादधिमुखंहरिम्/पावकाक्षंनलंचैवकुमुदंचैववानरम्/प्रासैःशूलैःशितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः/विव्याधहरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः/सवैगदाभिर्हरियूथमुख्यान्॑निर्भिद्यबाणैस्तपनीयपुङ्खैः/ववर्षरामंशरवृष्टिजालैः॑सलक्ष्मणंभास्कररश्मिकल्पैः/सबाणवर्षैरभिवर्ष्यमाणो॑धारानिपातानिवतान्विचिन्त्य/समीक्षमाणःपरमाद्भुतश्री॑रामस्तदालक्ष्मणमित्युवाच/असौपुनर्लक्ष्मणराक्षसेन्द्रो॑ब्रह्मास्त्रमाश्रित्यसुरेन्द्रशत्रुः/निपातयित्वाहरिसैन्यमुग्रम्॑अस्माञ्शरैरर्दयतिप्रसक्तम्/स्वयम्भुवादत्तवरोमहात्मा॑खमास्थितोऽन्तर्हितभीमकायः/कथंनुशक्योयुधिनष्टदेहो॑निहन्तुमद्येन्द्रजिदुद्यतास्त्रः/मन्येस्वयम्भूर्भगवानचिन्त्यो॑यस्यैतदस्त्रंप्रभवश्चयोऽस्य/बाणावपातांस्त्वमिहाद्यधीमन्॑मयासहाव्यग्रमनाःसहस्व/प्रच्छादयत्येषहिराक्षसेन्द्रः॑सर्वादिशःसायकवृष्टिजालैः/एतच्चसर्वंपतिताग्र्यवीरं॑नभ्राजतेवानरराजसैन्यम्/आवांतुदृष्ट्वापतितौविसंज्ञौ॑निवृत्तयुद्धौहतरोषहर्षौ/ध्रुवंप्रवेक्ष्यत्यमरारिवासं॑असौसमादायरणाग्रलक्ष्मीम्/ततस्तुताविन्द्रजिदस्त्रजालैर्॑बभूवतुस्तत्रतदाविशस्तौ/सचापितौतत्रविषादयित्वा॑ननादहर्षाद्युधिराक्षसेन्द्रः/सतत्तदावानरराजसैन्यं॑रामंचसंख्येसहलक्ष्मणेन/विषादयित्वासहसाविवेश॑पुरींदशग्रीवभुजाभिगुप्ताम्67374/तयोस्तदासादितयोरणाग्रे॑मुमोहसैन्यंहरियूथपानाम्/सुग्रीवनीलाङ्गदजाम्बवन्तो॑नचापिकिंचित्प्रतिपेदिरेते6741/ततोविषण्णंसमवेक्ष्यसैन्यं॑विभीषणोबुद्धिमतांवरिष्ठः/उवाचशाखामृगराजवीरान्॑आश्वासयन्नप्रतिमैर्वचोभिः/माभैष्टनास्त्यत्रविषादकालो॑यदार्यपुत्राववशौविषण्णौ/स्वयम्भुवोवाक्यमथोद्वहन्तौ॑यत्सादिताविन्द्रजिदस्त्रजालैः/तस्मैतुदत्तंपरमास्त्रमेतत्॑स्वयम्भुवाब्राह्मममोघवेगम्/तन्मानयन्तौयदिराजपुत्रौ॑निपातितौकोऽत्रविषादकालः/ब्राह्ममस्त्रंतदाधीमान्मानयित्वातुमारुतिः/विभीषणवचःश्रुत्वाहनूमांस्तमथाब्रवीत्/एतस्मिन्निहतेसैन्येवानराणांतरस्विनाम्/योयोधारयतेप्राणांस्तंतमाश्वासयावहे/तावुभौयुगपद्वीरौहनूमद्राक्षसोत्तमौ/उल्काहस्तौतदारात्रौरणशीर्षेविचेरतुः/छिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः/स्रवद्भिःक्षतजंगात्रैःप्रस्रवद्भिःसमन्ततः/पतितैःपर्वताकारैर्वानरैरभिसंकुलाम्/शस्त्रैश्चपतितैर्दीप्तैर्ददृशातेवसुंधराम्/सुग्रीवमङ्गदंनीलंशरभंगन्धमादनम्/जाम्बवन्तंसुषेणंचवेगदर्शनमाहुकम्/मैन्दंनलंज्योतिमुखंद्विविदंपनसंतथा/विभीषणोहनूमांश्चददृशातेहतान्रणे/सप्तषष्टिर्हताःकोट्योवानराणांतरस्विनाम्/अह्नःपञ्चमशेषेणवल्लभेनस्वयम्भुवः/सागरौघनिभंभीमंदृष्ट्वाबाणार्दितंबलम्/मार्गतेजाम्बवन्तंस्महनूमान्सविभीषणः/स्वभावजरयायुक्तंवृद्धंशरशतैश्चितम्/प्रजापतिसुतंवीरंशाम्यन्तमिवपावकम्/दृष्ट्वातमुपसंगम्यपौलस्त्योवाक्यमब्रवीत्/कच्चिदार्यशरैस्तीर्ष्णैर्नप्राणाध्वंसितास्तव/विभीषणवचःश्रुत्वाजाम्बवानृक्षपुंगवः/कृच्छ्रादभ्युद्गिरन्वाक्यमिदंवचनमब्रवीत्/नैरृतेन्द्रमहावीर्यस्वरेणत्वाभिलक्षये/पीड्यमानःशितैर्बाणैर्नत्वांपश्यामिचक्षुषा/अञ्जनासुप्रजायेनमातरिश्वाचनैरृत/हनूमान्वानरश्रेष्ठःप्राणान्धारयतेक्वचित्/श्रुत्वाजाम्बवतोवाक्यमुवाचेदंविभीषणः/आर्यपुत्रावतिक्रम्यकस्मात्पृच्छसिमारुतिम्/नैवराजनिसुग्रीवेनाङ्गदेनापिराघवे/आर्यसंदर्शितःस्नेहोयथावायुसुतेपरः/विभीषणवचःश्रुत्वाजाम्बवान्वाक्यमब्रवीत्/शृणुनैरृतशार्दूलयस्मात्पृच्छामिमारुतिम्/तस्मिञ्जीवतिवीरेतुहतमप्यहतंबलम्/हनूमत्युज्झितप्राणेजीवन्तोऽपिवयंहताः/ध्रियतेमारुतिस्तातमारुतप्रतिमोयदि/वैश्वानरसमोवीर्येजीविताशाततोभवेत्/ततोवृद्धमुपागम्यनियमेनाभ्यवादयत्/गृह्यजाम्बवतःपादौहनूमान्मारुतात्मजः/श्रुत्वाहनुमतोवाक्यंतथापिव्यथितेन्द्रियः/पुनर्जातमिवात्मानंसमेनेऋक्षपुंगवः/ततोऽब्रवीन्महातेजाहनूमन्तंसजाम्बवान्/आगच्छहरिशार्दूलवानरांस्त्रातुमर्हसि/नान्योविक्रमपर्याप्तस्त्वमेषांपरमःसखा/त्वत्पराक्रमकालोऽयंनान्यंपश्यामिकञ्चन/ऋक्षवानरवीराणामनीकानिप्रहर्षय/विशल्यौकुरुचाप्येतौसादितौरामलक्ष्मणौ/गत्वापरममध्वानमुपर्युपरिसागरम्/हिमवन्तंनगश्रेष्ठंहनूमन्गन्तुमर्हसि/ततःकाञ्चनमत्युग्रमृषभंपर्वतोत्तमम्/कैलासशिखरंचापिद्रक्ष्यस्यरिनिषूदन/तयोःशिखरयोर्मध्येप्रदीप्तमतुलप्रभम्/सर्वौषधियुतंवीरद्रक्ष्यस्यौषधिपर्वतम्/तस्यवानरशार्दूलचतस्रोमूर्ध्निसंभवाः/द्रक्ष्यस्योषधयोदीप्तादीपयन्त्योदिशोदश/मृतसंजीवनींचैवविशल्यकरणीमपि/सौवर्णकरणींचैवसंधानींचमहौषधीम्/ताःसर्वाहनुमन्गृह्यक्षिप्रमागन्तुमर्हसि/आश्वासयहरीन्प्राणैर्योज्यगन्धवहात्मजः/श्रुत्वाजाम्बवतोवाक्यंहनूमान्हरिपुंगवः/आपूर्यतबलोद्धर्षैस्तोयवेगैरिवार्णवः/सपर्वततटाग्रस्थःपीडयन्पर्वतोत्तरम्/हनूमान्दृश्यतेवीरोद्वितीयइवपर्वतः/हरिपादविनिर्भिन्नोनिषसादसपर्वतः/नशशाकतदात्मानंसोढुंभृशनिपीडितः/तस्यपेतुर्नगाभूमौहरिवेगाच्चजज्वलुः/शृङ्गाणिचव्यकीर्यन्तपीडितस्यहनूमता/तस्मिन्संपीड्यमानेतुभग्नद्रुमशिलातले/नशेकुर्वानराःस्थातुंघूर्णमानेनगोत्तमे/सघूर्णितमहाद्वाराप्रभग्नगृहगोपुरा/लङ्कात्रासाकुलारात्रौप्रनृत्तेवाभवत्तदा/पृथिवीधरसंकाशोनिपीड्यधरणीधरम्/पृथिवींक्षोभयामाससार्णवांमारुतात्मजः/पद्भ्यांतुशैलमापीड्यवडवामुखवन्मुखम्/विवृत्योग्रंननादोच्चैस्त्रासयन्निवराक्षसान्/तस्यनानद्यमानस्यश्रुत्वानिनदमद्भुतम्/लङ्कास्थाराक्षसाःसर्वेनशेकुःस्पन्दितुंभयात्/नमस्कृत्वाथरामायमारुतिर्भीमविक्रमः/राघवार्थेपरंकर्मसमैहतपरंतपः/सपुच्छमुद्यम्यभुजंगकल्पं॑विनम्यपृष्ठंश्रवणेनिकुञ्च्य/विवृत्यवक्त्रंवडवामुखाभम्॑आपुप्लुवेव्योम्निसचण्डवेगः/सवृक्षषण्डांस्तरसाजहार॑शैलाञ्शिलाःप्राकृतवानरांश्च/बाहूरुवेगोद्धतसंप्रणुन्नास्॑तेक्षीणवेगाःसलिलेनिपेतुः/सतौप्रसार्योरगभोगकल्पौ॑भुजौभुजंगारिनिकाशवीर्यः/जगाममेरुंनगराजमग्र्यं॑दिशःप्रकर्षन्निववायुसूनुः/ससागरंघूर्णितवीचिमालं॑तदाभृशंभ्रामितसर्वसत्त्वम्/समीक्षमाणःसहसाजगाम॑चक्रंयथाविष्णुकराग्रमुक्तम्/सपर्वतान्वृक्षगणान्सरांसि॑नदीस्तटाकानिपुरोत्तमानि/स्फीताञ्जनांस्तानपिसंप्रपश्यञ्॑जगामवेगात्पितृतुल्यवेगः/आदित्यपथमाश्रित्यजगामसगतश्रमः/सददर्शहरिश्रेष्ठोहिमवन्तंनगोत्तमम्/नानाप्रस्रवणोपेतंबहुकंदरनिर्झरम्/श्वेताभ्रचयसंकाशैःशिखरैश्चारुदर्शनैः/सतंसमासाद्यमहानगेन्द्रम्॑अतिप्रवृद्धोत्तमघोरशृङ्गम्/ददर्शपुण्यानिमहाश्रमाणि॑सुरर्षिसंघोत्तमसेवितानि/सब्रह्मकोशंरजतालयंच॑शक्रालयंरुद्रशरप्रमोक्षम्/हयाननंब्रह्मशिरश्चदीप्तं॑ददर्शवैवस्वतकिंकरांश्च/वज्रालयंवैश्वरणालयंच॑सूर्यप्रभंसूर्यनिबन्धनंच/ब्रह्मासनंशंकरकार्मुकंच॑ददर्शनाभिंचवसुंधरायाः/कैलासमग्र्यंहिमवच्छिलांच॑तथर्षभंकाञ्चनशैलमग्र्यम्/सदीप्तसर्वौषधिसंप्रदीप्तं॑ददर्शसर्वौषधिपर्वतेन्द्रम्/सतंसमीक्ष्यानलरश्मिदीप्तं॑विसिष्मियेवासवदूतसूनुः/आप्लुत्यतंचौषधिपर्वतेन्द्रं॑तत्रौषधीनांविचयंचकार/सयोजनसहस्राणिसमतीत्यमहाकपिः/दिव्यौषधिधरंशैलंव्यचरन्मारुतात्मजः/महौषध्यस्तुताःसर्वास्तस्मिन्पर्वतसत्तमे/विज्ञायार्थिनमायान्तंततोजग्मुरदर्शनम्/सतामहात्माहनुमानपश्यंश्॑चुकोपकोपाच्चभृशंननाद/अमृष्यमाणोऽग्निनिकाशचक्षुर्॑महीधरेन्द्रंतमुवाचवाक्यम्/किमेतदेवंसुविनिश्चितंते॑यद्राघवेनासिकृतानुकम्पः/पश्याद्यमद्बाहुबलाभिभूतो॑विकीर्णमात्मानमथोनगेन्द्र/सतस्यशृङ्गंसनगंसनागं॑सकाञ्चनंधातुसहस्रजुष्टम्/विकीर्णकूटंचलिताग्रसानुं॑प्रगृह्यवेगात्सहसोन्ममाथ/सतंसमुत्पाट्यखमुत्पपात॑वित्रास्यलोकान्ससुरान्सुरेन्द्रान्/संस्तूयमानःखचरैरनेकैर्॑जगामवेगाद्गरुडोग्रवीर्यः/सभास्कराध्वानमनुप्रपन्नस्॑तद्भास्कराभंशिखरंप्रगृह्य/बभौतदाभास्करसंनिकाशो॑रवेःसमीपेप्रतिभास्कराभः/सतेनशैलेनभृशंरराज॑शैलोपमोगन्धवहात्मजस्तु/सहस्रधारेणसपावकेन॑चक्रेणखेविष्णुरिवोद्धृतेन/तंवानराःप्रेक्ष्यतदाविनेदुः॑सतानपिप्रेक्ष्यमुदाननाद/तेषांसमुद्घुष्टरवंनिशम्य॑लङ्कालयाभीमतरंविनेदुः/ततोमहात्मानिपपाततस्मिञ्॑शैलोत्तमेवानरसैन्यमध्ये/हर्युत्तमेभ्यःशिरसाभिवाद्य॑विभीषणंतत्रचसस्वजेसः/तावप्युभौमानुषराजपुत्रौ॑तंगन्धमाघ्रायमहौषधीनाम्/बभूवतुस्तत्रतदाविशल्याव्॑उत्तस्थुरन्येचहरिप्रवीराः/ततोहरिर्गन्धवहात्मजस्तु॑तमोषधीशैलमुदग्रवीर्यः/निनायवेगाद्धिमवन्तमेव॑पुनश्चरामेणसमाजगाम67477/ततोऽब्रवीन्महातेजाःसुग्रीवोवानराधिपः/अर्थ्यंविजापयंश्चापिहनूमन्तंमहाबलम्6751/यतोहतःकुम्भकर्णःकुमाराश्चनिषूदिताः/नेदानीइमुपनिर्हारंरावणोदातुमर्हति/येयेमहाबलाःसन्तिलघवश्चप्लवंगमाः/लङ्कामभ्युत्पतन्त्वाशुगृह्योल्काःप्लवगर्षभाः/ततोऽस्तंगतआदित्येरौद्रेतस्मिन्निशामुखे/लङ्कामभिमुखाःसोल्काजग्मुस्तेप्लवगर्षभाः/उल्काहस्तैर्हरिगणैःसर्वतःसमभिद्रुताः/आरक्षस्थाविरूपाक्षाःसहसाविप्रदुद्रुवुः/गोपुराट्टप्रतोलीषुचर्यासुविविधासुच/प्रासादेषुचसंहृष्टाःससृजुस्तेहुताशनम्/तेषांगृहसहस्राणिददाहहुतभुक्तदा/आवासान्राक्षसानांचसर्वेषांगृहमेधिनाम्/हेमचित्रतनुत्राणांस्रग्दामाम्बरधारिणाम्/सीधुपानचलाक्षाणांमदविह्वलगामिनाम्/कान्तालम्बितवस्त्राणांशत्रुसंजातमन्युनाम्/गदाशूलासिहस्तानांखादतांपिबतामपि/शयनेषुमहार्हेषुप्रसुप्तानांप्रियैःसह/त्रस्तानांगच्छतांतूर्णंपुत्रानादायसर्वतः/तेषांगृहसहस्राणितदालङ्कानिवासिनाम्/अदहत्पावकस्तत्रजज्वालचपुनःपुनः/सारवन्तिमहार्हाणिगम्भीरगुणवन्तिच/हेमचन्द्रार्धचन्द्राणिचन्द्रशालोन्नतानिच/रत्नचित्रगवाक्षाणिसाधिष्ठानानिसर्वशः/मणिविद्रुमचित्राणिस्पृशन्तीवचभास्करम्/क्रौञ्चबर्हिणवीणानांभूषणानांचनिस्वनैः/नादितान्यचलाभानिवेश्मान्यग्निर्ददाहसः/ज्वलनेनपरीतानितोरणानिचकाशिरे/विद्युद्भिरिवनद्धानिमेघजालानिघर्मगे/विमानेषुप्रसुप्ताश्चदह्यमानावराङ्गनाः/त्यक्ताभरणसंयोगाहाहेत्युच्चैर्विचुक्रुशः/तत्रचाग्निपरीतानिनिपेतुर्भवनान्यपि/वज्रिवज्रहतानीवशिखराणिमहागिरेः/तानिनिर्दह्यमानानिदूरतःप्रचकाशिरे/हिमवच्छिखराणीवदीप्तौषधिवनानिच/हर्म्याग्रैर्दह्यमानैश्चज्वालाप्रज्वलितैरपि/रात्रौसादृश्यतेलङ्कापुष्पितैरिवकिंशुकैः/हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्चतुरगैरपि/बभूवलङ्कालोकान्तेभ्रान्तग्राहइवार्णवः/अश्वंमुक्तंगजोदृष्ट्वाकच्चिद्भीतोऽपसर्पति/भीतोभीतंगजंदृष्ट्वाक्वचिदश्वोनिवर्तते/साबभूवमुहूर्तेनहरिभिर्दीपितापुरी/लोकस्यास्यक्षयेघोरेप्रदीप्तेववसुंधरा/नारीजनस्यधूमेनव्याप्तस्योच्चैर्विनेदुषः/स्वनोज्वलनतप्तस्यशुश्रुवेदशयोजनम्/प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः/सहसाभ्युत्पतन्तिस्महरयोऽथयुयुत्सवः/उद्घुष्टंवानराणांचराक्षसानांचनिस्वनः/दिशोदशसमुद्रंचपृथिवींचान्वनादयत्/विशल्यौतुमहात्मानौतावुभौरामलक्ष्मणौ/असंभ्रान्तौजगृहतुस्तावुभौधनुषीवरे/ततोविस्फारयाणस्यरामस्यधनुरुत्तमम्/बभूवतुमुलःशब्दोराक्षसानांभयावहः/अशोभततदारामोधनुर्विस्फारयन्महत्/भगवानिवसंक्रुद्धोभवोवेदमयंधनुः/वानरोद्घुष्टघोषश्चराक्षसानांचनिस्वनः/ज्याशब्दश्चापिरामस्यत्रयंव्यापदिशोदश/तस्यकार्मुकमुक्तैश्चशरैस्तत्पुरगोपुरम्/कैलासशृङ्गप्रतिमंविकीर्णमपतद्भुवि/ततोरामशरान्दृष्ट्वाविमानेषुगृहेषुच/संनाहोराक्षसेन्द्राणांतुमुलःसमपद्यत/तेषांसंनह्यमानानांसिंहनादंचकुर्वताम्/शर्वरीराक्षसेन्द्राणांरौद्रीवसमपद्यत/आदिष्टावानरेन्द्रास्तेसुग्रीवेणमहात्मना/आसन्नाद्वारमासाद्ययुध्यध्वंप्लवगर्षभाः/यश्चवोवितथंकुर्यात्तत्रतत्रव्यवस्थितः/सहन्तव्योऽभिसंप्लुत्यराजशासनदूषकः/तेषुवानरमुख्येषुदीप्तोल्कोज्ज्वलपाणिषु/स्थितेषुद्वारमासाद्यरावणंमन्युराविशत्/तस्यजृम्भितविक्षेपाद्व्यामिश्रावैदिशोदश/रूपवानिवरुद्रस्यमन्युर्गात्रेष्वदृश्यत/सनिकुम्भंचकुम्भंचकुम्भकर्णात्मजावुभौ/प्रेषयामाससंक्रुद्धोराक्षसैर्बहुभिःसह/शशासचैवतान्सर्वान्राक्षसान्राक्षसेश्वरः/राक्षसागच्छतात्रैवसिंहनादंचनादयन्/ततस्तुचोदितास्तेनराक्षसाज्वलितायुधाः/लङ्कायानिर्ययुर्वीराःप्रणदन्तःपुनःपुनः/भीमाश्वरथमातंगंनानापत्तिसमाकुलम्/दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्/तद्राक्षसबलंघोरंभीमविक्रमपौरुषम्/ददृशेज्वलितप्रासंकिङ्किणीशतनादितम्/हेमजालाचितभुजंव्यावेष्टितपरश्वधम्/व्याघूर्णितमहाशस्त्रंबाणसंसक्तकार्मुकम्/गन्धमाल्यमधूत्सेकसंमोदितमहानिलम्/घोरंशूरजनाकीर्णंमहाम्बुधरनिस्वनम्/तंदृष्ट्वाबलमायान्तंराक्षसानांसुदारुणम्/संचचालप्लवंगानांबलमुच्चैर्ननादच/जवेनाप्लुत्यचपुनस्तद्राक्षसबलंमहत्/अभ्ययात्प्रत्यरिबलंपतंगइवपावकम्/तेषांभुजपरामर्शव्यामृष्टपरिघाशनि/राक्षसानांबलंश्रेष्ठंभूयस्तरमशोभत/तथैवाप्यपरेतेषांकपीनामसिभिःशितैः/प्रवीरानभितोजघ्नुर्घोररूपानिशाचराः/घ्नन्तमन्यंजघानान्यःपातयन्तमपातयत्/गर्हमाणंजगर्हान्येदशन्तमपरेऽदशत्/देहीत्यन्येददात्यन्योददामीत्यपरःपुनः/किंक्लेशयसितिष्ठेतितत्रान्योन्यंबभाषिरे/समुद्यतमहाप्रासंमुष्टिशूलासिसंकुलम्/प्रावर्ततमहारौद्रंयुद्धंवानररक्षसाम्/वानरान्दशसप्तेतिराक्षसाअभ्यपातयन्/राक्षसान्दशसप्तेतिवानराजघ्नुराहवे/विस्रस्तकेशरसनंविमुक्तकवचध्वजम्/बलंराक्षसमालम्ब्यवानराःपर्यवारयन्67569/प्रवृत्तेसंकुलेतस्मिन्घोरेवीरजनक्षये/अङ्गदःकम्पनंवीरमाससादरणोत्सुकः6761/आहूयसोऽङ्गदंकोपात्ताडयामासवेगितः/गदयाकम्पनःपूर्वंसचचालभृशाहतः/ससंज्ञांप्राप्यतेजस्वीचिक्षेपशिखरंगिरेः/अर्दितश्चप्रहारेणकम्पनःपतितोभुवि/हतप्रवीराव्यथिताराक्षसेन्द्रचमूस्तदा/जगामाभिमुखीसातुकुम्भकर्णसुतोयतः/आपतन्तींचवेगेनकुम्भस्तांसान्त्वयच्चमूम्/सधनुर्धन्विनांश्रेष्ठःप्रगृह्यसुसमाहितः/मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान्/तस्यतच्छुशुभेभूयःसशरंधनुरुत्तमम्/विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा/आकर्णकृष्टमुक्तेनजघानद्विविदंतदा/तेनहाटकपुङ्खेनपत्रिणापत्रवाससा/सहसाभिहतस्तेनविप्रमुक्तपदःस्फुरन्/निपपाताद्रिकूटाभोविह्वलःप्लवगोत्तमः/मैन्दस्तुभ्रातरंदृष्ट्वाभग्नंतत्रमहाहवे/अभिदुद्राववेगेनप्रगृह्यमहतींशिलाम्/तांशिलांतुप्रचिक्षेपराक्षसायमहाबलः/बिभेदतांशिलांकुम्भःप्रसन्नैःपञ्चभिःशरैः/संधायचान्यंसुमुखंशरमाशीविषोपमम्/आजघानमहातेजावक्षसिद्विविदाग्रजम्/सतुतेनप्रहारेणमैन्दोवानरयूथपः/मर्मण्यभिहतस्तेनपपातभुविमूर्छितः/अङ्गदोमातुलौदृष्ट्वापतितौतौमहाबलौ/अभिदुद्राववेगेनकुम्भमुद्यतकार्मुकम्/तमापतन्तंविव्याधकुम्भःपञ्चभिरायसैः/त्रिभिश्चान्यैःशितैर्बाणैर्मातंगमिवतोमरैः/सोऽङ्गदंविविधैर्बाणैःकुम्भोविव्याधवीर्यवान्/अकुण्ठधारैर्निशितैस्तीक्ष्णैःकनकभूषणैः/अङ्गदःप्रतिविद्धाङ्गोवालिपुत्रोनकम्पते/शिलापादपवर्षाणितस्यमूर्ध्निववर्षह/सप्रचिच्छेदतान्सर्वान्बिभेदचपुनःशिलाः/कुम्भकर्णात्मजःश्रीमान्वालिपुत्रसमीरितान्/आपतन्तंचसंप्रेक्ष्यकुम्भोवानरयूथपम्/भ्रुवोर्विव्याधबाणाभ्यामुल्काभ्यामिवकुञ्जरम्/अङ्गदःपाणिनानेत्रेपिधायरुधिरोक्षिते/सालमासन्नमेकेनपरिजग्राहपाणिना/तमिन्द्रकेतुप्रतिमंवृक्षंमन्दरसंनिभम्/समुत्सृजन्तंवेगेनपश्यतांसर्वरक्षसाम्/सचिच्छेदशितैर्बाणैःसप्तभिःकायभेदनैः/अङ्गदोविव्यथेऽभीक्ष्णंससादचमुमोहच/अङ्गदंव्यथितंदृष्ट्वासीदन्तमिवसागरे/दुरासदंहरिश्रेष्ठाराघवायन्यवेदयन्/रामस्तुव्यथितंश्रुत्वावालिपुत्रंमहाहवे/व्यादिदेशहरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः/तेतुवानरशार्दूलाःश्रुत्वारामस्यशासनम्/अभिपेतुःसुसंक्रुद्धाःकुम्भमुद्यतकार्मुकम्/ततोद्रुमशिलाहस्ताःकोपसंरक्तलोचनाः/रिरक्षिषन्तोऽभ्यपतन्नङ्गदंवानरर्षभाः/जाम्बवांश्चसुषेणश्चवेगदर्शीचवानरः/कुम्भकर्णात्मजंवीरंक्रुद्धाःसमभिदुद्रुवुः/समीक्ष्यातततस्तांस्तुवानरेन्द्रान्महाबलान्/आववारशरौघेणनगेनेवजलाशयम्/तस्यबाणचयंप्राप्यनशोकेरतिवर्तितुम्/वानरेन्द्रामहात्मानोवेलामिवमहोदधिः/तांस्तुदृष्ट्वाहरिगणाञ्शरवृष्टिभिरर्दितान्/अङ्गदंपृष्ठतःकृत्वाभ्रातृजंप्लवगेश्वरः/अभिदुद्राववेगेनसुग्रीवःकुम्भमाहवे/शैलसानुचरंनागंवेगवानिवकेसरी/उत्पाट्यचमहाशैलानश्वकर्णान्धवान्बहून्/अन्यांश्चविविधान्वृक्षांश्चिक्षेपचमहाबलः/तांछादयन्तीमाकाशंवृक्षवृष्टिंदुरासदाम्/कुम्भकर्णात्मजःश्रीमांश्चिच्छेदनिशितैःशरैः/अभिलक्ष्येणतीव्रेणकुम्भेननिशितैःशरैः/आचितास्तेद्रुमारेजुर्यथाघोराःशतघ्नयः/द्रुमवर्षंतुतच्छिन्नंदृष्ट्वाकुम्भेनवीर्यवान्/वानराधिपतिःश्रीमान्महासत्त्वोनविव्यथे/निर्भिद्यमानःसहसासहमानश्चताञ्शरान्/कुम्भस्यधनुराक्षिप्यबभञ्जेन्द्रधनुःप्रभम्/अवप्लुत्यततःशीघ्रंकृत्वाकर्मसुदुष्करम्/अब्रवीत्कुपितःकुम्भंभग्नशृङ्गमिवद्विपम्/निकुम्भाग्रजवीर्यंतेबाणवेगंतदद्भुतम्/संनतिश्चप्रभावश्चतववारावणस्यवा/प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम/एकस्त्वमनुजातोऽसिपितरंबलवत्तरः/त्वामेवैकंमहाबाहुंशूलहस्तमरिंदमम्/त्रिदशानातिवर्तन्तेजितेन्द्रियमिवाधयः/वरदानात्पितृव्यस्तेसहतेदेवदानवान्/कुम्भकर्णस्तुवीर्येणसहतेचसुरासुरान्/धनुषीन्द्रजितस्तुल्यःप्रतापेरावणस्यच/त्वमद्यरक्षसांलोकेश्रेष्ठोऽसिबलवीर्यतः/महाविमर्दंसमरेमयासहतवाद्भुतम्/अद्यभूतानिपश्यन्तुशक्रशम्बरयोरिव/कृतमप्रतिमंकर्मदर्शितंचास्त्रकौशलम्/पातिताहरिवीराश्चत्वयैतेभीमविक्रमाः/उपालम्भभयाच्चापिनासिवीरमयाहतः/कृतकर्मापरिश्रान्तोविश्रान्तःपश्यमेबलम्/तेनसुग्रीववाक्येनसावमानेनमानितः/अग्नेराज्यहुतस्येवतेजस्तस्याभ्यवर्धत/ततःकुम्भःसमुत्पत्यसुग्रीवमभिपद्यच/आजघानोरसिक्रुद्धोवज्रवेगेनमुष्टिना/तस्यचर्मचपुस्फोटसंजज्ञेचास्यशोणितम्/सचमुष्टिर्महावेगःप्रतिजघ्नेऽस्थिमण्डले/तदावेगेनतत्रासीत्तेजःप्रज्वालितंमुहुः/वज्रनिष्पेषसंजातज्वालामेरौयथागिरौ/सतत्राभिहतस्तेनसुग्रीवोवानरर्षभः/मुष्टिंसंवर्तयामासवज्रकल्पंमहाबलः/अर्चिःसहस्रविकचंरविमण्डलसप्रभम्/समुष्टिंपातयामासकुम्भस्योरसिवीर्यवान्/मुष्टिनाभिहतस्तेननिपपाताशुराक्षसः/लोहिताङ्गइवाकाशाद्दीप्तरश्मिर्यदृच्छया/कुम्भस्यपततोरूपंभग्नस्योरसिमुष्टिना/बभौरुद्राभिपन्नस्ययथारूपंगवांपतेः/तस्मिन्हतेभीमपराक्रमेण॑प्लवंगमानामृषभेणयुद्धे/महीसशैलासवनाचचाल॑भयंचरक्षांस्यधिकंविवेश67694/निकुम्भोभ्रातरंदृष्ट्वासुग्रीवेणनिपातितम्/प्रदहन्निवकोपेनवानरेन्द्रमवैक्षत6771/ततःस्रग्दामसंनद्धंदत्तपञ्चाङ्गुलंशुभम्/आददेपरिघंवीरोनगेन्द्रशिखरोपमम्/हेमपट्टपरिक्षिप्तंवज्रविद्रुमभूषितम्/यमदण्डोपमंभीमंरक्षसांभयनाशनम्/तमाविध्यमहातेजाःशक्रध्वजसमंरणे/विननादविवृत्तास्योनिकुम्भोभीमविक्रमः/उरोगतेननिष्केणभुजस्थैरङ्गदैरपि/कुण्डलाभ्यांचमृष्टाभ्यांमालयाचविचित्रया/निकुम्भोभूषणैर्भातितेनस्मपरिघेणच/यथेन्द्रधनुषामेघःसविद्युत्स्तनयित्नुमान्/परिघाग्रेणपुस्फोटवातग्रन्थिर्महात्मनः/प्रजज्वालसघोषश्चविधूमइवपावकः/नगर्याविटपावत्यागन्धर्वभवनोत्तमैः/सहचैवामरावत्यासर्वैश्चभवनैःसह/सतारागणनक्षत्रंसचन्द्रंसमहाग्रहम्/निकुम्भपरिघाघूर्णंभ्रमतीवनभस्तलम्/दुरासदश्चसंजज्ञेपरिघाभरणप्रभः/क्रोधेन्धनोनिकुम्भाग्निर्युगान्ताग्निरिवोत्थितः/राक्षसावानराश्चापिनशेकुःस्पन्दितुंभयात्/हनूमंस्तुविवृत्योरस्तस्थौप्रमुखतोबली/परिघोपमबाहुस्तुपरिघंभास्करप्रभम्/बलीबलवतस्तस्यपातयामासवक्षसि/स्थिरेतस्योरसिव्यूढेपरिघःशतधाकृतः/विशीर्यमाणःसहसाउल्काशतमिवाम्बरे/सतुतेनप्रहारेणचचालचमहाकपिः/परिघेणसमाधूतोयथाभूमिचलेऽचलः/सतथाभिहतस्तेनहनूमान्प्लवगोत्तमः/मुष्टिंसंवर्तयामासबलेनातिमहाबलः/तमुद्यम्यमहातेजानिकुम्भोरसिवीर्यवान्/अभिचिक्षेपवेगेनवेगवान्वायुविक्रमः/ततःपुस्फोटचर्मास्यप्रसुस्रावचशोणितम्/मुष्टिनातेनसंजज्ञेज्वालाविद्युदिवोत्थिता/सतुतेनप्रहारेणनिकुम्भोविचचालह/स्वस्थश्चापिनिजग्राहहनूमन्तंमहाबलम्/विचुक्रुशुस्तदासंख्येभीमंलङ्कानिवासिनः/निकुम्भेनोद्धृतंदृष्ट्वाहनूमन्तंमहाबलम्/सतथाह्रियमाणोऽपिकुम्भकर्णात्मजेनहि/आजघानानिलसुतोवज्रवेगेनमुष्टिना/आत्मानंमोचयित्वाथक्षितावभ्यवपद्यत/हनूमानुन्ममथाशुनिकुम्भंमारुतात्मजः/निक्षिप्यपरमायत्तोनिकुम्भंनिष्पिपेषच/उत्पत्यचास्यवेगेनपपातोरसिवीर्यवान्/परिगृह्यचबाहुभ्यांपरिवृत्यशिरोधराम्/उत्पाटयामासशिरोभैरवंनदतोमहत्/अथविनदतिसादितेनिकुम्भे॑पवनसुतेनरणेबभूवयुद्धम्/दशरथसुतराक्षसेन्द्रचम्वोर्॑भृशतरमागतरोषयोःसुभीमम्67723/निकुम्भंचहतंश्रुत्वाकुम्भंचविनिपातितम्/रावणःपरमामर्षीप्रजज्वालानलोयथा6781/नैरृतःक्रोधशोकाभ्यांद्वाभ्यांतुपरिमूर्छितः/खरपुत्रंविशालाक्षंमकराक्षमचोदयत्/गच्छपुत्रमयाज्ञप्तोबलेनाभिसमन्वितः/राघवंलक्ष्मणंचैवजहितौसवनौकसौ/रावणस्यवचःश्रुत्वाशूरोमानीखरात्मजः/बाढमित्यब्रवीद्धृष्टोमकराक्षोनिशाचरः/सोऽभिवाद्यदशग्रीवंकृत्वाचापिप्रदक्षिणम्/निर्जगामगृहाच्छुभ्राद्रावणस्याज्ञयाबली/समीपस्थंबलाध्यक्षंखरपुत्रोऽब्रवीदिदम्/रथमानीयतांशीघ्रंसैन्यंचानीयतांत्वरात्/तस्यतद्वचनंश्रुत्वाबलाध्यक्षोनिशाचरः/स्यन्दनंचबलंचैवसमीपंप्रत्यपादयत्/प्रदक्षिणंरथंकृत्वाआरुरोहनिशाचरः/सूतंसंचोदयामासशीघ्रंमेरथमावह/अथतान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम्/यूयंसर्वेप्रयुध्यध्वंपुरस्तान्ममराक्षसाः/अहंराक्षसराजेनरावणेनमहात्मना/आज्ञप्तःसमरेहन्तुंतावुभौरामलक्ष्मणौ/अद्यरामंवधिष्यामिलक्ष्मणंचनिशाचराः/शाखामृगंचसुग्रीवंवानरांश्चशरोत्तमैः/अद्यशूलनिपातैश्चवानराणांमहाचमूम्/प्रदहिष्यामिसंप्राप्तांशुष्केन्धनमिवानलः/मकराक्षस्यतच्छ्रुत्वावचनंतेनिशाचराः/सर्वेनानायुधोपेताबलवन्तःसमाहिताः/तेकामरूपिणःशूरादंष्ट्रिणःपिङ्गलेक्षणाः/मातंगाइवनर्दन्तोध्वस्तकेशाभयानकाः/परिवार्यमहाकायामहाकायंखरात्मजम्/अभिजग्मुस्तदाहृष्टाश्चालयन्तोवसुंधराम्/शङ्खभेरीसहस्राणामाहतानांसमन्ततः/क्ष्वेडितास्फोटितानांचततःशब्दोमहानभूत्/प्रभ्रष्टोऽथकरात्तस्यप्रतोदःसारथेस्तदा/पपातसहसाचैवध्वजस्तस्यचरक्षसः/तस्यतेरथसंयुक्ताहयाविक्रमवर्जिताः/चरणैराकुलैर्गत्वादीनाःसास्रमुखाययुः/प्रवातिपवनस्तस्यसपांसुःखरदारुणः/निर्याणेतस्यरौद्रस्यमकराक्षस्यदुर्मतेः/तानिदृष्ट्वानिमित्तानिराक्षसावीर्यवत्तमाः/अचिन्त्यनिर्गताःसर्वेयत्रतौरामलक्ष्मणौ/घनगजमहिषाङ्गतुल्यवर्णाः॑समरमुखेष्वसकृद्गदासिभिन्नाः/अहमहमितियुद्धकौशलास्ते॑रजनिचराःपरिबभ्रमुर्नदन्तः67821/निर्गतंमकराक्षंतेदृष्ट्वावानरपुंगवाः/आप्लुत्यसहसासर्वेयोद्धुकामाव्यवस्थिताः6791/ततःप्रवृत्तंसुमहत्तद्युद्धंलोमहर्षणम्/निशाचरैःप्लवंगानांदेवानांदानवैरिव/वृक्षशूलनिपातैश्चशिलापरिघपातनैः/अन्योन्यंमर्दयन्तिस्मतदाकपिनिशाचराः/शक्तिशूलगदाखड्गैस्तोमरैश्चनिशाचराः/पट्टसैर्भिन्दिपालैश्चबाणपातैःसमन्ततः/पाशमुद्गरदण्डैश्चनिर्घातैश्चापरैस्तथा/कदनंकपिसिंहानांचक्रुस्तेरजनीचराः/बाणौघैरर्दिताश्चापिखरपुत्रेणवानराः/संभ्रान्तमनसःसर्वेदुद्रुवुर्भयपीडिताः/तान्दृष्ट्वाराक्षसाःसर्वेद्रवमाणान्वनौकसः/नेदुस्तेसिंहवद्धृष्टाराक्षसाजितकाशिनः/विद्रवत्सुतदातेषुवानरेषुसमन्ततः/रामस्तान्वारयामासशरवर्षेणराक्षसान्/वारितान्राक्षसान्दृष्ट्वामकराक्षोनिशाचरः/क्रोधानलसमाविष्टोवचनंचेदमब्रवीत्/तिष्ठराममयासार्धंद्वन्द्वयुद्धंददामिते/त्याजयिष्यामितेप्राणान्धनुर्मुक्तैःशितैःशरैः/यत्तदादण्डकारण्येपितरंहतवान्मम/मदग्रतःस्वकर्मस्थंस्मृत्वारोषोऽभिवर्धते/दह्यन्तेभृशमङ्गानिदुरात्मन्ममराघव/यन्मयासिनदृष्टस्त्वंतस्मिन्कालेमहावने/दिष्ट्यासिदर्शनंरामममत्वंप्राप्तवानिह/काङ्क्षितोऽसिक्षुधार्तस्यसिंहस्येवेतरोमृगः/अद्यमद्बाणवेगेनप्रेतराड्विषयंगतः/येत्वयानिहताःशूराःसहतैस्त्वंसमेष्यसि/बहुनात्रकिमुक्तेनशृणुरामवचोमम/पश्यन्तुसकलालोकास्त्वांमांचैवरणाजिरे/अस्त्रैर्वागदयावापिबाहुभ्यांवामहाहवे/अभ्यस्तंयेनवारामतेनवावर्ततांयुधि/मकराक्षवचःश्रुत्वारामोदशरथात्मजः/अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम्/चतुर्दशसहस्राणिरक्षसांत्वत्पिताचयः/त्रिशिरादूषणश्चापिदण्डकेनिहतामया/स्वाशितास्तवमांसेनगृध्रगोमायुवायसाः/भविष्यन्त्यद्यवैपापतीक्ष्णतुण्डनखाङ्कुशाः/एवमुक्तस्तुरामेणखरपुत्रोनिशाचरः/बाणौघानसृजत्तस्मैराघवायरणाजिरे/ताञ्शराञ्शरवर्षेणरामश्चिच्छेदनैकधा/निपेतुर्भुवितेछिन्नारुक्मपुङ्खाःसहस्रशः/तद्युद्धमभवत्तत्रसमेत्यान्योन्यमोजसा/खरराक्षसपुत्रस्यसूनोर्दशरथस्यच/जीमूतयोरिवाकाशेशब्दोज्यातलयोस्तदा/धनुर्मुक्तःस्वनोत्कृष्टःश्रूयतेचरणाजिरे/देवदानवगन्धर्वाःकिंनराश्चमहोरगाः/अन्तरिक्षगताःसर्वेद्रष्टुकामास्तदद्भुतम्/विद्धमन्योन्यगात्रेषुद्विगुणंवर्धतेबलम्/कृतप्रतिकृतान्योन्यंकुर्वातेतौरणाजिरे/राममुक्तास्तुबाणौघान्राक्षसस्त्वच्छिनद्रणे/रक्षोमुक्तांस्तुरामोवैनैकधाप्राच्छिनच्छरैः/बाणौघवितताःसर्वादिशश्चविदिशस्तथा/संछन्नावसुधाचैवसमन्तान्नप्रकाशते/ततःक्रुद्धोमहाबाहुर्धनुश्चिच्छेदरक्षसः/अष्टाभिरथनाराचैःसूतंविव्याधराघवः/भित्त्वाशरैरथंरामोरथाश्वान्समपातयत्/विरथोवसुधांतिष्ठन्मकराक्षोनिशाचरः/अतिष्ठद्वसुधांरक्षःशूलंजग्राहपाणिना/त्रासनंसर्वभूतानांयुगान्ताग्निसमप्रभम्/विभ्राम्यचमहच्छूलंप्रज्वलन्तंनिशाचरः/सक्रोधात्प्राहिणोत्तस्मैराघवायमहाहवे/तमापतन्तंज्वलितंखरपुत्रकराच्च्युतम्/बाणैस्तुत्रिभिराकाशेशूलंचिच्छेदराघवः/सच्छिन्नोनैकधाशूलोदिव्यहाटकमण्डितः/व्यशीर्यतमहोक्लेवरामबाणार्दितोभुवि/तच्छूलंनिहतंदृष्ट्वारामेणाद्भुतकर्मणा/साधुसाध्वितिभूतानिव्याहरन्तिनभोगताः/तद्दृष्ट्वानिहतंशूलंमकराक्षोनिशाचरः/मुष्टिमुद्यम्यकाकुत्स्थंतिष्ठतिष्ठेतिचाब्रवीत्/सतंदृष्ट्वापतन्तंवैप्रहस्यरघुनन्दनः/पावकास्त्रंततोरामःसंदधेस्वशरासने/तेनास्त्रेणहतंरक्षःकाकुत्स्थेनतदारणे/संछिन्नहृदयंतत्रपपातचममारच/दृष्ट्वातेराक्षसाःसर्वेमकराक्षस्यपातनम्/लङ्कामेवप्रधावन्तरामबालार्दितास्तदा/दशरथनृपपुत्रबाणवेगै॑रजनिचरंनिहतंखरात्मजंतम्/ददृशुरथचदेवताःप्रहृष्टा॑गिरिमिववज्रहतंयथाविशीर्णम्67941/मकराक्षंहतंश्रुत्वारावणःसमितिंजयः/आदिदेशाथसंक्रुद्धोरणायेन्द्रजितंसुतम्6801/जहिवीरमहावीर्यौभ्रातरौरामलक्ष्मणौ/अदृश्योदृश्यमानोवासर्वथात्वंबलाधिकः/त्वमप्रतिमकर्माणमिन्द्रंजयसिसंयुगे/किंपुनर्मानुषौदृष्ट्वानवधिष्यसिसंयुगे/तथोक्तोराक्षसेन्द्रेणप्रतिगृह्यपितुर्वचः/यज्ञभूमौसविधिवत्पावकंजुहुवेन्द्रजित्/जुह्वतश्चापितत्राग्निंरक्तोष्णीषधराःस्त्रियः/आजग्मुस्तत्रसंभ्रान्ताराक्षस्योयत्ररावणिः/शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः/लोहितानिचवासांसिस्रुवंकार्ष्णायसंतथा/सर्वतोऽग्निंसमास्तीर्यशरपत्रैःसमन्ततः/छागस्यसर्वकृष्णस्यगलंजग्राहजीवतः/चरुहोमसमिद्धस्यविधूमस्यमहार्चिषः/बभूवुस्तानिलिङ्गानिविजयंदर्शयन्तिच/प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः/हविस्तत्प्रतिजग्राहपावकःस्वयमुत्थितः/हुत्वाग्निंतर्पयित्वाथदेवदानवराक्षसान्/आरुरोहरथश्रेष्ठमन्तर्धानगतंशुभम्/सवाजिभिश्चतुर्भिस्तुबाणैश्चनिशितैर्युतः/आरोपितमहाचापःशुशुभेस्यन्दनोत्तमे/जाज्वल्यमानोवपुषातपनीयपरिच्छदः/शरैश्चन्द्रार्धचन्द्रैश्चसरथःसमलंकृतः/जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः/बभूवेन्द्रजितःकेतुर्वैदूर्यसमलंकृतः/तेनचादित्यकल्पेनब्रह्मास्त्रेणचपालितः/सबभूवदुराधर्षोरावणिःसुमहाबलः/सोऽभिनिर्यायनगरादिन्द्रजित्समितिंजयः/हुत्वाग्निंराक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्/अद्यहत्वाहवेयौतौमिथ्याप्रव्रजितौवने/जयंपित्रेप्रदास्यामिरावणायरणाधिकम्/कृत्वानिर्वानरामुर्वींहत्वारामंसलक्ष्मणम्/करिष्येपरमांप्रीतिमित्युक्त्वान्तरधीयत/आपपाताथसंक्रुद्धोदशग्रीवेणचोदितः/तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपूरणे/सददर्शमहावीर्यौनागौत्रिशिरसाविव/सृजन्ताविषुजालानिवीरौवानरमध्यगौ/इमौतावितिसंचिन्त्यसज्यंकृत्वाचकार्मुकम्/संततानेषुधाराभिःपर्जन्यइववृष्टिमान्/सतुवैहायसंप्राप्यसरथोरामलक्ष्मणौ/अचक्षुर्विषयेतिष्ठन्विव्याधनिशितैःशरैः/तौतस्यशरवेगेनपरीतौरामलक्ष्मणौ/धनुषीसशरेकृत्वादिव्यमस्त्रंप्रचक्रतुः/प्रच्छादयन्तौगगनंशरजालैर्महाबलौ/तमस्त्रैःसुरसंकाशौनैवपस्पर्शतुःशरैः/सहिधूमान्धकारंचचक्रेप्रच्छादयन्नभः/दिशश्चान्तर्दधेश्रीमान्नीहारतमसावृतः/नैवज्यातलनिर्घोषोनचनेमिखुरस्वनः/शुश्रुवेचरतस्तस्यनचरूपंप्रकाशते/घनान्धकारेतिमिरेशरवर्षमिवाद्भुतम्/सववर्षमहाबाहुर्नाराचशरवृष्टिभिः/सरामंसूर्यसंकाशैःशरैर्दत्तवरोभृशम्/विव्याधसमरेक्रुद्धःसर्वगात्रेषुरावणिः/तौहन्यमानौनाराचैर्धाराभिरिवपर्वतौ/हेमपुङ्खान्नरव्याघ्रौतिग्मान्मुमुचतुःशरान्/अन्तरिक्षंसमासाद्यरावणिंकङ्कपत्रिणः/निकृत्यपतगाभूमौपेतुस्तेशोणितोक्षिताः/अतिमात्रंशरौघेणपीड्यमानौनरोत्तमौ/तानिषून्पततोभल्लैरनेकैर्निचकर्ततुः/यतोहिददृशातेतौशरान्निपतिताञ्शितान्/ततस्ततोदाशरथीससृजातेऽस्त्रमुत्तमम्/रावणिस्तुदिशःसर्वारथेनातिरथःपतन्/विव्याधतौदाशरथीलघ्वस्त्रोनिशितैःशरैः/तेनातिविद्धौतौवीरौरुक्मपुङ्खैःसुसंहतैः/बभूवतुर्दाशरथीपुष्पिताविवकिंशुकौ/नास्यवेदगतिंकश्चिन्नचरूपंधनुःशरान्/नचान्यद्विदितंकिंचित्सूर्यस्येवाभ्रसंप्लवे/तेनविद्धाश्चहरयोनिहताश्चगतासवः/बभूवुःशतशस्तत्रपतिताधरणीतले/लक्ष्मणस्तुसुसंक्रुद्धोभ्रातरंवाक्यमब्रवीत्/ब्राह्ममस्त्रंप्रयोक्ष्यामिवधार्थंसर्वरक्षसाम्/तमुवाचततोरामोलक्ष्मणंशुभलक्षणम्/नैकस्यहेतोरक्षांसिपृथिव्यांहन्तुमर्हसि/अयुध्यमानंप्रच्छन्नंप्राञ्जलिंशरणागतम्/पलायन्तंप्रमत्तंवानत्वंहन्तुमिहार्हसि/अस्यैवतुवधेयत्नंकरिष्यावोमहाबल/आदेक्ष्यावोमहावेगानस्त्रानाशीविषोपमान्/तमेनंमायिनंक्षुद्रमन्तर्हितरथंबलात्/राक्षसंनिहनिष्यन्तिदृष्ट्वावानरयूथपाः/यद्येषभूमिंविशतेदिवंवा॑रसातलंवापिनभस्तलंवा/एवंनिगूढोऽपिममास्त्रदग्धः॑पतिष्यतेभूमितलेगतासुः/इत्येवमुक्त्वावचनंमहात्मा॑रघुप्रवीरःप्लवगर्षभैर्वृतः/वधायरौद्रस्यनृशंसकर्मणस्॑तदामहात्मात्वरितंनिरीक्षते68043/विज्ञायतुमनस्तस्यराघवस्यमहात्मनः/संनिवृत्याहवात्तस्मात्प्रविवेशपुरंततः6811/सोऽनुस्मृत्यवधंतेषांराक्षसानांतरस्विनाम्/क्रोधताम्रेक्षणःशूरोनिर्जगाममहाद्युतिः/सपश्चिमेनद्वारेणनिर्ययौराक्षसैर्वृतः/इन्द्रजित्तुमहावीर्यःपौलस्त्योदेवकण्टकः/इन्द्रजित्तुततोदृष्ट्वाभ्रातरौरामलक्ष्मणौ/रणायाभ्युद्यतौवीरौमायांप्रादुष्करोत्तदा/इन्द्रजित्तुरथेस्थाप्यसीतांमायामयींतदा/बलेनमहतावृत्यतस्यावधमरोचयत्/मोहनार्थंतुसर्वेषांबुद्धिंकृत्वासुदुर्मतिः/हन्तुंसीतांव्यवसितोवानराभिमुखोययौ/तंदृष्ट्वात्वभिनिर्यान्तंनगर्याःकाननौकसः/उत्पेतुरभिसंक्रुद्धाःशिलाहस्तायुयुत्सवः/हनूमान्पुरतस्तेषांजगामकपिकुञ्जरः/प्रगृह्यसुमहच्छृङ्गंपर्वतस्यदुरासदम्/सददर्शहतानन्दांसीतामिन्द्रजितोरथे/एकवेणीधरांदीनामुपवासकृशाननाम्/परिक्लिष्टैकवसनाममृजांराघवप्रियाम्/रजोमलाभ्यामालिप्तैःसर्वगात्रैर्वरस्त्रियम्/तांनिरीक्ष्यमुहूर्तंतुमैथिलीमध्यवस्यच/बाष्पपर्याकुलमुखोहनूमान्व्यथितोऽभवत्/अब्रवीत्तांतुशोकार्तांनिरानन्दांतपस्विनाम्/दृष्ट्वारथेस्तितांसीतांराक्षसेन्द्रसुताश्रिताम्/किंसमर्थितमस्येतिचिन्तयन्समहाकपिः/सहतैर्वानरश्रेष्ठैरभ्यधावतरावणिम्/तद्वानरबलंदृष्ट्वारावणिःक्रोधमूर्छितः/कृत्वाविशोकंनिस्त्रिंशंमूर्ध्निसीतांपरामृशत्/तंस्त्रियंपश्यतांतेषांताडयामासरावणिः/क्रोशन्तींरामरामेतिमाययायोजितांरथे/गृहीतमूर्धजांदृष्ट्वाहनूमान्दैन्यमागतः/दुःखजंवारिनेत्राभ्यामुत्सृजन्मारुतात्मजः/अब्रवीत्परुषंवाक्यंक्रोधाद्रक्षोऽधिपात्मजम्/दुरात्मन्नात्मनाशायकेशपक्षेपरामृशः/ब्रह्मर्षीणांकुलेजातोराक्षसींयोनिमाश्रितः/धिक्त्वांपापसमाचारंयस्यतेमतिरीदृशी/नृशंसानार्यदुर्वृत्तक्षुद्रपापपराक्रम/अनार्यस्येदृशंकर्मघृणातेनास्तिनिर्घृण/च्युतागृहाच्चराज्याच्चरामहस्ताच्चमैथिली/किंतवैषापराद्धाहियदेनांहन्तुमिच्छसि/सीतांचहत्वानचिरंजीविष्यसिकथंचन/वधार्हकर्मणानेनममहस्तगतोह्यसि/येचस्त्रीघातिनांलोकालोकवध्यैश्चकुत्सिताः/इहजीवितमुत्सृज्यप्रेत्यतान्प्रतिलप्स्यसे/इतिब्रुवाणोहनुमान्सायुधैर्हरिभिर्वृतः/अभ्यधावतसंक्रुद्धोराक्षसेन्द्रसुतंप्रति/आपतन्तंमहावीर्यंतदनीकंवनौकसाम्/रक्षसांभीमवेगानामनीकेनन्यवारयत्/सतांबाणसहस्रेणविक्षोभ्यहरिवाहिनीम्/हरिश्रेष्ठंहनूमन्तमिन्द्रजित्प्रत्युवाचह/सुग्रीवस्त्वंचरामश्चयन्निमित्तमिहागताः/तांहनिष्यामिवैदेहीमद्यैवतवपश्यतः/इमांहत्वाततोरामंलक्ष्मणंत्वांचवानर/सुग्रीवंचवधिष्यामितंचानार्यंविभीषणम्/नहन्तव्याःस्त्रियश्चेतियद्ब्रवीषिप्लवंगम/पीडाकरममित्राणांयत्स्यात्कर्तव्यमेततत्/तमेवमुक्त्वारुदतींसीतांमायामयींततः/शितधारेणखड्गेननिजघानेन्द्रजित्स्वयम्/यज्ञोपवीतमार्गेणछिन्नातेनतपस्विनी/सापृथिव्यांपृथुश्रोणीपपातप्रियदर्शना/तामिन्द्रजित्स्त्रियंहत्वाहनूमन्तमुवाचह/मयारामस्यपश्येमांकोपेनचनिषूदिताम्/ततःखड्गेनमहताहत्वातामिन्द्रजित्स्वयम्/हृष्टःसरथमास्थायविननादमहास्वनम्/वानराःशुश्रुवुःशब्दमदूरेप्रत्यवस्थिताः/व्यादितास्यस्यनदतस्तद्दुर्गंसंश्रितस्यतु/तथातुसीतांविनिहत्यदुर्मतिः॑प्रहृष्टचेताःसबभूवरावणिः/तंहृष्टरूपंसमुदीक्ष्यवानरा॑विषण्णरूपाःसमभिप्रदुद्रुवुः68134/श्रुत्वातंभीमनिर्ह्रादंशक्राशनिसमस्वनम्/वीक्षमाणादिशःसर्वादुद्रुवुर्वानरर्षभाः6821/तानुवाचततःसर्वान्हनूमान्मारुतात्मजः/विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतःपृथक्/कस्माद्विषण्णवदनाविद्रवध्वंप्लवंगमाः/त्यक्तयुद्धसमुत्साहाःशूरत्वंक्वनुवोगतम्/पृष्ठतोऽनुव्रजध्वंमामग्रतोयान्तमाहवे/शूरैरभिजनोपेतैरयुक्तंहिनिवर्तितुम्/एवमुक्ताःसुसंक्रुद्धावायुपुत्रेणधीमता/शैलशृङ्गान्द्रुमांश्चैवजगृहुर्हृष्टमानसाः/अभिपेतुश्चगर्जन्तोराक्षसान्वानरर्षभाः/परिवार्यहनूमन्तमन्वयुश्चमहाहवे/सतैर्वानरमुख्यैस्तुहनूमान्सर्वतोवृतः/हुताशनइवार्चिष्मानदहच्छत्रुवाहिनीम्/सराक्षसानांकदनंचकारसुमहाकपिः/वृतोवानरसैन्येनकालान्तकयमोपमः/सतुशोकेनचाविष्टःक्रोधेनचमहाकपिः/हनूमान्रावणिरथेमहतींपातयच्छिलाम्/तामापतन्तींदृष्ट्वैवरथःसारथिनातदा/विधेयाश्वसमायुक्तःसुदूरमपवाहितः/तमिन्द्रजितमप्राप्यरथथंसहसारथिम्/विवेशधरणींभित्त्वासाशिलाव्यर्थमुद्यता/पतितायांशिलायांतुरक्षसांव्यथिताचमूः/तमभ्यधावञ्शतशोनदन्तःकाननौकसः/तेद्रुमांश्चमहाकायागिरिशृङ्गाणिचोद्यताः/चिक्षिपुर्द्विषतांमध्येवानराभीमविक्रमाः/वानरैर्तैर्महावीर्यैर्घोररूपानिशाचराः/वीर्यादभिहतावृक्षैर्व्यवेष्टन्तरणक्षितौ/स्वसैन्यमभिवीक्ष्याथवानरार्दितमिन्द्रजित्/प्रगृहीतायुधःक्रुद्धःपरानभिमुखोययौ/सशरौघानवसृजन्स्वसैन्येनाभिसंवृतः/जघानकपिशार्दूलान्सुबहून्दृष्टविक्रमः/शूलैरशनिभिःखड्गैःपट्टसैःकूटमुद्गरैः/तेचाप्यनुचरांस्तस्यवानराजघ्नुराहवे/सस्कन्धविटपैःसालैःशिलाभिश्चमहाबलैः/हनूमान्कदनंचक्रेरक्षसांभीमकर्मणाम्/सनिवार्यपरानीकमब्रवीत्तान्वनौकसः/हनूमान्संनिवर्तध्वंननःसाध्यमिदंबलम्/त्यक्त्वाप्राणान्विचेष्टन्तोरामप्रियचिकीर्षवः/यन्निमित्तंहियुध्यामोहतासाजनकात्मजा/इममर्थंहिविज्ञाप्यरामंसुग्रीवमेवच/तौयत्प्रतिविधास्येतेतत्करिष्यामहेवयम्/इत्युक्त्वावानरश्रेष्ठोवारयन्सर्ववानरान्/शनैःशनैरसंत्रस्तःसबलःसन्यवर्तत/सतुप्रेक्ष्यहनूमन्तंव्रजन्तंयत्रराघवः/निकुम्भिलामधिष्ठायपावकंजुहुवेन्द्रजित्/यज्ञभूम्यांतुविधिवत्पावकस्तेनरक्षसा/हूयमानःप्रजज्वालहोमशोणितभुक्तदा/सोऽर्चिःपिनद्धोददृशेहोमशोणिततर्पितः/संध्यागतइवादित्यःसतीव्राग्निःसमुत्थितः/अथेन्द्रजिद्राक्षसभूतयेतु॑जुहावहव्यंविधिनाविधानवत्/दृष्ट्वाव्यतिष्ठन्तचराक्षसास्ते॑महासमूहेषुनयानयज्ञाः68228/राघवश्चापिविपुलंतंराक्षसवनौकसाम्/श्रुत्वासंग्रामनिर्घोषंजाम्बवन्तमुवाचह6831/सौम्यनूनंहनुमताकृतंकर्मसुदुष्करम्/श्रूयतेहियथाभीमःसुमहानायुधस्वनः/तद्गच्छकुरुसाहाय्यंस्वबलेनाभिसंवृतः/क्षिप्रमृष्कपतेतस्यकपिश्रेष्ठस्ययुध्यतः/ऋक्षराजस्तथेत्युक्त्वास्वेनानीकेनसंवृतः/आगच्छत्पश्चिमद्वारंहनूमान्यत्रवानरः/अथायान्तंहनूमन्तंददर्शर्क्षपतिःपथि/वानरैःकृतसंग्रामैःश्वसद्भिरभिसंवृतम्/दृष्ट्वापथिहनूमांश्चतदृष्कबलमुद्यतम्/नीलमेघनिभंभीमंसंनिवार्यन्यवर्तत/सतेनहरिसैन्येनसंनिकर्षंमहायशाः/शीघ्रमागम्यरामायदुःखितोवाक्यमब्रवीत्/समरेयुध्यमानानामस्माकंप्रेक्षतांचसः/जघानरुदतींसीतामिन्द्रजिद्रावणात्मजः/उद्भ्रान्तचित्तस्तांदृष्ट्वाविषण्णोऽहमरिंदम/तदहंभवतोवृत्तंविज्ञापयितुमागतः/तस्यतद्वचनंश्रुत्वाराघवःशोकमूर्छितः/निपपाततदाभूमौछिन्नमूलइवद्रुमः/तंभूमौदेवसंकाशंपतितंदृश्यराघवम्/अभिपेतुःसमुत्पत्यसर्वतःकपिसत्तमाः/असिञ्चन्सलिलैश्चैनंपद्मोत्पलसुगन्धिभिः/प्रदहन्तमसह्यंचसहसाग्निमिवोत्थितम्/तंलक्ष्मणोऽथबाहुभ्यांपरिष्वज्यसुदुःखितः/उवाचराममस्वस्थंवाक्यंहेत्वर्थसंहितम्/शुभेवर्त्मनितिष्ठन्तंत्वामार्यविजितेन्द्रियम्/अनर्थेभ्योनशक्नोतित्रातुंधर्मोनिरर्थकः/भूतानांस्थावराणांचजङ्गमानांचदर्शनम्/यथास्तिनतथाधर्मस्तेननास्तीतिमेमतिः/यथैवस्थावरंव्यक्तंजङ्गमंचतथाविधम्/नायमर्थस्तथायुक्तस्त्वद्विधोनविपद्यते/यद्यधर्मोभवेद्भूतोरावणोनरकंव्रजेत्/भवांश्चधर्मसंयुक्तोनैवंव्यसनमाप्नुयात्/तस्यचव्यसनाभावाद्व्यसनंचगतेत्वयि/धर्मेणोपलभेद्धर्ममधर्मंचाप्यधर्मतः/यदिधर्मेणयुज्येरन्नाधर्मरुचयोजनाः/धर्मेणचरतांधर्मस्तथाचैषांफलंभवेत्/यस्मादर्थाविवर्धन्तेयेष्वधर्मःप्रतिष्ठितः/क्लिश्यन्तेधर्मशीलाश्चतस्मादेतौनिरर्थकौ/वध्यन्तेपापकर्माणोयद्यधर्मेणराघव/वधकर्महतोधर्मःसहतःकंवधिष्यति/अथवाविहितेनायंहन्यतेहन्तिवापरम्/विधिरालिप्यतेतेननसपापेनकर्मणा/अदृष्टप्रतिकारेणअव्यक्तेनासतासता/कथंशक्यंपरंप्राप्तुंधर्मेणारिविकर्शन/यदिसत्स्यात्सतांमुख्यनासत्स्यात्तवकिंचन/त्वयायदीदृशंप्राप्तंतस्मात्सन्नोपपद्यते/अथवादुर्बलःक्लीबोबलंधर्मोऽनुवर्तते/दुर्बलोहृतमर्यादोनसेव्यइतिमेमतिः/बलस्ययदिचेद्धर्मोगुणभूतःपराक्रमे/धर्ममुत्सृज्यवर्तस्वयथाधर्मेतथाबले/अथचेत्सत्यवचनंधर्मःकिलपरंतप/अनृतस्त्वय्यकरुणःकिंनबद्धस्त्वयापिता/यदिधर्मोभवेद्भूतअधर्मोवापरंतप/नस्महत्वामुनिंवज्रीकुर्यादिज्यांशतक्रतुः/अधर्मसंश्रितोधर्मोविनाशयतिराघव/सर्वमेतद्यथाकामंकाकुत्स्थकुरुतेनरः/ममचेदंमतंतातधर्मोऽयमितिराघव/धर्ममूलंत्वयाछिन्नंराज्यमुत्सृजतातदा/अर्थेभ्योहिविवृद्धेभ्यःसंवृद्धेभ्यस्ततस्ततः/क्रियाःसर्वाःप्रवर्तन्तेपर्वतेभ्यइवापगाः/अर्थेनहिवियुक्तस्यपुरुषस्याल्पतेजसः/व्युच्छिद्यन्तेक्रियाःसर्वाग्रीष्मेकुसरितोयथा/सोऽयमर्थंपरित्यज्यसुखकामःसुखैधितः/पापमारभतेकर्तुंतथादोषःप्रवर्तते/यस्यार्थास्तस्यमित्राणियस्यार्थास्तस्यबान्धवः/यस्यार्थाःसपुमांल्लोकेयस्यार्थाःसचपण्डितः/यस्यार्थाःसचविक्रान्तोयस्यार्थाःसचबुद्धिमान्/यस्यार्थाःसमहाभागोयस्यार्थाःसमहागुणः/अर्थस्यैतेपरित्यागेदोषाःप्रव्याहृतामया/राज्यमुत्सृजतावीरयेनबुद्धिस्त्वयाकृता/यस्यार्थाधर्मकामार्थास्तस्यसर्वंप्रदक्षिणम्/अधनेनार्थकामेननार्थःशक्योविचिन्वता/हर्षःकामश्चदर्पश्चधर्मःक्रोधःशमोदमः/अर्थादेतानिसर्वाणिप्रवर्तन्तेनराधिप/येषांनश्यत्ययंलोकश्चरतांधर्मचारिणाम्/तेऽर्थास्त्वयिनदृश्यन्तेदुर्दिनेषुयथाग्रहाः/त्वयिप्रव्रजितेवीरगुरोश्चवचनेस्थिते/रक्षसापहृताभार्याप्राणैःप्रियतरातव/तदद्यविपुलंवीरदुःखमिन्द्रजिताकृतम्/कर्मणाव्यपनेष्यामितस्मादुत्तिष्ठराघव/अयमनघतवोदितःप्रियार्थं॑जनकसुतानिधनंनिरीक्ष्यरुष्टः/सहयगजरथांसराक्षसेन्द्रां॑भृशमिषुभिर्विनिपातयामिलङ्काम्68344/राममाश्वासयानेतुलक्ष्मणेभ्रातृवत्सले/निक्षिप्यगुल्मान्स्वस्थानेतत्रागच्छद्विभीषणः6841/नानाप्रहरणैर्वीरैश्चतुर्भिःसचिवैर्वृतः/नीलाञ्जनचयाकारैर्मातंगैरिवयूथपः/सोऽभिगम्यमहात्मानंराघवंशोकलालसं/वानरांश्चैवददृशेबाष्पपर्याकुलेक्षणान्/राघवंचमहात्मानमिक्ष्वाकुकुलनन्दनम्/ददर्शमोहमापन्नंलक्ष्मणस्याङ्कमाश्रितम्/व्रीडितंशोकसंतप्तंदृष्ट्वारामंविभीषणः/अन्तर्दुःखेनदीनात्माकिमेतदितिसोऽब्रवीत्/विभीषणमुखंदृष्ट्वासुग्रीवंतांश्चवानरान्/उवाचलक्ष्मणोवाक्यमिदंबाष्पपरिप्लुतः/हतामिन्द्रजितासीतामिहश्रुत्वैवराघवः/हनूमद्वचनात्सौम्यततोमोहमुपागतः/कथयन्तंतुसौमित्रिंसंनिवार्यविभीषणः/पुष्कलार्थमिदंवाक्यंविसंज्ञंराममब्रवीत्/मनुजेन्द्रार्तरूपेणयदुक्तस्त्वंहनूमता/तदयुक्तमहंमन्येसागरस्येवशोषणम्/अभिप्रायंतुजानामिरावणस्यदुरात्मनः/सीतांप्रतिमहाबाहोनचघातंकरिष्यति/याच्यमानःसुबहुशोमयाहितचिकीर्षुणा/वैदेहीमुत्सृजस्वेतिनचतत्कृतवान्वचः/नैवसाम्नानभेदेननदानेनकुतोयुधा/साद्रष्टुमपिशक्येतनैवचान्येनकेनचित्/वानरान्मोहयित्वातुप्रतियातःसराक्षसः/चैत्यंनिकुम्भिलांनामयत्रहोमंकरिष्यति/हुतवानुपयातोहिदेवैरपिसवासवैः/दुराधर्षोभवत्येषसंग्रामेरावणात्मजः/तेनमोहयतानूनमेषामायाप्रयोजिता/विघ्नमन्विच्छतातातवानराणांपराक्रमे/ससैन्यास्तत्रगच्छामोयावत्तन्नसमाप्यते/त्यजेमंनरशार्दूलमिथ्यासंतापमागतम्/सीदतेहिबलंसर्वंदृष्ट्वात्वांशोककर्शितम्/इहत्वंस्वस्थहृदयस्तिष्ठसत्त्वसमुच्छ्रितः/लक्ष्मणंप्रेषयास्माभिःसहसैन्यानुकर्षिभिः/एषतंनरशार्दूलोरावणिंनिशितैःशरैः/त्याजयिष्यतितत्कर्मततोवध्योभविष्यति/तस्यैतेनिशितास्तीक्ष्णाःपत्रिपत्राङ्गवाजिनः/पतत्रिणइवासौम्याःशराःपास्यन्तिशोणितम्/तत्संदिशमहाबाहोलक्ष्मणंशुभलक्षणम्/राक्षसस्यविनाशायवज्रंवज्रधरोयथा/मनुजवरनकालविप्रकर्षो॑रिपुनिधनंप्रतियत्क्षमोऽद्यकर्तुम्/त्वमतिसृजरिपोर्वधायबाणीम्॑असुरपुरोन्मथनेयथामहेन्द्रः/समाप्तकर्माहिसराक्षसेन्द्रो॑भवत्यदृश्यःसमरेसुरासुरैः/युयुत्सतातेनसमाप्तकर्मणा॑भवेत्सुराणामपिसंशयोमहान्68423/तस्यतद्वचनंश्रुत्वाराघवःशोककर्शितः/नोपधारयतेव्यक्तंयदुक्तंतेनरक्षसा6851/ततोधैर्यमवष्टभ्यरामःपरपुरंजयः/विभीषणमुपासीनमुवाचकपिसंनिधौ/नैरृताधिपतेवाक्यंयदुक्तंतेविभीषण/भूयस्तच्छ्रोतुमिच्छामिब्रूहियत्तेविवक्षितम्/राघवस्यवचःश्रुत्वावाक्यंवाक्यविशारदः/यत्तत्पुनरिदंवाक्यंबभाषेसविभीषणः/यथाज्ञप्तंमहाबाहोत्वयागुल्मनिवेशनम्/तत्तथानुष्ठितंवीरत्वद्वाक्यसमनन्तरम्/तान्यनीकानिसर्वाणिविभक्तानिसमन्ततः/विन्यस्तायूथपाश्चैवयथान्यायंविभागशः/भूयस्तुममविजाप्यंतच्छृणुष्वमहायशः/त्वय्यकारणसंतप्तेसंतप्तहृदयावयम्/त्यजराजन्निमंशोकंमिथ्यासंतापमागतम्/तदियंत्यज्यतांचिन्ताशत्रुहर्षविवर्धनी/उद्यमःक्रियतांवीरहर्षःसमुपसेव्यताम्/प्राप्तव्यायदितेसीताहन्तव्यश्व्चनिशाचराः/रघुनन्दनवक्ष्यामिश्रूयतांमेहितंवचः/साध्वयंयातुसौमित्रिर्बलेनमहतावृतः/निकुम्भिलायांसंप्राप्यहन्तुंरावणिमाहवे/धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः/शरैर्हन्तुंमहेष्वासोरावणिंसमितिंजयः/तेनवीरेणतपसावरदानात्स्वयम्भुतः/अस्त्रंब्रह्मशिरःप्राप्तंकामगाश्चतुरंगमाः/निकुम्भिलामसंप्राप्तमहुताग्निंचयोरिपुः/त्वामाततायिनंहन्यादिन्द्रशत्रोसतेवधः/इत्येवंविहितोराजन्वधस्तस्यैवधीमतः/वधायेन्द्रजितोरामतंदिशस्वमहाबलम्/हतेतस्मिन्हतंविद्धिरावणंससुहृज्जनम्/विभीषणवचःश्रुत्वरामोवाक्यमथाब्रवीत्/जानामितस्यरौद्रस्यमायांसत्यपराक्रम/सहिब्रह्मास्त्रवित्प्राज्ञोमहामायोमहाबलः/करोत्यसंज्ञान्संग्रामेदेवान्सवरुणानपि/तस्यान्तरिक्षेचरतोरथस्थस्यमहायशः/नगतिर्ज्ञायतेवीरसूर्यस्येवाभ्रसंप्लवे/राघवस्तुरिपोर्ज्ञात्वामायावीर्यंदुरात्मनः/लक्ष्मणंकीर्तिसंपन्नमिदंवचनमब्रवीत्/यद्वानरेन्द्रस्यबलंतेनसर्वेणसंवृतः/हनूमत्प्रमुखैश्चैवयूथपैःसहलक्ष्मण/जाम्बवेनर्क्षपतिनासहसैन्येनसंवृतः/जहितंराक्षससुतंमायाबलविशारदम्/अयंत्वांसचिवैःसार्धंमहात्मारजनीचरः/अभिज्ञस्तस्यदेशस्यपृष्ठतोऽनुगमिष्यति/राघवस्यवचःश्रुत्वालक्ष्मणःसविभीषणः/जग्राहकार्मुकंश्रेष्ठमन्यद्भीमपराक्रमः/संनद्धःकवचीखड्गीसशरीहेमचापधृक्/रामपादावुपस्पृश्यहृष्टःसौमित्रिरब्रवीत्/अद्यमत्कार्मुकोन्मुखाःशरानिर्भिद्यरावणिम्/लङ्कामभिपतिष्यन्तिहंसाःपुष्करिणीमिव/अद्यैवतस्यरौद्रस्यशरीरंमामकाःशराः/विधमिष्यन्तिहत्वातंमहाचापगुणच्युताः/सएवमुक्त्वाद्युतिमान्वचनंभ्रातुरग्रतः/सरावणिवधाकाङ्क्षीलक्ष्मणस्त्वरितोययौ/सोऽभिवाद्यगुरोःपादौकृत्वाचापिप्रदक्षिणम्/निकुम्भिलामभिययौचैत्यंरावणिपालितम्/विभीषणेनसहितोराजपुत्रःप्रतापवान्/कृतस्वस्त्ययनोभ्रात्रालक्ष्मणस्त्वरितोययौ/वानराणांसहस्रैस्तुहनूमान्बहुभिर्वृतः/विभीषणःसहामात्यस्तदालक्ष्मणमन्वगात्/महताहरिसैन्येनसवेगमभिसंवृतः/ऋक्षराजबलंचैवददर्शपथिविष्ठितम्/सगत्वादूरमध्वानंसौमित्रिर्मित्रनन्दनः/राक्षसेन्द्रबलंदूरादपश्यद्व्यूहमास्थितम्/ससंप्राप्यधनुष्पाणिर्मायायोगमरिंदम/तस्थौब्रह्मविधानेनविजेतुंरघुनन्दनः/विविधममलशस्त्रभास्वरंतद्॑ध्वजगहनंविपुलंमहारथैश्च/प्रतिभयतममप्रमेयवेगं॑तिमिरमिवद्विषतांबलंविवेश68536/अथतस्यामवस्थायांलक्ष्मणंरावणानुजः/परेषामहितंवाक्यमर्थसाधकमब्रवीत्6861/अस्यानीकस्यमहतोभेदनेयतलक्ष्मण/राक्षसेन्द्रसुतोऽप्यत्रभिन्नेदृश्योभविष्यति/सत्वमिन्द्राशनिप्रख्यैःशरैरवकिरन्परान्/अभिद्रवाशुयावद्वैनैतत्कर्मसमाप्यते/जहिवीरदुरात्मानंमायापरमधार्मिकम्/रावणिंक्रूरकर्माणंसर्वलोकभयावहम्/विभीषणवचःश्रुत्वालक्ष्मणःशुभलक्षणः/ववर्षशरवर्षाणिराक्षसेन्द्रसुतंप्रति/ऋक्षाःशाखामृगाश्चैवद्रुमाद्रिवरयोधिनः/अभ्यधावन्तसहितास्तदनीकमवस्थितम्/राक्षसाश्चशितैर्बाणैरसिभिःशक्तितोमरैः/उद्यतैःसमवर्तन्तकपिसैन्यजिघांसवः/ससंप्रहारस्तुमुलःसंजज्ञेकपिरक्षसाम्/शब्देनमहतालङ्कांनादयन्वैसमन्ततः/शस्त्रैर्बहुविधाकारैःशितैर्बाणैश्चपादपैः/उद्यतैर्गिरिशृङ्गैश्चघोरैराकाशमावृतम्/तेराक्षसावानरेषुविकृताननबाहवः/निवेशयन्तःशस्त्राणिचक्रुस्तेसुमहद्भयम्/तथैवसकलैर्वृक्षैर्गिरिशृङ्गैश्चवानराः/अभिजघ्नुर्निजघ्नुश्चसमरेराक्षसर्षभान्/ऋक्षवानरमुख्यैश्चमहाकायैर्महाबलैः/रक्षसांवध्यमानानांमहद्भयमजायत/स्वमनीकंविषण्णंतुश्रुत्वाशत्रुभिरर्दितम्/उदतिष्ठतदुर्धर्षस्तत्कर्मण्यननुष्ठिते/वृक्षान्धकारान्निष्क्रम्यजातक्रोधःसरावणिः/आरुरोहरथंसज्जंपूर्वयुक्तंसराक्षसः/सभीमकार्मुकशरःकृष्णाञ्जनचयोपमः/रक्तास्यनयनःक्रूरोबभौमृत्युरिवान्तकः/दृष्ट्वैवतुरथस्थंतंपर्यवर्तततद्बलम्/रक्षसांभीमवेगानांलक्ष्मणेनयुयुत्सताम्/तस्मिन्कालेतुहनुमानुद्यम्यसुदुरासदम्/धरणीधरसंकाशीमहावृक्षमरिंदमः/सराक्षसानांतत्सैन्यंकालाग्निरिवनिर्दहन्/चकारबहुभिर्वृक्षैर्निःसंज्ञंयुधिवानरः/विध्वंसयन्तंतरसादृष्ट्वैवपवनात्मजम्/राक्षसानांसहस्राणिहनूमन्तमवाकिरन्/शितशूलधराःशूलैरसिभिश्चासिपाणयः/शक्तिभिःशक्तिहस्ताश्चपट्टसैःपट्टसायुधाः/परिघैश्चगदाभिश्चकुन्तैश्चशुभदर्शनैः/शतशश्चशतघ्नीभिरायसैरपिमुद्गरैः/घोरैःपरशुभिश्चैवभिण्डिपालैश्चराक्षसाः/मुष्टिभिर्वज्रवेगैश्चतलैरशनिसंनिभैः/अभिजघ्नुःसमासाद्यसमन्तात्पर्वतोपमम्/तेषामपिचसंक्रुद्धश्चकारकदनंमहत्/सददर्शकपिश्रेष्ठमचलोपममिन्द्रजित्/सूदयानममित्रघ्नममित्रान्पवनात्मजम्/ससारथिमुवाचेदंयाहियत्रैषवानरः/क्षयमेवहिनःकुर्याद्राक्षसानामुपेक्षितः/इत्युक्तःसारथिस्तेनययौयत्रसमारुतिः/वहन्परमदुर्धर्षंस्थितमिन्द्रजितंरथे/सोऽभ्युपेत्यशरान्खड्गान्पट्टसासिपरश्वधान्/अभ्यवर्षतदुर्धर्षःकपिमूर्ध्निसराक्षसः/तानिशस्त्राणिघोराणिप्रतिगृह्यसमारुतिः/रोषेणमहताविषोवाक्यंचेदमुवाचह/युध्यस्वयदिशूरोऽसिरावणात्मजदुर्मते/वायुपुत्रंसमासाद्यनजीवन्प्रतियास्यसि/बाहुभ्यांसंप्रयुध्यस्वयदिमेद्वन्द्वमाहवे/वेगंसहस्वदुर्बुद्धेततस्त्वंरक्षसांवरः/हनूमन्तंजिघांसन्तंसमुद्यतशरासनम्/रावणात्मजमाचष्टेलक्ष्मणायविभीषणः/यस्तुवासवनिर्जेतारावणस्यात्मसंभवः/सएषरथमास्थायहनूमन्तंजिघांसति/तमप्रतिमसंस्थानैःशरैःशत्रुविदारणैः/जीवितान्तकरैर्घोरैःसौमित्रेरावणिंजहि/इत्येवमुक्तस्तुतदामहात्मा॑विभीषणेनारिविभीषणेन/ददर्शतंपर्वतसंनिकाशं॑रथस्थितंभीमबलंदुरासदम्68635/एवमुक्त्वातुसौमित्रिंजातहर्षोविभीषणः/धनुष्पाणिनमादायत्वरमाणोजगामसः6871/अविदूरंततोगत्वाप्रविश्यचमहद्वनम्/दर्शयामासतत्कर्मलक्ष्मणायविभीषणः/नीलजीमूतसंकाशंन्यग्रोधंभीमदर्शनम्/तेजस्वीरावणभ्रातालक्ष्मणायन्यवेदयत्/इहोपहारंभूतानांबलवान्रावणातजः/उपहृत्यततःपश्चात्संग्राममभिवर्तते/अदृश्यःसर्वभूतानांततोभवतिराक्षसः/निहन्तिसमरेशत्रून्बध्नातिचशरोत्तमैः/तमप्रविष्टंन्यग्रोधंबलिनंरावणात्मजम्/विध्वंसयशरैस्तीक्ष्णैःसरथंसाश्वसारथिम्/तथेत्युक्त्वामहातेजाःसौमित्रिर्मित्रनन्दनः/बभूवावस्थितस्तत्रचित्रंविस्फारयन्धनुः/सरथेनाग्निवर्णेनबलवान्रावणात्मजः/इन्द्रजित्कवचीखड्गीसध्वजःप्रत्यदृश्यत/तमुवाचमहातेजाःपौलस्त्यमपराजितम्/समाह्वयेत्वांसमरेसम्यग्युद्धंप्रयच्छमे/एवमुक्तोमहातेजामनस्वीरावणात्मजः/अब्रवीत्परुषंवाक्यंतत्रदृष्ट्वाविभीषणम्/इहत्वंजातसंवृद्धःसाक्षाद्भ्रातापितुर्मम/कथंद्रुह्यसिपुत्रस्यपितृव्योममराक्षस/नज्ञातित्वंनसौहार्दंनजातिस्तवदुर्मते/प्रमाणंनचसोदर्यंनधर्मोधर्मदूषण/शोच्यस्त्वमसिदुर्बुद्धेनिन्दनीयश्चसाधुभिः/यस्त्वंस्वजनमुत्सृज्यपरभृत्यत्वमागतः/नैतच्छिथिलयाबुद्ध्यात्वंवेत्सिमहदन्तरम्/क्वचस्वजनसंवासःक्वचनीचपराश्रयः/गुणवान्वापरजनःस्वजनोनिर्गुणोऽपिवा/निर्गुणःस्वजनःश्रेयान्यःपरःपरएवसः/निरनुक्रोशताचेयंयादृशीतेनिशाचर/स्वजनेनत्वयाशक्यंपरुषंरावणानुज/इत्युक्तोभ्रातृपुत्रेणप्रत्युवाचविभीषणः/अजानन्निवमच्छीलंकिंराक्षसविकत्थसे/राक्षसेन्द्रसुतासाधोपारुष्यंत्यजगौरवात्/कुलेयद्यप्यहंजातोरक्षसांक्रूरकर्मणाम्/गुणोऽयंप्रथमोनॄणांतन्मेशीलमराक्षसं/नरमेदारुणेनाहंनचाधर्मेणवैरमे/भ्रात्राविषमशीलेनकथंभ्रातानिरस्यते/परस्वानांचहरणंपरदाराभिमर्शनम्/सुहृदामतिशङ्कांचत्रयोदोषाःक्षयावहाः/महर्षीणांवधोघोरःसर्वदेवैश्चविग्रहः/अभिमानश्चकोपश्चवैरित्वंप्रतिकूलता/एतेदोषाममभ्रातुर्जीवितैश्वर्यनाशनाः/गुणान्प्रच्छादयामासुःपर्वतानिवतोयदाः/दोषैरेतैःपरित्यक्तोमयाभ्रातापितातव/नेयमस्तिपुरीलङ्कानचत्वंनचतेपिता/अतिमानीचबालश्चदुर्विनीतश्चराक्षस/बद्धस्त्वंकालपाशेनब्रूहिमांयद्यदिच्छसि/अद्यतेव्यसनंप्राप्तंकिमिहत्वंतुवक्ष्यसि/प्रवेष्टुंनत्वयाशक्योन्यग्रोधोराक्षसाधम/धर्षयित्वातुकाकुत्स्थौनशक्यंजीवितुंत्वया/युध्यस्वनरदेवेनलक्ष्मणेनरणेसह/हतस्त्वंदेवताकार्यंकरिष्यसियमक्षये/निदर्शयस्वात्मबलंसमुद्यतं॑कुरुष्वसर्वायुधसायकव्ययम्/नलक्ष्मणस्यैत्यहिबाणगोचरं॑त्वमद्यजीवन्सबलोगमिष्यसि68730/विभीषणवचःश्रुत्वारावणिःक्रोधमूर्छितः/अब्रवीत्परुषंवाक्यंवेगेनाभ्युत्पपातह6881/उद्यतायुधनिस्त्रिंशोरथेतुसमलंकृते/कालाश्वयुक्तेमहतिस्थितःकालान्तकोपमः/महाप्रमाणमुद्यम्यविपुलंवेगवद्दृढम्/धनुर्भीमंपरामृश्यशरांश्चामित्रनाशनान्/उवाचैनंसमारब्धःसौमित्रिंसविभीषणम्/तांश्चवानरशार्दूलान्पश्यध्वंमेपराक्रमम्/अद्यमत्कार्मुकोत्सृष्टंशरवर्षंदुरासदम्/मुक्तंवर्षमिवाकाशेवारयिष्यथसंयुगे/अद्यवोमामकाबाणामहाकार्मुकनिःसृताः/विधमिष्यन्तिगात्राणितूलराशिमिवानलः/तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः/अद्यवोगमयिष्यामिसर्वानेवयमक्षयम्/क्षिपतःशरवर्षाणिक्षिप्रहस्तस्यमेयुधि/जीमूतस्येवनदतःकःस्थास्यतिममाग्रतः/तच्छ्रुत्वाराक्षसेन्द्रस्यगर्जितंलक्ष्मणस्तदा/अभीतवदनःक्रुद्धोरावणिंवाक्यमब्रवीत्/उक्तश्चदुर्गमःपारःकार्याणांराक्षसत्वया/कार्याणांकर्मणापारंयोगच्छतिसबुद्धिमान्/सत्वमर्थस्यहीनार्थोदुरवापस्यकेनचित्/वचोव्याहृत्यजानीषेकृतार्थोऽस्मीतिदुर्मते/अन्तर्धानगतेनाजौयस्त्वयाचरितस्तदा/तस्कराचरितोमार्गोनैषवीरनिषेवितः/यथाबाणपथंप्राप्यस्थितोऽहंतवराक्षस/दर्शयस्वाद्यतत्तेजोवाचात्वंकिंविकत्थसे/एवमुक्तोधनुर्भीमंपरामृश्यमहाबलः/ससर्जेनिशितान्बाणानिन्द्रजित्समिजिंजय/तेनिसृष्टामहावेगाःशराःसर्पविषोपमाः/संप्राप्यलक्ष्मणंपेतुःश्वसन्तइवपन्नगाः/शरैरतिमहावेगैर्वेगवान्रावणात्मजः/सौमित्रिमिन्द्रजिद्युद्धेविव्याधशुभलक्षणम्/सशरैरतिविद्धाङ्गोरुधिरेणसमुक्षितः/शुशुभेलक्ष्मणःश्रीमान्विधूमइवपावकः/इन्द्रजित्त्वात्मनःकर्मप्रसमीक्ष्याधिगम्यच/विनद्यसुमहानादमिदंवचनमब्रवीत्/पत्रिणःशितधारास्तेशरामत्कार्मुकच्युताः/आदास्यन्तेऽद्यसौमित्रेजीवितंजीवितान्तगाः/अद्यगोमायुसंघाश्चश्येनसंघाश्चलक्ष्मण/गृध्राश्चनिपतन्तुत्वांगतासुंनिहतंमया/क्षत्रबन्धुःसदानार्योरामःपरमदुर्मतिः/भक्तंभ्रातरमद्यैवत्वांद्रक्ष्यतिमयाहतम्/विशस्तकवचंभूमौव्यपविद्धशरासनम्/हृतोत्तमाङ्गंसौमित्रेत्वामद्यनिहतंमया/इतिब्रुवाणंसंरब्धंपरुषंरावणात्मजम्/हेतुमद्वाक्यमत्यर्थंलक्ष्मणःप्रत्युवाचह/अकृत्वाकत्थसेकर्मकिमर्थमिहराक्षस/कुरुतत्कर्मयेनाहंश्रद्दध्यांतवकत्थनम्/अनुक्त्वापरुषंवाक्यंकिंचिदप्यनवक्षिपन्/अविकत्थन्वधिष्यामित्वांपश्यपुरुषादन/इत्युक्त्वापञ्चनाराचानाकर्णापूरिताञ्शरान्/निचखानमहावेगांल्लक्ष्मणोराक्षसोरसि/सशरैराहतस्तेनसरोषोरावणात्मजः/सुप्रयुक्तैस्त्रिभिर्बाणैःप्रतिविव्याधलक्ष्मणम्/सबभूवमहाभीमोनरराक्षससिंहयोः/विमर्दस्तुमुलोयुद्धेपरस्परवधैषिणोः/उभौहिबलसंपन्नावुभौविक्रमशालिनौ/उभावपिसुविक्रान्तौसर्वशस्त्रास्त्रकोविदौ/उभौपरमदुर्जेयावतुल्यबलतेजसौ/युयुधातेमहावीरौग्रहाविवनभोगतौ/बलवृत्राविवहितौयुधिवैदुष्प्रधर्षणौ/युयुधातेमहात्मानौतदाकेसरिणाविव/बहूनवसृजन्तौहिमार्गणौघानवस्थितौ/नरराक्षससिंहौतौप्रहृष्टावभ्ययुध्यताम्68836/सुसंप्रहृष्टौनरराक्षसोत्तमौ॑जयैषिणौमार्गणचापधारिणौ/परस्परंतौप्रववर्षतुर्भृशं॑शरौघवर्षेणबलाहकाविव/ततःशरंदाशरथिःसंधायामित्रकर्शनः/ससर्जराक्षसेन्द्रायक्रुद्धःसर्पइवश्वसन्68837/तस्यज्यातलनिर्घोषंसश्रुत्वारावणात्मजः/विवर्णवदनोभूत्वालक्ष्मणंसमुदैक्षत/तंविषण्णमुखंदृष्ट्वाराक्षसंरावणात्मजम्/सौमित्रिंयुद्धसंसक्तंप्रत्युवाचविभीषणः/निमित्तान्यनुपश्यामियान्यस्मिन्रावणात्मजे/त्वरतेनमहाबाहोभग्नएषनसंशयः/ततःसंधायसौमित्रिःशरानग्निशिखोपमान्/मुमोचनिशितांस्तस्मैसर्वानिवविषोल्बणान्/शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतःशरैः/मुहूर्तमभवन्मूढःसर्वसंक्षुभितेन्द्रियः/उपलभ्यमुहूर्तेनसंज्ञांप्रत्यागतेन्द्रियः/ददर्शावस्थितंवीरंवीरोदशरथात्मजम्/सोऽभिचक्रामसौमित्रिंरोषात्संरक्तलोचनः/अब्रवीच्चैनमासाद्यपुनःसपरुषंवचः/किंनस्मरसितद्युद्धेप्रथमेमत्पराक्रमम्/निबद्धस्त्वंसहभ्रात्रायदायुधिविचेष्टसे/युवाखलुमहायुद्धेशक्राशनिसमैःशरैः/शायिनौप्रथमंभूमौविसंज्ञौसपुरःसरौ/स्मृतिर्वानास्तितेमन्येव्यक्तंवायमसादनम्/गन्तुमिच्छसियस्मात्त्वंमांधर्षयितुमिच्छसि/यदितेप्रथमेयुद्धेनदृष्टोमत्पराक्रमः/अद्यत्वांदर्शयिष्यामितिष्ठेदानींव्यवस्थितः/इत्युक्त्वासप्तभिर्बाणैरभिविव्याधलक्ष्मणम्/दशभिश्चहनूमन्तंतीक्ष्णधारैःशरोत्तमैः/ततःशरशतेनैवसुप्रयुक्तेनवीर्यवान्/क्रोधाद्द्विगुणसंरब्धोनिर्बिभेदविभीषणम्/तद्दृष्ट्वेन्द्रजितःकर्मकृतंरामानुजस्तदा/अचिन्तयित्वाप्रहसन्नैतत्किंचिदितिब्रुवन्/मुमोचसशरान्घोरान्संगृह्यनरपुंगवः/अभीतवदनःक्रुद्धोरावणिंलक्ष्मणोयुधि/नैवंरणगतःशूराःप्रहरन्तिनिशाचर/लघवश्चाल्पवीर्याश्चसुखाहीमेशरास्तव/नैवंशूरास्तुयुध्यन्तेसमरेजयकाङ्क्षिणः/इत्येवंतंब्रुवाणस्तुशरवर्षैरवाकिरत्/तस्यबाणैस्तुविध्वस्तंकवचंहेमभूषितम्/व्यशीर्यतरथोपस्थेताराजालमिवाम्बरात्/विधूतवर्मानाराचैर्बभूवसकृतव्रणः/इन्द्रजित्समरेशूरःप्ररूढइवसानुमान्/अभीक्ष्णंनिश्वसन्तौहियुध्येतांतुमुलंयुधि/शरसंकृत्तसर्वाङ्गोसर्वतोरुधिरोक्षितौ/अस्त्राण्यस्त्रविदांश्रेष्ठौदर्शयन्तौपुनःपुनः/शरानुच्चावचाकारानन्तरिक्षेबबन्धतुः/व्यपेतदोषमस्यन्तौलघुचित्रंचसुष्ठुच/उभौतुतुमुलंघोरंचक्रतुर्नरराक्षसौ/तयोःपृथक्पृथग्भीमःशुश्रुवेतलनिस्वनः/सुघोरयोर्निष्टनतोर्गगनेमेघयोरिव/तेगात्रयोर्निपतितारुक्मपुङ्खाःशरायुधि/असृग्दिग्धाविनिष्पेतुर्विविशुर्धरणीतलम्/अन्यैःसुनिशितैःशस्त्रैराकाशेसंजघट्टिरे/बभञ्जुश्चिच्छिदुश्चापितयोर्बाणाःसहस्रशः/सबभूवरणेघोरस्तयोर्बाणमयश्चयः/अग्निभ्यामिवदीप्ताभ्यांसत्रेकुशमयश्चयः/तयोःकृतव्रणौदेहौशुशुभातेमहात्मनोः/सपुष्पाविवनिष्पत्रौवनेशाल्मलिकुंशुकौ/चक्रतुस्तुमुलंघोरंसंनिपातंमुहुर्मुहुः/इन्द्रजिल्लक्ष्मणश्चैवपरस्परजयैषिणौ/लक्ष्मणोरावणिंयुद्धेरावणिश्चापिलक्ष्मणम्/अन्योन्यंतावभिघ्नन्तौनश्रमंप्रत्यपद्यताम्/बाणजालैःशरीरस्थैरवगाढैस्तरस्विनौ/शुशुभातेमहावीरौविरूढाविवपर्वतौ/तयोरुधिरसिक्तानिसंवृतानिशरैर्भृशम्/बभ्राजुःसर्वगात्राणिज्वलन्तइवपावकाः/तयोरथमहान्कालोव्यतीयाद्युध्यमानयोः/नचतौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः/अथसमरपरिश्रमंनिहन्तुं॑समरमुखेष्वजितस्यलक्ष्मणस्य/प्रियहितमुपपादयन्महौजाः॑समरमुपेत्यविभीषणोऽवतस्थे68877/युध्यमानौतुतौदृष्ट्वाप्रसक्तौनरराक्षसौ/शूरःसरावणभ्रातातस्थौसंग्राममूर्धनि6891/ततोविस्फारयामासमहद्धनुरवस्थितः/उत्ससर्जचतीक्ष्णाग्रान्राक्षसेषुमहाशरान्/तेशराःशिखिसंकाशानिपतन्तःसमाहिताः/राक्षसान्दारयामासुर्वज्राइवमहागिरीन्/विभीषणस्यानुचरास्तेऽपिशूलासिपट्टसैः/चिच्छेदुःसमरेवीरान्राक्षसान्राक्षसोत्तमाः/राक्षसैस्तैःपरिवृतःसतदातुविभीषणः/बभौमध्येप्रहृष्टानांकलभानामिवद्विपः/ततःसंचोदयानोवैहरीन्रक्षोरणप्रियान्/उवाचवचनंकालेकालज्ञोरक्षसांवरः/एकोऽयंराक्षसेन्द्रस्यपरायणमिवस्थितः/एतच्छेषंबलंतस्यकिंतिष्ठतहरीश्वराः/अस्मिन्विनिहतेपापेराक्षसेरणमूर्धनि/रावणंवर्जयित्वातुशेषमस्यबलंहतम्/प्रहस्तोनिहतोवीरोनिकुम्भश्चमहाबलः/कुम्भकर्णश्चकुम्भश्चधूम्राक्षश्चनिशाचरः/अकम्पनःसुपार्श्वश्चचक्रमालीचराक्षसः/कम्पनःसत्त्ववन्तश्चदेवान्तकनरान्तकौ/एतान्निहत्यातिबलान्बहून्राक्षससत्तमान्/बाहुभ्यांसागरंतीर्त्वालङ्घ्यतांगोष्पदंलघु/एतावदिहशेषंवोजेतव्यमिहवानराः/हताःसर्वेसमागम्यराक्षसाबलदर्पिताः/अयुक्तंनिधनंकर्तुंपुत्रस्यजनितुर्मम/घृणामपास्यरामार्थेनिहन्यांभ्रातुरात्मजम्/हन्तुकामस्यमेबाष्पंचक्शुश्चैवनिरुध्यते/तदेवैषमहाबाहुर्लक्ष्मणःशमयिष्यति/वानराघ्नन्तुंसंभूयभृत्यानस्यसमीपगान्/इतितेनातियशसाराक्षसेनाभिचोदिताः/वानरेन्द्राजहृषिरेलाङ्गलानिचविव्यधुः/ततस्तेकपिशार्दूलाःक्ष्वेडन्तश्चमुहुर्मुहुः/मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेवबर्हिणः/जाम्बवानपितैःसर्वैःस्वयूथैरभिसंवृतः/अश्मभिस्ताडयामासनखैर्दन्तैश्चराक्षसान्/निघ्नन्तमृक्षाधिपतिंराक्षसास्तेमहाबलाः/परिवव्रुर्भयंत्यक्त्वातमनेकविधायुधाः/शरैःपरशुभिस्तीक्ष्णैःपट्टसैर्यष्टितोमरैः/जाम्बवन्तंमृधेजघ्नुर्निघ्नन्तंराक्षसींचमूम्/ससंप्रहारस्तुमुलःसंजज्ञेकपिराक्षसाम्/देवासुराणांक्रुद्धानांयथाभीमोमहास्वनः/हनूमानपिसंक्रुद्धःसालमुत्पाट्यपर्वतात्/रक्षसांकदनंचक्रेसमासाद्यसहस्रशः/सदत्त्वातुमुलंयुद्धंपितृव्यस्येन्द्रजिद्युधि/लक्ष्मणंपरवीरघ्नंपुनरेवाभ्यधावत/तौप्रयुद्धौतदावीरौमृधेलक्ष्मणराक्षसौ/शरौघानभिवर्षन्तौजघ्नतुस्तौपरस्परम्/अभीक्ष्णमन्तर्दधतुःशरजालैर्महाबलौ/चन्द्रादित्याविवोष्णान्तेयथामेघैस्तरस्विनौ/नह्यादानंनसंधानंधनुषोवापरिग्रहः/नविप्रमोक्षोबाणानांनविकर्षोनविग्रहः/नमुष्टिप्रतिसंधानंनलक्ष्यप्रतिपादनम्/अदृश्यततयोस्तत्रयुध्यतोःपाणिलाघवात्/चापवेगप्रमुक्तैश्चबाणजालैःसमन्ततः/अन्तरिक्षेऽभिसंछन्नेनरूपाणिचकाशिरे/तमसापिहितंसर्वमासीद्भीमतरंमहत्/नतदानीइंववौवायुर्नजज्वालचपावकः/स्वस्त्यस्तुलोकेभ्यइतिजजल्पश्चमहर्षयः/संपेतुश्चात्रसंप्राप्तागन्धर्वाःसहचारणैः/अथराक्षससिंहस्यकृष्णान्कनकभूषणान्/शरैश्चतुर्भिःसौमित्रिर्विव्याधचतुरोहयान्/ततोऽपरेणभल्लेनसूतस्यविचरिष्यतः/लाघवाद्राघवःश्रीमाञ्शिरःकायादपाहरत्/निहतंसारथिंदृष्ट्वासमरेरावणात्मजः/प्रजहौसमरोद्धर्षंविषण्णःसबभूवह/विषण्णवदनंदृष्ट्वाराक्षसंहरियूथपाः/ततःपरमसंहृष्टोलक्ष्मणंचाभ्यपूजयन्/ततःप्रमाथीशरभोरभसोगन्धमादनः/अमृष्यमाणाश्चत्वारश्चक्रुर्वेगंहरीश्वराः/तेचास्यहयमुख्येषुतूर्णमुत्पत्यवानराः/चतुर्षुसुमहावीर्यानिपेतुर्भीमविक्रमाः/तेषामधिष्ठितानांतैर्वानरैःपर्वतोपमैः/मुखेभ्योरुधिरंव्यक्तंहयानांसमवर्तत/तेनिहत्यहयांस्तस्यप्रमथ्यचमहारथम्/पुनरुत्पत्यवेगेनतस्थुर्लक्ष्मणपार्श्वतः/सहताश्वादवप्लुत्यरथान्मथितसारथेः/शरवर्षेणसौमित्रिमभ्यधावतरावणिः/ततोमहेन्द्रप्रतिमंह्सलक्ष्मणः॑पदातिनंतंनिशितैःशरोत्तमैः/सृजन्तमादौनिशिताञ्शरोत्तमान्॑भृशंतदाबाणगणैर्न्यवारयत्68953/सहताश्वोमहातेजाभूमौतिष्ठन्निशाचरः/इन्द्रजित्परमक्रुद्धःसंप्रजज्वालतेजसा6901/तौधन्विनौजिघांसन्तावन्योन्यमिषुभिर्भृशम्/विजयेनाभिनिष्क्रान्तौवनेगजवृषाविव/निबर्हयन्तश्चान्योन्यंतेराक्षसवनौकसः/भर्तारंनजहुर्युद्धेसंपतन्तस्ततस्ततः/सलक्ष्मणंसमुद्दिश्यपरंलाघवमास्थितः/ववर्षशरवर्षाणिवर्षाणीवपुरंदरः/मुक्तमिन्द्रजितातत्तुशरवर्षमरिंदमः/अवारयदसंभ्रान्तोलक्ष्मणःसुदुरासदम्/अभेद्यकचनंमत्वालक्ष्मणंरावणात्मजः/ललाटेलक्ष्मणंबाणैःसुपुङ्खैस्त्रिभिरिन्द्रजित्/अविध्यत्परमक्रुद्धःशीघ्रमस्त्रंप्रदर्शयन्/तैःपृषत्कैर्ललाटस्थैःशुशुभेरघुनन्दनः/रणाग्रेसमरश्लाघीत्रिशृङ्गइवपर्वतः/सतथाप्यर्दितोबाणैराक्षसेनमहामृधे/तमाशुप्रतिविव्याधलक्ष्मणःपनभिःशरैः/लक्ष्मणेन्द्रजितौवीरौमहाबलशरासनौ/अन्योन्यंजघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ/तौपरस्परमभ्येत्यसर्वगात्रेषुधन्विनौ/घोरैर्विव्यधतुर्बाणैःकृतभावावुभौजये/तस्मैदृढतरंक्रुद्धोहताश्वायविभीषणः/वज्रस्पर्शसमान्पञ्चससर्जोरसिमार्गणान्/तेतस्यकायंनिर्भिद्यरुक्मपुङ्खानिमित्तगाः/बभूवुर्लोहितादिग्धारक्टाइवमहोरगाः/सपितृव्यस्यसंक्रुद्धइन्द्रजिच्छरमाददे/उत्तमंरक्षसांमध्येयमदत्तंमहाबलः/तंसमीक्ष्यमहातेजामहेषुंतेनसंहितम्/लक्ष्मणोऽप्याददेबाणमन्यंभीमपराक्रमः/कुबेरेणस्वयंस्वप्नेयद्दत्तममितात्मना/दुर्जयंदुर्विषह्यंचसेन्द्रैरपिसुरासुरैः/ताभ्यांतौधनुषिश्रेष्ठेसंहितौसायकोत्तमौ/विकृष्यमाणौवीराभ्यांभृशंजज्वलतुःश्रिया/तौभासयन्तावाकाशंधनुर्भ्यांविशिखौच्युतौ/मुखेनमुखमाहत्यसंनिपेततुरोजसा/तौमहाग्रहसंकाशावन्योन्यंसंनिपत्यच/संग्रामेशतधायातौमेदिन्यांविनिपेततुः/शरौप्रतिहतौदृष्ट्वातावुभौरणमूर्धनि/व्रीडितोजातरोषौचलक्ष्मणेन्द्रजितावुभौ/सुसंरब्धस्तुसौमित्रिरस्त्रंवारुणमाददे/रौद्रंमहेद्रजिद्युद्धेव्यसृजद्युधिविष्ठितः/तयोःसुतुमुलंयुद्धंसंबभूवाद्भुतोपमम्/गगनस्थानिभूतानिलक्ष्मणंपर्यवारयन्/भैरवाभिरुतेभीमेयुद्धेवानरराक्षसाम्/भूतैर्बहुभिराकाशंविस्मितैरावृतंबभौ/ऋषयःपितरोदेवागन्धर्वागरुणोरगाः/शतक्रतुंपुरस्कृत्यररक्षुर्लक्ष्मणंरणे/अथान्यंमार्गणश्रेष्ठंसंदधेरावणानुजः/हुताशनसमस्पर्शंरावणात्मजदारुणम्/सुपत्रमनुवृत्ताङ्गंसुपर्वाणंसुसंस्थितम्/सुवर्णविकृतंवीरःशरीरान्तकरंशरम्/दुरावारंदुर्विषहंराक्षसानांभयावहम्/आशीविषविषप्रख्यंदेवसंघैःसमर्चितम्/येनशक्रोमहातेजादानवानजयत्प्रभुः/पुरादेवासुरेयुद्धेवीर्यवान्हरिवाहनः/तदैन्द्रमस्त्रंसौमित्रिःसंयुगेष्वपराजितम्/शरश्रेष्ठंधनुःश्रेष्ठेनरश्रेष्ठोऽभिसंदधे/संधायामित्रदलनंविचकर्षशरासनम्/सज्यमायम्यदुर्धर्शःकालोलोकक्षयेयथा/संधायधनुषिश्रेष्ठेविकर्षन्निदमब्रवीत्/लक्ष्मीवांल्लक्ष्मणोवाक्यमर्थसाधकमात्मनः/धर्मात्मासत्यसंधश्चरामोदाशरथिर्यदि/पौरुषेचाप्रतिद्वन्द्वस्तदेनंजहिरावणिम्/इत्युक्त्वाबाणमाकर्णंविकृष्यतमजिह्मगम्/लक्ष्मणःसमरेवीरःससर्जेन्द्रजितंप्रति/ऐन्द्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा/तच्छिरःसशिरस्त्राणंश्रीमज्ज्वलितकुण्डलम्/प्रमथ्येन्द्रजितःकायात्पपातधरणीतले/तद्राक्षसतनूजस्यछिन्नस्कन्धंशिरोमहत्/तपनीयनिभंभूमौददृशेरुधिरोक्षितम्/हतस्तुनिपपाताशुधरण्यांरावणात्मजः/कवचीसशिरस्त्राणोविध्वस्तःसशरासनः/चुक्रुशुस्तेततःसर्वेवानराःसविभीषणाः/हृष्यन्तोनिहतेतस्मिन्देवावृत्रवधेयथा/अथान्तरिक्षेभूतानामृषीणांचमहात्मनाम्/अभिजज्ञेचसंनादोगन्धर्वाप्सरसामपि/पतितंसमभिज्ञायराक्षसीसामहाचमूः/वध्यमानादिशोभेजेहरिभिर्जितकाशिभिः/वनरैर्वध्यमानास्तेशस्त्राण्युत्सृज्यराक्षसाः/लङ्कामभिमुखाःसर्वेनष्टसंज्ञाःप्रधाविताः/दुद्रुवुर्बहुधाभीताराक्षसाःशतशोदिशः/त्यक्त्वाप्रहरणान्सर्वेपट्टसासिपरश्वधान्/केचिल्लङ्कांपरित्रस्ताःप्रविष्टावानरार्दिताः/समुद्रेपतिताःकेचित्केचित्पर्वतमाश्रिताः/हतमिन्द्रजितंदृष्ट्वाशयानंसमरक्षितौ/राक्षसानांसहस्रेषुनकश्चित्प्रत्यदृश्यत/यथास्तंगतआदित्येनावतिष्ठन्तिरश्मयः/तथातस्मिन्निपतितेराक्षसास्तेगतादिशः/शान्तरक्श्मिरिवादित्योनिर्वाणइवपावकः/सबभूवमहातेजाव्यपास्तगतजीवितः/प्रशान्तपीडाबहुलोविनष्टारिःप्रहर्षवान्/बभूवलोकःपतितेराक्षसेन्द्रसुतेतदा/हर्षंचशक्रोभगवान्सहसर्वैःसुरर्षभैः/जगामनिहतेतस्मिन्राक्षसेपापकर्मणि/शुद्धाआपोनभश्चैवजहृषुर्दैत्यदानवाः/आजग्मुःपतितेतस्मिन्सर्वलोकभयावहे/ऊचुश्चसहिताःसर्वेदेवगन्धर्वदानवाः/विज्वराःशान्तकलुषाब्राह्मणाविचरन्त्विति/ततोऽभ्यनन्दन्संहृष्टाःसमरेहरियूथपाः/तमप्रतिबलंदृष्ट्वाहतंनैरृतपुंगवम्/विभीषणोहनूमांश्चजाम्बवांश्चर्क्षयूथपः/विजयेनाभिनन्दन्तस्तुष्टुवुश्चापिलक्ष्मणम्/क्ष्वेडन्तश्चनदन्तश्चगर्जन्तश्चप्लवंगमाः/लब्धलक्षारघुसुतंपरिवार्योपतस्थिरे/लाङ्गूलानिप्रविध्यन्तःस्फोटयन्तश्चवानराः/लक्ष्मणोजयतीत्येवंवाक्यंव्यश्रावयंस्तदा/अन्योन्यंचसमाश्लिष्यकपयोहृष्टमानसाः/चक्रुरुच्चावचगुणाराघवाश्रयजाःकथाः/तदसुकरमथाभिवीक्ष्यहृष्टाः॑प्रियसुहृदोयुधिलक्ष्मणस्यकर्म/परममुपलभन्मनःप्रहर्षं॑विनिहतमिन्द्ररिपुंनिशम्यदेवाः69094/रुधिरक्लिन्नगात्रस्तुलक्ष्मणःशुभलक्षणः/बभूवहृष्टस्तंहत्वाशक्रजेतारमाहवे6911/ततःसजाम्बवन्तंचहनूमन्तंचवीर्यवान्/संनिवर्त्यमहातेजास्तांश्चसर्वान्वनौकसः/आजगामततःशीघ्रंयत्रसुग्रीवराघवौ/विभीषणमवष्टभ्यहनूमन्तंचलक्ष्मणः/ततोराममभिक्रम्यसौमित्रिरभिवाद्यच/तस्थौभ्रातृसमीपस्थःशक्रस्येन्द्रानुजोयथा/आचचक्षेतदावीरोघोरमिन्द्रजितोवधम्/रावणस्तुशिरश्छिन्नंलक्ष्मणेनमहात्मना/न्यवेदयतरामायतदाहृष्टोविभीषणः/उपवेश्यतमुत्सङ्गेपरिष्वज्यावपीडितम्/मूर्ध्निचैनमुपाघ्रायभूयःसंस्पृश्यचत्वरन्/उवाचलक्ष्मणंवाक्यमाश्वास्यपुरुषर्षभः/कृतंपरमकल्याणंकर्मदुष्करकारिणा/निरमित्रःकृतोऽस्म्यद्यनिर्यास्यतिहिरावणः/बलव्यूहेनमहताश्रुत्वापुत्रंनिपातितम्/तंपुत्रवधसंतप्तंनिर्यान्तंराक्षसाधिपम्/बलेनावृत्यमहतानिहनिष्यामिदुर्जयम्/त्वयालक्ष्मणनाथेनसीताचपृथिवीचमे/नदुष्प्रापाहतेत्वद्यशक्रजेतरिचाहवे/सतंभ्रातरमाश्वास्यपारिष्वज्यचराघवः/रामःसुषेणंमुदितःसमाभाष्येदमब्रवीत्/सशल्योऽयंमहाप्राज्ञःसौमित्रिर्मित्रवत्सलः/यथाभवतिसुस्वस्थस्तथात्वंसमुपाचर/विशल्यःक्रियतांक्षिप्रंसौमित्रिःसविभीषणः/कृषवानरसैन्यानांशूराणांद्रुमयोधिनाम्/येचान्येऽत्रचयुध्यन्तःसशल्याव्रणिनस्तथा/तेऽपिसर्वेप्रयत्नेनक्रियन्तांसुखिनस्त्वया/एवमुक्तःसरामेणमहात्माहरियूथपः/लक्ष्मणायददौनस्तःसुषेणःपरमौषधम्/सतस्यगन्धमाघ्रायविशल्यःसमपद्यत/तदानिर्वेदनश्चैवसंरूढव्रणएवच/विभीषणमुखानांचसुहृदांराघवाज्ञया/सर्ववानरमुख्यानांचिकित्सांसतदाकरोत्/ततःप्रकृतिमापन्नोहृतशल्योगतव्यथः/सौमित्रिर्मुदितस्तत्रक्षणेनविगतज्वरः/तथैवरामःप्लवगाधिपस्तदा॑विभीषणश्चर्क्षपतिश्चजाम्बवान्/अवेक्ष्यसौमित्रिमरोगमुत्थितं॑मुदाससैन्यःसुचिरंजहर्षिरे/अपूजयत्कर्मसलक्ष्मणस्य॑सुदुष्करंदाशरथिर्महात्मा/हृष्टाबभूवुर्युधियूथपेन्द्रा॑निशम्यतंशक्रजितंनिपातितम्69129/ततःपौलस्त्यसचिवाःश्रुत्वाचेन्द्रजितंहतम्/आचचक्षुरभिज्ञायदशग्रीवायसव्यथाः6921/युद्धेहतोमहाराजलक्ष्मणेनतवात्मजः/विभीषणसहायेनमिषतांनोमहाद्युते/शूरःशूरेणसंगम्यसंयुगेष्वपराजितः/लक्ष्णनेनहतःशूरःपुत्रस्तेविबुधेन्द्रजित्/सतंप्रतिभयंश्रुत्वावधंपुत्रस्यदारुणम्/घोरमिन्द्रजितःसंख्येकश्मलंप्राविशन्महत्/उपलभ्यचिरात्संज्ञांराजाराक्षसपुंगवः/पुत्रशोकार्दितोदीनोविललापाकुलेन्द्रियः/हाराक्षसचमूमुख्यममवत्समहारथ/जित्वेन्द्रंकथमद्यत्वंलक्ष्मणस्यवशंगतः/ननुत्वमिषुभिःक्रुद्धोभिन्द्याःकालान्तकावपि/मन्दरस्यापिशृङ्गाणिकिंपुनर्लक्ष्मणंरणे/अद्यवैवस्वतोराजाभूयोबहुमतोमम/येनाद्यत्वंमहाबाहोसंयुक्तःकालधर्मणा/एषपन्थाःसुयोधानांसर्वामरगणेष्वपि/यःकृतेहन्यतेभर्तुःसपुमान्स्वर्गमृच्छति/अद्यदेवगणाःसर्वेलोकपालास्तथर्षयः/हतमिन्द्रजितंदृष्ट्वासुखंस्वप्स्यन्तिनिर्भयाः/अद्यलोकास्त्रयःकृत्स्नाःपृथिवीचसकानना/एकेनेन्द्रजिताहीनाशूण्येवप्रतिभातिमे/अद्यनैरृतकन्यायांश्रोष्याम्यन्तःपुरेरवम्/करेणुसंघस्ययथानिनादंगिरिगह्वरे/यौवराज्यंचलङ्कांचरक्षांसिचपरंतप/मातरंमांचभार्यांचक्वगतोऽसिविहायनः/ममनामत्वयावीरगतस्ययमसादनम्/प्रेतकार्याणिकार्याणिविपरीतेहिवर्तसे/सत्वंजीवतिसुग्रीवेराघवेचसलक्ष्मणे/ममशल्यमनुद्धृत्यक्वगतोऽसिविहायनः/एवमादिविलापार्तंरावणंराक्षसाधिपम्/आविवेशमहान्कोपःपुत्रव्यसनसंभवः/घोरंप्रकृत्यारूपंतत्तस्यक्रोधाग्निमूर्छितम्/बभूवरूपंरुद्रस्यक्रुद्धस्येवदुरासदम्/तस्यक्रुद्धस्यनेत्राभ्यांप्रापतन्नस्रबिन्दवः/दीप्ताभ्यामिवदीपाभ्यांसार्चिषःस्नेहबिन्दवः/दन्तान्विदशतस्तस्यश्रूयतेदशनस्वनः/यन्त्रस्यावेष्ट्यमानस्यमहतोदानवैरिव/कालाग्निरिवसंक्रुद्धोयांयांदिशमवैक्षत/तस्यांतस्यांभयत्रस्ताराक्षसाःसंनिलिल्यिरे/तमन्तकमिवक्रुद्धंचराचरचिखादिषुम्/वीक्षमाणंदिशःसर्वाराक्षसानोपचक्रमुः/ततःपरमसंक्रुद्धोरावणोराक्षसाधिपः/अब्रवीद्रक्षसांमध्येसंस्तम्भयिषुराहवे/मयावर्षसहस्राणिचरित्वादुश्चरंतपः/तेषुतेष्ववकाशेषुस्वयम्भूःपरितोषितः/तस्यैवतपसोव्युष्ट्याप्रसादाच्चस्वयम्भुवः/नासुरेभ्योनदेवेभ्योभयंममकदाचन/कवचंब्रह्मदत्तंमेयदादित्यसमप्रभम्/देवासुरविमर्देषुनभिन्नंवज्रशक्तिभिः/तेनमामद्यसंयुक्तंरथस्थमिहसंयुगे/प्रतीयात्कोऽद्यमामाजौसाक्षादपिपुरंदरः/यत्तदाभिप्रसन्नेनसशरंकार्मुकंमहत्/देवासुरविमर्देषुममदत्तंस्वयम्भुवा/अद्यतूर्यशतैर्भीमंधनुरुत्थाप्यतांमहत्/रामलक्ष्मणयोरेववधायपरमाहवे/सपुत्रवधसंतप्तःशूरःक्रोधवशंगतः/समीक्ष्यरावणोबुद्ध्यासीतांहन्तुंव्यवस्यत/प्रत्यवेक्ष्यतुताम्राक्षःसुघोरोघोरदर्शनान्/दीनोदीनस्वरान्सर्वांस्तानुवाचनिशाचरान्/माययाममवत्सेनवञ्चनार्थंवनौकसाम्/किंचिदेवहतंतत्रसीतेयमितिदर्शितम्/तदिदंसत्यमेवाहंकरिष्येप्रियमात्मनः/वैदेहींनाशयिष्यामिक्षत्रबन्धुमनुव्रताम्/इत्येवमुक्त्वासचिवान्खड्गमाशुपरामृशत्/उद्धृत्यगुणसंपन्नंविमलाम्बरवर्चसं/निष्पपातसवेगेनसभायाःसचिवैर्वृतः/रावणःपुत्रशोकेनभृशमाकुलचेतनः/संक्रुद्धःखड्गमादायसहसायत्रमैथिली/व्रजन्तंराक्षसंप्रेक्ष्यसिंहनादंप्रचुक्रुशुः/ऊचुश्चान्योन्यमाश्लिष्यसंक्रुद्धंप्रेक्ष्यराक्षसाः/अद्यैनंतावुभौदृष्ट्वाभ्रातरौप्रव्यथिष्यतः/लोकपालाहिचत्वारःक्रुद्धेनानेननिर्जिताः/बहवःशत्रवश्चान्येसंयुगेष्वभिपातिताः/तेषांसंजल्पमानानामशोकवनिकांगताम्/अभिदुद्राववैदेहींरावणःक्रोधमूर्छितः/वार्यमाणःसुसंक्रुद्धःसुहृद्भिर्हितबुद्धिभिः/अभ्यधावतसंक्रुद्धःखेग्रहोरोहिणीमिव/मैथिलीरक्ष्यमाणातुराक्षसीभिरनिन्दिता/ददर्शराक्षसंक्रुद्धंनिस्त्रिंशवरधारिणम्/तंनिशाम्यसनिस्त्रिंशंव्यथिताजनकात्मजा/निवार्यमाणंबहुशःसुहृद्भिरनिवर्तिनम्/यथायंमामभिक्रुद्धःसमभिद्रवतिस्वयम्/वधिष्यतिसनाथांमामनाथामिवदुर्मतिः/बहुशश्चोदयामासभर्तारंमामनुव्रताम्/भार्याभवरमस्येतिप्रत्याख्यातोऽभवन्मया/सोऽयंमामनुपस्थानाद्व्यक्तंनैराश्यमागतः/क्रोधमोहसमाविष्टोनिहन्तुंमांसमुद्यतः/अथवातौनरव्याघ्रौभ्रातरौरामलक्ष्मणौ/मन्निमित्तमनार्येणसमरेऽद्यनिपातितौ/अहोधिन्मन्निमित्तोऽयंविनाशोराजपुत्रयोः/हनूमतोहितद्वाक्यंनकृतंक्षुद्रयामया/यद्यहंतस्यपृष्ठेनतदायासमनिन्दिता/नाद्यैवमनुशोचेयंभर्तुरङ्कगतासती/मन्येतुहृदयंतस्याःकौसल्यायाःफलिष्यति/एकपुत्रायदापुत्रंविनष्टंश्रोष्यतेयुधि/साहिजन्मचबाल्यंचयौवनंचमहात्मनः/धर्मकार्याणिरूपंचरुदतीसंस्रमिष्यति/निराशानिहतेपुत्रेदत्त्वाश्राद्धमचेतना/अग्निमारोक्ष्यतेनूनमपोवापिप्रवेक्ष्यति/धिगस्तुकुब्जामसतींमन्थरांपापनिश्चयाम्/यन्निमित्तमिदंदुःखंकौसल्याप्रतिपत्स्यते/इत्येवंमैथिलींदृष्ट्वाविलपन्तींतपस्विनीम्/रोहिणीमिवचन्द्रेणविनाग्रहवशंगताम्/सुपार्श्वोनाममेधावीरावणंराक्षसेश्वरम्/निवार्यमाणंसचिवैरिदंवचनमब्रवीत्/कथंनामदशग्रीवसाक्षाद्वैश्रवणानुज/हन्तुमिच्छसिवैदेहींक्रोधाद्धर्ममपास्यहि/वेदविद्याव्रतस्नातःस्वधर्मनिरतःसदा/स्त्रियाःकस्माद्वधंवीरमन्यसेराक्षसेश्वर/मैथिलींरूपसंपन्नांप्रत्यवेक्षस्वपार्थिव/त्वमेवतुसहास्माभीराघवेक्रोधमुत्सृज/अभ्युत्थानंत्वमद्यैवकृष्णपक्षचतुर्दशीम्/कृत्वानिर्याह्यमावास्यांविजयायबलैर्वृतः/शूरोधीमान्रथीखड्गीरथप्रवरमास्थितः/हत्वादाशरथिंरामंभवान्प्राप्स्यतिमैथिलीम्/सतद्दुरात्मासुहृदानिवेदितं॑वचःसुधर्म्यंप्रतिगृह्यरावणः/गृहंजगामाथततश्चवीर्यवान्॑पुनःसभांचप्रययौसुहृद्वृतः69268/सप्रविश्यसभांराजादीनःपरमदुःखितः/निषसादासनेमुख्येसिंहःक्रुद्धइवश्वसन्6931/अब्रवीच्चतदासर्वान्बलमुख्यान्महाबलः/रावणःप्राञ्जलीन्वाक्यंपुत्रव्यसनकर्शितः/सर्वेभवन्तःसर्वेणहस्त्यश्वेनसमावृताः/निर्यान्तुरथसंघैश्चपादातैश्चोपशोभिताः/एकंरामंपरिक्षिप्यसमरेहन्तुमर्हथ/प्रहृष्टाशरवर्षेणप्रावृट्कालइवाम्बुदाः/अथवाहंशरैर्तीष्क्णैर्भिन्नगात्रंमहारणे/भवद्भिःश्वोनिहन्तास्मिरामंलोकस्यपश्यतः/इत्येवंराक्षसेन्द्रस्यवाक्यमादायराक्षसाः/निर्ययुस्तेरथैःशीघ्रंनागानीकैश्चसंवृताः/ससंग्रामोमहाभीमःसूर्यस्योदयनंप्रति/रक्षसांवानराणांचतुमुलःसमपद्यत/तेगदाभिर्विचित्राभिःप्रासैःखड्गैःपरश्वधैः/अन्योन्यंसमरेजघ्नुस्तदावानरराक्षसाः/मातंगरथकूलस्यवाजिमत्स्याध्वजद्रुमाः/शरीरसंघाटवहाःप्रसस्रुःशोणितापगाः/ध्वजवर्मरथानश्वान्नानाप्रहरणानिच/आप्लुत्याप्लुत्यसमरेवानरेन्द्राबभञ्जिरे/केशान्कर्णललाटांश्चनासिकाश्चप्लवंगमाः/रक्षसांदशनैस्तीक्ष्णैर्नखैश्चापिव्यकर्तयन्/एकैकंराक्षसंसंख्येशतंवानरपुंगवाः/अभ्यधावन्तफलिनंवृक्षंशकुनयोयथा/तथागदाभिर्गुर्वीभिःप्रासैःखड्गैःपरश्वधैः/निर्जघ्नुर्वानरान्घोरान्राक्षसाःपर्वतोपमाः/राक्षसैर्वध्यमानानांवानराणांमहाचमूः/शरण्यंशरणंयातारामंदशरथात्मजम्/ततोरामोमहातेजाधनुरादायवीर्यवान्/प्रविश्यराक्षसंसैन्यंशरवर्षंववर्षह/प्रविष्टंतुतदारामंमेघाःसूर्यमिवाम्बरे/नाभिजग्मुर्महाघोरंनिर्दहन्तंशराग्निना/कृतान्येवसुघोराणिरामेणरजनीचराः/रणेरामस्यददृशुःकर्माण्यसुकराणिच/चालयन्तंमहानीकंविधमन्तंमहारथान्/ददृशुस्तेनवैरामंवातंवनगतंयथा/छिन्नंभिन्नंशरैर्दग्धंप्रभग्नंशस्त्रपीडितम्/बलंरामेणददृशुर्नरमंशीघ्रकारिणम्/प्रहरन्तंशरीरेषुनतेपश्यन्तिराभवम्/इन्द्रियार्थेषुतिष्ठन्तंभूतात्मानमिवप्रजाः/एषहन्तिगजानीकमेषहन्तिमहारथान्/एषहन्तिशरैस्तीक्ष्णैःपदातीन्वाजिभिःसह/इतितेराक्षसाःसर्वेरामस्यसदृशान्रणे/अन्योन्यकुपिताजघ्नुःसादृश्याद्राघवस्यते/नतेददृशिरेरामंदहन्तमरिवाहिनीम्/मोहिताःपरमास्त्रेणगान्धर्वेणमहात्मना/तेतुरामसहस्राणिरणेपश्यन्तिराक्षसाः/पुनःपश्यन्तिकाकुत्स्थमेकमेवमहाहवे/भ्रमन्तींकाञ्चनींकोटिंकार्मुकस्यमहात्मनः/अलातचक्रप्रतिमांददृशुस्तेनराघवम्/शरीरनाभिसत्त्वार्चिःशरारंनेमिकार्मुकम्/ज्याघोषतलनिर्घोषंतेजोबुद्धिगुणप्रभम्/दिव्यास्त्रगुणपर्यन्तंनिघ्नन्तंयुधिराक्षसान्/ददृशूरामचक्रंतत्कालचक्रमिवप्रजाः/अनीकंदशसाहस्रंरथानांवातरंहसाम्/अष्टादशसहस्राणिकुञ्जराणांतरस्विनाम्/चतुर्दशसहस्राणिसारोहाणांचवाजिनाम्/पूर्णेशतसहस्रेद्वेराक्षसानांपदातिनाम्/दिवसस्याष्टमेभागेशरैरग्निशिखोपमैः/हतान्येकेनरामेणरक्षसांकामरूपिणाम्/तेहताश्वाहतरथाःश्रान्ताविमथितध्वजाः/अभिपेतुःपुरींलङ्कांहतशेषानिशाचराः/हतैर्गजपदात्यश्वैस्तद्बभूवरणाजिरम्/आक्रीडभूमीरुद्रस्यक्रुद्धस्येवपिनाकिनः/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/साधुसाध्वितिरामस्यतत्कर्मसमपूजयन्/अब्रवीच्चतदारामःसुग्रीवंप्रत्यनन्तरम्/एतदस्त्रबलंदिव्यंममवात्र्यम्बकस्यवा/निहत्यतांराक्षसवाहिनींतु॑रामस्तदाशक्रसमोमहात्मा/अस्त्रेषुशस्त्रेषुजितक्लमश्च॑संस्तूयतेदेवगणैःप्रहृष्टैः69339/तानिनागसहस्राणिसारोहाणांचवाजिनाम्/रथानांचाग्निवर्णानांसध्वजानांसहस्रशः6941/राक्षसानांसहस्राणिगदापरिघयोधिनाम्/काञ्चनध्वजचित्राणांशूराणांकामरूपिणाम्/निहतानिशरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः/रावणेनप्रयुक्तानिरामेणाक्लिष्टकर्मणा/दृष्ट्वाश्रुत्वाचसंभ्रान्ताहतशेषानिशाचराः/राक्षस्यश्चसमागम्यदीनाश्चिन्तापरिप्लुताः/विधवाहतपुत्राश्चक्रोशन्त्योहतबान्धवाः/राक्षस्यःसहसंगम्यदुःखार्ताःपर्यदेवयन्/कथंशूर्पणखावृद्धाकरालानिर्णतोदरी/आससादवनेरामंकन्दर्पमिवरूपिणम्/सुकुमारंमहासत्त्वंसर्वभूतहितेरतम्/तंदृष्ट्वालोकवध्यासाहीनरूपाप्रकामिता/कथंसर्वगुणैर्हीनागुणवन्तंमहौजसं/सुमुखंदुर्मुखीरामंकामयामासराक्षसी/जनस्यास्याल्पभाग्यत्वात्पलिनीश्वेतमूर्धजा/अकार्यमपहास्यंचसर्वलोकविगर्हितम्/राक्षसानांविनाशायदूषणस्यखरस्यच/चकाराप्रतिरूपासाराघवस्यप्रधर्षणम्/तन्निमित्तमिदंवैरंरावणेनकृतंमहत्/वधायनीतासासीतादशग्रीवेणरक्षसा/नचसीतांदशग्रीवःप्राप्नोतिजनकात्मजाम्/बद्धंबलवतावैरमक्षयंराघवेणह/वैदेहींप्रार्थयानंतंविराधंप्रेक्ष्यराक्षसं/हतमेकेनरामेणपर्याप्तंतन्निदर्शनम्/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/निहतानिजनस्थानेशरैरग्निशिखोपमैः/खरश्चनिहतःसंख्येदूषणस्त्रिशिरास्तथा/शरैरादित्यसंकाशैःपर्याप्तंतन्निदर्शनम्/हतोयोजनबाहुश्चकबन्धोरुधिराशनः/क्रोधार्तोविनदन्सोऽथपर्याप्तंतन्निदर्शनम्/जघानबलिनंरामःसहस्रनयनात्मजम्/बालिनंमेघसंकाशंपर्याप्तंतन्निदर्शनम्/ऋश्यमूकेवसञ्शैलेदीनोभग्नमनोरथः/सुग्रीवःस्थापितोराज्येपर्याप्तंतन्निदर्शनम्/धर्मार्थसहितंवाक्यंसर्वेषांरक्षसांहितम्/युक्तंविभीषणेनोक्तंमोहात्तस्यनरोचते/विभीषणवचःकुर्याद्यदिस्मधनदानुजः/श्मशानभूतादुःखार्तानेयंलङ्कापुरीभवेत्/कुम्भकर्णंहतंश्रुत्वाराघवेणमहाबलम्/प्रियंचेन्द्रजितंपुत्रंरावणोनावबुध्यते/ममपुत्रोममभ्राताममभर्तारणेहतः/इत्येवंश्रूयतेशब्दोराक्षसानांकुलेकुले/रथाश्चाश्वाश्चनागाश्चहताःशतसहस्रशः/रणेरामेणशूरेणराक्षसाश्चपदातयः/रुद्रोवायदिवाविष्णुर्महेन्द्रोवाशतक्रतुः/हन्तिनोरामरूपेणयदिवास्वयमन्तकः/हतप्रवीरारामेणनिराशाजीवितेवयम्/अपश्यन्त्योभयस्यान्तमनाथाविलपामहे/रामहस्ताद्दशग्रीवःशूरोदत्तवरोयुधि/इदंभयंमहाघोरमुत्पन्नंनावबुध्यते/नदेवानचगन्धर्वानपिशाचानराकसाः/उपसृष्टंपरित्रातुंशक्तारामेणसंयुगे/उत्पाताश्चापिदृश्यन्तेरावणस्यरणेरणे/कथयिष्यन्तिरामेणरावणस्यनिबर्हणम्/पितामहेनप्रीतेनदेवदानवराक्षसैः/रावणस्याभयंदत्तंमानुषेभ्योनयाचितम्/तदिदंमानुषान्मन्येप्राप्तंनिःसंशयंभयम्/जीवितान्तकरंघोरंरक्षसांरावणस्यच/पीड्यमानास्तुबलिनावरदानेनरक्षसा/दीप्तैस्तपोभिर्विबुधाःपितामहमपूजयन्/देवतानांहितार्थायमहात्मावैपितामहः/उवाचदेवताःसर्वाइदंतुष्टोमहद्वचः/अद्यप्रभृतिलोकांस्त्रीन्सर्वेदानवराक्षसाः/भयेनप्रावृतानित्यंविचरिष्यन्तिशाश्वतम्/दैवतैस्तुसमागम्यसर्वैश्चेन्द्रपुरोगमैः/वृषध्वजस्त्रिपुरहामहादेवःप्रसादितः/प्रसन्नस्तुमहादेवोदेवानेतद्वचोऽब्रवीत्/उत्पत्स्यतिहितार्थंवोनारीरक्षःक्षयावहा/एषादेवैःप्रयुक्तातुक्षुद्यथादानवान्पुरा/भक्षयिष्यतिनःसीताराक्षसघ्नीसरावणान्/रावणस्यापनीतेनदुर्विनीतस्यदुर्मतेः/अयंनिष्टानकोघोरःशोकेनसमभिप्लुतः/तंनपश्यामहेलोकेयोनःशरणदोभवेत्/राघवेणोपसृष्टानांकालेनेवयुगक्षये/इतीवसर्वारजनीचरस्त्रियः॑परस्परंसंपरिरभ्यबाहुभिः/विषेदुरार्तातिभयाभिपीडिता॑विनेदुरुच्चैश्चतदासुदारुणम्69441/आर्तानांराक्षसीनांतुलङ्कायांवैकुलेकुले/रावणःकरुणंशब्दंशुश्रावपरिवेदितम्6951/सतुदीर्घंविनिश्वस्यमुहूर्तंध्यानमास्थितः/बभूवपरमक्रुद्धोरावणोभीमदर्शनः/संदश्यदशनैरोष्ठंक्रोधसंरक्तलोचनः/राक्षसैरपिदुर्दर्शःकालाग्निरिवमूर्छितः/उवाचचसमीपस्थान्राक्षसान्राक्षसेश्वरः/भयाव्यक्तकथांस्तत्रनिर्दहन्निवचक्षुषा/महोदरंमहापार्श्वंविरूपाक्षंचराक्षसं/शीघ्रंवदतसैन्यानिनिर्यातेतिममाज्ञया/तस्यतद्वचनंश्रुत्वाराक्षसास्तेभयार्दिताः/चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया/तेतुसर्वेतथेत्युक्त्वाराक्षसाघोरदर्शनाः/कृतस्वस्त्ययनाःसर्वेरावणाभिमुखाययुः/प्रतिपूज्ययथान्यायंरावणंतेमहारथाः/तस्थुःप्राञ्जलयःसर्वेभर्तुर्विजयकाङ्क्षिणः/अथोवाचप्रहस्यैतान्रावणःक्रोधमूर्छितः/महोदरमहापार्श्वौविरूपाक्षंचराक्षसं/अद्यबाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः/राघवंलक्ष्मणंचैवनेष्यामियमसाधनम्/खरस्यकुम्भकर्णस्यप्रहस्तेन्द्रजितोस्तथा/करिष्यामिप्रतीकारमद्यशत्रुवधादहम्/नैवान्तरिक्षंनदिशोननद्योनापिसागरः/प्रकाशत्वंगमिष्यामिमद्बाणजलदावृताः/अद्यवानरयूथानांतानियूथानिभागशः/धनुःसमुद्रादुद्भूतैर्मथिष्यामिशरोर्मिभिः/व्याकोशपद्मचक्राणिपद्मकेसरवर्चसाम्/अद्ययूथतटाकानिगजवत्प्रमथाम्यहम्/सशरैरद्यवदनैःसंख्येवानरयूथपाः/मण्डयिष्यन्तिवसुधांसनालैरिवपङ्कलैः/अद्ययुद्धप्रचण्डानांहरीणांद्रुमयोधिनाम्/मुक्तेनैकेषुणायुद्धेभेत्स्यामिचशतंशतम्/हतोभर्ताहतोभ्रातायासांचतनयाहताः/वधेनाद्यरिपोस्तासांकर्मोम्यस्रप्रमार्जनम्/अद्यमद्बाणनिर्भिन्नैःप्रकीर्णैर्गतचेतनैः/करोमिवानरैर्युद्धेयत्नावेक्ष्यतलांमहीम्/अद्यगोमायवोगृध्रायेचमांसाशिनोऽपरे/सर्वांस्तांस्तर्पयिष्यामिशत्रुमांसैःशरार्दितैः/कल्प्यतांमेरथशीघ्रंक्षिप्रमानीयतांधनुः/अनुप्रयान्तुमांयुद्धेयेऽवशिष्टानिशाचराः/तस्यतद्वचनंश्रुत्वामहापार्श्वोऽब्रवीद्वचः/बलाध्यक्षान्स्थितांस्तत्रबलंसंत्वर्यतामिति/बलाध्यक्षास्तुसंरब्धाराक्षसांस्तान्गृहाद्गृहात्/चोदयन्तःपरिययुर्लङ्कांलघुपराक्रमाः/ततोमुहूर्तान्निष्पेतूराक्षसाभीमविक्रमाः/नर्दन्तोभीमवदनानानाप्रहरणैर्भुजैः/असिभिःपट्टसैःशूलैर्गलाभिर्मुसलैर्हलैः/शक्तिभिस्तीक्ष्णधाराभिर्महद्भिःकूटमुद्गरैः/यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वधैः/भिण्डिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः/अथानयन्बलाध्यक्षाश्चत्वारोरावणाज्ञया/द्रुतंसूतसमायुक्तंयुक्ताष्टतुरगंरथम्/आरुरोहरथंदिव्यंदीप्यमानंस्वतेजसा/रावणःसत्त्वगाम्भीर्याद्दारयन्निवमेदिनीम्/रावणेनाभ्यनुज्ञातौमहापार्श्वमहोदरौ/विरूपाक्षश्चदुर्धर्षोरथानारुरुहुस्तदा/तेतुहृष्टाविनर्दन्तोभिन्दतइवमेदिनीम्/नादंघोरंविमुञ्चन्तोनिर्ययुर्जयकाङ्क्षिणः/ततोयुद्धायतेजस्वीरक्षोगणबलैर्वृतः/निर्ययावुद्यतधनुःकालान्तकयमोमपः/ततःप्रजवनाश्वेनरथेनसमहारथः/द्वारेणनिर्ययौतेनयत्रतौरामलक्ष्मणौ/ततोनष्टप्रभःसूर्योदिशश्चतिमिरावृताः/द्विजाश्चनेदुर्घोराश्चसंचचालचमेदिनी/ववर्षरुधिरंदेवश्चस्खलुश्चतुरंगमाः/ध्वजाग्रेन्यपतद्गृध्रोविनेदुश्चाशिवंशिवाः/नयनंचास्फुरद्वामंसव्योबाहुरकम्पत/विवर्णवदनश्चासीत्किंचिदभ्रश्यतस्वरः/ततोनिष्पततोयुद्धेदशग्रीवस्यरक्षसः/रणेनिधनशंसीनिरूपाण्येतानिजज्ञिरे/अन्तरिक्षात्पपातोल्कानिर्घातसमनिस्वना/विनेदुरशिवंगृध्रावायसैरनुनादिताः/एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान्/निर्ययौरावणोमोहाद्वधार्थीकालचोदितः/तेषांतुरथघोषेणराक्षसानांमहात्मनाम्/वानराणामपिचमूर्युद्धायैवाभ्यवर्तत/तेषांसुतुमुलंयुद्धंबभूवकपिरक्षसाम्/अन्योन्यमाह्वयानानांक्रुद्धानांजयमिच्छताम्/ततःक्रुद्धोदशग्रीवःशरैःकाञ्चनभूषणैः/वानराणामनीकेषुचकारकदनंमहत्/निकृत्तशिरसःकेचिद्रावणेनवलीमुखाः/निरुच्छ्वासाहताःकेचित्केचित्पार्श्वेषुदारिताः/केचिद्विभिन्नशिरसःकेचिच्चक्षुर्विवर्जिताः/दशाननःक्रोधविवृत्तनेत्रो॑यतोयतोऽभ्येतिरथेनसंख्ये/ततस्ततस्तस्यशरप्रवेगं॑सोढुंनशेकुर्हरियूथपास्ते69554/तथातैःकृत्तगात्रैस्तुदशग्रीवेणमार्गणैः/बभूववसुधातत्रप्रकीर्णाहरिभिर्वृता6961/रावणस्याप्रसह्यंतंशरसंपातमेकतः/नशेकुःसहितुंदीप्तंपतंगाइवपावकम्/तेऽर्दितानिशितैर्बाणैःक्रोशन्तोविप्रदुद्रुवुः/पावकार्चिःसमाविष्टादह्यमानायथागजाः/प्लवंगानामनीकानिमहाभ्राणीवमारुतः/सययौसमरेतस्मिन्विधमन्रावणःशरैः/कदनंतरसाकृत्वाराक्षसेन्द्रोवनौकसाम्/आससादततोयुद्धेराघवंत्वरितस्तदा/सुग्रीवस्तान्कपीन्दृष्ट्वाभग्नान्विद्रवतोरणे/गुल्मेसुषेणंनिक्षिप्यचक्रेयुद्धेद्रुतंमनः/आत्मनःसदृशंवीरंसतंनिक्षिप्यवानरम्/सुग्रीवोऽभिमुखःशत्रुंप्रतस्थेपादपायुधः/पार्श्वतःपृष्ठतश्चास्यसर्वेयूथाधिपाःस्वयम्/अनुजह्रुर्महाशैलान्विविधांश्चमहाद्रुमान्/सनदन्युधिसुग्रीवःस्वरेणमहतामहान्/पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान्/ममर्दचमहाकायोराक्षसान्वानरेश्वरः/युगान्तसमयेवायुःप्रवृद्धानगमानिव/राक्षसानामनीकेषुशैलवर्षंववर्षह/अश्ववर्षंयथामेघःपक्षिसंघेषुकानने/कपिराजविमुक्तैस्तैःशैलवर्षैस्तुराक्षसाः/विकीर्णशिरसःपेतुर्निकृत्ताइवपर्वताः/अथसंक्षीयमाणेषुराक्षसेषुसमन्ततः/सुग्रीवेणप्रभग्नेषुपतत्सुविनदत्सुच/विरूपाक्षःस्वकंनामधन्वीविश्राव्यराक्षसः/रथादाप्लुत्यदुर्धर्षोगजस्कन्धमुपारुहत्/सतंद्विरदमारुह्यविरूपाक्षोमहारथः/विनदन्भीमनिर्ह्रालंवानरानभ्यधावत/सुग्रीवेसशरान्घोरान्विससर्जचमूमुखे/स्थापयामासाचोद्विग्नान्राक्षसान्संप्रहर्षयन्/सोऽतिविद्धःशितैर्बाणैःकपीन्द्रस्तेनरक्षसा/चुक्रोधचमहाक्रोधोवधेचास्यमनोदधे/ततःपादपमुद्धृत्यशूरःसंप्रधनेहरिः/अभिपत्यजघानास्यप्रमुखेतंमहागजम्/सतुप्रहाराभिहतःसुग्रीवेणमहागजः/अपासर्पद्धनुर्मात्रंनिषसादननादच/गजात्तुमथितात्तूर्णमपक्रम्यसवीर्यवान्/राक्षसोऽभिमुखःशत्रुंप्रत्युद्गम्यततःकपिम्/आर्षभंचर्मखड्गंचप्रगृह्यलघुविक्रमः/भर्त्सयन्निवसुग्रीवमाससादव्यवस्थितम्/सहितस्याभिसंक्रुद्धःप्रगृह्यमहतींशिलाम्/विरूपाक्षायचिक्षेपसुग्रीवोजलदोपमाम्/सतांशिलामापतन्तींदृष्ट्वाराक्षसपुंगवः/अपक्रम्यसुविक्रान्तःखड्गेनप्राहरत्तदा/तेनखड्गेनसंक्रुद्धःसुग्रीवस्यचमूमुखे/कवचंपातयामाससखड्गाभिहतोऽपतत्/ससमुत्थायपतितःकपिस्तस्यव्यसर्जयत्/तलप्रहारमशनेःसमानंभीमनिस्वनम्/तलप्रहारंतद्रक्षःसुग्रीवेणसमुद्यतम्/नैपुण्यान्मोचयित्वैनंमुष्टिनोरस्यताडयत्/ततस्तुसंक्रुद्धतरःसुग्रीवोवानरेश्वरः/मोक्षितंचात्मनोदृष्ट्वाप्रहारंतेनरक्षसा/सददर्शान्तरंतस्यविरूपाक्षस्यवानरः/ततोन्यपातयत्क्रोधाच्छङ्खदेशेमहातलम्/महेन्द्राशनिकल्पेनतलेनाभिहतःक्षितौ/पपातरुधिरक्लिन्नःशोणितंससमुद्वमन्/विवृत्तनयनंक्रोधात्सफेनरुधिराप्लुतम्/ददृशुस्तेविरूपाक्षंविरूपाक्षतरंकृतम्/स्फुरन्तंपरिवर्जन्तंपार्श्वेनरुधिरोक्षितम्/करुणंचविनर्दान्तंददृशुःकपयोरिपुम्/तथातुतौसंयतिसंप्रयुक्तौ॑तरस्विनौवानरराक्षसानाम्/बलार्णवौसस्वनतुःसभीमं॑महार्णवौद्वाविवभिन्नवेलौ/विनाशितंप्रेक्ष्यविरूपनेत्रं॑महाबलंतंहरिपार्थिवेन/बलंसमस्तंकपिराक्षसानाम्॑उन्मत्तगङ्गाप्रतिमंबभूव69636/हन्यमानेबलेतूर्णमन्योन्यंतेमहामृधे/सरसीवमहाघर्मेसूपक्षीणेबभूवतुः6971/स्वबलस्यविघातेनविरूपाक्षवधेनच/बभूवद्विगुणंक्रुद्धोरावणोराक्षसाधिपः/प्रक्षीणंतुबलंदृष्ट्वावध्यमानंवलीमुखैः/बभूवास्यव्यथायुद्धेप्रेक्ष्यदैवविपर्ययम्/उवाचचसमीपस्थंमहोदरमरिंदमम्/अस्मिन्कालेमहाबाहोजयाशात्वयिमेस्थिता/जहिशत्रुचमूंवीरदर्शयाद्यपराक्रमम्/भर्तृपिण्डस्यकालोऽयंनिर्वेष्टुंसाधुयुध्यताम्/एवमुक्तस्तथेत्युक्त्वाराक्षसेन्द्रंमहोदरः/प्रविवेशारिसेनांसपतंगइवपावकम्/ततःसकदनंचक्रेवानराणांमहाबलः/भर्तृवाक्येनतेजस्वीस्वेनवीर्येणचोदितः/प्रभग्नांसमरेदृष्ट्वावानराणांमहाचमूम्/अभिदुद्रावसुग्रीवोमहोदरमनन्तरम्/प्रगृह्यविपुलांघोरांमहीधरसमांशिलाम्/चिक्षेपचमहातेजास्तद्वधायहरीश्वरः/तामापतन्तींसहसाशिलांदृष्ट्वामहोदरः/असंभ्रान्तस्ततोबाणैर्निर्बिभेददुरासदाम्/रक्षसातेनबाणौघैर्निकृत्तासासहस्रधा/निपपातशिलाभूमौगृध्रचक्रमिवाकुलम्/तांतुभिन्नांशिलांदृष्ट्वासुग्रीवःक्रोधमूर्छितः/सालमुत्पाट्यचिक्षेपरक्षसेरणमूर्धनि/शरैश्चविददारैनंशूरःपरपुरंजयः/सददर्शततःक्रुद्धःपरिघंपतितंभुवि/आविध्यतुसतंदीप्तंपरिघंतस्यदर्शयन्/परिघाग्रेणवेगेनजघानास्यहयोत्तमान्/तस्माद्धतहयाद्वीरःसोऽवप्लुत्यमहारथात्/गदांजग्राहसंक्रुद्धोराक्षसोऽथमहोदरः/गदापरिघहस्तौतौयुधिवीरौसमीयतुः/नर्दन्तौगोवृषप्रख्यौघनाविवसविद्युतौ/आजघानगदांतस्यपरिघेणहरीश्वरः/पपातसगदोद्भिन्नःपरिघस्तस्यभूतले/ततोजग्राहतेजस्वीसुग्रीवोवसुधातलात्/आयसंमुसलंघोरंसर्वतोहेमभूषितम्/तंसमुद्यम्यचिक्षेपसोऽप्यन्यांव्याक्षिपद्गदाम्/भिन्नावन्योन्यमासाद्यपेततुर्धरणीतले/ततोभग्नप्रहरणौमुष्टिभ्यांतौसमीयतुः/तेजोबलसमाविष्टौदीप्ताविवहुताशनौ/जघ्नतुस्तौतदान्योन्यंनेदतुश्चपुनःपुनः/तलैश्चान्योन्यमाहत्यपेततुर्धरणीतले/उत्पेततुस्ततस्तूर्णंजघ्नतुश्चपरस्परम्/भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ/आजहारतदाखग्डमदूरपरिवर्तिनम्/राक्षसश्चर्मणासार्धंमहावेगोमहोदरः/तथैवचमहाखड्गंचर्मणापतितंसह/जग्राहवानरश्रेष्ठःसुग्रीवोवेगवत्तरः/तौतुरोषपरीताङ्गौनर्दन्तावभ्यधावताम्/उद्यतासीरणेहृष्टौयुधिशस्त्रविशारदौ/दक्षिणंमण्डलंचोभौतौतूर्णंसंपरीयतुः/अन्योन्यमभिसंक्रुद्धौजयेप्रणिहितावुभौ/सतुशूरोमहावेगोवीर्यश्लाघीमहोदरः/महाचर्मणितंखड्गंपातयामासदुर्मतिः/लग्नमुत्कर्षतःखड्गंखड्गेनकपिकुञ्जरः/जहारसशिरस्त्राणंकुण्डलोपहितंशिरः/निकृत्तशिरसस्तस्यपतितस्यमहीतले/तद्बलंराक्षसेन्द्रस्यदृष्ट्वातत्रनतिष्ठति/हत्वातंवानरैःसार्धंननादमुदितोहरिः/चुक्रोधचदशग्रीवोबभौहृष्टश्चराघवः69735/महोदरेतुनिहतेमहापार्श्वोमहाबलः/अङ्गदस्यचमूंभीमांक्षोभयामाससायकैः6981/सवानराणांमुख्यानामुत्तमाङ्गानिसर्वशः/पातयामासकायेभ्यःफलंवृन्तादिवानिलः/केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेदराक्षसः/वानराणांसुसंक्रुद्धःपार्श्वंकेषांव्यदारयत्/तेऽर्दिताबाणवर्षेणमहापार्श्वेनवानराः/विषादविमुखाःसर्वेबभूवुर्गतचेतसः/निरीक्ष्यबलमुद्विग्नमङ्गदोराक्षसार्दितम्/वेगंचक्रेमहाबाहुःसमुद्रइवपर्वणि/आयसंपरिघंगृह्यसूर्यरश्मिसमप्रभम्/समरेवानरश्रेष्ठोमहापार्श्वेन्यपातयत्/सतुतेनप्रहारेणमहापार्श्वोविचेतनः/ससूतःस्यन्दनात्तस्माद्विसंज्ञःप्रापतद्भुवि/सर्क्षराजस्तुतेजस्वीनीलाञ्जनचयोपमः/निष्पत्यसुमहावीर्यःस्वाद्यूथान्मेघसंनिभात्/प्रगृह्यगिरिशृङ्गाभांक्रुद्धःसविपुलांशिलाम्/अश्वाञ्जघानतरसास्यन्दनंचबभञ्जतम्/मुहूर्ताल्लब्धसंज्ञस्तुमहापार्श्वोमहाबलः/अङ्गदंबहुभिर्बाणैर्भूयस्तंप्रत्यविध्यत/जाम्बवन्तंत्रिभिर्बाणैराजघानस्तनान्तरे/ऋक्षराजंगवाक्षंचजघानबहुभिःशरैः/गवाक्षंजाम्बवन्तंचसदृष्ट्वाशरपीडितौ/जग्राहपरिघंघोरमङ्गदःक्रोधमूर्छितः/तस्याङ्गदःप्रकुपितोराक्षसस्यतमायसं/दूरस्थितस्यपरिघंरविरश्मिसमप्रभम्/द्वाभ्यांभुजाभ्यांसंगृह्यभ्रामयित्वाचवेगवान्/महापार्श्वायचिक्षेपवधार्थंवालिनःसुतः/सतुक्षिप्तोबलवतापरिघस्तस्यरक्षसः/धनुश्चसशरंहस्ताच्छिरस्त्रंचाप्यपातयत्/तंसमासाद्यवेगेनवालिपुत्रःप्रतापवान्/तलेनाभ्यहनत्क्रुद्धःकर्णमूलेसकुण्डले/सतुक्रुद्धोमहावेगोमहापार्श्वोमहाद्युतिः/करेणैकेनजग्राहसुमहान्तंपरश्वधम्/तंतैलधौतंविमलंशैलसारमयंदृढम्/राक्षसःपरमक्रुद्धोवालिपुत्रेन्यपातयत्/तेनवामांसफलकेभृशंप्रत्यवपातितम्/अङ्गदोमोक्षयामाससरोषःसपरश्वधम्/सवीरोवज्रसंकाशमङ्गदोमुष्टिमात्मनः/संवर्तयन्सुसंक्रुद्धःपितुस्तुल्यपराक्रमः/राक्षसस्यस्तनाभ्याशेमर्मज्ञोहृदयंप्रति/इन्द्राशनिसमस्पर्शंसमुष्टिंविन्यपातयत्/तेनतस्यनिपातेनराक्षसस्यमहामृधे/पफालहृदयंचाशुसपपातहतोभुवि/तस्मिन्निपतितेभूमौतत्सैन्यंसंप्रचुक्षुभे/अभवच्चमहान्क्रोधःसमरेरावणस्यतु69823/महोदरमहापार्श्वौहतौदृष्ट्वातुराक्षसौ/तस्मिंश्चनिहतेवीरेविरूपाक्षेमहाबले6991/आविवेशमहान्क्रोधोरावणंतुमहामृधे/सूतंसंचोदयामासवाक्यंचेदमुवाचह/निहतानाममात्यानांरुद्धस्यनगरस्यच/दुःखमेषोऽपनेष्यामिहत्वातौरामलक्ष्मणौ/रामवृक्षंरणेहन्मिसीतापुष्पफलप्रदम्/प्रशाखायस्यसुग्रीवोजाम्बवान्कुमुदोनलः/सदिशोदशघोषेणरथस्यातिरथोमहान्/नादयन्प्रययौतूर्णंराघवंचाभ्यवर्तत/पूरितातेनशब्देनसनदीगिरिकानना/संचचालमहीसर्वासवराहमृगद्विपा/तामसंसुमहाघोरंचकारास्त्रंसुदारुणम्/निर्ददाहकपीन्सर्वांस्तेप्रपेतुःसमन्ततः/तान्यनीकान्यनेकानिरावणस्यशरोत्तमैः/दृष्ट्वाभग्नानिशतशोराघवःपर्यवस्थितः/सददर्शततोरामंतिष्ठन्तमपराजितम्/लक्ष्मणेनसहभ्रात्राविष्णुनावासवंयथा/आलिखन्तमिवाकाशमवष्टभ्यमहद्धनुः/पद्मपत्रविशालाक्षंदीर्घबाहुमरिंदमम्/वानरांश्चरणेभग्नानापतन्तंचरावणम्/समीक्ष्यराघवोहृष्टोमध्येजग्राहकार्मुकम्/विस्फारयितुमारेभेततःसधनुरुत्तमम्/महावेगंमहानादंनिर्भिन्दन्निवमेदिनीम्/तयोःशरपथंप्राप्यरावणोराजपुत्रयोः/सबभूवयथाराहुःसमीपेशशिसूर्ययोः/रावणस्यचबाणौघैरामविस्फरितेनच/शब्देनराक्षसास्तेनपेतुश्चशतशस्तदा/तमिच्छन्प्रथमंयोद्धुंलक्ष्मणोनिशितैःशरैः/मुमोचधनुरायम्यशरानग्निशिखोपमान्/तान्मुक्तमात्रानाकाशेलक्ष्मणेनधनुष्मता/बाणान्बाणैर्महातेजारावणःप्रत्यवारयत्/एकमेकेनबाणेनत्रिभिस्त्रीन्दशभिर्दश/लक्ष्मणस्यप्रचिच्छेददर्शयन्पाणिलाघवम्/अभ्यतिक्रम्यसौमित्रिंरावणःसमितिंजयः/आससादततोरामंस्थितंशैलमिवाचलम्/ससंख्येराममासाद्यक्रोधसंरक्तलोचनः/व्यसृजच्छरवर्णानिरावणोराघवोपरि/शरधारास्ततोरामोरावणस्यधनुश्च्युताः/दृष्ट्वैवापतिताःशीघ्रंभल्लाञ्जग्राहसत्वरम्/ताञ्शरौघांस्ततोभल्लैस्तीक्ष्णैश्चिच्छेदराघवः/दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव/राघवोरावणंतूर्णंरावणोराघवंतथा/अन्योन्यंविविधैस्तीक्ष्णैःशरैरभिववर्षतुः/चेरतुश्चचिरंचित्रंमण्डलंसव्यदक्षिणम्/बाणवेगान्समुदीक्ष्यसमरेष्वपराजितौ/तयोर्भूतानिवित्रेषुर्युगपत्संप्रयुध्यतोः/रौद्रयोःसायकमुचोर्यमान्तकनिकाशयोः/संततंविविधैर्बाणैर्बभूवगगनंतदा/घनैरिवातपापायेविद्युन्मालासमाकुलैः/गवाक्षितमिवाकाशंबभूवशूरवृष्टिभिः/महावेगैःसुतीक्ष्णाग्रैर्गृध्रपत्रैःसुवाजितैः/शरान्धकारंतौभीमंचक्रतुःपरमंतदा/गतेऽस्तंतपनेचापिमहामेघाविवोत्थितौ/बभूवतुमुलंयुद्धमन्योन्यवधकाङ्क्षिणोः/अनासाद्यमचिन्त्यंचवृत्रवासवयोरिव/उभौहिपरमेष्वासावुभौशस्त्रविशारदौ/उभौचास्त्रविदांमुख्यावुभौयुद्धेविचेरतुः/उभौहियेनव्रजतस्तेनतेनशरोर्मयः/ऊर्मयोवायुनाविद्धाजग्मुःसागरयोरिव/ततःसंसक्तहस्तस्तुरावणोलोकरावणः/नाराचमालांरामस्यललाटेप्रत्यमुञ्चत/रौद्रचापप्रयुक्तांतांनीलोत्पलदलप्रभाम्/शिरसाधारयन्रामोनव्यथांप्रत्यपद्यत/अथमन्त्रानपिजपन्रौद्रमस्त्रमुदीरयन्/शरान्भूयःसमादायरामःक्रोधसमन्वितः/मुमोचचमहातेजाश्चापमायम्यवीर्यवान्/ताञ्शरान्राक्षसेन्द्रायचिक्षेपाच्छिन्नसायकः/तेमहामेघसंकाशेकवचेपतिताःशराः/अवध्येराक्षसेन्द्रस्यनव्यथांजनयंस्तदा/पुनरेवाथतंरामोरथस्थंराक्षसाधिपम्/ललाटेपरमास्त्रेणसर्वास्त्रकुशलोऽभिनत्/तेभित्त्वाबाणरूपाणिपञ्चशीर्षाइवोरगाः/श्वसन्तोविविशुर्भूमिंरावणप्रतिकूलताः/निहत्यराघवस्यास्त्रंरावणःक्रोधमूर्छितः/आसुरंसुमहाघोरमन्यदस्त्रंसमाददे/सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपि/गृध्रश्येनमुखांश्चापिसृगालवदनांस्तथा/ईहामृगमुहांश्चान्यान्व्यादितास्यान्भयावहान्/पञ्चास्यांल्लेलिहानांश्चससर्जनिशिताञ्शरान्/शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान्/श्वानकुक्कुटवक्त्रांश्चमकराशीविषाननान्/एतांश्चान्यांश्चमायाभिःससर्जनिशिताञ्शरान्/रामंप्रतिमहातेजाःक्रुद्धःसर्पइवश्वसन्/आसुरेणसमाविष्टःसोऽस्त्रेणरघुनन्दनः/ससर्जास्त्रंमहोत्साहःपावकंपावकोपमः/अग्निदीप्तमुखान्बाणांस्तथासूर्यमुखानपि/चन्द्रार्धचन्द्रवक्त्रांश्चधूमकेतुमुखानपि/ग्रहनक्षत्रवर्णांश्चमहोल्कामुखसंस्थितान्/विद्युज्जिह्वोपमांश्चान्यान्ससर्जनिशिताञ्शरान्/तेरावणशराघोराराघवास्त्रसमाहताः/विलयंजग्मुराकाशेजग्मुश्चैवसहस्रशः/तदस्त्रंनिहतंदृष्ट्वारामेणाक्लिष्टकर्मणा/हृष्टानेदुस्ततःसर्वेकपयःकामरूपिणः69950/तस्मिन्प्रतिहतेऽस्त्रेतुरावणोराक्षसाधिपः/क्रोधंचद्विगुणंचक्रेक्रोधाच्चास्त्रमनन्तरम्61001/मयेनविहितंरौद्रमन्यदस्त्रंमहाद्युतिः/उत्स्रष्टुंरावणोघोरंराघवायप्रचक्रमे/ततःशूलानिनिश्चेरुर्गदाश्चमुसलानिच/कार्मुकाद्दीप्यमानानिवज्रसाराणिसर्वशः/कूटमुद्गरपाशाश्चदीप्ताश्चाशनयस्तथा/निष्पेतुर्विविधास्तीक्ष्णावाताइवयुगक्षये/तदस्त्रंराघवःश्रीमानुत्तमास्त्रविदांवरः/जघानपरमास्त्रेणगन्धर्वेणमहाद्युतिः/तस्मिन्प्रतिहतेऽस्त्रेतुराघवेणमहात्मना/रावणःक्रोधताम्राक्षःसौरमस्त्रमुदीरयत्/ततश्चक्राणिनिष्पेतुर्भास्वराणिमहान्तिच/कार्मुकाद्भीमवेगस्यदशग्रीवस्यधीमतः/तैरासीद्गगनंदीप्तंसंपतद्भिरितस्ततः/पतद्भिश्चदिशोदीप्तैश्चन्द्रसूर्यग्रहैरिव/तानिचिच्छेदबाणौघैश्चक्राणितुसराघवः/आयुधानिविचित्राणिरावणस्यचमूमुखे/तदस्त्रंतुहतंदृष्ट्वारावणोराक्षसाधिपः/विव्याधदशभिर्बाणैरामंसर्वेषुमर्मसु/सविद्धोदशभिर्बाणैर्महाकार्मुकनिःसृतैः/रावणेनमहातेजानप्राकम्पतराघवः/ततोविव्याधगात्रेषुसर्वेषुसमितिंजयः/राघवस्तुसुसंक्रुद्धोरावणंबहुभिःशरैः/एतस्मिन्नन्तरेक्रुद्धोराघवस्यानुजोबली/लक्ष्मणःसायकान्सप्तजग्राहपरवीरहा/तैःसायकैर्महावेगैरावणस्यमहाद्युतिः/ध्वजंमनुष्यशीर्षंतुतस्यचिच्छेदनैकधा/सारथेश्चापिबाणेनशिरोज्वलितकुण्डलम्/जहारलक्ष्मणःश्रीमान्नैरृतस्यमहाबलः/तस्यबाणैश्चचिच्छेदधनुर्गजकरोपमम्/लक्ष्मणोराक्षसेन्द्रस्यपञ्चभिर्निशितैःशरैः/नीलमेघनिभांश्चास्यसदश्वान्पर्वतोपमान्/जघानाप्लुत्यगदयारावणस्यविभीषणः/हताश्वाद्वेगवान्वेगादवप्लुत्यमहारथात्/क्रोधमाहारयत्तीव्रंभ्रातरंप्रतिरावणः/ततःशक्तिंमहाशक्तिर्दीप्तांदीप्ताशनीमिव/विभीषणायचिक्षेपराक्षसेन्द्रःप्रतापवान्/अप्राप्तामेवतांबाणैस्त्रिभिश्चिच्छेदलक्ष्मणः/अथोदतिष्ठत्संनादोवानराणांतदारणे/सपपातत्रिधाछिन्नाशक्तिःकाञ्चनमालिनी/सविस्फुलिङ्गाज्वलितामहोल्केवदिवश्च्युता/ततःसंभाविततरांकालेनापिदुरासदाम्/जग्राहविपुलांशक्तिंदीप्यमानांस्वतेजसा/सावेगिनाबलवतारावणेनदुरात्मना/जज्वालसुमहाघोराशक्राशनिसमप्रभा/एतस्मिन्नन्तरेवीरोलक्ष्मणस्तंविभीषणम्/प्राणसंशयमापन्नंतूर्णमेवाभ्यपद्यत/तंविमोक्षयितुंवीरश्चापमायम्यलक्ष्मणः/रावणंशक्तिहस्तंतंशरवर्षैरवाकिरत्/कीर्यमाणःशरौघेणविसृष्ट्तेनमहात्मना/नप्रहर्तुंमनश्चक्रेविमुखीकृतविक्रमः/मोक्षितंभ्रातरंदृष्ट्वालक्ष्मणेनसरावणः/लक्ष्मणाभिमुखस्तिष्ठन्निदंवचनमब्रवीत्/मोक्षितस्तेबलश्लाघिन्यस्मादेवंविभीषणः/विमुच्यराक्षसंशक्तिस्त्वयीयंविनिपात्यते/एषातेहृदयंभित्त्वाशक्तिर्लोहितलक्षणा/मद्बाहुपरिघोत्सृष्टाप्राणानादाययास्यति/इत्येवमुक्त्वातांशक्तिमष्टघण्टांमहास्वनाम्/मयेनमायाविहिताममोघांशत्रुघातिनीम्/लक्ष्मणायसमुद्दिश्यज्वलन्तीमिवतेजसा/रावणःपरमक्रुद्धश्चिक्षेपचननादच/साक्षिप्ताभीमवेगेनशक्राशनिसमस्वना/शक्तिरभ्यपतद्वेगाल्लक्ष्मणंरणमूर्धनि/तामनुव्याहरच्छक्तिमापतन्तींसराघवः/स्वस्त्यस्तुलक्ष्मणायेतिमोघाभवहतोद्यमा/न्यपतत्सामहावेगालक्ष्मणस्यमहोरसि/जिह्वेवोरगराजस्यदीप्यमानामहाद्युतिः/ततोरावणवेगेनसुदूरमवगाढया/शक्त्यानिर्भिन्नहृदयःपपातभुविलक्ष्मणः/तदवस्थंसमीपस्थोलक्ष्मणंप्रेक्ष्यराघवः/भ्रातृस्नेहान्महातेजाविषण्णहृदयोऽभवत्/समुहूर्तमनुध्यायबाष्पव्याकुललोचनः/बभूवसंरब्धतरोयुगान्तइवपावकः/नविषादस्यकालोऽयमितिसंचिन्त्यराघवः/चक्रेसुतुमुलंयुद्धंरावणस्यवधेधृतः/सददर्शततोरामःशक्त्याभिन्नंमहाहवे/लक्ष्मणंरुधिरादिग्धंसपन्नगमिवाचलम्/तामपिप्रहितांशक्तिंरावणेनबलीयसा/यत्नतस्तेहरिश्रेष्ठानशेकुरवमर्दितुम्/अर्दिताश्चैवबाणौघैःक्षिप्रहस्तेनरक्षसा/सौमित्रिंसाविनिर्भिद्यप्रविष्टाधरणीतलम्/तांकराभ्यांपरामृश्यरामःशक्तिंभयावहाम्/बभञ्जसमरेक्रुद्धोबलवद्विचकर्षच/तस्यनिष्कर्षतःशक्तिंरावणेनबलीयसा/शराःसर्वेषुगात्रेषुपातितामर्मभेदिनः/अचिन्तयित्वातान्बाणान्समाश्लिष्याचलक्ष्मणम्/अब्रवीच्चहनूमन्तंसुग्रीवंचैवराघवः/लक्ष्मणंपरिवार्येहतिष्ठध्वंवानरोत्तमाः/पराक्रमस्यकालोऽयंसंप्राप्तोमेचिरेप्सितः/पापात्मायंदशग्रीवोवध्यतांपापनिश्चयः/काङ्क्षितःस्तोककस्येवघर्मान्तेमेघदर्शनम्/अस्मिन्मुहूर्तेनचिरात्सत्यंप्रतिशृणोमिवः/अरावणमरामंवाजगद्द्रक्ष्यथवानराः/राज्यनाशंवनेवासंदण्डकेपरिधावनम्/वैदेह्याश्चपरामर्शंरक्षोभिश्चसमागमम्/प्राप्तंदुःखंमहद्घोरंक्लेशंचनिरयोपमम्/अद्यसर्वमहंत्यक्ष्येहत्वातंरावणंरणे/यदर्थंवानरंसैन्यंसमानीतमिदंमया/सुग्रीवश्चकृतोराज्येनिहत्वावालिनंरणे/यदर्थंसागरःक्रान्तःसेतुर्बद्धश्चसागरे/सोऽयमद्यरणेपापश्चक्षुर्विषयमागतः/चक्षुर्विषयमागम्यनायंजीवितुमर्हति/दृष्टिंदृष्टिविषस्येवसर्पस्यममरावणः/स्वस्थाःपश्यतदुर्धर्षायुद्धंवानरपुंगवाः/आसीनाःपर्वताग्रेषुममेदंरावणस्यच/अद्यरामस्यरामत्वंपश्यन्तुममसंयुगे/त्रयोलोकाःसगन्धर्वाःसदेवाःसर्षिचारणाः/अद्यकर्मकरिष्यामियल्लोकाःसचराचराः/सदेवाःकथयिष्यन्तियावद्भूमिर्धरिष्यति/एवमुक्त्वाशितैर्बाणैस्तप्तकाञ्चनभूषणैः/आजघानदशग्रीवंरणेरामःसमाहितः/अथप्रदीप्तैर्नाराचैर्मुसलैश्चापिरावणः/अभ्यवर्षत्तदारामंधाराभिरिवतोयदः/रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्/शराणांचशराणांचबभूवतुमुलःस्वनः/तेभिन्नाश्चविकीर्णाश्चरामरावणयोःशराः/अन्तरिक्षात्प्रदीप्ताग्रानिपेतुर्धरणीतले/तयोर्ज्यातलनिर्घोषोरामरावणयोर्महान्/त्रासनःसर्वबूतानांसबभूवाद्भुतोपमः/सकीर्यमाणःशरजालवृष्टिभिर्॑महात्मनादीप्तधनुष्मतार्दितः/भयात्प्रदुद्रावसमेत्यरावणो॑यथानिलेनाभिहतोबलाहकः610062/सदत्त्वातुमुलंयुद्धंरावणस्यदुरात्मनः/विसृजनेवबाणौघान्सुषेणंवाक्यमब्रवीत्61012/एषरावणवेगेनलक्ष्मणःपतितःक्षितौ/सर्पवद्वेष्टतेवीरोममशोकमुदीरयन्/शोणितार्द्रमिमंवीरंप्राणैरिष्टतरंमम/पश्यतोममकाशक्तिर्योद्धुंपर्याकुलात्मनः/अयंससमरश्लाघीभ्रातामेशुभलक्षणः/यदिपञ्चत्वमापन्नःप्राणैर्मेकिंसुखेनवा/लज्जतीवहिमेवीर्यंभ्रश्यतीवकराद्धनुः/सायकाव्यवसीदन्तिदृष्टिर्बाष्पवशंगता/चिन्तामेवर्धतेतीव्रामुमूर्षाचोपजायते/भ्रातरंनिहतंदृष्ट्वारावणेनदुरात्मना/परंविषादमापन्नोविललापाकुलेन्द्रियः/नहियुद्धेनमेकार्यंनैवप्राणैर्नसीतया/भ्रातरंनिहतंदृष्ट्वालक्ष्मणंरणपांसुषु/किंमेराज्येनकिंप्राणैर्युद्धेकार्यंनविद्यते/यत्रायंनिहतःशेतेरणमूर्धनिलक्ष्मणः/राममाश्वासयन्वीरःसुषेणोवाक्यमब्रवीत्/नमृतोऽयंमहाबाहुर्लक्ष्मणोलक्ष्मिवर्धनः/नचास्यविकृतंवक्त्रंनापिश्यामंननिष्प्रभम्/सुप्रभंचप्रसन्नंचमुखमस्याभिलक्ष्यते/पद्मरक्ततलौहस्तौसुप्रसन्नेचलोचने/एवंनविद्यतेरूपंगतासूनांविशांपते/मांविषादंकृत्वावीरसप्राणोऽयमरिंदम/आख्यास्यतेप्रसुप्तस्यस्रस्तगात्रस्यभूतले/सोच्छ्वासंहृदयंवीरकम्पमानंमुहुर्मुहुः/एवमुक्त्वातुवाक्यज्ञःसुषेणोराघवंवचः/समीपस्थमुवाचेदंहनूमन्तमभित्वरन्/सौम्यशीघ्रमितोगत्वाशैलमोषधिपर्वतम्/पूर्वंहिकथितोयोऽसौवीरजाम्बवताशुभः/दक्षिणेशिखरेतस्यजातामोषधिमानय/विशल्यकरणीनामविशल्यकरणींशुभाम्/सौवर्णकरणींचापितथासंजीवनीमपि/संधानकरणींचापिगत्वाशीघ्रमिहानय/संजीवनार्थंवीरस्यलक्ष्मणस्यमहात्मनः/इत्येवमुक्तोहनुमान्गत्वाचौषधिपर्वतम्/चिन्तामभ्यगमच्छ्रीमानजानंस्तामहौषधीः/तस्यबुद्धिःसमुत्पन्नामारुतेरमितौजसः/इदमेवगमिष्यामिगृहीत्वाशिखरंगिरेः/अगृह्ययदिगच्छामिविशल्यकरणीमहम्/कालात्ययेनदोषःस्याद्वैक्लव्यंचमहद्भवेत्/इतिसंचिन्त्यहनुमान्गत्वाक्षिप्रंमहाबलः/उत्पपातगृहीत्वातुहनूमाञ्शिखरंगिरेः/ओषधीर्नावगछामिताअहंहरिपुंगव/तदिदंशिखरंकृत्स्नंगिरेस्तस्याहृतंमया/एवंकथयमानंतंप्रशस्यपवनात्मजम्/सुषेणोवानरश्रेष्ठोजग्राहोत्पाट्यचौषधीः/ततःसंक्षोदयित्वातामोषधिंवानरोत्तमः/लक्ष्मणस्यददौनस्तःसुषेणःसुमहाद्युतिः/सशल्यःससमाघ्रायलक्ष्मणःपरवीरहा/विशल्योविरुजःशीघ्रमुदतिष्ठन्महीतलात्/समुत्थितंतेहरयोभूतलात्प्रेक्ष्यलक्ष्मणम्/साधुसाध्वितिसुप्रीताःसुषेणंप्रत्यपूजयन्/एह्येहीत्यब्रवीद्रामोलक्ष्मणंपरवीरहा/सस्वजेस्नेहगाढंचबाष्पपर्याकुलेक्षणः/अब्रवीच्चपरिष्वज्यसौमित्रिंराघवस्तदा/दिष्ट्यात्वांवीरपश्यामिमरणात्पुनरागतम्/नहिमेजीवितेनार्थःसीतयाचजयेनवा/कोहिमेजीवितेनार्थस्त्वयिपञ्चत्वमागते/इत्येवंवदतस्तस्यराघवस्यमहात्मनः/खिन्नःशिथिलयावाचालक्ष्मणोवाक्यमब्रवीत्/तांप्रतिज्ञांप्रतिज्ञायपुरासत्यपराक्रम/लघुःकश्चिदिवासत्त्वोनैवंवक्तुमिहार्हसि/नप्रतिज्ञांहिकुर्वन्तिवितथांसाधवोऽनघ/लक्ष्मणंहिमहत्त्वस्यप्रतिज्ञापरिपालनम्/नैराश्यमुपगन्तुंतेतदलंमत्कृतेऽनघ/वधेनरावणस्याद्यप्रतिज्ञामनुपालय/नजीवन्यास्यतेशत्रुस्तवबाणपथंगतः/नर्दतस्तीक्ष्णदंष्ट्रस्यसिंहस्येवमहागजः/अहंतुवधमिच्छामिशीघ्रमस्यदुरात्मनः/यावदस्तंनयात्येषकृतकर्मादिवाकरः610155/लक्ष्मणेनतुतद्वाक्यमुक्तंश्रुत्वासराघवः/रावणायशरान्घोरान्विससर्जचमूमुखे61021/दशग्रीवोरथस्थस्तुरामंवज्रोपमैःशरैः/आजघानमहाघोरैर्धाराभिरिवतोयदः/दीप्तपावकसंकाशैःशरैःकाञ्चनभूषणैः/निर्बिभेदरणेरामोदशग्रीवंसमाहितः/भूमिस्थितस्यरामस्यरथस्थस्यचरक्षसः/नसमंयुद्धमित्याहुर्देवगन्धर्वदानवाः/ततःकाञ्चनचित्राङ्गःकिंकिणीशतभूषितः/तरुणादित्यसंकाशोवैदूर्यमयकूबरः/सदश्वैःकाञ्चनापीडैर्युक्तःश्वेतप्रकीर्णकैः/हरिभिःसूर्यसंकाशैर्हेमजालविभूषितैः/रुक्मवेणुध्वजःश्रीमान्देवराजरथोवरः/अभ्यवर्ततकाकुत्स्थमवतीर्यत्रिविष्टपात्/अब्रवीच्चतदारामंसप्रतोदोरथेस्थितः/प्राञ्जलिर्मातलिर्वाक्यंसहस्राक्षस्यसारथिः/सहस्राक्षेणकाकुत्स्थरथोऽयंविजयायते/दत्तस्तवमहासत्त्वश्रीमाञ्शत्रुनिबर्हणः/इदमैन्द्रंमहच्चापंकवचंचाग्निसंनिभम्/शराश्चादित्यसंकाशाःशक्तिश्चविमलाशिताः/आरुह्येमंरथंवीरराक्षसंजहिरावणम्/मयासारथिनाराममहेन्द्रइवदानवान्/इत्युक्तःसपरिक्रम्यरथंतमभिवाद्यच/आरुरोहतदारामोलोकांल्लक्ष्म्याविराजयन्/तद्बभूवाद्भुतंयुद्धंद्वैरथंलोमहर्षणम्/रामस्यचमहाबाहोरावणस्यचरक्षसः/सगान्धर्वेणगान्धर्वंदैवंदैवेनराघवः/अस्त्रंराक्षसराजस्यजघानपरमास्त्रवित्/अस्त्रंतुपरमंघोरंराक्षसंराकसाधिप/ससर्जपरमक्रुद्धःपुनरेवनिशाचरः/तेरावणधनुर्मुक्ताःशराःकाञ्चनभूषणाः/अभ्यवर्तन्तकाकुत्स्थंसर्पाभूत्वामहाविषाः/तेदीप्तवदनादीप्तंवमन्तोज्वलनंमुखैः/राममेवाभ्यवर्तन्तव्यादितास्याभयानकाः/तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः/दिशश्चसंतताःसर्वाःप्रदिशश्चसमावृताः/तान्दृष्ट्वापन्नगान्रामःसमापततआहवे/अस्त्रंगारुत्मतंघोरंप्रादुश्चक्रेभयावहम्/तेराघवधनुर्मुक्तारुक्मपुङ्खाःशिखिप्रभाः/सुपर्णाःकाञ्चनाभूत्वाविचेरुःसर्पशत्रवः/तेतान्सर्वाञ्शराञ्जघ्नुःसर्परूपान्महाजवान्/सुपर्णरूपारामस्यविशिखाःकामरूपिणः/अस्त्रेप्रतिहतेक्रुद्धोरावणोराक्षसाधिपः/अभ्यवर्षत्तदारामंघोराभिःशरवृष्टिभिः/ततःशरसहस्रेणराममक्लिष्टकारिणम्/अर्दयित्वाशरौघेणमातलिंप्रत्यविध्यत/पातयित्वारथोपस्थेरथात्केतुंचकाञ्चनम्/ऐन्द्रानभिजघानाश्वाञ्शरजालेनरावणः/विषेदुर्देवगन्धर्वादानवाश्चारणैःसह/राममार्तंतदादृष्ट्वासिद्धाश्चपरमर्षयः/व्यथितावानरेन्द्राश्चबभूवुःसविभीषणाः/रामचन्द्रमसंदृष्ट्वाग्रस्तंरावणराहुणा/प्राजापत्यंचनक्षत्रंरोहिणींशशिनःप्रियाम्/समाक्रम्यबुधस्तस्थौप्रजानामशुभावहः/सधूमपरिवृत्तोर्मिःप्रज्वलन्निवसागरः/उत्पपाततदाक्रुद्धःस्पृशन्निवदिवाकरम्/शस्त्रवर्णःसुपरुषोमन्दरश्मिर्दिवाकरः/अदृश्यतकबन्धाङ्गःसंसक्तोधूमकेतुना/कोसलानांचनक्षत्रंव्यक्तमिन्द्राग्निदैवतम्/आक्रम्याङ्गारकस्तस्थौविशाखामपिचाम्बरे/दशास्योविंशतिभुजःप्रगृहीतशरासनः/अदृश्यतदशग्रीवोमैनाकइवपर्वतः/निरस्यमानोरामस्तुदशग्रीवेणरक्षसा/नाशकदभिसंधातुंसायकान्रणमूर्धनि/सकृत्वाभ्रुकुटींक्रुद्धःकिंचित्संरक्तलोचनः/जगामसुमहाक्रोधंनिर्दहन्निवचक्षुषा610238/तस्यक्रुद्धस्यवदनंदृष्ट्वारामस्यधीमतः/सर्वभूतानिवित्रेषुःप्राकम्पतचमेदिनी610239/सिंहशार्दूलवाञ्शैलःसंचचालाचलद्रुमः/बभूवचापिक्षुभितःसमुद्रःसरितांपतिः/खगाश्चखरनिर्घोषागगनेपरुषस्वनाः/औत्पातिकाविनर्दन्तःसमन्तात्परिचक्रमुः/रामंदृष्ट्वासुसंक्रुद्धमुत्पातांश्चसुदारुणान्/वित्रेषुःसर्वभूतानिरावणस्याविशद्भयम्/विमानस्थास्तदादेवागन्धर्वाश्चमहोरगाः/ऋषिदानवदैत्याश्चगरुत्मन्तश्चखेचराः/ददृशुस्तेतदायुद्धंलोकसंवर्तसंस्थितम्/नानाप्रहरणैर्भीमैःशूरयोःसंप्रयुध्यतोः/ऊचुःसुरासुराःसर्वेतदाविग्रहमागताः/प्रेक्षमाणामहायुद्धंवाक्यंभक्त्याप्रहृष्टवत्/दशग्रीवंजयेत्याहुरसुराःसमवस्थिताः/देवाराममथोचुस्तेत्वंजयेतिपुनःपुनः/एतस्मिन्नन्तरेक्रोधाद्राघवस्यसरावणः/प्रहर्तुकामोदुष्टात्मास्पृशन्प्रहरणंमहत्/वज्रसारंमहानादंसर्वशत्रुनिबर्हणम्/शैलशृङ्गनिभैःकूटैश्चितंदृष्टिभयावहम्/सधूममिवतीक्ष्णाग्रंयुगान्ताग्निचयोपमम्/अतिरौद्रमनासाद्यंकालेनापिदुरासदम्/त्रासनंसर्वभूतानांदारणंभेदनंतथा/प्रदीप्तइवरोषेणशूलंजग्राहरावणः/तच्छूलंपरमक्रुद्धोमध्येजग्राहवीर्यवान्/अनेकैःसमरेशूरैराक्षसैःपरिवारितः/समुद्यम्यमहाकायोननादयुधिभैरवम्/संरक्तनयनोरोषात्स्वसैन्यमभिहर्षयन्/पृथिवींचान्तरिक्षंचदिशश्चप्रदिशस्तथा/प्राकम्पयत्तदाशब्दोराक्षसेन्द्रस्यदारुणः/अतिनादस्यनादेनतेनतस्यदुरात्मनः/सर्वभूतानिवित्रेषुःसागरश्चप्रचुक्षुभे/सगृहीत्वामहावीर्यःशूलंतद्रावणोमहत्/विनद्यसुमहानादंरामंपरुषमब्रवीत्/शूलोऽयंवज्रसारस्तेरामरोषान्मयोद्यतः/तवभ्रातृसहायस्यसद्यःप्राणान्हरिष्यति/रक्षसामद्यशूराणांनिहतानांचमूमुखे/त्वांनिहत्यरणश्लाघिन्करोमितरसासमम्/तिष्ठेदानींनिहन्मित्वामेषशूलेनराघव/एवमुक्त्वासचिक्षेपतच्छूलंराक्षसाधिपः/आपतन्तंशरौघेणवारयामासराघवः/उत्पतन्तंयुगान्ताग्निंजलौघैरिववासवः/निर्ददाहसतान्बाणान्रामकार्मुकनिःसृतान्/रावणस्यमहाशूलःपतंगानिवपावकः/तान्दृष्ट्वाभस्मसाद्भूताञ्शूलसंस्पर्शचूर्णितान्/सायकानन्तरिक्षस्थान्राघवःक्रोधमाहरत्/सतांमातलिनानीतांशक्तिंवासवनिर्मिताम्/जग्राहपरमक्रुद्धोराघवोरघुनन्दनः/सातोलिताबलवताशक्तिर्घण्टाकृतस्वना/नभःप्रज्वालयामासयुगान्तोक्लेनसप्रभा/साक्षिप्ताराक्षसेन्द्रस्यतस्मिञ्शूलेपपातह/भिन्नःशक्त्यामहाञ्शूलोनिपपातगतद्युतिः/निर्बिभेदततोबाणैर्हयानस्यमहाजवान्/रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैःशितैःशरैः/निर्बिभेदोरसितदारावणंनिशितैःशरैः/राघवःपरमायत्तोललाटेपत्रिभिस्त्रिभिः/सशरैर्भिन्नसर्वाङ्गोगात्रप्रस्रुतशोणितः/राक्षसेन्द्रःसमूहस्थःफुल्लाशोकइवाबभौ/सरामबाणैरतिविद्धगात्रो॑निशाचरेन्द्रःक्षतजार्द्रगात्रः/जगामखेदंचसमाजमध्ये॑क्रोधंचचक्रेसुभृशंतदानीम्610270/सतुतेनतदाक्रोधात्काकुत्स्थेनार्दितोरणे/रावणःसमरश्लाघीमहाक्रोधमुपागमत्61031/सदीप्तनयनोरोषाच्चापमायम्यवीर्यवान्/अभ्यर्दयत्सुसंक्रुद्धोराघवंपरमाहवे/बाणधारासहस्रैस्तुसतोयदइवाम्बरात्/राघवंरावणोबाणैस्तटाकमिवपूरयत्/पूरितःशरजालेनधनुर्मुक्तेनसंयुगे/महागिरिरिवाकम्प्यःकाकुस्थोनप्रकम्पते/सशरैःशरजालानिवारयन्समरेस्थितः/गभस्तीनिवसूर्यस्यप्रतिजग्राहवीर्यवान्/ततःशरसहस्राणिक्षिप्रहस्तोनिशाचरः/निजघानोरसिक्रुद्धोराघवस्यमहात्मनः/सशोणितसमादिग्धःसमरेलक्ष्मणाग्रजः/दृष्टःफुल्लइवारण्येसुमहान्किंशुकद्रुमः/शराभिघातसंरब्धःसोऽपिजग्राहसायकान्/काकुत्स्थःसुमहातेजायुगान्तादित्यवर्चसः/ततोऽन्योन्यंसुसंरब्धावुभौतौरामरावणौ/शरान्धकारेसमरेनोपालक्षयतांतदा/ततःक्रोधसमाविष्टोरामोदशरथात्मजः/उवाचरावणंवीरःप्रहस्यपरुषंवचः/ममभार्याजनस्थानादज्ञानाद्राक्षसाधम/हृतातेविवशायस्मात्तस्मात्त्वंनासिवीर्यवान्/मयाविरहितांदीनांवर्तमानांमहावने/वैदेहींप्रसभंहृत्वाशूरोऽहमितिमन्यसे/स्त्रीषुशूरविनाथासुपरदाराभिमर्शके/कृत्वाकापुरुषंकर्मशूरोऽहमितिमन्यसे/भिन्नमर्यादनिर्लज्जचारित्रेष्वनवस्थित/दर्पान्मृत्युमुपादायशूरोऽहमितिमन्यसे/शूरेणधनदभ्रात्राबलैःसमुदितेनच/श्लाघनीयंयशस्यंचकृतंकर्ममहत्त्वया/उत्सेकेनाभिपन्नस्यगर्हितस्याहितस्यच/कर्मणःप्राप्नुहीदानींतस्याद्यसुमहत्फलम्/शूरोऽहमितिचात्मानमवगच्छसिदुर्मते/नैवलज्जास्तितेसीतांचोरवद्व्यपकर्षतः/यदिमत्संनिधौसीताधर्षितास्यात्त्वयाबलात्/भ्रातरंतुखरंपश्येस्तदामत्सायकैर्हतः/दिष्ट्यासिममदुष्टात्मंश्चक्षुर्विषयमागतः/अद्यत्वांसायकैस्तीक्ष्णैर्नयामियमसादनम्/अद्यतेमच्छरैश्छिन्नंशिरोज्वलितकुण्डलम्/क्रव्यादाव्यपकर्षन्तुविकीर्णंरणपांसुषु/निपत्योरसिगृध्रास्तेक्षितौक्षिप्तस्यरावण/पिबन्तुरुधिरंतर्षाद्बाणशल्यान्तरोथितम्/अद्यमद्बाणाभिन्नस्यगतासोःपतितस्यते/कर्षन्त्वन्त्राणिपतगागरुत्मन्तइवोरगान्/इत्येवंसवदन्वीरोरामःशत्रुनिबर्हणः/राक्षसेन्द्रंसमीपस्थंशरवर्षैरवाकिरत्/बभूवद्विगुणंवीर्यंबलंहर्षश्चसंयुगे/रामस्यास्त्रबलंचैवशत्रोर्निधनकाङ्क्षिणः/प्रादुर्बभूवुरस्त्राणिसर्वाणिविदितात्मनः/प्रहर्षाच्चमहातेजाःशीघ्रहस्ततरोऽभवत्/शुभान्येतानिचिह्नानिविज्ञायात्मगतानिसः/भूयएवार्दयद्रामोरावणंराक्षसान्तकृत्/हरीणांचाश्मनिकरैःशरवर्षैश्चराघवात्/हन्यमानोदशग्रीवोविघूर्णहृदयोऽभवत्/यदाचशस्त्रंनारेभेनव्यकर्षच्छरासनम्/नास्यप्रत्यकरोद्वीर्यंविक्लवेनान्तरात्मना/क्षिप्ताश्चापिशरास्तेनशस्त्राणिविविधानिच/नरणार्थायवर्तन्तेमृत्युकालेऽभिवर्ततः/सूतस्तुरथनेतास्यतदवस्थंनिरीक्ष्यतम्/शनैर्युद्धादसंभान्तोरथंतस्यापवाहयत्610330/सतुमोहात्सुसंक्रुद्धःकृतान्तबलचोदितः/क्रोधसंरक्तनयनोरावणोसूतमब्रवीत्61041/हीनवीर्यमिवाशक्तंपौरुषेणविवर्जितम्/भीरुंलघुमिवासत्त्वंविहीनमिवतेजसा/विमुक्तमिवमायाभिरस्त्रैरिवबहिष्कृतम्/मामवज्ञायदुर्बुद्धेस्वयाबुद्ध्याविचेष्टसे/किमर्थंमामवज्ञायमच्छन्दमनवेक्ष्यच/त्वयाशत्रुसमक्षंमेरथोऽयमपवाहितः/त्वयाद्यहिममानार्यचिरकालसमार्जितम्/यशोवीर्यंचतेजश्चप्रत्ययश्चविनाशिथ/शत्रोःप्रख्यातवीर्यस्यरञ्जनीयस्यविक्रमैः/पश्यतोयुद्धलुब्धोऽहंकृतःकापुरुषस्त्वया/यस्त्वंरथमिमंमोहान्नचोद्वहसिदुर्मते/सत्योऽयंप्रतितर्कोमेपरेणत्वमुपस्कृतः/नहीदंविद्यतेकर्मसुहृदोहितकाङ्क्षिणः/रिपूणांसदृशंचैतन्नत्वयैतत्स्वनुष्ठितम्/निवर्तयरथंशीघ्रंयावन्नापैतिमेरिपुः/यदिवाप्युषितोऽसित्वंस्मर्यन्तेयदिवागुणाः/एवंपरुषमुक्तस्तुहितबुद्धिरबुद्धिना/अब्रवीद्रावणंसूतोहितंसानुनयंवचः/नभीतोऽस्मिनमूढोऽस्मिनोपजप्तोऽस्मिशत्रुभिः/नप्रमत्तोननिःस्नेहोविस्मृतानचसत्क्रिया/मयातुहितकामेनयशश्चपरिरक्षता/स्नेहप्रस्कन्नमनसाप्रियमित्यप्रियंकृतम्/नास्मिन्नर्थेमहाराजत्वंमांप्रियहितेरतम्/कश्चिल्लघुरिवानार्योदोषतोगन्तुमर्हसि/श्रूयतामभिधास्यामियन्निमित्तंमयारथः/नदीवेगइवाम्भोभिःसंयुगेविनिवर्तितः/श्रमंतवावगच्छामिमहतारणकर्मणा/नहितेवीरसौमुख्यंप्रहर्षंवोपधारये/रथोद्वहनखिन्नाश्चतइमेरथवाजिनः/दीनाघर्मपरिश्रान्तागावोवर्षहताइव/निमित्तानिचभूयिष्ठंयानिप्रादुर्भवन्तिनः/तेषुतेष्वभिपन्नेषुलक्षयाम्यप्रदक्षिणम्/देशकालौचविज्ञेयौलक्ष्मणानीङ्गितानिच/दैन्यंहर्षश्चखेदश्चरथिनश्चबलाबलम्/स्थलनिम्नानिभूमेश्चसमानिविषमाणिच/युद्धकालश्चविज्ञेयःपरस्यान्तरदर्शनम्/उपयानापयानेचस्थानंप्रत्यपसर्पणम्/सर्वमेतद्रथस्थेनज्ञेयंरथकुटुम्बिना/तवविश्रामहेतोस्तुतथैषांरथवाजिनाम्/रौद्रंवर्जयताखेदंक्षमंकृतमिदंमया/नमयास्वेच्छयावीररथोऽयमपवाहितः/भर्तृस्नेहपरीतेनमयेदंयत्कृतंविभो/आज्ञापययथातत्त्वंवक्ष्यस्यरिनिषूदन/तत्करिष्याम्यहंवीरंगतानृण्येनचेतसा/संतुष्टस्तेनवाक्येनरावणस्तस्यसारथेः/प्रशस्यैनंबहुविधंयुद्धलुब्धोऽब्रवीदिदम्/रथंशीघ्रमिमंसूतराघवाभिमुखंकुरु/नाहत्वासमरेशत्रून्निवर्तिष्यतिरावणः/एवमुक्त्वाततस्तुष्टोरावणोराक्षसेश्वरः/ददौतस्यशुभंह्येकंहस्ताभरणमुत्तमम्/ततोद्रुतंरावणवाक्यचोदितः॑प्रचोदयामासहयान्ससारथिः/सराक्षसेन्द्रस्यततोमहारथः॑क्षणेनरामस्यरणाग्रतोऽभवत्610427/आदित्यह्रदयस्तोत्र/ततोयुद्धपरिश्रान्तम्समरेचिन्तयास्थितम।रावणम्चाग्रतोदृष्टवायुद्धायसमुपस्थितम॥1॥दैवतैश्चसमागम्यदृष्टुमभ्यागतोरणम।उपागम्याब्रवीद्राम-मगस्तयोभगवान्ऋषिः॥2॥रामराममहाबाहोशृणुगुह्यमसनातनम।येनसर्वानरीनवत्ससमरेविजयिष्यसि॥3॥आदित्यहृदयम्पुण्यमसर्वशत्रु-विनाशनम।जयावहम्जपेन्नित्य-मक्षय्यमपरमम्शिवम्॥4॥सर्वमंगल-मांगलयमसर्वपापप्रणाशनम्।चिंताशोक-प्रशमन-मायुरवर्धन-मुत्तमम्॥5॥/रश्मिमन्तमसमुद्यन्तमदेवासुर-नमस्कृतम्।पूजयस्वविवस्वन्तमभास्करम्भुवनेश्वरम्॥6॥सर्वदेवात्मकोह्येषतेजस्वीरश्मि-भावनः।एषदेवासुरगणान्लोकानपातिगभस्तिभिः॥7॥एषब्रह्माचविष्णुश्चशिवःस्कन्दःप्रजापतिः।महेन्द्रोधनदःकालोयमःसोमोह्यपामपतिः॥8॥पितरोवसवःसाध्याह्यश्विनौमरुतोमनुः।वायुर्वहनी:प्रजाप्राणऋतुकर्ताप्रभाकरः॥9॥आदित्यःसवितासूर्यःखगःपूषागभस्तिमान।सुवर्णसदृशोभानुर-हिरण्यरेतादिवाकरः॥10॥/हरिदश्वःसहस्रार्चि:सप्तसप्ति-रमरीचिमान।तिमिरोन्मन्थन:शम्भुस्त्वष्टामार्ताण्डअंशुमान॥11॥हिरण्यगर्भःशिशिरस्तपनोभास्करोरविः।अग्निगर्भोsदिते:पुत्रःशंखःशिशिरनाशन:॥12॥व्योमनाथस्तमोभेदीऋग्यजुस्सामपारगः।धनवृष्टिरपाममित्रोविंध्यवीथिप्लवंगम:॥13॥आतपीमंडलीमृत्युःपिंगलःसर्वतापनः।कविर्विश्वोमहातेजाःरक्तःसर्वभवोद्भव:॥14॥नक्षत्रग्रहताराणा-मधिपोविश्वभावनः।तेजसामपितेजस्वीद्वादशात्मन्नमोस्तुते॥15॥/नमःपूर्वायगिरयेपश्चिमायाद्रएनमः।ज्योतिर्गणानांपतयेदिनाधिपतयेनमः॥16॥जयायजयभद्रायहर्यश्वाएनमोनमः।नमोनमःसहस्रांशोआदित्यायनमोनमः॥17॥नमउग्रायवीरायसारंगायनमोनमः।नमःपद्मप्रबोधायमार्ताण्डायनमोनमः॥18॥ब्रह्मेशानाच्युतेषायसूर्यायादित्यवर्चसे।भास्वतेसर्वभक्षायरौद्रायवपुषेनमः॥19॥तमोघ्नायहिमघ्नायशत्रुघ्नायामितात्मने।कृतघ्नघ्नायदेवायज्योतिषाम्पतयेनमः॥20॥/तप्तचामिकराभायवह्नयेविश्वकर्मणे।नमस्तमोsभिनिघ्नायेरुचयेलोकसाक्षिणे॥21॥नाशयत्येषवैभूतमतदेवसृजतिप्रभुः।पायत्येषतपत्येषवर्षत्येषगभस्तिभिः॥22॥एषसुप्तेषुजागर्तिभूतेषुपरिनिष्ठितः।एषएवाग्निहोत्रम्चफलंचैवाग्निहोत्रिणाम॥23॥वेदाश्चक्रतवश्चैवक्रतुनामफलमेवच।यानिकृत्यानिलोकेषुसर्वएषरविःप्रभुः॥24॥एनमापत्सुकृच्छ्रेषुकान्तारेषुभयेषुच।कीर्तयनपुरुष:कश्चिन्नावसीदतिराघव॥25॥/पूज्यस्वैन-मेकाग्रोदेवदेवमजगत्पतिम।एततत्रिगुणितम्जप्त्वायुद्धेषुविजयिष्यसि॥26॥अस्मिनक्षणेमहाबाहोरावणम्तवंवधिष्यसि।एवमुक्त्वातदाsगस्त्योजगामचयथागतम्॥27॥एतच्छ्रुत्वामहातेजानष्टशोकोsभवत्तदा।धारयामाससुप्रितोराघवःप्रयतात्मवान॥28॥आदित्यंप्रेक्ष्यजप्त्वातुपरमहर्षमवाप्तवान्।त्रिराचम्यशुचिर्भूत्वाधनुरादायवीर्यवान॥29॥रावणमप्रेक्ष्यहृष्टात्मायुद्धायसमुपागमत।सर्वयत्नेनमहतावधेतस्यधृतोsभवत्॥30॥/अथरवि-रवद-न्निरिक्ष्यरामम।मुदितमनाःपरमम्प्रहृष्यमाण:।निशिचरपति-संक्षयम्विदित्वासुरगण-मध्यगतोवचस्त्वरेति॥31॥/इतिआदित्यहृदयम्मंत्रस्य।इत्यार्षेश्रीमद्रामायणेवाल्मीकीयेआदिकाव्येचतुर्विशतिसहस्त्रिकयांसंहितायामयुद्धकाण्डेआदित्यहृदयंनामसप्तोत्तरशततमःसर्गः।//तमापतन्तंसहसास्वनवन्तंमहाध्वजम्/रथंराक्षसराजस्यनरराजोददर्शह61064/कृष्णवाजिसमायुक्तंयुक्तंरौद्रेणवर्चसा/तडित्पताकागहनंदर्शितेन्द्रायुधायुधम्/शरधाराविमुञ्चन्तंधारासारमिवान्बुदम्/तंदृष्ट्वामेघसंकाशमापतन्तंरथंरिपोः/गिरेर्वज्राभिमृष्टस्यदीर्यतःसदृशस्वनम्/उवाचमातलिंरामःसहस्राक्षस्यसारथिम्/मातलेपश्यसंरब्धमापतन्तंरथंरिपोः/यथापसव्यंपततावेगेनमहतापुनः/समरेहन्तुमात्मानंतथानेनकृतामतिः/तदप्रमादमातिष्ठप्रत्युद्गच्छरथंरिपोः/विध्वंसयितुमिच्छामिवायुर्मेघमिवोत्थितम्/अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम्/रश्मिसंचारनियतंप्रचोदयरथंद्रुतम्/कामंनत्वंसमाधेयःपुरंदररथोचितः/युयुत्सुरहमेकाग्रःस्मारयेत्वांनशिक्षये/परितुष्टःसरामस्यतेनवाक्येनमातलिः/प्रचोदयामासरथंसुरसारथिसत्तमः/अपसव्यंततःकुर्वन्रावणस्यमहारथम्/चक्रोत्क्षिप्तेनरजसारावणंव्यवधूनयत्/ततःक्रुद्धोदशग्रीवस्ताम्रविस्फारितेक्षणः/रथप्रतिमुखंरामंसायकैरवधूनयत्/धर्षणामर्षितोरामोधैर्यंरोषेणलङ्घयन्/जग्राहसुमहावेगमैन्द्रंयुधिशरासनम्/शरांश्चसुमहातेजाःसूर्यरश्मिसमप्रभान्/तदुपोढंमहद्युद्धमन्योन्यवधकाङ्क्षिणोः/परस्पराभिमुखयोर्दृप्तयोरिवसिंहयोः/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/समीयुर्द्वैरथंद्रष्टुंरावणक्षयकाङ्क्षिणः/समुत्पेतुरथोत्पातादारुणालोमहर्षणाः/रावणस्यविनाशायराघवस्यजयायच/ववर्षरुधिरंदेवोरावणस्यरथोपरि/वातामण्डलिनस्तीव्राअपसव्यंप्रचक्रमुः/महद्गृध्रकुलंचास्यभ्रममाणंनभस्तले/येनयेनरथोयातितेनतेनप्रधावति/संध्ययाचावृतालङ्काजपापुष्पनिकाशया/दृश्यतेसंप्रदीतेवदिवसेऽपिवसुंधरा/सनिर्घातामहोल्काश्चसंप्रचेतुर्महास्वनाः/विषादयन्त्योरक्षांसिरावणस्यतदाहिताः/रावणश्चयतस्तत्रप्रचचालवसुंधरा/रक्षसांचप्रहरतांगृहीताइवबाहवः/ताम्राःपीताःसिताःश्वेताःपतिताःसूर्यरश्मयः/दृश्यन्तेरावणस्याङ्गेपर्वतस्येवधातवः/गृध्रैरनुगताश्चास्यवमन्त्योज्वलनंमुखैः/प्रणेदुर्मुखमीक्षन्त्यःसंरब्धमशिवंशिवाः/प्रतिकूलंववौवायूरणेपांसून्समुत्किरन्/तस्यराक्षसराजस्यकुर्वन्दृष्टिविलोपनम्/निपेतुरिन्द्राशनयःसैन्येचास्यसमन्ततः/दुर्विषह्यस्वनाघोराविनाजलधरस्वनम्/दिशश्चप्रदिशःसर्वाबभूवुस्तिमिरावृताः/पांसुवर्षेणमहतादुर्दर्शंचनभोऽभवत्/कुर्वन्त्यःकलहंघोरंसारिकास्तद्रथंप्रति/निपेतुःशतशस्तत्रदारुणादारुणस्वनाः/जघनेभ्यःस्फुलिङ्गांश्चनेत्रेभ्योऽश्रूणिसंततम्/मुमुचुस्तस्यतुरगास्तुल्यमग्निंचवारिच/एवंप्रकाराबहवःसमुत्पाताभयावहाः/रावणस्यविनाशायदारुणाःसंप्रजज्ञिरे/रामस्यापिनिमित्तानिसौम्यानिचशिवानिच/बभूवुर्जयशंसीनिप्रादुर्भूतानिसर्वशः/ततोनिरीक्ष्यात्मगतानिराघवो॑रणेनिमित्तानिनिमित्तकोविदः/जगामहर्षंचपरांचनिर्वृतिं॑चकारयुद्धेऽभ्यधिकंचविक्रमम्610636/ततःप्रवृत्तंसुक्रूरंरामरावणयोस्तदा/सुमहद्द्वैरथंयुद्धंसर्वलोकभयावहम्61071/ततोराक्षससैन्यंचहरीणांचमहद्बलम्/प्रगृहीतप्रहरणंनिश्चेष्टंसमतिष्ठत/संप्रयुद्धौततोदृष्ट्वाबलवन्नरराक्षसौ/व्याक्षिप्तहृदयाःसर्वेपरंविस्मयमागताः/नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः/तस्थुःप्रेक्ष्यचसंग्रामंनाभिजघ्नुःपरस्परम्/रक्षसांरावणंचापिवानराणांचराघवम्/पश्यतांविस्मिताक्षाणांसैन्यंचित्रमिवाबभौ/तौतुतत्रनिमित्तानिदृष्ट्वाराघवरावणौ/कृतबुद्धीस्थिरामर्षौयुयुधातेअभीतवत्/जेतव्यमितिकाकुत्स्थोमर्तव्यमितिरावणः/धृतौस्ववीर्यसर्वस्वंयुद्धेऽदर्शयतांतदा/ततःक्रोधाद्दशग्रीवःशरान्संधायवीर्यवान्/मुमोचध्वजमुद्दिश्यराघवस्यरथेस्थितम्/तेशरास्तमनासाद्यपुरंदररथध्वजम्/रक्तशक्तिंपरामृश्यनिपेतुर्धरणीतले/ततोरामोऽभिसंक्रुद्धश्चापमायम्यवीर्यवान्/कृतप्रतिकृतंकर्तुंमनसासंप्रचक्रमे/रावणध्वजमुद्दिश्यमुमोचनिशितंशरम्/महासर्पमिवासह्यंज्वलन्तंस्वेनतेजसा/जगामसमहींभित्त्वादशग्रीवध्वजंशरः/सनिकृत्तोऽपतद्भूमौरावणस्यरथध्वजः/ध्वजस्योन्मथनंदृष्ट्वारावणःसुमहाबलः/क्रोधजेनाग्निनासंख्येप्रदीप्तइवचाभवत्/सरोषवशमापन्नःशरवर्षंमहद्वमन्/रामस्यतुरगान्दिव्याञ्शरैर्विव्याधरावणः/तेविद्धाहरयस्तस्यनास्खलन्नापिबभ्रमुः/बभूवुःस्वस्थहृदयाःपद्मनालैरिवाहताः/तेषामसंभ्रमंदृष्ट्वावाजिनांरावणस्तदा/भूयएवसुसंक्रुद्धःशरवर्षंमुमोचह/गदाश्चपरिघांश्चैवचक्राणिमुसलानिच/गिरिशृङ्गाणिवृक्षांश्चतथाशूलपरश्वधान्/मायाविहितमेतत्तुशस्त्रवर्षमपातयत्/सहस्रशस्ततोबाणानश्रान्तहृदयोद्यमः/तुमुलंत्रासजननंभीमंभीमप्रतिस्वनम्/दुर्धर्षमभवद्युद्धेनैकशस्त्रमयंमहत्/विमुच्यराघवरथंसमन्ताद्वानरेबले/सायकैरन्तरिक्षंचचकाराशुनिरन्तरम्/मुमोचचदशग्रीवोनिःसङ्गेनान्तरात्मना/व्यायच्छमानंतंदृष्ट्वातत्परंरावणंरणे/प्रहसन्निवकाकुत्स्थःसंदधेसायकाञ्शितान्/समुमोचततोबाणान्रणेशतसहस्रशः/तान्दृष्ट्वारावणश्चक्रेस्वशरैःखंनिरन्तरम्/ततस्ताभ्यांप्रयुक्तेनशरवर्षेणभास्वता/शरबद्धमिवाभातिद्वितीयंभास्वदम्बरम्/नानिमित्तोऽभवद्बाणोनातिभेत्ताननिष्फलः/तथाविसृजतोर्बाणान्रामरावणयोर्मृधे/प्रायुध्येतामविच्छिन्नमस्यन्तौसव्यदक्षिणम्/चक्रतुस्तौशरौघैस्तुनिरुच्छ्वासमिवाम्बरम्/रावणस्यहयान्रामोहयान्रामस्यरावणः/जघ्नतुस्तौतदान्योन्यंकृतानुकृतकारिणौ610727/तौतथायुध्यमानौतुसमरेरामरावणौ/ददृशुःसर्वभूतानिविस्मितेनान्तरात्मना610729/अर्दयन्तौतुसमरेतयोस्तौस्यन्दनोत्तमौ/परस्परवधेयुक्तौघोररूपौबभूवतुः/मण्डलानिचवीथीश्चगतप्रत्यागतानिच/दर्शयन्तौबहुविधांसूतौसारथ्यजांगतिम्/अर्दयन्रावणंरामोराघवंचापिरावणः/गतिवेगंसमापन्नौप्रवर्तननिवर्तने/क्षिपतोःशरजालानितयोस्तौस्यन्दनोत्तमौ/चेरतुःसंयुगमहींसासारौजलदाविव/दर्शयित्वातदातौतुगतिंबहुविधांरणे/परस्परस्याभिमुखौपुनरेवचतस्थतुः/धुरंधुरेणरथयोर्वक्त्रंवक्त्रेणवाजिनाम्/पताकाश्चपताकाभिःसमेयुःस्थितयोस्तदा/रावणस्यततोरामोधनुर्मुक्तैःशितैःशरैः/चतुर्भिश्चतुरोदीप्तान्हयान्प्रत्यपसर्पयत्/सक्रोधवशमापन्नोहयानामपसर्पणे/मुमोचनिशितान्बाणान्राघवायनिशाचरः/सोऽतिविद्धोबलवतादशग्रीवेणराघवः/जगामनविकारंचनचापिव्यथितोऽभवत्/चिक्षेपचपुनर्बाणान्वज्रपातसमस्वनान्/सारथिंवज्रहस्तस्यसमुद्दिश्यनिशाचरः/मातलेस्तुमहावेगाःशरीरेपतिताःशराः/नसूक्ष्ममपिसंमोहंव्यथांवाप्रददुर्युधि/तयाधर्षणयाक्रोद्धोमातलेर्नतथात्मनः/चकारशरजालेनराघवोविमुखंरिपुम्/विंशतिंत्रिंशतंषष्टिंशतशोऽथसहस्रशः/मुमोचराघवोवीरःसायकान्स्यन्दनेरिपोः/गदानांमुसलानांचपरिघाणांचनिस्वनैः/शराणांपुङ्खवातैश्चक्षुभिताःसप्तसागराः/क्षुब्धानांसागराणांचपातालतलवासिनः/व्यथिताःपन्नगाःसर्वेदानवाश्चसहस्रशः/चकम्पेमेदिनीकृत्स्नासशैलवनकानना/भास्करोनिष्प्रभश्चाभून्नववौचापिमारुतः/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/चिन्तामापेदिरेसर्वेसकिंनरमहोरगाः/स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकास्तिष्ठन्तुशाश्वताः/जयतांराघवःसंख्येरावणंराक्षसेश्वरम्/ततःक्रुद्धोमहाबाहूरघूणांकीर्तिवर्धनः/संधायधनुषारामःक्षुरमाशीविषोपमम्/रावणस्यशिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्/तच्छिरःपतितंभूमौदृष्टंलोकैस्त्रिभिस्तदा/तस्यैवसदृशंचान्यद्रावणस्योत्थितंशिरः/तत्क्षिप्रंक्षिप्रहस्तेनरामेणक्षिप्रकारिणा/द्वितीयंरावणशिरश्छिन्नंसंयतिसायकैः/छिन्नमात्रंचतच्छीर्षंपुनरन्यत्स्मदृश्यते/तदप्यशनिसंकाशैश्छिन्नंरामेणसायकैः/एवमेवशतंछिन्नंशिरसांतुल्यवर्चसाम्/नचैवरावणस्यान्तोदृश्यतेजीवितक्षये/ततःसर्वास्त्रविद्वीरःकौसल्यानन्दिवर्धनः/मार्गणैर्बहुभिर्युक्तश्चिन्तयामासराघवः/मारीचोनिहतोयैस्तुखरोयैस्तुसुदूषणः/क्रञ्चारण्येविराधस्तुकबन्धोदण्डकावने/तइमेसायकाःसर्वेयुद्धेप्रत्ययिकामम/किंनुतत्कारणंयेनरावणेमन्दतेजसः/इतिचिन्तापरश्चासीदप्रमत्तश्चसंयुगे/ववर्षशरवर्षाणिराघवोरावणोरसि/रावणोऽपिततःक्रुद्धोरथस्थोराक्षसेश्वरः/गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे/देवदानवयक्षाणांपिशाचोरगरक्षसाम्/पश्यतांतन्महद्युद्धंसर्वरात्रमवर्तत/नैवरत्रिंनदिवसंनमुहूर्तंनचक्षणम्/रामरावणयोर्युद्धंविराममुपगच्छति610766/अथसंस्मारयामासराघवंमातलिस्तदा/अजानन्निवकिंवीरत्वमेनमनुवर्तसे61081/विसृजास्मैवधायत्वमस्त्रंपैतामहंप्रभो/विनाशकालःकथितोयःसुरैःसोऽद्यवर्तते/ततःसंस्मारितोरामस्तेनवाक्येनमातलेः/जग्राहसशरंदीप्तंनिश्वसन्तमिवोरगम्/यमस्मैप्रथमंप्रादादगस्त्योभगवानृषिः/ब्रह्मदत्तंमहद्बाणममोघंयुधिवीर्यवान्/ब्रह्मणानिर्मितंपूर्वमिन्द्रार्थममितौजसा/दत्तंसुरपतेःपूर्वंत्रिलोकजयकाङ्क्षिणः/यस्यवाजेषुपवनःफलेपावकभास्करौ/शरीरमाकाशमयंगौरवेमेरुमन्दरौ/जाज्वल्यमानंवपुषासुपुङ्खंहेमभूषितम्/तेजसासर्वभूतानांकृतंभास्करवर्चसं/सधूममिवकालाग्निंदीप्तमाशीविषंयथा/रथनागाश्ववृन्दानांभेदनंक्षिप्रकारिणम्/द्वाराणांपरिघाणांचगिरीणामपिभेदनम्/नानारुधिरसिक्ताङ्गंमेदोदिग्धंसुदारुणम्/वज्रसारंमहानादंनानासमितिदारुणम्/सर्ववित्रासनंभीमंश्वसन्तमिवपन्नगम्/कङ्कगृध्रबलानांचगोमायुगणरक्षसाम्/नित्यंभक्षप्रदंयुद्धेयमरूपंभयावहम्/नन्दनंवानरेन्द्राणांरक्षसामवसादनम्/वाजितंविविधैर्वाजैश्चारुचित्रैर्गरुत्मतः/तमुत्तमेषुंलोकानामिक्ष्वाकुभयनाशनम्/द्विषतांकीर्तिहरणंप्रहर्षकरमात्मनः/अभिमन्त्र्यततोरामस्तंमहेषुंमहाबलः/वेदप्रोक्तेनविधिनासंदधेकार्मुकेबली/सरावणायसंक्रुद्धोभृशमायम्यकार्मुकम्/चिक्षेपपरमायत्तस्तंशरंमर्मघातिनम्/सवज्रइवदुर्धर्षोवज्रबाहुविसर्जितः/कृतान्तइवचावार्योन्यपतद्रावणोरसि/सविसृष्टोमहावेगःशरीरान्तकरःशरः/बिभेदहृदयंतस्यरावणस्यदुरात्मनः/रुधिराक्तःसवेगेनजीवितान्तकरःशरः/रावणस्यहरन्प्राणान्विवेशधरणीतलम्/सशरोरावणंहत्वारुधिरार्द्रकृतच्छविः/कृतकर्मानिभृतवत्स्वतूणींपुनराविशत्/तस्यहस्ताद्धतस्याशुकार्मुकंतत्ससायकम्/निपपातसहप्राणैर्भ्रश्यमानस्यजीवितात्/गतासुर्भीमवेगस्तुनैरृतेन्द्रोमहाद्युतिः/पपातस्यन्दनाद्भूमौवृत्रोवज्रहतोयथा/तंदृष्ट्वापतितंभूमौहतशेषानिशाचराः/हतनाथाभयत्रस्ताःसर्वतःसंप्रदुद्रुवुः/नर्दन्तश्चाभिपेतुस्तान्वानराद्रुमयोधिनः/दशग्रीववधंदृष्ट्वाविजयंराघवस्यच/अर्दितावानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात्/हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः/ततोविनेदुःसंहृष्टावानराजितकाशिनः/वदन्तोराघवजयंरावणस्यचतंवधम्/अथान्तरिक्षेव्यनदत्सौम्यस्त्रिदशदुन्दुभिः/दिव्यगन्धवहस्तत्रमारुतःसुसुखोववौ/निपपातान्तरिक्षाच्चपुष्पवृष्टिस्तदाभुवि/किरन्तीराघवरथंदुरवापामनोहराः/राघवस्तवसंयुक्तागगनेचविशुश्रुवे/साधुसाध्वितिवागग्र्यादेवतानांमहात्मनाम्/आविवेशमहान्हर्षोदेवानांचारणैःसह/रावणेनिहतेरौद्रेसर्वलोकभयंकरे/ततःसकामंसुग्रीवमङ्गदंचमहाबलम्/चकारराघवःप्रीतोहत्वाराक्षसपुंगवम्/ततःप्रजग्मुःप्रशमंमरुद्गणा॑दिशःप्रसेदुर्विमलंनभो/ऽभवत्/महीचकम्पेनचमारुताववुः॑स्थिरप्रभश्चाप्यभवद्दिवाकरः/ततस्तुसुग्रीवविभीषणादयः॑सुहृद्विशेषाःसहलक्ष्मणास्तदा/समेत्यहृष्टाविजयेनराघवं॑रणेऽभिरामंविधिनाभ्यपूजयन्/सतुनिहतरिपुःस्थिरप्रतिज्ञः॑स्वजनबलाभिवृतोरणेरराज/रघुकुलनृपनन्दनोमहौजास्॑त्रिदशगणैरभिसंवृतोयथेन्द्रः610834/रावणंनिहतंश्रुत्वाराघवेणमहात्मना/अन्तःपुराद्विनिष्पेतूराक्षस्यःशोककर्शिताः61101/वार्यमाणाःसुबहुशोवृष्टन्त्यःक्षितिपांसुषु/विमुक्तकेश्योदुःखार्तागावोवत्सहतायथा/उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः/प्रविश्यायोधनंघोरंविचिन्वन्त्योहतंपतिम्/आर्यपुत्रेतिवादिन्योहानाथेतिचसर्वशः/परिपेतुःकबन्धाङ्कांमहींशोणितकर्दमाम्/ताबाष्पपरिपूर्णाक्ष्योभर्तृशोकपराजिताः/करेण्वइवनर्दन्त्योविनेदुर्हतयूथपाः/ददृशुस्तामहाकायंमहावीर्यंमहाद्युतिम्/रावणंनिहतंभूमौनीलाञ्जनचयोपमम्/ताःपतिंसहसादृष्ट्वाशयानंरणपांसुषु/निपेतुस्तस्यगात्रेषुछिन्नावनलताइव/बहुमानात्परिष्वज्यकाचिदेनंरुरोदह/चरणौकाचिदालिङ्ग्यकाचित्कण्ठेऽवलम्ब्यच/उद्धृत्यचभुजौकाचिद्भूमौस्मपरिवर्तते/हतस्यवदनंदृष्ट्वाकाचिन्मोहमुपागमत्/काचिदङ्केशिरःकृत्वारुरोदमुखमीक्षती/स्नापयन्तीमुखंबाष्पैस्तुषारैरिवपङ्कजम्/एवमार्ताःपतिंदृष्ट्वारावणंनिहतंभुवि/चुक्रुशुर्बहुधाशोकाद्भूयस्ताःपर्यदेवयन्/येनवित्रासितःशक्रोयेनवित्रासितोयमः/येनवैश्रवणोराजापुष्पकेणवियोजितः/गन्धर्वाणामृषीणांचसुराणांचमहात्मनाम्/भयंयेनमहद्दत्तंसोऽयंशेतेरणेहतः/असुरेभ्यःसुरेभ्योवापन्नगेभ्योऽपिवातथा/नभयंयोविजानातितस्येदंमानुषाद्भयम्/अवध्योदेवतानांयस्तथादानवरक्षसाम्/हतःसोऽयंरणेशेतेमानुषेणपदातिना/योनशक्यःसुरैर्हन्तुंनयक्षैर्नासुरैस्तथा/सोऽयंकश्चिदिवासत्त्वोमृत्युंमर्त्येनलम्भितः/एवंवदन्त्योबहुधारुरुदुस्तस्यताःस्त्रियः/भूयएवचदुःखार्ताविलेपुश्चपुनःपुनः/अशृण्वतातुसुहृदांसततंहितवादिनाम्/एताःसममिदानींतेवयमात्माचपातिताः/ब्रुवाणोऽपिहितंवाक्यमिष्टोभ्राताविभीषणः/धृष्टंपरुषितोमोहात्त्वयात्मवधकाङ्क्षिणा/यदिनिर्यातितातेस्यात्सीतारामायमैथिली/ननःस्याद्व्यसनंघोरमिदंमूलहरंमहत्/वृत्तकामोभवेद्भ्रातारामोमित्रकुलंभवेत्/वयंचाविधवाःसर्वाःसकामानचशत्रवः/त्वयापुनर्नृशंसेनसीतांसंरुन्धताबलात्/राक्षसावयमात्माचत्रयंतुलंनिपातितम्/नकामकारःकामंवातवराक्षसपुंगव/दैवंचेष्टयतेसर्वंहतंदैवेनहन्यते/वानराणांविनाशोऽयंराक्षसानांचतेरणे/तवचैवमहाबाहोदैवयोगादुपागतः/नैवार्थेननकामेनविक्रमेणनचाज्ञया/शक्यादैवगतिर्लोकेनिवर्तयितुमुद्यता/विलेपुरेवंदीनास्ताराक्षसाधिपयोषितः/कुरर्यइवदुःखार्ताबाष्पपर्याकुलेक्षणाः611026/तासांविलपमानानांतथाराक्षसयोषिताम्/ज्येष्ठापत्नीप्रियादीनाभर्तारंसमुदैक्षत61111/दशग्रीवंहतंदृष्ट्वारामेणाचिन्त्यकर्मणा/पतिंमन्दोदरीतत्रकृपणापर्यदेवयत्/ननुनाममहाबाहोतववैश्रवणानुज/क्रुद्धस्यप्रमुखेस्थातुंत्रस्यत्यपिपुरंदरः/ऋषयश्चमहीदेवागन्धर्वाश्चयशस्विनः/ननुनामतवोद्वेगाच्चारणाश्चदिशोगताः/सत्वंमानुषमात्रेणरामेणयुधिनिर्जितः/नव्यपत्रपसेराजन्किमिदंराक्षसर्षभ/कथंत्रैलोक्यमाक्रम्यश्रियावीर्येणचान्वितम्/अविषह्यंजघानत्वंमानुषोवनगोचरः/मानुषाणामविषयेचरतःकामरूपिणः/विनाशस्तवरामेणसंयुगेनोपपद्यते/नचैतत्कर्मरामस्यश्रद्दधामिचमूमुखे/सर्वतःसमुपेतस्यतवतेनाभिमर्शनम्/इन्द्रियाणिपुराजित्वाजितंत्रिभुवणंत्वया/स्मरद्भिरिवतद्वैरमिन्द्रियैरेवनिर्जितः/अथवारामरूपेणवासवःस्वयमागतः/मायांतवविनाशायविधायाप्रतितर्किताम्/यदैवहिजनस्थानेराक्षसैर्बहुभिर्वृतः/खरस्तवहतोभ्रातातदैवासौनमानुषः/यदैवनगरींलङ्कांदुष्प्रवेषांसुरैरपि/प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम्/क्रियतामविरोधश्चराघवेणेतियन्मया/उच्यमानोनगृह्णासितस्येयंव्युष्टिरागता/अकस्माच्चाभिकामोऽसिसीतांराक्षसपुंगव/ऐश्वर्यस्यविनाशायदेहस्यस्वजनस्यच/अरुन्धत्याविशिष्टांतांरोहिण्याश्चापिदुर्मते/सीतांधर्षयतामान्यांत्वयाह्यसदृशंकृतम्/नकुलेननरूपेणनदाक्षिण्येनमैथिली/मयाधिकावातुल्यावात्वंतुमोहान्नबुध्यसे/सर्वथासर्वभूतानांनास्तिमृत्युरलक्षणः/तवतावदयंमृत्युर्मैथिलीकृतलक्षणः/मैथिलीसहरामेणविशोकाविहरिष्यति/अल्पपुण्यात्वहंघोरेपतिताशोकसागरे/कैलासेमन्दरेमेरौतथाचैत्ररथेवने/देवोद्यानेषुसर्वेषुविहृत्यसहितात्वया/विमानेनानुरूपेणयायाम्यतुलयाश्रिया/पश्यन्तीविविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा/भ्रंशिताकामभोगेभ्यःसास्मिवीरवधात्तव/सत्यवाक्समहाभागोदेवरोमेयदब्रवीत्/अयंराक्षसमुख्यानांविनाशःपर्युपस्थितः/कामक्रोधसमुत्थेनव्यसनेनप्रसङ्गिना/त्वयाकृतमिदंसर्वमनाथंरक्षसांकुलम्/नहित्वंशोचितव्योमेप्रख्यातबलपौरुषः/स्त्रीस्वभावात्तुमेबुद्धिःकारुण्येपरिवर्तते/सुकृतंदुष्कृतंचत्वंगृहीत्वास्वांगतिंगतः/आत्मानमनुशोचामित्वद्वियोगेनदुःखिताम्/नीलजीमूतसंकाशःपीताम्बरशुभाङ्गदः/सर्वगात्राणिविक्षिप्यकिंशेषेरुधिराप्लुतः/प्रसुप्तइवशोकार्तांकिंमांनप्रतिभाषसे/महावीर्यस्यदक्षस्यसंयुगेष्वपलायिनः/यातुधानस्यदौहित्रींकिंत्वंमांनाभ्युदीक्षसे/येनसूदयसेशत्रून्समरेसूर्यवर्चसा/वज्रोवज्रधरस्येवसोऽयंतेसततार्चितः/रणेशत्रुप्रहरणोहेमजालपरिष्कृतः/परिघोव्यवकीर्णस्तेबाणैश्छिन्नःसहस्रधा/धिगस्तुहृदयंयस्याममेदंनसहस्रधा/त्वयिपञ्चत्वमापन्नेफलतेशोकपीडितम्/एतस्मिन्नन्तरेरामोविभीषणमुवाचह/संस्कारःक्रियतांभ्रातुःस्त्रियश्चैतानिवर्तय/तंप्रश्रितस्ततोरामंश्रुतवाक्योविभीषणः/विमृश्यबुद्ध्याधर्मज्ञोधर्मार्थसहितंवचः/रामस्यैवानुवृत्त्यर्थमुत्तरंप्रत्यभाषत/त्यक्तधर्मव्रतंक्रूरंनृशंसमनृतंतथा/नाहमर्होऽस्मिसंस्कर्तुंपरदाराभिमर्शकम्/भ्रातृरूपोहिमेशत्रुरेषसर्वाहितेरतः/रावणोनार्हतेपूजांपूज्योऽपिगुरुगौरवात्/नृशंसइतिमांरामवक्ष्यन्तिमनुजाभुवि/श्रुत्वातस्यगुणान्सर्वेवक्ष्यन्तिसुकृतंपुनः/तच्छ्रुत्वापरमप्रीतोरामोधर्मभृतांवरः/विभीषणमुवाचेदंवाक्यज्ञोवाक्यकोविदम्/तवापिमेप्रियंकार्यंत्वत्प्रभवाच्चमेजितम्/अवश्यंतुक्षमंवाच्योमयात्वंराक्षसेश्वर/अधर्मानृतसंयुक्तःकाममेषनिशाचरः/तेजस्वीबलवाञ्शूरःसंग्रामेषुचनित्यशः/शतक्रतुमुखैर्देवैःश्रूयतेनपराजितः/महात्माबलसंपन्नोरावणोलोकरावणः/मरणान्तानिवैराणिनिर्वृत्तंनःप्रयोजनम्/क्रियतामस्यसंस्कारोममाप्येषयथातव/त्वत्सकाशान्महाबाहोसंस्कारंविधिपूर्वकम्/क्षिप्रमर्हतिधर्मज्ञत्वंयशोभाग्भविष्यसि/राघवस्यवचःश्रुत्वात्वरमाणोविभीषणः/संस्कारेणानुरूपेणयोजयामासरावणम्/सददौपावकंतस्यविधियुक्तंविभीषणः/ताःस्त्रियोऽनुनयामाससान्त्वमुक्त्वापुनःपुनः/प्रविष्टासुचसर्वासुराक्षसीषुविभीषणः/रामपार्श्वमुपागम्यतदातिष्ठद्विनीतवत्/रामोऽपिसहसैन्येनससुग्रीवःसलक्ष्मणः/हर्षंलेभेरिपुंहत्वायथावृत्रंशतक्रतुः6111123/तेरावणवधंदृष्ट्वादेवगन्धर्वदानवाः/जग्मुस्तैस्तैर्विमानैःस्वैःकथयन्तःशुभाःकथाः61121/रावणस्यवधंघोरंराघवस्यपराक्रमम्/सुयुद्धंवानराणांचसुग्रीवसय्चमन्त्रितम्/अनुरागंचवीर्यंचसौमित्रेर्लक्ष्मणस्यच/कथयन्तोमहाभागाजग्मुर्हृष्टायथागतम्/राघवस्तुरथंदिव्यमिन्द्रदत्तंशिखिप्रभम्/अनुज्ञायमहाभागोमातलिंप्रत्यपूजयत्/राघवेणाभ्यनुज्ञातोमातलिःशक्रसारथिः/दिव्यंतंरथमास्थायदिवमेवारुरोहसः/तस्मिंस्तुदिवमारूढेसुरसारथिसत्तमे/राघवःपरमप्रीतःसुग्रीवंपरिषस्वजे/परिष्वज्यचसुग्रीवंलक्ष्मणेनाभिवादितः/पूज्यमानोहरिश्रेष्ठैराजगामबलालयम्/अब्रवीच्चतदारामःसमीपपरिवर्तिनम्/सौमित्रिंसत्त्वसंपन्नंलक्ष्मणंदीप्ततेजसं/विभीषणमिमंसौम्यलङ्कायामभिषेचय/अनुरक्तंचभक्तंचममचैवोपकारिणम्/एषमेपरमःकामोयदिमंरावणानुजम्/लङ्कायांसौम्यपश्येयमभिषिक्तंविभीषणम्/एवमुक्तस्तुसौमित्रीराघवेणमहात्मना/तथेत्युक्त्वातुसंहृष्टःसौवर्णंघटमाददे/घटेनतेनसौमित्रिरभ्यषिञ्चद्विभीषणम्/लङ्कायांरक्षसांमध्येराजानंरामशासनात्/अभ्यषिञ्चत्सधर्मात्माशुद्धात्मानंविभीषणम्/तस्यामात्याजहृषिरेभक्तायेचास्यराक्षसाः/दृष्ट्वाभिषिक्तंलङ्कायांराक्षसेन्द्रंविभीषणम्/राघवःपरमांप्रीतिंजगामसहलक्ष्मणः/सतद्राज्यंमहत्प्राप्यरामदत्तंविभीषणः/प्रकृतीःसान्त्वयित्वाचततोराममुपागमत्/अक्षतान्मोदकांल्लाजान्दिव्याःसुमनसस्तथा/आजह्रुरथसंहृष्टाःपौरास्तस्मैनिशाचराः/सतान्गृहीत्वादुर्धर्षोराघवायन्यवेदयत्/मङ्गल्यंमङ्गलंसर्वंलक्ष्मणायचवीर्यवान्/कृतकार्यंसमृद्धार्थंदृष्ट्वारामोविभीषणम्/प्रतिजग्राहतत्सर्वंतस्यैवप्रियकाम्यया/ततःशैलोपमंवीरंप्राञ्जलिंपार्श्वतःस्थितम्/अब्रवीद्राघवोवाक्यंहनूमन्तंप्लवंगमम्/अनुमान्यमहाराजमिमंसौम्यविभीषणम्/प्रविश्यरावणगृहंविनयेनोपसृत्यच/वैदेह्यामांकुशलिनंससुग्रीवंसलक्ष्मणम्/आचक्ष्वजयतांश्रेष्ठरावणंचमयाहतम्/प्रियमेतदुदाहृत्यमैथिल्यास्त्वंहरीश्वर/प्रतिगृह्यचसंदेशमुपावर्तितुमर्हसि611226/इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः/प्रविवेशपुरींलङ्कांपूज्यमानोनिशाचरैः61131/प्रविश्यतुमहातेजारावणस्यनिवेशनम्/ददर्शशशिनाहीनांसातङ्कामिवरोहिणीम्/निभृतःप्रणतःप्रह्वःसोऽभिगम्याभिवाद्यच/रामस्यवचनंसर्वमाख्यातुमुपचक्रमे/वैदेहिकुशलीरामःससुग्रीवःसलक्ष्मणः/कुशलंचाहसिद्धार्थोहतशत्रुररिंदमः/विभीषणसहायेनरामेणहरिभिःसह/निहतोरावणोदेविलक्ष्मणस्यनयेनच/पृष्ट्वाचकुशलंरामोवीरस्त्वांरघुनन्दनः/अब्रवीत्परमप्रीतःकृतार्थेनान्तरात्मना/प्रियमाख्यामितेदेवित्वांतुभयःसभाजये/दिष्ट्याजीवसिधर्मज्ञेजयेनममसंयुगे/लब्धोनोविजयःसीतेस्वस्थाभवगतव्यथा/रावणःसहतःशत्रुर्लङ्काचेयंवशेस्थिता/मयाह्यलब्धनिद्रेणधृतेनतवनिर्जये/प्रतिज्ञैषाविनिस्तीर्णाबद्ध्वासेतुंमहोदधौ/संभ्रमश्चनकर्तव्योवर्तन्त्यारावणालये/विभीषणविधेयंहिलङ्कैश्वर्यमिदंकृतम्/तदाश्वसिहिविश्वस्तास्वगृहेपरिवर्तसे/अयंचाभ्येतिसंहृष्टस्त्वद्दर्शनसमुत्सुकः/एवमुक्तासमुत्पत्यसीताशशिनिभानना/प्रहर्षेणावरुद्धासाव्याजहारनकिंचन/अब्रवीच्चहरिश्रेष्ठःसीतामप्रतिजल्पतीम्/किंत्वंचिन्तयसेदेविकिंचमांनाभिभाषसे/एवमुक्ताहनुमतासीताधर्मेव्यवस्थिता/अब्रवीत्परमप्रिताहर्षगद्गदयागिरा/प्रियमेतदुपश्रुत्यभर्तुर्विजयसंश्रितम्/प्रहर्षवशमापन्नानिर्वाक्यास्मिक्षणान्तरम्/नहिपश्यामिसदृशंचिन्तयन्तीप्लवंगम/मत्प्रियाख्यानकस्येहतवप्रत्यभिनन्दनम्/नचपश्यामितत्सौम्यपृथिव्यामपिवानर/सदृशंमत्प्रियाख्यानेतवदातुंभवेत्समम्/हिरण्यंवासुवर्णंवारत्नानिविविधानिच/राज्यंवात्रिषुलोकेषुनैतदर्हतिभाषितुम्/एवमुक्तस्तुवैदेह्याप्रत्युवाचप्लवंगमः/प्रगृहीताञ्जलिर्वाक्यंसीतायाःप्रमुखेस्थितः/भर्तुःप्रियहितेयुक्तेभर्तुर्विजयकाङ्क्षिणि/स्निग्धमेवंविधंवाक्यंत्वमेवार्हसिभाषितुम्/तवैतद्वचनंसौम्येसारवत्स्निग्धमेवच/रत्नौघाद्विविधाच्चापिदेवराज्याद्विशिष्यते/अर्थतश्चमयाप्राप्तादेवराज्यादयोगुणाः/हतशत्रुंविजयिनंरामंपश्यामियत्स्थितम्/इमास्तुखलुराक्षस्योयदित्वमनुमन्यसे/हन्तुमिच्छाम्यहंसर्वायाभिस्त्वंतर्जितापुरा/क्लिश्यन्तींपतिदेवांत्वामशोकवनिकांगताम्/घोररूपसमाचाराःक्रूराःक्रूरतरेक्षणाः/राक्षस्योदारुणकथावरमेतंप्रयच्छमे/इच्छामिविविधैर्घातैर्हन्तुमेताःसुदारुणाः/मुष्टिभिःपाणिभिश्चैवचरणैश्चैवशोभने/घोरैर्जानुप्रहारैश्चदशनानांचपातनैः/भक्षणैःकर्णनासानांकेशानांलुञ्चनैस्तथा/भृशंशुष्कमुखीभिश्चदारुणैर्लङ्घनैर्हतैः/एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि/हन्तुमिच्छाम्यहंदेवितवेमाःकृतकिल्बिषाः/एवमुक्तामहुमतावैदेहीजनकात्मजा/उवाचधर्मसहितंहनूमन्तंयशस्विनी/राजसंश्रयवश्यानांकुर्वतीनांपराज्ञया/विधेयानांचदासीनांकःकुप्येद्वानरोत्तम/भाग्यवैषम्ययोगेनपुरादुश्चरितेनच/मयैतेत्प्राप्यतेसर्वंस्वकृतंह्युपभुज्यते/प्राप्तव्यंतुदशायोगान्मयैतदितिनिश्चितम्/दासीनांरावणस्याहंमर्षयामीहदुर्बला/आज्ञप्तारावणेनैताराक्षस्योमामतर्जयन्/हतेतस्मिन्नकुर्युर्हितर्जनंवानरोत्तम/अयंव्याघ्रसमीपेतुपुराणोधर्मसंहितः/ऋक्षेणगीतःश्लोकोमेतंनिबोधप्लवंगम/नपरःपापमादत्तेपरेषांपापकर्मणाम्/समयोरक्षितव्यस्तुसन्तश्चारित्रभूषणाः/पापानांवाशुभानांवावधार्हाणांप्लवंगम/कार्यंकारुण्यमार्येणनकश्चिन्नापराध्यति/लोकहिंसाविहाराणांरक्षसांकामरूपिणम्/कुर्वतामपिपापानिनैवकार्यमशोभनम्/एवमुक्तस्तुहनुमान्सीतयावाक्यकोविदः/प्रत्युवाचततःसीतांरामपत्नींयशस्विनीम्/युक्तारामस्यभवतीधर्मपत्नीयशस्विनी/प्रतिसंदिशमांदेविगमिष्येयत्रराघवः/एवमुक्ताहनुमतावैदेहीजनकात्मजा/अब्रवीद्द्रष्टुमिच्छामिभर्तारंवानरोत्तम/तस्यास्तद्वचनंश्रुत्वाहनुमान्पवनात्मजः/हर्षयन्मैथिलींवाक्यमुवाचेदंमहाद्युतिः/पूर्णचन्द्राननंरामंद्रक्ष्यस्यार्येसलक्ष्मणम्/स्थिरमित्रंहतामित्रंशचीवत्रिदशेश्वरम्/तामेवमुक्त्वाराजन्तींसीतांसाक्षादिवश्रियम्/आजगाममहावेगोहनूमान्यत्रराघवः611352/सउवाचमहाप्रज्ञमभिगम्यप्लवंगमः/रामंवचनमर्थज्ञोवरंसर्वधनुष्मताम्61141/यन्निमित्तोऽयमारम्भःकर्मणांचफलोदयः/तांदेवींशोकसंतप्तांमैथिलींद्रष्टुमर्हसि/साहिशोकसमाविष्टाबाष्पपर्याकुलेक्षणा/मैथिलीविजयंश्रुत्वातवहर्षमुपागमत्/पूर्वकात्प्रत्ययाच्चाहमुक्तोविश्वस्तयातया/भर्तारंद्रष्टुमिच्छामिकृतार्थंसहलक्ष्मणम्/एवमुक्तोहनुमतारामोधर्मभृतांवरः/अगच्छत्सहसाध्यानमासीद्बाष्पपरिप्लुतः/दीर्घमुष्णंचनिश्वस्यमेदिनीमवलोकयन्/उवाचमेघसंकाशंविभीषणमुपस्थितम्/दिव्याङ्गरागांवैदेहींदिव्याभरणभूषिताम्/इहसीतांशिरःस्नातामुपस्थापयमाचिरम्/एवमुक्तस्तुरामेणत्वरमाणोविभीषणः/प्रविश्यान्तःपुरंसीतांस्त्रीभिःस्वाभिरचोदयत्/दिव्याङ्गरागावैदेहीदिव्याभरणभूषिता/यानमारोहभद्रंतेभर्तात्वांद्रष्टुमिच्छति/एवमुक्तातुवैदेहीप्रत्युवाचविभीषणम्/अस्नाताद्रष्टुमिच्छामिभर्तारंराक्षसाधिप/तस्यास्तद्वचनंश्रुत्वाप्रत्युवाचविभीषणः/यथाहंरामोभर्तातेतत्तथाकर्तुमर्हसि/तस्यतद्वचनंश्रुत्वामैथिलीभ्रातृदेवता/भर्तृभक्तिव्रतासाध्वीतथेतिप्रत्यभाषत/ततःसीतांशिरःस्नातांयुवतीभिरलंकृताम्/महार्हाभरणोपेतांमहार्हाम्बरधारिणीम्/आरोप्यशिबिकांदीप्तांपरार्ध्याम्बरसंवृताम्/रक्षोभिर्बहुभिर्गुप्तामाजहारविभीषणः/सोऽभिगम्यमहात्मानंज्ञात्वाभिध्यानमास्थितम्/प्रणतश्चप्रहृष्टश्चप्राप्तांसीतांन्यवेदयत्/तामागतामुपश्रुत्यरक्षोगृहचिरोषिताम्/हर्षोदैन्यंचरोषश्चत्रयंराघवमाविशत्/ततःपार्श्वगतंदृष्ट्वासविमर्शंविचारयन्/विभीषणमिदंवाक्यमहृष्टोराघवोऽब्रवीत्/राक्षसाधिपतेसौम्यनित्यंमद्विजयेरत/वैदेहीसंनिकर्षंमेशीघ्रंसमुपगच्छतु/सतद्वचनमाज्ञायराघवस्यविभीषणः/तूर्णमुत्सारणेयत्नंकारयामाससर्वतः/कञ्चुकोष्णीषिणस्तत्रवेत्रझर्झरपाणयः/उत्सारयन्तःपुरुषाःसमन्तात्परिचक्रमुः/ऋक्षाणांवानराणांचराक्षसानांचसर्वतः/वृन्दान्युत्सार्यमाणानिदूरमुत्ससृजुस्ततः/तेषामुत्सार्यमाणानांसर्वेषांध्वनिरुत्थितः/वायुनोद्वर्तमानस्यसागरस्येवनिस्वनः/उत्सार्यमाणांस्तान्दृष्ट्वासमन्ताज्जातसंभ्रमान्/दाक्षिण्यात्तदमर्षाच्चवारयामासराघवः/संरब्धश्चाब्रवीद्रामश्चक्षुषाप्रदहन्निव/विभीषणंमहाप्राज्ञंसोपालम्भमिदंवचः/किमर्थंमामनादृत्यकृश्यतेऽयंत्वयाजनः/निवर्तयैनमुद्योगंजनोऽयंस्वजनोमम/नगृहाणिनवस्त्राणिनप्राकारास्तिरस्क्रियाः/नेदृशाराजसत्कारावृत्तमावरणंस्त्रियः/व्यसनेषुनकृच्छ्रेषुनयुद्धेनस्वयंवरे/नक्रतौनोविवाहेचदर्शनंदुष्यतेस्त्रियः/सैषायुद्धगताचैवकृच्छ्रेमहतिचस्थिता/दर्शनेऽस्यानदोषःस्यान्मत्समीपेविशेषतः/तदानयसमीपंमेशीघ्रमेनांविभीषण/सीतापश्यतुमामेषासुहृद्गणवृतंस्थितम्/एवमुक्तस्तुरामेणसविमर्शोविभीषणः/रामस्योपानयत्सीतांसंनिकर्षंविनीतवत्/ततोलक्ष्मणसुग्रीवौहनूमांश्चप्लवंगमः/निशम्यवाक्यंरामस्यबभूवुर्व्यथिताभृशम्/कलत्रनिरपेक्षैश्चइङ्गितैरस्यदारुणैः/अप्रीतमिवसीतायांतर्कयन्तिस्मराघवम्/लज्जयात्ववलीयन्तीस्वेषुगात्रेषुमैथिली/विभीषणेनानुगताभर्तारंसाभ्यवर्तत/सावस्त्रसंरुद्धमुखीलज्जयाजनसंसदि/रुरोदासाद्यभर्तारमार्यपुत्रेतिभाषिणी/विस्मयाच्चप्रहर्षाच्चस्नेहाच्चपरिदेवता/उदैक्षतमुखंभर्तुःसौम्यंसौम्यतरानना/अथसमपनुदन्मनःक्लमंसा॑सुचिरमदृष्टमुदीक्ष्यवैप्रियस्य/वदनमुदितपूर्णचन्द्रकान्तं॑विमलशशाङ्कनिभाननातदासीत्611436/तांतुपार्श्वेस्थितांप्रह्वांरामःसंप्रेक्ष्यमैथिलीम्/हृदयान्तर्गतक्रोधोव्याहर्तुमुपचक्रमे61151/एषासिनिर्जिताभद्रेशत्रुंजित्वामयारणे/पौरुषाद्यदनुष्ठेयंतदेतदुपपादितम्/गतोऽस्म्यन्तममर्षस्यधर्षणासंप्रमार्जिता/अवमानश्चशत्रुश्चमयायुगपदुद्धृतौ/अद्यमेपौरुषंदृष्टमद्यमेसफलःश्रमः/अद्यतीर्णप्रतिज्ञत्वात्प्रभवामीहचात्मनः/यात्वंविरहितानीताचलचित्तेनरक्षसा/दैवसंपादितोदोषोमानुषेणमयाजितः/संप्राप्तमवमानंयस्तेजसानप्रमार्जति/कस्तस्यपुरुषार्थोऽस्तिपुरुषस्याल्पतेजसः/लङ्घनंचसमुद्रस्यलङ्कायाश्चावमर्दनम्/सफलंतस्यतच्छ्लाघ्यमद्यकर्महनूमतः/युद्धेविक्रमतश्चैवहितंमन्त्रयतश्चमे/सुग्रीवस्यससैन्यस्यसफलोऽद्यपरिश्रमः/निर्गुणंभ्रातरंत्यक्त्वायोमांस्वयमुपस्थितः/विभीषणस्यभक्तस्यसफलोऽद्यपरिश्रमः/इत्येवंब्रुवतस्तस्यसीतारामस्यतद्वचः/मृगीवोत्फुल्लनयनाबभूवाश्रुपरिप्लुता/पश्यतस्तांतुरामस्यभूयःक्रोधोऽभ्यवर्तत/प्रभूताज्यावसिक्तस्यपावकस्येवदीप्यतः/सबद्ध्वाभ्रुकुटिंवक्त्रेतिर्यक्प्रेक्षितलोचनः/अब्रवीत्परुषंसीतांमध्येवानररक्षसाम्/यत्कर्तव्यंमनुष्येणधर्षणांपरिमार्जता/तत्कृतंसकलंसीतेशत्रुहस्तादमर्षणात्/निर्जिताजीवलोकस्यतपसाभावितात्मना/अगस्त्येनदुराधर्षामुनिनादक्षिणेवदिक्/विदितश्चास्तुभद्रंतेयोऽयंरणपरिश्रमः/सतीर्णःसुहृदांवीर्यान्नत्वदर्थंमयाकृतः/रक्षतातुमयावृत्तमपवादंचसर्वशः/प्रख्यातस्यात्मवंशस्यन्यङ्गंचपरिमार्जता/प्राप्तचारित्रसंदेहाममप्रतिमुखेस्थिता/दीपोनेत्रातुरस्येवप्रतिकूलासिमेदृढम्/तद्गच्छह्यभ्यनुज्ञातायतेष्टंजनकात्मजे/एतादशदिशोभद्रेकार्यमस्तिनमेत्वया/कःपुमान्हिकुलेजातःस्त्रियंपरगृहोषिताम्/तेजस्विपुनरादद्यात्सुहृल्लेखेनचेतसा/रावणाङ्कपरिभ्रष्टांदृष्टांदुष्टेनचक्षुषा/कथंत्वांपुनरादद्यांकुलंव्यपदिशन्महत्/तदर्थंनिर्जितामेत्वंयशःप्रत्याहृतंमया/नास्तिमेत्वय्यभिष्वङ्गोयथेष्टंगम्यतामितः/इतिप्रव्याहृतंभद्रेमयैतत्कृतबुद्धिना/लक्ष्मणेभरतेवात्वंकुरुबुद्धिंयथासुखम्/सुग्रीवेवानरेन्द्रेवाराक्षसेन्द्रेविभीषणे/निवेशयमनःशीतेयथावासुखमात्मनः/नहित्वांरावणोदृष्ट्वादिव्यरूपांमनोरमाम्/मर्षयतेचिरंसीतेस्वगृहेपरिवर्तिनीम्/ततःप्रियार्हश्वरणातदप्रियं॑प्रियादुपश्रुत्यचिरस्यमैथिली/मुमोचबाष्पंसुभृशंप्रवेपिता॑गजेन्द्रहस्ताभिहतेववल्लरी611525/एवमुक्तातुवैदेहीपरुषंलोमहर्षणम्/राघवेणसरोषेणभृशंप्रव्यथिताभवत्61161/सातदश्रुतपूर्वंहिजनेमहतिमैथिली/श्रुत्वाभर्तृवचोरूक्षंलज्जयाव्रीडिताभवत्/प्रविशन्तीवगात्राणिस्वान्येवजनकात्मजा/वाक्शल्यैस्तैःसशल्येवभृशमश्रूण्यवर्तयत्/ततोबाष्पपरिक्लिष्टंप्रमार्जन्तीस्वमाननम्/शनैर्गद्गदयावाचाभर्तारमिदमब्रवीत्/किंमामसदृशंवाक्यमीदृशंश्रोत्रदारुणम्/रूक्षंश्रावयसेवीरप्राकृतःप्राकृतामिव/नतथास्मिमहाबाहोयथात्वमवगच्छसि/प्रत्ययंगच्छमेस्वेनचारित्रेणैवतेशपे/पृथक्स्त्रीणांप्रचारेणजातिंत्वंपरिशङ्कसे/परित्यजेमांशङ्कांतुयदितेऽहंपरीक्षिता/यद्यहंगात्रसंस्पर्शंगतास्मिविवशाप्रभो/कामकारोनमेतत्रदैवंतत्रापराध्यति/मदधीनंतुयत्तन्मेहृदयंत्वयिवर्तते/पराधीनेषुगात्रेषुकिंकरिष्याम्यनीश्वरा/सहसंवृद्धभावाच्चसंसर्गेणचमानद/यद्यहंतेनविज्ञाताहतातेनास्मिशाश्वतम्/प्रेषितस्तेयदावीरोहनूमानवलोककः/लङ्कास्थाहंत्वयावीरकिंतदानविसर्जिता/प्रत्यक्षंवानरेन्द्रस्यत्वद्वाक्यसमनन्तरम्/त्वयासंत्यक्तयावीरत्यक्तंस्याज्जीवितंमया/नवृथातेश्रमोऽयंस्यात्संशयेन्यस्यजीवितम्/सुहृज्जनपरिक्लेशोनचायंनिष्फलस्तव/त्वयातुनरशार्दूलक्रोधमेवानुवर्तता/लघुनेवमनुष्येणस्त्रीत्वमेवपुरस्कृतम्/अपदेशेनजनकान्नोत्पत्तिर्वसुधातलात्/ममवृत्तंचवृत्तज्ञबहुतेनपुरस्कृतम्/नप्रमाणीकृतःपाणिर्बाल्येबालेनपीडितः/ममभक्तिश्चशीलंचसर्वंतेपृष्ठतःकृतम्/एवंब्रुवाणारुदतीबाष्पगद्गदभाषिणी/अब्रवील्लक्ष्मणंसीतादीनंध्यानपरंस्थितम्/चितांमेकुरुसौमित्रेव्यसनस्यास्यभेषजम्/मिथ्यापवादोपहतानाहंजीवितुमुत्सहे/अप्रीतस्यगुणैर्भर्तुस्त्यक्तयाजनसंसदि/याक्षमामेगतिर्गन्तुंप्रवेक्ष्येहव्यवाहनम्/एवमुक्तस्तुवैदेह्यालक्ष्मणःपरवीरहा/अमर्षवशमापन्नोराघवाननमैक्षत/सविज्ञायमनश्छन्दंरामस्याकारसूचितम्/चितांचकारसौमित्रिर्मतेरामस्यवीर्यवान्/अधोमुखंततोरामंशनैःकृत्वाप्रदक्षिणम्/उपासर्पतवैदेहीदीप्यमानंहुताशनम्/प्रणम्यदेवताभ्यश्चब्राह्मणेभ्यश्चमैथिली/बद्धाञ्जलिपुटाचेदमुवाचाग्निसमीपतः/यथामेहृदयंनित्यंनापसर्पतिराघवात्/तथालोकस्यसाक्षीमांसर्वतःपातुपावकः/एवमुक्त्वातुवैदेहीपरिक्रम्यहुताशनम्/विवेशज्वलनंदीप्तंनिःसङ्गेनान्तरात्मना/जनःससुमहांस्तत्रबालवृद्धसमाकुलः/ददर्शमैथिलींतत्रप्रविशन्तींहुताशनम्/तस्यामग्निंविशन्त्यांतुहाहेतिविपुलःस्वनः/रक्षसांवानराणांचसंबभूवाद्भुतोपमः611636/ततोवैश्रवणोराजायमश्चामित्रकर्शनः/सहस्राक्षोमहेन्द्रश्चवरुणश्चपरंतपः61172/षडर्धनयनःश्रीमान्महादेवोवृषध्वजः/कर्तासर्वस्यलोकस्यब्रह्माब्रह्मविदांवरः/एतेसर्वेसमागम्यविमानैःसूर्यसंनिभैः/आगम्यनगरींलङ्कामभिजग्मुश्चराघवम्/ततःसहस्ताभरणान्प्रगृह्यविपुलान्भुजान्/अब्रुवंस्त्रिदशश्रेष्ठाःप्राञ्जलिंराघवंस्थितम्/कर्तासर्वस्यलोकस्यश्रेष्ठोज्ञानवतांवरः/उपेक्षसेकथंसीतांपतन्तींहव्यवाहने/कथंदेवगणश्रेष्ठमात्मानंनावबुध्यसे/ऋतधामावसुःपूर्वंवसूनांचप्रजापतिः/त्वंत्रयाणांहिलोकानामादिकर्तास्वयंप्रभुः/रुद्राणामष्टमोरुद्रःसाध्यानामपिपञ्चमः/अश्विनौचापितेकर्णौचन्द्रसूर्यौचचक्षुषी/अन्तेचादौचलोकानांदृश्यसेत्वंपरंतप/उपेक्षसेचवैदेहींमानुषःप्राकृतोयथा/इत्युक्तोलोकपालैस्तैःस्वामीलोकस्यराघवः/अब्रवीत्त्रिदशश्रेष्ठान्रामोधर्मभृतांवरः/आत्मानंमानुषंमन्येरामंदशरथात्मजम्/योऽहंयस्ययतश्चाहंभगवांस्तद्ब्रवीतुमे/इतिब्रुवाणंकाकुत्स्थंब्रह्माब्रह्मविदांवरः/अब्रवीच्छृणुमेरामसत्यंसत्यपराक्रम/भवान्नारायणोदेवःश्रीमांश्चक्रायुधोविभुः/एकशृङ्गोवराहस्त्वंभूतभव्यसपत्नजित्/अक्षरंब्रह्मसत्यंचमध्येचान्तेचराघव/लोकानांत्वंपरोधर्मोविष्वक्सेनश्चतुर्भुजः/शार्ङ्गधन्वाहृषीकेशःपुरुषःपुरुषोत्तमः/अजितःखड्गधृग्विष्णुःकृष्णश्चैवबृहद्बलः/सेनानीर्ग्रामणीश्चत्वंबुद्धिःसत्तंक्षमादमः/प्रभवश्चाप्ययश्चत्वमुपेन्द्रोमधुसूदनः/इन्द्रकर्मामहेन्द्रस्त्वंपद्मनाभोरणान्तकृत्/शरण्यंशरणंचत्वामाहुर्दिव्यामहर्षयः/सहस्रशृङ्गोवेदात्माशतजिह्वोमहर्षभः/त्वंयज्ञस्त्वंवषट्कारस्त्वमोंकारःपरंतप/प्रभवंनिधनंवातेनविदुःकोभवानिति/दृश्यसेसर्वभूतेषुब्राह्मणेषुचगोषुच/दिक्षुसर्वासुगगनेपर्वतेषुवनेषुच/सहस्रचरणःश्रीमाञ्शतशीर्षःसहस्रधृक्/त्वंधारयसिभूतानिवसुधांचसपर्वताम्/अन्तेपृथिव्याःसलिलेदृश्यसेत्वंमहोरगः/त्रींल्लोकान्धारयन्रामदेवगन्धर्वदानवान्/अहंतेहृदयंरामजिह्वादेवीसरस्वती/देवागात्रेषुलोमानिनिर्मिताब्रह्मणाप्रभो/निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा/संस्कारास्तेऽभवन्वेदानतदस्तित्वयाविना/जगत्सर्वंशरीरंतेस्थैर्यम्ंतेवसुधातलम्/अग्निःकोपःप्रसादस्तेसोमःश्रीवत्सलक्षण/त्वयालोकास्त्रयःक्रान्ताःपुराणेविक्रमैस्त्रिभिः/महेन्द्रश्चकृतोराजाबलिंबद्ध्वामहासुरम्/सीतालक्ष्मीर्भवान्विष्णुर्देवःकृष्णःप्रजापतिः/वधार्थंरावणस्येहप्रविष्टोमानुषींतनुम्/तदिदंनःकृतंकार्यंत्वयाधर्मभृतांवर/निहतोरावणोरामप्रहृष्टोदिवमाक्रम/अमोघंबलवीर्यंतेअमोघस्तेपराक्रमः/अमोघास्तेभविष्यन्तिभक्तिमन्तश्चयेनराः/येत्वांदेवंध्रुवंभक्ताःपुराणंपुरुषोत्तमम्/येनराःकीर्तयिष्यन्तिनास्तितेषांपराभवः611732/एतच्छ्रुत्वाशुभंवाक्यंपितामहसमीरितम्/अङ्केनादायवैदेहीमुत्पपातविभावसुः61181/तरुणादित्यसंकाशांतप्तकाञ्चनभूषणाम्/रक्ताम्बरधरांबालांनीलकुञ्चितमूर्धजाम्/अक्लिष्टमाल्याभरणांतथारूपांमनस्विनीम्/ददौरामायवैदेहीमङ्केकृत्वाविभावसुः/अब्रवीच्चतदारामंसाक्षीलोकस्यपावकः/एषातेरामवैदेहीपापमस्यानविद्यते/नैववाचानमनसानानुध्यानान्नचक्षुषा/सुवृत्तावृत्तशौण्डीरानत्वामतिचचारह/रावणेनापनीतैषावीर्योत्सिक्तेनरक्षसा/त्वयाविरहितादीनाविवशानिर्जनाद्वनात्/रुद्धाचान्तःपुरेगुप्तात्वक्चित्तात्वत्परायणा/रक्षिताराक्षसीसंघैर्विकृतैर्घोरदर्शनैः/प्रलोभ्यमानाविविधंभर्त्स्यमानाचमैथिली/नाचिन्तयततद्रक्षस्त्वद्गतेनान्तरात्मना/विशुद्धभावांनिष्पापांप्रतिगृह्णीष्वराघव/नकिंचिदभिधातव्यमहमाज्ञापयामिते/एवमुक्तोमहातेजाधृतिमान्दृढविक्रमः/अब्रवीत्त्रिदशश्रेष्ठंरामोधर्मभृतांवरः/अवश्यंत्रिषुलोकेषुसीतापावनमर्हति/दीर्घकालोषिताचेयंरावणान्तःपुरेशुभा/बालिशःखलुकामात्मारामोदशरथात्मजः/इतिवक्ष्यन्तिमांसन्तोजानकीमविशोध्यहि/अनन्यहृदयांभक्तांमच्चित्तपरिरक्षणीम्/अहमप्यवगच्छामिमैथिलींजनकात्मजाम्/प्रत्ययार्थंतुलोकानांत्रयाणांसत्यसंश्रयः/उपेक्षेचापिवैदेहींप्रविशन्तींहुताशनम्/इमामपिविशालाक्षींरक्षितांस्वेनतेजसा/रावणोनातिवर्तेतवेलामिवमहोदधिः/नहिशक्तःसदुष्टात्मामनसापिहिमैथिलीम्/प्रधर्षयितुमप्राप्तांदीप्तामग्निशिखामिव/नेयमर्हतिचैश्वर्यंरावणान्तःपुरेशुभा/अनन्याहिमयासीतांभास्करेणप्रभायथा/विशुद्धात्रिषुलोकेषुमैथिलीजनकात्मजा/नहिहातुमियंशक्याकीर्तिरात्मवतायथा/अवश्यंचमयाकार्यंसर्वेषांवोवचोहितम्/स्निग्धानांलोकमान्यानामेवंचब्रुवतांहितम्/इतीदमुक्त्वावचनंमहाबलैः॑प्रशस्यमानःस्वकृतेनकर्मणा/समेत्यरामःप्रिययामहाबलः॑सुखंसुखार्होऽनुबभूवराघवः611822/एतच्छ्रुत्वाशुभंवाक्यंराघवेणसुभाषितम्/इदंशुभतरंवाक्यंव्याजहारमहेश्वरः61191/पुष्कराक्षमहाबाहोमहावक्षःपरंतप/दिष्ट्याकृतमिदंकर्मत्वयाशस्त्रभृतांवर/दिष्ट्यासर्वस्यलोकस्यप्रवृद्धंदारुणंतमः/अपावृत्तंत्वयासंख्येरामरावणजंभयम्/आश्वास्यभरतंदीनंकौसल्यांचयशस्विनीम्/कैकेयींचसुमित्रांचदृष्ट्वालक्ष्मणमातरम्/प्राप्यराज्यमयोध्यायांनन्दयित्वासुहृज्जनम्/इक्ष्वाकूणांकुलेवंशंस्थापयित्वामहाबल/इष्ट्वातुरगमेधेनप्राप्यचानुत्तमंयशः/ब्राह्मणेभ्योधनंदत्त्वात्रिदिवंगन्तुमर्हसि/एषराजाविमानस्थःपितादशरथस्तव/काकुत्स्थमानुषेलोकेगुरुस्तवमहायशाः/इन्द्रलोकंगतःश्रीमांस्त्वयापुत्रेणतारितः/लक्ष्मणेनसहभ्रात्रात्वमेनमभिवादय/महादेववचःश्रुत्वाकाकुत्स्थःसहलक्ष्मणः/विमानशिखरस्थस्यप्रणाममकरोत्पितुः/दीप्यमानंस्वयांलक्ष्म्याविरजोऽम्बरधारिणम्/लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः/हर्षेणमहताविष्टोविमानस्थोमहीपतिः/प्राणैःप्रियतरंदृष्ट्वापुत्रंदशरथस्तदा/आरोप्याङ्कंमहाबाहुर्वरासनगतःप्रभुः/बाहुभ्यांसंपरिष्वज्यततोवाक्यंसमाददे/नमेस्वर्गोबहुमतःसंमानश्चसुरर्षिभिः/त्वयारामविहीनस्यसत्यंप्रतिशृणोमिते/कैकेय्यायानिचोक्तानिवाक्यानिवदतांवर/तवप्रव्राजनार्थानिस्थितानिहृदयेमम/त्वांतुदृष्ट्वाकुशलिनंपरिष्वज्यसलक्ष्मणम्/अद्यदुःखाद्विमुक्तोऽस्मिनीहारादिवभास्करः/तारितोऽहंत्वयापुत्रसुपुत्रेणमहात्मना/अष्टावक्रेणधर्मात्मातारितोब्राह्मणोयथा/इदानींचविजानामियथासौम्यसुरेश्वरैः/वधार्थंरावणस्येहविहितंपुरुषोत्तमम्/सिद्धार्थाखलुकौसल्यायात्वांरामगृहंगतम्/वनान्निवृत्तंसंहृष्टाद्रक्ष्यतेशत्रुसूदन/सिद्धार्थाःखलुतेरामनरायेत्वांपुरींगतम्/जलार्द्रमभिषिक्तंचद्रक्ष्यन्तिवसुधाधिपम्/अनुरक्तेनबलिनाशुचिनाधर्मचारिणा/इच्छेयंत्वामहंद्रष्टुंभरतेनसमागतम्/चतुर्दशसमाःसौम्यवनेनिर्यापितास्त्वया/वसतासीतयासार्धंलक्ष्मणेनचधीमता/निवृत्तवनवासोऽसिप्रतिज्ञासफलाकृता/रावणंचरणेहत्वादेवास्तेपरितोषिताः/कृतंकर्मयशःश्लाघ्यंप्राप्तंतेशत्रुसूदन/भ्रातृभिःसहराज्यस्थोदीर्घमायुरवाप्नुहि/इतिब्रुवाणंराजानंरामःप्राञ्जलिरब्रवीत्/कुरुप्रसादंधर्मज्ञकैकेय्याभरतस्यच/सपुत्रांत्वांत्यजामीतियदुक्ताकैकयीत्वया/सशापःकैकयींघोरःसपुत्रांनस्पृशेत्प्रभो/सतथेतिमहाराजोराममुक्त्वाकृताञ्जलिम्/लक्ष्मणंचपरिष्वज्यपुनर्वाक्यमुवाचह/रामंशुश्रूषताभक्त्यावैदेह्यासहसीतया/कृतामममहाप्रीतिःप्राप्तंधर्मफलंचते/धर्मंप्राप्स्यसिधर्मज्ञयशश्चविपुलंभुवि/रामेप्रसन्नेस्वर्गंचमहिमानंतथैवच/रामंशुश्रूषभद्रंतेसुमित्रानन्दवर्धन/रामःसर्वस्यलोकस्यशुभेष्वभिरतःसदा/एतेसेन्द्रास्त्रयोलोकाःसिद्धाश्चपरमर्षयः/अभिगम्यमहात्मानमर्चन्तिपुरुषोत्तमम्/एतत्तदुक्तमव्यक्तमक्षरंब्रह्मनिर्मितम्/देवानांहृदयंसौम्यगुह्यंरामःपरंतपः/अवाप्तंधर्मचरणंयशश्चविपुलंत्वया/रामंशुश्रूषताभक्त्यावैदेह्यासहसीतया/सतथोक्त्वामहाबाहुर्लक्ष्मणंप्राञ्जलिंस्थितम्/उवाचराजाधर्मात्मावैदेहींवचनंशुभम्/कर्तव्योनतुवैदेहिमन्युस्त्यागमिमंप्रति/रामेणत्वद्विशुद्ध्यर्थंकृतमेतद्धितैषिणा/नत्वंसुभ्रुसमाधेयापतिशुश्रूवणंप्रति/अवश्यंतुमयावाच्यमेषतेदैवतंपरम्/इतिप्रतिसमादिश्यपुत्रौसीतांतथास्नुषाम्/इन्द्रलोकंविमानेनययौदशरथोज्वलन्611938/प्रतिप्रयातेकाकुत्स्थेमहेन्द्रःपाकशासनः/अब्रवीत्परमप्रीतोराघवंप्राञ्जलिंस्थितम्61201/अमोघंदर्शनंरामतवास्माकंपरंतप/प्रीतियुक्तोऽस्मितेनत्वंब्रूहियन्मनसेच्छसि/एवमुक्तस्तुकाकुत्स्थःप्रत्युवाचकृताञ्जलिः/लक्ष्मणेनसहभ्रात्रासीतयाचापिभार्यया/यदिप्रीतिःसमुत्पन्नामयिसर्वसुरेश्वर/वक्ष्यामिकुरुमेसत्यंवचनंवदतांवर/ममहेतोःपराक्रान्तायेगतायमसादनम्/तेसर्वेजीवितंप्राप्यसमुत्तिष्ठन्तुवानराः/मत्प्रियेष्वभिरक्ताश्चनमृत्युंगणयन्तिच/त्वत्प्रसादात्समेयुस्तेवरमेतदहंवृणे/नीरुजान्निर्व्रणांश्चैवसंपन्नबलपौरुषान्/गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामिमानद/अकालेचापिमुख्यानिमूलानिचफलानिच/नद्यश्चविमलास्तत्रतिष्ठेयुर्यत्रवानराः/श्रुत्वातुवचनंतस्यराघवस्यमहात्मनः/महेन्द्रःप्रत्युवाचेदंवचनंप्रीतिलक्षणम्/महानयंवरस्तातत्वयोक्तोरघुनन्दन/समुत्थास्यन्तिहरयःसुप्तानिद्राक्षयेयथा/सुहृद्भिर्बान्धवैश्चैवज्ञातिभिःस्वजनेनच/सर्वएवसमेष्यन्तिसंयुक्ताःपरयामुदा/अकालेपुष्पशबलाःफलवन्तश्चपादपाः/भविष्यन्तिमहेष्वासनद्यश्चसलिलायुताः/सव्रणैःप्रथमंगात्रैःसंवृतैर्निव्रणैःपुनः/बभूवुर्वानराःसर्वेकिमेतदितिविस्मितः/काकुत्स्थंपरिपूर्णार्थंदृष्ट्वासर्वेसुरोत्तमाः/ऊचुस्तेप्रथमंस्तुत्वास्तवार्हंसहलक्ष्मणम्/गच्छायोध्यामितोवीरविसर्जयचवानरान्/मैथिलींसान्त्वयस्वैनामनुरक्तांतपस्विनीम्/भ्रातरंपश्यभरतंत्वच्छोकाद्व्रतचारिणम्/अभिषेचयचात्मानंपौरान्गत्वाप्रहर्षय/एवमुक्त्वातमामन्त्र्यरामंसौमित्रिणासह/विमानैःसूर्यसंकाशैर्हृष्टाजग्मुःसुरादिवम्/अभिवाद्यचकाकुत्स्थःसर्वांस्तांस्त्रिदशोत्तमान्/लक्ष्मणेनसहभ्रात्रावासमाज्ञापयत्तदा/ततस्तुसालक्ष्मणरामपालिता॑महाचमूर्हृष्टजनायशस्विनी/श्रियाज्वलन्तीविरराजसर्वतो॑निशाप्रणीतेवहिशीतरश्मिना612024/तांरात्रिमुषितंरामंसुखोत्थितमरिंदमम्/अब्रवीत्प्राञ्जलिर्वाक्यंजयंपृष्ट्वाविभीषणः61211/स्नानानिचाङ्गरागाणिवस्त्राण्याभरणानिच/चन्दनानिचदिव्यानिमाल्यानिविविधानिच/अलंकारविदश्चेमानार्यःपद्मनिभेक्षणाः/उपस्थितास्त्वांविधिवत्स्नापयिष्यन्तिराघव/एवमुक्तस्तुकाकुत्स्थःप्रत्युवाचविभीषणम्/हरीन्सुग्रीवमुख्यांस्त्वंस्नानेनोपनिमन्त्रय/सतुताम्यतिधर्मात्माममहेतोःसुखोचितः/सुकुमारोमहाबाहुःकुमारःसत्यसंश्रवः/तंविनाकैकेयीपुत्रंभरतंधर्मचारिणम्/नमेस्नानंबहुमतंवस्त्राण्याभरणानिच/इतएवपथाक्षिप्रंप्रतिगच्छामतांपुरीम्/अयोध्यामायतोह्येषपन्थाःपरमदुर्गमः/एवमुक्तस्तुकाकुत्स्थंप्रत्युवाचविभीषणः/अह्नात्वांप्रापयिष्यामितांपुरींपार्थिवात्मज/पुष्पकंनामभद्रंतेविमानंसूर्यसंनिभम्/ममभ्रातुःकुबेरस्यरावणेनाहृतंबलात्/तदिदंमेघसंकाशंविमानमिहतिष्ठति/तेनयास्यसियानेनत्वमयोध्यांगजज्वरः/अहंतेयद्यनुग्राह्योयदिस्मरसिमेगुणान्/वसतावदिहप्राज्ञयद्यस्तिमयिसौहृदम्/लक्ष्मणेनसहभ्रात्रावैदेह्याचापिभार्यया/अर्चितःसर्वकामैस्त्वंततोरामगमिष्यसि/प्रीतियुक्तस्तुमेरामससैन्यःससुहृद्गणः/सत्क्रियांविहितांतावद्गृहाणत्वंमयोद्यताम्/प्रणयाद्बहुमानाच्चसौहृदेनचराघव/प्रसादयामिप्रेष्योऽहंनखल्वाज्ञापयामिते/एवमुक्तस्ततोरामःप्रत्युवाचविभीषणम्/रक्षसांवानराणांचसर्वेषांचोपशृण्वताम्/पूजितोऽहंत्वयावीरसाचिव्येनपरंतप/सर्वात्मनाचचेष्टिभिःसौहृदेनोत्तमेनच/नखल्वेतन्नकुर्यांतेवचनंराक्षसेश्वर/तंतुमेभ्रातरंद्रष्टुंभरतंत्वरतेमनः/मांनिवर्तयितुंयोऽसौचित्रकूटमुपागतः/शिरसायाचतोयस्यवचनंनकृतंमया/कौसल्यांचसुमित्रांचकैकेयींचयशस्विनीम्/गुरूंश्चसुहृदश्चैवपौरांश्चतनयैःसह/उपस्थापयमेक्षिप्रंविमानंराक्षसेश्वर/कृतकार्यस्यमेवासःकथंचिदिहसंमतः/अनुजानीहिमांसौम्यपूजितोऽस्मिविभीषण/मन्युर्नखलुकर्तव्यस्त्वरितस्त्वानुमानये/ततःकाञ्चनचित्राङ्गंवैदूर्यमणिवेदिकम्/कूटागारैःपरिक्षिप्तंसर्वतोरजतप्रभम्/पाण्डुराभिःपताकाभिर्ध्वजैश्चसमलंकृतम्/शोभितंकाञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम्/प्रकीर्णंकिङ्किणीजालैर्मुक्तामणिगवाक्षितम्/घण्टाजालैःपरिक्षिप्तंसर्वतोमधुरस्वनम्/तन्मेरुशिखराकारंनिर्मितंविश्वकर्मणा/बहुभिर्भूषितंहर्म्यैर्मुक्तारजतसंनिभौ/तलैःस्फटिकचित्राङ्गैर्वैदूर्यैश्चवरासनैः/महार्हास्तरणोपेतैरुपपन्नंमहाधनैः/उपस्थितमनाधृष्यंतद्विमानंमनोजवम्/निवेदयित्वारामायतस्थौतत्रविभीषणः612129/उपस्थितंतुतंदृष्ट्वापुष्पकंपुष्पभूषितम्/अविदूरेस्थितंरामंप्रत्युवाचविभीषणः61221/सतुबद्धाञ्जलिःप्रह्वोविनीतोराक्षसेश्वरः/अब्रवीत्त्वरयोपेतःकिंकरोमीतिराघवम्/तमब्रवीन्महातेजालक्ष्मणस्योपशृण्वतः/विमृश्यराघवोवाक्यमिदंस्नेहपुरस्कृतम्/कृतप्रयत्नकर्माणोविभीषणवनौकसः/रत्नैरर्थैश्चविविभैर्भूषणैश्चाभिपूजय/सहैभिरर्दितालङ्कानिर्जिताराक्षसेश्वर/हृष्टैःप्राणभयंत्यक्त्वासंग्रामेष्वनिवर्तिभिः/एवंसंमानिताश्चेमेमानार्हामानदत्वया/भविष्यन्तिकृतज्ञेननिर्वृताहरियूथपाः/त्यागिनंसंग्रहीतारंसानुक्रोशंयशस्विनम्/यतस्त्वामवगच्छन्तिततःसंबोधयामिते/एवमुक्तस्तुरामेणवानरांस्तान्विभीषणः/रत्नार्थैःसंविभागेनसर्वानेवान्वपूजयत्/ततस्तान्पूजितान्दृष्ट्वारत्नैरर्थैश्चयूथपान्/आरुरोहततोरामस्तद्विमानमनुत्तमम्/अङ्केनादायवैदेहींलज्जमानांयशस्विनीम्/लक्ष्मणेनसहभ्रात्राविक्रान्तेनधनुष्मता/अब्रवीच्चविमानस्थःकाकुत्स्थःसर्ववानरान्/सुग्रीवंचमहावीर्यंराक्षसंचविभीषणम्/मित्रकार्यंकृतमिदंभवद्भिर्वानरोत्तमाः/अनुज्ञातामयासर्वेयथेष्टंप्रतिगच्छत/यत्तुकार्यंवयस्येनसुहृदावापरंतप/कृतंसुग्रीवतत्सर्वंभवताधर्मभीरुणा/किष्किन्धांप्रतियाह्याशुस्वसैन्येनाभिसंवृतः/स्वराज्येवसलङ्कायांमयादत्तेविभीषण/नत्वांधर्षयितुंशक्ताःसेन्द्राअपिदिवौकसः/अयोध्यांप्रतियास्यामिराजधानींपितुर्मम/अभ्यनुज्ञातुमिच्छामिसर्वानामन्त्रयामिवः/एवमुक्तास्तुरामेणवानरास्तेमहाबलाः/ऊचुःप्राञ्जलयोरामंराक्षसश्चविभीषणः/अयोध्यांगन्तुमिच्छामःसर्वान्नयतुनोभवान्/दृष्ट्वात्वामभिषेकार्द्रंकौसल्यामभिवाद्यच/अचिरेणागमिष्यामःस्वान्गृहान्नृपतेःसुत/एवमुक्तस्तुधर्मात्मावानरैःसविभीषणैः/अब्रवीद्राघवःश्रीमान्ससुग्रीवविभीषणान्/प्रियात्प्रियतरंलब्धंयदहंससुहृज्जनः/सर्वैर्भवद्भिःसहितःप्रीतिंलप्स्येपुरींगतः/क्षिप्रमारोहसुग्रीवविमानंवानरैःसह/त्वमध्यारोहसामात्योराक्षसेन्द्रविभीषण/ततस्तत्पुष्पकंदिव्यंसुग्रीवःसहसेनया/अध्यारोहत्त्वरञ्शीघ्रंसामात्यश्चविभीषणः/तेष्वारूढेषुसर्वेषुकौबेरंपरमासनम्/राघवेणाभ्यनुज्ञातमुत्पपातविहायसं/ययौतेनविमानेनहंसयुक्तेनभास्वता/प्रहृष्टश्चप्रतीतश्चबभौरामःकुबेरवत्612226/अनुज्ञातंतुरामेणतद्विमानमनुत्तमम्/उत्पपातमहामेघःश्वसनेनोद्धतोयथा61231/पातयित्वाततश्चक्षुःसर्वतोरघुनन्दनः/अब्रवीन्मैथिलींसीतांरामःशशिनिभाननाम्/कैलासशिखराकारेत्रिकूटशिखरेस्थिताम्/लङ्कामीक्षस्ववैदेहिनिर्मितांविश्वकर्मणा/एतदायोधनंपश्यमांसशोणितकर्दमम्/हरीणांराक्षसानांचसीतेविशसनंमहत्/तवहेतोर्विशालाक्षिरावणोनिहतोमया/कुम्भकर्णोऽत्रनिहतःप्रहस्तश्चनिशाचरः/लक्ष्मणेनेन्द्रजिच्चात्ररावणिर्निहतोरणे/विरूपाक्षश्चदुष्प्रेक्ष्योमहापार्श्वमहोदरौ/अकम्पनश्चनिहतोबलिनोऽन्येचराक्षसाः/त्रिशिराश्चातिकायश्चदेवान्तकनरान्तकौ/अत्रमन्दोदरीनामभार्यातंपर्यदेवयत्/सपत्नीनांसहस्रेणसास्रेणपरिवारिता/एतत्तुदृश्यतेतीर्थंसमुद्रस्यवरानने/यत्रसागरमुत्तीर्यतांरात्रिमुषितावयम्/एषसेतुर्मयाबद्धःसागरेसलिलार्णवे/तवहेतोर्विशालाक्षिनलसेतुःसुदुष्करः/पश्यसागरमक्षोभ्यंवैदेहिवरुणालयम्/अपारमभिगर्जन्तंशङ्खशुक्तिनिषेवितम्/हिरण्यनाभंशैलेन्द्रंकाञ्चनंपश्यमैथिलि/विश्रमार्थंहनुमतोभित्त्वासागरमुत्थितम्/अत्रराक्षसराजोऽयमाजगामविभीषणः/एषासादृश्यतेसीतेकिष्किन्धाचित्रकानना/सुग्रीवस्यपुरीरम्यायत्रवालीमयाहतः/दृश्यतेऽसौमहान्सीतेसविद्युदिवतोयदः/ऋश्यमूकोगिरिश्रेष्ठःकाञ्चनैर्धातुभिर्वृतः/अत्राहंवानरेन्द्रेणसुग्रीवेणसमागतः/समयश्चकृतःसीतेवधार्थंवालिनोमया/एषासादृश्यतेपम्पानलिनीचित्रकानना/त्वयाविहीनोयत्राहंविललापसुदुःखितः/अस्यास्तीरेमयादृष्टाशबरीधर्मचारिणी/अत्रयोजनबाहुश्चकबन्धोनिहतोमया/दृश्यतेऽसौजनस्थानेसीतेश्रीमान्वनस्पतिः/यत्रयुद्धंमहद्वृत्तंतवहेतोर्विलासिनि/रावणस्यनृशंसस्यजटायोश्चमहात्मनः/खरश्चनिहतश्संख्येदूषणश्चनिपातितः/त्रिशिराश्चमहावीर्योमयाबाणैरजिह्मगैः/पर्णशालातथाचित्रादृश्यतेशुभदर्शना/यत्रत्वंराक्षसेन्द्रेणरावणेनहृताबलात्/एषागोदावरीरम्याप्रसन्नसलिलाशिवा/अगस्त्यस्याश्रमोह्येषदृश्यतेपश्यमैथिलि/वैदेहिदृश्यतेचात्रशरभङ्गाश्रमोमहान्/उपयातःसहस्राक्षोयत्रशक्रःपुरंदरः/एतेतेतापसावासादृश्यन्तेतनुमध्यमे/अत्रिःकुलपतिर्यत्रसूर्यवैश्वानरप्रभः/अत्रसीतेत्वयादृष्टातापसीधर्मचारिणी/अस्मिन्देशेमहाकायोविराधोनिहतोमया/असौसुतनुशैलेन्द्रश्चित्रकूटःप्रकाशते/यत्रमांकैकयीपुत्रःप्रसादयितुमागतः/एषासायमुनादूराद्दृश्यतेचित्रकानना/भरद्वाजाश्रमोयत्रश्रीमानेषप्रकाशते/एषात्रिपथगागङ्गादृश्यतेवरवर्णिनि/शृङ्गवेरपुरंचैतद्गुहोयत्रसमागतः/एषासादृश्यतेऽयोध्याराजधानीपितुर्मम/अयोध्यांकुरुवैदेहिप्रणामंपुनरागता/ततस्तेवानराःसर्वेराक्षसश्चविभीषणः/उत्पत्योत्पत्यददृशुस्तांपुरींशुभदर्शनाम्/ततस्तुतांपाण्डुरहर्म्यमालिनीं॑विशालकक्ष्यांगजवाजिसंकुलाम्/पुरीमयोध्यांददृशुःप्लवंगमाः॑पुरींमहेन्द्रस्ययथामरावतीम्612357/पूर्णेचतुर्दशेवर्षेपञ्चभ्यांलक्ष्मणाग्रजः/भरद्वाजाश्रमंप्राप्यववन्देनियतोमुनिम्61241/सोऽपृच्छदभिवाद्यैनंभरद्वाजंतपोधनम्/शृणोषिकचिद्भगवन्सुभिक्षानामयंपुरे/कच्चिच्चयुक्तोभरतोजीवन्त्यपिचमातरः/एवमुक्तस्तुरामेणभरद्वाजोमहामुनिः/प्रत्युवाचरघुश्रेष्ठंस्मितपूर्वंप्रहृष्टवत्/पङ्कदिग्धस्तुभरतोजटिलस्त्वांप्रतीक्षते/पादुकेतेपुरस्कृत्यसर्वंचकुशलंगृहे/त्वांपुराचीरवसनंप्रविशन्तंमहावनम्/स्त्रीतृतीयंच्युतंराज्याद्धर्मकामंचकेवलम्/पदातिंत्यक्तसर्वस्वंपितुर्वचनकारिणम्/स्वर्गभोगैःपरित्यक्तंस्वर्गच्युतमिवामरम्/दृष्ट्वातुकरुणापूर्वंममासीत्समितिंजय/कैकेयीवचनेयुक्तंवन्यमूलफलाशनम्/साम्प्रतंसुसमृद्धार्थंसमित्रगणबान्धवम्/समीक्ष्यविजितारिंत्वांममप्रीतिरनुत्तमा/सर्वंचसुखदुःखंतेविदितंममराघव/यत्त्वयाविपुलंप्राप्तंजनस्थानवधादिकम्/ब्राह्मणार्थेनियुक्तस्यरक्षतःसर्वतापसान्/मारीचदर्शनंचैवसीतोन्मथनमेवच/कबन्धदर्शनंचैवपम्पाभिगमनंतथा/सुग्रीवेणचतेसख्यंयच्चवालीहतस्त्वया/मार्गणंचैववैदेह्याःकर्मवातात्मजस्यच/विदितायांचवैदेह्यांनलसेतुर्यथाकृतः/यथाचदीपितालङ्काप्रहृष्टैर्हरियूथपैः/सपुत्रबान्धवामात्यःसबलःसहवाहनः/यथाचनिहतःसंख्येरावणोदेवकण्टकः/समागमश्चत्रिदशैर्यथादत्तश्चतेवरः/सर्वंममैतद्विदितंतपसाधर्मवत्सल/अहमप्यत्रतेदद्मिवरंशस्त्रभृतांवर/अर्घ्यंप्रतिगृहाणेदमयोध्यांश्वोगमिष्यसि/तस्यतच्छिरसावाक्यंप्रतिगृह्यनृपात्मजः/बाढमित्येवसंहृष्टःश्रीमान्वरमयाचत/अकालफलिनोवृक्षाःसर्वेचापिमधुस्रवाः/भवन्तुमार्गेभगवन्नयोध्यांप्रतिगच्छतः/निष्फलाःफलिनश्चासन्विपुष्पाःपुष्पशालिनः/शुष्काःसमग्रपत्रास्तेनगाश्चैवमधुस्रवाः612422/अयोध्यांतुसमालोक्यचिन्तयामासराघवः/चिन्तयित्वाततोदृष्टिंवानरेषुन्यपातयत्61251/प्रियकामःप्रियंरामस्ततस्त्वरितविक्रमम्/उवाचधीमांस्तेजस्वीहनूमन्तंप्लवंगमम्/अयोध्यांत्वरितोगच्छक्षिप्रंत्वंप्लवगोत्तम/जानीहिकच्चित्कुशलीजनोनृपतिमन्दिरे/शृङ्गवेरपुरंप्राप्यगुहंगहनगोचरम्/निषादाधिपतिंब्रूहिकुशलंवचनान्मम/श्रुत्वातुमांकुशलिनमरोगंविगतज्वरम्/भविष्यतिगुहःप्रीतःसममात्मसमःसखा/अयोध्यायाश्चतेमार्गंप्रवृत्तिंभरतस्यच/निवेदयिष्यतिप्रीतोनिषादाधिपतिर्गुहः/भरतस्तुत्वयावाच्यःकुशलंवचनान्मम/सिद्धार्थंशंसमांतस्मैसभार्यंसहलक्ष्मणम्/हरणंचापिवैदेह्यारावणेनबलीयसा/सुग्रीवेणचसंवादंवालिनश्चवधंरणे/मैथिल्यन्वेषणंचैवयथाचाधिगतात्वया/लङ्घयित्वामहातोयमापगापतिमव्ययम्/उपयानंसमुद्रस्यसागरस्यचदर्शनम्/यथाचकारितःसेतूरावणश्चयथाहतः/वरदानंमहेन्द्रेणब्रह्मणावरुणेनच/महादेवप्रसादाच्चपित्राममसमागमम्/जित्वाशत्रुगणान्रामःप्राप्यचानुत्तमंयशः/उपयातिसमृद्धार्थःसहमित्रैर्महाबलः/एतच्छ्रुत्वायमाकारंभजतेभरतस्ततः/सचतेवेदितव्यःस्यात्सर्वंयच्चापिमांप्रति/ज्ञेयाःसर्वेचवृत्तान्ताभरतस्येङ्गितानिच/तत्त्वेनमुखवर्णेनदृष्ट्याव्याभाषणेनच/सर्वकामसमृद्धंहिहस्त्यश्वरथसंकुलम्/पितृपैतामहंराज्यंकस्यनावर्तयेन्मनः/संगत्याभरतःश्रीमान्राज्येनार्थीस्वयंभवेत्/प्रशास्तुवसुधांसर्वामखिलांरघुनन्दनः/तस्यबुद्धिंचविज्ञायव्यवसायंचवानर/यावन्नदूरंयाताःस्मःक्षिप्रमागन्तुमर्हसि/इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः/मानुषंधारयन्रूपमयोध्यांत्वरितोययौ/लङ्घयित्वापितृपथंभुजगेन्द्रालयंशुभम्/गङ्गायमुनयोर्भीमंसंनिपातमतीत्यच/शृङ्गवेरपुरंप्राप्यगुहमासाद्यवीर्यवान्/सवाचाशुभयाहृष्टोहनूमानिदमब्रवीत्/सखातुतवकाकुत्स्थोरामःसत्यपराक्रमः/ससीतःसहसौमित्रिःसत्वांकुशलमब्रवीत्/पञ्चमीमद्यरजनीमुषित्वावचनान्मुनेः/भरद्वाजाभ्यनुज्ञातंद्रक्ष्यस्यद्यैवराघवम्/एवमुक्त्वामहातेजाःसंप्रहृष्टतनूरुहः/उत्पपातमहावेगोवेगवानविचारयन्/सोऽपश्यद्रामतीर्थंचनदींवालुकिनींतथा/गोमतींतांचसोऽपश्यद्भीमंसालवनंतथा/सगत्वादूरमध्वानंत्वरितःकपिकुञ्जरः/आससादद्रुमान्फुल्लान्नन्दिग्रामसमीपजान्/क्रोशमात्रेत्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्/ददर्शभरतंदीनंकृशमाश्रमवासिनम्/जटिलंमलदिग्धाङ्गंभ्रातृव्यसनकर्शितम्/फलमूलाशिनंदान्तंतापसंधर्मचारिणम्/समुन्नतजटाभारंवल्कलाजिनवाससं/नियतंभावितात्मानंब्रह्मर्षिसमतेजसं/पादुकेतेपुरस्कृत्यशासन्तंवैवसुंधराम्/चतुर्वर्ण्यस्यलोकस्यत्रातारंसर्वतोभयात्/उपस्थितममात्यैश्चशुचिभिश्चपुरोहितैः/बलमुख्यैश्चयुक्तैश्चकाषायाम्बरधारिभिः/नहितेराजपुत्रंतंचीरकृष्णाजिनाम्बरम्/परिमोक्तुंव्यवस्यन्तिपौरावैधर्मवत्सलाः/तंधर्ममिवधर्मज्ञंदेववन्तमिवापरम्/उवाचप्राञ्जलिर्वाकय्ंहनूमान्मारुतात्मजः/वसन्तंदण्डकारण्येयंत्वंचीरजटाधरम्/अनुशोचसिकाकुत्स्थंसत्वाकुशलमब्रवीत्/प्रियमाख्यामितेदेवशोकंत्यक्ष्यसिदारुणम्/अस्मिन्मुहूर्तेभ्रात्रात्वंरामेणसहसंगतः/निहत्यरावणंरामःप्रतिलभ्यचमैथिलीम्/उपयातिसमृद्धार्थःसहमित्रैर्महाबलैः/लक्ष्मणश्चमहातेजावैदेहीचयशस्विनी/सीतासमग्रारामेणमहेन्द्रेणशचीयथा/एवमुक्तोहनुमताभरतःकैकयीसुतः/पपातसहसाहृष्टोहर्षान्मोहंजगामह/ततोमुहूर्तादुत्थायप्रत्याश्वस्यचराघवः/हनूमन्तमुवाचेदंभरतःप्रियवादिनम्/अशोकजैःप्रीतिमयैःकपिमालिङ्ग्यसंभ्रमात्/सिषेचभरतःश्रीमान्विपुलैरश्रुबिन्दुभिः/देवोवामानुषोवात्वमनुक्रोशादिहागतः/प्रियाख्यानस्यतेसौम्यददामिब्रुवतःप्रियम्/गवांशतसहस्रंचग्रामाणांचशतंपरम्/सकुण्डलाःशुभाचाराभार्याःकन्याश्चषोडश/हेमवर्णाःसुनासोरूःशशिसौम्याननाःस्त्रियः/सर्वाभरणसंपन्नासंपन्नाःकुलजातिभिः/निशम्यरामागमनंनृपात्मजः॑कपिप्रवीरस्यतदाद्भुतोपमम्/प्रहर्षितोरामदिदृक्षयाभवत्॑पुनश्चहर्षादिदमब्रवीद्वचः612546/बहूनिनामवर्षाणिगतस्यसुमहद्वनम्/शृणोम्यहंप्रीतिकरंममनाथस्यकीर्तनम्61261/कल्याणीबतगाथेयंलौकिकीप्रतिभातिमे/एतिजीवन्तमानन्दोनरंवर्षशतादपि/राघवस्यहरीणांचकथमासीत्समागमः/कस्मिन्देशेकिमाश्रित्यतत्त्वमाख्याहिपृच्छतः/सपृष्टोराजपुत्रेणबृस्यांसमुपवेशितः/आचचक्षेततःसर्वंरामस्यचरितंवने/यथाप्रव्रजितोरामोमातुर्दत्तेवरेतव/यथाचपुत्रशोकेनराजादशरथोमृतः/यथादूतैस्त्वमानीतस्तूर्णंराजगृहात्प्रभो/त्वयायोध्यांप्रविष्टेनयथाराज्यंनचेप्सितम्/चित्रकूटंगिरिंगत्वाराज्येनामित्रकर्शनः/निमन्त्रितस्त्वयाभ्राताधर्ममाचरितासताम्/स्थितेनराज्ञोवचनेयथाराज्यंविसर्जितम्/आर्यस्यपादुकेगृह्ययथासिपुनरागतः/सर्वमेतन्महाबाहोयथावद्विदितंतव/त्वयिप्रतिप्रयातेतुयद्वृत्तंतन्निबोधमे/अपयातेत्वयितदासमुद्भ्रान्तमृगद्विजम्/प्रविवेशाथविजनंसुमहद्दण्डकावनम्/तेषांपुरस्ताद्बलवान्गच्छतांगहनेवने/विनदन्सुमहानादंविराधःप्रत्यदृश्यत/तमुत्क्षिप्यमहानादमूर्ध्वबाहुमधोमुखम्/निखातेप्रक्षिपन्तिस्मनदन्तमिवकुञ्जरम्/तत्कृत्वादुष्करंकर्मभ्रातरौरामलक्ष्मणौ/सायाह्नेशरभङ्गस्यरम्यमाश्रममीयतुः/शरभङ्गेदिवंप्राप्तेरामःसत्यपराक्रमः/अभिवाद्यमुनीन्सर्वाञ्जनस्थानमुपागमत्/चतुर्दशसहस्राणिरक्षसांभीमकर्मणाम्/हतानिवसतातत्रराघवेणमहात्मना/ततःपश्चाच्छूर्पणखारामपार्श्वमुपागता/ततोरामेणसंदिष्टोलक्ष्मणःसहसोत्थितः/प्रगृह्यखड्गंचिच्छेदकर्णनासेमहाबलः/ततस्तेनार्दिताबालारावणंसमुपागता/रावणानुचरोघोरोमारीचोनामराक्षसः/लोभयामासवैदेहींभूत्वारत्नमयोमृगः/साराममब्रवीद्दृष्ट्वावैदेहीगृह्यतामिति/अहोमनोहरःकान्तआश्रमेनोभविष्यति/ततोरामोधनुष्पाणिर्धावन्तमनुधावति/सतंजघानधावन्तंशरेणानतपर्वणा/अथसौम्यादशग्रीवोमृगंयातेतुराघवे/लक्ष्मणेचापिनिष्क्रान्तेप्रविवेशाश्रमंतदा/जग्राहतरसासीतांग्रहःखेरोहिणीमिव/त्रातुकामंततोयुद्धेहत्वागृध्रंजटायुषम्/प्रगृह्यसीतांसहसाजगामाशुसरावणः/ततस्त्वद्भुतसंकाशाःस्थिताःपर्वतमूर्धनि/सीतांगृहीत्वागच्छन्तंवानराःपर्वतोपमाः/ददृशुर्विस्मितास्तत्ररावणंराक्षसाधिपम्/प्रविवेर्शतदालङ्कांरावणोलोकरावणः/तांसुवर्णपरिक्रान्तेशुभेमहतिवेश्मनि/प्रवेश्यमैथिलींवाक्यैःसान्त्वयामासरावणः/निवर्तमानःकाकुत्स्थोदृष्ट्वागृध्रंप्रविव्यथे/गृध्रंहतंतदादग्ध्वारामःप्रियसखंपितुः/गोदावरीमनुचरन्वनोद्देशांश्चपुष्पितान्/आसेदतुर्महारण्येकबन्धंनामराक्षसं/ततःकबन्धवचनाद्रामःसत्यपराक्रमः/ऋश्यमूकंगिरिंगत्वासुग्रीवेणसमागतः/तयोःसमागमःपूर्वंप्रीत्याहार्दोव्यजायत/इतरेतरसंवादात्प्रगाढःप्रणयस्तयोः/रामःस्वबाहुवीर्येणस्वराज्यंप्रत्यपादयत्/वालिनंसमरेहत्वामहाकायंमहाबलम्/सुग्रीवःस्थापितोराज्येसहितःसर्ववानरैः/रामायप्रतिजानीतेराजपुत्र्यास्तुमार्गणम्/आदिष्टावानरेन्द्रेणसुग्रीवेणमहात्मना/दशकोट्यःप्लवंगानांसर्वाःप्रस्थापितादिशः/तेषांनोविप्रनष्टानांविन्ध्येपर्वतसत्तमे/भृशंशोकाभितप्तानांमहान्कालोऽत्यवर्तत/भ्रातातुगृध्रराजस्यसंपातिर्नामवीर्यवान्/समाख्यातिस्मवसतिंसीतायारावणालये/सोऽहंदुःखपरीतानांदुःखंतज्ज्ञातिनांनुदन्/आत्मवीर्यंसमास्थाययोजनानांशतंप्लुतः/तत्राहमेकामद्राक्षमशोकवनिकांगताम्/कौशेयवस्त्रांमलिनांनिरानन्दांदृढव्रताम्/तयासमेत्यविधिवत्पृष्ट्वासर्वमनिन्दिताम्/अभिज्ञानंमणिंलब्ध्वाचरितार्थोऽहमागतः/मयाचपुनरागम्यरामस्याक्लिष्टकर्मणः/अभिज्ञानंमयादत्तमर्चिष्मान्समहामणिः/श्रुत्वातांमैथिलींहृष्टस्त्वाशशंसेसजीवितम्/जीवितान्तमनुप्राप्तःपीत्वामृतमिवातुरः/उद्योजयिष्यन्नुद्योगंदध्रेलङ्कावधेमनः/जिघांसुरिवलोकांस्तेसर्वांल्लोकान्विभावसुः/ततःसमुद्रमासाद्यनलंसेतुमकारयत्/अतरत्कपिवीराणांवाहिनीतेनसेतुना/प्रहस्तमवधीन्नीलःकुम्भकर्णंतुराघवः/लक्ष्मणोरावणसुतंस्वयंरामस्तुरावणम्/सशक्रेणसमागम्ययमेनवरुणेनच/सुरर्षिभिश्चकाकुत्स्थोवरांल्लेभेपरंतपः/सतुदत्तवरःप्रीत्यावानरैश्चसमागतः/पुष्पकेणविमानेनकिष्किन्धामभ्युपागमत्/तंगङ्गांपुनरासाद्यवसन्तंमुनिसंनिधौ/अविघ्नंपुष्ययोगेनश्वोरामंद्रष्टुमर्हसि/ततःससत्यंहनुमद्वचोमहन्॑निशम्यहृष्टोभरतःकृताञ्जलिः/उवाचवाणींमनसःप्रहर्षिणी॑चिरस्यपूर्णःखलुमेमनोरथः612655/श्रुत्वातुपरमानन्दंभरतःसत्यविक्रमः/हृष्टमाज्ञापयामासशत्रुघ्नंपरवीरहा61271/दैवतानिचसर्वाणिचैत्यानिनगरस्यच/सुगन्धमाल्यैर्वादित्रैरर्चन्तुशुचयोनराः/राजदारास्तथामात्याःसैन्याःसेनागणाङ्गनाः/अभिनिर्यान्तुरामस्यद्रष्टुंशशिनिभंमुखम्/भरतस्यवचःश्रुत्वाशत्रुघ्नःपरवीरहा/विष्टीरनेकसाहस्रीश्चोदयामासवीर्यवान्/समीकुरुतनिम्नानिविषमाणिसमानिच/स्थानानिचनिरस्यन्तांनन्दिग्रामादितःपरम्/सिञ्चन्तुपृथिवींकृत्स्नांहिमशीतेनवारिणा/ततोऽभ्यवकिरंस्त्वन्येलाजैःपुष्पैश्चसर्वतः/समुच्छ्रितपताकास्तुरथ्याःपुरवरोत्तमे/शोभयन्तुचवेश्मानिसूर्यस्योदयनंप्रति/स्रग्दाममुक्तपुष्पैश्चसुगन्धैःपञ्चवर्णकैः/राजमार्गमसंबाधंकिरन्तुशतशोनराः/मत्तैर्नागसहस्रैश्चशातकुम्भविभूषितः/अपरेहेमकक्ष्याभिःसगजाभिःकरेणुभिः/निर्ययुस्त्वरयायुक्तारथैश्चसुमहारथाः/ततोयानान्युपारूढाःसर्वादशरथस्त्रियः/कौसल्यांप्रमुखेकृत्वासुमित्रांचापिनिर्ययुः/अश्वानांखुरशब्देनरथनेमिस्वनेनच/शङ्खदुन्दुभिनादेनसंचचालेवमेदिनी/कृत्स्नंचनगरंतत्तुनन्दिग्राममुपागमत्/द्विजातिमुख्यैर्धर्मात्माश्रेणीमुख्यैःसनैगमैः/माल्यमोदकहस्तैश्चमन्त्रिभिर्भरतोवृतः/शङ्खभेरीनिनादैश्चबन्दिभिश्चाभिवन्दितः/आर्यपादौगृहीत्वातुशिरसाधर्मकोविदः/पाण्डुरंछत्रमादायशुक्लमाल्योपशोभितम्/शुक्लेचवालव्यजनेराजार्हेहेमभूषिते/उपवासकृशोदीनश्चीरकृष्णाजिनाम्बरः/भ्रातुरागमनंश्रुत्वातत्पूर्वंहर्षमागतः/प्रत्युद्ययौतदारामंमहात्मासचिवैःसह/समीक्ष्यभरतोवाक्यमुवाचपवनात्मजम्/कच्चिन्नखलुकापेयीसेव्यतेचलचित्तता/नहिपश्यामिकाकुत्स्थंराममार्यंपरंतपम्/अथैवमुक्तेवचनेहनूमानिदमब्रवीत्/अर्थंविज्ञापयन्नेवभरतंसत्यविक्रमम्/सदाफलान्कुसुमितान्वृक्षान्प्राप्यमधुस्रवान्/भरद्वाजप्रसादेनमत्तभ्रमरनादितान्/तस्यचैषवरोदत्तोवासवेनपरंतप/ससैन्यस्यतदातिथ्यंकृतंसर्वगुणान्वितम्/निस्वनःश्रूयतेभीमःप्रहृष्टानांवनौकसाम्/मन्येवानरसेनासानदींतरतिगोमतीम्/रजोवर्षंसमुद्भूतंपश्यवालुकिनींप्रति/मन्येसालवनंरम्यंलोलयन्तिप्लवंगमाः/तदेतद्दृश्यतेदूराद्विमलंचन्द्रसंनिभम्/विमानंपुष्पकंदिव्यंमनसाब्रह्मनिर्मितम्/रावणंबान्धवैःसार्धंहत्वालब्धंमहात्मना/धनदस्यप्रसादेनदिव्यमेतन्मनोजवम्/एतस्मिन्भ्रातरौवीरौवैदेह्यासहराघवौ/सुग्रीवश्चमहातेजाराक्षसेन्द्रोविभीषणः/ततोहर्षसमुद्भूतोनिस्वनोदिवमस्पृशत्/स्त्रीबालयुववृद्धानांरामोऽयमितिकीर्तितः/रथकुञ्जरवाजिभ्यस्तेऽवतीर्यमहींगताः/ददृशुस्तंविमानस्थंनराःसोममिवाम्बरे/प्राञ्जलिर्भरतोभूत्वाप्रहृष्टोराघवोन्मुखः/स्वागतेनयथार्थेनततोराममपूजयत्/मनसाब्रह्मणासृष्टेविमानेलक्ष्मणाग्रजः/रराजपृथुदीर्घाक्षोवज्रपाणिरिवापरः/ततोविमानाग्रगतंभरतोभ्रातरंतदा/ववन्देप्रणतोरामंमेरुस्थमिवभास्करम्/आरोपितोविमानंतद्भरतःसत्यविक्रमः/राममासाद्यमुदितःपुनरेवाभ्यवादयत्/तंसमुत्थाप्यकाकुत्स्थश्चिरस्याक्षिपथंगतम्/अङ्केभरतमारोप्यमुदितःपरिषष्वजे/ततोलक्ष्मणमासाद्यवैदेहींचपरंतपः/अभ्यवादयतप्रीतोभरतोनामचाब्रवीत्/सुग्रीवंकैकयीपुत्रोजाम्बवन्तंतथाङ्गदम्/मैन्दंचद्विविदंनीलमृषभंचैवसस्वजे/तेकृत्वामानुषंरूपंवानराःकामरूपिणः/कुशलंपर्यपृष्हन्तप्रहृष्टाभरतंतदा/विभीषणंचभरतःसान्त्वयन्वाक्यमब्रवीत्/दिष्ट्यात्वयासहायेनकृतंकर्मसुदुष्करम्/शत्रुघ्नश्चतदाराममभिवाद्यसलक्ष्मणम्/सीतायाश्चरणौपश्चाद्ववन्देविनयान्वितः/रामोमातरमासाद्यविषण्णंशोककर्शिताम्/जग्राहप्रणतःपादौमनोमातुःप्रसादयन्/अभिवाद्यसुमित्रांचकैकेयींचयशस्विनीम्/समातॄश्चतदासर्वाःपुरोहितमुपागमत्/स्वागतंतेमहाबाहोकौसल्यानन्दवर्धन/इतिप्राञ्जलयःसर्वेनागराराममब्रुवन्/तन्यञ्जलिसहस्राणिप्रगृहीतानिनागरैः/आकोशानीवपद्मानिददर्शभरताग्रजः/पादुकेतेतुरामस्यगृहीत्वाभरतःस्वयम्/चरणाभ्यांनरेन्द्रस्ययोजयामासधर्मवित्/अब्रवीच्चतदारामंभरतःसकृताञ्जलिः/एतत्तेरक्षितंराजन्राज्यंनिर्यातितंमया/अद्यजन्मकृतार्थंमेसंवृत्तश्चमनोरथः/यस्त्वांपश्यामिराजानमयोध्यांपुनरागतम्/अवेक्षतांभवान्कोशंकोष्ठागारंपुरंबलम्/भवतस्तेजसासर्वंकृतंदशगुणंमया/तथाब्रुवाणंभरतंदृष्ट्वातंभ्रातृवत्सलम्/मुमुचुर्वानराबाष्पंराक्षसश्चविभीषणः/ततःप्रहर्षाद्भरतमङ्कमारोप्यराघवः/ययौतेनविमानेनससैन्योभरताश्रमम्/भरताश्रममासाद्यससैन्योराघवस्तदा/अवतीर्यविमानाग्रादवतस्थेमहीतले/अब्रवीच्चतदारामस्तद्विमानमनुत्तमम्/वहवैश्रवणंदेवमनुजानामिगम्यताम्/ततोरामाभ्यनुज्ञातंतद्विमानमनुत्तमम्/उत्तरांदिशमुद्दिश्यजगामधनदालयम्/पुरोहितस्यात्मसमस्यराघवो॑बृहस्पतेःशक्रइवामराधीअफ्/निपीड्यपादौपृथगासनेशुभे॑सहैवतेनोपविवेशवीर्यवान्612764/शिरस्यञ्जलिमादायकैकेयीनन्दिवर्धनः/बभाषेभरतोज्येष्ठंरामंसत्यपराक्रमम्61281/पूजितामामिकामातादत्तंराज्यमिदंमम/तद्ददामिपुनस्तुभ्यंयथात्वमददामम/धुरमेकाकिनान्यस्तामृषभेणबलीयसा/किशोरवद्गुरुंभारंनवोढुमहमुत्सहे/वारिवेगेनमहताभिन्नःसेतुरिवक्षरन्/दुर्बन्धनमिदंमन्येराज्यच्छिद्रमसंवृतम्/गतिंखरइवाश्वस्यहंसस्येवचवायसः/नान्वेतुमुत्सहेदेवतवमार्गमरिंदम/यथाचरोपितोवृक्षोजातश्चान्तर्निवेशने/महांश्चसुदुरारोहोमहास्कन्धःप्रशाखवान्/शीर्येतपुष्पितोभूत्वानफलानिप्रदर्शयेत्/तस्यनानुभवेदर्थंयस्यहेतोःसरोप्यते/एषोपमामहाबाहोत्वमर्थंवेत्तुमर्हसि/यद्यस्मान्मनुजेन्द्रत्वंभक्तान्भृत्यान्नशाधिहि/जगदद्याभिषिक्तंत्वामनुपश्यतुसर्वतः/प्रतपन्तमिवादित्यंमध्याह्नेदीप्ततेजसं/तूर्यसंघातनिर्घोषैःकाञ्चीनूपुरनिस्वनैः/मधुरैर्गीतशब्दैश्चप्रतिबुध्यस्वशेष्वच/यावदावर्ततेचक्रंयावतीचवसुंधरा/तावत्त्वमिहसर्वस्यस्वामित्वमभिवर्तय/भरतस्यवचःश्रुत्वारामःपरपुरंजयः/तथेतिप्रतिजग्राहनिषसादासनेशुभे/ततःशत्रुघ्नवचनान्निपुणाःश्मश्रुवर्धकाः/सुखहस्ताःसुशीघ्राश्चराघवंपर्युपासत/पूर्वंतुभरतेस्नातेलक्ष्मणेचमहाबले/सुग्रीवेवानरेन्द्रेचराक्षसेन्द्रेविभीषणे/विशोधितजटःस्नातश्चित्रमाल्यानुलेपनः/महार्हवसनोपेतस्तस्थौतत्रश्रियाज्वलन्/प्रतिकर्मचरामस्यकारयामासवीर्यवान्/लक्ष्मणस्यचलक्ष्मीवानिक्ष्वाकुकुलवर्धनः/प्रतिकर्मचसीतायाःसर्वादशरथस्त्रियः/आत्मनैवतदाचक्रुर्मनस्विन्योमनोहरम्/ततोराघवपत्नीनांसर्वासामेवशोभनम्/चकारयत्नात्कौसल्याप्रहृष्टापुत्रवत्सला/ततःशत्रुघ्नवचनात्सुमन्त्रोनामसारथिः/योजयित्वाभिचक्रामरथंसर्वाङ्गशोभनम्/अर्कमण्डलसंकाशंदिव्यंदृष्ट्वारथंस्थितम्/आरुरोहमहाबाहूरामःसत्यपराक्रमः/अयोध्यायांतुसचिवाराज्ञोदशरथस्यये/पुरोहितंपुरस्कृत्यमन्त्रयामासुरर्थवत्/मन्त्रयन्रामवृद्ध्यर्थंवृत्त्यर्थंनगरस्यच/सर्वमेवाभिषेकार्थंजयार्हस्यमहात्मनः/कर्तुमर्हथरामस्ययद्यन्मङ्गलपूर्वकम्/इतितेमन्त्रिणःसर्वेसंदिश्यतुपुरोहितम्/नगरान्निर्ययुस्तूर्णंरामदर्शनबुद्धयः/हरियुक्तंसहस्राक्षोरथमिन्द्रइवानघः/प्रययौरथमास्थायरामोनगरमुत्तमम्/जग्राहभरतोरश्मीञ्शत्रुघ्नश्छत्रमाददे/लक्ष्मणोव्यजनंतस्यमूर्ध्निसंपर्यवीजयत्/श्वेतंचवालव्यजनंसुग्रीवोवानरेश्वरः/अपरंचन्द्रसंकाशंराक्षसेन्द्रोविभीषणः/ऋषिसंघैर्तदाकाशेदेवैश्चसमरुद्गणैः/स्तूयमानस्यरामस्यशुश्रुवेमधुरध्वनिः/ततःशत्रुंजयंनामकुञ्जरंपर्वतोपमम्/आरुरोहमहातेजाःसुग्रीवोवानरेश्वरः/नवनागसहस्राणिययुरास्थायवानराः/मानुषंविग्रहंकृत्वासर्वाभरणभूषिताः/शङ्खशब्दप्रणादैश्चदुन्दुभीनांचनिस्वनैः/प्रययूपुरुषव्याघ्रस्तांपुरींहर्म्यमालिनीम्/ददृशुस्तेसमायान्तंराघवंसपुरःसरम्/विराजमानंवपुषारथेनातिरथंतदा/तेवर्धयित्वाकाकुत्स्थंरामेणप्रतिनन्दिताः/अनुजग्मुर्महात्मानंभ्रातृभिःपरिवारितम्/अमात्यैर्ब्राह्मणैश्चैवतथाप्रकृतिभिर्वृतः/श्रियाविरुरुचेरामोनक्षत्रैरिवचन्द्रमाः/सपुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः/प्रव्याहरद्भिर्मुदितैर्मङ्गलानिययौवृतः/अक्षतंजातरूपंचगावःकन्यास्तथाद्विजाः/नरामोदकहस्ताश्चरामस्यपुरतोययुः/सख्यंचरामःसुग्रीवेप्रभावंचानिलात्मजे/वानराणांचतत्कर्मव्याचचक्षेऽथमन्त्रिणाम्/श्रुत्वाचविस्मयंजग्मुरयोध्यापुरवासिनः/द्युतिमानेतदाख्यायरामोवानरसंवृतः/हृष्टपुष्टजनाकीर्णामयोध्यांप्रविवेशह/ततोह्यभ्युच्छ्रयन्पौराःपताकास्तेगृहेगृहे/ऐक्ष्वाकाध्युषितंरम्यमाससादपितुर्गृहम्/पितुर्भवनमासाद्यप्रविश्यचमहात्मनः/कौसल्यांचसुमित्रांचकैकेयींचाभ्यवादयत्/अथाब्रवीद्राजपुत्रोभरतंधर्मिणांवरम्/अथोपहितयावाचामधुरंरघुनन्दनः/यच्चमद्भवनंश्रेष्ठंसाशोकवनिकंमहत्/मुक्तावैदूर्यसंकीर्णंसुग्रीवस्यनिवेदय/तस्यतद्वचनंश्रुत्वाभरतःसत्यविक्रमः/पाणौगृहीत्वासुग्रीवंप्रविवेशतमालयम्/ततस्तैलप्रदीपांश्चपर्यङ्कास्तरणानिच/गृहीत्वाविविशुःक्षिप्रंशत्रुघ्नेनप्रचोदिताः/उवाचचमहातेजाःसुग्रीवंराघवानुजः/अभिषेकायरामस्यदूतानाज्ञापयप्रभो/सौवर्णान्वानरेन्द्राणांचतुर्णांचतुरोघटान्/ददौक्षिप्रंससुग्रीवःसर्वरत्नविभूषितान्/यथाप्रत्यूषसमयेचतुर्णांसागराम्भसाम्/पूर्णैर्घटैःप्रतीक्षध्वंतथाकुरुतवानराः/एवमुक्तामहात्मानोवानरावारणोपमाः/उत्पेतुर्गगनंशीघ्रंगरुडाइवशीघ्रगाः/जाम्बवांश्चहनूमांश्चवेगदर्शीचवानरः/ऋषभश्चैवकलशाञ्जलपूर्णानथानयन्/नदीशतानांपञ्चानांजलेकुम्भैरुपाहरन्/पूर्वात्समुद्रात्कलशंजलपूर्णमथानयत्/सुषेणःसत्त्वसंपन्नःसर्वरत्नविभूषितम्/ऋषभोदक्षिणात्तूर्णंसमुद्राज्जलमाहरत्/रक्तचन्दनकर्पूरैःसंवृतंकाञ्चनंघटम्/गवयःपश्चिमात्तोयमाजहारमहार्णवात्/रत्नकुम्भेनमहताशीतंमारुतविक्रमः/उत्तराच्चजलंशीघ्रंगरुडानिलविक्रमः/अभिषेकायरामस्यशत्रुघ्नःसचिवैःसह/पुरोहितायश्रेष्ठायसुहृद्भ्यश्चन्यवेदयत्/ततःसप्रयतोवृद्धोवसिष्ठोब्राह्मणैःसह/रामंरत्नमयोपीठेसहसीतंन्यवेशयत्/वसिष्ठोवामदेवश्चजाबालिरथकाश्यपः/कात्यायनःसुयज्ञश्चगौतमोविजयस्तथा/अभ्यषिञ्चन्नरव्याघ्रंप्रसन्नेनसुगन्धिना/सलिलेनसहस्राक्षंवसवोवासवंयथा/ऋत्विग्भिर्ब्राह्मणैःपूर्वंकन्याभिर्मन्त्रिभिस्तथा/योधैश्चैवाभ्यषिञ्चंस्तेसंप्रहृष्टाःसनैगमैः/सर्वौषधिरसैश्चापिदैवतैर्नभसिस्थितैः/चतुर्हिर्लोकपालैश्चसर्वैर्देवैश्चसंगतैः/छत्रंतस्यचजग्राहशत्रुघ्नःपाण्डुरंशुभम्/श्वेतंचवालव्यजनंसुग्रीवोवानरेश्वरः/अपरंचन्द्रसंकाशंराक्षसेन्द्रोविभीषणः/मालांज्वलन्तींवपुषाकाञ्चनींशतपुष्कराम्/राघवायददौवायुर्वासवेनप्रचोदितः/सर्वरत्नसमायुक्तंमणिरत्नविभूषितम्/मुक्ताहारंनरेन्द्रायददौशक्रप्रचोदितः/प्रजगुर्देवगन्धर्वाननृतुश्चाप्सरोगणाः/अभिषेकेतदर्हस्यतदारामस्यधीमतः/भूमिःसस्यवतीचैवफलवन्तश्चपादपाः/गन्धवन्तिचपुष्पाणिबभूवूराघवोत्सवे/सहस्रशतमश्वानांधेनूनांचगवांतथा/ददौशतंवृषान्पूर्वंद्विजेभ्योमनुजर्षभः/त्रिंशत्कोटीर्हिरण्यस्यब्राह्मणेभ्योददौपुनः/नानाभरणवस्त्राणिमहार्हाणिचराघवः/अर्करश्मिप्रतीकाशांकाञ्चनींमणिविग्रहाम्/सुग्रीवायस्रजंदिव्यांप्रायच्छन्मनुजर्षभः/वैदूर्यमणिचित्रेचवज्ररत्नविभूषिते/वालिपुत्रायधृतिमानङ्गदायाङ्गदेददौ/मणिप्रवरजुष्टंचमुक्ताहारमनुत्तमम्/सीतायैप्रददौरामश्चन्द्ररश्मिसमप्रभम्/अरजेवाससीदिव्येशुभान्याभरणानिच/अवेक्षमाणावैदेहीप्रददौवायुसूनवे/अवमुच्यात्मनःकण्ठाद्धारंजनकनन्दिनी/अवैक्षतहरीन्सर्वान्भर्तारंचमुहुर्मुहुः/तामिङ्गितज्ञःसंप्रेक्ष्यबभाषेजनकात्मजाम्/प्रदेहिसुभगेहारंयस्यतुष्टासिभामिनि/पौरुषंविक्रमोबुद्धिर्यस्मिन्नेतानिनित्यदा/ददौसावायुपुत्रायतंहारमसितेक्षणा/हनूमांस्तेनहारेणशुशुभेवानरर्षभः/चन्द्रांशुचयगौरेणश्वेताभ्रेणयथाचलः/ततोद्विविदमैन्दाभ्यांनीलायचपरंतपः/सर्वान्कामगुणान्वीक्ष्यप्रददौवसुधाधिपः/सर्ववानरवृद्धाश्चयेचान्येवानरेश्वराः/वासोभिर्भूषणैश्चैवयथार्हंप्रतिपूजिताः/यथार्हंपूजिताःसर्वेकामैरत्नैश्चपुष्कलैर्/प्रहृष्टमनसःसर्वेजग्मुरेवयथागतम्/राघवःपरमोदारःशशासपरयामुदा/उवाचलक्ष्मणंरामोधर्मज्ञंधर्मवत्सलः/आतिष्ठधर्मज्ञमयासहेमां॑गांपूर्वराजाध्युषितांबलेन/तुल्यंमयात्वंपितृभिर्धृताया॑तांयौवराज्येधुरमुद्वहस्व/सर्वात्मनापर्यनुनीयमानो॑यदानसौमित्रिरुपैतियोगम्/नियुज्यमानोभुवियौवराज्ये॑ततोऽभ्यषिञ्चद्भरतंमहात्मा/राघवश्चापिधर्मात्माप्राप्यराज्यमनुत्तमम्/ईजेबहुविधैर्यज्ञैःससुहृद्भ्रातृबान्धवः/पौण्डरीकाश्वमेधाभ्यांवाजपेयेनचासकृत्/अन्यैश्चविविधैर्यज्ञैरयजत्पार्थिवर्षभः/राज्यंदशसहस्राणिप्राप्यवर्षाणिराघवः/शताश्वमेधानाजह्रेसदश्वान्भूरिदक्षिणान्/आजानुलम्बिबाहुश्चमहास्कन्धःप्रतापवान्/लक्ष्मणानुचरोरामःपृथिवीमन्वपालयत्/नपर्यदेवन्विधवानचव्यालकृतंभयम्/नव्याधिजंभयंवापिरामेराज्यंप्रशासति/निर्दस्युरभवल्लोकोनानर्थःकंचिदस्पृशत्/नचस्मवृद्धाबालानांप्रेतकार्याणिकुर्वते/सर्वंमुदितमेवासीत्सर्वोधर्मपरोऽभवत्/राममेवानुपश्यन्तोनाभ्यहिंसन्परस्परम्/आसन्वर्षसहस्राणितथापुत्रसहस्रिणः/निरामयाविशोकाश्चरामेराज्यंप्रशासति/नित्यपुष्पानित्यफलास्तरवःस्कन्धविस्तृताः/कालवर्षीचपर्जन्यःसुखस्पर्शश्चमारुतः/स्वकर्मसुप्रवर्तन्तेतुष्ठाःस्वैरेवकर्मभिः/आसन्प्रजाधर्मपरारामेशासतिनानृताः/सर्वेलक्षणसंपन्नाःसर्वेधर्मपरायणाः/दशवर्षसहस्राणिरामोराज्यमकारयत्6128106/7Uttarkand/प्राप्तराज्यस्यरामस्यराक्षसानांवधेकृते/आजग्मुरृषयःसर्वेराघवंप्रतिनन्दितुम्711/कौशिकोऽथयवक्रीतोरैभ्यश्च्यवनएवच/कण्वोमेधातिथेःपुत्रःपूर्वस्यांदिशियेश्रिताः/स्वस्त्यात्रेयश्चभगवान्नमुचिःप्रमुचुस्तथा/आजग्मुस्तेसहागस्त्यायेश्रितादक्षिणांदिशम्/पृषद्गुःकवषोधौम्योरौद्रेयश्चमहानृषिः/तेऽप्याजग्मुःसशिष्यावैयेश्रिताःपश्चिमांदिशम्/वसिष्ठःकश्यपोऽथात्रिर्विश्वामित्रोऽथगौतमः/जमदग्निर्भरद्वाजस्तेऽपिसप्तमहर्षयः/संप्राप्यैतेमहात्मानोराघवस्यनिवेशनम्/विष्ठिताःप्रतिहारार्थंहुताशनसमप्रभाः/प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ/समीपंराघवस्याशुप्रविवेशमहात्मनः/सरामंदृश्यसहसापूर्णचन्द्रसमद्युतिम्/अगस्त्यंकथयामाससंप्रातमृषिभिःसह/श्रुत्वाप्राप्तान्मुनींस्तांस्तुबालसूर्यसमप्रभान्/तदोवाचनृपोद्वाःस्थंप्रवेशययथासुखम्/दृष्ट्वाप्राप्तान्मुनींस्तांस्तुप्रत्युत्थायकृताञ्जलिः/रामोऽभिवाद्यप्रयतआसनान्यादिदेशह/तेषुकाञ्चनचित्रेषुस्वास्तीर्णेषुसुखेषुच/यथार्हमुपविष्टास्तेआसनेष्वृषिपुंगवाः/रामेणकुशलंपृष्टाःसशिष्याःसपुरोगमाः/महर्षयोवेदविदोरामंवचनमब्रुवन्/कुशलंनोमहाबाहोसर्वत्ररघुनन्दन/त्वांतुदिष्ट्याकुशलिनंपश्यामोहतशात्रवम्/नहिभारःसतेरामरावणोराक्षसेश्वरः/सधनुस्त्वंहिलोकांस्त्रीन्विजयेथानसंशयः/दिष्ट्यात्वयाहतोरामरावणःपुत्रपौत्रवान्/दिष्ट्याविजयिनंत्वाद्यपश्यामःसहभार्यया/दिष्ट्याप्रहस्तोविकटोविरूपाक्षोमहोदरः/अकम्पनश्चदुर्धर्षोनिहतास्तेनिशाचराः/यस्यप्रमाणाद्विपुलंप्रमाणंनेहविद्यते/दिष्ट्यातेसमरेरामकुम्भकर्णोनिपातितः/दिष्ट्यात्वंराक्षसेन्द्रेणद्वन्द्वयुद्धमुपागतः/देवतानामवध्येनविजयंप्राप्तवानसि/संख्येतस्यनकिंचित्तुरावणस्यपराभवः/द्वन्द्वयुद्धमनुप्राप्तोदिष्ट्यातेरावणिर्हतः/दिष्ट्यातस्यमहाबाहोकालस्येवाभिधावतः/मुक्तःसुररिपोर्वीरप्राप्तश्चविजयस्त्वया/विस्मयस्त्वेषनःसौम्यसंश्रुत्येन्द्रजितंहतम्/अवध्यःसर्वभूतानांमहामायाधरोयुधि/दत्त्वापुण्यामिमांवीरसौम्यामभयदक्षिणाम्/दिष्ट्यावर्धसिकाकुत्स्थजयेनामित्रकर्शन/श्रुत्वातुवचनंतेषामृषीणांभावितात्मनाम्/विस्मयंपरमंगत्वारामःप्राञ्जलिरब्रवीत्/भवन्तःकुम्भकर्णंचरावणंचनिशाचरम्/अतिक्रम्यमहावीर्यौकिंप्रशंसथरावणिम्/महोदरंप्रहस्तंचविरूपाक्षंचराक्षसं/अतिक्रम्यमहावीर्यान्किंप्रशंसथरावणिम्/कीदृशोवैप्रभावोऽस्यकिंबलंकःपराक्रमः/केनवाकारणेनैषरावणादतिरिच्यते/शक्यंयदिमयाश्रोतुंनखल्वाज्ञापयामिवः/यदिगुह्यंनचेद्वक्तुंश्रोतुमिच्छामिकथ्यताम्/कथंशक्रोजितस्तेनकथंलब्धवरश्चसः7140/तस्यतद्वचनंश्रुत्वाराघवस्यमहात्मनः/कुम्भयोनिर्महातेजावाक्यमेतदुवाचह721/शृणुराजन्यथावृत्तंयस्यतेजोबलंमहत्/जघानचरिपून्युद्धेयथावध्यश्चशत्रुभिः/अहंतेरावणस्येदंकुलंजन्मचराघव/वरप्रदानंचतथातस्मैदत्तंब्रवीमिते/पुराकृतयुगेरामप्रजापतिसुतःप्रभुः/पुलस्त्योनामब्रह्मर्षिःसाक्षादिवपितामहः/नानुकीर्त्यागुणास्तस्यधर्मतःशीलतस्तथा/प्रजापतेःपुत्रइतिवक्तुंशक्यंहिनामतः/सतुधर्मप्रसङ्गेनमेरोःपार्श्वेमहागिरेः/तृणबिन्द्वाश्रमंगत्वान्यवसन्मुनिपुंगवः/तपस्तेपेसधर्मात्मास्वाध्यायनियतेन्द्रियः/गत्वाश्रमपदंतस्यविघ्नंकुर्वन्तिकन्यकाः/देवपन्नगकन्याश्चराजर्षितनयाश्चयाः/क्रीडन्त्योऽप्सरसश्चैवतंदेशमुपपेदिरे/सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्यच/नित्यशस्तास्तुतंदेशंगत्वाक्रीडन्तिकन्यकाः/अथरुष्टोमहातेजाव्याजहारमहामुनिः/यामेदर्शनमागच्छेत्सागर्भंधारयिष्यति/तास्तुसर्वाःप्रतिगताःश्रुत्वावाक्यंमहात्मनः/ब्रह्मशापभयाद्भीतास्तंदेशंनोपचक्रमुः/तृणबिन्दोस्तुराजर्षेस्तनयानशृणोतितत्/गत्वाश्रमपदंतस्यविचचारसुनिर्भया/तस्मिन्नेवतुकालेसप्राजापत्योमहानृषिः/स्वाध्यायमकरोत्तत्रतपसाद्योतितप्रभः/सातुवेदध्वनिंश्रुत्वादृष्ट्वाचैवतपोधनम्/अभवत्पाण्डुदेहासासुव्यञ्जितशरीरजा/दृष्ट्वापरमसंविग्नासातुतद्रूपमात्मनः/इदंमेकिंन्वितिज्ञात्वापितुर्गत्वाग्रतःस्थिता/तांतुदृष्ट्वातथाभूतांतृणबिन्दुरथाब्रवीत्/किंत्वमेतत्त्वसदृशंधारयस्यात्मनोवपुः/सातुकृत्वाञ्जलिंदीनाकन्योवाचतपोधनम्/नजानेकारणंतातयेनमेरूपमीदृशम्/किंतुपूर्वंगतास्म्येकामहर्षेर्भावितात्मनः/पुलस्त्यस्याश्रमंदिव्यमन्वेष्टुंस्वसखीजनम्/नचपश्याम्यहंतत्रकांचिदप्यागतांसखीम्/रूपस्यतुविपर्यासंदृष्ट्वाचाहमिहागता/तृणबिन्दुस्तुराजर्षिस्तपसाद्योतितप्रभः/ध्यानंविवेशतच्चापिअपश्यदृषिकर्मजम्/सतुविज्ञायतंशापंमहर्षेर्भावितात्मनः/गृहीत्वातनयांगत्वापुलस्त्यमिदमब्रवीत्/भगवंस्तनयांमेत्वंगुणैःस्वैरेवभूषिताम्/भिक्षांप्रतिगृहाणेमांमहर्षेस्वयमुद्यताम्/तपश्चरणयुक्तस्यश्राम्यमाणेन्द्रियस्यते/शुश्रूषातत्परानित्यंभविष्यतिनसंशयः/तंब्रुवाणंतुतद्वाक्यंराजर्षिंधार्मिकंतदा/जिघृक्षुरब्रवीत्कन्यांबाढमित्येवसद्विजः/दत्त्वातुसगतोराजास्वमाश्रमपदंतदा/सापितत्रावसत्कन्यातोषयन्तीपतिंगुणैः/प्रीतःसतुमहातेजावाक्यमेतदुवाचह/परितुष्टोऽस्मिभद्रंतेगुणानांसंपदाभृशम्/तस्मात्तेविरमाम्यद्यपुत्रमात्मसमंगुणैः/उभयोर्वंशकर्तारंपौलस्त्यइतिविश्रुतम्/यस्मात्तुविश्रुतोवेदस्त्वयेहाभ्यस्यतोमम/तस्मात्सविश्रवानामभविष्यतिनसंशयः/एवमुक्तातुसाकन्याप्रहृष्टेनान्तरात्मना/अचिरेणैवकालेनसूताविश्रवसंसुतम्/सतुलोकत्रयेख्यातःशौचधर्मसमन्वितः/पितेवतपसायुक्तोविश्रवामुनिपुंगवः7234/अथपुत्रःपुलस्त्यस्यविश्रवामुनिपुंगवः/अचिरेणैवकालेनपितेवतपसिस्थितः731/सत्यवाञ्शीलवान्दक्षःस्वाध्यायनिरतःशुचिः/सर्वभोगेष्वसंसक्तोनित्यंधर्मपरायणः/ज्ञात्वातस्यतुतद्वृत्तंभरद्वाजोमहानृषिः/ददौविश्रवसेभार्यांस्वांसुतांदेववर्णिनीम्/प्रतिगृह्यतुधर्मेणभरद्वाजसुतांतदा/मुदापरमयायुक्तोविश्रवामुनिपुंगवः/सतस्यांवीर्यसंपन्नमपत्यंपरमाद्भुतम्/जनयामासधर्मात्मासर्वैर्ब्रह्मगुणैर्युतम्/तस्मिञ्जातेतुसंहृष्टःसबभूवपितामहः/नामचास्याकरोत्प्रीतःसार्धंदेवर्षिभिस्तदा/यस्माद्विश्रवसोऽपत्यंसादृश्याद्विश्रवाइव/तस्माद्वैश्रवणोनामभविष्यत्येषविश्रुतः/सतुवैश्रवणस्तत्रतपोवनगतस्तदा/अवर्धतमहातेजाहुताहुतिरिवानलः/तस्याश्रमपदस्थस्यबुद्धिर्जज्ञेमहात्मनः/चरिष्येनियतोधर्मंधर्मोहिपरमागतिः/सतुवर्षसहस्राणितपस्तप्त्वामहावने/पूर्णेवर्षसहस्रेतुतंतंविधिमवर्तत/जलाशीमारुताहारोनिराहारस्तथैवच/एवंवर्षसहस्राणिजग्मुस्तान्येववर्षवत्/अथप्रीतोमहातेजाःसेन्द्रैःसुरगणैःसह/गत्वातस्याश्रमपदंब्रह्मेदंवाक्यमब्रवीत्/परितुष्टोऽस्मितेवत्सकर्मणानेनसुव्रत/वरंवृणीष्वभद्रंतेवरार्हस्त्वंहिमेमतः/अथाब्रवीद्वैश्रवणःपितामहमुपस्थितम्/भगवंल्लोकपालत्वमिच्छेयंवित्तरक्षणम्/ततोऽब्रवीद्वैश्रवणंपरितुष्टेनचेतसा/ब्रह्मासुरगणैःसार्धंबाढमित्येवहृष्टवत्/अहंहिलोकपालानांचतुर्थंस्रष्टुमुद्यतः/यमेन्द्रवरुणानांहिपदंयत्तवचेप्सितम्/तत्कृतंगच्छधर्मज्ञधनेशत्वमवाप्नुहि/यमेन्द्रवरुणानांहिचतुर्थोऽद्यभविष्यसि/एतच्चपुष्पकंनामविमानंसूर्यसंनिभम्/प्रतिगृह्णीष्वयानार्थंत्रिदशैःसमतांव्रज/स्वस्तितेऽस्तुगमिष्यामःसर्वएवयथागतम्/कृतकृत्यावयंतातदत्त्वातवमहावरम्/गतेषुब्रह्मपूर्वेषुदेवेष्वथनभस्तलम्/धनेशःपितरंप्राहविनयात्प्रणतोवचः/भगवंल्लब्धवानस्मिवरंकमलयोनितः/निवासंनतुमेदेवोविदधेसप्रजापतिः/तत्पश्यभगवन्कंचिद्देशंवासायनःप्रभो/नचपीडाभवेद्यत्रप्राणिनोयस्यकस्यचित्/एवमुक्तस्तुपुत्रेणविश्रवामुनिपुंगवः/वचनंप्राहधर्मज्ञश्रूयतामितिधर्मवित्/लङ्कानामपुरीरम्यानिर्मिताविश्वकर्मणा/राक्षसानांनिवासार्थंयथेन्द्रस्यामरावती/रमणीयापुरीसाहिरुक्मवैदूर्यतोरणा/राक्षसैःसापरित्यक्तापुराविष्णुभयार्दितैः/शून्यारक्षोगणैःसर्वैरसातलतलंगतैः/सत्वंतत्रनिवासायरोचयस्वमतिंस्वकाम्/निर्दोषस्तत्रतेवासोनचबाधास्तिकस्यचित्/एतच्छ्रुत्वातुधर्मात्माधर्मिष्ठंवचनंपितुः/निवेशयामासतदालङ्कांपर्वतमूर्धनि/नैरृतानांसहस्रैस्तुहृष्टैःप्रमुदितैःसदा/अचिरेणैककालेनसंपूर्णातस्यशासनात्/अथतत्रावसत्प्रीतोधर्मात्मानैरृताधिपः/समुद्रपरिधानायांलङ्कायांविश्रवात्मजः/कालेकालेविनीतात्मापुष्पकेणधनेश्वरः/अभ्यगच्छत्सुसंहृष्टःपितरंमातरंचसः/सदेवगन्धर्वगणैरभिष्टुतस्॑तथैवसिद्धैःसहचारणैरपि/गभस्तिभिःसूर्यइवौजसावृतः॑पितुःसमीपंप्रययौश्रियावृतः7336/श्रुत्वागस्त्येरितंवाक्यंरामोविस्मयमागतः/पूर्वमासीत्तुलङ्कायांरक्षसामितिसंभवः741/ततःशिरःकम्पयित्वात्रेताग्निसमविग्रहम्/अगस्त्यंतंमुहुर्दृष्ट्वास्मयमानोऽभ्यभाषत/भगवन्पूर्वमप्येषालङ्कासीत्पिशिताशिनाम्/इतीदंभवतःश्रुत्वाविस्मयोजनितोमम/पुलस्त्यवंशादुद्भूताराक्षसाइतिनःश्रुतम्/इदानीमन्यतश्चापिसंभवःकीर्तितस्त्वया/रावणात्कुम्भकर्णाच्चप्रहस्ताद्विकटादपि/रावणस्यचपुत्रेभ्यःकिंनुतेबलवत्तराः/कएषांपूर्वकोब्रह्मन्किंनामाकिंतपोबलः/अपराधंचकंप्राप्यविष्णुनाद्राविताःपुरा/एतद्विस्तरतःसर्वंकथयस्वममानघ/कौतूहलंकृतंमह्यंनुदभानुर्यथातमः/राघवस्यतुतच्छ्रुत्वासंस्कारालंकृतंवचः/ईषद्विस्मयमानस्तमगस्त्यःप्राहराघवम्/प्रजापतिःपुरासृष्ट्वाअपःसलिलसंभवः/तासांगोपायनेसत्त्वानसृजत्पद्मसंभवः/तेसत्त्वाःसत्त्वकर्तारंविनीतवदुपस्थिताः/किंकुर्मइतिभाषन्तःक्षुत्पिपासाभयार्दिताः/प्रजापतिस्तुतान्याहसत्त्वानिप्रहसन्निव/आभाष्यवाचायत्नेनरक्षध्वमितिमानदः/रक्षामइतितत्रान्यैर्यक्षामेतितथापरैः/भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाहभूतकृत्/रक्षामइतियैरुक्तंराक्षसास्तेभवन्तुवः/यक्षामइतियैरुक्तंतेवैयक्षाभवन्तुवः/तत्रहेतिःप्रहेतिश्चभ्रातरौराक्षसर्षभौ/मधुकैटभसंकाशौबभूवतुररिंदमौ/प्रहेतिर्धार्मिकस्तत्रनदारान्सोऽभिकाङ्क्षति/हेतिर्दारक्रियार्थंतुयत्नंपरमथाकरोत्/सकालभगिनींकन्यांभयांनामभयावहाम्/उदावहदमेयात्मास्वयमेवमहामतिः/सतस्यांजनयामाअसहेतीराक्षसपुंगवः/पुत्रंपुत्रवतांश्रेष्ठोविद्युत्केशइतिश्रुतम्/विद्युत्केशोहेतिपुत्रःप्रदीप्ताग्निसमप्रभः/व्यवर्धतमहातेजास्तोयमध्यइवाम्बुजम्/सयदायौवनंभद्रमनुप्राप्तोनिशाचरः/ततोदारक्रियांतस्यकर्तुंव्यवसितःपिता/संध्यादुहितरंसोऽथसंध्यातुल्यांप्रभावतः/वरयामासपुत्रार्थंहेतीराक्षसपुंगवः/अवश्यमेवदातव्यापरस्मैसेतिसंध्यया/चिन्तयित्वासुतादत्ताविद्युत्केशायराघव/संध्यायास्तनयांलब्ध्वाविद्युत्केशोनिशाचरः/रमतेसतयासार्धंपौलोम्यामघवानिव/केनचित्त्वथकालेनरामसालकटंकटा/विद्युत्केशाद्गर्भमापघनराजिरिवार्णवात्/ततःसाराक्षसीगर्भंघनगर्भसमप्रभम्/प्रसूतामन्दरंगत्वागङ्गागर्भमिवाग्निजम्/तमुत्सृज्यतुसागर्भंविद्युत्केशाद्रतार्थिनी/रेमेसापतिनासार्धंविस्मृत्यसुतमात्मजम्/तयोत्सृष्टःसतुशिशुःशरदर्कसमद्युतिः/पाणिमास्येसमाधायरुरोदघनराडिव/अथोपरिष्टाद्गच्छन्वैवृषभस्थोहरःप्रभुः/अपश्यदुमयासार्धंरुदन्तंराक्षसात्मजम्/कारुण्यभावात्पार्वत्याभवस्त्रिपुरहाततः/तंराक्षसात्मजंचक्रेमातुरेववयःसमम्/अमरंचैवतंकृत्वामहादेवोऽक्षयोऽव्ययः/पुरमाकाशगंप्रादात्पार्वत्याःप्रियकाम्यया/उमयापिवरोदत्तोराक्षसीनांनृपात्मज/सद्योपलब्धिर्गर्भस्यप्रसूतिःसद्यएवच/सद्यएववयःप्राप्तिर्मातुरेववयःसमम्/ततःसुकेशोवरदानगर्वितः॑श्रियंप्रभोःप्राप्यहरस्यपार्श्वतः/चचारसर्वत्रमहामतिःखगः॑खगंपुरंप्राप्यपुरंदरोयथा7432/सुकेशंधार्मिकंदृष्ट्वावरलब्धंचराक्षसं/ग्रामणीर्नामगन्धर्वोविश्वावसुसमप्रभः751/तस्यदेववतीनामद्वितीयाश्रीरिवात्मजा/तांसुकेशायधर्मेणददौदक्षःश्रियंयथा/वरदानकृतैश्वर्यंसातंप्राप्यपतिंप्रियम्/आसीद्देववतीतुष्टाधनंप्राप्येवनिर्धनः/सतयासहसंयुक्तोरराजरजनीचरः/अञ्जनादभिनिष्क्रान्तःकरेण्वेवमहागजः/देववत्यांसुकेशस्तुजनयामासराघव/त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः/माल्यवन्तंसुमालिंचमालिंचबलिनांवरम्/त्रयोलोकाइवाव्यग्राःस्थितास्त्रयइवाग्नयः/त्रयोमन्त्राइवात्युग्रास्त्रयोघोराइवामयाः/त्रयःसुकेशस्यसुतास्त्रेताग्निसमवर्चसः/विवृद्धिमगमंस्तत्रव्याधयोपेक्षिताइव/वरप्राप्तिंपितुस्तेतुज्ञात्वैश्वर्यंततोमहत्/तपस्तप्तुंगतामेरुंभ्रातरःकृतनिश्चयाः/प्रगृह्यनियमान्घोरान्राक्षसानृपसत्तम/विचेरुस्तेतपोघोरंसर्वभूतभयावहम्/सत्यार्जवदमोपेतैस्तपोभिर्भुविदुष्करैः/संतापयन्तस्त्रींल्लोकान्सदेवासुरमानुषान्/ततोविभुश्चतुर्वक्त्रोविमानवरमास्थितः/सुकेशपुत्रानामन्त्र्यवरदोऽस्मीत्यभाषत/ब्रह्माणंवरदंज्ञात्वासेन्द्रैर्देवगणैर्वृतम्/ऊचुःप्राञ्जलयःसर्वेवेपमानाइवद्रुमाः/तपसाराधितोदेवयदिनोदिशसेवरम्/अजेयाःशत्रुहन्तारस्तथैवचिरजीविनः/प्रभविष्णवोभवामेतिपरस्परमनुव्रताः/एवंभविष्यतीत्युक्त्वासुकेशतनयान्प्रभुः/प्रययौब्रह्मलोकायब्रह्माब्राह्मणवत्सलः/वरंलब्ध्वाततःसर्वेरामरात्रिंचरास्तदा/सुरासुरान्प्रबाधन्तेवरदानात्सुनिर्भयाः/तैर्वध्यमानास्त्रिदशाःसर्षिसंघाःसचारणाः/त्रातारंनाधिगच्छन्तिनिरयस्थायथानराः/अथतेविश्वकर्माणंशिल्पिनांवरमव्ययम्/ऊचुःसमेत्यसंहृष्टाराक्षसारघुसत्तम/गृहकर्ताभवानेवदेवानांहृदयेप्सितम्/अस्माकमपितावत्त्वंगृहंकुरुमहामते/हिमवन्तंसमाश्रित्यमेरुंमन्दरमेववा/महेश्वरगृहप्रख्यंगृहंनःक्रियतांमहत्/विश्वकर्माततस्तेषांराक्षसानांमहाभुजः/निवासंकथयामासशक्रस्येवामरावतीम्/दक्षिणस्योदधेस्तीरेत्रिकूटोनामपर्वतः/शिखरेतस्यशैलस्यमध्यमेऽम्बुदसंनिभे/शकुनैरपिदुष्प्रापेटङ्कच्छिन्नचतुर्दिशि/त्रिंशद्योजनविस्तीर्णास्वर्णप्राकारतोरणा/मयालङ्केतिनगरीशक्राज्ञप्तेननिर्मिता/तस्यांवसतदुर्धर्षाःपुर्यांराक्षससत्तमाः/अमरावतींसमासाद्यसेन्द्राइवदिवौकसः/लङ्कादुर्गंसमासाद्यराक्षसैर्बहुभिर्वृताः/भविष्यथदुराधर्षाःशत्रूणांशत्रुसूदनाः/विश्वकर्मवचःश्रुत्वाततस्तेरामराक्षसाः/सहस्रानुचरागत्वालङ्कांतामवसन्पुरीम्/दृढप्राकारपरिखांहैमैर्गृहशतैर्वृताम्/लङ्कामवाप्यतेहृष्टाविहरन्तिनिशाचराः/नर्मदानामगन्धर्वीनानाधर्मसमेधिता/तस्याःकन्यात्रयंह्यासीद्धीश्रीकीर्तिसमद्युति/ज्येष्ठक्रमेणसातेषांराक्षसानामराक्षसी/कन्यास्ताःप्रददौहृष्टापूर्णचन्द्रनिभाननाः/त्रयाणांराक्षसेन्द्राणांतिस्रोगन्धर्वकन्यकाः/मात्रादत्तामहाभागानक्षत्रेभगदैवते/कृतदारास्तुतेरामसुकेशतनयाःप्रभो/भार्याभिःसहचिक्रीडुरप्सरोभिरिवामराः/तत्रमाल्यवतोभार्यासुन्दरीनामसुन्दरी/सतस्यांजनयामासयदपत्यंनिबोधतत्/वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैवराक्षसः/सुप्तघ्नोयज्ञकोपश्चमत्तोन्मत्तौतथैवच/अनलाचाभवत्कन्यासुन्दर्यांरामसुन्दरी/सुमालिनोऽपिभार्यासीत्पूर्णचन्द्रनिभानना/नाम्नाकेतुमतीनामप्राणेभ्योऽपिगरीयसी/सुमालीजनयामासयदपत्यंनिशाचरः/केतुमत्यांमहाराजतन्निबोधानुपूर्वशः/प्रहस्तोऽकम्पनैश्चैवविकटःकालकार्मुकः/धूम्राक्शश्चाथदण्डश्चसुपार्श्वश्चमहाबलः/संह्रादिःप्रघसश्चैवभासकर्णश्चराक्षसः/राकापुष्पोत्कटाचैवकैकसीचशुचिस्मिता/कुम्भीनसीचइत्येतेसुमालेःप्रसवाःस्मृताः/मालेस्तुवसुदानामगन्धर्वीरूपशालिनी/भार्यासीत्पद्मपत्राक्षीस्वक्षीयक्षीवरोपमा/सुमालेरनुजस्तस्यांजनयामासयत्प्रभो/अपत्यंकथ्यमानंतन्मयात्वंशृणुराघव/अनलश्चानिलश्चैवहरःसंपातिरेवच/एतेविभीषणामात्यामालेयास्तेनिशाचराः/ततस्तुतेराक्षसपुंगवास्त्रयो॑निशाचरैःपुत्रशतैश्चसंवृताः/सुरान्सहेन्द्रानृषिनागदानवान्॑बबाधिरेतेबलवीर्यदर्पिताः/जगद्भ्रमन्तोऽनिलवद्दुरासदा॑रणेचमृत्युप्रतिमाःसमाहिताः/वरप्रदानादभिगर्विताभृशं॑क्रतुक्रियाणांप्रशमंकराःसदा7547/तैर्वध्यमानादेवाश्चऋषयश्चतपोधनाः/भयार्ताःशरणंजग्मुर्देवदेवंमहेश्वरम्761/तेसमेत्यतुकामारिंत्रिपुरारिंत्रिलोचनम्/ऊचुःप्राञ्जलयोदेवाभयगद्गदभाषिणः/सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः/प्रजाध्यक्षप्रजाःसर्वाबाध्यन्तेरिपुबाधन/शरण्यान्यशरण्यानिआश्रमाणिकृतानिनः/स्वर्गाच्चच्यावितःशक्रःस्वर्गेक्रीडन्तिशक्रवत्/अहंविष्णुरहंरुद्रोब्रह्माहंदेवराडहम्/अहंयमोऽहंवरुणश्चन्द्रोऽहंरविरप्यहम्/इतितेराक्षसादेववरदानेनदर्पिताः/बाधन्तेसमरोद्धर्षायेचतेषांपुरःसराः/तन्नोदेवभयार्तानामभयंदातुमर्हसि/अशिवंवपुरास्थायजहिदैवतकण्टकान्/इत्युक्तस्तुसुरैःसर्वैःकपर्दीनीललोहितः/सुकेशंप्रतिसापेक्षआहदेवगणान्प्रभुः/नाहंतान्निहनिष्यामिअवध्याममतेऽसुराः/किंतुमन्त्रंप्रदास्यामियोवैतान्निहनिष्यति/एवमेवसमुद्योगंपुरस्कृत्यसुरर्षभाः/गच्छन्तुशरणंविष्णुंहनिष्यतिसतान्प्रभुः/ततस्तेजयशब्देनप्रतिनन्द्यमहेश्वरम्/विष्णोःसमीपमाजग्मुर्निशाचरभयार्दिताः/शङ्खचक्रधरंदेवंप्रणम्यबहुमान्यच/ऊचुःसंभ्रान्तवद्वाक्यंसुकेशतनयार्दिताः/सुकेशतनयैर्देवत्रिभिस्त्रेताग्निसंनिभैः/आक्रम्यवरदानेनस्थानान्यपहृतानिनः/लङ्कानामपुरीदुर्गात्रिकूटशिखरेस्थिता/तत्रस्थिताःप्रबाधन्तेसर्वान्नःक्षणदाचराः/सत्वमस्मत्प्रियार्थंतुजहितान्मधुसूदन/चक्रकृत्तास्यकमलान्निवेदययमायवै/भयेष्वभयदोऽस्माकंनान्योऽस्तिभवतासमः/नुदत्वंनोभयंदेवनीहारमिवभास्करः/इत्येवंदैवतैरुक्तोदेवदेवोजनार्दनः/अभयंभयदोऽरीणांदत्त्वादेवानुवाचह/सुकेशंराक्षसंजानेईशानवरदर्पितम्/तांश्चास्यतनयाञ्जानेयेषांज्येष्ठःसमाल्यवान्/तानहंसमतिक्रान्तमर्यादान्राक्षसाधमान्/सूदयिष्यामिसंग्रामेसुराभवतविज्वराः/इत्युक्तास्तेसुराःसर्वेविष्णुनाप्रभविष्णुना/यथावासंययुर्हृष्टाःप्रशमन्तोजनार्दनम्/विबुधानांसमुद्योगंमाल्यवान्सनिशाचरः/श्रुत्वातौभ्रातरौवीराविदंवचनमब्रवीत्/अमराऋषयश्चैवसंहत्यकिलशंकरम्/अस्मद्वधंपरीप्सन्तइदमूचुस्त्रिलोचनम्/सुकेशतनयादेववरदानबलोद्धताः/बाधन्तेऽस्मान्समुद्युक्ताघोररूपाःपदेपदे/राक्षसैरभिभूताःस्मनशक्ताःस्मउमापते/स्वेषुवेश्मसुसंस्थातुंभयात्तेषांदुरात्मनाम्/तदस्माकंहितार्थेत्वंजहितांस्तांस्त्रिलोचन/राक्षसान्हुंकृतेनैवदहप्रदहतांवर/इत्येवंत्रिदशैरुक्तोनिशम्यान्धकसूदनः/शिरःकरंचधुन्वानइदंवचनमब्रवीत्/अवध्याममतेदेवाःसुकेशतनयारणे/मन्त्रंतुवःप्रदास्यामियोवैतान्निहनिष्यति/यःसचक्रगदापाणिःपीतवासाजनार्दनः/हनिष्यतिसतान्युद्धेशरणंतंप्रपद्यथ/हरान्नावाप्यतेकामंकामारिमभिवाद्यच/नारायणालयंप्राप्तास्तस्मैसर्वंन्यवेदयन्/ततोनारायणेनोक्तादेवाइन्द्रपुरोगमाः/सुरारीन्सूदयिष्यामिसुराभवतविज्वराः/देवानांभयभीतानांहरिणाराक्षसर्षभौ/प्रतिज्ञातोवधोऽस्माकंतच्चिन्तयथयत्क्षमम्/हिरण्यकशिपोर्मृत्युरन्येषांचसुरद्विषाम्/दुःखंनारायणंजेतुंयोनोहन्तुमभीप्सति/ततःसुमालीमालीचश्रुत्वामाल्यवतोवचः/ऊचतुर्भ्रातरंज्येष्ठंभगांशाविववासवम्/स्वधीतंदत्तमिष्टंचऐश्वर्यंपरिपालितम्/आयुर्निरामयंप्राप्तंस्वधर्मःस्थापितश्चनः/देवसागरमक्षोभ्यंशस्त्रौघैःप्रविगाह्यच/जितादेवारणेनित्यंननोमृत्युकृतंभयम्/नारायणश्चरुद्रश्चशक्रश्चापियमस्तथा/अस्माकंप्रमुखेस्थातुंसर्वएवहिबिभ्यति/विष्णोर्दोषश्चनास्त्यत्रकारणंराक्षसेश्वर/देवानामेवदोषेणविष्णोःप्रचलितंमनः/तस्मादद्यसमुद्युक्ताःसर्वसैन्यसमावृताः/देवानेवजिघांसामोयेभ्योदोषःसमुत्थितः/इतिमालीसुमालीचमाल्यवानग्रजःप्रभुः/उद्योगंघोषयित्वाथराक्षसाःसर्वएवते/युद्धायनिर्ययुःक्रुद्धाजम्भवृत्रबलाइव/स्यन्दनैर्वारणेन्द्रैश्चहयैश्चगिरिसंनिभैः/खरैर्गोभिरथोष्ट्रैश्चशिंशुमारैर्भुजंगमैः/मकरैःकच्छपैर्मीनैर्विहंगैर्गरुडोपमैः/सिंहैर्व्याघ्रैर्वराहैश्चसृमरैश्चमरैरपि/त्यक्त्वालङ्कांततःसर्वेराक्षसाबलगर्विताः/प्रयातादेवलोकाययोद्धुंदैवतशत्रवः/लङ्काविपर्ययंदृष्ट्वायानिलङ्कालयान्यथ/भूतानिभयदर्शीनिविमनस्कानिसर्वशः/भौमास्तथान्तरिक्षाश्चकालाज्ञप्ताभयावहाः/उत्पाताराक्षसेन्द्राणामभावायोत्थिताद्रुतम्/अस्थीनिमेघावर्षन्तिउष्णंशोणितमेवच/वेलांसमुद्रोऽप्युत्क्रान्तश्चलन्तेचाचलोत्तमाः/अट्टहासान्विमुञ्चन्तोघननादसमस्वनान्/भूताःपरिपतन्तिस्मनृत्यमानाःसहस्रशः/गृध्रचक्रंमहच्चापिज्वलनोद्गारिभिर्मुखैः/राक्षसानामुपरिवैभ्रमतेकालचक्रवत्/तानचिन्त्यमहोत्पातान्राक्षसाबलगर्विताः/यन्त्येवननिवर्तन्तेमृत्युपाशावपाशिताः/माल्यवांश्चसुमालीचमालीचरजनीचराः/आसन्पुरःसरास्तेषांक्रतूनामिवपावकाः/माल्यवन्तंतुतेसर्वेमाल्यवन्तमिवाचलम्/निशाचराआश्रयन्तेधातारमिवदेहिनः/तद्बलंराक्षसेन्द्राणांमहाभ्रघननादितम्/जयेप्सयादेवलोकंययौमालीवशेस्थितम्/राक्षसानांसमुद्योगंतंतुनारायणःप्रभुः/देवदूतादुपश्रुत्यदध्रेयुद्धेततोमनः/सदेवसिद्धर्षिमहोरगैश्च॑गन्धर्वमुख्याप्सरसोपगीतः/समाससादामरशत्रुसैन्यं॑चक्रासिसीरप्रवरादिधारी/सुपर्णपक्षानिलनुन्नपक्षं॑भ्रमत्पताकंप्रविकीर्णशस्त्रम्/चचालतद्राक्षसराजसैन्यं॑चलोपलोनीलइवाचलेन्द्रः/तथशितैःशोणितमांसरूषितैर्॑युगान्तवैश्वानरतुल्यविग्रहैः/निशाचराःसंपरिवार्यमाधवं॑वरायुधैर्निर्बिभिदुःसहस्रशः7670/नारायणगिरिंतेतुगर्जन्तोराक्षसाम्बुदाः/अवर्षन्निषुवर्षेणवर्षेणाद्रिमिवाम्बुदाः771/श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः/वृतोऽञ्जनगिरीवासीद्वर्षमाणैःपयोधरैः/शलभाइवकेदारंमशकाइवपर्वतम्/यथामृतघटंजीवामकराइवचार्णवम्/तथारक्षोधनुर्मुक्तावज्रानिलमनोजवाः/हरिंविशन्तिस्मशरालोकास्तमिवपर्यये/स्यन्दनैःस्यन्दनगतागजैश्चगजधूर्गताः/अश्वारोहाःसदश्वैश्चपादाताश्चाम्बरेचराः/राक्षसेन्द्रागिरिनिभाःशरशक्त्यृष्टितोमरैः/निरुच्छ्वासंहरिंचक्रुःप्राणायामइवद्विजम्/निशाचरैस्तुद्यमानोमीनैरिवमहातिमिः/शार्ङ्गमायम्यगात्राणिराक्षसानांमहाहवे/शरैःपूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः/चिच्छेदतिलशोविष्णुःशतशोऽथसहस्रशः/विद्राव्यशरवर्षंतंवर्षंवायुरिवोत्थितम्/पाञ्चजन्यंमहाशङ्खंप्रदध्मौपुरुषोत्तमः/सोऽम्बुजोहरिणाध्मातःसर्वप्राणेनशङ्खराट्/ररासभीमनिह्रादोयुगान्तेजलदोयथा/शङ्खराजरवःसोऽथत्रासयामासराक्षसान्/मृगराजइवारण्येसमदानिवकुञ्जरान्/नशेकुरश्वाःसंस्थातुंविमदाःकुञ्जराभवन्/स्यन्दनेभ्यश्च्युतायोधाःशङ्खरावितदुर्बलाः/शार्ङ्गचापविनिर्मुक्तावज्रतुल्याननाःशराः/विदार्यतानिरक्षांसिसुपुङ्खाविविशुःक्षितिम्/भिद्यमानाःशरैश्चान्येनारायणधनुश्च्युतैः/निपेतूराक्षसाभीमाःशैलावज्रहताइव/व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः/असृक्क्षरन्तिधाराभिःस्वर्णधारामिवाचलाः/शङ्खराजरवश्चापिशार्ङ्गचापरवस्तथा/राक्षसानांरवांश्चापिग्रसतेवैष्णवोरवः/सूर्यादिवकराघोराऊर्मयःसागरादिव/पर्वतादिवनागेन्द्रावार्योघाइवचाम्बुदात्/तथाबाणाविनिर्मुक्ताःशार्ङ्गान्नरायणेरिताः/निर्धावन्तीषवस्तूर्णंशतशोऽथसहस्रशः/शरभेणयथासिंहाःसिंहेनद्विरदायथा/द्विरदेनयथाव्याघ्राव्याघ्रेणद्वीपिनोयथा/द्वीपिनाचयथाश्वानःशुनामार्जारकायथा/मार्जारेणयथासर्पाःसर्पेणचयथाखवः/तथातेराक्षसायुद्धेविष्णुनाप्रभविष्णुना/द्रवन्तिद्राविताश्चैवशायिताश्चमहीतले/राक्षसानांसहस्राणिनिहत्यमधुसूदनः/वारिजंनादयामासतोयदंसुरराडिव/नारायणशरग्रस्तंशङ्खनादसुविह्वलम्/ययौलङ्कामभिमुखंप्रभग्नंराक्षसंबलम्/प्रभग्नेराक्षसबलेनारायणशराहते/सुमालीशरवर्षेणआववाररणेहरिम्/उत्क्षिप्यहेमाभरणंकरंकरमिवद्विपः/ररासराक्षसोहर्षात्सतडित्तोयदोयथा/सुमालेर्नर्दतस्तस्यशिरोज्वलितकुण्डलम्/चिच्छेदयन्तुरश्वाश्चभ्रान्तास्तस्यतुरक्षसः/तैरश्वैर्भ्राम्यतेभ्रान्तैःसुमालीराक्षसेश्वरः/इन्द्रियाश्वैर्यथाभ्रान्तैर्धृतिहीनोयथानरः/मालीचाभ्यद्रवद्युद्धेप्रगृह्यसशरंधनुः/मालेर्धनुश्च्युताबाणाःकार्तस्वरविभूषिताः/विविशुर्हरिमासाद्यक्रौञ्चंपत्ररथाइव/अर्द्यमानःशरैःसोऽथमालिमुक्तैःसहस्रशः/चुक्षुभेनरणेविष्णुर्जितेन्द्रियइवाधिभिः/अथमौर्वीस्वनंकृत्वाभगवान्भूतभावनः/मालिनंप्रतिबाणौघान्ससर्जासिगदाधरः/तेमालिदेहमासाद्यवज्रविद्युत्प्रभाःशराः/पिबन्तिरुधिरंतस्यनागाइवपुरामृतम्/मालिनंविमुखंकृत्वामालिमौलिंहरिर्बलात्/रथंचसध्वजंचापंवाजिनश्चन्यपातयत्/विरथस्तुगदांगृह्यमालीनक्तंचरोत्तमः/आपुप्लुवेगदापाणिर्गिर्यग्रादिवकेषरी/सतयागरुडंसंख्येईशानमिवचान्तकः/ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रोयथाचलम्/गदयाभिहतस्तेनमालिनागरुडोभृशम्/रणात्पराङ्मुखंदेवंकृतवान्वेदनातुरः/पराङ्मुखेकृतेदेवेमालिनागरुडेनवै/उदतिष्ठन्महानादोरक्षसामभिनर्दताम्/रक्षसांनदतांनादंश्रुत्वाहरिहयानुजः/पराङ्मुखोऽप्युत्ससर्जचक्रंमालिजिघांसया/तत्सूर्यमण्डलाभासंस्वभासाभासयन्नभः/कालचक्रनिभंचक्रंमालेःशीर्षमपातयत्/तच्छिरोराक्षसेन्द्रस्यचक्रोत्कृत्तंविभीषणम्/पपातरुधिरोद्गारिपुराराहुशिरोयथा/ततःसुरैःसुसंहृष्टैःसर्वप्राणसमीरितः/सिंहनादरवोमुक्तःसाधुदेवेतिवादिभिः/मालिनंनिहतंदृष्ट्वासुमालीमल्यवानपि/सबलौशोकसंतप्तौलङ्काअंप्रतिविधावितौ/गरुडस्तुसमाश्वस्तःसंनिवृत्यमहामनाः/राक्षसान्द्रावयामासपक्षवातेनकोपितः/नारायणोऽपीषुवराशनीभिर्॑विदारयामासधनुःप्रमुक्तैः/नक्तंचरान्मुक्तविधूतकेशान्॑यथाशनीभिःसतडिन्महेन्द्रः/भिन्नातपत्रंपतमानशस्त्रं॑शरैरपध्वस्तविशीर्णदेहम्/विनिःसृतान्त्रंभयलोलनेत्रं॑बलंतदुन्मत्तनिभंबभूव/सिंहार्दितानामिवकुञ्जराणां॑निशाचराणांसहकुञ्जराणाम्/रवाश्चवेगाश्चसमंबभूवुः॑पुराणसिंहेनविमर्दितानाम्/संछाद्यमानाहरिबाणजालैः॑स्वबाणजाअलानिसमुत्सृजन्तः/धावन्तिनक्तंचरकालमेघा॑वायुप्रणुन्नाइवकालमेघाः/चक्रप्रहारैर्विनिकृत्तशीर्षाः॑संचूर्णिताङ्गाश्चगदाप्रहारैः/असिप्रहारैर्बहुधाविभक्ताः॑पतन्तिशैलाइवराक्षसेन्द्राः/चक्रकृत्तास्यकमलागदासंचूर्णितोरसः/लाङ्गलग्लपितग्रीवामुसलैर्भिन्नमस्तकाः/केचिच्चैवासिनाछिन्नास्तथान्येशरताडिताः/निपेतुरम्बरात्तूर्णंराक्षसाःसागराम्भसि/तदाम्बरंविगलितहारकुण्डलैर्॑निशाचरैर्नीलबलाहकोपमैः/निपात्यमानैर्ददृशेनिरन्तरं॑निपात्यमानैरिवनीलपर्वतैः7755/हन्यमानेबलेतस्मिन्पद्मनाभेनपृष्ठतः/माल्यवान्संनिवृत्तोऽथवेलातिगइवार्णवः781/संरक्तनयनःकोपाच्चलन्मौलिर्निशाचरः/पद्मनाभमिदंप्राहवचनंपरुषंतदा/नारायणनजानीषेक्षत्रधर्मंसनातनम्/अयुद्धमनसोभग्नान्योऽस्मान्हंसियथेतरः/पराङ्मुखवधंपापंयःकरोतिसुरेश्वर/सहन्तानगतःस्वर्गंलभतेपुण्यकर्मणाम्/युद्धश्रद्धाथवातेऽस्तिशङ्खचक्रगदाधर/अहंस्थितोऽस्मिपश्यामिबलंदर्शययत्तव/उवाचराक्षसेन्द्रंतंदेवराजानुजोबली/युष्मत्तोभयभीतानांदेवानांवैमयाभयम्/राक्षसोत्सादनंदत्तंतदेतदनुपाल्यते/प्राणैरपिप्रियंकार्यंदेवानांहिसदामया/सोऽहंवोनिहनिष्यामिरसातलगतानपि/देवमेवंब्रुवाणंतुरक्ताम्बुरुहलोचनम्/शक्त्याबिभेदसंक्रुद्धोराक्षसेन्द्रोररासच/माल्यवद्भुजनिर्मुक्ताशक्तिर्घण्टाकृतस्वना/हरेरुरसिबभ्राजमेघस्थेवशतह्रदा/ततस्तामेवचोत्कृष्यशक्तिंशक्तिधरप्रियः/माल्यवन्तंसमुद्दिश्यचिक्षेपाम्बुरुहेक्षणः/स्कन्दोत्सृष्टेवसाशक्तिर्गोविन्दकरनिःसृता/काङ्क्षन्तीराक्षसंप्रायान्महोल्केवाञ्जनाचलम्/सातस्योरसिविस्तीर्णेहारभासावभासिते/अपतद्राक्षसेन्द्रस्यगिरिकूटइवाशनिः/तयाभिन्नतनुत्राणाःप्राविशद्विपुलंतमः/माल्यवान्पुनराश्वस्तस्तस्थौगिरिरिवाचलः/ततःकार्ष्णायसंशूलंकण्टकैर्बहुभिश्चितम्/प्रगृह्याभ्यहनद्देवंस्तनयोरन्तरेदृढम्/तथैवरणरक्तस्तुमुष्टिनावासवानुजम्/ताडयित्वाधनुर्मात्रमपक्रान्तोनिशाचरः/ततोऽम्बरेमहाञ्शब्दःसाधुसाध्वितिचोत्थितः/आहत्यराक्षसोविष्णुंगरुडंचाप्यताडयत्/वैनतेयस्ततःक्रुद्धःपक्षवातेनराक्षसं/व्यपोहद्बलवान्वायुःशुष्कपर्णचयंयथा/द्विजेन्द्रपक्षवातेनद्रावितंदृश्यपूर्वजम्/सुमालीस्वबलैःसार्धंलङ्कामभिमुखोययौ/पक्षवातबलोद्धूतोमाल्यवानपिराक्षसः/स्वबलेनसमागम्यययौलङ्कांह्रियावृतः/एवंतेराक्षसारामहरिणाकमलेक्षण/बहुशःसंयुगेभग्नाहतप्रवरनायकाः/अशक्नुवन्तस्तेविष्णुंप्रतियोद्धुंभयार्दिताः/त्यक्त्वालङ्कांगतावस्तुंपातालंसहपत्नयः/सुमालिनंसमासाद्यराक्षसंरघुनन्दन/स्थिताःप्रख्यातवीर्यास्तेवंशेसालकटङ्कटे/येत्वयानिहतास्तेवैपौलस्त्यानामराक्षसाः/सुमालीमाल्यवान्मालीयेचतेषांपुरःसराः/सर्वएतेमहाभागरावणाद्बलवत्तराः/नचान्योरक्षसांहन्तासुरेष्वपिपुरंजय/ऋतेनारायणंदेवंशङ्खचक्रगदाधरम्/भवान्नारायणोदेवश्चतुर्बाहुःसनातनः/राक्षसान्हन्तुमुत्पन्नोअजेयःप्रभुरव्ययः7826/कस्यचित्त्वथकालस्यसुमालीनामराक्षसः/रसातलान्मर्त्यलोकंसर्वंवैविचचाअरह791/नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः/कन्यांदुहितरंगृह्यविनापद्ममिवश्रियम्/अथापश्यत्सगच्छन्तंपुष्पकेणधनेश्वरम्/तंदृष्ट्वामरसंकाशंगच्छन्तंपावकोपमम्/अथाब्ब्रवीत्सुतांरक्षःकैकसींनामनामतः/पुत्रिप्रदानकालोऽयंयौवनंतेऽतिवर्तते/त्वत्कृतेचवयंसर्वेयन्त्रिताधर्मबुद्धयः/त्वंहिसर्वगुणोपेताश्रीःसपद्मेवपुत्रिके/प्रत्याख्यानाच्चभीतैस्त्वंनवरैःप्रतिगृह्यसे/कन्यापितृत्वंदुःखंहिसर्वेषांमानकाङ्क्षिणाम्/नज्ञायतेचकःकन्यांवरयेदितिपुत्रिके/मातुःकुलंपितृकुलंयत्रचैवप्रदीयते/कुलत्रयंसदाकन्यासंशयेस्थाप्यतिष्ठति/सात्वंमुनिवरश्रेष्ठंप्रजापतिकुलोद्भवम्/गच्छविश्रवसंपुत्रिपौलस्त्यंवरयस्वयम्/ईदृशास्तेभविष्यन्तिपुत्राःपुत्रिनसंशयः/तेजसाभास्करसमायादृशोऽयंधनेश्वरः/एतस्मिन्नन्तरेरामपुलस्त्यतनयोद्विजः/अग्निहोत्रमुपातिष्ठच्चतुर्थइवपावकः/सातुतांदारुणांवेलामचिन्त्यपितृगौरवात्/उपसृत्याग्रतस्तस्यचरणाधोमुखीस्थिता/सतुतांवीक्ष्यसुश्रोणींपूर्णचन्द्रनिभाननाम्/अब्रवीत्परमोदारोदीप्यमानइवौजसा/भद्रेकस्यासिदुहिताकुतोवात्वमिहागता/किंकार्यंकस्यवाहेतोस्तत्त्वतोब्रूहिशोभने/एवमुक्तातुसाकन्याकृताञ्जलिरथाब्रवीत्/आत्मप्रभावेनमुनेज्ञातुमर्हसिमेमतम्/किंतुविद्धिहिमांब्रह्मञ्शासनात्पितुरागताम्/कैकसीनामनाम्नाहंशेषंत्वंज्ञातुमर्हसि/सतुगत्वामुनिर्ध्यानंवाक्यमेतदुवाचह/विज्ञातंतेमयाभद्रेकारणंयन्मनोगतम्/दारुणायांतुवेलायांयस्मात्त्वंमामुपस्थिता/शृणुतस्मात्सुतान्भद्रेयादृशाञ्जनयिष्यसि/दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्/प्रसविष्यसिसुश्रोणिराक्षसान्क्रूरकर्मणः/सातुतद्वचनंश्रुत्वाप्रणिपत्याब्रवीद्वचः/भगवन्नेदृशाःपुत्रास्त्वत्तोऽर्हाब्रह्मयोनितः/अथाब्रवीन्मुनिस्तत्रपश्चिमोयस्तवात्मजः/ममवंशानुरूपश्चधर्मात्माचभविष्यति/एवमुक्तातुसाकन्यारामकालेनकेनचित्/जनयामासबीभत्संरक्षोरूपंसुदारुणम्/दशशीर्षंमहादंष्ट्रंनीलाञ्जनचयोपमम्/ताम्रौष्ठंविंशतिभुजंमहास्यंदीप्तमूर्धजम्/जातमात्रेततस्तस्मिन्सज्वालकवलाःशिवाः/क्रव्यादाश्चापसव्यानिमण्डलानिप्रचक्रिरे/ववर्षरुधिरंदेवोमेघाश्चखरनिस्वनाः/प्रबभौनचखेसूर्योमहोल्काश्चापतन्भुवि/अथनामाकरोत्तस्यपितामहसमःपिता/दशशीर्षःप्रसूतोऽयंदशग्रीवोभविष्यति/तस्यत्वनन्तरंजातःकुम्भकर्णोमहाबलः/प्रमाणाद्यस्यविपुलंप्रमाणंनेहविद्यते/ततःशूर्पणखानामसंजज्ञेविकृतानना/विभीषणश्चधर्मात्माकैकस्याःपश्चिमःसुतः/तेतुतत्रमहारण्येववृधुःसुमहौजसः/तेषांक्रूरोदशग्रीवोलोकोद्वेगकरोऽभवत्/कुम्भकर्णःप्रमत्तस्तुमहर्षीन्धर्मसंश्रितान्/त्रैलोक्यंत्रासयन्दुष्टोभक्षयन्विचचारह/विभीषणस्तुधर्मात्मानित्यंधर्मपथेस्थितः/स्वाध्यायनियताहारउवासनियतेन्द्रियः/अथवित्तेश्वरोदेवस्तत्रकालेनकेनचित्/आगच्छत्पितरंद्रष्टुंपुष्पकेणमहौजसं/तंदृष्ट्वाकैकसीतत्रज्वलन्तमिवतेजसा/आस्थायराक्षसींबुद्धिंदशग्रीवमुवाचह/पुत्रवैश्रवणंपश्यभ्रातरंतेजसावृतम्/भ्रातृभावेसमेचापिपश्यात्मानंत्वमीदृशम्/दशग्रीवतथायत्नंकुरुष्वामितविक्रम/यथाभवसिमेपुत्रशीघ्रंवैश्वरणोपमः/मातुस्तद्वचनंश्रुत्वादशग्रीवःप्रतापवान्/अमर्षमतुलंलेभेप्रतिज्ञांचाकरोत्तदा/सत्यंतेप्रतिजानामितुल्योभ्रात्राधिकोऽपिवा/भविष्याम्यचिरान्मातःसंतापंत्यजहृद्गतम्/ततःक्रोधेनतेनैवदशग्रीवःसहानुजः/प्राप्स्यामितपसाकाममितिकृत्वाध्यवस्यच/आगच्छदात्मसिद्ध्यर्थंगोकर्णस्याश्रमंशुभम्7947/अथाब्रवीद्द्विजंरामःकथंतेभ्रातरोवने/कीदृशंतुतदाब्रह्मंस्तपश्चेरुर्महाव्रताः7101/अगस्त्यस्त्वब्रवीत्तत्ररामंप्रयतमानसं/तांस्तान्धर्मविधींस्तत्रभ्रातरस्तेसमाविशन्/कुम्भकर्णस्तदायत्तोनित्यंधर्मपरायणः/ततापग्रैष्मिकेकालेपञ्चस्वग्निष्ववस्थितः/वर्षेमेघोदकक्लिन्नोवीरासनमसेवत/नित्यंचशैशिरेकालेजलमध्यप्रतिश्रयः/एवंवर्षसहस्राणिदशतस्यातिचक्रमुः/धर्मेप्रयतमानस्यसत्पथेनिष्ठितस्यच/विभीषणस्तुधर्मात्मानित्यंधर्मपरःशुचिः/पञ्चवर्षसहस्राणिपादेनैकेनतस्थिवान्/समाप्तेनियमेतस्यननृतुश्चाप्सरोगणाः/पपातपुष्पवर्षंचक्षुभिताश्चापिदेवताः/पञ्चवर्षसहस्राणिसूर्यंचैवान्ववर्तत/तस्थौचोर्ध्वशिरोबाहुःस्वाध्यायधृतमानसः/एवंविभीषणस्यापिगतानिनियतात्मनः/दशवर्षसहस्राणिस्वर्गस्थस्येवनन्दने/दशवर्षसहस्रंतुनिराहारोदशाननः/पूर्णेवर्षसहस्रेतुशिरश्चाग्नौजुहावसः/एवंवर्षसहस्राणिनवतस्यातिचक्रमुः/शिरांसिनवचाप्यस्यप्रविष्टानिहुताशनम्/अथवर्षसहस्रेतुदशमेदशमंशिरः/छेत्तुकामःसधर्मात्माप्राप्तश्चात्रपितामहः/पितामहस्तुसुप्रीतःसार्धंदेवैरुपस्थितः/वत्सवत्सदशग्रीवप्रीतोऽस्मीत्यभ्यभाषत/शीघ्रंवरयधर्मज्ञवरोयस्तेऽभिकाङ्क्षितः/किंतेकामंकरोम्यद्यनवृथातेपरिश्रमः/ततोऽब्रवीद्दशग्रीवःप्रहृष्टेनान्तरात्मना/प्रणम्यशिरसादेवंहर्षगद्गदयागिरा/भगवन्प्राणिनांनित्यंनान्यत्रमरणाद्भयम्/नास्तिमृत्युसमःशत्रुरमरत्वमतोवृणे/सुपर्णनागयक्षाणांदैत्यदानवरक्षसाम्/अवध्यःस्यांप्रजाध्यक्षदेवतानांचशाश्वतम्/नहिचिन्ताममान्येषुप्राणिष्वमरपूजित/तृणभूताहिमेसर्वेप्राणिनोमानुषादयः/एवमुक्तस्तुधर्मात्मादशग्रीवेणरक्षसा/उवाचवचनंरामसहदेवैःपितामहः/भविष्यत्येवमेवैतत्तवराक्षसपुंगव/शृणुचापिवचोभूयःप्रीतस्येहशुभंमम/हुतानियानिशीर्षाणिपूर्वमग्नौत्वयानघ/पुनस्तानिभविष्यन्तितथैवतवराक्षस/एवंपितामहोक्तस्यदशग्रीवस्यरक्षसः/अग्नौहुतानिशीर्षाणियानितान्युत्थितानिवै/एवमुक्त्व्वातुतंरामदशग्रीवंप्रजापतिः/विभीषणमथोवाचवाक्यंलोकपितामहः/विभीषणत्वयावत्सधर्मसंहितबुद्धिना/परितुष्टोऽस्मिधर्मज्ञवरंवरयसुव्रत/विभीषणस्तुधर्मात्मावचनंप्राहसाञ्जलिः/वृतःसर्वगुणैर्नित्यंचन्द्रमाइवरश्मिभिः/भगवन्कृतकृत्योऽहंयन्मेलोकगुरुःस्वयम्/प्रीतोयदित्वंदातव्यंवरंमेशृणुसुव्रत/यायामेजायतेबुद्धिर्येषुयेष्वाश्रमेष्विह/सासाभवतुधर्मिष्ठातंतंधर्मंचपालये/एषमेपरमोदारवरःपरमकोमतः/नहिधर्माभिरक्तानांलोकेकिंचनदुर्लभम्/अथप्रजापतिःप्रीतोविभीषणमुवाचह/धर्मिष्ठस्त्वंयथावत्सतथाचैतद्भविष्यति/यस्माद्राक्षसयोनौतेजातस्यामित्रकर्षण/नाधर्मेजायतेबुद्धिरमरत्वंददामिते/कुम्भकर्णायतुवरंप्रयच्छन्तमरिंदम/प्रजापतिंसुराःसर्वेवाक्यंप्राञ्जलयोऽब्रुवन्/नतावत्कुम्भकर्णायप्रदातव्योवरस्त्वया/जानीषेहियथालोकांस्त्रासयत्येषदुर्मतिः/नन्दनेऽप्सरसःसप्तमहेन्द्रानुचरादश/अनेनभक्षिताब्रह्मनृषयोमानुषास्तथा/वरव्याजेनमोहोऽस्मैदीयताममितप्रभ/लोकानांस्वस्तिचैवस्याद्भवेदस्यचसंनतिः/एवमुक्तःसुरैर्ब्रह्माचिन्तयत्पद्मसंभवः/चिन्तिताचोपतस्थेऽस्यपार्श्वंदेवीसरस्वती/प्राञ्जलिःसातुपर्श्वस्थाप्राहवाक्यंसरस्वती/इयमस्म्यागतादेवकिंकार्यंकरवाण्यहम्/प्रजापतिस्तुतांप्राप्तांप्राहवाक्यंसरस्वतीम्/वाणित्वंराक्षसेन्द्रस्यभवयादेवतेप्सिता/तथेत्युक्त्वाप्रविष्टासाप्रजापतिरथाब्रवीत्/कुम्भकर्णमहाबाहोवरंवरययोमतः/कुम्भकर्णस्तुतद्वाक्यंश्रुत्वावचनमब्रवीत्/स्वप्तुंवर्षाण्यनेकानिदेवदेवममेप्सितम्/एवमस्त्वितितंचोक्त्वासहदेवैःपितामहः/देवीसरस्वतीचैवमुक्त्वातंप्रययौदिवम्/कुम्भकर्णस्तुदुष्टात्माचिन्तयामासदुःखितः/कीर्दृशंकिंन्विदंवाक्यंममाद्यवदनाच्च्युतम्/एवंलब्धवराःसर्वेभ्रातरोदीप्ततेजसः/श्लेष्मातकवनंगत्वातत्रतेन्यवसन्सुखम्71049/सुमालीवरलब्धांस्तुज्ञात्वातान्वैनिशाचरान्/उदतिष्ठद्भयंत्यक्त्वासानुगःसरसातलात्7111/मारीचश्चप्रहस्तश्चविरूपाक्षोमहोदरः/उदतिष्ठन्सुसंरब्धाःसचिवास्तस्यरक्षसः/सुमालीचैवतैःसर्वैर्वृतोराक्षसपुंगवैः/अभिगम्यदशग्रीवंपरिष्वज्येदमब्रवीत्/दिष्ट्यातेपुत्रसंप्राप्तश्चिन्तितोऽयम्ंमनोरथः/यस्त्वंत्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम्/यत्कृतेचवयंलङ्कांत्यक्त्वायातारसातलम्/तद्गतंनोमहाबाहोमहद्विष्णुकृतंभयम्/असकृत्तेनभग्नाहिपरित्यज्यस्वमालयम्/विद्रुताःसहिताःसर्वेप्रविष्टाःस्मरसातलम्/अस्मदीयाचलङ्केयंनगरीराक्षसोषिता/निवेशितातवभ्रात्राधनाध्यक्षेणधीमता/यदिनामात्रशक्यंस्यात्साम्नादानेनवानघ/तरसावामहाबाहोप्रत्यानेतुंकृतंभवेत्/त्वंचलङ्केश्वरस्तातभविष्यसिनसंशयः/सर्वेषांनःप्रभुश्चैवभविष्यसिमहाबल/अथाब्रवीद्दशग्रीवोमातामहमुपस्थितम्/वित्तेशोगुरुरस्माकंनार्हस्येवंप्रभाषितुम्/उक्तवन्तंतथावाक्यंदशग्रीवंनिशाचरः/प्रहस्तःप्रश्रितंवाक्यमिदमाहसकारणम्/दशग्रीवमहाबाहोनार्हस्त्वंवक्तुमीदृशम्/सौभ्रात्रंनास्तिशूराणांशृणुचेदंवचोमम/अदितिश्चदितिश्चैवभगिन्यौसहितेकिल/भार्येपरमरूपिण्यौकश्यपस्यप्रजापतेः/अदितिर्जनयामासदेवांस्त्रिभुवणेश्वरान्/दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसंभवान्/दैत्यानांकिलधर्मज्ञपुरेयंसवनार्णवा/सपर्वतामहीवीरतेऽभवन्प्रभविष्णवः/निहत्यतांस्तुसमरेविष्णुनाप्रभविष्णुना/देवानांवशमानीतंत्रैलोक्यमिदमव्ययम्/नैतदेकोभवानेवकरिष्यतिविपर्ययम्/सुरैराचरितंपूर्वंकुरुष्वैतद्वचोमम/एवमुक्तोदशग्रीवःप्रहस्तेनदुरात्मना/चिन्तयित्वामुहूर्तंवैबाढमित्येवसोऽब्रवीत्/सतुतेनैवहर्षेणतस्मिन्नहनिवीर्यवान्/वनंगतोदशग्रीवःसहतैःक्षणदाचरैः/त्रिकूटस्थःसतुतदादशग्रीवोनिशाचरः/प्रेषयामासदौत्येनप्रहस्तंवाक्यकोविदम्/प्रहस्तशीघ्रंगत्वात्वंब्रूहिनैरृतपुंगवम्/वचनान्ममवित्तेशंसामपूर्वमिदंवचः/इयंलङ्कापुरीराजन्राक्षसानांमहात्मनाम्/त्वयानिवेशितासौम्यनैतद्युक्तंतवानघ/तद्भवान्यदिसाम्नैतांदद्यादतुलविक्रम/कृताभवेन्ममप्रीतिर्धर्मश्चैवानुपालितः/इत्युक्तःसतदागत्वाप्रहस्तोवाक्यकोविदः/दशग्रीववचःसर्वंवित्तेशायन्यवेदयत्/प्रहस्तादपिसंश्रुत्यदेवोवैश्रवणोवचः/प्रत्युवाचप्रहस्तंतंवाक्यंवाक्यविशारदः/ब्रूहिगच्छदशग्रीवंपुरीराज्यंचयन्मम/तवाप्येतन्महाबाहोभुङ्क्ष्वैतद्धतकण्टकम्/सर्वंकर्तास्मिभद्रंतेराक्षसेशवचोऽचिरात्/किंतुतावत्प्रतीक्षस्वपितुर्यावन्निवेदये/एवमुक्त्वाधनाध्यक्षोजगामपितुरन्तिकम्/अभिवाद्यगुरुंप्राहरावणस्ययदीप्सितम्/एषतातदशग्रीवोदूतंप्रेषितवान्मम/दीयतांनगरीलङ्कापूर्वंरक्षोगणोषिता/मयात्रयदनुष्ठेयंतन्ममाचक्ष्वसुव्रत/ब्रह्मर्षिस्त्वेवमुक्तोऽसौविश्रवामुनिपुंगवः/उवाचधनदंवाक्यंशृणुपुत्रवचोमम/दशग्रीवोमहाबाहुरुक्तवान्ममसंनिधौ/मयानिर्भर्त्सितश्चासीद्बहुधोक्तःसुदुर्मतिः/सक्रोधेनमयाचोक्तोध्वंसस्वेतिपुनःपुनः/श्रेयोऽभियुक्तंधर्म्यंचशृणुपुत्रवचोमम/वरप्रदानसंमूढोमान्यामान्यंसुदुर्मतिः/नवेत्तिममशापाच्चप्रकृतिंदारुणांगतः/तस्माद्गच्छमहाबाहोकैलासंधरणीधरम्/निवेशयनिवासार्थंत्यजलङ्कांसहानुगः/तत्रमन्दाकिनीरम्यानदीनांप्रवरानदी/काञ्चनैःसूर्यसंकाशैःपङ्कजैःसंवृतोदका/नहिक्षमंत्वयातेनवैरंधनदरक्षसा/जानीषेहियथानेनलब्धःपरमकोवरः/एवमुक्तोगृहीत्वातुतद्वचःपितृगौरवात्/सदारपौरःसामात्यःसवाहनधनोगतः/प्रहस्तस्तुदशग्रीवंगत्वासर्वंन्यवेदयत्/शून्यासानगरीलङ्कात्रिंशद्योजनमायता/प्रविश्यतांसहास्माभिःस्वधर्मंतत्रपालय/एवमुक्तःप्रहस्तेनरावणोराक्षसस्तदा/विवेशनगरींलङ्कांसभ्रातासबलानुगः/सचाभिषिक्तःक्षणदाचरैस्तदा॑निवेशयामासपुरींदशाननः/निकामपूर्णाचबभूवसापुरी॑निशाचरैर्नीलबलाहकोपमैः/धनेश्वरस्त्वथपितृवाक्यगौरवान्॑न्यवेशयच्छशिविमलेगिरौ/पुरीम्/स्वलंकृतैर्भवनवरैर्विभूषितां॑पुरंदरस्येवतदामरावतीम्71152/राक्षसेन्द्रोऽभिषिक्तस्तुभ्रातृभ्यांसहितस्तदा/ततःप्रदानंराक्षस्याभगिन्याःसमचिन्तयत्7121/ददौतांकालकेयायदानवेन्द्रायराक्षसीम्/स्वसांशूर्पणखांनामविद्युज्जिह्वायनामतः/अथदत्त्वास्वसारंसमृगयांपर्यटन्नृपः/तत्रापश्यत्ततोराममयंनामदितेःसुतम्/कन्यासहायंतंदृष्ट्वादशग्रीवोनिशाचरः/अपृच्छत्कोभवनेकोनिर्मनुष्यमृगेवने/मयस्त्वथाब्रवीद्रामपृच्छन्तंतंनिशाचरम्/श्रूयतांसर्वमाख्यास्येयथावृत्तमिदंमम/हेमानामाप्सरास्तातश्रुतपूर्वायदित्वया/दैवतैर्ममसादत्तापौलोमीवशतक्रतोः/तस्यांसक्तमनास्तातपञ्चवर्षशतान्यहम्/साचदैवतकार्येणगतावर्षंचतुर्दशम्/तस्याःकृतेचहेमायाःसर्वंहेमपुरंमया/वज्रवैदूर्यचित्रंचमाययानिर्मितंतदा/तत्राहमरतिंविन्दंस्तयाहीनःसुदुःखितः/तस्मात्पुराद्दुहितरंगृहीत्वावनमागतः/इयंममात्मजाराजंस्तस्याःकुक्षौविवर्धिता/भर्तारमनयासार्धमस्याःप्राप्तोऽस्मिमार्गितुम्/कन्यापितृत्वंदुःखंहिनराणांमानकाङ्क्षिणाम्/कन्याहिद्वेकुलेनित्यंसंशयेस्थाप्यतिष्ठति/द्वौसुतौतुममत्वस्यांभार्यायांसंबभूवतुः/मायावीप्रथमस्तातदुन्दुभिस्तदनन्तरम्/एतत्तेसर्वमाख्यातंयाथातथ्येनपृच्छतः/त्वामिदानींकथंतातजानीयांकोभवानिति/एवमुक्तोराक्षसेन्द्रोविनीतमिदमब्रवीत्/अहंपौलस्त्यतनयोदशग्रीवश्चनामतः/ब्रह्मर्षेस्तंसुतंज्ञात्वामयोहर्षमुपागतः/दातुंदुहितरंतस्यरोचयामासतत्रवै/प्रहसन्प्राहदैत्येन्द्रोराक्षसेन्द्रमिदंवचः/इयंममात्मजाराजन्हेमयाप्सरसाधृता/कन्यामन्दोदरीनामपत्न्यर्थंप्रतिगृह्यताम्/बाढमित्येवतंरामदशग्रीवोऽभ्यभाषत/प्रज्वाल्यतत्रचैवाग्निमकरोत्पाणिसंग्रहम्/नहितस्यमयोरामशापाभिज्ञस्तपोधनात्/विदित्वातेनसादत्तातस्यपैतामहंकुलम्/अमोघांतस्यशक्तिंचप्रददौपरमाद्भुताम्/परेणतपसालब्धांजघ्निवांल्लक्ष्मणंयया/एवंसकृतदारोवैलङ्कायामीश्वरःप्रभुः/गत्वातुनगरंभार्येभ्रातृभ्यांसमुदावहत्/वैरोचनस्यदौहित्रींवज्रज्वालेतिनामतः/तांभार्यांकुम्भकर्णस्यरावणःसमुदावहत्/गन्धर्वराजस्यसुतांशैलूषस्यमहात्मन/सरमानामधर्मज्ञोलेभेभार्यांविभीषणः/तीरेतुसरसःसावैसंजज्ञेमानसस्यच/मानसंचसरस्तातववृधेजलदागमे/मात्रातुतस्याःकन्यायाःस्नेहनाक्रन्दितंवचः/सरोमावर्धतेत्युक्तंततःसासरमाभवत्/एवंतेकृतदारावैरेमिरेतत्रराक्षसाः/स्वांस्वांभार्यामुपादायगन्धर्वाइवनन्दने/ततोमन्दोदरीपुत्रंमेघनादमसूयत/सएषइन्द्रजिन्नामयुष्माभिरभिधीयते/जातमात्रेणहिपुरातेनराक्षससूनुना/रुदतासुमहान्मुक्तोनादोजलधरोपमः/जडीकृतायांलङ्कायांतेननादेनतस्यवै/पितातस्याकरोन्नाममेघनादइतिस्वयम्/सोऽवर्धततदारामरावणान्तःपुरेशुभे/रक्ष्यमाणोवरस्त्रीभिश्छन्नःकाष्ठैरिवानलः71232/अथलोकेश्वरोत्सृष्टातत्रकालेनकेनचित्/निद्रासमभवत्तीव्राकुम्भकर्णस्यरूपिणी7131/ततोभ्रातरमासीनंकुम्भकर्णोऽब्रवीद्वचः/निद्रामांबाधतेराजन्कारयस्वममालयम्/विनियुक्तास्ततोराज्ञाशिल्पिनोविश्वकर्मवत्/अकुर्वन्कुम्भकर्णस्यकैलाससममालयम्/विस्तीर्णंयोजनंशुभ्रंततोद्विगुणमायतम्/दर्शनीयंनिराबाधंकुम्भकर्णस्यचक्रिरे/स्फाटिकैःकाञ्चनैश्चित्रैःस्तम्भैःसर्वत्रशोभितम्/वैदूर्यकृतशोभंचकिङ्किणीजालकंतथा/दन्ततोरणविन्यस्तंवज्रस्फटिकवेदिकम्/सर्वर्तुसुखदंनित्यंमेरोःपुण्यांगुहामिव/तत्रनिद्रांसमाविष्टःकुम्भकर्णोनिशाचरः/बहून्यब्दसहस्राणिशयानोनावबुध्यते/निद्राभिभूतेतुतदाकुम्भकर्णेदशाननः/देवर्षियक्षगन्धर्वान्बाधतेस्मसनित्यशः/उद्यानानिविचित्राणिनन्दनादीनियानिच/तानिगत्वासुसंक्रुद्धोभिनत्तिस्मदशाननः/नदींगजइवक्रीडन्वृक्षान्वायुरिवक्षिपन्/नगान्वज्रइवसृष्टोविध्वंसयतिनित्यशः/तथावृत्तंतुविज्ञायदशग्रीवंधनेश्वरः/कुलानुरूपंधर्मज्ञवृत्तंसंस्मृत्यचात्मनः/सौभ्रात्रदर्शनार्थंतुदूतंवैश्वरणस्तदा/लङ्कांसंप्रेषयामासदशग्रीवस्यवैहितम्/सगत्वानगरींलङ्कामाससादविभीषणम्/मानितस्तेनधर्मेणपृष्ठश्चागमनंप्रति/पृष्ट्वाचकुशलंराज्ञोज्ञातीनपिचबान्धवान्/सभायांदर्शयामासतमासीनंदशाननम्/सदृष्ट्वातत्रराजानंदीप्यमानंस्वतेजसा/जयेनचाभिसंपूज्यतूष्णीमासीन्मुहूर्तकम्/तस्योपनीतेपर्यङ्केवरास्तरणसंवृते/उपविश्यदशग्रीवंदूतोवाक्यमथाब्रवीत्/राजन्वदामितेसर्वंभ्रातातवयदब्रवीत्/उभयोःसदृशंसौम्यवृत्तस्यचकुलस्यच/साधुपर्याप्तमेतावत्कृतश्चारित्रसंग्रहः/साधुधर्मेव्यवस्थानंक्रियतांयदिशक्यते/दृष्टंमेनन्दनंभग्नमृषयोनिहताःश्रुताः/देवानांतुसमुद्योगस्त्वत्तोराजञ्श्रुतश्चमे/निराकृतश्चबहुशस्त्वयाहंराक्षसाधिप/अपराद्धाहिबाल्याच्चरक्षणीयाःस्वबान्धवाः/अहंतुहिमवत्पृष्ठंगतोधर्ममुपासितुम्/रौद्रंव्रतंसमास्थायनियतोनियतेन्द्रियः/तत्रदेवोमयादृष्टःसहदेव्योमयाप्रभुः/सव्यंचक्षुर्मयाचैवतत्रदेव्यांनिपातितम्/कान्वियंस्यादितिशुभानखल्वन्येनहेतुना/रूपंह्यनुपमंकृत्वातत्रक्रीडतिपार्वती/ततोदेव्याःप्रभावेनदग्धंसव्यंममेक्षणम्/रेणुध्वस्तमिवज्योतिःपिङ्गलत्वमुपागतम्/ततोऽहमन्यद्विस्तीर्णंगत्वातस्यगिरेस्तटम्/पूर्णंवर्षशतान्यष्टौसमवापमहाव्रतम्/समाप्तेनियमेतस्मिंस्तत्रदेवोमहेश्वरः/प्रीतःप्रीतेनमनसाप्राहवाक्यमिदंप्रभुः/प्रीतोऽस्मितवधर्मज्ञतपसानेनसुव्रत/मयाचैतद्व्रतंचीर्णंत्वयाचैवधनाधिप/तृतीयःपुरुषोनास्तियश्चरेद्व्रतमीदृशम्/व्रतंसुदुश्चरंह्येतन्मयैवोत्पादितंपुरा/तत्सखित्वंमयासार्धंरोचयस्वधनेश्वर/तपसानिर्जितत्वाद्धिसखाभवममानघ/देव्यादग्धंप्रभावेनयच्चसाव्यंतवेक्षणम्/एकाक्षिपिङ्गलेत्येवनामस्थास्यतिशाश्वतम्/एवंतेनसखित्वंचप्राप्यानुज्ञांचशंकरात्/आगम्यचश्रुतोऽयंमेतवपापविनिश्चयः/तदधर्मिष्ठसंयोगान्निवर्तकुलदूषण/चिन्त्यतेहिवधोपायःसर्षिसंघैःसुरैस्तव/एवमुक्तोदशग्रीवःक्रुद्धःसंरक्तलोचनः/हस्तान्दन्तांशसंपीड्यवाक्यमेतदुवाचह/विज्ञातंतेमयादूतवाक्यंयत्त्वंप्रभाषसे/नैवत्वमसिनैवासौभ्रात्रायेनासिप्रेषितः/हितंनसममैतद्धिब्रवीतिधनरक्षकः/महेश्वरसखित्वंतुमूढश्रावयसेकिल/नहन्तव्योगुरुर्ज्येष्ठोममायमितिमन्यते/तस्यत्विदानींश्रुत्वामेवाक्यमेषाकृतामतिः/त्रींल्लोकानपिजेष्यामिबाहुवीर्यमुपाश्रितः/एतन्मुहूर्तमेषोऽहंतस्यैकस्यकृतेचवै/चतुरोलोकपालांस्तान्नयिष्यामियमक्षयम्/एवमुक्त्वातुलङ्केशोदूतंखड्गेनजघ्निवान्/ददौभक्षयितुंह्येनंराक्षसानांदुरात्मनाम्/ततःकृतस्वस्त्ययनोरथमारुह्यरावणः/त्रैलोक्यविजयाकाङ्क्षीययौतत्रधनेश्वरः71341/ततःससचिवैःसार्धंषड्भिर्नित्यंबलोत्कटैः/महोदरप्रहस्ताभ्यांमारीचशुकसारणैः/धूम्राक्षेणचवीरेणनित्यंसमरगृध्नुना/वृतःसंप्रययौश्रीमान्क्रोधाल्लोकान्दहन्निव/पुराणिसनदीःशैलान्वनान्युपवनानिच/अतिक्रम्यमुहूर्तेनकैलासंगिरिमाविशत्/तंनिविष्टंगिरौतस्मिन्राक्षसेन्द्रंनिशम्यतु/राज्ञोभ्रातायमित्युक्त्वागतायत्रधनेश्वरः/गत्वातुसर्वमाचख्युर्भ्रातुस्तस्यविनिश्चयम्/अनुज्ञाताययुश्चैवयुद्धायधनदेनते/ततोबलस्यसंक्षोभःसागरस्येववर्धतः/अभून्नैरृतराजस्यगिरिंसंचालयन्निव/ततोयुद्धंसमभवद्यक्षराक्षससंकुलम्/व्यथिताश्चाभवंस्तत्रसचिवास्तस्यरक्षसः/तंदृष्ट्वातादृशंसैन्यंदशग्रीवोनिशाचरः/हर्षान्नादंततःकृत्वारोषात्समभिवर्तत/येतुतेराक्षसेन्द्रस्यसचिवाघोरविक्रमः/तेसहस्रंसहस्राणामेकैकंसमयोधयन्/ततोगदाभिःपरिघैरसिभिःशक्तितोमरैः/वध्यमानोदशग्रीवस्तत्सैन्यंसमगाहत/तैर्निरुच्छ्वासवत्तत्रवध्यमानोदशाननः/वर्षमाणैरिवघनैर्यक्षेन्द्रैःसंनिरुध्यत/सदुरात्मासमुद्यम्यकालदण्डोपमांगदाम्/प्रविवेशततःसैन्यंनयन्यक्षान्यमक्षयम्/सकक्षमिवविस्तीर्णंशुष्केन्धनसमाकुलम्/वातेनाग्निरिवायत्तोऽदहत्सैन्यंसुदारुणम्/तैस्तुतस्यमृधेऽमात्यैर्महोदरशुकादिभिः/अल्पावशिष्टास्तेयक्षाःकृतावातैरिवाम्बुदाः/केचित्त्वायुधभग्नाङ्गाःपतिताःसमरक्षितौ/ओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तोभुविपातिताः/भयादन्योन्यमालिङ्ग्यभ्रष्टशस्त्रारणाजिरे/निषेदुस्तेतदायक्षाःकूलाजलहताइव/हतानांस्वर्गसंस्थानांयुध्यतांपृथिवीतले/प्रेक्षतामृषिसंघानांनबभूवान्तरंदिवि/एतस्मिन्नन्तरेरामविस्तीर्णबलवाहनः/अगमत्सुमहान्यक्षोनाम्नासंयोधकण्टकः/तेनयक्षेणमारीचोविष्णुनेवसमाहतः/पतितःपृथिवींभेजेक्षीणपुण्यइवाम्बरात्/प्राप्तसंज्ञोमुहूर्तेनविश्रम्यचनिशाचरः/तंयक्षंयोधयामाससचभग्नःप्रदुद्रुवे/ततःकाञ्चनचित्राङ्गंवैदूर्यरजतोक्षितम्/मर्यादांद्वारपालानांतोरणंतत्समाविशत्/ततोरामदशग्रीवंप्रविशन्तंनिशाचरम्/सूर्यभानुरितिख्यातोद्वारपालोन्यवारयत्/ततस्तोरणमुत्पाट्यतेनयक्षेणताडितः/राक्षसोयक्षसृष्टेनतोरणेनसमाहतः/नक्षितिंप्रययौरामवरात्सलिलयोनिनः/सतुतेनैवतंयक्षंतोरणेनसमाहनत्/नादृश्यततदायक्षोभस्मतेनकृतस्तुसः/ततःप्रदुद्रुवुःसर्वेयक्षादृष्ट्वापराक्रमम्/ततोनदीर्गुहाश्चैवविविशुर्भयपीडिताः/ततस्तान्विद्रुतान्दृष्ट्वायक्षाञ्शतसहस्रशः/स्वयमेवधनाध्यक्षोनिर्जगामरणंप्रति/तत्रमाणिचारोनामयक्षःपरमदुर्जयः/वृतोयक्षसहस्रैःसचतुर्भिःसमयोधयत्/तेगदामुसलप्रासशक्तितोमरमुद्गरैः/अभिघ्नन्तोरणेयक्षाराक्षसानभिदुद्रुवुः/ततःप्रहस्तेनतदासहस्रंनिहतंरणे/महोदरेणगदयासहस्रमपरंहतम्/क्रुद्धेनचतदाराममारीचेनदुरात्मना/निमेषान्तरमात्रेणद्वेसहस्रेनिपातिते/धूम्राक्षेणसमागम्यमाणिभद्रोमहारणे/मुसलेनोरसिक्रोधात्ताडितोनचकम्पितः/ततोगदांसमाविध्यमाणिभद्रेणराक्षसः/धूम्राक्षस्ताडितोमूर्ध्निविह्वलोनिपपातह/धूम्राक्षंताडितंदृष्ट्वापतितंशोणितोक्षितम्/अभ्यधावत्सुसंक्रुद्धोमाणिभद्रंदशाननः/तंक्रुद्धमभिधावन्तंयुगान्ताग्निमिवोत्थितम्/शक्तिभिस्ताडयामासतिसृभिर्यक्षपुंगवः/ततोराक्षसराजेनताडितोगदयारणे/तस्यतेनप्रहारेणमुकुटःपार्श्वमागतः/तदाप्रभृतियक्षोऽसौपार्श्वमौलिरितिस्मृतः/तस्मिंस्तुविमुखेयक्षेमाणिभद्रेमहात्मनि/संनादःसुमहान्रामतस्मिञ्शैलेव्यवर्धत/ततोदूरात्प्रददृशेधनाध्यक्षोगदाधरः/शुक्रप्रोष्टःपदाभ्यांचशङ्खपद्मसमावृतः/सदृष्ट्वाभ्रातरंसंख्येशापाद्विभ्रष्टगौरवम्/उवाचवचनंधीमान्युक्तंपैतामहेकुले/मयात्वंवार्यमाणोऽपिनावगच्छसिदुर्मते/पश्चादस्यफलंप्राप्यज्ञास्यसेनिरयंगतः/योहिमोहाद्विषंपीत्वानावगच्छतिमानवः/परिणामेसविमूढोजानीतेकर्मणःफलम्/दैवतानिहिनन्दन्तिधर्मयुक्तेनकेनचित्/येनत्वमीदृशंभावंनीतस्तच्चनबुध्यसे/योहिमातॄह्पितॄन्भ्रातॄनाचर्यांश्चावमन्यते/सपश्यतिफलंतस्यप्रेतराजवशंगतः/अध्रुवेहिशरीरेयोनकरोतितपोऽर्जनम्/सपश्चात्तप्यतेमूढोमृतोदृष्ट्वात्मनोगतिम्/कस्यचिन्नहिदुर्बुधेश्छन्दतोजायतेमतिः/यादृशंकुरुतेकर्मतादृशंफलमश्नुते/बुद्धिंरूपंबलंवित्तंपुत्रान्माहात्म्यमेवच/प्रप्नुवन्तिनराःसर्वंस्वकृतैःपूर्वकर्मभिः/एवंनिरयगामीत्वंयस्यतेमतिरीदृशी/नत्वांसमभिभाषिष्येदुर्वृत्तस्यैषनिर्णयः/एवमुक्त्वाततस्तेनतस्यामात्याःसमाहताः/मारीचप्रमुखाःसर्वेविमुखाविप्रदुद्रुवुः/ततस्तेनदशग्रीवोयक्षेन्द्रेणमहात्मना/गदयाभिहतोमूर्ध्निनचस्थानाद्व्यकम्पत/ततस्तौरामनिघ्नन्तावन्योन्यंपरमाहवे/नविह्वलौनचश्रान्तौबभूवतुरमर्षणैः/आग्नेयमस्त्रंसततोमुमोचधनदोरणे/वारुणेनदशग्रीवस्तदस्त्रंप्रत्यवारयत्/ततोमायांप्रविष्टःसराक्षसींराक्षसेश्वरः/जघानमूर्ध्निधनदंव्याविध्यमहतींगदाम्/एवंसतेनाभिहतोविह्वलःशोणितोक्षितः/कृत्तमूलइवाशोकोनिपपातधनाधिपः/ततःपद्मादिभिस्तत्रनिधिभिःसधनाधिपः/नन्दनंवनमानीयधनदोश्वासितस्तदा/ततोनिर्जित्यतंरामधनदंराक्षसाधिपः/पुष्पकंतस्यजग्राहविमानंजयलक्षणम्/काञ्चनस्तम्भसंवीतंवैदूर्यमणितोरणम्/मुक्ताजालप्रतिच्छन्नंसर्वकामफलद्रुमम्/तत्तुराजासमारुह्यकामगंवीर्यनिर्जितम्/जित्वावैश्रवणंदेवंकैलासादवरोहत/सजित्वाभ्रातरंरामधनदंराक्षसाधिपः/महासेनप्रसूतिंतुययौशरवणंततः/अथापश्यद्दशग्रीवोरौक्मंशरवणंतदा/गभस्तिजालसंवीतंद्वितीयमिवभास्करम्/पर्वतंससमासाद्यकिंचिद्रम्यवनान्तरम्/अपश्यत्पुष्पकंतत्ररामविष्टम्भितंदिवि/विष्टब्धंपुष्पकंदृष्ट्वाकामगंह्यगमंकृतम्/राक्षसश्चिन्तयामाससचिवैस्तैःसमावृतः/किमिदंयन्निमित्तंमेनचगच्छतिपुष्पकम्/पर्वतस्योपरिस्थस्यकस्यकर्मत्विदंभवेत्/ततोऽब्रवीद्दशग्रीवंमारीचोबुद्धिकोविदः/नैतन्निष्कारणंराजन्पुष्पकोऽयंनगच्छति/ततःपार्श्वमुपागम्यभवस्यानुचरोबली/नन्दीश्वरउवाचेदंराक्षसेन्द्रमशङ्कितः/निवर्तस्वदशग्रीवशैलेक्रीडतिशंकरः/सुपर्णनागयक्षाणांदैत्यदानवरक्षसाम्/प्राणिनामेवसर्वेषामगम्यःपर्वतःकृतः/सरोषात्ताम्रनयनःपुष्पकादवरुह्यच/कोऽयंशंकरइत्युक्त्वाशैलमूलमुपागमत्/नन्दीश्वरमथापश्यदविदूरस्थितंप्रभुम्/दीप्तंशूलमवष्टभ्यद्वितीयमिवशंकरम्/सवानरमुखंदृष्ट्वातमवज्ञायराक्षसः/प्रहासंमुमुचेमौर्ख्यात्सतोयइवतोयदः/संक्रुद्धोभगवान्नन्दीशंकरस्यापरातनुः/अब्रवीद्राक्षसंतत्रदशग्रीवमुपस्थितम्/यस्माद्वानरमूर्तिंमांदृष्ट्वाराक्षसदुर्मते/मौर्ख्यात्त्वमवजानीषेपरिहासंचमुञ्चसि/तस्मान्मद्रूपसंयुक्तामद्वीर्यसमतेजसः/उत्पत्स्यन्तेवधार्थंहिकुलस्यतववानराः/किंत्विदानींमयाशक्यंकर्तुंयत्त्वांनिशाचर/नहन्तव्योहतस्त्वंहिपूर्वमेवस्वकर्मभिः/अचिन्तयित्वासतदानन्दिवाक्यंनिशाचरः/पर्वतंतंसमासाद्यवाक्यमेतदुवाचह/पुष्पकस्यगतिश्छिन्नायत्कृतेममगच्छतः/तदेतच्छैलमुन्मूलंकरोमितवगोपते/केनप्रभावेनभवस्तत्रक्रीडतिराजवत्/विज्ञातव्यंनजानीषेभयस्थानमुपस्थितम्/एवमुक्त्वाततोराजन्भुजान्प्रक्षिप्यपर्वते/तोलयामासतंशैलंसमृगव्यालपादपम्/ततोराममहादेवःप्रहसन्वीक्ष्यतत्कृतम्/पादाङ्गुष्ठेनतंशैलंपीडयामासलीलया/ततस्तेपीडितास्तस्यशैलस्याधोगताभुजाः/विस्मिताश्चाभवंस्तत्रसचिवास्तस्यरक्षसः/रक्षसातेनरोषाच्चभुजानांपीडनात्तथा/मुक्तोविरावःसुमहांस्त्रैलोक्यंयेनपूरितम्/मानुषाःशब्दवित्रस्तामेनिरेलोकसंक्षयम्/देवताश्चापिसंक्षुब्धाश्चलिताःस्वेषुकर्मसु/ततःप्रीतोमहादेवःशैलाग्रेविष्ठितस्तदा/मुक्त्वातस्यभुजान्राजन्प्राहवाक्यंदशाननम्/प्रीतोऽस्मितववीर्याच्चशौण्डीर्याच्चनिशाचर/रवतोवेदनामुक्तःस्वरःपरमदारुणः/यस्माल्लोकत्रयंत्वेतद्रावितंभयमागतम्/तस्मात्त्वंरावणोनामनाम्नातेनभविष्यसि/देवतामानुषायक्षायेचान्येजगतीतले/एवंत्वामभिधास्यन्तिरावणंलोकरावणम्/गच्छपौलस्त्यविस्रब्धःपथायेनत्वमिच्छसि/मयात्वमभ्यनुज्ञातोराक्षसाधिपगम्यताम्/साक्षान्महेश्वरेणैवंकृतनामासरावणः/अभिवाद्यमहादेवंविमानंतत्समारुहत्/ततोमहीतलेरामपरिचक्रामरावणः/क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः/अथराजन्महाबाहुर्विचरन्समहीतलम्/हिमवद्वनमासाद्यपरिचक्रामरावणः/तत्रापश्यतवैकन्यांकृष्टाजिनजटाधराम्/आर्षेणविधिनायुक्तांतपन्तींदेवतामिव/सदृष्ट्वारूपसंपन्नांकन्यांतांसुमहाव्रताम्/काममोहपरीतात्मापप्रच्छप्रहसन्निव/किमिदंवर्तसेभद्रेविरुद्धंयौवनस्यते/नहियुक्तातवैतस्यरूपस्येयंप्रतिक्रिया/कस्यासिदुहिताभद्रेकोवाभर्तातवानघे/पृच्छतःशंसमेशीघ्रंकोवाहेतुस्तपोऽर्जने/एवमुक्तातुसाकन्यातेनानार्येणरक्षसा/अब्रवीद्विधिवत्कृत्वातस्यातिथ्यंतपोधना/कुशध्वजोनामपिताब्रह्मर्षिर्ममधार्मिकः/बृहस्पतिसुतःश्रीमान्बुद्ध्यातुल्योबृहस्पतेः/तस्याहंकुर्वतोनित्यंवेदाभ्यासंमहात्मनः/संभूतावान्मयीकन्यानाम्नावेदवतीस्मृता/ततोदेवाःसगन्धर्वायक्षराक्षसपन्नगाः/तेचापिगत्वापितरंवरणंरोचयन्तिमे/नचमांसपितातेभ्योदत्तवान्राक्षसेश्वर/कारणंतद्वदिष्यामिनिशामयमहाभुज/पितुस्तुममजामाताविष्णुःकिलसुरोत्तमः/अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्यमेपिताः/दातुमिच्छतिधर्मात्मातच्छ्रुत्वाबलदर्पितः/शम्भुर्नामततोराजादैत्यानांकुपितोऽभवत्/तेनरात्रौप्रसुप्तोमेपितापापेनहिंसितः/ततोमेजननीदीनातच्छरीरंपितुर्मम/परिष्वज्यमहाभागाप्रविष्टादहनंसह/ततोमनोरथंसत्यंपितुर्नारायणंप्रति/करोमीतिममेच्छाचहृदयेसाधुविष्ठिता/अहंप्रेतगतस्यापिकरिष्येकाङ्क्षितंपितुः/इतिप्रतिज्ञामारुह्यचरामिविपुलंतपः/एतत्तेसर्वमाख्यातंमयाराक्षसपुंगव/आश्रितांविद्धिमांधर्मंनारायणपतीच्छया/विज्ञातस्त्वंहिमेराजन्गच्छपौलस्त्यनन्दन/जानामितपसासर्वंत्रैलोक्येयद्धिवर्तते/सोऽब्रवीद्रावणस्तत्रतांकन्यांसुमहाव्रताम्/अवरुह्यविमानाग्रात्कन्दर्पशरपीडितः/अवलिप्तासिसुश्रोणियस्यास्तेमतिरीदृशी/वृद्धानांमृगशावाक्षिभ्राजतेधर्मसंचयः/त्वंसर्वगुणसंपन्नानार्हसेकर्तुमीदृशम्/त्रैलोक्यसुन्दरीभीरुयौवनेवार्धकंविधिम्/कश्चतावदसौयंत्वंविष्णुरित्यभिभाषसे/वीर्येणतपसाचैवभोगेनचबलेनच/नमयासौसमोभद्रेयंत्वंकामयसेऽङ्गने/ममैवमितिसाकन्यातमुवाचनिशाचरम्/मूर्धजेषुचतांरक्षःकराग्रेणपरामृशत्/ततोवेदवतीक्रुद्धाकेशान्हस्तेनसाच्छिनत्/उवाचाग्निंसमाधायमरणायकृतत्वरा/धर्षितायास्त्वयानार्यनेदानींममजीवितम्/रक्षस्तस्मात्प्रवेक्ष्यामिपश्यतस्तेहुताशनम्/यस्मात्तुधर्षिताचाहमपापाचाप्यनाथवत्/तस्मात्तववधार्थंवैसमुत्पत्स्याम्यहंपुनः/नहिशक्यःस्त्रियापापहन्तुंत्वंतुविशेषतः/शापेत्वयिमयोत्सृष्टेतपसश्चव्ययोभवेत्/यदित्वस्तिमयाकिंचित्कृतंदत्तंहुतंतथा/तेनह्ययोनिजासाध्वीभवेयंधर्मिणःसुता/एवमुक्त्वाप्रविष्टासाज्वलन्तंवैहुताशनम्/पपातचदिवोदिव्यापुष्पवृष्टिःसमन्ततः/पूर्वंक्रोधहतःशत्रुर्ययासौनिहतस्त्वया/समुपाश्रित्यशैलाभंतववीर्यममानुषम्/एवमेषामहाभागामर्त्येषूत्पद्यतेपुनः/क्षेत्रेहलमुखग्रस्तेवेद्यामग्निशिखोपमा/एषावेदवतीनामपूर्वमासीत्कृतेयुगे/त्रेतायुगमनुप्राप्यवधार्थंतस्यरक्षसः/सीतोत्पन्नेतिसीतैषामानुषैःपुनरुच्यते/प्रविष्टायाअंहुताशंतुवेदवत्यांसरावणः/पुष्पकंतत्समारुह्यपरिचक्राममेदिनीम्/ततोमरुत्तंनृपतिंयजन्तंसहदैवतैः/उशीरबीजमासाद्यददर्शसतुराक्षसः/संवर्तोनामब्रह्मर्षिर्भ्रातासाक्षाद्बृहस्पतेः/याजयामासधर्मज्ञःसर्वैर्ब्रह्मगणैर्वृतः/दृष्ट्वादेवास्तुतद्रक्षोवरदानेनदुर्जयम्/तांतांयोनिंसमापन्नास्तस्यधर्षणभीरवः/इन्द्रोमयूरःसंवृत्तोधर्मराजस्तुवायसः/कृकलासोधनाध्यक्षोहंसोवैवरुणोऽभवत्/तंचराजानमासाद्यरावणोराक्षसाधिपः/प्राहयुद्धंप्रयच्चेतिनिर्जितोऽस्मीतिवावद/ततोमरुत्तोनृपतिःकोभवानित्युवाचतम्/अवहासंततोमुक्त्वाराक्षसोवाक्यमब्रवीत्/अकुतूहलभावेनप्रीतोऽस्मितवपार्थिव/धनदस्यानुजंयोमांनावगच्छसिरावणम्/त्रिषुलोकेषुकःसोऽस्तियोनजानातिमेबलम्/भ्रातरंयेननिर्जित्यविमानमिदमाहृतम्/ततोमरुत्तोनृपतिस्तंराक्षसमथाब्रवीत्/धन्यःखलुभवान्येनज्येष्ठोभ्रातारणेजितः/नाधर्मसहितंश्लाघ्यंनलोकप्रतिसंहितम्/कर्मदौरात्म्यकंकृत्वाश्लाघसेभ्रातृनिर्जयात्/किंत्वंप्राक्केवलंधर्मंचरित्वालब्धवान्वरम्/श्रुतपूर्वंहिनमयायादृशंभाषसेस्वयम्/ततःशरासनंगृह्यसायकांश्चसपार्थिवः/रणायनिर्ययौक्रुद्धःसंवर्तोमार्गमावृणोत्/सोऽब्रवीत्स्नेहसंयुक्तंमरुत्तंतंमहानृषिः/श्रोतव्यंयदिमद्वाक्यंसंप्रहारोनतेक्षमः/माहेश्वरमिदंसत्रमसमाप्तंकुलंदहेत्/दीक्षितस्यकुतोयुद्धंक्रूरत्वंदीक्षितेकुतः/संशयश्चरणेनित्यंराक्षसश्चैषदुर्जयः/सनिवृत्तोगुरोर्वाक्यान्मरुत्तःपृथिवीपतिः/विसृज्यसशरंचापंस्वस्थोमखमुखोऽभवत्/ततस्तंनिर्जितंमत्वाघोषयामासवैशुकः/रावणोजितवांश्चेतिहर्षान्नादंचमुक्तवान्/तान्भक्षयित्वातत्रस्थान्महर्षीन्यज्ञमागतान्/वितृप्तोरुधिरैस्तेषांपुनःसंप्रययौमहीम्/रावणेतुगतेदेवाःसेन्द्राश्चैवदिवौकसः/ततःस्वांयोनिमासाद्यतानिसत्त्वान्यथाब्रुवन्/हर्षात्तदाब्रवीदिन्द्रोमयूरंनीलबर्हिणम्/प्रीतोऽस्मितवधर्मज्ञउपकाराद्विहंगम/ममनेत्रसहस्रंयत्तत्तेबर्हेभविष्यति/वर्षमाणेमयिमुदंप्राप्स्यसेप्रीतिलक्षणम्/नीलाःकिलपुराबर्हामयूराणांनराधिप/सुराधिपाद्वरंप्राप्यगताःसर्वेविचित्रताम्/धर्मराजोऽब्रवीद्रामप्राग्वंशेवायसंस्थितम्/पक्षिंस्तवास्मिसुप्रीतःप्रीतस्यचवचःशृणु/यथान्येविविधैरोगैःपीड्यन्तेप्राणिनोमया/तेनतेप्रभविष्यन्तिमयिप्रीतेनसंशयः/मृत्युतस्तेभयंनास्तिवरान्ममविहंगम/यावत्त्वांनवधिष्यन्तिनरास्तावद्भविष्यसि/येचमद्विषयस्थास्तुमानवाःक्षुधयार्दिताः/त्वयिभुक्तेतुतृप्तास्तेभविष्यन्तिसबान्धवाः/वरुणस्त्वब्रवीद्धंसंगङ्गातोयविचारिणम्/श्रूयतांप्रीतिसंयुक्तंवचःपत्ररथेश्वर/वर्णोमनोहरःसौम्यश्चन्द्रमण्डलसंनिभः/भविष्यतितवोदग्रःशुक्लफेनसमप्रभः/मच्छरीरंसमासाद्यकान्तोनित्यंभविष्यसि/प्राप्स्यसेचातुलांप्रीतिमेतन्मेप्रीतिलक्षणम्/हंसानांहिपुरारामनवर्णःसर्वपाण्डुरः/पक्षानीलाग्रसंवीताःक्रोडाःशष्पाग्रनिर्मलाः/अथाब्रवीद्वैश्रवणःकृकलासंगिरौस्थितम्/हैरण्यंसंप्रयच्छामिवर्णंप्रीतिस्तवाप्यहम्/सद्रव्यंचशिरोनित्यंभविष्यतितवाक्षयम्/एषकाञ्चनकोवर्णोमत्प्रीत्यातेभविष्यति/एवंदत्त्वावरांस्तेभ्यस्तस्मिन्यज्ञोत्सवेसुराः/निवृत्तेसहराज्ञावैपुनःस्वभवनंगताः/अथजित्वामरुत्तंसप्रययौराक्षसाधिपः/नगराणिनरेन्द्राणांयुद्धकाङ्क्षीदशाननः/ससमासाद्यराजेन्द्रान्महेन्द्रवरुणोपमान्/अब्रवीद्राक्षसेन्द्रस्तुयुद्धंमेदीयतामिति/निर्जिताःस्मेतिवाब्रूतएषोहिममनिश्चयः/अन्यथाकुर्वतामेवंमोक्षोवोनोपपद्यते/ततस्तुबहवःप्राज्ञाःपार्थिवाधर्मणिश्चयाः/निर्जिताःस्मेत्यभाषन्तज्ञात्वावरबलंरिपोः/दुष्यन्तःसुरथोगाधिर्गयोराजापुरूरवाः/एतेसर्वेऽब्रुवंस्तातनिर्जिताःस्मेतिपार्थिवाः/अथायोध्यांसमासाद्यरावणोराक्षसाधिपः/सुगुप्तामनरण्येनशक्रेणेवामरावतीम्/प्राहराजानमासाद्ययुद्धंमेसंप्रदीयताम्/निर्जितोऽस्मीतिवाब्रूहिममैतदिहशासनम्/अनरण्यःसुसंक्रुद्धोराक्षसेन्द्रमथाब्रवीत्/दीयतेद्वन्द्वयुद्धंतेराक्षसाधिपतेमया/अथपूर्वंश्रुतार्थेनसज्जितंसुमहद्धियत्/निष्क्रामत्तन्नरेन्द्रस्यबलंरक्षोवधोद्यतम्/नागानांबहुसाहस्रंवाजिनामयुतंतथा/महींसंछाद्यनिष्क्रान्तंसपदातिरथंक्षणात्/तद्रावणबलंप्राप्यबलंतस्यमहीपतेः/प्राणश्यततदाराजन्हव्यंहुतमिवानले/सोऽपश्यतनरेन्द्रस्तुनश्यमानंमहद्बलम्/महार्णवंसमासाद्ययथापञ्चापगाजलम्/ततःशक्रधनुःप्रख्यंधनुर्विस्फारयन्स्वयम्/आसदादनरेन्द्रास्तंरावणंक्रोधमूर्छितः/ततोबाणशतान्यष्टौपातयामासमूर्धनि/तस्यराक्षसराजस्यइक्ष्वाकुकुलनन्दनः/तस्यबाणाःपतन्तस्तेचक्रिरेनक्षतंक्वचित्/वारिधाराइवाभ्रेभ्यःपतन्त्योनगमूर्धनि/ततोराक्षसराजेनक्रुद्धेननृपतिस्तदा/तलेनभिहतोमूर्ध्निसरथान्निपपातह/सराजापतितोभूमौविह्वलाङ्गःप्रवेपितः/वज्रदग्धइवारण्येसालोनिपतितोमहान्/तंप्रहस्याब्रवीद्रक्षइक्ष्वाकुंपृथिवीपतिम्/किमिदानींत्वयाप्राप्तंफलंमांप्रतियुध्यता/त्रैलोक्येनास्तियोद्वन्द्वंममदद्यान्नराधिप/शङ्केप्रमत्तोभोगेषुनशृणोषिबलंमम/तस्यैवंब्रुवतोराजामन्दासुर्वाक्यमब्रवीत्/किंशक्यमिहकर्तुंवैयत्कालोदुरतिक्रमः/नह्यहंनिर्जितोरक्षस्त्वयाचात्मप्रशंसिना/कालेनेहविपन्नोऽहंहेतुभूतस्तुमेभवान्/किंत्विदानींमयाशक्यंकर्तुंप्राणपरिक्षये/इक्ष्वाकुपरिभावित्वाद्वचोवक्ष्यामिराक्षस/यदिदत्तंयदिहुतंयदिमेसुकृतंतपः/यदिगुप्ताःप्रजाःसम्यक्तथासत्यंवचोऽस्तुमे/उत्पत्स्यतेकुलेह्यस्मिन्निक्ष्वाकूणांमहात्मनाम्/राजापरमतेजस्वीयस्तेप्राणान्हरिष्यति/ततोजलधरोदग्रस्ताडितोदेवदुन्दुभिः/तस्मिन्नुदाहृतेशापेपुष्पवृष्टिश्चखाच्च्युता/ततःसराजाराजेन्द्रगतःस्थानंत्रिविष्टपम्/स्वर्गतेचनृपेरामराक्षसःसन्यवर्तत/ततोवित्रासयन्मर्त्यान्पृथिव्यांराक्षसाधिपः/आससादघनेतस्मिन्नारदंमुनिसत्तमम्/नारदस्तुमहातेजादेवर्षिरमितप्रभः/अब्रवीन्मेघपृष्ठस्थोरावणंपुष्पकेस्थितम्/राक्षसाधिपतेसौम्यतिष्ठविश्रवसःसुत/प्रीतोऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव/विष्णुनादैत्यघातैश्चतार्क्ष्यस्योरगधर्षणैः/त्वयासमरमर्दैश्चभृशंहिपरितोषितः/किंचिद्वक्ष्यामितावत्तेश्रोतव्यंश्रोष्यसेयदि/श्रुत्वाचानन्तरंकार्यंत्वयाराक्षसपुंगव/किमयंवध्यतेलोकस्त्वयावध्येनदैवतैः/हतएवह्ययंलोकोयदामृत्युवशंगतः/पश्यतावन्महाबाहोराक्षसेश्वरमानुषम्/लोकमेनंविचित्रार्थंयस्यनज्ञायतेगतिः/क्वचिद्वादित्रनृत्तानिसेव्यन्तेमुदितैर्जनैः/रुद्यतेचापरैरार्तैर्धाराश्रुनयनाननैः/मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः/मोहेनायंजनोध्वस्तःक्लेशंस्वंनावबुध्यते/तत्किमेवंपरिक्लिश्यलोकंमोहनिराकृतम्/जितएवत्वयासौम्यमर्त्यलोकोनसंशयः/एवमुक्तस्तुलङ्केशोदीप्यमानइवौजसा/अब्रवीन्नारदंतत्रसंप्रहस्याभिवाद्यच/महर्षेदेवगन्धर्वविहारसमरप्रिय/अहंखलूद्यतोगन्तुंविजयार्थीरसातलम्/ततोलोकत्रयंजित्वास्थाप्यनागान्सुरान्वशे/समुद्रममृतार्थंवैमथिष्यामिरसालयम्/अथाब्रवीद्दशग्रीवंनारदोभगवानृषिः/क्वखल्विदानींमार्गेणत्वयानेनगमिष्यते/अयंखलुसुदुर्गम्यःपितृराज्ञःपुरंप्रति/मार्गोगच्छतिदुर्धर्षोयमस्यामित्रकर्शन/सतुशारदमेघाभंमुक्त्वाहासंदशाननः/उवाचकृतमित्येववचनंचेदमब्रवीत्/तस्मादेषमहाब्रह्मन्वैवस्वतवधोद्यतः/गच्छामिदक्षिणामाशांयत्रसूर्यात्मजोनृपः/मयाहिभगवन्क्रोधात्प्रतिज्ञातंरणार्थिना/अवजेष्यामिचतुरोलोकपालानितिप्रभो/तेनैषप्रस्थितोऽहंवैपितृराजपुरंप्रति/प्राणिसंक्लेशकर्तारंयोजयिष्यामिमृत्युना/एवमुक्त्वादशग्रीवोमुनिंतमभिवाद्यच/प्रययौदक्षिणामाशांप्रहृष्टैःसहमन्त्रिभिः/नारदस्तुमहातेजामुहूर्तंध्यानमास्थितः/चिन्तयामासविप्रेन्द्रोविधूमइवपावकः/येनलोकास्त्रयःसेन्द्राःक्लिश्यन्तेसचराचराः/क्षीणेचायुषिधर्मेचसकालोहिंस्यतेकथम्/यस्यनित्यंत्रयोलोकाविद्रवन्तिभयार्दिताः/तंकथंराक्षसेन्द्रोऽसौस्वयमेवाभिगच्छति/योविधाताचधाताचसुकृतेदुष्कृतेयथा/त्रैलोक्यंविजितंयेनतंकथंनुविजेष्यति/अपरंकिंनुकृत्वैवंविधानंसंविधास्यति/कौतूहलसमुत्पन्नोयास्यामियमसादनम्/एवंसंचिन्त्यविप्रेन्द्रोजगामलघुविक्रमः/आख्यातुंतद्यथावृत्तंयमस्यसदनंप्रति/अपश्यत्सयमंतत्रदेवमग्निपुरस्कृतम्/विधानमुपतिष्ठन्तंप्राणिनोयस्ययादृशम्/सतुदृष्ट्वायमःप्राप्तंमहर्षिंतत्रनारदम्/अब्रवीत्सुखमासीनमर्घ्यमावेद्यधर्मतः/कच्चित्क्षेमंनुदेवर्षेकच्चिद्धर्मोननश्यति/किमागमनकृत्यंतेदेवगन्धर्वसेवित/अब्रवीत्तुतदावाक्यंनारदोभगवानृषिः/श्रूयतामभिधास्यामिविधानंचविधीयताम्/एषनाम्नादशग्रीवःपितृराजनिशाचरः/उपयातिवशंनेतुंविक्रमैस्त्वांसुदुर्जयम्/एतेनकारणेनाहंत्वरितोऽस्म्यागतःप्रभो/दण्डप्रहरणस्याद्यतवकिंनुकरिष्यति/एतस्मिन्नन्तरेदूरादंशुमन्तमिवोदितम्/ददृशेदिव्यमायान्तंविमानंतस्यरक्षसः/तंदेशंप्रभयातस्यपुष्पकस्यमहाबलः/कृत्वावितिमिरंसर्वंसमीपंसमवर्तत/सत्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः/प्राणिनःसुकृतंकर्मभुञ्जानांश्चैवदुष्कृतम्/ततस्तान्वध्यमानांस्तुकर्मभिर्दुष्कृतैःस्वकैः/रावणोमोचयामासविक्रमेणबलाद्बली/प्रेतेषुमुच्यमानेषुराक्षसेनबलीयसा/प्रेतगोपाःसुसंरब्धाराक्षसेन्द्रमभिद्रवन्/तेप्रासैःपरिघैःशूलैर्मुद्गरैःशक्तितोमरैः/पुष्पकंसमवर्षन्तशूराःशतसहस्रशः/तस्यासनानिप्रासादान्वेदिकास्तरणानिच/पुष्पकस्यबभञ्जुस्तेशीघ्रंमधुकराइव/देवनिष्ठानभूतंतद्विमानंपुष्पकंमृधे/भज्यमानंतथैवासीदक्षयंब्रह्मतेजसा/ततस्तेरावणामात्यायथाकामंयथाबलम्/अयुध्यन्तमहावीर्याःसचराजादशाननः/तेतुशोणितदिग्धाङ्गाःसर्वशस्त्रसमाहताः/अमात्याराक्षसेन्द्रस्यचक्रुरायोधनंमहत्/अन्योन्यंचमहाभागाजघ्नुःप्रहरणैर्युधि/यमस्यचमहत्सैन्यंराक्षसस्यचमन्त्रिणः/अमात्यांस्तांस्तुसंत्यज्यराक्षसस्यमहौजसः/तमेवसमधावन्तशूलवर्षैर्दशाननम्/ततःशोणितदिग्धाङ्गःप्रहारैर्जर्जरीकृतः/विमानेराक्षसश्रेष्ठःफुल्लाशोकइवाबभौ/सशूलानिगदाःप्रासाञ्शक्तितोमरसायकान्/मुसलानिशिलावृक्षान्मुमोचास्त्रबलाद्बली/तांस्तुसर्वान्समाक्षिप्यतदस्त्रमपहत्यच/जघ्नुस्तेराक्षसंघोरमेकंशतसहस्रकः/परिवार्यचतंसर्वेशैलंमेघोत्कराइव/भिन्दिपालैश्चशूलैश्चनिरुच्छ्वासमकारयन्/विमुक्तकवचःक्रुद्धोसिक्तःशोणितविस्रवैः/सपुष्पकंपरित्यज्यपृथिव्यामवतिष्ठत/ततःसकार्मुकीबाणीपृथिव्यांराक्षसाधिपः/लब्धसंज्ञोमुहूर्तेनक्रुद्धस्तस्थौयथान्तकः/ततःपाशुपतंदिव्यमस्त्रंसंधायकार्मुके/तिष्ठतिष्ठेतितानुक्त्वातच्चापंव्यपकर्षत/ज्वालामालीसतुशरःक्रव्यादानुगतोरणे/मुक्तोगुल्मान्द्रुमांश्चैवभस्मकृत्वाप्रधावति/तेतस्यतेजसादग्धाःसैन्यावैवस्वतस्यतु/रणेतस्मिन्निपतितादावदग्धानगाइव/ततःससचिवैःसार्धंराक्षसोभीमविक्रमः/ननादसुमहानादंकम्पयन्निवमेदिनीम्/सतुतस्यमहानादंश्रुत्वावैवस्वतोयमः/शत्रुंविजयिनंमेनेस्वबलस्यचसंक्षयम्/सतुयोधान्हतान्मत्वाक्रोधपर्याकुलेक्षणः/अब्रवीत्त्वरितंसूतंरथःसमुपनीयताम्/तस्यसूतोरथंदिव्यमुपस्थाप्यमहास्वनम्/स्थितःसचमहातेजाआरुरोहमहारथम्/पाशमुद्गरहस्तश्चमृत्युस्तस्याग्रतोस्थितः/येनसंक्षिप्यतेसर्वंत्रैलोक्यंसचराचरम्/कालदण्डश्चपार्श्वस्थोमूर्तिमान्स्यन्दनेस्थितः/यमप्रहरणंदिव्यंप्रज्वलन्निवतेजसा/ततोलोकास्त्रयस्त्रस्ताःकम्पन्तेचदिवौकसः/कालंक्रुद्धंतदादृष्ट्वालोकत्रयभयावहम्/दृष्ट्वातुतेतंविकृतंरथंमृत्युसमन्वितम्/सचिवाराक्षसेन्द्रस्यसर्वलोकभयावहम्/लघुसत्त्वतयासर्वेनष्टसंज्ञाभयार्दिताः/नात्रयोद्धुंसमर्थाःस्मइत्युक्त्वाविप्रदुद्रुवुः/सतुतंतादृशंदृष्ट्वारथंलोकभयावहम्/नाक्षुभ्यततदारक्षोव्यथाचैवास्यनाभवत्/सतुरावणमासाद्यविसृजञ्शक्तितोमरान्/यमोमर्माणिसंक्रुद्धोराक्षसस्यन्यकृन्तत/रावणस्तुस्थितःस्वस्थःशरवर्षंमुमोचह/तस्मिन्वैवस्वतरथेतोयवर्षमिवाम्बुदः/ततोमहाशक्तिशतैःपात्यमानैर्महोरसि/प्रतिकर्तुंसनाशक्नोद्राक्षसःशल्यपीडितः/नानाप्रहरणैरेवंयमेनामित्रकर्शिना/सप्तरात्रंकृतेसंख्येनभग्नोविजितोऽपिवा/ततोऽभवत्पुनर्युद्धंयमराक्षसयोस्तदा/विजयाकाङ्क्षिणोस्तत्रसमरेष्वनिवर्तिनोः/ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः/प्रजापतिंपुरस्कृत्यददृशुस्तद्रणाजिरम्/संवर्तइवलोकानामभवद्युध्यतोस्तयोः/राक्षसानांचमुख्यस्यप्रेतानामीश्वरस्यच/राक्षसेन्द्रस्ततःक्रुद्धश्चापमायम्यसंयुगे/निरन्तरमिवाकाशंकुर्वन्बाणान्मुमोचह/मृत्युंचतुर्भिर्विशिखैःसूतंसप्तभिरर्दयत्/यमंशरसहस्रेणशीघ्रंमर्मस्वताडयत्/ततःक्रुद्धस्यसहसायमस्याभिविनिःसृतः/ज्वालामालोविनिश्वासोवदनात्क्रोधपावकः/ततोऽपश्यंस्तदाश्चर्यंदेवदानवराक्षसाः/क्रोधजंपावकंदीप्तंदिधक्षन्तंरिपोर्बलम्/मृत्युस्तुपरमक्रुद्धोवैवस्वतमथाब्रवीत्/मुञ्चमांदेवशीघ्रंत्वंनिहन्मिसमरेरिपुम्/नरकःशम्बरोवृत्रःशम्भुःकार्तस्वरोबली/नमुचिर्विरोचनश्चैवतावुभौमधुकैटभौ/एतेचान्येचबहवोबलवन्तोदुरासदाः/विनिपन्नामयादृष्टाःकाचिन्तास्मिन्निशाचरे/मुञ्चमांसाधुधर्मज्ञयावदेनंनिहन्म्यहम्/नहिकश्चिन्मयादृष्टोमुहूर्तमपिजीवति/बलंममनखल्वेतन्मर्यादैषानिसर्गतः/संस्पृष्टोहिमयाकश्चिन्नजीवेदितिनिश्चयः/एतत्तुवचनंश्रुत्वाधर्मराजःप्रतापवान्/अब्रवीत्तत्रतंमृत्युमयमेनंनिहन्म्यहम्/ततःसंरक्तनयनःक्रुद्धोवैवस्वतःप्रभुः/कालदण्डममोघंतंतोलयामासपाणिना/यस्यपार्श्वेषुनिश्छिद्राःकालपाशाःप्रतिष्ठिताः/पावकस्पर्शसंकाशोमुद्गरोमूर्तिमान्स्थितः/दर्शनादेवयःप्राणान्प्राणिनामुपरुध्यति/किंपुनस्ताडनाद्वापिपीडनाद्वापिदेहिनः/सज्वालापरिवारस्तुपिबन्निवनिशाचरम्/करस्पृष्टोबलवतादण्डःक्रुद्धःसुदारुणः/ततोविदुद्रुवुःसर्वेसत्त्वास्तस्माद्रणाजिरात्/सुराश्चक्षुभितादृष्ट्वाकालदण्डोद्यतंयमम्/तस्मिन्प्रहर्तुकामेतुदण्डमुद्यम्यरावणम्/यमंपितामहःसाक्षाद्दर्शयित्वेदमब्रवीत्/वैवस्वतमहाबाहोनखल्वतुलविक्रम/प्रहर्तव्यंत्वयैतेनदण्डेनास्मिन्निशाचरे/वरःखलुमयादत्तस्तस्यत्रिदशपुंगव/तत्त्वयानानृतंकार्यंयन्मयाव्याहृतंवचः/अमोघोह्येषसर्वासांप्रजानांविनिपातने/कालदण्डोमयासृष्टःपूर्वंमृत्युपुरस्कृतः/तन्नखल्वेषतेसौम्यपात्योराक्षसमूर्धनि/नह्यस्मिन्पतितेकश्चिन्मुहूर्तमपिजीवति/यदिह्यस्मिन्निपतितेनम्रियेतैषराक्षसः/म्रियेतवादशग्रीवस्तथाप्युभयतोऽनृतम्/राक्षसेन्द्रान्नियच्छाद्यदण्डमेनंवधोद्यतम्/सत्यंममकुरुष्वेदंलोकांस्त्वंसमवेक्ष्यच/एवमुक्तस्तुधर्मात्माप्रत्युवाचयमस्तदा/एषव्यावर्तितोदण्डःप्रभविष्णुर्भवान्हिनः/किंत्विदानींमयाशक्यंकर्तुंरणगतेनहि/यन्मयायन्नहन्तव्योराक्षसोवरदर्पितः/एषतस्मात्प्रणश्यामिदर्शनादस्यरक्षसः/इत्युक्त्वासरथःसाश्वस्तत्रैवान्तरधीयत/दशग्रीवस्तुतंजित्वानामविश्राव्यचात्मनः/पुष्पकेणतुसंहृष्टोनिष्क्रान्तोयमसादनात्/ततोवैवस्वतोदेवैःसहब्रह्मपुरोगमैः/जगामत्रिदिवंहृष्टोनारदश्चमहामुनिः/सतुजित्वादशग्रीवोयमंत्रिदशपुंगवम्/रावणस्तुजयश्लाघीस्वसहायान्ददर्शह/जयेनवर्धयित्वाचमारीचप्रमुखास्ततः/पुष्पकंभेजिरेसर्वेसान्त्वितारवणेनह/ततोरसातलंहृष्टःप्रविष्टःपयसोनिधिम्/दैत्योरगगणाध्युष्टंवरुणेनसुरक्षितम्/सतुभोगवतींगत्वापुरींवासुकिपालिताम्/स्थाप्यनागान्वशेकृत्वाययौमणिमतींपुरीम्/निवातकवचास्तत्रदैत्यालब्धवरावसन्/राक्षसस्तान्समासाद्ययुद्धेनसमुपाह्वयत्/तेतुसर्वेसुविक्रान्तादैतेयाबलशालिनः/नानाप्रहरणास्तत्रप्रयुद्धायुद्धदुर्मदाः/तेषांतुयुध्यमानानांसाग्रःसंवत्सरोगतः/नचान्यतरयोस्तत्रविजयोवाक्षयोऽपिवा/ततःपितामहस्तत्रत्रैलोक्यगतिरव्ययः/आजगामद्रुतंदेवोविमानवरमास्थितः/निवातकवचानांतुनिवार्यरणकर्मतत्/वृद्धःपितामहोवाक्यमुवाचविदितार्थवत्/नह्ययंरावणोयुद्धेशक्योजेतुंसुरासुरैः/नभवन्तःक्षयंनेतुंशक्याःसेन्द्रैःसुरासुरैः/राक्षसस्यसखित्वंवैभवद्भिःसहरोचते/अविभक्ताहिसर्वार्थाःसुहृदांनात्रसंशयः/ततोऽग्निसाक्षिकंसख्यंकृतवांस्तत्ररावणः/निवातकवचैःसार्धंप्रीतिमानभवत्तदा/अर्चितस्तैर्यथान्यायंसंवत्सरसुखोषितः/स्वपुरान्निर्विशेषंचपूजांप्राप्तोदशाननः/सतूपधार्यमायानांशतमेकोनमात्मवान्/सलिलेन्द्रपुरान्वेषीसबभ्रामरसातलम्/ततोऽश्मनगरंनामकालकेयाभिरक्षितम्/तंविजित्यमुहूर्तेनजघ्नेदैत्यांश्चतुःशतम्/ततःपाण्डुरमेघाभंकैलासमिवसंस्थितम्/वरुणस्यालयंदिव्यमपश्यद्राक्षसाधिपः/क्षरन्तींचपयोनित्यंसुरभिंगामवस्थिताम्/यस्याःपयोविनिष्यन्दात्क्षीरोदोनामसागरः/यस्माच्चन्द्रःप्रभवतिशीतरश्मिःप्रजाहितः/यंसमासाद्यजीवन्तिफेनपाःपरमर्षयः/अमृतंयत्रचोत्पन्नंसुराचापिसुराशिनाम्/यांब्रुवन्तिनरालोकेसुरभिंनामनामतः/प्रदक्षिणंतुतांकृत्वारावणःपरमाद्भुताम्/प्रविवेशमहाघोरंगुप्तंबहुविधैर्बलैः/ततोधाराशताकीर्णंशारदाभ्रनिभंतदा/नित्यप्रहृष्टंददृशेवरुणस्यगृहोत्तमम्/ततोहत्वाबलाध्यक्षान्समरेतैश्चताडितः/अब्रवीत्क्वगतोयोवोराजाशीघ्रंनिवेद्यताम्/युद्धार्थीरावणःप्राप्तस्तस्ययुद्धंप्रदीयताम्/वदवानभयंतेऽस्तिनिर्जितोऽस्मीतिसाञ्जलिः/एतस्मिन्नन्तरेक्रुद्धावरुणस्यमहात्मनः/पुत्राःपौत्राश्चनिष्क्रामन्गौश्चपुष्करएवच/तेतुवीर्यगुणोपेताबलैःपरिवृताःस्वकैः/युक्त्वारथान्कामगमानुद्यद्भास्करवर्चसः/ततोयुद्धंसमभवद्दारुणंलोमहर्षणम्/सलिलेन्द्रस्यपुत्राणांरावणस्यचरक्षसः/अमात्यैस्तुमहावीर्यैर्दशग्रीवस्यरक्षसः/वारुणंतद्बलंकृत्स्नंक्षणेनविनिपातितम्/समीक्ष्यस्वबलंसंख्येवरुणस्यासुतास्तदा/अर्दिताःशरजालेननिवृत्तारणकर्मणः/महीतलगतास्तेतुरावणंदृश्यपुष्पके/आकाशमाशुविविशुःस्यन्दनैःशीघ्रगामिभिः/महदासीत्ततस्तेषांतुल्यंस्थानमवाप्यतत्/आकाशयुद्धंतुमुलंदेवदानवयोरिव/ततस्तेरावणंयुद्धेशरैःपावकसंनिभैः/विमुखीकृत्यसंहृष्टाविनेदुर्विविधान्रवान्/ततोमहोदरःक्रुद्धोराजानंदृश्यधर्षितम्/त्यक्त्वामृत्युभयंवीरोयुद्धकाङ्क्षीव्यलोकयत्/तेनतेषांहयायेचकामगाःपवनोपमाः/महोदरेणगदयाहतास्तेप्रययुःक्षितिम्/तेषांवरुणसूनूनांहत्वायोधान्हयांश्चतान्/मुमोचाशुमहानादंविरथान्प्रेक्ष्यतान्स्थितान्/तेतुतेषांरथाःसाश्वाःसहसारथिभिर्वरैः/महोदरेणनिहताःपतिताःपृथिवीतले/तेतुत्यक्त्वारथान्पुत्रावरुणस्यमहात्मनः/आकाशेविष्ठिताःशूराःस्वप्रभावान्नविव्यथुः/धनूंषिकृत्वासज्यानिविनिर्भिद्यमहोदरम्/रावणंसमरेक्रुद्धाःसहिताःसमभिद्रवन्/ततःक्रुद्धोदशग्रीवःकालाग्निरिवविष्ठितः/शरवर्षंमहावेगंतेषांमर्मस्वपातयत्/मुसलानिविचित्राणिततोभल्लशतानिच/पट्टसांश्चैवशक्तीश्चशतघ्नीस्तोमरांस्तथा/पातयामासदुर्धर्षस्तेषामुपरिविष्ठितः/अथविद्धास्तुतेवीराविनिष्पेतुःपदातयः/ततोरक्षोमहानादंमुक्त्वाहन्तिस्मवारुणान्/नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः/ततस्तेविमुखाःसर्वेपतिताधरणीतले/रणात्स्वपुरुषैःशीघ्रंगृहाण्येवप्रवेशिताः/तानब्रवीत्ततोरक्षोवरुणायनिवेद्यताम्/रावणंचाब्रवीन्मन्त्रीप्रभासोनामवारुणः/गतःखलुमहातेजाब्रह्मलोकंजलेश्वरः/गान्धर्वंवरुणःश्रोतुंयंत्वमाह्वयसेयुधि/तत्किंतववृथावीरपरिश्राम्यगतेनृपे/येतुसंनिहितावीराःकुमारास्तेपराजिताः/राक्षसेन्द्रस्तुतच्छ्रुत्वानामविश्राव्यचात्मनः/हर्षान्नादंविमुञ्चन्वैनिष्क्रान्तोवरुणालयात्/आगतस्तुपथायेनतेनैवविनिवृत्यसः/लङ्कामभिमुखोरक्षोनभस्तलगतोययौ/निवर्तमानःसंहृष्टोरावणःसदुरात्मवान्/जह्रेपथिनरेन्द्रर्षिदेवगन्धर्वकन्यकाः/दर्शनीयांहियांरक्षःकन्यांस्त्रींवाथपश्यति/हत्वाबन्धुजनंतस्याविमानेसंन्यवेशयत्/तत्रपन्नगयक्षाणांमानुषाणांचरक्षसाम्/दैत्यानांदानवानांचकन्याजग्राहरावणः/दीर्घकेश्यःसुचार्वङ्ग्यःपूर्णचन्द्रनिभाननाः/शोकायत्तास्तरुण्यश्चसमस्तास्तननम्रिताः/तुल्यमग्न्यर्चिषांतत्रशोकाग्निभयसंभवम्/प्रवेपमानादुःखार्तामुमुचुर्बाष्पजंजलम्/तासांनिश्वसमानानांनिश्वसैःसंप्रदीपितम्/अग्निहोत्रमिवाभातिसंनिरुद्धाग्निपुष्पकम्/काचिद्दध्यौसुदुःखार्ताहन्यादपिहिमामयम्/स्मृत्वामातॄह्पितॄन्भ्रातॄन्पुत्रान्वैश्वशुरानपि/दुःखशोकसमाविष्टाविलेपुःसहिताःस्त्रियः/कथंनुखलुमेपुत्रःकरिष्यतिमयाविना/कथंमाताकथंभ्रातानिमग्नाःशोकसागरे/हाकथंनुकरिष्यामिभर्तारंदैवतंविना/मृत्योप्रसीदयाचेत्वांनयमांयमसादनम्/किंनुमेदुष्कृतंकर्मकृतंदेहान्तरेपुरा/ततोऽस्मिधर्षितानेनपतिताशोकसागरे/नखल्विदानींपश्यामिदुःखस्यान्तमिहात्मनः/अहोधिन्मानुषांल्लोकान्नास्तिखल्वधमःपरः/यद्दुर्बलाबलवताबान्धवारावणेनमे/उदितेनैवसूर्येणतारकाइवनाशिताः/अहोसुबलवद्रक्षोवधोपायेषुरज्यते/अहोदुर्वृत्तमात्मानंस्वयमेवनबुध्यते/सर्वथासदृशस्तावद्विक्रमोऽस्यदुरात्मनः/इदंत्वसदृशंकर्मपरदाराभिमर्शनम्/यस्मादेषपरख्यासुस्त्रीषुरज्यतिदुर्मतिः/तस्माद्धिस्त्रीकृतेनैववधंप्राप्स्यतिवारणः/शप्तःस्त्रीभिःसतुतदाहततेजाःसुनिष्प्रभ/पतिव्रताभिःसाध्वीभिःस्थिताभिःसाधुवर्त्मनि/एवंविलपमानासुरावणोराक्षसाधिपः/प्रविवेशपुरींलङ्कांपूज्यमानोनिशाचरैः/ततोराक्षसराजस्यस्वसापरमदुःखिता/पादयोःपतितातस्यवक्तुमेवोपचक्रमे/ततःस्वसारमुत्थाप्यरावणःपरिसान्त्वयन्/अब्रवीत्किमिदंभद्रेवक्तुमर्हसिमेद्रुतम्/साबाष्पपरिरुद्धाक्षीराक्षसीवाक्यमब्रवीत्/हतास्मिविधवाराजंस्त्वयाबलवताकृता/एतेविर्यात्त्वयाराजन्दैत्याविनिहतारणे/कालकेयाइतिख्यातामहाबलपराक्रमाः/तत्रमेनिहतोभर्तागरीयाञ्जीवितादपि/सत्वयादयितस्तत्रभ्रात्राशत्रुसमेनवै/यात्वयास्मिहताराजन्स्वयमेवेहबन्धुना/दुःखंवैधव्यशब्दंचदत्तंभोक्ष्याम्यहंत्वया/ननुनामत्वयारक्ष्योजामातासमरेष्वपि/तंनिहत्यरणेराजन्स्वयमेवनलज्जसे/एवमुक्तस्तयारक्षोभगिन्याक्रोशमानया/अब्रवीत्सान्त्वयित्वातांसामपूर्वमिदंवचः/अलंवत्सेविषादेननभेतव्यंचसर्वशः/मानदानविशेषैस्त्वांतोषयिष्यामिनित्यशः/युद्धेप्रमत्तोव्याक्षिप्तोजयकाङ्क्षीक्षिपञ्शरान्/नावगच्छामियुद्धेषुस्वान्परान्वाप्यहंशुभे/तेनासौनिहतःसंख्येमयाभर्तातवस्वसः/अस्मिन्कालेतुयत्प्राप्तंतत्करिष्यामितेहितम्/भ्रातुरैश्वर्यसंस्थस्यखरस्यभवपार्श्वतः/चतुर्दशानांभ्रातातेसहस्राणांभविष्यति/प्रभुःप्रयाणेदानेचराक्षसानांमहौजसाम्/तत्रमातृष्वसुःपुत्रोभ्रातातवखरःप्रभुः/भविष्यतिसदाकुर्वन्यद्वक्ष्यसिवचःस्वयम्/शीघ्रंगच्छत्वयंशूरोदण्डकान्परिरक्षितुम्/दूषणोऽस्यबलाध्यक्षोभविष्यतिमहाबलः/सहिशप्तोवनोद्देशःक्रुद्धेनोशनसापुरा/राक्षसानामयंवासोभविष्यतिनसंशयः/एवमुक्त्वादशग्रीवःसैन्यंतस्यादिदेशह/चतुर्दशसहस्राणिरक्षसांकामरूपिणाम्/सतैःसर्वैःपरिवृतोराक्षसैर्घोरदर्शनैः/खरःसंप्रययौशीघ्रंदण्डकानकुतोभयः/सतत्रकारयामासराज्यंनिहतकण्टकम्/साचशूर्पणखाप्रीतान्यवसद्दण्डकावने/सतुदत्त्वादशग्रीवोवनंघोरंखरस्यतत्/भगिनींचसमाश्वास्यहृष्टःस्वस्थतरोऽभवत्/ततोनिकुम्भिलानामलङ्कायाःकाननंमहत्/महात्माराक्षसेन्द्रस्तत्प्रविवेशसहानुगः/तत्रयूपशताकीर्णंसौम्यचैत्योपशोभितम्/ददर्शविष्ठितंयज्ञंसंप्रदीप्तमिवश्रिया/ततःकृष्णाजिनधरंकमण्डलुशिखाध्वजम्/ददर्शस्वसुतंतत्रमेघनादमरिंदमम्/रक्षःपतिःसमासाद्यसमाश्लिष्यचबाहुभिः/अब्रवीत्किमिदंवत्सवर्ततेतद्ब्रवीहिमे/उशनात्वब्रवीत्तत्रगुरुर्यज्ञसमृद्धये/रावणंराक्षसश्रेष्ठंद्विजश्रेष्ठोमहातपाः/अहमाख्यामितेराजञ्श्रूयतांसर्वमेवच/यज्ञास्तेसप्तपुत्रेणप्राप्ताःसुबहुविस्तराः/अग्निष्टोमोऽश्वमेधश्चयज्ञोबहुसुवर्णकः/राजसूयस्तथायज्ञोगोमेधोवैष्णवस्तथा/माहेश्वरेप्रवृत्तेतुयज्ञेपुम्भिःसुदुर्लभे/वरांस्तेलब्धवान्पुत्रःसाक्षात्पशुपतेरिह/कामगंस्यन्दनंदिव्यमन्तरिक्षचरंध्रुवम्/मायांचतामसींनामययासंपद्यतेतमः/एतयाकिलसंग्रामेमाययाराक्षसेश्वर/प्रयुद्धस्यगतिःशक्यानहिज्ञातुंसुरासुरैः/अक्षयाविषुधीबाणैश्चापंचापिसुदुर्जयम्/अस्त्रंचबलवत्सौम्यशत्रुविध्वंसनंरणे/एतान्सर्वान्वरांल्लब्ध्वापुत्रस्तेऽयंदशानन/अद्ययज्ञसमाप्तौचत्वत्प्रतीक्षःस्थितोअहम्/ततोऽब्रवीद्दशग्रीवोनशोभनमिदंकृतम्/पूजिताःशत्रवोयस्माद्द्रव्यैरिन्द्रपुरोगमाः/एहीदानींकृतंयद्धितदकर्तुंनशक्यते/आगच्छसौम्यगच्छामःस्वमेवभवनंप्रति/ततोगत्वादशग्रीवःसपुत्रःसविभीषणः/स्त्रियोऽवतारयामाससर्वास्ताबाष्पविक्लवाः/लक्षिण्योरत्नभूताश्चदेवदानवरक्षसाम्/नानाभूषणसंपन्नाज्वलन्त्यःस्वेनतेजसा/विभीषणस्तुतानारीर्दृष्ट्वाशोकसमाकुलाः/तस्यतांचमतिंज्ञात्वाधर्मात्मावाक्यमब्रवीत्/ईदृशैस्तैःसमाचारैर्यशोऽर्थकुलनाशनैः/धर्षणंप्राणिनांदत्त्वास्वमतेनविचेष्टसे/ज्ञातीन्वैधर्षयित्वेमास्त्वयानीतावराङ्गनाः/त्वामतिक्रम्यमधुनाराजन्कुम्भीनसीहृता/रावणस्त्वब्रवीद्वाक्यंनावगच्छामिकिंत्विदम्/कोवायंयस्त्वयाख्यातोमधुरित्येवनामतः/विभीषणस्तुसंक्रुद्धोभ्रातरंवाक्यमब्रवीत्/श्रूयतामस्यपापस्यकर्मणःफलमागतम्/मातामहस्ययोऽस्माकंज्येष्ठोभ्रातासुमालिनः/माल्यवानितिविख्यातोवृद्धप्राज्ञोनिशाचरः/पितुर्ज्येष्ठोजनन्याश्चअस्माकंत्वार्यकोऽभवत्/तस्यकुम्भीनसीनामदुहितुर्दुहिताभवत्/मातृष्वसुरथास्माकंसाकन्याचानलोद्भवा/भवत्यस्माकमेषावैभ्रातॄणांधर्मतःस्वसा/साहृतामधुनाराजन्राक्षसेनबलीयसा/यज्ञप्रवृत्तेपुत्रेतेमयिचान्तर्जलोषिते/निहत्यराक्षसश्रेष्ठानमात्यांस्तवसंमतान्/धर्षयित्वाहृताराजन्गुप्ताह्यन्तःपुरेतव/श्रुत्वात्वेतन्महाराजक्षान्तमेवहतोनसः/यस्मादवश्यंदातव्याकन्याभर्त्रेहिदातृभिः/अस्मिन्नेवाभिसंप्राप्तंलोकेविदितमस्तुते/ततोऽब्रवीद्दशग्रीवःक्रुद्धःसंरक्तलोचनः/कल्प्यतांमेरथःशीघ्रंशूराःसज्जीभवन्तुच/भ्रातामेकुम्भकर्णश्चयेचमुख्यानिशाचराः/वाहनान्यधिरोहन्तुनानाप्रहरणायुधाः/अद्यतंसमरेहत्वामधुंरावणनिर्भयम्/इन्द्रलोकंगमिष्यामियुद्धकाङ्क्षीसुहृद्वृतः/ततोविजित्यत्रिदिवंवशेस्थाप्यपुरंदरम्/निर्वृतोविहरिष्यामित्रैलोक्यैश्वर्यशोभितः/अक्षौहिणीसहस्राणिचत्वार्युग्राणिरक्षसाम्/नानाप्रहरणान्याशुनिर्ययुर्युद्धकाङ्क्षिणाम्/इन्द्रजित्त्वग्रतःसैन्यंसैनिकान्परिगृह्यच/रावणोमध्यतःशूरःकुम्भकर्णश्चपृष्ठतः/विभीषणस्तुधर्मात्मालङ्कायांधर्ममाचरत्/तेतुसर्वेमहाभागाययुर्मधुपुरंप्रति/रथैर्नागैःखरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः/राक्षसाःप्रययुःसर्वेकृत्वाकाशंनिरन्तरम्/दैत्याश्चशतशस्तत्रकृतवैराःसुरैःसह/रावणंप्रेक्ष्यगच्छन्तमन्वगच्छन्तपृष्ठतः/सतुगत्वामधुपुरंप्रविश्यचदशाननः/नददर्शमधुंतत्रभगिनींतत्रदृष्टवान्/साप्रह्वाप्राञ्जलिर्भूत्वाशिरसापादयोर्गता/तस्यराक्षसराजस्यत्रस्ताकुम्भीनसीस्वसा/तांसमुत्थापयामासनभेतव्यमितिब्रुवन्/रावणोराक्षसश्रेष्ठःकिंचापिकरवाणिते/साब्रवीद्यदिमेराजन्प्रसन्नस्त्वंमहाबल/भर्तारंनममेहाद्यहन्तुमर्हसिमानद/सत्यवाग्भवराजेन्द्रमामवेक्षस्वयाचतीम्/त्वयाह्युक्तंमहाबाहोनभेतव्यमितिस्वयम्/रावणस्त्वब्रवीद्धृष्टःस्वसारंतत्रसंस्थिताम्/क्वचासौतवभर्तावैममशीघ्रंनिवेद्यताम्/सहतेनगमिष्यामिसुरलोकंजयायवै/तवकारुण्यसौहार्दान्निवृत्तोऽस्मिमधोर्वधात्/इत्युक्तासाप्रसुप्तंतंसमुत्थाप्यनिशाचरम्/अब्रवीत्संप्रहृष्टेवराक्षसीसुविपश्चितम्/एषप्राप्तोदशग्रीवोममभ्रातानिशाचरः/सुरलोकजयाकाङ्क्षीसाहाय्येत्वांवृणोतिच/तदस्यत्वंसहायार्थंसबन्धुर्गच्छराक्षस/स्निग्धस्यभजमानस्ययुक्तमर्थायकल्पितुम्/तस्यास्तद्वचनंश्रुत्वातथेत्याहमधुर्वचः/ददर्शराक्षसश्रेष्ठंयथान्यायमुपेत्यसः/पूजयामासधर्मेणरावणंराक्षसाधिपम्/प्राप्तपूजोदशग्रीवोमधुवेश्मनिवीर्यवान्/तत्रचैकांनिशामुष्यगमनायोपचक्रमे/ततःकैलासमासाद्यशैलंवैश्रवणालयम्/राक्षसेन्द्रोमहेन्द्राभःसेनामुपनिवेशयत्/सतुतत्रदशग्रीवःसहसैन्येनवीर्यवान्/अस्तंप्राप्तेदिनकरेनिवासंसमरोचयत्/उदितेविमलेचन्द्रेतुल्यपर्वतवर्चसि/सददर्शगुणांस्तत्रचन्द्रपादोपशोभितान्/कर्णिकारवनैर्दिव्यैःकदम्बगहनैस्तथा/पद्मिनीभिश्चफुल्लाभिर्मन्दाकिन्याजलैरपि/घण्टानामिवसंनादःशुश्रुवेमधुरस्वनः/अप्सरोगणसंघनांगायतांधनदालये/पुष्पवर्षाणिमुञ्चन्तोनगाःपवनताडिताः/शैलंतंवासयन्तीवमधुमाधवगन्धिनः/मधुपुष्परजःपृक्तंगन्धमादायपुष्कलम्/प्रववौवर्धयन्कामंरावणस्यसुखोऽनिलः/गेयात्पुष्पसमृद्ध्याचशैत्याद्वायोर्गुणैर्गिरेः/प्रवृत्तायांरजन्यांचचन्द्रस्योदयनेनच/रावणःसुमहावीर्यःकामबाणवशंगतः/विनिश्वस्यविनिश्वस्यशशिनंसमवैक्षत/एतस्मिन्नन्तरेतत्रदिव्यपुष्पविभूषिता/सर्वाप्सरोवरारम्भापूर्णचन्द्रनिभानना/कृतैर्विशेषकैरार्द्रैःषडर्तुकुसुमोत्सवैः/नीलंसतोयमेघाभंवस्त्रंसमवगुण्ठिता/यस्यवक्त्रंशशिनिभंभ्रुवौचापनिभेशुभे/ऊरूकरिकराकारौकरौपल्लवकोमलौ/सैन्यमध्येनगच्छन्तीरावणेनोपलक्षिता/तांसमुत्थायरक्षेन्द्रःकामबाणबलार्दितः/करेगृहीत्वागच्छन्तींस्मयमानोऽभ्यभाषत/क्वगच्छसिवरारोहेकांसिद्धिंभजसेस्वयम्/कस्याभ्युदयकालोऽयंयस्त्वांसमुपभोक्ष्यते/तवाननरसस्याद्यपद्मोत्पलसुगन्धिनः/सुधामृतरसस्येवकोऽद्यतृप्तिंगमिष्यति/स्वर्णकुम्भनिभौपीनौशुभौभीरुनिरन्तरौ/कस्योरस्थलसंस्पर्शंदास्यतस्तेकुचाविमौ/सुवर्णचक्रप्रतिमंस्वर्णदामचितंपृथु/अध्यारोक्ष्यतिकस्तेऽद्यस्वर्गंजघनरूपिणम्/मद्विशिष्टःपुमान्कोऽन्यःशक्रोविष्णुरथाश्विनौ/मामतीत्यहियस्यत्वंयासिभीरुनशोभनम्/विश्रमत्वंपृथुश्रोणिशिलातलमिदंशुभम्/त्रैलोक्येयःप्रभुश्चैवतुल्योममनविद्यते/तदेषप्राञ्जलिःप्रह्वोयाचतेत्वांदशाननः/यःप्रभुश्चापिभर्ताचत्रैलोक्यस्यभजस्वमाम्/एवमुक्ताब्रवीद्रम्भावेपमानाकृताञ्जलिः/प्रसीदनार्हसेवक्तुमीदृशंत्वंहिमेगुरुः/अन्येभ्योऽपित्वयारक्ष्याप्राप्नुयांधर्षणंयदि/धर्मतश्चस्नुषातेऽहंतत्त्वमेतद्ब्रवीमिते/अब्रवीत्तांदशग्रीवश्चरणाधोमुखींस्थिताम्/सुतस्ययदिमेभार्याततस्त्वंमेस्नुषाभवेः/बाढमित्येवसारम्भाप्राहरावणमुत्तरम्/धर्मतस्तेसुतस्याहंभार्याराक्षसपुंगव/पुत्रःप्रियतरःप्राणैर्भ्रातुर्वैश्रवणस्यते/ख्यातोयस्त्रिषुलोकेषुनलकूबरइत्यसौ/धर्मतोयोभवेद्विप्रःक्षत्रियोवीर्यतोभवेत्/क्रोधाद्यश्चभवेदग्निःक्षान्त्याचवसुधासमः/तस्यास्मिकृतसंकेतालोकपालसुतस्यवै/तमुद्दिश्यचमेसर्वंविभूषणमिदंकृतम्/यस्यतस्यहिनान्यस्यभावोमांप्रतितिष्ठति/तेनसत्येनमांराजन्मोक्तुमर्हस्यरिंदम/सहितिष्ठतिधर्मात्मासाम्प्रतंमत्समुत्सुकः/तन्नविघ्नंसुतस्येहकर्तुमर्हसिमुञ्चमाम्/सद्भिराचरितंमार्गंगच्छराक्षसपुंगव/माननीयोमयाहित्वंलालनीयातथास्मिते/एवंब्रुवाणांरम्भांतांधर्मार्थसहितंवचः/निर्भर्त्स्यराक्षसोमोहात्प्रतिगृह्यबलाद्बली/काममोहाभिसंरब्धोमैथुनायोपचक्रमे/साविमुक्ताततोरम्भाभ्रष्टमाल्यविभूषणा/गजेन्द्राक्रीडमथितानदीवाकुलतांगता/सावेपमानालज्जन्तीभीताकरकृताञ्जलिः/नलकूबरमासाद्यपादयोर्निपपातह/तदवस्थांचतांदृष्ट्वामहात्मानलकूबरः/अब्रवीत्किमिदंभद्रेपादयोःपतितासिमे/सातुनिश्वसमानाचवेपमानाथसाञ्जलिः/तस्मैसर्वंयथातथ्यमाख्यातुमुपचक्रमे/एषदेवदशग्रीवःप्राप्तोगन्तुंत्रिविष्टपम्/तेनसैन्यसहायेननिशेहपरिणाम्यते/आयान्तीतेनदृष्टास्मित्वत्सकाशमरिंदम/गृहीत्वातेनपृष्टास्मिकस्यत्वमितिरक्षसा/मयातुसर्वंयत्सत्यंतद्धितस्मैनिवेदितम्/काममोहाभिभूतात्मानाश्रौषीत्तद्वचोमम/याच्यमानोमयादेवस्नुषातेऽहमितिप्रभो/तत्सर्वंपृष्ठतःकृत्वाबलात्तेनास्मिधर्षिता/एवंत्वमपराधंमेक्षन्तुमर्हसिमानद/नहितुल्यंबलंसौम्यस्त्रियाश्चपुरुषस्यच/एवंश्रुत्वातुसंक्रुद्धस्तदावैश्वरणात्मजः/धर्षणांतांपरांश्रुत्वाध्यानंसंप्रविवेशह/तस्यतत्कर्मविज्ञायतदावैश्रवणात्मजः/मुहूर्ताद्रोषताम्राक्षस्तोयंजग्राहपाणिना/गृहीत्वासलिलंदिव्यमुपस्पृश्ययथाविधि/उत्ससर्जतदाशापंराक्षसेन्द्रायदारुणम्/अकामातेनयस्मात्त्वंबलाद्भद्रेप्रधर्षिता/तस्मात्सयुवतीमन्यांनाकामामुपयास्यति/यदात्वकामांकामार्तोधर्षयिष्यतियोषितम्/मूर्धातुसप्तधातस्यशकलीभवितातदा/तस्मिन्नुदाहृतेशापेज्वलिताग्निसमप्रभे/देवदुन्दुभयोनेदुःपुष्पवृष्टिश्चखाच्च्युता/प्रजापतिमुखाश्चापिसर्वेदेवाःप्रहर्षिताः/ज्ञात्वालोकगतिंसर्वांतस्यमृत्युंचरक्षसः/श्रुत्वातुसदशग्रीवस्तंशापंरोमहर्षणम्/नारीषुमैथुनंभावंनाकामास्वभ्यरोचयत्/कैलासंलङ्घयित्वाथदशग्रीवःसराक्षसः/आससादमहातेजाइन्द्रलोकंनिशाचरः/तस्यराक्षससैन्यस्यसमन्तादुपयास्यतः/देवलोकंययौशब्दोभिद्यमानार्णवोपमः/श्रुत्वातुरावणंप्राप्तमिन्द्रःसंचलितासनः/अब्रवीत्तत्रतान्देवान्सर्वानेवसमागतान्/आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान्/सज्जीभवतयुद्धार्थंरावणस्यदुरात्मनः/एवमुक्तास्तुशक्रेणदेवाःशक्रसमायुधि/संनह्यन्तमहासत्त्वायुद्धश्रद्धासमन्विताः/सतुदीनःपरित्रस्तोमहेन्द्रोरावणंप्रति/विष्णोःसमीपमागत्यवाक्यमेतदुवाचह/विष्णोकथंकरिष्यामोमहावीर्यपराक्रम/असौहिबलवान्रक्षोयुद्धार्थमभिवर्तते/वरप्रदानाद्बलवान्नखल्वन्येनहेतुना/तच्चसत्यंहिकर्तव्यंवाक्यंदेवप्रजापतेः/तद्यथानमुचिर्वृत्रोबलिर्नरकशम्बरौ/त्वन्मतंसमवष्टभ्ययथादग्धास्तथाकुरु/नह्यन्योदेवदेवानामापत्सुसुमहाबल/गतिःपरायणंवास्तित्वामृतेपुरुषोत्तम/त्वंहिनारायणःश्रीमान्पद्मनाभःसनातनः/त्वयाहंस्थापितश्चैवदेवराज्येसनातने/तदाख्याहियथातत्त्वंदेवदेवममस्वयम्/असिचक्रसहायस्त्वंयुध्यसेसंयुगेरिपुम्/एवमुक्तःसशक्रेणदेवोनारायणःप्रभुः/अब्रवीन्नपरित्रासःकार्यस्तेश्रूयतांचमे/नतावदेषदुर्वृत्तःशक्योदैवतदानवैः/हन्तुंयुधिसमासाद्यवरदानेनदुर्जयः/सर्वथातुमहत्कर्मकरिष्यतिबलोत्कटः/रक्षःपुत्रसहायोऽसौदृष्टमेतन्निसर्गतः/ब्रवीषियत्तुमांशक्रसंयुगेयोत्स्यसीतिह/नैवाहंप्रतियोत्स्येतंरावणंराक्षसाधिपम्/अनिहत्यरिपुंविष्णुर्नहिप्रतिनिवर्तते/दुर्लभश्चैषकामोऽद्यवरमासाद्यराक्षसे/प्रतिजानामिदेवेन्द्रत्वत्समीपंशतक्रतो/राक्षसस्याहमेवास्यभवितामृत्युकारणम्/अहमेनंवधिष्यामिरावणंससुतंयुधि/देवतास्तोषयिष्यामिज्ञात्वाकालमुपस्थितम्/एतस्मिन्नन्तरेनादःशुश्रुवेरजनीक्षये/तस्यरावणसैन्यस्यप्रयुद्धस्यसमन्ततः/अथयुद्धंसमभवद्देवराक्षसयोस्तदा/घोरंतुमुलनिर्ह्रादंनानाप्रहरणायुधम्/एतस्मिन्नन्तरेशूराराक्षसाघोरदर्शनाः/युद्धार्थमभ्यधावन्तसचिवारावणाज्ञया/मारीचश्चप्रहस्तश्चमहापार्श्वमहोदरौ/अकम्पनोनिकुम्भश्चशुकःसारणएवच/संह्रादिर्धूमकेतुश्चमहादंष्ट्रोमहामुखः/जम्बुमालीमहामालीविरूपाक्षश्चराक्षसः/एतैःसर्वैर्महावीर्यैर्वृतोराक्षसपुंगवः/रावणस्यार्यकःसैन्यंसुमालीप्रविवेशह/सहिदेवगणान्सर्वान्नानाप्रहरणैःशितैः/विध्वंसयतिसंक्रुद्धःसहतैःक्षणदाचरैः/एतस्मिन्नन्तरेशूरोवसूनामष्टमोवसुः/सावित्रइतिविख्यातःप्रविवेशमहारणम्/ततोयुद्धंसमभवत्सुराणांराक्षसैःसह/क्रुद्धानांरक्षसांकीर्तिंसमरेष्वनिवर्तिनाम्/ततस्तेराक्षसाःशूरादेवांस्तान्समरेस्थितान्/नानाप्रहरणैर्घोरैर्जघ्नुःशतसहस्रशः/सुरास्तुराक्षसान्घोरान्महावीर्यान्स्वतेजसा/समरेविविधैःशस्त्रैरनयन्यमसादनम्/एतस्मिन्नन्तरेशूरःसुमालीनामराक्षसः/नानाप्रहरणैःक्रुद्धोरणमेवाभ्यवर्तत/देवानांतद्बलंसर्वंनानाप्रहरणैःशितैः/विध्वंसयतिसंक्रुद्धोवायुर्जलधरानिव/तेमहाबाणवर्षैश्चशूलैःप्रासैश्चदारुणैः/पीड्यमानाःसुराःसर्वेनव्यतिष्ठन्समाहिताः/ततोविद्राव्यमाणेषुत्रिदशेषुसुमालिना/वसूनामष्टमोदेवःसावित्रोव्यवतिष्ठत/संवृतःस्वैरनीकैस्तुप्रहरन्तंनिशाचरम्/विक्रमेणमहातेजावारयामाससंयुगे/सुमत्तयोस्तयोरासीद्युद्धंलोकेसुदारुणम्/सुमालिनोवसोश्चैवसमरेष्वनिवर्तिनोः/ततस्तस्यमहाबाणैर्वसुनासुमहात्मना/महान्सपन्नगरथःक्षणेनविनिपातितः/हत्वातुसंयुगेतस्यरथंबाणशतैःशितैः/गदांतस्यवधार्थायवसुर्जग्राहपाणिना/तांप्रदीप्तांप्रगृह्याशुकालदण्डनिभांशुभाम्/तस्यमूर्धनिसावित्रःसुमालेर्विनिपातयत्/तस्यमूर्धनिसोल्काभापतन्तीचतदाबभौ/सहस्राक्षसमुत्सृष्टागिराविवमहाशनिः/तस्यनैवास्थिकायोवानमांसंददृशेतदा/गदयाभस्मसाद्भूतोरणेतस्मिन्निपातितः/तंदृष्ट्वानिहतंसंख्येराक्षसास्तेसमन्ततः/दुद्रुवुःसहिताःसर्वेक्रोशमानामहास्वनम्/सुमालिनंहतंदृष्ट्वावसुनाभस्मसात्कृतम्/विद्रुतंचापिस्वंसैन्यंलक्षयित्वार्दितंशरैः/ततःसबलवान्क्रुद्धोरावणस्यसुतोयुधि/निवर्त्यराक्षसान्सर्वान्मेघनादोव्यतिष्ठत/सरथेनाग्निवर्णेनकामगेनमहारथः/अभिदुद्रावसेनांतांवनान्यग्निरिवज्वलन्/ततःप्रविशतस्तस्यविविधायुधधारिणः/विदुद्रुवुर्दिशःसर्वादेवास्तस्यचदर्शनात्/नतत्रावस्थितःकश्चिद्रणेतस्ययुयुत्सतः/सर्वानाविध्यवित्रस्तान्दृष्ट्वाशक्रोऽभ्यभाषत/नभेतव्यंनगन्तव्यंनिवर्तध्वंरणंप्रति/एषगच्छतिमेपुत्रोयुद्धार्थमपराजितः/ततःशक्रसुतोदेवोजयन्तइतिविश्रुतः/रथेनाद्भुतकल्पेनसंग्राममभिवर्तत/ततस्तेत्रिदशाःसर्वेपरिवार्यशचीसुतम्/रावणस्यसुतंयुद्धेसमासाद्यव्यवस्थिताः/तेषांयुद्धंमहदभूत्सदृशंदेवरक्षसाम्/कृतेमहेन्द्रपुत्रस्यराक्षसेन्द्रसुतस्यच/ततोमातलिपुत्रेतुगोमुखेराक्षसात्मजः/सारथौपातयामासशरान्काञ्चनभूषणान्/शचीसुतस्त्वपितथाजयन्तस्तस्यसारथिम्/तंचैवरावणिंक्रुद्धःप्रत्यविध्यद्रणाजिरे/ततःक्रुद्धोमहातेजारक्षोविस्फारितेक्षणः/रावणिःशक्रपुत्रंतंशरवर्षैरवाकिरत्/ततःप्रगृह्यशस्त्राणिसारवन्तिमहान्तिच/शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान्/सुमहान्त्यद्रिशृङ्गाणिपातयामासरावणिः/ततःप्रव्यथितालोकाःसंजज्ञेचतमोमहत्/तस्यरावणपुत्रस्यतदाशत्रूनभिघ्नतः/ततस्तद्दैवतबलंसमन्तात्तंशचीसुतम्/बहुप्रकारमस्वस्थंतत्रतत्रस्मधावति/नाभ्यजानंस्तदान्योन्यंशत्रून्वादैवतानिवा/तत्रतत्रविपर्यस्तंसमन्तात्परिधावितम्/एतस्मिन्नन्तरेशूरःपुलोमानामवीर्यवान्/दैतेयस्तेनसंगृह्यशचीपुत्रोऽपवाहितः/गृहीत्वातंतुनप्तारंप्रविष्टःसमहोदधिम्/मातामहोऽर्यकस्तस्यपौलोमीयेनसाशची/प्रणाशंदृश्यतुसुराजयन्तस्यातिदारुणम्/व्यथिताश्चाप्रहृष्टाश्चसमन्ताद्विप्रदुद्रुवुः/रावणिस्त्वथसंहृष्टोबलैःपरिवृतःस्वकैः/अभ्यधावतदेवांस्तान्मुमोचचमहास्वनम्/दृष्ट्वाप्रणाशंपुत्रस्यरावणेश्चापिविक्रमम्/मातलिंप्राहदेवेन्द्रोरथःसमुपनीयताम्/सतुदिव्योमहाभीमःसज्जएवमहारथः/उपस्थितोमातलिनावाह्यमानोमनोजवः/ततोमेघारथेतस्मिंस्तडिद्वन्तोमहास्वनाः/अग्रतोवायुचपलागच्छन्तोव्यनदंस्तदा/नानावाद्यानिवाद्यन्तस्तुतयश्चसमाहिताः/ननृतुश्चाप्सरःसंघाःप्रयातेवासवेरणम्/रुद्रैर्वसुभिरादित्यैःसाध्यैश्चसमरुद्गणैः/वृतोनानाप्रहरणैर्निर्ययौत्रिदशाधिपः/निर्गच्छतस्तुशक्रस्यपरुषंपवनोववौ/भास्करोनिष्प्रभश्चासीन्महोल्काश्चप्रपेदिरे/एतस्मिन्नन्तरेशूरोदशग्रीवःप्रतापवान्/आरुरोहरथंदिव्यंनिर्मितंविश्वकर्मणा/पन्नगैःसुमहाकायैर्वेष्टितंलोमहर्षणैः/येषांनिश्वासवातेनप्रदीप्तमिवसंयुगम्/दैत्यैर्निशाचरैःशूरैरथःसंपरिवारितः/समराभिमुखोदिव्योमहेन्द्रमभिवर्तत/पुत्रंतंवारयित्वासौस्वयमेवव्यवस्थितः/सोऽपियुद्धाद्विनिष्क्रम्यरावणिःसमुपाविशत्/ततोयुद्धंप्रवृत्तंतुसुराणांराक्षसैःसह/शस्त्राभिवर्षणंघोरंमेघानामिवसंयुगे/कुम्भकर्णस्तुदुष्टात्मानानाप्रहरणोद्यतः/नाज्ञायततदायुद्धेसहकेनाप्ययुध्यत/दन्तैर्भुजाभ्यांपद्भ्यांचशक्तितोमरसायकैः/येनकेनैवसंरब्धस्ताडयामासवैसुरान्/ततोरुद्रैर्महाभागैःसहादित्यैर्निशाचरः/प्रयुद्धस्तैश्चसंग्रामेकृत्तःशस्त्रैर्निरन्तरम्/ततस्तद्राक्षसंसैन्यंत्रिदशैःसमरुद्गणैः/रणेविद्रावितंसर्वंनानाप्रहरणैःशितैः/केचिद्विनिहताःशस्त्रैर्वेष्टन्तिस्ममहीतले/वाहनेष्ववसक्ताश्चस्थिताएवापरेरणे/रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा/शिंशुमारान्वराहांश्चपिशाचवदनांस्तथा/तान्समालिङ्ग्यबाहुभ्यांविष्टब्धाःकेचिदुच्छ्रिताः/देवैस्तुशस्त्रसंविद्धामम्रिरेचनिशाचराः/चित्रकर्मइवाभातिसतेषांरणसंप्लवः/निहतानांप्रमत्तानांराक्षसानांमहीतले/शोणितोदकनिष्यन्दाकङ्कगृध्रसमाकुला/प्रवृत्तासंयुगमुखेशस्त्रग्राहवतीनदी/एतस्मिन्नन्तरेक्रुद्धोदशग्रीवःप्रतापवान्/निरीक्ष्यतद्बलंसर्वंदैवतैर्विनिपातितम्/सतंप्रतिविगाह्याशुप्रवृद्धंसैन्यसागरम्/त्रिदशान्समरेनिघ्नञ्शक्रमेवाभ्यवर्तत/ततःशक्रोमहच्चापंविस्फार्यसुमहास्वनम्/यस्यविस्फारघोषेणस्वनन्तिस्मदिशोदश/तद्विकृष्यमहच्चापमिन्द्रोरावणमूर्धनि/निपातयामासशरान्पावकादित्यवर्चसः/तथैवचमहाबाहुर्दशग्रीवोव्यवस्थितः/शक्रंकार्मुकविभ्रष्टैःशरवर्षैरवाकिरत्/प्रयुध्यतोरथतयोर्बाणवर्षैःसमन्ततः/नाज्ञायततदाकिंचित्सर्वंहितमसावृतम्/ततस्तमसिसंजातेराक्षसादैवतैःसह/अयुध्यन्तबलोन्मत्ताःसूदयन्तःपरस्परम्/ततस्तुदेवसैन्येनराक्षसानांमहद्बलम्/दशांशंस्थापितंयुद्धेशेषंनीतंयमक्षयम्/तस्मिंस्तुतमसानद्धेसर्वेतेदेवराक्षसाः/अन्योन्यंनाभ्यजानन्तयुध्यमानाःपरस्परम्/इन्द्रश्चरावणश्चैवरावणिश्चमहाबलः/तस्मिंस्तमोजालवृतेमोहमीयुर्नतेत्रयः/सतुदृष्ट्वाबलंसर्वंनिहतंरावणोरणे/क्रोधमभ्यागमत्तीव्रंमहानादंचमुक्तवान्/क्रोधात्सूतंचदुर्धर्षःस्यन्दनस्थमुवाचह/परसैन्यस्यमध्येनयावदन्तंनयस्वमाम्/अद्यैतांस्त्रिदशान्सर्वान्विक्रमैःसमरेस्वयम्/नानाशस्त्रैर्महासारैर्नाशयामिनभस्तलात्/अहमिन्द्रंवधिष्यामिवरुणंधनदंयमम्/त्रिदशान्विनिहत्याशुस्वयंस्थास्याम्यथोपरि/विषादोनचकर्तव्यःशीघ्रंवाहयमेरथम्/द्विःखलुत्वांब्रवीम्यद्ययावदन्तंनयस्वमाम्/अयंसनन्दनोद्देशोयत्रवर्तामहेवयम्/नयमामद्यतत्रत्वमुदयोयत्रपर्वतः/तस्यतद्वचनंश्रुत्वातुरगान्समनोजवान्/आदिदेशाथशत्रूणांमध्येनैवचसारथिः/तस्यतंनिश्चयंज्ञात्वाशक्रोदेवेश्वरस्तदा/रथस्थःसमरस्थांस्तान्देवान्वाक्यमथाब्रवीत्/सुराःशृणुतमद्वाक्यंयत्तावन्ममरोचते/जीवन्नेवदशग्रीवःसाधुरक्षोनिगृह्यताम्/एषह्यतिबलःसैन्येरथेनपवनौजसा/गमिष्यतिप्रवृद्धोर्मिःसमुद्रइवपर्वणि/नह्येषहन्तुंशक्योऽद्यवरदानात्सुनिर्भयः/तद्ग्रहीष्यामहेरक्षोयत्ताभवतसंयुगे/यथाबलिंनिगृह्यैतत्त्रैलोक्यंभुज्यतेमया/एवमेतस्यपापस्यनिग्रहोममरोचते/ततोऽन्यंदेशमास्थायशक्रःसंत्यज्यरावणम्/अयुध्यतमहातेजाराक्षसान्नाशयन्रणे/उत्तरेणदशग्रीवःप्रविवेशानिवर्तितः/दक्षिणेनतुपार्श्वेनप्रविवेशशतक्रतुः/ततःसयोजनशतंप्रविष्टोराक्षसाधिपः/देवतानांबलंकृत्स्नंशरवर्षैरवाकिरत्/ततःशक्रोनिरीक्ष्याथप्रविष्टंतंबलंस्वकम्/न्यवर्तयदसंभ्रान्तःसमावृत्यदशाननम्/एतस्मिन्नन्तरेनादोमुक्तोदानवराक्षसैः/हाहताःस्मेतितंदृष्ट्वाग्रस्तंशक्रेणरावणम्/ततोरथंसमारुह्यरावणिःक्रोधमूर्छितः/तत्सैन्यमतिसंक्रुद्धःप्रविवेशसुदारुणम्/सतांप्रविश्यमायांतुदत्तांगोपतिनापुरा/अदृश्यःसर्वभूतानांतत्सैन्यंसमवाकिरत्/ततःसदेवान्संत्यज्यशक्रमेवाभ्ययाद्द्रुतम्/महेन्द्रश्चमहातेजानददर्शसुतंरिपोः/समातलिंहयांश्चैवताडयित्वाशरोत्तमैः/महेन्द्रंबाणवर्षेणशीघ्रहस्तोह्यवाकिरत्/ततःशक्रोरथंत्यक्त्वविसृज्यचसमातलिम्/ऐरावतंसमारुह्यमृगयामासरावणिम्/सतुमायाबलाद्रक्षःसंग्रामेनाभ्यदृश्यत/किरमाणःशरौघेनमहेन्द्रममितौजसं/सतंयदापरिश्रान्तमिन्द्रंमेनेऽथरावणिः/तदैनंमाययाबद्ध्वास्वसैन्यमभितोऽनयत्/तंदृष्ट्वाथबलात्तस्मिन्माययापहृतंरणे/महेन्द्रममराःसर्वेकिंन्वेतदितिचुक्रुशुः/नहिदृश्यतिविद्यावान्माययायेननीयते/एतस्मिन्नन्तरेचापिसर्वेसुरगणास्तदा/अभ्यद्रवन्सुसंक्रुद्धारावणंशस्त्रवृष्टिभिः/रावणस्तुसमासाद्यवस्वादित्यमरुद्गणान्/नशशाकरणेस्थातुंनयोद्धुंशस्त्रपीडितः/तंतुदृष्ट्वापरिश्रान्तंप्रहारैर्जर्जरच्छविम्/रावणिःपितरंयुद्धेऽदर्शनस्थोऽब्रवीदिदम्/आगच्छतातगच्छावोनिवृत्तंरणकर्मतत्/जितंतेविदितंभोऽस्तुस्वस्थोभवगतज्वरः/अयंहिसुरसैन्यस्यत्रैलोक्यस्यचयःप्रभुः/सगृहीतोमयाशक्रोभग्नमानाःसुराःकृताः/यथेष्टंभुङ्क्ष्वत्रैलोक्यंनिगृह्यरिपुमोजसा/वृथातेकिंश्रमंकृत्वायुद्धंहितवनिष्फलम्/सदैवतबलात्तस्मान्निवृत्तोरणकर्मणः/तच्छ्रुत्वारावणेर्वाक्यंस्वस्थचेतादशाननः/अथरणविगतज्वरःप्रभुर्॑विजयमवाप्यनिशाचराधिपः/भवनमभिततोजगामहृष्टः॑स्वसुतमवाप्यचवाक्यमब्रवीत्/अतिबलसदृशैःपराक्रमैस्तैर्॑ममकुलमानविवर्धनंकृतम्/यदमरसमविक्रमत्वया॑त्रिदशपतिस्त्रिदशाश्चनिर्जिताः/त्वरितमुपनयस्ववासवं॑नगरमितोव्रजसैन्यसंवृतः/अहमपितवगच्छतोद्रुतं॑सहसचिवैरनुयामिपृष्ठतः/अथसबलवृतःसवाहनस्॑त्रिदशपतिंपरिगृह्यरावणिः/स्वभवनमुपगम्यराक्षसो॑मुदितमनाविससर्जराक्षसान्/जितेमहेन्द्रेऽतिबलेरावणस्यसुतेनवै/प्रजापतिंपुरस्कृत्यगतालङ्कांसुरास्तदा/तंरावणंसमासाद्यपुत्रभ्रातृभिरावृतम्/अब्रवीद्गगनेतिष्ठन्सान्त्वपूर्वंप्रजापतिः/वत्सरावणतुष्टोऽस्मितवपुत्रस्यसंयुगे/अहोऽस्यविक्रमौदार्यंतवतुल्योऽधिकोऽपिवा/जितंहिभवतासर्वंत्रैलोक्यंस्वेनतेजसा/कृताप्रतिज्ञासफलाप्रीतोऽस्मिस्वसुतेनवै/अयंचपुत्रोऽतिबलस्तवरावणरावणिः/इन्द्रजित्त्वितिविख्यातोजगत्येषभविष्यति/बलवाञ्शत्रुनिर्जेताभविष्यत्येषराक्षसः/यमाश्रित्यत्वयाराजन्स्थापितास्त्रिदशावशे/तन्मुच्यतांमहाबाहोमहेन्द्रःपाकशासनः/किंचास्यमोक्षणार्थायप्रयच्छन्तिदिवौकसः/अथाब्रवीन्महातेजाइन्द्रजित्समितिंजयः/अमरत्वमहंदेववृणोमीहास्यमोक्षणे/अब्रवीत्तुतदादेवोरावणिंकमलोद्भवः/नास्तिसर्वामरत्वंहिकेषांचित्प्राणिनांभुवि/अथाब्रवीत्सतत्रस्थमिन्द्रजित्पद्मसंभवम्/श्रूयतांयाभवेत्सिद्धिःशतक्रतुविमोक्षणे/ममेष्टंनित्यशोदेवहव्यैःसंपूज्यपावकम्/संग्राममवतर्तुंवैशत्रुनिर्जयकाङ्क्षिणः/तस्मिंश्चेदसमाप्तेतुजप्यहोमेविभावसोः/युध्येयंदेवसंग्रामेतदामेस्याद्विनाशनम्/सर्वोहितपसाचैववृणोत्यमरतांपुमान्/विक्रमेणमयात्वेतदमरत्वंप्रवर्तितम्/एवमस्त्वितितंप्राहवाक्यंदेवःप्रजापतिः/मुक्तश्चेन्द्रजिताशक्रोगताश्चत्रिदिवंसुराः/एतस्मिन्नन्तरेशक्रोदीनोभ्रष्टाम्बरस्रजः/रामचिन्तापरीतात्माध्यानतत्परतांगतः/तंतुदृष्ट्वातथाभूतंप्राहदेवःप्रजापतिः/शक्रक्रतोकिमुत्कण्ठांकरोषिस्मरदुष्कृतम्/अमरेन्द्रमयाबह्व्यःप्रजाःसृष्टाःपुराप्रभो/एकवर्णाःसमाभाषाएकरूपाश्चसर्वशः/तासांनास्तिविशेषोहिदर्शनेलक्षणेऽपिवा/ततोऽहमेकाग्रमनास्ताःप्रजाःपर्यचिन्तयम्/सोऽहंतासांविशेषार्थंस्त्रियमेकांविनिर्ममे/यद्यत्प्रजानांप्रत्यङ्गंविशिष्टंतत्तदुद्धृतम्/ततोमयारूपगुणैरहल्यास्त्रीविनिर्मिता/अहल्येत्येवचमयातस्यानामप्रवर्तितम्/निर्मितायांतुदेवेन्द्रतस्यांनार्यांसुरर्षभ/भविष्यतीतिकस्यैषाममचिन्ताततोऽभवत्/त्वंतुशक्रतदानारींजानीषेमनसाप्रभो/स्थानाधिकतयापत्नीममैषेतिपुरंदर/सामयान्यासभूतातुगौतमस्यमहात्मनः/न्यस्ताबहूनिवर्षाणितेननिर्यातिताचसा/ततस्तस्यपरिज्ञायमयास्थैर्यंमहामुनेः/ज्ञात्वातपसिसिद्धिंचपत्न्यर्थंस्पर्शितातदा/सतयासहधर्मात्मारमतेस्ममहामुनिः/आसन्निराशादेवास्तुगौतमेदत्तयातया/त्वंक्रुद्धस्त्विहकामात्मागत्वातस्याश्रमंमुनेः/दृष्टवांश्चतदातांस्त्रींदीप्तामग्निशिखामिव/सात्वयाधर्षिताशक्रकामार्तेनसमन्युना/दृष्टस्त्वंचतदातेनआश्रमेपरमर्षिणा/ततःक्रुद्धेनतेनासिशप्तःपरमतेजसा/गतोऽसियेनदेवेन्द्रदशाभागविपर्ययम्/यस्मान्मेधर्षितापत्नीत्वयावासवनिर्भयम्/तस्मात्त्वंसमरेराजञ्शत्रुहस्तंगमिष्यसि/अयंतुभावोदुर्बुद्धेयस्त्वयेहप्रवर्तितः/मानुषेष्वपिसर्वेषुभविष्यतिनसंशयः/तत्राधर्मःसुबलवान्समुत्थास्यतियोमहान्/तत्रार्धंतस्ययःकर्तात्वय्यर्धंनिपतिष्यति/नचतेस्थावरंस्थानंभविष्यतिपुरंदर/एतेनाधर्मयोगेनयस्त्वयेहप्रवर्तितः/यश्चयश्चसुरेन्द्रःस्याद्ध्रुवःसनभविष्यति/एषशापोमयामुक्तइत्यसौत्वांतदाब्रवीत्/तांतुभार्यांविनिर्भर्त्स्यसोऽब्रवीत्सुमहातपाः/दुर्विनीतेविनिध्वंसममाश्रमसमीपतः/रूपयौवनसंपन्नायस्मात्त्वमनवस्थिता/तस्माद्रूपवतीलोकेनत्वमेकाभविष्यसि/रूपंचतत्प्रजाःसर्वागमिष्यन्तिसुदुर्लभम्/यत्तवेदंसमाश्रित्यविभ्रमेऽयमुपस्थितः/तदाप्रभृतिभूयिष्ठंप्रजारूपसमन्विताः/शापोत्सर्गाद्धितस्येदंमुनेःसर्वमुपागतम्/तत्स्मरत्वंमहाबाहोदुष्कृतंयत्त्वयाकृतम्/येनत्वंग्रहणंशत्रोर्गतोनान्येनवासव/शीघ्रंयजस्वयज्ञंत्वंवैष्णवंसुसमाहितः/पावितस्तेनयज्ञेनयास्यसित्रिदिवंततः/पुत्रश्चतवदेवेन्द्रनविनष्टोमहारणे/नीतःसंनिहितश्चैवअर्यकेणमहोदधौ/एतच्छ्रुत्वामहेन्द्रस्तुयज्ञमिष्ट्वाचवैष्णवम्/पुनस्त्रिदिवमाक्रामदन्वशासच्चदेवताः/एतदिन्द्रजितोरामबलंयत्कीर्तितंमया/निर्जितस्तेनदेवेन्द्रःप्राणिनोऽन्येचकिंपुनः/ततोरामोमहातेजाविस्मयात्पुनरेवहि/उवाचप्रणतोवाक्यमगस्त्यमृषिसत्तमम्/भगवन्किंतदालोकाःशून्याआसन्द्विजोत्तम/धर्षणांयत्रनप्राप्तोरावणोराक्षसेश्वरः/उताहोहीनवीर्यास्तेबभुवुःपृथिवीक्षितः/बहिष्कृतावरास्त्रैश्चबहवोनिर्जितानृपाः/राघवस्यवचःश्रुत्वाअगस्त्योभगवानृषिः/उवाचरामंप्रहसन्पितामहइवेश्वरम्/सएवंबाधमानस्तुपार्थिवान्पार्थिवर्षभ/चचाररावणोरामपृथिव्यांपृथिवीपते/ततोमाहिष्मतींनामपुरींस्वर्गपुरीप्रभाम्/संप्राप्तोयत्रसाम्निध्यंपरमंवसुरेतसः/तुल्यआसीन्नृपस्तस्यप्रतापाद्वसुरेतसः/अर्जुनोनामयस्याग्निःशरकुण्डेशयःसदा/तमेवदिवसंसोऽथहैहयाधिपतिर्बली/अर्जुनोनर्मदांरन्तुंगतःस्त्रीभिःसहेश्वरः/रावणोराक्षसेन्द्रस्तुतस्यामात्यानपृच्छत/क्वार्जुनोवोनृपःसोऽद्यशीघ्रमाख्यातुमर्हथ/रावणोऽहमनुप्राप्तोयुद्धेप्सुर्नृवरेणतु/ममागमनमव्यग्रैर्युष्माभिःसंनिवेद्यताम्/इत्येवंरावणेनोक्तास्तेऽमात्याःसुविपश्चितः/अब्रुवन्राक्षसपतिमसाम्निध्यंमहीपतेः/श्रुत्वाविश्रवसःपुत्रःपौराणामर्जुनंगतम्/अपसृत्यागतोविन्ध्यंहिमवत्संनिभंगिरिम्/सतमभ्रमिवाविष्टमुद्भ्रान्तमिवमेदिनीम्/अपश्यद्रावणोविन्ध्यमालिखन्तमिवाम्बरम्/सहस्रशिखरोपेतंसिंहाध्युषितकन्दरम्/प्रपातपतितैःशीतैःसाट्टहासमिवाम्बुभिः/देवदानवगन्धर्वैःसाप्सरोगणकिंनरैः/साहस्त्रीभिःक्रीडमानैःस्वर्गभूतंमहोच्छ्रयम्/नदीभिःस्यन्दमानाभिरगतिप्रतिमंजलम्/स्फुटीभिश्चलजिह्वाभिर्वमन्तमिवविष्ठितम्/उल्कावन्तंदरीवन्तंहिमवत्संनिभंगिरिम्/पश्यमानस्ततोविन्ध्यंरावणोनर्मदांययौ/चलोपलजलांपुण्यांपश्चिमोदधिगामिनीम्/महिषैःसृमरैःसिंहैःशार्दूलर्क्षगजोत्तमैः/उष्णाभितप्तैस्तृषितैःसंक्षोभितजलाशयाम्/चक्रवाकैःसकारण्डैःसहंसजलकुक्कुटैः/सारसैश्चसदामत्तैःकोकूजद्भिःसमावृताम्/फुल्लद्रुमकृतोत्तंसांचक्रवाकयुगस्तनीम्/विस्तीर्णपुलिनश्रोणींहंसावलिसुमेखलाम्/पुष्परेण्वनुलिप्ताङ्गींजलफेनामलांशुकाम्/जलावगाहसंस्पर्शांफुल्लोत्पलशुभेक्षणाम्/पुष्पकादवरुह्याशुनर्मदांसरितांवराम्/इष्टामिववरांनारीमवगाह्यदशाननः/सतस्याःपुलिनेरम्येनानाकुसुमशोभिते/उपोपविष्टःसचिवैःसार्धंराक्षसपुंगवः/नर्मदादर्शजंहर्षमाप्तवान्राक्षसेश्वरः/ततःसलीलंप्रहसान्रावणोराक्षसाधिपः/उवाचसचिवांस्तत्रमारीचशुकसारणान्/एषरश्मिसहस्रेणजगत्कृत्वेवकाञ्चनम्/तीक्ष्णतापकरःसूर्योनभसोमध्यमास्थितः/मामासीनंविदित्वेहचन्द्रायातिदिवाकरः/नर्मदाजलशीतश्चसुगन्धिःश्रमनाअशनः/मद्भयादनिलोह्येषवात्यसौसुसमाहितः/इयंचापिसरिच्छ्रेष्ठानर्मदानर्मवर्धिनी/लीनमीनविहंगोर्मिःसभयेवाङ्गनास्थिता/तद्भवन्तःक्षताःशस्त्रैर्नृपैरिन्द्रसमैर्युधि/चन्दनस्यरसेनेवरुधिरेणसमुक्षिताः/तेयूयमवगाहध्वंनर्मदांशर्मदांनृणाम्/महापद्ममुखामत्तागङ्गामिवमहागजाः/अस्यांस्नात्वामहानद्यांपाप्मानंविप्रमोक्ष्यथ/अहमप्यत्रपुलिनेशरदिन्दुसमप्रभे/पुष्पोपहरंशनकैःकरिष्यामिउमापतेः/रावणेनैवमुक्तास्तुमारीचशुकसारणाः/समहोदरधूम्राक्षानर्मदामवगाहिरे/राक्षसेन्द्रगजैस्तैस्तुक्षोभ्यतेनर्मदानदी/वामनाञ्जनपद्माद्यैर्गङ्गाइवमहागजैः/ततस्तेराक्षसाअःस्नात्वानर्मदायावराम्भसि/उत्तीर्यपुष्पाण्याजह्रुर्बल्यर्थंरावणस्यतु/नर्मदापुलिनेरम्येशुभ्राभ्रसदृशप्रभे/राक्षसेन्द्रैर्मुहूर्तेनकृतःपुष्पमयोगिरिः/पुष्पेषूपहृतेष्वेवरावणोराक्षसेश्वरः/अवतीर्णोनदींस्नातुंगङ्गामिवमहागजः/तत्रस्नात्वाचविधिवज्जप्त्वाजप्यमनुत्तमम्/नर्मदासलिलात्तस्मादुत्ततारसरावणः/रावणंप्राञ्जलिंयान्तमन्वयुःसप्तराक्षसाः/यत्रयत्रसयातिस्मरावणोराक्षसाधिपः/जाम्बूनदमयंलिङ्गंतत्रतत्रस्मनीयते/वालुकवेदिमध्येतुतल्लिङ्गंस्थाप्यरावणः/अर्चयामासगन्धैश्चपुष्पैश्चामृतगन्धिभिः/ततःसतामार्तिहरंहरंपरं॑वरप्रदंचन्द्रमयूखभूषणम्/समर्चयित्वासनिशाचरोजगौ॑प्रसार्यहस्तान्प्रणनर्तचायतान्/नर्मदापुलिनेयत्रराक्षसेन्द्रःसरावणः/पुष्पोपहारंकुरुतेतस्माद्देशाददूरतः/अर्जुनोजयतांश्रेष्ठोमाहिष्मत्याःपतिःप्रभुः/क्रीडितेसहनारीभिर्नर्मदातोयमाश्रितः/तासांमध्यगतोराजरराजसततोऽर्जुनः/करेणूनांसहस्रस्यमध्यस्थइवकुञ्जरः/जिज्ञासुःसतुबाहूनांसहस्रस्योत्तमंबलम्/रुरोधनर्मदावेगंबाहुभिःसतदार्जुनः/कार्तवीर्यभुजासेतुंतज्जलंप्राप्यनिर्मलम्/कूलापहारंकुर्वाणंप्रतिस्रोतःप्रधावति/समीननक्रमकरःसपुष्पकुशसंस्तरः/सनर्मदाम्भसोवेगःप्रावृट्कालइवाबभौ/सवेगःकार्तवीर्येणसंप्रेषिटइवाम्भसः/पुष्पोपहारंतत्सर्वंरावणस्यजहारह/रावणोऽर्धसमाप्तंतुउत्सृज्यनियमंतदा/नर्मदांपश्यतेकान्तांप्रतिकूलांयथाप्रियाम्/पश्चिमेनतुतंदृष्ट्वासागरोद्गारसंनिभम्/वर्धन्तमम्भसोवेगंपूर्वामाशांप्रविश्यतु/ततोऽनुद्भ्रान्तशकुनांस्वाभाव्येपरमेस्थिताम्/निर्विकाराङ्गनाभासांपश्यतेरावणोनदीम्/सव्येतरकराङ्गुल्यासशब्दंचदशाननः/वेगप्रभवमन्वेष्टुंसोऽदिशच्छुकसारणौ/तौतुरावणसंदिष्टौभ्रातरौशुकसारणौ/व्योमान्तरचरौवीरौप्रस्थितौपश्चिमोन्मुखौ/अर्धयोजनमात्रंतुगत्वातौतुनिशाचरौ/पश्येतांपुरुषंतोयेक्रीडन्तंसहयोषितम्/बृहत्सालप्रतीकशंतोयव्याकुलमूर्धजम्/मदरक्तान्तनयनंमदनाकारवर्चसं/नदींबाहुसहस्रेणरुन्धन्तमरिमर्दनम्/गिरिंपादसहस्रेणरुन्धन्तमिवमेदिनीम्/बालानांवरनारीणांसहस्रेणाभिसंवृतम्/समदानांकरेणूनांसहस्रेणेवकुञ्जरम्/तमद्भुततमंदृष्ट्वाराक्षसौशुकसारणौ/संनिवृत्तावुपागम्यरावणंतमथोचतुः/बृहत्सालप्रतीकाशःकोऽप्यसौराक्षसेश्वर/नर्मदांरोधवद्रुद्ध्वाक्रीडापयतियोषितः/तेनबाहुसहस्रेणसंनिरुद्धजलानदी/सागरोद्गारसंकाशानुद्गारान्सृजतेमुहुः/इत्येवंभाषमाणौतौनिशम्यशुकसारणौ/रावणोऽर्जुनइत्युक्त्वाउत्तस्थौयुद्धलालसः/अर्जुनाभिमुखेतस्मिन्प्रस्थितेराक्षसेश्वरे/सकृदेवकृतोरावःसरक्तःप्रेषितोघनैः/महोदरमहापार्श्वधूम्राक्षशुकसारणैः/संवृतोराक्षसेन्द्रस्तुतत्रागाद्यत्रसोऽर्जुनः/नातिदीर्घेणकालेनसततोराक्षसोबली/तंनर्मदाह्रदंभीममाजगामाञ्जनप्रभः/सतत्रस्त्रीपरिवृतंवाशिताभिरिवद्विपम्/नरेन्द्रंपश्यतेराजाराक्षसानांतदार्जुनम्/सरोषाद्रक्तनयनोराक्षसेन्द्रोबलोद्धतः/इत्येवमर्जुनामात्यानाहगम्भीरयागिरा/अमात्याःक्षिप्रमाख्यातहैहयस्यनृपस्यवै/युद्धार्थंसमनुप्राप्तोरावणोनामनामतः/रावणस्यवचःश्रुत्वामन्त्रिणोऽथार्जुनस्यते/उत्तस्थुःसायुधास्तंचरावणंवाक्यमब्रुवन्/युद्धस्यकालोविज्ञातःसाधुभोःसाधुरावण/यःक्षीबंस्त्रीवृतंचैवयोद्धुमिच्छसिनोनृपम्/वाशितामध्यगंमत्तंशार्दूलइवकुञ्जरम्/क्षमस्वाद्यदशग्रीवउष्यतांरजनीत्वया/युद्धश्रद्धातुयद्यस्तिश्वस्तातसमरेऽर्जुनम्/यदिवापित्वरातुभ्यंयुद्धतृष्णासमावृता/निहत्यास्मांस्ततोयुद्धमर्जुनेनोपयास्यसि/ततस्तेरावणामात्यैरमात्याःपार्थिवस्यतु/सूदिताश्चापितेयुद्धेभक्षिताश्चबुभुक्षितैः/ततोहलहलाशब्दोनर्मदातिरआबभौ/अर्जुनस्यानुयात्राणांरावणस्यचमन्त्रिणाम्/इषुभिस्तोमरैःशूलैर्वज्रकल्पैःसकर्षणैः/सरावणानर्दयन्तःसमन्तात्समभिद्रुताः/हैहयाधिपयोधानांवेगआसीत्सुदारुणः/सनक्रमीनमकरसमुद्रस्येवनिस्वनः/रावणस्यतुतेऽमात्याःप्रहस्तशुकसारणाः/कार्तवीर्यबलंक्रुद्धानिर्दहन्त्यग्नितेजसः/अर्जुनायतुतत्कर्मरावणस्यसमन्त्रिणः/क्रीडमानायकथितंपुरुषैर्द्वाररक्षिभिः/उक्त्वानभेतव्यमितिस्त्रीजनंसततोऽर्जुनः/उत्ततारजलात्तस्माद्गङ्गातोयादिवाञ्जनः/क्रोधदूषितनेत्रस्तुसततोऽर्जुनपावकः/प्रजज्वालमहाघोरोयुगान्तइवपावकः/सतूर्णतरमादायवरहेमाङ्गदोगदाम्/अभिद्रवतिरक्षांसितमांसीवदिवाकरः/बाहुविक्षेपकरणांसमुद्यम्यमहागदाम्/गारुडंवेगमास्थायआपपातैवसोऽर्जुनः/तस्यमर्गंसमावृत्यविन्ध्योऽर्कस्येवपर्वतः/स्थितोविन्ध्यइवाकम्प्यःप्रहस्तोमुसलायुधः/ततोऽस्यमुसलंघोरंलोहबद्धंमदोद्धतः/प्रहस्तःप्रेषयन्क्रुद्धोररासचयथाम्बुदः/तस्याग्रेमुसलस्याग्निरशोकापीडसंनिभः/प्रहस्तकरमुक्तस्यबभूवप्रदहन्निव/आधावमानंमुसलंकार्तवीर्यस्तदार्जुनः/निपुणंवञ्चयामाससगदोगजविक्रमः/ततस्तमभिदुद्रावप्रहस्तंहैहयाधिपः/भ्रामयाणोगदांगुर्वींपञ्चबाहुशतोच्छ्रयाम्/तेनाहतोऽतिवेगेनप्रहस्तोगदयातदा/निपपातस्थितःशैलोवज्रिवज्रहतोयथा/प्रहस्तंपतितंदृष्ट्वामारीचशुकसाअरणाः/समहोदरधूम्राक्षाअपसृप्तारणाजिरात्/अपक्रान्तेष्वमात्येषुप्रहस्तेचनिपातिते/रावणोऽभ्यद्रवत्तूर्णमर्जुनंनृपसत्तमम्/सहस्रबाहोस्तद्युद्धंविंशद्बाहोश्चदारुणम्/नृपराक्षसयोस्तत्रआरब्धंलोमहर्षणम्/सागराविवसंक्षुब्धौचलमूलाविवाचलौ/तेजोयुक्ताविवादित्यौप्रदहन्ताविवानलौ/बलोद्धतौयथानागौवाशितार्थेयथावृषौ/मेघाविवविनर्दन्तौसिंहाविवबलोत्कटौ/रुद्रकालाविवक्रुद्धौतौतथाराक्षसार्जुनौ/परस्परंगदाभ्यांतौताडयामासतुर्भृशम्/वज्रप्रहारानचलायथाघोरान्विषेहिरे/गदाप्रहारांस्तद्वत्तौसहेतेनरराक्षसौ/यथाशनिरवेभ्यस्तुजायतेवैप्रतिश्रुतिः/तथाताभ्यांगदापातैर्दिशःसर्वाःप्रतिश्रुताः/अर्जुनस्यगदासातुपात्यमानाहितोरसि/काञ्चनाभंनभश्चक्रेविद्युत्सौदामनीयथा/तथैवरावणेनापिपात्यमानामुहुर्मुहुः/अर्जुनोरसिनिर्भातिगदोल्केवमहागिरौ/नार्जुनःखेदमाप्नोतिनराक्षसगणेश्वरः/सममासीत्तयोर्युद्धंयथापूर्वंबलीन्द्रयोः/शृङ्गैर्महर्षभौयद्वद्दन्ताग्रैरिवकुञ्जरौ/परस्परंविनिघ्नन्तौनरराक्षससत्तमौ/ततोऽर्जुनेनक्रुद्धेनसर्वप्राणेनसागदा/स्तनयोरन्तरेमुक्तारावणस्यमहाहवे/वरदानकृतत्राणेसागदारावणोरसि/दुर्बलेवयथासेनाद्विधाभूतापतत्क्षितौ/सत्वर्जुनप्रमुक्तेनगदापातेनरावणः/अपासर्पद्धनुर्मात्रंनिषसाअदचनिष्टनन्/सविह्वलंतदालक्ष्यदशग्रीवंततोऽर्जुनः/सहसाप्रतिजग्राहगरुत्मानिवपन्नगम्/सतंबाहुसहस्रेणबलाद्गृह्यदशाननम्/बबन्धबलवान्राजाबलिंनारायणोयथा/बध्यमानेदशग्रीवेसिद्धचारणदेवताः/साध्वीतिवादिनःपुष्पैःकिरन्त्यर्जुनमूर्धनि/व्याघ्रोमृगमिवादायसिंहराडिवदन्तिनम्/ररासहैहयोराजाहर्षादम्बुदवन्मुहुः/प्रहस्तस्तुसमाश्वस्तोदृष्ट्वाबद्धंदशाननम्/सहतैराकसैःक्रुद्धअभिदुद्रावपार्थिवम्/नक्तंचराणांवेगस्तुतेषामापततांबभौ/उद्धृतआतपापायेसमुद्राणामिवाद्भुतः/मुञ्चमुञ्चेतिभाषन्तस्तिष्ठतिष्ठेतिचासकृत्/मुसलानिचशूलानिउत्ससर्जुस्तदार्जुने/अप्राप्तान्येवतान्याशुअसंभ्रान्तस्तदार्जुनः/आयुधान्यमरारीणांजग्राहरिपुसूदनः/ततस्तैरेवरक्षांसिदुर्धरैःप्रवरायुधैः/भित्त्वाविद्रावयामासवायुरम्बुधरानिव/राक्षसांस्त्रासयित्वातुकार्तवीर्यार्जुनस्तदा/रावणंगृह्यनगरंप्रविवेशसुहृद्वृतः/सकीर्यमाणःकुसुमाक्षतोत्करैर्॑द्विजैःसपौरैःपुरुहूतसंनिभः/तदार्जुनःसंप्रविवेशतांपुरीं॑बलिंनिगृह्यैवसहस्रलोचनः/रावणग्रहणंतत्तुवायुग्रहणसंनिभम्/ऋषिःपुलस्त्यःशुश्रावकथितंदिविदैवतैः/ततःपुत्रसुतस्नेहात्कम्प्यमानोमहाधृतिः/माहिष्मतीपतिंद्रष्टुमाजगाममहानृषिः/सवायुमार्गमास्थायवायुतुल्यगतिर्द्विजः/पुरींमाहिष्मतींप्राप्तोमनःसंतापविक्रमः/सोऽमरावतिसंकाशांहृष्टपुष्टजनावृताम्/प्रविवेशपुरींब्रह्माइन्द्रस्येवामरावतीम्/पादचारमिवादित्यंनिष्पतन्तंसुदुर्दृशम्/ततस्तेप्रत्यभिज्ञायअर्जुनायन्यवेदयन्/पुलस्त्यइतितंश्रुत्वावचनंहैहयाधिपः/शिरस्यञ्जलिमुद्धृत्यप्रत्युद्गच्छद्द्विजोत्तमम्/पुरोहितोऽस्यगृह्यार्घ्यंमधुपर्कंतथाइवच/पुरस्तात्प्रययौराज्ञइन्द्रस्येवबृहस्पतिः/ततस्तमृषिमायान्तमुद्यन्तमिवभास्करम्/अर्जुनोदृश्यसंप्राप्तंववन्देन्द्रइवेश्वरम्/सतस्यमधुपर्कंचपाद्यमर्घ्यंचदापयन्/पुलस्त्यमाहराजेन्द्रोहर्षगद्गदयागिरा/अद्येयममरावत्यातुल्यामाहिष्मतीकृता/अद्याहंतुद्विजेन्द्रेन्द्रयस्मात्पश्यामिदुर्दृशम्/अद्यमेकुशलंदेवअद्यमेकुलमुद्धृतम्/यत्तेदेवगणैर्वन्द्यौवन्देऽहंचरणाविमौ/इदंराज्यमिमेपुत्राइमेदाराइमेवयम्/ब्रह्मन्किंकुर्मकिंकार्यमाज्ञापयतुनोभवान्/तंधर्मेऽग्निषुभृत्येषुशिवंपृष्ट्वाथपार्थिवम्/पुलस्त्योवाचराजानंहैहयानांतदार्जुनम्/राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन/अतुलंतेबलंयेनदशग्रीवस्त्वयाजितः/भयाद्यस्यावतिष्ठेतांनिष्पन्दौसागरानिलौ/सोऽयमद्यत्वयाबद्धःपौत्रोमेऽतीवदुर्जयः/तत्पुत्रकयशःस्फीतंनामविश्रावितंत्वया/मद्वाक्याद्याच्यमानोऽद्यमुञ्चवत्सदशाननम्/पुलस्त्याज्ञांसगृह्याथअकिंचनवचोऽर्जुनः/मुमोचपार्थिवेन्द्रेन्द्रोराक्षसेन्द्रंप्रहृष्टवत्/सतंप्रमुक्त्वात्रिदशारिमर्जुनः॑प्रपूज्यदिव्याभरणस्रगम्बरैः/अहिंसाकंसख्यमुपेत्यसाग्निकं॑प्रणम्यसब्रह्मसुतंगृहंययौ/पुलस्त्येनापिसंगम्यराक्षसेन्द्रःप्रतापवान्/परिष्वङ्गकृतातिथ्योलज्जमानोविसर्जितः/पितामहसुतश्चापिपुलस्त्योमुनिसत्तमः/मोचयित्वादशग्रीवंब्रह्मलोकंजगामसः/एवंसरावणःप्राप्तःकार्तवीर्यात्तुधर्षणात्/पुलस्त्यवचनाच्चापिपुनर्मोक्षमवाप्तवान्/एवंबलिभ्योबलिनःसन्तिराघवनन्दन/नावज्ञापरतःकार्यायइच्छेच्छ्रेयआत्मनः/ततःसराजापिशिताशनानां॑सहस्रबाहोरुपलभ्यमैत्रीम्/पुनर्नराणांकदनंचकार॑चचारसर्वांपृथिवींचदर्पात्/अर्जुनेनविमुक्तस्तुरावणोराक्षसाधिपः/चचारपृथिवींसर्वामनिर्विण्णस्तथाकृतः/राक्षसंवामनुष्यंवाशृणुतेयंबलाधिकम्/रावणस्तंसमासाद्ययुद्धेह्वयतिदर्पितः/ततःकदाचित्किष्किन्धांनगरींवालिपालिताम्/गत्वाह्वयतियुद्धायवालिनंहेममालिनम्/ततस्तंवानरामात्यस्तारस्तारापिताप्रभुः/उवाचरावणंवाक्यंयुद्धप्रेप्सुमुपागतम्/राक्षसेन्द्रगतोवालीयस्तेप्रतिबलोभवेत्/नान्यःप्रमुखतःस्थातुंतवशक्तःप्लवंगमः/चतुर्भ्योऽपिसमुद्रेभ्यःसंध्यामन्वास्यरावण/इमंमुहूर्तमायातिवालीतिष्ठमुहूर्तकम्/एतानस्थिचयान्पश्ययएतेशङ्खपाण्डुराः/युद्धार्थिनामिमेराजन्वानराधिपतेजसा/यद्वामृतरसःपीतस्त्वयारावणराक्षस/तथावालिनमासाद्यतदन्तंतवजीवितम्/अथवात्वरसेमर्तुंगच्छदक्षिणसागरम्/वालिनंद्रक्ष्यसेतत्रभूमिष्ठमिवभास्करम्/सतुतारंविनिर्भर्त्स्यरावणोराक्षसेश्वरः/पुष्पकंतत्समारुह्यप्रययौदक्षिणार्णवम्/तत्रहेमगिरिप्रख्यंतरुणार्कनिभाननम्/रावणोवालिनंदृष्ट्वासंध्योपासनतत्परम्/पुष्पकादवरुह्याथरावणोऽञ्जनसंनिभः/ग्रहीतुंवालिनंतूर्णंनिःशब्दपदमाद्रवत्/यदृच्छयोन्मीलयतावालिनापिसरावणः/पापाभिप्रायवान्दृष्टश्चकारनचसंभ्रमम्/शशमालक्ष्यसिंहोवापन्नगंगरुडोयथा/नचिन्तयतितंवालीरावणंपापनिश्चयम्/जिघृक्षमाणमद्यैनंरावणंपापबुद्धिनम्/कक्षावलम्बिनंकृत्वागमिष्यामिमहार्णवान्/द्रक्ष्यन्त्यरिंममाङ्कस्थंस्रंसितोरुकराम्बरम्/लम्बमानंदशग्रीवंगरुडस्येवपन्नगम्/इत्येवंमतिमास्थायवालीकर्णमुपाश्रितः/जपन्वैनैगमान्मन्त्रांस्तस्थौपर्वतराडिव/तावन्योन्यंजिघृक्षन्तौहरिराक्षसपार्थिवौ/प्रयत्नवन्तौतत्कर्मईहतुर्बलदर्पितौ/हस्तग्राह्यंतुतंमत्वापादशब्देनरावणम्/पराङ्मुखोऽपिजग्राहवालीसर्पमिवाण्डजः/ग्रहीतुकामंतंगृह्यरक्षसामीश्वरंहरिः/खमुत्पपातवेगेनकृत्वाकक्षावलम्बिनम्/सतंपीड्दयमानस्तुवितुदन्तंनखैर्मुहुः/जहाररावणंवालीपवनस्तोयदंयथा/अथतेराक्षसामात्याह्रियमाणेदशानने/मुमोक्षयिषवोघोरारवमाणाह्यभिद्रवन्/अन्वीयमानस्तैर्वालीभ्राजतेऽम्बरमध्यगः/अन्वीयमानोमेघौघैरम्बरस्थइवांशुमान्/तेऽशक्नुवन्तःसंप्राप्तंवालिनंराक्षसोत्तमाः/तस्यबाहूरुवेगेनपरिश्रान्तःपतन्तिच/वालिमार्गादपाक्रामन्पर्वतेन्द्राहिगच्छतः/अपक्षिगणसंपातोवानरेन्द्रोमहाजवः/क्रमशःसागरान्सर्वान्संध्याकालमवन्दत/सभाज्यमानोभूतैस्तुखेचरैःखेचरोहरिः/पश्चिमंसागरंवालीआजगामसरावणः/तत्रसंध्यामुपासित्वास्नात्वाजप्त्वाचवानरः/उत्तरंसागरंप्रायाद्वहमानोदशाननम्/उत्तरेसागरेसंध्यामुपासित्वादशाननम्/वहमानोऽगमद्वालीपूर्वमम्बुमहानिधिम्/तत्रापिसंध्यामन्वास्यवासविःसहरीश्वरः/किष्किन्धाभिमुखोगृह्यरावणंपुनरागमत्/चतुर्ष्वपिसमुद्रेषुसंध्यामन्वास्यवानरः/रावणोद्वहनश्रान्तःकिष्किन्धोपवनेऽपतत्/रावणंतुमुमोचाथस्वकक्षात्कपिसत्तमः/कुतस्त्वमितिचोवाचप्रहसन्रावणंप्रति/विस्मयंतुमहद्गत्वाश्रमलोकनिरीक्षणः/राक्षसेशोहरीशंतमिदंवचनमब्रवीत्/वानरेन्द्रमहेन्द्राभराक्षसेन्द्रोऽस्मिरावणः/युद्धेप्सुरहंसंप्राप्तःसचाद्यासादितस्त्वया/अहोबलमहोवीर्यमहोगम्भीरताचते/येनाहंपशुवद्गृह्यभ्रामितश्चतुरोऽर्णवान्/एवमश्रान्तवद्वीरशीघ्रमेवचवानर/मांचैवोद्वहमानस्तुकोऽन्योवीरःक्रमिष्यति/त्रयाणामेवभूतानांगतिरेषाप्लवंगम/मनोऽनिलसुपर्णानांतववानात्रसंशयः/सोऽहंदृष्टबलस्तुभ्यमिच्छामिहरिपुंगव/त्वयासहचिरंसख्यंसुस्निग्धंपावकाग्रतः/दाराःपुत्राःपुरंराष्ट्रंभोगाच्छादनभोजनम्/सर्वमेवाविभक्तंनौभविष्यतिहरीश्वर/ततःप्रज्वालयित्वाग्निंतावुभौहरिराक्षसौ/भ्रातृत्वमुपसंपन्नौपरिष्वज्यपरस्परम्/अन्योन्यंलम्बितकरौततस्तौहरिराक्षसौ/किष्किन्धांविशतुर्हृष्टौसिंहौगिरिगुहामिव/सतत्रमासमुषितःसुग्रीवइवरावणः/अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः/एवमेतत्पुरावृत्तंवालिनारावणःप्रभो/धर्षितश्चकृतश्चापिभ्रातापावकसंनिधौ/बलमप्रतिमंरामवालिनोऽभवदुत्तमम्/सोऽपितयाविनिर्दग्धःशलभोवह्निनायथा/अपृच्छतततोरामोदक्षिणाशालयंमुनिम्/प्राञ्जलिर्विनयोपेतइदमाहवचोऽर्थवत्/अतुलंबलमेताभ्यांवालिनोरावणस्यच/नत्वेतौहनुमद्वीर्यैःसमावितिमतिर्मम/शौर्यंदाक्ष्यंबलंधैर्यंप्राज्ञतानयसाधनम्/विक्रमश्चप्रभावश्चहनूमतिकृतालयाः/दृष्ट्वोदधिंविषीदन्तींतदैषकपिवाहिनीम्/समाश्वास्यकपीन्भूयोयोजनानांशतंप्लुतः/धर्षयित्वापुरींलङ्कांरावणान्तःपुरंतथा/दृष्ट्वासंभाषिताचापिसीताविश्वासितातथा/सेनाग्रगामन्त्रिसुताःकिंकरारावणात्मजः/एतेहनुमतातत्रएकेनविनिपातिताः/भूयोबन्धाद्विमुक्तेनसंभाषित्वादशाननम्/लङ्काभस्मीकृतातेनपावकेनेवमेदिनी/नकालस्यनशक्रस्यनविष्णोर्वित्तपस्यच/कर्माणितानिश्रूयन्तेयानियुद्धेहनूमतः/एतस्यबाहुवीर्येणलङ्कासीताचलक्ष्मणः/प्राप्तोमयाजयश्चैवराज्यंमित्राणिबान्धवाः/हनूमान्यदिमेनस्याद्वानराधिपतेःसखा/प्रवृत्तमपिकोवेत्तुंजानक्याःशक्तिमान्भवेत्/किमर्थंवालीचैतेनसुग्रीवप्रियकाम्यया/तदावैरेसमुत्पन्नेनदग्धोवीरुधोयथा/नहिवेदितवान्मन्येहनूमानात्मनोबलम्/यद्दृष्टवाञ्जीवितेष्टंक्लिश्यन्तंवानराधिपम्/एतन्मेभगवन्सर्वंहनूमतिमहामुने/विस्तरेणयथातत्त्वंकथयामरपूजित/राघवस्यवचःश्रुत्वाहेतुयुक्तमृषिस्ततः/हनूमतःसमक्षंतमिदंवचनमब्रवीत्/सत्यमेतद्रघुश्रेष्ठयद्ब्रवीषिहनूमतः/नबलेविद्यतेतुल्योनगतौनमतौपरः/अमोघशापैःशापस्तुदत्तोऽस्यऋषिभिःपुरा/नवेदिताबलंयेनबलीसन्नरिमर्दनः/बाल्येऽप्येतेनयत्कर्मकृतंराममहाबल/तन्नवर्णयितुंशक्यमतिबालतयास्यते/यदिवास्तित्वभिप्रायस्तच्छ्रोतुंतवराघव/समाधायमतिंरामनिशामयवदाम्यहम्/सूर्यदत्तवरस्वर्णःसुमेरुर्नामपर्वतः/यत्रराज्यंप्रशास्त्यस्यकेषरीनामवैपिता/तस्यभार्याबभूवेष्टाह्यञ्जनेतिपरिश्रुता/जनयामासतस्यांवैवायुरात्मजमुत्तमम्/शालिशूकसमाभासंप्रासूतेमंतदाञ्जना/फलान्याहर्तुकामावैनिष्क्रान्तागहनेचरा/एषमातुर्वियोगाच्चक्षुधयाचभृशार्दितः/रुरोदशिशुरत्यर्थंशिशुःशरभराडिव/ततोद्यन्तंविवस्वन्तंजपापुष्पोत्करोपमम्/ददृशेफललोभाच्चउत्पपातरविंप्रति/बालार्काभिमुखोबालोबालार्कइवमूर्तिमान्/ग्रहीतुकामोबालार्कंप्लवतेऽम्बरमध्यगः/एतस्मिन्प्लवनानेतुशिशुभावेहनूमति/देवदानवसिद्धानांविस्मयःसुमहानभूत्/नाप्येवंवेगवान्वायुर्गरुडोनमनस्तथा/यथायंवायुपुत्रस्तुक्रमतेऽम्बरमुत्तमम्/यदितावच्छिशोरस्यईदृशौगतिविक्रमौ/यौवनंबलमासाद्यकथंवेगोभविष्यति/तमनुप्लवतेवायुःप्लवन्तंपुत्रमात्मनः/सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः/बहुयोजनसाहस्रंक्रमत्येषततोऽम्बरम्/पितुर्बलाच्चबाल्याच्चभास्कराभ्याशमागतः/शिशुरेषत्वदोषज्ञइतिमत्वादिवाकरः/कार्यंचात्रसमायत्तमित्येवंनददाहसः/यमेवदिवसंह्येषग्रहीतुंभास्करंप्लुतः/तमेवदिवसंराहुर्जिघृक्षतिदिवाकरम्/अनेनचपरामृष्टोरामसूर्यरथोपति/अपक्रान्तस्ततस्त्रस्तोराहुश्चन्द्रार्कमर्दनः/सइन्द्रभवनंगत्वासरोषःसिंहिकासुतः/अब्रवीद्भ्रुकुटींकृत्वादेवंदेवगणैर्वृतम्/बुभुक्षापनयंदत्त्वाचन्द्रार्कौममवासव/किमिदंतत्त्वयादत्तमन्यस्यबलवृत्रहन्/अद्याहंपर्वकालेतुजिघृक्षुःसूर्यमागतः/अथान्योराहुरासाद्यजग्राहसहसारविम्/सराहोर्वचनंश्रुत्वावासवःसंभ्रमान्वितः/उत्पपातासनंहित्वाउद्वहन्काञ्चनस्रजम्/ततःकैलासकूटाभंचतुर्दन्तंमदस्रवम्/शृङ्गारकारिणंप्रांषुंस्वर्णघण्टाट्टहासिनम्/इन्द्रःकरीन्द्रमारुह्यराहुंकृत्वापुरःसरम्/प्रायाद्यत्राभवत्सूर्यःसहानेनहनूमता/अथातिरभसेनागाद्राहुरुत्सृज्यवासवम्/अनेनचसवैदृष्टआधावञ्शैलकूटवत्/ततःसूर्यंसमुत्सृज्यराहुमेवमवेक्ष्यच/उत्पपातपुनर्व्योमग्रहीतुंसिंहिकासुतम्/उत्सृज्यार्कमिमंरामआधावन्तंप्लवंगमम्/दृष्ट्वाराहुःपरावृत्यमुखशेषःपराङ्मुखः/इन्द्रमाशंसमानस्तुत्रातारंसिंहिकासुतः/इन्द्रइन्द्रेतिसंत्रासान्मुहुर्मुहुरभाषत/राहोर्विक्रोशमानस्यप्रागेवालक्षितःस्वरः/श्रुत्वेन्द्रोवाचमांभैषीरयमेनंनिहन्म्यहम्/ऐरावतंततोदृष्ट्वामहत्तदिदमित्यपि/फलंतंहस्तिराजानमभिदुद्रावमारुतिः/तदास्यधावतोरूपमैरावतजिघृक्षया/मुहूर्तमभवद्घोरमिन्द्राग्न्योरिवभास्वरम्/एवमाधावमानंतुनातिक्रुद्धःशचीपतिः/हस्तान्तेनातिमुक्तेनकुलिशेनाभ्यताडयत्/ततोगिरौपपातैषइन्द्रवज्राभिताडितः/पतमानस्यचैतस्यवामोहनुरभज्यत/तस्मिंस्तुपतितेबालेवज्रताडनविह्वले/चुक्रोधेन्द्रायपवनःप्रजानामशिवायच/विण्मूत्राशयमावृत्यप्रजास्वन्तर्गतःप्रभुः/रुरोधसर्वभूतानियथावर्षाणिवासवः/वायुप्रकोपाद्भूतानिनिरुच्छ्वासानिसर्वतः/संधिभिर्भज्यमानानिकाष्ठभूतानिजज्ञिरे/निःस्वधंनिर्वषट्कारंनिष्क्रियंधर्मवर्जितम्/वायुप्रकोपात्त्रैलोक्यंनिरयस्थमिवाबभौ/ततःप्रजाःसगन्धर्वाःसदेवासुरमानुषाः/प्रजापतिंसमाधावन्नसुखार्ताःसुखैषिणः/ऊचुःप्राञ्जलयोदेवादरोदरनिभोदराः/त्वयास्मभगवन्सृष्टाःप्रजानाथचतुर्विधाः/त्वयादत्तोऽयमस्माकमायुषःपवनःपतिः/सोऽस्मान्प्राणेश्वरोभूत्वाकस्मादेषोऽद्यसत्तम/रुरोधदुःखंजनयन्नन्तःपुरइवस्त्रियः/तस्मात्त्वांशरणंप्राप्तावायुनोपहताविभो/वायुसंरोधजंदुःखमिदंनोनुदशत्रुहन्/एतत्प्रजानांश्रुत्वातुप्रजानाथःप्रजापतिः/कारणादितितानुक्त्वाप्रजाःपुनरभाषत/यस्मिन्वःकारणेवायुश्चुक्रोधचरुरोधच/प्रजाःशृणुध्वंतत्सर्वंश्रोतव्यंचात्मनःक्षमम्/पुत्रस्तस्यामरेशेनइन्द्रेणाद्यनिपातितः/राहोर्वचनमाज्ञायराज्ञावःकोपितोऽनिलः/अशरीरःशरीरेषुवायुश्चरतिपालयन्/शरीरंहिविनावायुंसमतांयातिरेणुभिः/वायुःप्राणाःसुखंवायुर्वायुःसर्वमिदंजगत्/वायुनासंपरित्यक्तंनसुखंविन्दतेजगत्/अद्यैवचपरित्यक्तंवायुनाजगदायुषा/अद्यैवेमेनिरुच्छ्वासाःकाष्ठकुड्योपमाःस्थिताः/तद्यामस्तत्रयत्रास्तेमारुतोरुक्प्रदोहिवः/माविनाशंगमिष्यामअप्रसाद्यादितेःसुतम्/ततःप्रजाभिःसहितःप्रजापतिः॑सदेवगन्धर्वभुजंगगुह्यकः/जगामतत्रास्यतियत्रमारुतः॑सुतंसुरेन्द्राभिहतंप्रगृह्यसः/ततोऽर्कवैश्वानरकाञ्चनप्रभं॑सुतंतदोत्सङ्गगतंसदागतेः/चतुर्मुखोवीक्ष्यकृपामथाकरोत्॑सदेवसिद्धर्षिभुजंगराक्षसः/ततःपितामहंदृष्ट्वावायुःपुत्रवधार्दितः/शिशुकंतंसमादायउत्तस्थौधातुरग्रतः/चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः/पादयोर्न्यपतद्वायुस्तिस्रोऽवस्थायवेधसे/तंतुवेदविदाद्यस्तुलम्बाभरणशोभिना/वायुमुत्थाप्यहस्तेनशिशुंतंपरिमृष्टवान्/स्पृष्टमात्रस्ततःसोऽथसलीलंपद्मजन्मना/जलसिक्तंयथासस्यंपुनर्जीवितमाप्तवान्/प्राणवन्तमिमंदृष्ट्वाप्राणोगन्धवहोमुदा/चचारसर्वभूतेषुसंनिरुद्धंयथापुरा/मरुद्रोगविनिर्मुक्ताःप्रजावैमुदिताभवन्/शीतवातविनिर्मुक्ताःपद्मिन्यइवसाम्बुजाः/ततस्त्रियुग्मस्त्रिककुत्त्रिधामात्रिदशार्चितः/उवाचदेवताब्रह्मामारुतप्रियकाम्यया/भोमहेन्द्राग्निवरुणधनेश्वरमहेश्वराः/जानतामपितत्सर्वंहितंवक्ष्यामिश्रूयताम्/अनेनशिशुनाकार्यंकर्तव्यंवोभविष्यति/ददतास्यवरान्सर्वेमारुतस्यास्यतुष्टिदान्/ततःसहस्रनयनःप्रीतिरक्तःशुभाननः/कुशेशयमयींमालांसमुत्क्षिप्येदमब्रवीत्/मत्करोत्सृष्टवज्रेणहनुरस्ययथाक्षतः/नाम्नैषकपिशार्दूलोभविताहनुमानिति/अहमेवास्यदास्यामिपरमंवरमुत्तमम्/अतःप्रभृतिवज्रस्यममावध्योभविष्यति/मार्ताण्डस्त्वब्रवीत्तत्रभगवांस्तिमिरापहः/तेजसोऽस्यमदीयस्यददामिशतिकांकलाम्/यदातुशास्त्राण्यध्येतुंशक्तिरस्यभविष्यति/तदास्यशास्त्रंदास्यामियेनवाग्मीभविष्यति/वरुणश्चवरंप्रादान्नास्यमृत्युर्भविष्यति/वर्षायुतशतेनापिमत्पाशादुदकादपि/यमोऽपिदण्डावध्यत्वमरोगत्वंचनित्यशः/दिशतेऽस्यवरंतुष्टअविषादंचसंयुगे/गदेयंमामिकानैनंसंयुगेषुवधिष्यति/इत्येवंवरदःप्राहतदाह्येकाक्षिपिङ्गलः/मत्तोमदायुधानांचनवध्योऽयंभविष्यति/इत्येवंशंकरेणापिदत्तोऽस्यपरमोवरः/सर्वेषांब्रह्मदण्डानामवध्योऽयंभविष्यति/दीर्घाअयुश्चमहात्माचइतिब्रह्माब्रवीद्वचः/विश्वकर्मातुदृष्ट्वैनंबालसूर्योपमंशिशुम्/शिल्पिनाप्रवरःप्राहवरमस्यमहामतिः/विनिर्मितानिदेवानामायुधानीहयानितु/तेषांसंग्रामकालेतुअवध्योऽयंभविष्यति/ततःसुराणांतुवरैर्दृष्ट्वाह्येनमकंकृतम्/चतुर्मुखस्तुष्टमुखोवायुमाहजगद्गुरुः/अमित्राणांभयकरोमित्राणामभयंकरः/अजेयोभवितातेऽत्रपुत्रोमारुतमारुतिः/रावणोत्सादनार्थानिरामप्रीतिकराणिच/रोमहर्षकराण्येषकर्ताकर्माणिसंयुगे/एवमुक्त्वातमामन्त्र्यमारुतंतेऽमरैःसह/यथागतंययुःसर्वेपितामहपुरोगमाः/सोऽपिगन्धवहःपुत्रंप्रगृह्यगृहमानयत्/अञ्जनायास्तमाख्यायवरंदत्तंविनिःसृतः/प्राप्यरामवरानेषवरदानबलान्वितः/बलेनात्मनिसंस्थेनसोऽपूर्यतयथार्णवः/बलेनापूर्यमाणोहिएषवानरपुंगवः/आश्रमेषुमहर्षीणामपराध्यतिनिर्भयः/स्रुग्भाण्डानग्निहोत्रंचवल्कलानांचसंचयान्/भग्नविच्छिन्नविध्वस्तान्सुशान्तानांकरोत्ययम्/सर्वेषांब्रह्मदण्डानामवध्यंब्रह्मणाकृतम्/जानन्तऋषयस्तंवैक्षमन्तेतस्यनित्यशः/यदाकेषरिणात्वेषवायुनासाञ्जनेनच/प्रतिषिद्धोऽपिमर्यादांलङ्घयत्येववानरः/ततोमहर्षयःक्रुद्धाभृग्वङ्गिरसवंशजाः/शेपुरेनंरघुश्रेष्ठनातिक्रुद्धातिमन्यवः/बाधसेयत्समाश्रित्यबलमस्मान्प्लवंगम/तद्दीर्घकालंवेत्तासिनास्माकंशापमोहितः/ततस्तुहृततेजौजामहर्षिवचनौजसा/एषोश्रमाणिनान्येतिमृदुभावगतश्चरन्/अथऋक्षरजानामवालिसुग्रीवयोःपिता/सर्ववानरराजासीत्तेजसाइवभास्करः/सतुराज्यंचिरंकृत्वावानराणांहरीश्वरः/ततस्त्वर्क्षरजानामकालधर्मेणसंगतः/तस्मिन्नस्तमितेवालीमन्त्रिभिर्मन्त्रकोविदैः/पित्र्येपदेकृतोराजासुग्रीवोवालिनःपदे/सुग्रीवेणसमंत्वस्यअद्वैधंछिद्रवर्जितम्/अहार्यंसख्यमभवदनिलस्ययथाग्निना/एषशापवशादेवनवेदबलमात्मनः/वालिसुग्रीवयोर्वैरंयदारामसमुत्थितम्/नह्येषरामसुग्रीवोभ्राम्यमाणोऽपिवालिना/वेदयानोनचह्येषबलमात्मनिमारुतिः/पराक्रमोत्साहमतिप्रतापैः॑सौशील्यमाधुर्यनयानयैश्च/गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्॑हनूमतःकोऽप्यधिकोऽस्तिलोके/असौपुराव्याकरणंग्रहीष्यन्॑सूर्योन्मुखःपृष्ठगमःकपीन्द्रः/उद्यद्गिरेरस्तगिरिंजगाम॑ग्रन्थंमहद्धारयदप्रमेयः/प्रवीविविक्षोरिवसागरस्य॑लोकान्दिधक्षोरिवपावकस्य/लोकक्षयेष्वेवयथान्तकस्य॑हनूमतःस्थास्यतिकःपुरस्तात्/एषोऽपिचान्येचमहाकपीन्द्राः॑सुग्रीवमैन्दद्विविदाःसनीलाः/सतारतारेयनलाःसरम्भास्॑त्वत्कारणाद्रामसुरैर्हिसृष्टाः/तदेतत्कथितंसर्वंयन्मांत्वंपरिपृच्छसि/हनूमतोबालभावेकर्मैतत्कथितंमया/दृष्टःसंभाषितश्चासिरामगच्छमहेवयम्/एवमुक्त्वागताःसर्वेऋषयस्तेयथागतम्/विमृश्यचततोरामोवयस्यमकुतोभयम्/प्रतर्दनंकाशिपतिंपरिष्वज्येदमब्रवीत्/दर्शिताभवताप्रीतिर्दर्शितंसौहृदंपरम्/उद्योगश्चकृतोराजन्भरतेनत्वयासह/तद्भवानद्यकाशेयींपुरींवाराणसींव्रज/रमणीयांत्वयागुप्तांसुप्राकारांसुतोरणाम्/एतावदुक्त्वाउत्थायकाकुत्स्थःपरमासनात्/पर्यष्वजतधर्मात्मानिरन्तरमुरोगतम्/विसृज्यतंवयस्यंसस्वागतान्पृथिवीपतीन्/प्रहसन्राघवोवाक्यमुवाचमधुराक्षरम्/भवतांप्रीतिरव्यग्रातेजसापरिरक्षिता/धर्मश्चनियतोनित्यंसत्यंचभवतांसदा/युष्माकंचप्रभावेनतेजसाचमहात्मनाम्/हतोदुरात्मादुर्बुद्धीरावणोराक्षसाधिपः/हेतुमात्रमहंतत्रभवतांतेजसांहतः/रावणःसगणोयुद्धेसपुत्रःसहबान्धवः/भवन्तश्चसमानीताभरतेनमहात्मना/श्रुत्वाजनकराजस्यकाननेतनयांहृताम्/उद्युक्तानांचसर्वेषांपार्थिवानांमहात्मनाम्/कालोह्यतीतःसुमहान्गमनेरोचतांमतिः/प्रत्यूचुस्तंचराजानोहर्षेणमहतान्विताः/दिष्ट्यात्वंविजयीरामराज्यंचापिप्रतिष्ठितम्/दिष्ट्याप्रत्याहृतासीतादिष्ट्याशत्रुःपराजितः/एषनःपरमःकामएषानःकीर्तिरुत्तमा/यत्त्वांविजयिनंरामपश्यामोहतशात्रवम्/उपपन्नंचकाकुत्स्थयत्त्वमस्मान्प्रशंससि/प्रशंसार्हाहिजानन्तिप्रशंसांवक्तुमीदृशीम्/आपृच्छामोगमिष्यामोहृदिस्थोनःसदाभवान्/भवेच्चतेमहाराजप्रीतिरस्मासुनित्यदा/तेप्रयातामहात्मानःपार्थिवाःसर्वतोदिशम्/कम्पयन्तोमहींवीराःस्वपुराणिप्रहृष्टवत्/अक्षौहिणीसहस्रैस्तेसमवेतास्त्वनेकशः/हृष्टाःप्रतिगताःसर्वेराघवार्थेसमागताः/ऊचुश्चैवमहीपालाबलदर्पसमन्विताः/ननामरावणंयुद्धेपश्यामःपुरतःस्थितम्/भरतेनवयंपश्चात्समानीतानिरर्थकम्/हताहिराक्षसास्तत्रपार्थिवैःस्युर्नसंशयः/रामस्यबाहुवीर्येणपालितालक्ष्मणस्यच/सुखंपारेसमुद्रस्ययुध्येमविगतज्वराः/एताश्चान्याश्चराजानःकथास्तत्रसहस्रशः/कथयन्तःस्वराष्ट्राणिविविशुस्तेमहारथाः/यथापुराणितेगत्वारत्नानिविविधानिच/रामायप्रियकामार्थमुपहारान्नृपाददुः/अश्वान्रत्नानिवस्त्राणिहस्तिनश्चमदोत्कटान्/चन्दनानिचदिव्यानिदिव्यान्याभरणानिच/भरतोलक्ष्मणश्चैवशत्रुघ्नश्चमहारथः/आदायतानिरत्नानिअयोध्यामगमन्पुनः/आगताश्चपुरींरम्यामयोध्यांपुरुषर्षभाः/ददुःसर्वाणिरत्नानिराघवायमहात्मने/प्रतिगृह्यचतत्सर्वंप्रीतियुक्तःसराघवः/सर्वाणितानिप्रददौसुग्रीवायमहात्मने/विभीषणायचददौयेचान्येऋक्षवानराः/हनूमत्प्रमुखावीराराक्षसाश्चमहाबलाः/तेसर्वेहृष्टमनसोरामदत्तानितान्यथ/शिरोभिर्धारयामासुर्बाहुभिश्चमहाबलाः/पपुश्चैवसुगन्धीनिमधूनिविविधानिच/मांसानिचसुमृष्टानिफलान्यास्वादयन्तिच/एवंतेषांनिवसतांमासःसाग्रोगतस्तदा/मुहूर्तमिवतत्सर्वंरामभक्त्यासमर्थयन्/रेमेरामःसतैःसार्धंवानरैःकामरूपिभिः/राजभिश्चमहावीर्यैराक्षसैश्चमहाबलैः/एवंतेषांययौमासोद्वितीयःशैशिरःसुखम्/वानराणांप्रहृष्टानांराक्षसानांचसर्वशः/तथास्मतेषांवसतामृक्षवानररक्षसाम्/राघवस्तुमहातेजाःसुग्रीवमिदमब्रवीत्/गम्यतांसौम्यकिष्किन्धांदुराधर्षंसुरासुरैः/पालयस्वसहामात्यैराज्यंनिहतकण्टकम्/अङ्गदंचमहाबाहोप्रीत्यापरमयान्वितः/पश्यत्वंहनुमन्तंचनलंचसुमहाबलम्/सुषेणंश्वशुरंशूरंतारंचबलिनांवरम्/कुमुदंचैवदुर्धर्षंनीलंचसुमहाबलम्/वीरंशतबलिंचैवमैन्दंद्विविदमेवच/गजंगवाक्षंगवयंशरभंचमहाबलम्/ऋक्षराजंचदुर्धर्षंजाम्बवन्तंमहाबलम्/पश्यप्रीतिसमायुक्तोगन्धमादनमेवच/येचान्येसुमहात्मानोमदर्थेत्यक्तजीविताः/पश्यत्वंप्रीतिसंयुक्तोमाचैषांविप्रियंकृथाः/एवमुक्त्वाचसुग्रीवंप्रशस्यचपुनःपुनः/विभीषणमथोवाचरामोमधुरयागिरा/तङ्कांप्रशाधिधर्मेणसंमतोह्यसिपार्थिव/पुरस्यराक्षसानांचभ्रातुर्वैश्वरणस्यच/माचबुद्धिमधर्मेत्वंकुर्याराजन्कथंचन/बुद्धिमन्तोहिराजानोध्रुवमश्नन्तिमेदिनीम्/अहंचनित्यशोराजन्सुग्रीवसहितस्त्वया/स्मर्तव्यःपरयाप्रीत्यागच्छत्वंविगतज्वरः/रामस्यभाषितंश्रुत्वाऋष्कवानरराक्षसाः/साधुसाध्वितिकाकुत्स्थंप्रशशंसुःपुनःपुनः/तवबुद्धिर्महाबाहोवीर्यमद्भुतमेवच/माधुर्यंपरमंरामस्वयम्भोरिवनित्यदा/तेषामेवंब्रुवाणानांवानराणांचरक्षसाम्/हनूमत्प्रणतोभूत्वाराघवंवाक्यमब्रवीत्/स्नेहोमेपरमोराजंस्त्वयिनित्यंप्रतिष्ठितः/भक्तिश्चनियतावीरभावोनान्यत्रगच्छति/यावद्रामकथांवीरश्रोष्येऽहंपृथिवीतले/तावच्छरीरेवत्स्यन्तुममप्राणानसंशयः/एवंब्रुवाणंराजेन्द्रोहनूमन्तमथासनात्/उत्थायचपरिष्वज्यवाक्यमेतदुवाचह/एवमेतत्कपिश्रेष्ठभवितानात्रसंशयः/लोकाहियावत्स्थास्यन्तितावत्स्थास्यतिमेकथा/चरिष्यतिकथायावल्लोकानेषाहिमामिका/तावच्छरीरेवत्स्यन्तिप्राणास्तवनसंशयः/ततोऽस्यहारंचन्द्राभंमुच्यकण्ठात्सराघवः/वैदूर्यतरलंस्नेहादाबबन्धेहनूमति/तेनोरसिनिबद्धेनहारेणसमहाकपिः/रराजहेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः/श्रुत्वातुराघवस्यैतदुत्थायोत्थायवानराः/प्रणम्यशिरसापादौप्रजग्मुस्तेमहाबलाः/सुग्रीवश्चैवरामेणपरिष्वक्तोमहाभुजः/विभीषणश्चधर्मात्मानिरन्तरमुरोगतः/सर्वेचतेबाष्पगलाःसाश्रुनेत्राविचेतसः/संमूढाइवदुःखेनत्यजन्तेराघवंतदा/विसृज्यचमहाबाहुरृक्षवानरराक्षसान्/भ्रातृभिःसहितोरामःप्रमुमोदसुखीसुखम्/अथापराह्णसमयेभ्रातृभिःसहराघवः/शुश्रावमधुरांवाणीमन्तरिक्षात्प्रभाषिताम्/सौम्यरामनिरीक्षस्वसौम्येनवदनेनमाम्/कैलासशिखरात्प्राप्तंविद्धिमांपुष्करंप्रभो/तवशासनमाज्ञायगतोऽस्मिधनदंप्रति/उपस्थातुंनरश्रेष्ठसचमांप्रत्यभाषत/निर्जितस्त्वंनरेन्द्रेणराघवेणमहात्मना/निहत्ययुधिदुर्धर्षंरावणंराक्षसाधिपम्/ममापिपरमाप्रीतिर्हतेतस्मिन्दुरात्मनि/रावणेसगणेसौम्यसपुत्रामात्यबान्धवे/सत्वंरामेणलङ्कायांनिर्जितःपरमात्मना/वहसौम्यतमेवत्वमहमाज्ञापयामिते/एषमेपरमःकामोयत्त्वंराघवनन्दनम्/वहेर्लोकस्यसंयानंगच्छस्वविगतज्वरः/तच्छासनमहंज्ञात्वाधनदस्यमहात्मनः/त्वत्सकाशंपुनःप्राप्तःसएवंप्रतिगृह्णमाम्/बाढमित्येवकाकुत्स्थःपुष्पकंसमपूजयत्/लाजाक्षतैश्चपुष्पैश्चगन्धैश्चसुसुगन्धिभिः/गम्यतांचयथाकाममागच्छेस्त्वंयदास्मरे/एवमस्त्वितिरामेणविसृष्टःपुष्पकःपुनः/अभिप्रेतांदिशंप्रायात्पुष्पकःपुष्पभूषितः/एवमन्तर्हितेतस्मिन्पुष्पकेविविधात्मनि/भरतःप्राञ्जलिर्वाक्यमुवाचरघुनन्दनम्/अत्यद्भुतानिदृश्यन्तेत्वयिराज्यंप्रशासति/अमानुषाणांसत्त्वानांव्याहृतानिमुहुर्मुहुः/अनामयाच्चमर्त्यानांसाग्रोमासोगतोह्ययम्/जीर्णानामपिसत्त्वानांमृत्युर्नायातिराघव/पुत्रान्नार्यःप्रसूयन्तेवपुष्मन्तश्चमानवाः/हर्षश्चाभ्यधिकोराजञ्जनस्यपुरवासिनः/कालेचवासवोवर्षंपातयत्यमृतोपमम्/वायवश्चापिवायन्तेस्पर्शवन्तःसुखप्रदाः/ईदृशोनश्चिरंराजाभवत्वितिनरेश्वर/कथयन्तिपुरेपौराजनाजनपदेषुच/एतावाचःसुमधुराभरतेनसमीरिताः/श्रुत्वारामोमुदायुक्तःप्रमुमोदसुखीसुखम्/सविसृज्यततोरामःपुष्पकंहेमभूषितम्/प्रविवेशमहाबाहुरशोकवनिकांतदा/चन्दनागरुचूतैश्चतुङ्गकालेयकैरपि/देवदारुवनैश्चापिसमन्तादुपशोभिताम्/प्रियङ्गुभिःकदम्बैश्चतथाकुरबकैरपि/जम्बूभिःपाटलीभिश्चकोविदारैश्चसंवृताम्/सर्वदाकुसुमैरम्यैःफलवद्भिर्मनोरमैः/चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः/कोकिलैर्भृङ्गराजैश्चनानावर्णैश्चपक्षिभिः/शोभितांशतशश्चित्रैश्चूतवृक्षावतंसकैः/शातकुम्भनिभाःकेचित्केचिदग्निशिखोपमाः/नीलाञ्जननिभाश्चान्येभान्तितत्रस्मपादपाः/दीर्घिकाविविधाकाराःपूर्णाःपरमवारिणा/महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः/फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः/प्राकारैर्विविधाकारैःशोभिताश्चशिलातलैः/तत्रतत्रवनोद्देशेवैदूर्यमणिसंनिभैः/शाद्वलैःपरमोपेताःपुष्पितद्रुमसंयुताः/नन्दनंहियथेन्द्रस्यब्राह्मंचैत्ररथंयथा/तथारूपंहिरामस्यकाननंतन्निवेशितम्/बह्वासनगृहोपेतांलतागृहसमावृताम्/अशोकवनिकांस्फीतांप्रविश्यरघुनन्दनः/आसनेतुशुभाकारेपुष्पस्तबकभूषिते/कुथास्तरणसंवीतेरामःसंनिषसादह/सीतांसंगृह्यबाहुभ्यांमधुमैरेयमुत्तमम्/पाययामासकाकुत्स्थःशचीमिन्द्रोयथामृतम्/मांसानिचविचित्राणिफलानिविविधानिच/रामस्याभ्यवहारार्थंकिंकरास्तूर्णमाहरन्/उपनृत्यन्तिराजानंनृत्यगीतविशारदाः/बालाश्चरूपवत्यश्चस्त्रियःपानवशंगताः/एवंरामोमुदायुक्तासीतांसुरुचिराननाम्/रमयामासवैदेहीमहन्यहनिदेववत्/तथातुरममाणस्यतस्यैवंशिशिरःशुभः/अत्यक्रामन्नरेन्द्रस्यराघवस्यमहात्मनः/पूर्वाह्णेपौरकृत्यानिकृत्वाधर्मेणधर्मवित्/शेषंदिवसभागार्धमन्तःपुरगतोऽभवत्/सीताचदेवकार्याणिकृत्वापौर्वाह्णिकानितु/श्वश्रूणामविशेषेणसर्वासांप्राञ्जलिःस्थिता/ततोराममुपागच्छद्विचित्रबहुभूषणा/त्रिविष्टपेसहस्राक्षमुपविष्टंयथाशची/दृष्ट्वातुराघवःपत्नींकल्याणेनसमन्विताम्/प्रहर्षमतुलंलेभेसाधुसाध्वितिचाब्रवीत्/अपत्यलाभोवैदेहिममायंसमुपस्थितः/किमिच्छसिहितद्ब्रूहिकःकामःक्रियतांतव/प्रहसन्तीतुवैदेहीरामंवाक्यमथाब्रवीत्/तपोवनानिपुण्यानिद्रष्टुमिच्छामिराघव/गङ्गातीरेनिविष्टानिऋषीणांपुण्यकर्मणाम्/फलमूलाशिनांवीरपादमूलेषुवर्तितुम्/एषमेपरमःकामोयन्मूलफलभोजिषु/अप्येकरात्रंकाकुत्स्थवसेयंपुण्यशालिषु/तथेतिचप्रतिज्ञातंरामेणाक्लिष्टकर्मणा/विस्रब्धाभववैदेहिश्वोगमिष्यस्यसंशयम्/एवमुक्त्वातुकाकुत्स्थोमैथिलींजनकात्मजाम्/मध्यकक्षान्तरंरामोनिर्जगामसुहृद्वृतः/तत्रोपविष्टंराजानमुपासन्तेविचक्षणाः/कथानांबहुरूपाणांहास्यकाराःसमन्ततः/विजयोमधुमत्तश्चकाश्यपःपिङ्गलःकुशः/सुराजिःकालियोभद्रोदन्तवक्रःसमागधः/एतेकथाबहुविधापरिहाससमन्विताः/कथयन्तिस्मसंहृष्टाराघवस्यमहात्मनः/ततःकथायांकस्यांचिद्राघवःसमभाषत/काःकथानगरेभद्रवर्तन्तेविषयेषुच/मामाश्रितानिकान्याहुःपौरजानपदाजनाः/किंचसीतांसमाश्रित्यभरतंकिंनुलक्ष्मणम्/किंनुशत्रुघ्नमाश्रित्यकैकेयींमातरंचमे/वक्तव्यतांचराजानोनवेराज्येव्रजन्तिहि/एवमुक्तेतुरामेणभद्रःप्राञ्जलिरब्रवीत्/स्थिताःकथाःशुभाराजन्वर्तन्तेपुरवासिनाम्/अयंतुविजयःसौम्यदशग्रीववधाश्रितः/भूयिष्ठंस्वपुरेपौरैःकथ्यतेपुरुषर्षभ/एवमुक्तस्तुभद्रेणराघवोवाक्यमब्रवीत्/कथयस्वयथातथ्यंसर्वंनिरवशेषतः/शुभाशुभानिवाक्यानियान्याहुःपुरवासिनः/श्रुत्वेदानींशुभंकुर्यांनकुर्यामशुभानिच/कथयस्वचविस्रब्धोनिर्भयोविगतज्वरः/कथयन्तेयथापौराजनाजनपदेषुच/राघवेणैवमुक्तस्तुभद्रःसुरुचिरंवचः/प्रत्युवाचमहाबाहुंप्राञ्जलिःसुसमाहितः/शृणुराजन्यथापौराःकथयन्तिशुभाशुभम्/चत्वरापणरथ्यासुवनेषूपवनेषुच/दुष्करंकृतवान्रामःसमुद्रेसेतुबन्धनम्/अकृतंपूर्वकैःकैश्चिद्देवैरपिसदानवैः/रावणश्चदुराधर्षोहतःसबलवाहनः/वानराश्चवशंनीताऋष्काश्चसहराक्षसैः/हत्वाचरावणंयुद्धेसीतामाहृत्यराघवः/अमर्षंपृष्ठतःकृत्वास्ववेश्मपुनरानयत्/कीदृशंहृदयेतस्यसीतासंभोगजंसुखम्/अङ्कमारोप्यहिपुरारावणेनबलाद्धृताम्/लङ्कामपिपुनर्नीतामशोकवनिकांगताम्/रक्षसांवशमापन्नांकथंरामोनकुत्सते/अस्माकमपिदारेषुसहनीयंभविष्यति/यथाहिकुरुतेराजाप्रजातमनुवर्तते/एवंबहुविधावाचोवदन्तिपुरवासिनः/नगरेषुचसर्वेषुराजञ्जनपदेषुच/तस्यैतद्भाषितंश्रुत्वाराघवःपरमार्तवत्/उवाचसर्वान्सुहृदःकथमेतन्निवेद्यताम्/सर्वेतुशिरसाभूमावभिवाद्यप्रणम्यच/प्रत्यूचूराघवंदीनमेवमेतन्नसंशयः/श्रुत्वातुवाक्यंकाकुत्स्थःसर्वेषांसमुदीरितम्/विसर्जयामासतदासर्वांस्ताञ्शत्रुतापनः/विसृज्यतुसुहृद्वर्गंबुद्ध्यानिश्चित्यराघवः/समीपेद्वाःस्थमासीनमिदंवचनमब्रवीत्/शीघ्रमानयसौमित्रिंलक्ष्मणंशुभलक्षणम्/भरतंचमहाबाहुंशत्रुघ्नंचापराजितम्/रामस्यभाषितंश्रुत्वाद्वाःस्थोमूर्ध्निकृताञ्जलिः/लक्ष्मणस्यगृहंगत्वप्रविवेशानिवारितः/उवाचचतदावाक्यंवर्धयित्वाकृताञ्जलिः/द्रष्टुमिच्छसिराजात्वांगम्यतांतत्रमाचिरम्/बाढमित्येवसौमित्रिःश्रुत्वाराघवशासनम्/प्राद्रवद्रथमारुह्यराघवस्यनिवेशनम्/प्रयान्तंलक्ष्मणंदृष्ट्वाद्वाःस्थोभरतमन्तिकात्/उवाचप्राञ्जलिर्वाक्यंराजात्वांद्रष्टुमिच्छति/भरतस्तुवचःश्रुत्वाद्वाःस्थाद्रामसमीरितम्/उत्पपातासनात्तूर्णंपद्भ्यामेवततोऽगमत्/दृष्ट्वाप्रयान्तंभरतंत्वरमाणःकृताञ्जलिः/शत्रुघ्नभवनंगत्वाततोवाक्यंजगादह/एह्यागच्छरघुश्रेष्ठराजात्वांद्रष्टुमिच्छति/गतोहिलक्ष्मणःपूर्वंभरतश्चमहायशाः/श्रुत्वातुवचनंतस्यशत्रुघ्नोरामशासनम्/शिरसावन्द्यधरणींप्रययौयत्रराघवः/कुमारानागताञ्श्रुत्वाचिन्ताव्याकुलितेन्द्रियः/अवाक्शिरादीनमनाद्वाःस्थंवचनमब्रवीत्/प्रवेशयकुमारांस्त्वंमत्समीपंत्वरान्वितः/एतेषुजीवितंमह्यमेतेप्राणाबहिश्चराः/आज्ञप्तास्तुनरेन्द्रेणकुमाराःशुक्लवाससः/प्रह्वाःप्राञ्जलयोभूत्वाविविशुस्तेसमाहिताः/तेतुदृष्ट्वामुखंतस्यसग्रहंशशिनंयथा/संध्यागतमिवादित्यंप्रभयापरिवर्जितम्/बाष्पपूर्णेचनयनेदृष्ट्वरामस्यधीमतः/हतशोभांयथापद्मंमुखंवीक्ष्यचतस्यते/ततोऽभिवाद्यत्वरिताःपादौरामस्यमूर्धभिः/तस्थुःसमाहिताःसर्वेरामश्चाश्रूण्यवर्तयत्/तान्परिष्वज्यबाहुभ्यामुत्थाप्यचमहाभुजः/आसनेष्वाध्वमित्युक्त्वाततोवाक्यंजगादह/भवन्तोममसर्वस्वंभवन्तोममजीवितम्/भवद्भिश्चकृतंराज्यंपालयामिनरेश्वराः/भवन्तःकृतशास्त्रार्थाबुद्धौचपरिनिष्ठिताः/संभूयचमदर्थोऽयमन्वेष्टव्योनरेश्वराः/तेषांसमुपविष्टानांसर्वेषांदीनचेतसाम्/उवाचवाक्यंकाकुत्स्थोमुखेनपरिशुष्यता/सर्वेशृणुतभद्रंवोमाकुरुध्वंमनोऽन्यथा/पौराणांममसीतायांयादृशीवर्ततेकथा/पौरापवादःसुमहांस्तथाजनपदस्यच/वर्ततेमयिबीभत्सःसमेमर्माणिकृन्तति/अहंकिलकुलेजतइक्ष्वाकूणांमहात्मनाम्/सीतांपापसमाचारामानयेयंकथंपुरे/जानासिहियथासौम्यदण्डकेविजनेवने/रावणेनहृतासीतासचविध्वंसितोमया/प्रत्यक्षंतवसौमित्रेदेवनांहव्यवाहनः/अपापांमैथिलीमाहवायुश्चाकाशगोचरः/चन्द्रादित्यौचशंसेतेसुराणांसंनिधौपुरा/ऋषीणांचैवसर्वेषामपापांजनकात्मजाम्/एवंशुद्धसमाचारादेवगन्धर्वसंनिधौ/लङ्काद्वीपेमहेन्द्रेणममहस्तेनिवेशिता/अन्तरात्माचमेवेत्तिसीतांशुद्धांयशस्विनीम्/ततोगृहीत्वावैदेहीमयोध्यामहमागतः/अयंतुमेमहान्वादःशोकश्चहृदिवर्तते/पौरापवादःसुमहांस्तथाजनपदस्यच/अकीर्तिर्यस्यगीयेतलोकेभूतस्यकस्यचित्/पतत्येवाधमांल्लोकान्यावच्छब्दःसकीर्त्यते/अकीर्तिर्निन्द्यतेदैवैःकीर्तिर्देवेषुपूज्यते/कीर्त्यर्थंचसमारम्भःसर्वएवमहात्मनाम्/अप्यहंजीवितंजह्यांयुष्मान्वापुरुषर्षभाः/अपवादभयाद्भीताःकिंपुनर्जनकात्मजाम्/तस्माद्भवन्तःपश्यन्तुपतितंशोकसागरे/नहिपश्याम्यहंभूयःकिंचिद्दुःखमतोऽधिकम्/श्वस्त्वंप्रभातेसौमित्रेसुमन्त्राधिष्ठितंरथम्/आरुह्यसीतामारोप्यविषयान्तेसमुत्सृज/गङ्गायास्तुपरेपारेवाल्मीकेःसुमहात्मनः/आश्रमोदिव्यसंकाशस्तमसातीरमाश्रितः/तत्रैनांविजनेकक्षेविसृज्यरघुनन्दन/शीघ्रमागच्छसौमित्रेकुरुष्ववचनंमम/नचास्मिप्रतिवक्तव्यःसीतांप्रतिकथंचन/अप्रीतिःपरमामह्यंभवेत्तुप्रतिवारिते/शापिताश्चमयायूयंभुजाभ्यांजीवितेनच/येमांवाक्यान्तरेब्रूयुरनुनेतुंकथंचन/मानयन्तुभवन्तोमांयदिमच्छासनेस्थिताः/इतोऽद्यनीयतांसीताकुरुष्ववचनंमम/पूर्वमुक्तोऽहमनयागङ्गातीरेमहाश्रमान्/पश्येयमितितस्याश्चकामःसंवर्त्यतामयम्/एवमुक्त्वातुकाकुत्स्थोबाष्पेणपिहितेक्षणः/प्रविवेशसधर्मात्माभ्रातृभिःपरिवारितः/ततोरजन्यांव्युष्टायांलक्ष्मणोदीनचेतनः/सुमन्त्रमब्रवीद्वाक्यंमुखेनपरिशुष्यता/सारथेतुरगाञ्शीघ्रंयोजयस्वरथोत्तमे/स्वास्तीर्णंराजभवनात्सीतायाश्चासनंशुभम्/सीताहिराजभवनादाश्रमंपुण्यकर्मणाम्/मयानेतामहर्षीणांशीघ्रमानीयतांरथः/सुमन्त्रस्तुतथेत्युक्त्वायुक्तंपरमवाजिभिः/रथंसुरुचिरप्रख्यंस्वास्तीर्णंसुखशय्यया/आदायोवाचसौमित्रिंमित्राणांहर्षवर्धनम्/रथोऽयंसमनुप्राप्तोयत्कार्यंक्रियतांप्रभो/एवमुक्तःसुमन्त्रेणराजवेश्मसलक्ष्मणः/प्रविश्यसीतामासाद्यव्याजहारनरर्षभः/गङ्गातीरेमयादेविमुनीनामाश्रमेशुभे/शीघ्रंगत्वोपनेयासिशासनात्पार्थिवस्यनः/एवमुक्तातुवैदेहीलक्ष्मणेनमहात्मना/प्रहर्षमतुलंलेभेगमनंचाभ्यरोचयत्/वासांसिचमहार्हाणिरत्नानिविविधानिच/गृहीत्वातानिवैदेहीगमनायोपचक्रमे/इमानिमुनिपत्नीनांदास्याम्याभरणान्यहम्/सौमित्रिस्तुतथेत्युक्त्वारथमारोप्यमैथिलीम्/प्रययौशीघ्रतुरगोरामस्याज्ञामनुस्मरन्/अब्रवीच्चतदासीतालक्ष्मणंलक्ष्मिवर्धनम्/अशुभानिबहून्यद्यपश्यामिरघुनन्दन/नयनंमेस्फुरत्यद्यगात्रोत्कम्पश्चजायते/हृदयंचैवसौमित्रेअस्वस्थमिवलक्षये/औत्सुक्यंपरमंचापिअधृतिश्चपरामम/शून्यामिवचपश्यामिपृथिवींपृथुलोचन/अपिस्वस्तिभवेत्तस्यभ्रातुस्तेभ्रातृभिःसह/श्वश्रूणांचैवमेवीरसर्वासामविशेषतः/पुरेजनपदेचैवकुशलंप्राणिनामपि/इत्यञ्जलिकृतासीतादेवताअभ्ययाचत/लक्ष्मणोऽर्थंतुतंश्रुत्वाशिरसावन्द्यमैथिलीम्/शिवमित्यब्रवीद्धृष्टोहृदयेनविशुष्यता/ततोवासमुपागम्यगोमतीतीरआश्रमे/प्रभातेपुनरुत्थायसौमित्रिःसूतमब्रवीत्/योजयस्वरथंशीघ्रमद्यभागीरथीजलम्/शिरसाधारयिष्यामित्र्यम्बकःपर्वतेयथा/सोऽश्वान्विचारयित्वाशुरथेयुक्त्वामनोजवान्/आरोहस्वेतिवैदेहींसूतःप्राञ्जलिरब्रवीत्/सातुसूतस्यवचनादारुरोहरथोत्तमम्/सीतासौमित्रिणासार्धंसुमित्रेणचधीमता/अथार्धदिवसंगत्वाभागीरथ्याजलाशयम्/निरीक्ष्यलक्ष्मणोदीनःप्ररुरोदमहास्वनम्/सीतातुपरमायत्तादृष्ट्वालक्ष्मणमातुरम्/उवाचवाक्यंधर्मज्ञकिमिदंरुद्यतेत्वया/जाह्वनीतीरमासाद्यचिराभिलषितंमम/हर्षकालेकिमर्थंमांविषादयसिलक्ष्मण/नित्यंत्वंरामपादेषुवर्तसेपुरुषर्षभ/कच्चिद्विनाकृतस्तेनद्विरात्रेशोकमागतः/ममापिदयितोरामोजीवितेनापिलक्ष्मण/नचाहमेवंशोचामिमैवंत्वंबालिशोभव/तारयस्वचमांगङ्गांदर्शयस्वचतापसान्/ततोधनानिवासांसिदास्याम्याभरणानिच/ततःकृत्वामहर्षीणांयथार्हमभिवादनम्/तत्रचैकांनिशामुष्ययास्यामस्तांपुरींपुनः/तस्यास्तद्वचनंश्रुत्वाप्रमृज्यनयनेशुभे/तितीर्षुर्लक्ष्मणोगङ्गांशुभांनावमुपाहरत्/अथनावंसुविस्तीर्णांनैषादींराघवानुजः/आरुरोहसमायुक्तांपूर्वमारोप्यमैथिलीम्/सुमन्त्रंचैवसरथंस्थीयतामितिलक्ष्मणः/उवाचशोकसंतप्तःप्रयाहीतिचनाविकम्/ततस्तीरमुपागम्यभागीरथ्याःसलक्ष्मणः/उवाचमैथिलींवाक्यंप्राञ्जलिर्बाष्पगद्गदः/हृद्गतंमेमहच्छल्यंयदस्म्यार्येणधीमता/अस्मिन्निमित्तेवैदेहिलोकस्यवचनीकृतः/श्रेयोहिमरणंमेऽद्यमृत्योर्वायत्परंभवेत्/नचास्मिन्नीदृशेकार्येनियोज्योलोकनिन्दिते/प्रसीदनचमेरोषंकर्तुमर्हसिसुव्रते/इत्यञ्जलिकृतोभूमौनिपपातसलक्ष्मणः/रुदन्तंप्राञ्जलिंदृष्ट्वाकाङ्क्षन्तंमृत्युमात्मनः/मैथिलीभृशसंविग्नालक्ष्मणंवाक्यमब्रवीत्/किमिदंनावगच्छामिब्रूहितत्त्वेनलक्ष्मण/पश्यामित्वांचनस्वथमपिक्षेमंमहीपतेः/शापितोऽसिनरेन्द्रेणयत्त्वंसंतापमात्मनः/तद्ब्रूयाःसंनिधौमह्यमहमाज्ञापयामिते/वैदेह्याचोद्यमानस्तुलक्ष्मणोदीनचेतनः/अवाङ्मुखोबाष्पगलोवाक्यमेतदुवाचह/श्रुत्वापरिषदोमध्येअपवादंसुदारुणम्/पुरेजनपदेचैवत्वत्कृतेजनकात्मजे/नतानिवचनीयानिमयादेवितवाग्रतः/यानिराज्ञाहृदिन्यस्तान्यमर्षःपृष्ठतःकृतः/सात्वांत्यक्तानृपतिनानिर्दोषाममसंनिधौ/पौरापवादभीतेनग्राह्यंदेविनतेऽन्यथा/आश्रमान्तेषुचमयात्यक्तव्यात्वंभविष्यसि/राज्ञःशासनमाज्ञायतवैवंकिलदौर्हृदम्/तदेतज्जाह्नवीतीरेब्रह्मर्षीणांतपोवनम्/पुण्यंचरमणीयंचमाविषादंकृथाःशुभे/राज्ञोदशरथस्यैषपितुर्मेमुनिपुंगवः/सखापरमकोविप्रोवाल्मीकिःसुमहायशाः/पादच्छायामुपागम्यसुखमस्यमहात्मनः/उपवासपरैकाग्रावसत्वंजनकात्मजे/पतिव्रतात्वमास्थायरामंकृत्वासदाहृदि/श्रेयस्तेपरमंदेवितथाकृत्वाभविष्यति/लक्ष्मणस्यवचःश्रुत्वादारुणंजनकात्मजा/परंविषादमागम्यवैदेहीनिपपातह/सामुहूर्तमिवासंज्ञाबाष्पव्याकुलितेक्षणा/लक्ष्मणंदीनयावाचाउवाचजनकात्मजा/मामिकेयंतनुर्नूनंसृष्टादुःखायलक्ष्मण/धात्रायस्यास्तथामेऽद्यदुःखमूर्तिःप्रदृश्यते/किंनुपापंकृतंपूर्वंकोवादारैर्वियोजितः/याहंशुद्धसमाचारात्यक्तानृपतिनासती/पुराहमाश्रमेवासंरामपादानुवर्तिनी/अनुरुध्यापिसौमित्रेदुःखेविपरिवर्तिनी/साकथंह्याश्रमेसौम्यवत्स्यामिविजनीकृता/आख्यास्यामिचकस्याहंदुःखंदुःखपरायणा/किंचवक्ष्यामिमुनिषुकिंमयापकृतंनृपे/कस्मिन्वाकारणेत्यक्ताराघवेणमहात्मना/नखल्वद्यैवसौमित्रेजीवितंजाह्नवीजले/त्यजेयंराजवंशस्तुभर्तुर्मेपरिहास्यते/यथाज्ञांकुरुसौमित्रेत्यजमांदुःखभागिनीम्/निदेशेस्थीयतांराज्ञःशृणुचेदंवचोमम/श्वश्रूणामविशेषेणप्राञ्जलिःप्रग्रहेणच/शिरसावन्द्यचरणौकुशलंब्रूहिपार्थिवम्/यथाभ्रातृषुवर्तेथास्तथापौरेषुनित्यदा/परमोह्येषधर्मःस्यादेषाकीर्तिरनुत्तमा/यत्त्वंपौरजनंराजन्धर्मेणसमवाप्नुयाः/अहंतुनानुशोचामिस्वशरीरंनरर्षभ/यथापवादंपौराणांतथैवरघुनन्दन/एवंब्रुवन्त्यांसीतायांलक्ष्मणोदीनचेतनः/शिरसाधरणींगत्वाव्याहर्तुंनशशाकह/प्रदक्षिणंचकृत्वासरुदन्नेवमहास्वनम्/आरुरोहपुनर्नावंनाविकंचाभ्यचोदयत्/सगत्वाचोत्तरंकूलंशोकभारसमन्वितः/संमूढइवदुःखेनरथमध्यारुहद्द्रुतम्/मुहुर्मुहुरपावृत्यदृष्ट्वासीतामनाथवत्/वेष्टन्तींपरतीरस्थांलक्ष्मणःप्रययावथ/दूरस्थंरथमालोक्यलक्ष्मणंचमुहुर्मुहुः/निरीक्षमाणामुद्विग्नांसीतांशोकःसमाविशत्/सादुःखभारावनतातपस्विनी॑यशोधरानाथमपश्यतीसती/रुरोदसाबर्हिणनादितेवने॑महास्वनंदुःखपरायणासती/सीतांतुरुदतींदृष्ट्वायेतत्रमुनिदारकाः/प्राद्रवन्यत्रभगवानास्तेवाल्मीकिरग्र्यधीः/अभिवाद्यमुनेःपादौमुनिपुत्रामहर्षये/सर्वेनिवेदयामासुस्तस्यास्तुरुदितस्वनम्/अदृष्टपूर्वाभगवन्कस्याप्येषामहात्मनः/पत्नीश्रीरिवसंमोहाद्विरौतिविकृतस्वरा/भगवन्साधुपश्येमांदेवतामिवखाच्च्युताम्/नह्येनांमानुषींविद्मःसत्क्रियास्याःप्रयुज्यताम्/तेषांतद्वचनंश्रुत्वाबुद्ध्यानिश्चित्यधर्मवित्/तपसालब्धचक्षुष्मान्प्राद्रवद्यत्रमैथिली/तंतुदेशमभिप्रेत्यकिंचित्पद्भ्यांमहामुनिः/अर्घ्यमादायरुचिरंजाह्वनीतीरमाश्रितः/ददर्शराघवस्येष्टांपत्नींसीतामनाथवत्/तांसितांशोकभारार्तांवाल्मीकिर्मुनिपुंगवः/उवाचमधुरांवाणींह्लादयन्निवतेजसा/स्नुषादशराथस्यत्वंरामस्यमहिषीसती/जनकस्यसुताराज्ञःस्वागतंतेपतिव्रते/आयान्त्येवासिविज्ञातामयाधर्मसमाधिना/कारणंचैवसर्वंमेहृदयेनोपलक्षितम्/अपापांवेद्मिसीतेत्वांतपोलब्धेनचक्षुषा/विशुद्धभावावैदेहिसाम्प्रतंमयिवर्तसे/आश्रमस्याविदूरेमेतापस्यस्तपसिस्थिताः/तास्त्वांवत्सेयथावत्संपालयिष्यन्तिनित्यशः/इदमर्घ्यंप्रतीच्छत्वंविस्रब्धाविगतज्वरा/यथास्वगृहमभ्येत्यविषादंचैवमाकृथाः/श्रुत्वातुभाषितंसीतामुनेःपरममद्भुतम्/शिरसावन्द्यचरणौतथेत्याहकृताञ्जलिः/तंप्रयान्तंमुनिंसीताप्राञ्जलिःपृष्ठतोऽन्वगात्/अन्वयाद्यत्रतापस्योधर्मनित्याःसमाहिताः/तंदृष्ट्वामुनिमायान्तंवैदेह्यानुगतंतदा/उपाजग्मुर्मुदायुक्तावचनंचैदमब्रुवन्/स्वागतंतेमुनिश्रेष्ठचिरस्यागमनंप्रभो/अभिवादयामःसर्वास्त्वामुच्यतांकिंचकुर्महे/तासांतद्वचनंश्रुत्वावाल्मीकिरिदमब्रवीत्/सीतेयंसमनुप्राप्तापत्नीरामस्यधीमतः/स्नुषादशरधस्यैषाजनकस्यसुतासती/अपापापतिनात्यक्तापरिपाल्यामयासदा/इमांभवत्यःपश्यन्तुस्नेहेनपरमेणह/गौरवान्ममवाक्यस्यपूज्यावोऽस्तुविशेषतः/मुहुर्मुहुश्चवैदेहींपरिसान्त्व्यमहायशाः/स्वमाश्रमंशिष्यवृतःपुनरायान्महातपाः/दृष्ट्वातुमैथिलींसीतामाश्रमंसंरवेशिताम्/संतापमकरोद्घोरंलक्ष्मणोदीनचेतनः/अब्रवीच्चमहातेजाःसुमन्त्रंमन्त्रसारथिम्/सीतासंतापजंदुःखंपश्यरामस्यधीमतः/अतोदुःखतरंकिंनुराघवस्यभविष्यति/पत्नींशुद्धसमाचारांविसृज्यजनकात्मजाम्/व्यक्तंदैवादहंमन्येराघवस्यविनाभवम्/वैदेह्यासारथेसार्धंदैवंहिदुरतिक्रमम्/योहिदेवान्सगन्धर्वानसुरान्सहराक्षसैः/निहन्याद्राघवःक्रुद्धःसदैवमनुवर्तते/पुराममपितुर्वाक्यैर्दण्डकेविजनेवने/उषितोनववर्षाणिपञ्चचैवसुदारुणे/ततोदुःखतरंभूयःसीतायाविप्रवासनम्/पौराणांवचनंश्रुत्वानृशंसंप्रतिभातिमे/कोनुधर्माश्रयःसूतकर्मण्यस्मिन्यशोहरे/मैथिलींप्रतिसंप्राप्तःपौरैर्हीनार्थवादिभिः/एताबहुविधावाचःश्रुत्वालक्ष्मणभाषिताः/सुमन्त्रःप्राञ्जलिर्भूत्वावाक्यमेतदुवाचह/नसंतापस्त्वयाकार्यःसौमित्रेमैथिलींप्रति/दृष्टमेतत्पुराविप्रैःपितुस्तेलक्ष्मणाग्रतः/भविष्यतिदृढंरामोदुःखप्रायोऽल्पसुख्यवान्/त्वांचैवमैथिलींचैवशत्रुघ्नभरतौतथा/संत्यजिष्यतिधर्मात्माकालेनमहतामहान्/नत्विदंत्वयिवक्तव्यंसौमित्रेभरतेऽपिवा/राज्ञावोऽव्याहृतंवाक्यंदुर्वासायदुवाचह/महाराजसमीपेचममचैवनरर्षभ/ऋषिणाव्याहृतंवाक्यंवसिष्ठस्यचसंनिधौ/ऋषेस्तुवचनंश्रुत्वामामाहपुरुषर्षभः/सूतनक्वचिदेवंतेवक्तव्यंजनसंनिधौ/तस्याहंलोकपालस्यवाक्यंतत्सुसमाहितः/नैवजात्वनृतंकुर्यामितिमेसौम्यदर्शनम्/सर्वथानास्त्यवक्तव्यंमयासौम्यतवाग्रतः/यदितेश्रवणेश्रद्धाश्रूयतांरघुनन्दन/यद्यप्यहंनरेन्द्रेणरहस्यंश्रावितःपुरा/तच्चाप्युदाहरिष्यामिदैवंहिदुरतिक्रमम्/तच्छ्रुत्वाभाषितंतस्यगम्भीरार्थपदंमहत्/तथ्यंब्रूहीतिसौमित्रिःसूतंवाक्यमथाब्रवीत्/तथासंचोदितःसूतोलक्ष्मणेनमहात्मना/तद्वाक्यमृषिणाप्रोक्तंव्याहर्तुमुपचक्रमे/पुरानाम्नाहिदुर्वासाअत्रेःपुत्रोमहामुनिः/वसिष्ठस्याश्रमेपुण्येसवार्षिक्यमुवासह/तमाश्रमंमहातेजाःपितातेसुमहायशाः/पुरोधसंमहात्मानंदिदृक्षुरगमत्स्वयम्/सदृष्ट्वासूर्यसंकाशंज्वलन्तमिवतेजसा/उपविष्टंवसिष्ठस्यसव्येपार्श्वेमहामुनिम्/तौमुनीतापसश्रेष्ठौविनीतस्त्वभ्यवादयत्/सताभ्यांपूजितोराजास्वागतेनासनेनच/पाद्येनफलमूलैश्चसोऽप्यास्तेमुनिभिःसह/तेषांतत्रोपविष्टानांतास्ताःसुमधुराःकथाः/बभूवुःपरमर्षीणांमध्यादित्यगतेऽहनि/ततःकथायांकस्यांचित्प्राञ्जलिःप्रग्रहोनृपः/उवाचतंमहात्मानमत्रेःपुत्रंतपोधनम्/भगवन्किंप्रमाणेनममवंशोभविष्यति/किमायुश्चहिमेरामःपुत्राश्चान्येकिमायुषः/रामस्यचसुतायेस्युस्तेषामायुःकियद्भवेत्/काम्ययाभगवन्ब्रूहिवंशस्यास्यगतिंमम/तच्छ्रुत्वाव्याहृतंवाक्यंराज्ञोदशरथस्यतु/दुर्वासाःसुमहातेजाव्याहर्तुमुपचक्रमे/अयोध्यायाःपतीरामोदीर्घकालंभविष्यति/सुखिनश्चसमृद्धाश्चभविष्यन्त्यस्यचानुजाः/कस्मिंश्चित्करणेत्वांचमैथिलींचयशस्विनीम्/संत्यजिष्यतिधर्मात्माकालेनमहताकिल/दशवर्षसहस्रणिदशवर्षशतानिच/रामोराज्यमुपासित्वाब्रह्मलोकंगमिष्यति/समृद्धैर्हयमेधैश्चइष्ट्वापरपुरंजयः/राजवंशांश्चकाकुत्स्थोबहून्संस्थापयिष्यति/ससर्वमखिलंराज्ञोवंशस्यास्यगतागतम्/आख्यायसुमहातेजास्तूष्णीमासीन्महाद्युतिः/तूष्णींभूतेमुनौतस्मिन्राजादशरथस्तदा/अभिवाद्यमहात्मानौपुनरायात्पुरोत्तमम्/एतद्वचोमयातत्रमुनिनाव्याहृतंपुरा/श्रुतंहृदिचनिक्षिप्तंनान्यथातद्भविष्यति/एवंगतेनसंतापंगन्तुमर्हसिराघव/सीतार्थेराघवार्थेवादृढोभवनरोत्तम/तच्छ्रुत्वाव्याहृतंवाक्यंसूतस्यपरमाद्भुतम्/प्रहर्षमतुलंलेभेसाधुसाध्वितिचाब्रवीत्/तयोःसंवदतोरेवंसूतलक्ष्मणयोःपथि/अस्तमर्कोगतोवासंगोमत्यांतावथोषतुः/तत्रतांरजनीमुष्यगोमत्यांरघुनन्दनः/प्रभातेपुनरुत्थायलक्ष्मणःप्रययौतदा/ततोऽर्धदिवसेप्राप्तेप्रविवेशमहारथः/अयोध्यांरत्नसंपूर्णांहृष्टपुष्टजनावृताम्/सौमित्रिस्तुपरंदैन्यंजगामसुमहामतिः/रामपादौसमासाद्यवक्ष्यामिकिमहंगतः/तस्यैवंचिन्तयानस्यभवनंशशिसंनिभम्/राजस्यपरमोदारंपुरस्तात्समदृश्यत/राज्ञस्तुभवनद्वारिसोऽवतीर्यनरोत्तमः/अवान्मुखोदीनमनाःप्राविवेशानिवारितः/सदृष्ट्वाराघवंदीनमासीनंपरमासने/नेत्राभ्यामश्रुपूर्णाभ्यांददर्शाग्रजमग्रतः/जग्राहचरणौतस्यलक्ष्मणोदीनचेतनः/उवाचदीनयावाचाप्राञ्जलिःसुसमाहितः/आर्यस्याज्ञांपुरस्कृत्यविसृज्यजनकात्मजाम्/गङ्गातीरेयथोद्दिष्टेवाल्मीकेराश्रमेशुभे/पुनरस्म्यागतोवीरपादमूलमुपासितुम्/माशुचःपुरुषव्याघ्रकालस्यगतिरीदृशी/त्वद्विधानहिशोचन्तिसत्त्ववन्तोमनस्विनः/सर्वेक्षयान्तानिचयाःपतनान्ताःसमुच्छ्रयाः/संयोगाविप्रयोगान्तामरणान्तंचजीवितम्/शक्तस्त्वमात्मनात्मानंविजेतुंमनसैवहि/लोकान्सर्वांश्चकाकुत्स्थकिंपुनर्दुःखमीदृशम्/नेदृशेषुविमुह्यन्तित्वद्विधाःपुरुषर्षभाः/यदर्थंमैथिलीत्यक्ताअपवादभयान्नृप/सत्वंपुरुषशार्दूलधैर्येणसुसमाहितः/त्यजेमांदुर्बलांबुद्धिंसंतापंमाकुरुष्वह/एवमुक्तस्तुकाकुत्स्थोलक्ष्मणेनमहात्मना/उवाचपरयाप्रीत्यासौमित्रिंमित्रवत्सलम्/एवमेतन्नरश्रेष्ठयथावदसिलक्ष्मण/परितोषश्चमेवीरममकार्यानुशासने/निर्वृतिश्चकृतासौम्यसंतापश्चनिराकृतः/भवद्वाक्यैःसुमधुरैरनुनीतोऽस्मिलक्ष्मण/ततःसुमन्त्रस्त्वागम्यराघवंवाक्यमब्रवीत्/एतेनिवारिताराजन्द्वारितिष्ठन्तितापसाः/भार्गवंच्यवनंनामपुरस्कृत्यमहर्षयः/दर्शनंतेमहाराजचोदयन्तिकृतत्वराः/प्रीयमाणानरव्याघ्रयमुनातीरवासिनः/तस्यतद्वचनंश्रुत्वारामःप्रोवाचधर्मवित्/प्रवेश्यन्तांमहात्मानोभार्गवप्रमुखाद्विजाः/राज्ञस्त्वाज्ञांपुरस्कृत्यद्वाःस्थोमूर्ध्निकृताञ्जलिः/प्रवेशयामासततस्तापसान्संमतान्बहून्/शतंसमधिकंतत्रदीप्यमानंस्वतेजसा/प्रविष्टंराजभवनंतापसानांमहात्मनाम्/तेद्विजाःपूर्णकलशैःसर्वतीर्थाम्बुसत्कृतम्/गृहीत्वाफलमूलंचरामस्याभ्याहरन्बहु/प्रतिगृह्यतुतत्सर्वंरामःप्रीतिपुरस्कृतः/तीर्थोदकानिसर्वाणिफलानिविविधानिच/उवाचचमहाबाहुःसर्वानेवमहामुनीन्/इमान्यासनमुख्यानियथार्हमुपविश्यताम्/रामस्यभाषितंश्रुत्वासर्वएवमहर्षयः/बृसीषुरुचिराख्यासुनिषेदुःकाञ्चनीषुते/उपविष्टानृषींस्तत्रदृष्ट्वापरपुरंजयः/प्रयतःप्राञ्जलिर्भूत्वाराघवोवाक्यमब्रवीत्/किमागमनकर्यंवःकिंकरोमितपोधनाः/आज्ञाप्योऽहंमहर्षीणांसर्वकामकरःसुखम्/इदंराज्यंचसकलंजीवितंचहृदिस्थितम्/सर्वमेतद्द्विजार्थंमेसत्यमेतद्ब्रवीमिवः/तस्यतद्वचनंश्रुत्वासाधुवादोमहानभूत्/ऋषीणामुग्रतपसांयमुनातीरवासिनाम्/ऊचुश्चतेमहात्मानोहर्षेणमहतान्विताः/उपपन्नंनरश्रेष्ठतवैवभुविनान्यतः/बहवःपार्थिवाराजन्नतिक्रान्तामहाबलाः/कार्यगौरवमश्रुत्वाप्रतिज्ञांनाभ्यरोचयन्/त्वयापुनर्ब्राह्मणगौरवादियं॑कृत्वाप्रतिज्ञाह्यनवेक्ष्यकारणम्/कुरुष्वकर्ताह्यसिनात्रसंशयो॑महाभयात्त्रातुमृषींस्त्वमर्हसि/ब्रुवद्भिरेवमृषिभिःकाकुत्स्थोवाक्यमब्रवीत्/किंकार्यंब्रूतभवतांभयंनाशयितास्मिवः/तथावदतिकाकुत्स्थेभर्गवोवाक्यमब्रवीत्/भयंनःशृणुयन्मूलंदेशस्यचनरेश्वर/पूर्वंकृतयुगेरामदैतेयःसुमहाबलः/लोलापुत्रोऽभवज्ज्येष्ठोमधुर्नाममहासुरः/ब्रह्मण्यश्चशरण्यश्चबुद्ध्याचपरिनिष्ठितः/सुरैश्चपरमोदारैःप्रीतिस्तस्यातुलाभवत्/समधुर्वीर्यसंपन्नोधर्मेचसुसमाहितः/बहुमानाच्चरुद्रेणदत्तस्तस्याद्भुतोवरः/शूलंशूलाद्विनिष्कृष्यमहावीर्यंमहाप्रभम्/ददौमहात्मासुप्रीतोवाकय्ंचैतदुवाचह/त्वयायमतुलोधर्मोमत्प्रसादात्कृतःशुभः/प्रीत्यापरमयायुक्तोददाम्यायुधमुत्तमम्/यावत्सुरैश्चविप्रैश्चनविरुध्येर्महासुर/तावच्छूलंतवेदंस्यादन्यथानाशमाप्नुयात्/यश्चत्वामभियुञ्जीतयुद्धायविगतज्वरः/तंशूलंभस्मसात्कृत्वापुनरेष्यतितेकरम्/एवंरुद्राद्वरंलब्ध्वाभूयएवमहासुरः/प्रणिपत्यमहादेवंवाक्यमेतदुवाचह/भगवन्ममवंशस्यशूलमेतदनुत्तमम्/भवेत्तुसततंदेवसुराणामीश्वरोह्यसि/तंब्रुवाणंमधुंदेवःसर्वभूतपतिःशिवः/प्रत्युवाचमहादेवोनैतदेवंभविष्यति/माभूत्तेविफलाबाणीमत्प्रासादकृताशुभा/भवतःपुत्रमेकंतुशूलमेतद्गमिष्यति/यावत्करस्थःशूलोऽयंभविष्यतिसुतस्यते/अवध्यःसर्वभूतानांशूलहस्तोभविष्यति/एवंमधुवरंलब्ध्वादेवात्सुमहदद्भुतम्/भवनंचासुरश्रेष्ठःकारयामाससुप्रभम्/तस्यपत्नीमहाभगाप्रियाकुम्भीनसीहिया/विश्वासयोरपत्यंसाह्यनलायांमहाप्रभा/तस्याःपुत्रोमहावीर्योलवणोनामदारुणः/बाल्यात्प्रभृतिदुष्टात्मापापान्येवसमाचरत्/तंपुत्रंदुर्विनीतंतुदृष्ट्वादुःखसमन्वितः/मधुःसशोकमापेदेनचैनंकिंचिदब्रवीत्/सविहायइमंलोकंप्रविष्टोवरुणालयम्/शूलंनिवेश्यलवणेवरंतस्मैन्यवेदयत्/सप्रभावेनशूलस्यदौरात्म्येनात्मनस्तथा/संतापयतिलोकांस्त्रीन्विशेषेणतुतापसान्/एवंप्रभावोलवणःशूलंचैवतथाविधम्/श्रुत्वाप्रमाणंकाकुत्स्थंत्वंहिनःपरमागतिः/बहवःपार्थिवारामभयार्तैरृषिभिःपुरा/अभयंयाचितावीरत्रातारंनचविद्महे/तेवयंरावणंश्रुत्वाहतंसबलवाहनम्/त्रातारंविद्महेरामनान्यंभुविनराधिपम्/तत्परित्रातुमिच्छामोलवणाद्भयपीडिताः/तथोक्तेतानृषीन्रामःप्रत्युवाचकृताञ्जलिः/किमाहारःकिमाचारोलवणःक्वचवर्तते/राघवस्यवचःश्रुत्वाऋषयःसर्वएवते/ततोनिवेदयामासुर्लवणोववृधेयथा/आहारःसर्वसत्त्वानिविशेषेणचतापसाः/आचारोरौद्रतानित्यंवासोमधुवनेसदा/हत्वादशसहस्राणिसिंहव्याघ्रमृगद्विपान्/मानुषांश्चैवकुरुतेनित्यमाहारमाह्निकम्/ततोऽपराणिसत्त्वानिखादतेसमहाबलः/संहारेसमनुप्राप्तेव्यादितास्यइवान्तकः/तच्छ्रुत्वाराघवोवाक्यमुवाचसमहामुनीन्/घातयिष्यामितद्रक्षोव्यपगच्छतुवोभयम्/तथातेषांप्रतिज्ञायमुनीनामुग्रतेजसाम्/सभ्रातॄन्सहितान्सर्वानुवाचरघुनन्दनः/कोहन्तालवणंवीराःकस्यांशःसविधीयताम्/भरतस्यमहाबाहोःशत्रुघ्नस्याथवापुनः/राघवेणैवमुक्तस्तुभरतोवाक्यमब्रवीत्/अहमेनंबधिष्यामिममांशःसविधीयताम्/भरतस्यवचःश्रुत्वाशौर्यवीर्यसमन्वितम्/लक्ष्मणावरजस्तस्थौहित्वासौवर्णमासनम्/शत्रुघ्नस्त्वब्रवीद्वाक्यंप्रणिपत्यनराधिपम्/कृतकर्मामहाबाहुर्मध्यमोरघुनन्दनः/आर्येणहिपुराशून्याअयोध्यारक्षितापुरी/संतापंहृदयेकृत्वाआर्यस्यागमनंप्रति/दुःखानिचबहूनीहअनुभूतानिपार्थिव/शयानोदुःखशय्यासुनन्दिग्रामेमहात्मना/फलमूलाशनोभूत्वाजटाचीरधरस्तथा/अनुभूयेदृशंदुःखमेषराघवनन्दनः/प्रेष्येमयिस्थितेराजन्नभूयःक्लेशमाप्नुयात्/तथाब्रुवतिशत्रुघ्नेराघवःपुनरब्रवीत्/एवंभवतुकाकुत्स्थक्रियतांममशासनम्/राज्येत्वामभिषेक्ष्यामिमघोस्तुनगरेशुभे/निवेशयमहाबाहोभरतंयद्यवेक्षसे/शूरस्त्वंकृतविद्यश्चसमर्थःसंनिवेशने/नगरंमधुनाजुष्टंतथाजनपदाञ्शुभान्/योहिवंशंसमुत्पाट्यपार्थिवस्यपुनःक्षये/नविधत्तेनृपंतत्रनरकंसनिगच्छति/सत्वंहत्वामधुसुतंलवणंपापनिश्चयम्/राज्यंप्रशाधिधर्मेणवाक्यंमेयद्यवेक्षसे/उत्तरंचनवक्तव्यंशूरवाक्यान्तरेमम/बालेनपूर्वजस्याज्ञाकर्तव्यानात्रसंशयः/अभिषेकंचकाकुत्स्थप्रतीच्छस्वमयोद्यतम्/वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम्/एवमुक्तस्तुरामेणपरांव्रीडामुपागतः/शत्रुघ्नोवीर्यसंपन्नोमन्दंमन्दमुवाचह/अवश्यंकरणीयंचशासनंपुरुषर्षभ/तवचैवमहाभागशासनंदुरतिक्रमम्/अयंकामकरोराजंस्तवास्मिपुरुषर्षभ/एवमुक्तेतुशूरेणशत्रुघ्नेनमहात्मना/उवाचरामःसंहृष्टोलक्ष्मणंभरतंतथा/संभारानभिषेकस्यआनयध्वंसमाहिताः/अद्यैवपुरुषव्याघ्रमभिषेक्ष्यामिदुर्जयम्/पुरोधसंचकाकुत्स्थौनैगमानृत्विजस्तथा/मन्त्रिणश्चैवमेसर्वानानयध्वंममाज्ञया/राज्ञःशासनमाज्ञायतथाकुर्वन्महारथः/अभिषेकसमारम्भंपुरस्कृत्यपुरोधसं/प्रविष्टाराजभवनंपुरंदरगृहोपमम्/ततोऽभिषेकोववृधेशत्रुघ्नस्यमहात्मनः/संप्रहर्षकरःश्रीमान्राघवस्यपुरस्यच/ततोऽभिषिक्तंशत्रुघ्नमङ्कमारोप्यराघवः/उवाचमधुरांवाणींतेजस्तस्याभिपूरयन्/अयंशरस्त्वमोघस्तेदिव्यःपरपुरंजयः/अनेनलवणंसौम्यहन्तासिरघुनन्दन/सृष्टःशरोऽयंकाकुत्स्थयदाशेतेमहार्णवे/स्वयम्भूरजितोदेवोयंनापश्यन्सुरासुराः/अदृश्यःसर्वभूतानांतेनायंहिशरोत्तमः/सृष्टःक्रोधाभिभूतेनविनाशार्थंदुरात्मनोः/मधुकौटभयोर्वीरविघातेवर्तमानयोः/स्रष्टुकामेनलोकांस्त्रींस्तौचानेनहतौयुधि/अनेनशरमुख्येनततोलोकांश्चकारसः/नायंमयाशरःपूर्वंरावणस्यवधार्थिना/मुखःशत्रुघ्नभूतानांमहांस्त्रासोभवेदिति/यच्चतस्यमहच्छूलंत्र्यम्बकेणमहात्मना/दत्तंशत्रुविनाशायमधोरायुधमुत्तमम्/तत्संनिक्षिप्यभवनेपूज्यमानंपुनःपुनः/दिशःसर्वाःसमालोक्यप्राप्नोत्याहारमात्मनः/यदातुयुद्धमाकाङ्क्षन्कश्चिदेनंसमाह्वयेत्/तदाशूलंगृहीत्वातद्भस्मरक्षःकरोतितम्/सत्वंपुरुषशार्दूलतमायुधविवर्जितम्/अप्रविष्टपुरंपूर्वंद्वारितिष्ठधृतायुधः/अप्रविष्टंचभवनंयुद्धायपुरुषर्षभ/आह्वयेथामहाबाहोततोहन्तासिराक्षसं/अन्यथाक्रियमाणेतुअवध्यःसभविष्यति/यदित्वेवंकृतेवीरविनाशमुपयास्यति/एतत्तेसर्वमाख्यातंशूलस्यचविपर्ययम्/श्रीमतःशितिकण्ठस्यकृत्यंहिदुरतिक्रमम्/एवमुक्त्वातुकाकुत्स्थंप्रशस्यचपुनःपुनः/पुनरेवापरंवाक्यमुवाचरघुनन्दनः/इमान्यश्वसहस्राणिचत्वारिपुरुषर्षभ/रथानांचसहस्रेद्वेगजानांशतमेवच/अन्तरापणवीथ्यश्चनानापण्योपशोभिताः/अनुगच्छन्तुशत्रुघ्नतथैवनटनर्तकाः/हिरण्यस्यसुवर्णस्यअयुतंपुरुषर्षभ/गृहीत्वागच्छशत्रुघ्नपर्याप्तधनवाहनः/बलंचसुभृतंवीरहृष्टपुष्टमनुत्तमम्/संभाष्यसंप्रदानेनरञ्जयस्वनरोत्तम/नह्यर्थास्तत्रतिष्ठन्तिनदारानचबान्धवाः/सुप्रीतोभृत्यवर्गस्तुयत्रतिष्ठतिराघव/अतोहृष्टजनाकीर्णांप्रस्थाप्यमहतींचमूम्/एकएवधनुष्पानिस्तद्गच्छत्वंमधोर्वनम्/यथात्वांनप्रजानातिगच्छन्तंयुद्धकाङ्क्षिणम्/लवणस्तुमधोःपुत्रस्तथागच्छेरशङ्कितः/नतस्यमृत्युरन्योऽस्तिकश्चिद्धिपुरुषर्षभ/दर्शनंयोऽभिगच्छेतसवध्योलवणेनहि/सग्रीष्मेव्यपयातेतुवर्षरात्रउपस्थिते/हन्यास्त्वंलवणंसौम्यसहिकालोऽस्यदुर्मतेः/महर्षींस्तुपुरस्कृत्यप्रयान्तुतवसैनिकाः/यथाग्रीष्मावशेषेणतरेयुर्जाह्नवीजलम्/ततःस्थाप्यबलंसर्वंनदीतीरेसमाहितः/अग्रतोधनुषासार्धंगच्छत्वंलघुविक्रम/एवमुक्तस्तुरामेणशत्रुघ्नस्तान्महाबलान्/सेनामुख्यान्समानीयततोवाक्यमुवाचह/एतेवोगणितावासायत्रयत्रनिवत्स्यथ/स्थातव्यंचाविरोधेनयथाबाधानकस्यचित्/तथातांस्तुसमाज्ञाप्यनिर्याप्यचमहद्बलम्/कौसल्यांचसुमित्रांचकौकेयींचाभ्यवादयत्/रामंप्रदक्षिणंकृत्वाशिरसाभिप्रणम्यच/राणेणचाभ्यनुज्ञातःशत्रुघ्नःशत्रुतापनः/लक्ष्मणंभरतंचैवप्रणिपत्यकृताञ्जलिः/पुरोधसंवसिष्ठंचशत्रुघ्नःप्रयतात्मवान्/प्रदक्षिणमथोकृत्वानिर्जगाममहाबलः/प्रस्थाप्यतद्बलंसर्वंमासमात्रोषितःपथि/एकएवाशुशत्रुघ्नोजगामत्वरितस्तदा/द्विरात्रमन्तरेशूरउष्यराघवनन्दनः/वाल्मीकेराश्रमंपुण्यमगच्छद्वासमुत्तमम्/सोऽभिवाद्यमहात्मानंवाल्मीकिंमुनिसत्तमम्/कृताञ्जलिरथोभूत्वावाक्यमेतदुवाचह/भगवन्वस्तुमिच्छामिगुरोःकृत्यादिहागतः/श्वःप्रभातेगमिष्यामिप्रतीचींवारुणींदिशम्/शत्रुघ्नस्यवचःश्रुत्वाप्रहस्यमुनिपुंगवः/प्रत्युवचमहात्मानंस्वागतंतेमहायशः/स्वमाश्रममिदंसौम्यराघवाणांकुलस्यह/आसनंपाद्यमर्घ्यंचनिर्विशङ्कःप्रतीच्छमे/प्रतिगृह्यततःपूजांफलमूलंचभोजनम्/भक्षयामासकाकुत्स्थस्तृप्तिंचपरमांगतः/सतुभुक्त्वामहाबाहुर्महर्षिंतमुवाचह/पूर्वंयज्ञविभूतीयंकस्याश्रमसमीपतः/तस्यतद्भाषितंश्रुत्वावाल्मीकिर्वाक्यमब्रवीत्/शत्रुघ्नशृणुयस्येदंबभूवायतनंपुरा/युष्माकंपूर्वकोराजासुदासस्यमहात्मनः/पुत्रोमित्रसहोनामवीर्यवानतिधार्मिकः/सबालएवसौदासोमृगयामुपचक्रमे/चञ्चूर्यमाणंददृशेसशूरोराक्षसद्वयम्/शार्दूलरूपिणौघोरौमृगान्बहुसहस्रशः/भक्षयाणावसंतुष्टौपर्याप्तिंचनजग्मतुः/सतुतौराक्षसौदृष्ट्वानिर्मृगंचवनंकृतम्/क्रोधेनमहताविष्टोजघानैकंमहेषुणा/विनिपात्यतमेकंतुसौदासःपुरुषर्षभः/विज्वरोविगतामर्षोहतंरक्षोऽभ्यवैक्षत/निरीक्षमाणंतंदृष्ट्वासहायस्तस्यरक्षसः/संतापमकरोद्घोरंसौदासंचेदमब्रवीत्/यस्मादनपराद्धंत्वंसहायंममजघ्निवान्/तस्मात्तवापुपापिष्ठप्रदास्यामिप्रतिक्रियाम्/एवमुक्त्वातुतंरक्षस्तत्रैवान्तरधीयत/कालपर्याययोगेनराजामित्रसहोऽभवत्/राजापियजतेयज्ञंतस्याश्रमसमीपतः/अश्वमेधंमहायज्ञंतंवसिष्ठोऽभ्यपालयत्/तत्रयज्ञोमहानासीद्बहुवर्षगणायुतान्/समृद्धःपरयालक्ष्म्यादेवयज्ञसमोऽभवत्/अथावसानेयज्ञस्यपूर्ववैरमनुस्मरन्/वसिष्ठरूपीराजानमितिहोवाचराक्षसः/अद्ययज्ञावसानान्तेसामिषंभोजनंमम/दीयतामितिशीघ्रंवैनात्रकार्याविचारणा/तच्छ्रुत्वाव्याहृतंवाक्यंरक्षसाकामरूपिणा/भक्षसंस्कारकुशलमुवाचपृथिवीपतिः/हविष्यंसामिषंस्वादुयथाभवतिभोजनम्/तथाकुरुष्वशीघ्रंवैपरितुष्येद्यथागुरुः/शासनात्पार्थिवेन्द्रस्यसूदःसंभ्रान्तमानसः/सचरक्षःपुनस्तत्रसूदवेषमथाकरोत्/समानुषमथोमांसंपार्थिवायन्यवेदयत्/इदंस्वादुहविष्यंचसामिषंचान्नमाहृतम्/सभोजनंवसिष्ठायपत्न्यासार्धमुपाहरत्/मदयन्त्यानरव्याघ्रसामिषंरक्षसाहृतम्/ज्ञात्वातदामिषंविप्रोमानुषंभोजनाहृतम्/क्रोधेनमहताविष्टोव्याहर्तुमुपचक्रमे/यस्मात्त्वंभोजनंराजन्ममैतद्दातुमिच्छसि/तस्माद्भोजनमेतत्तेभविष्यतिनसंशयः/सराजासहपत्न्यावैप्रणिपत्यमुहुर्मुहुः/पुनर्वसिष्ठंप्रोवाचयदुक्तंब्रह्मरूपिणा/तच्छ्रुतापार्थिवेन्द्रस्यरक्षसाविकृतंचतत्/पुनःप्रोवाचराजानंवसिष्ठःपुरुषर्षभम्/मयारोषपरीतेनयदिदंव्याहृतंवचः/नैतच्छक्यंवृथाकर्तुंप्रदास्यामिचतेवरम्/कालोद्वादशवर्षाणिशापस्यास्यभविष्यति/मत्प्रसादाच्चराजेन्द्रअतीतंनस्मरिष्यसि/एवंसराजातंशापमुपभुज्यारिमर्दनः/प्रतिलेभेपुनाराज्यंप्रजाश्चैवान्वपालयत्/तस्यकल्माषपादस्ययज्ञस्यायतनंशुभम्/आश्रमस्यसमीपेऽस्मिन्यस्मिन्पृच्छसिराघव/तस्यतांपार्थिवेन्द्रस्यकथांश्रुत्वासुदारुणम्/विवेशपर्णशालायांमहर्षिमभिवाद्यच/यामेवरात्रिंशत्रुघ्नपर्णशालांसमाविशत्/तामेवरात्रिंसीतापिप्रसूतादारकद्वयम्/ततोऽर्धरात्रसमयेबालकामुनिदारकाः/वाल्मीकेःप्रियमाचख्युःसीतायाःप्रसवंशुभम्/तस्यरक्षांमहातेजःकुरुभूतविनाशिनीम्/तेषांतद्वचनंश्रुत्वामुनिर्हर्षमुपागमत्/भूतघ्नींचाकरोत्ताभ्यारक्षांरक्षोविनाशिनीम्/कुशमुष्टिमुपादायलवंचैवतुसद्विजः/वाल्मीकिःप्रददौताभ्यांरक्षांभूतविनाशिनीम्/यस्तयोःपूर्वजोजातःसकुशैर्मन्त्रसंस्कृतैः/निर्मार्जनीयस्तुभवेत्कुशइत्यस्यनामतः/यश्चापरोभवेत्ताभ्यांलवेनसुसमाहितः/निर्मार्जनीयोवृद्धाभिर्लवश्चेतिसनामतः/एवंकुशलवौनाम्नातावुभौयमजातकौ/मत्कृतभ्यांचनमाभ्यांख्यातियुक्तौभविष्यतः/तेरक्षांजगृहुस्तांचमुनिहस्तात्समाहिताः/अकुर्वंश्चततोरक्षांतयोर्विगतकल्मषाः/तथातांक्रियमाणांतुरक्षांगोत्रंचनामच/संकीर्तनंचरामस्यसीतायाःप्रसवौशुभौ/अर्धरात्रेतुशत्रुघ्नःशुश्रावसुमहत्प्रियम्/पर्णशालांगतोरात्रौदिष्ट्यादिष्ट्येतिचाब्रवीत्/तथतस्यप्रहृष्टस्यशत्रुघ्नस्यमहात्मनः/व्यतीतावार्षिकीरात्रिःश्रावणीलघुविक्रमा/प्रभातेतुमहावीर्यःकृत्वापौर्वाह्णिकंक्रमम्/मुनिंप्राञ्जलिरामन्त्र्यप्रायात्पश्चान्मुखःपुनः/सगत्वायमुनातीरंसप्तरात्रोषितःपथि/ऋषीणांपुण्यकीर्तीनामाश्रमेवासमभ्ययात्/सतत्रमुनिभिःसार्धंभार्गवप्रमुखैर्नृपः/कथाभिर्बहुरूपाभिर्वासंचक्रेमहायशाः/अथरात्र्यांप्रवृत्तायांशत्रुघ्नोभृगुनन्दनम्/पप्रच्छच्यवनंविप्रंलवणस्यबलाबलम्/शूलस्यचबलंब्रह्मन्केचपूर्वंनिपातिताः/अनेनशूलमुखेनद्वन्द्वयुद्धमुपागताः/तस्यतद्भाषितंश्रुत्वाशत्रुघ्नस्यमहात्मनः/प्रत्युवाचमहातेजाश्च्यवनोरघुनन्दनम्/असंख्येयानिकर्माणियान्यस्यपुरुषर्षभ/इक्ष्वाकुवंशप्रभवेयद्वृत्तंतच्छृणुष्वमे/अयोध्यायांपुराराजायुवनाश्वसुतोबली/मान्धताइतिविख्यातस्त्रिषुलोकेषुवीर्यवान्/सकृत्वापृथिवींकृत्स्नांशासनेपृथिवीपतिः/सुरलोकमथोजेतुमुद्योगमकरोन्नृपः/इन्द्रस्यतुभयंतीव्रंसुराणांचमहात्मनाम्/मान्धातरिकृतोद्योगेदेवलोकजिगीषया/अर्धासनेनशक्रस्यराज्यार्धेनचपार्थिवः/वन्द्यमानःसुरगणैःप्रतिज्ञामध्यरोहत/तस्यपापमभिप्रायंविदित्वापाकशासनः/सान्त्वपूर्वमिदंवाक्यमुवाचयुवनाश्वजम्/राजात्वंमानुषंलोकेनतावत्पुरुषर्षभ/अकृत्वापृथिवींवश्यांदेवराज्यमिहेच्छसि/यदिवीरसमग्रातेमेदिनीनिखिलावशे/देवराज्यंकुरुष्वेहसभृत्यबलवाहनः/इन्द्रमेवंब्रुवाणंतुमान्धातावाक्यमब्रवीत्/क्वमेशक्रप्रतिहतंशासनंपृथिवीतले/तमुवाचसहस्राक्षोलवणोनामराक्षसः/मधुपुत्रोमधुवनेनाज्ञांतेकुरुतेऽनघ/तच्छ्रुत्वाविप्रियंघोरंसहस्राक्षेणभाषितम्/व्रीडितोऽवाङ्मुखोराजाव्याहर्तुंनशशाकह/आमन्त्र्यतुसहस्राक्षंह्रियाकिंचिदवाङ्मुखः/पुनरेवागमच्छ्रीमानिमंलोकंनरेश्वरः/सकृत्वाहृदयेऽमर्षंसभृत्यबलवाहनः/आजगाममधोःपुत्रंवशेकर्तुमनिन्दितः/सकाङ्क्षमाणोलवणंयुद्धायपुरुषर्षभः/दूतंसंप्रेषयामाससकाशंलवणस्यसः/सगत्वाविप्रियाण्याहबहूनिमधुनःसुतम्/वदन्तमेवंतंदूतंभक्षयामासराक्षसः/चिरायमाणेदूतेतुराजाक्रोधसमन्वितः/अर्दयामासतद्रक्षःशरवृष्ट्यासमन्ततः/ततःप्रहस्यलवणःशूलंजग्राहपाणिना/वधायसानुबन्धस्यमुमोचायुधमुत्तमम्/तच्छूलंदीप्यमानंतुसभृत्यबलवाहनम्/भस्मीकृत्यनृपंभूयोलवणस्यागमत्करम्/एवंसराजासुमहान्हतःसबलवाहनः/शूलस्यचबलंवीरअप्रमेयमनुत्तमम्/श्वःप्रभातेतुलवणंवधिष्यसिनसंशयः/अगृहीतायुधंक्षिप्रंध्रुवोहिविजयस्तव/कथांकथयतांतेषांजयंचाकाङ्क्षतांशुभम्/व्यतीतारजनीशीघ्रंशत्रुघ्नस्यमहात्मनः/ततःप्रभातेविमलेतस्मिन्कालेसराक्षसः/निर्गतस्तुपुराद्वीरोभक्षाहारप्रचोदितः/एतस्मिन्नन्तरेशूरःशत्रुघ्नोयमुनांनदीम्/तीर्त्वामधुपुरद्वारिधनुष्पाणिरतिष्ठत/ततोऽर्धदिवसेप्राप्तेक्रूरकर्मासराक्षसः/आगच्छद्बहुसहस्रंप्राणिनामुद्वहन्भरम्/ततोददर्शशत्रुघ्नंस्थितंद्वारिधृतायुधम्/तमुवाचततोरक्षःकिमनेनकरिष्यसि/ईदृशानांसहस्राणिसायुधानांनराधम/भक्षितानिमयारोषात्कालमाकाङ्क्षसेनुकिम्/आहारश्चाप्यसंपूर्णोममायंपुरुषाधम/स्वयंप्रविष्टोनुमुखंकथमासाद्यदुर्मते/तस्यैवंभाषमाणस्यहसतश्चमुहुर्मुहुः/शत्रुघ्नोवीर्यसंपन्नोरोषादश्रूण्यवर्तयत्/तस्यरोषाभिभूतस्यशत्रुघ्नस्यमहात्मनः/तेजोमयामरीच्यस्तुसर्वगात्रैर्विनिष्पतन्/उवाचचसुसंक्रुद्धःशत्रुघ्नस्तंनिशाचरम्/योद्धुमिच्छामिदुर्बुद्धेद्वन्द्वयुद्धंत्वयासह/पुत्रोदशरथस्याहंभ्रातारामस्यधीमतः/शत्रुघ्नोनामशत्रुघ्नोवधाकाङ्क्षीतवागतः/तस्यमेयुद्धकामस्यद्वन्द्वयुद्धंप्रदीयताम्/शत्रुस्त्वंसर्वजीवानांनमेजीवन्गमिष्यसि/तस्मिंस्तथाब्रुवाणेतुराक्षसःप्रहसन्निव/प्रत्युवाचनरश्रेष्ठंदिष्ट्याप्राप्तोऽसिदुर्मते/मममातृष्वसुर्भ्रातारावणोनामराक्षसः/हतोरामेणदुर्बुद्धेस्त्रीहेतोःपुरुषाधम/तच्चसर्वंमयाक्षान्तंरावणस्याकुलक्षयम्/अवज्ञांपुरतःकृत्वामयायूयंविशेषतः/नहताश्चहिमेसर्वेपरिभूतास्तृणंयथा/भूतश्चैवभविष्याश्चयूयंचपुरुषाधमाः/तस्यतेयुद्धकामस्यायुद्धंदास्यामिदुर्मते/ईप्सितंयादृशंतुभ्यंसज्जयेयावदायुधम्/तमुवाचाथशत्रुघ्नक्वमेजीवन्गमिष्यसि/दुर्बलोऽप्यागतःशत्रुर्नमोक्तव्यःकृतात्मना/योहिविक्लवयाबुद्ध्याप्रसरंशत्रवेददौ/सहतोमन्दबुद्धित्वाद्यथाकापुरुषस्तथा/तच्छ्रुत्वाभाषितंतस्यशत्रुघ्नस्यमहात्मनः/क्रोधमाहारयत्तीव्रंतिष्ठतिष्ठेतिचाब्रवीत्/पाणौपाणिंविनिष्पिष्यदन्तान्कटकटाय्यच/लवणोरघुशार्दूलमाह्वयामासचासकृत्/तंब्रुवाणंतथावाक्यंलवणंघोरविक्रमम्/शत्रुघ्नोदेवशत्रुघ्नइदंवचनमब्रवीत्/शत्रुघ्नोनतदाजातोयदान्येनिर्जितास्त्वया/तदद्यबाणाभिहतोव्रजतंयमसादनम्/ऋषयोऽप्यद्यपापात्मन्मयात्वांनिहतंरणे/पश्यन्तुविप्राविद्वांसस्त्रिदशाइवरावणम्/त्वयिमद्बाणनिर्दग्धेपतितेऽद्यनिशाचर/पुरंजनपदंचापिक्षेममेतद्भविष्यति/अद्यमद्बाहुनिष्क्रान्तःशरोवज्रनिभाननः/प्रवेक्ष्यतेतेहृदयंपद्ममंशुरिवार्कजः/एवमुक्तोमहावृक्षंलवणःक्रोधमूर्छितः/शत्रुघ्नोरसिचिक्षेपतंशूरःशतधाच्छिनत्/तद्दृष्ट्वाविफलंकर्मराक्षसःपुनरेवतु/पादपान्सुबहून्गृह्यशत्रुघ्नेव्यसृजद्बली/शत्रुघ्नश्चापितेजस्वीवृक्षानापततोबहून्/त्रिभिश्चतुर्भिरेकैकंचिच्छेदनतपर्वभिः/ततोबाणमयंवर्षंव्यसृजद्राक्षसोरसि/शत्रुघ्नोवीर्यसंपन्नोविव्यथेनचराक्षसः/ततःप्रहस्यलवणोवृक्षमुत्पाट्यलीलया/शिरस्यभ्यहनच्छूरंस्रस्ताङ्गःसमुमोहवै/तस्मिन्निपतितेवीरेहाहाकारोमहानभूत्/ऋषीणांदेवसंघानांगन्धर्वाप्सरसामपि/तमवज्ञायतुहतंशत्रुघ्नंभुविपातितम्/रक्षोलब्धान्तरमपिनविवेशस्वमालयम्/नापिशूलंप्रजग्राहतंदृष्ट्वाभुविपातितम्/ततोहतइतिज्ञात्वातान्भक्षान्समुदावहत्/मुहूर्ताल्लब्धसंज्ञस्तुपुनस्तस्थौधृतायुधः/शत्रुघ्नोराक्षसद्वारिऋषिभिःसंप्रपूजितः/ततोदिव्यममोघंतंजग्राहशरमुत्तमम्/ज्वलन्तंतेजसाघोरंपूरयन्तंदिशोदश/वज्राननंवज्रवेगंमेरुमन्दरगौरवम्/नतंपर्वसुसर्वेषुसंयुगेष्वपराजितम्/असृक्चन्दनदिग्धाङ्गंचारुपत्रंपतत्रिणम्/दानवेन्द्राचलेन्द्राणामसुराणांचदारुणम्/तंदीप्तमिवकालाग्निंयुगान्तेसमुपस्थिते/दृष्ट्वासर्वाणिभूतानिपरित्रासमुपागमन्/सदेवासुरगन्धर्वंसमुनिंसाप्सरोगणम्/जगद्धिसर्वमस्वस्थंपितामहमुपस्थितम्/ऊचुश्चदेवदेवेशंवरदंप्रपितामहम्/कच्चिल्लोकक्षयोदेवप्राप्तोवायुगसंकयः/नेदृशंदृष्टपूर्वंनश्रुतंवाप्रपितामह/देवानांभयसंमोहोलोकानांसंक्षयःप्रभो/तेषांतद्वचनंश्रुत्वाब्रह्मालोकपितामनः/भयकारणमाचष्टेदेवानामभयंकरः/वधायलवणस्याजौशरःशत्रुघ्नधारितः/तेजसायस्यसर्वेस्मसंमूढाःसुरसत्तमाः/एषोहिपूर्वंदेवस्यलोककर्तुःसनातनः/शरस्तेजोमयोवत्सायेनवैभयमागतम्/एषवैकैटभस्यार्थेमधुनश्चमहाशरः/सृष्टोमहात्मनातेनवधार्थंदैत्ययोस्तयोः/एवमेतंप्रजानीध्वंविष्णोस्तेजोमयंशरम्/एषाचैवतनुःपूर्वाविष्णोस्तस्यमहात्मनः/इतोगच्छतापश्यध्वंवध्यमानंमहात्मना/रामानुजेनवीरेणलवणंराक्षसोत्तमम्/तस्यतेदेवदेवस्यनिशम्यमधुरांगिरम्/आजग्मुर्यत्रयुध्येतेशत्रुघ्नलवणावुभौ/तंशरंदिव्यसंकाशंशत्रुघ्नकरधारितम्/ददृशुःसर्वभूतानियुगान्ताग्निमिवोत्थितम्/आकाशमावृतंदृष्ट्वादेवैर्हिरघुनन्दनः/सिंहनादंमुहुःकृत्वाददर्शलवणंपुनः/आहूतश्चततस्तेनशत्रुघ्नेनमहात्मना/लवणःक्रोधसंयुक्तोयुद्धायसमुपस्थितः/आकर्णात्सविकृष्याथतद्धनुर्धन्विनांवरः/समुमोचमहाबाणंलवणस्यमहोरसि/उरस्तस्यविदार्याशुप्रविवेशरसातलम्/गत्वारसातलंदिव्यंशरोविबुधपूजितः/पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम्/शत्रुघ्नशरनिर्भिन्नोलवणःसनिशाचरः/पपातसहसाभूमौवज्राहतइवाचलः/तच्चदिव्यंमहच्छूलंहतेलवणराक्षसे/पश्यतांसर्वभूतानांरुद्रस्यवशमन्वगात्/एकेषुपातेनभयंनिहत्य॑लोकत्रयस्यास्यरघुप्रवीरः/विनिर्बभावुद्यतचापबाणस्॑तमःप्रणुद्येवसहस्ररश्मिः/हतेतुलवणेदेवाःसेन्द्राःसाग्निपुरोगमाः/ऊचुःसुमधुरांवाणींशत्रुघ्नांशत्रुतापनम्/दिष्ट्यातेविजयोवत्सदिष्ट्यलवणराक्षसः/हतःपुरुषशार्दूलवरंवरयराघव/वरदाःस्ममहाबाहोसर्वएवसमागताः/विजयाकाङ्क्षिणस्तुभ्यममोघंदर्शनंहिनः/देवानांभाषितंश्रुत्वाशूरोमूर्ध्निकृताञ्जलिः/प्रत्युवाचमहाबाहुःशत्रुघ्नःप्रयतात्मवान्/इमांमधुपुरींरम्यांमधुरांदेवनिर्मिताम्/निवेशंप्रप्नुयांशीघ्रमेषमेऽस्तुवरोमतः/तंदेवाःप्रीतमनसोबाढमित्येवराघवम्/भविष्यतिपुरीरम्याशूरसेनानसंशयः/तेतथोक्त्वामहात्मानोदिवमारुरुहुस्तदा/शत्रुघ्नोऽपिमहातेजास्तांसेनांसमुपानयत्/सासेनशीघ्रमागच्छच्छ्रुत्वाशत्रुघ्नशासनम्/निवेशनंचशत्रुघ्नःशासनेनसमारभत्/सापुरीदिव्यसंकाशावर्षेद्वादशमेशुभा/निविष्टाशूरसेनानांविषयश्चाकुतोभयः/क्षेत्राणिसस्ययुक्तानिकालेवर्षतिवासवः/अरोगावीरपुरुषाशत्रुघ्नभुजपालिता/अर्धचन्द्रप्रतीकाशायमुनातीरशोभिता/शोभितागृहमुख्यैश्चशोभिताचत्वरापणैः/यच्चतेनमहच्छून्यंलवणेनकृतंपुरा/शोभयामासतद्वीरोनानापण्यसमृद्धिभिः/तांसमृद्धांसमृद्धार्थःशत्रुघ्नोभरतानुजः/निरीक्ष्यपरमप्रीतःपरंहर्षमुपागमत्/तस्यबुद्धिःसमुत्पन्नानिवेश्यमधुरांपुरीम्/रामपादौनिरीक्षेयंवर्षेद्वादशमेशुभे/ततोद्वादशमेवर्षेशत्रुघ्नोरामपालिताम्/अयोध्यांचकमेगन्तुमल्पभृत्यबलानुगः/मन्त्रिणोबलमुख्यांश्चनिवर्त्यचपुरोधसं/जगामरथमुख्येनहययुक्तेनभास्वता/सगत्वागणितान्वासान्सप्ताष्टौरघुनन्दनः/अयोध्यामगमत्तूर्णंराघवोत्सुकदर्शनः/सप्रविश्यपुरींरम्यांश्रीमानिक्ष्वाकुनन्दनः/प्रविवेशमहाबाहुर्यत्ररामोमहाद्युतिः/सोऽभिवाद्यमहात्मानंज्वलन्तमिवतेजसा/उवाचप्राञ्जलिर्भूत्वारामंसत्यपराक्रमम्/यदाज्ञप्तंमहाराजसर्वंतत्कृतवानहम्/हतःसलवणःपापःपुरीसाचनिवेशिता/द्वादशंचगतंवर्षंत्वांविनारघुनन्दन/नोत्सहेयमहंवस्तुंत्वयाविरहितोनृप/समेप्रसादंकाकुत्स्थकुरुष्वामितविक्रम/मातृहीनोयथावत्सस्त्वांविनाप्रवसाम्यहम्/एवंब्रुवाणंशत्रुघ्नंपरिष्वज्येदमब्रवीत्/माविषादंकृथावीरनैतत्क्षत्रियचेष्टितम्/नावसीदन्तिराजानोविप्रवासेषुराघव/प्रजाश्चपरिपाल्याहिक्षत्रधर्मेणराघव/कालेकालेचमांवीरअयोध्यामवलोकितुम्/आगच्छत्वंनरश्रेष्ठगन्तासिचपुरंतव/ममापित्वंसुदयितःप्राणैरपिनसंशयः/अवश्यंकरणीयंचराज्यस्यपरिपालनम्/तस्मात्त्वंवसकाकुत्स्थपञ्चरात्रंमयासह/ऊर्ध्वंगन्तासिमधुरांसभृत्यबलवाहनः/रामस्यैतद्वचःश्रुत्वाधर्मयुक्तंमनोऽनुगम्/शत्रुघ्नोदीनयावाचाबाढमित्येवचाब्रवीत्/सपञ्चरात्रंकाकुत्स्थोराघवस्ययथाज्ञया/उष्यतत्रमहेष्वासोगमनायोपचक्रमे/आमन्त्र्यतुमहात्मानंरामंसत्यपराक्रमम्/भरतंलक्ष्मणंचैवमहारथमुपारुहत्/दूरंताभ्यामनुगतोलक्ष्मणेनमहात्मना/भरतेनचशत्रुघ्नोजगामाशुपुरींतदा/प्रस्थाप्यतुसशत्रुघ्नंभ्रातृभ्यांसहराघवः/प्रमुमोदसुखीराज्यंधर्मेणपरिपालयन्/ततःकतिपयाहःसुवृद्धोजानपदोद्विजः/शवंबालमुपादायराजद्वारमुपागमत्/रुदन्बहुविधावाचःस्नेहाक्षरसमन्विताः/असकृत्पुत्रपुत्रेतिवाक्यमेतदुवाचह/किंनुमेदुष्कृतंकर्मपूर्वंदेहान्तरेकृतम्/यदहंपुत्रमेकंत्वांपश्यामिनिधनंगतम्/अप्राप्तयौवनंबालंपञ्चवर्षसमन्वितम्/अकालेकालमापन्नंदुःखायममपुत्रक/अल्पैरहोभिर्निधनंगमिष्यामिनसंशयः/अहंचजननीचैवतवशोकेनपुत्रक/नस्मराम्यनृतंह्युक्तंनचहिंसांस्मराम्यहम्/केनमेदुष्कृतेनाद्यबालएवममात्मजः/अकृत्वापितृकार्याणिनीतोवैवस्वतक्षयम्/नेदृशंदृष्टपूर्वंमेश्रुतंवाघोरदर्शनम्/मृत्युरप्राप्तकालानांरामस्यविषयेयथा/रामस्यदुष्कृतंकिंचिन्महदस्तिनसंशयः/त्वंराजञ्जीवयस्वैनंबालंमृत्युवशंगतम्/भ्रातृभिःसहितोराजन्दीर्घमायुरवाप्नुहि/उषिताःस्मसुखंराज्येतवास्मिन्सुमहाबल/संप्रत्यनाथोविषयइक्ष्वाकूणांमहात्मनाम्/रामंनाथमिहासाद्यबालान्तकरणंनृपम्/राजदोषैर्विपद्यन्तेप्रजाह्यविधिपालिताः/असद्वृत्तेतुनृपतावकालेम्रियतेजनः/यदापुरेष्वयुक्तानिजनाजनपदेशुच/कुर्वतेनचरक्षास्तितदाकालकृतंभयम्/सव्यक्तंराजदोषोऽयंभविष्यतिनसंशयः/पुरेजनपदेवापितदाबालवधोह्ययम्/एवंबहुविधैर्वाक्यैर्निन्दयानोमुहुर्मुहुः/राजानंदुःखसंतप्तःसुतंतमुपगूहति/तथातुकरुणंतस्यद्विजस्यपरिदेवितम्/शुश्रावराघवःसर्वंदुःखशोकसमन्वितम्/सदुःखेनसुसंतप्तोमन्त्रिणःसमुपाह्वयत्/वसिष्ठंवामदेवंचभ्रातॄंश्चसहनैगमान्/ततोद्विजावसिष्ठेनसार्धमष्टौप्रवेशिताः/राजानंदेवसंकाशंवर्धस्वेतिततोऽब्रुवन्/मार्कण्डेयोऽथमौद्गल्योवामदेवश्चकाश्यपः/कात्यायनोऽथजाबालिर्गौतमोनारदस्तथा/एतेद्विजर्षभाःसर्वेआगनेषूपवेशिताः/मन्त्रिणोनैगमाश्चैवयथार्हमनुकूलतः/तेषांसमुपविष्टानांसर्वेषांदीप्ततेजसाम्/रघवःसर्वमाचष्टेद्विजोयस्मात्प्ररोदिति/तस्यतद्वचनंश्रुत्वाराज्ञोदीनस्यनारदः/प्रत्युवाचशुभंवाक्यमृषीणांसंनिधौनृपम्/शृणुराजन्यथाकालेप्राप्तोऽयंबालसंक्षयः/श्रुत्वाकर्तव्यतांवीरकुरुष्वरघुनन्दन/पुराकृतयुगेरामब्राह्मणावैतपस्विनः/अब्राह्मणस्तदाराजन्नतपस्वीकथंचन/तस्मिन्युगेप्रज्वलितेब्रह्मभूतेअनावृते/अमृत्यवस्तदासर्वेजज्ञिरेदीर्घदर्शिनः/ततस्त्रेतायुगंनाममानवानांवपुष्मताम्/क्षत्रियायत्रजायन्तेपूर्वेणतपसान्विताः/वीर्येणतपसाचैवतेऽधिकाःपूर्वजन्मनि/मानवायेमहात्मानस्तस्मिंस्त्रेतायुगेयुगे/ब्रह्मक्षत्रंतुतत्सर्वंयत्पूर्वमपरंचयत्/युगयोरुभयोरासीत्समवीर्यसमन्वितम्/अपश्यन्तस्तुतेसर्वेविशेषमधिकंततः/स्थापनंचक्रिरेतत्रचातुर्वर्ण्यस्यसर्वतः/अधर्मःपादमेकंतुपातयत्पृथिवीतले/अधर्मेणहिसंयुक्तास्तेनमन्दाभवन्द्विजाः/ततःप्रादुष्कृतंपूर्वमायुषःपरिनिष्ठितम्/शुभान्येवाचरंल्लोकाःसत्यधर्मपरायणाः/त्रेतायुगेत्ववर्तन्तब्राह्मणाःक्षत्रियश्चये/तपोऽतप्यन्ततेसर्वेशुश्रूषामपरेजनाः/सधर्मःपरमस्तेषांवैश्यशूद्रमथागमत्/पूजांचसर्ववर्णानांशूद्राश्चक्रुर्विशेषतः/ततःपादमधर्मस्यद्वितीयमवतारयत्/ततोद्वापरसंख्यासायुगस्यसमजायत/तस्मिन्द्वापरसंख्येतुवर्तमानेयुगक्षये/अधर्मश्चानृतंचैवववृधेपुरुषर्षभ/तस्मिन्द्वापरसंख्यातेतपोवैश्यान्समाविशत्/नशूद्रोलभतेधर्ममुग्रंतप्तंनरर्षभ/हीनवर्णोनरश्रेष्ठतप्यतेसुमहत्तपः/भविष्याशूद्रयोन्यांहितपश्चर्याकलौयुगे/अधर्मःपरमोरामद्वापरेशूद्रधारितः/सवैविषयपर्यन्तेतवराजन्महातपाः/शूद्रस्तप्यतिदुर्बुद्धिस्तेनबालवधोह्ययम्/योह्यधर्ममकार्यंवाविषयेपार्थिवस्यहि/करोतिराजशार्दूलपुरेवादुर्मतिर्नरः/क्षिप्रंहिनरकंयातिसचराजानसंशयः/सत्वंपुरुषशार्दूलमार्गस्वविषयंस्वकम्/दुष्कृतंयत्रपश्येथास्तत्रयत्नंसमाचर/एवंतेधर्मवृद्धिश्चनृणांचायुर्विवर्धनम्/भविष्यतिनरश्रेष्ठबालस्यास्यचजीवितम्/नारदस्यतुतद्वाक्यंश्रुत्वामृतमयंयथा/प्रहर्षमतुलंलेभेलक्ष्मणंचेदमब्रवीत्/गच्छसौम्यद्विजश्रेष्ठंसमाश्वासयलक्ष्मण/बालस्यचशरीरंतत्तैलद्रोण्यांनिधापय/गन्धैश्चपरमोदारैस्तैलैश्चसुसुगन्धिभिः/यथानक्षीयतेबालस्तथासौम्यविधीयताम्/यथाशरीरेबालस्यगुप्तस्याक्लिष्टकर्मणः/विपत्तिःपरिभेदोवाभवेन्नचतथाकुरु/तथासंदिश्यकाकुत्स्थोलक्ष्मणंशुभलक्षणम्/मनसापुष्पकंदध्यावागच्छेतिमहायशाः/इङ्गितंसतुविज्ञायपुष्पकोहेमभूषितः/आजगाममुहूर्तेनसंपीपंराघवस्यवै/सोऽब्रवीत्प्रणतोभूत्वाअयमस्मिनराधिप/वश्यस्तवमहाबाहोकिंकरःसमुपस्थितः/भाषितंरुचिरंश्रुत्वापुष्पकस्यनराधिपः/अभिवाद्यमहर्षीस्तान्विमानंसोऽध्यरोहत/धनुर्गृहीत्वातूणींचखग्दंचरुचिरप्रभम्/निक्षिप्यनगरेवीरौसौमित्रिभरतावुभौ/प्रायात्प्रतीचींसमरून्विचिन्वंश्चसमन्ततः/उत्तरामगमच्छ्रीमान्दिशंहिमवदावृतम्/अपश्यमानस्तत्रापिस्वल्पमप्यथदुष्कृतम्/पूर्वामपिदिशंसर्वामथापश्यन्नराधिपः/दक्षिणांदिशमाक्रामत्ततोराजर्षिनन्दनः/शैवलस्योत्तरेपार्श्वेददर्शसुमहत्सरः/तस्मिन्सरसितप्यन्तंतापसंसुमहत्तपः/ददर्शराघवःश्रीमांल्लम्बमानमधोमुखम्/अथैनंसमुपागम्यतप्यन्तंतपउत्तमम्/उवाचराघवोवाक्यंधन्यस्त्वमसिसुव्रत/कस्यांयोन्यांतपोवृद्धवर्तसेदृढविक्रम/कौतूहलात्त्वांपृच्छामिरामोदाशरथिर्ह्यहम्/मनीषितस्तेकोन्वर्थःस्वर्गलाभोवराश्रयः/यमश्रित्यतपस्तप्तंश्रोतुमिच्छामितापस/ब्राह्मणोवासिभद्रंतेक्षत्रियोवासिदुर्जयः/वैश्योवायदिवाशूद्रःसत्यमेतद्ब्रवीहिमे/तस्यतद्वचनंश्रुत्वारामस्याक्लिष्टकर्मणः/अवाक्शिरास्तथाभूतोवाक्यमेतदुवाचह/शूद्रयोन्यांप्रसूतोऽस्मितपउग्रंसमास्थितः/देवत्वंप्रार्थयेरामसशरीरोमहायशः/नमिथ्याहंवदेराजन्देवलोकजिगीषया/शूद्रंमांविद्धिकाकुत्स्थशम्बूकंनामनामतः/भाषतस्तस्यशूद्रस्यखड्गंसुरुचिरप्रभम्/निष्कृष्यकोशाद्विमलंशिरश्चिच्छेदराघवः/तस्मिन्मुहूर्तेबालोऽसौजीवेनसमयुज्यत/ततोऽगस्त्याश्रमपदंरामःकमललोचनः/सगत्वाविनयेनैवतंनत्वामुमुदेसुखी/सोऽभिवाद्यमहात्मानंज्वलन्तमिवतेजसा/आतिथ्यंपरमंप्राप्यनिषसादनराधिपः/तमुवाचमहातेजाःकुम्भयोनिर्महातपाः/स्वागतंतेनरश्रेष्ठदिष्ट्याप्राप्तोऽसिराघव/त्वंमेबहुमतोरामगुणैर्बहुभिरुत्तमैः/अतिथिःपूजनीयश्चमामराजन्हृदिस्थितः/सुराहिकथयन्तित्वामागतंशूद्रघातिनम्/ब्राह्मणस्यतुधर्मेणत्वयाजीवापितःसुतः/उष्यतांचेहरजनींसकाशेममराघव/प्रभातेपुष्पकेणत्वंगन्तास्वपुरमेवहि/इदंचाभरणंसौम्यनिर्मितंविश्वकर्मणा/दिव्यंदिव्येनवपुषादीप्यमानंस्वतेजसा/प्रतिगृह्णीष्वकाकुत्स्थमत्प्रियंकुरुराघव/दत्तस्यहिपुनर्दानंसुमहत्फलमुच्यते/तस्मात्प्रदास्येविधिवत्तत्प्रतीच्छनरर्षभ/तद्रामःप्रतिजग्राहमुनेस्तस्यमहात्मनः/दिव्यमाभरणंचित्रंप्रदीप्तमिवभास्करम्/प्रतिगृह्यततोरामस्तदाभरणमुत्तमम्/आगमंतस्यदिव्यस्यप्रष्टुमेवोपचक्रमे/अत्यद्भुतमिदंब्रह्मन्वपुषायुक्तमुत्तमम्/कथंभगवताप्राप्तंकुतोवाकेनवाहृतम्/कुतूहलतयाब्रह्मन्पृच्छामित्वांमहायशः/आश्चर्याणांबहूनांहिनिधिःपरमकोभवान्/एवंब्रुवतिकाकुत्स्थेमुनिर्वाक्यमथाब्रवीत्/शृणुरामयथावृत्तंपुरात्रेतायुगेगते/पुरात्रेतायुगेह्यासीदरण्यंबहुविस्तरम्/समन्ताद्योजनशतंनिर्मृगंपक्षिवर्जितम्/तस्मिन्निर्मानुषेऽरण्येकुर्वाणस्तपउत्तमम्/अहमाक्रमितुंशौम्यतदरण्यमुपागमम्/तस्यरूपमरण्यस्यनिर्देष्टुंनशशाकह/फलमूलैःसुखास्वादैर्बहुरूपैश्चपादपैः/तस्यारण्यस्यमध्येतुसरोयोजनमायतम्/पद्मोत्पलसमाकीर्णंसमतिक्रान्तशैवलम्/तदाश्चर्यमिवात्यर्थंसुखास्वादमनुत्तमम्/अरजस्कंतथाक्षोभ्यंश्रीमत्पक्षिगणायुतम्/तस्मिन्सरःसमीपेतुमहदद्भुतमाश्रमम्/पुराणंपुण्यमत्यर्थंतपस्विजनवर्जितम्/तत्राहमवसंरात्रिंनैदाघींपुरुषर्षभ/प्रभातेकाल्यमुत्थायसरस्तदुपचक्रमे/अथापश्यंःशवंतत्रसुपुष्टमजरंक्वचित्/तिष्ठन्तंपरयालक्ष्म्यातस्मिंस्तोयाशयेनृप/तमर्थंचिन्तयानोऽहंमुहूर्तंतत्रराघव/विष्ठितोऽस्मिसरस्तीरेकिंन्विदंस्यादितिप्रभो/अथापश्यंमुहूर्तात्तुदिव्यमद्भुतदर्शनम्/विमानंपरमोदारंहंसयुक्तंमनोजवम्/अत्यर्थंस्वर्गिणंतत्रविमानेरघुनन्दन/उपास्तेऽप्सरसांवीरसहस्रंदिव्यभूषणम्/गान्तिगेयानिरम्याणिवादयन्तितथापराः/पश्यतोमेतदारामविमानादवरुह्यच/तंशवंभक्षयामाससस्वर्गीरघुनन्दन/ततोभुक्त्वायथाकामंमांसंबहुचसुष्ठुच/अवतीर्यसरःस्वर्गीसंस्प्रष्टुमुपचक्रमे/उपस्पृश्ययथान्यायंसस्वर्गीपुरुषर्षभ/आरोढुमुपचक्रामविमानवरमुत्तमम्/तमहंदेवसंकाशमारोहन्तमुदीक्ष्यवै/अथाहमब्रुवंवाक्यंतमेवपुरुषर्षभ/कोभवान्देवसंकाशआहारश्चविगर्हितः/त्वयायंभुज्यतेसौम्यकिंकर्थंवक्तुमर्हसि/आश्चर्यमीदृशोभावोभास्वरोदेवसंमतः/आहारोगर्हितःसौम्यश्रोतुमिच्छामितत्त्वतः/भुक्त्वातुभाषितंवाक्यंममरामशुभाक्षरम्/प्राञ्जलिःप्रत्युवाचेदंसस्वर्गीरघुनन्दन/शृणुब्रह्मन्यथावृत्तंममैतत्सुखदुःखयोः/दुरतिक्रमणीयंहियथापृच्छसिमांद्विज/पुरावैदर्भकोराजापितामममहायशाः/सुदेवइतिविख्यातस्त्रिषुलोकेषुवीर्यवान्/तस्यपुत्रद्वयंब्रह्मन्द्वाभ्यांस्त्रीभ्यामजायत/अहंश्वेतइतिख्यातोयवीयान्सुरथोऽभवत्/ततःपितरिस्वर्यातेपौरामामभ्यषेचयन्/तत्राहंकृतवान्राज्यंधर्मेणसुसमाहितः/एवंवर्षसहस्राणिसमतीतानिसुव्रत/राज्यंकारयतोब्रह्मन्प्रजाधर्मेणरक्षतः/सोऽहंनिमित्तेकस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम/कालधर्मंहृदिन्यस्यततोवनमुपागमम्/सोऽहंवनमिदंदुर्गंमृगपक्षिविवर्जितम्/तपश्चर्तुंप्रविष्टोऽस्मिसमीपेसरसःशुभे/भ्रातरंसुरथंराज्येअभिषिच्यनराधिपम्/इदंसरःसमासाद्यतपस्तप्तंमयाचिरम्/सोऽहंवर्षसहस्राणितपस्त्रीणिमहामुने/तप्त्वासुदुष्करंप्राप्तोब्रह्मलोकमनुत्तमम्/ततोमांस्वर्गसंस्थंवैक्षुत्पिपासेद्विजोत्तम/बाधेतेपरमोदारततोऽहंव्यथितेन्द्रियः/गत्वात्रिभुवणश्रेष्ठंपितामहमुवाचह/भगवन्ब्रह्मलोकोऽयंक्षुत्पिपासाविवर्जितः/कस्येयंकर्मणःप्राप्तिःक्षुत्पिपासावशोऽस्मियत्/आहारःकश्चमेदेवतन्मेब्रूहिपितामह/पितामहस्तुमामाहतवाहारःसुदेवज/स्वादूनिस्वानिमांसानितानिभक्षयनित्यशः/स्वशरीरंत्वयापुष्टंकुर्वतातपउत्तमम्/अनुप्तंरोहतेश्वेतनकदाचिन्महामते/दत्तंनतेऽस्तिसूक्ष्मोऽपिवनेसत्त्वनिषेविते/तेनस्वर्गगतोवत्सबाध्यसेक्षुत्पिपासया/सत्वंसुपुष्टमाहारैःस्वशरीरमनुत्तमम्/भक्षयस्वामृतरसंसातेतृप्तिर्भविष्यति/यदातुतद्वनंश्वेतअगस्त्यःसुमहानृषिः/आक्रमिष्यतिदुर्धर्षस्तदाकृच्छाद्विमोक्ष्यसे/सहितारयितुंसौम्यशक्तःसुरगणानपि/किंपुनस्त्वांमहाबाहोक्षुत्पिपासावशंगतम्/सोऽहंभगवतःश्रुत्वादेवदेवस्यनिश्चयम्/आहारंगर्हितंकुर्मिस्वशरीरंद्विजोत्तम/बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदंमया/क्षयंनाभ्येतिब्रह्मर्षेतृप्तिश्चापिममोत्तमा/तस्यमेकृच्छ्रभूतस्यकृच्छ्रादस्माद्विमोक्षय/अन्येषामगतिर्ह्यत्रकुम्भयोनिमृतेद्विजम्/इदमाभरणंसौम्यतारणार्थंद्विजोत्तम/प्रतिगृह्णीष्वब्रह्मर्षेप्रसादंकर्तुमर्हसि/तस्याहंस्वर्गिणोवाक्यंश्रुत्वादुःखसमन्वितम्/तारणायोपजग्राहतदाभरणमुत्तमम्/मयाप्रतिगृहीतेतुतस्मिन्नाभरणेशुभे/मानुषःपूर्वकोदेहोराजर्षेःसननाशह/प्रनष्टेतुशरीरेऽसौराजर्षिःपरयामुदा/तृप्तःप्रमुदितोराजाजगामत्रिदिवंपुनः/तेनेदंशक्रतुल्येनदिव्यमाभरणंमम/तस्मिन्निमित्तेकाकुत्स्थदत्तमद्भुतदर्शनम्/तदद्भुततमंवाक्यंश्रुत्वागस्त्यस्यराघवः/गौरवाद्विस्मयाच्चैवभूयःप्रष्टुंप्रचक्रमे/भगवंस्तद्वनंघोरंतपस्तप्यतियत्रसः/श्वेतोवैदर्भकोराजाकथंतदमृगद्विजम्/निःसत्त्वंचवनंजातंशून्यंमनुजवर्जितम्/तपश्चर्तुंप्रविष्टःसश्रोतुमिच्छामितत्त्वतः/रामस्यभाषितंश्रुत्वाकौतूहलसमन्वितम्/वाक्यंपरमतेजस्वीवक्तुमेवोपचक्रमे/पुराकृतयुगेराममनुर्दण्डधरःप्रभुः/तस्यपुत्रोमहानासीदिक्ष्वाकुःकुलवर्धनः/तंपुत्रंपूर्वकेराज्येनिक्षिप्यभुविदुर्जयम्/पृथिव्यांराजवंशानांभवकर्तेत्युवाचह/तथेतिचप्रतिज्ञातंपितुःपुत्रेणराघव/ततःपरमसंहृष्टोमनुःपुनरुवाचह/प्रीतोऽस्मिपरमोदारकर्ताचासिनसंशयः/दण्डेनचप्रजारक्षमाचदण्डमकारणे/अपराधिषुयोदण्डःपात्यतेमानवेषुवै/सदण्डोविधिवन्मुक्तःस्वर्गंनयतिपार्थिवम्/तस्माद्दण्डेमहाबाहोयत्नवान्भवपुत्रक/धर्मोहिपरमोलोकेकुर्वतस्तेभविष्यति/इतितंबहुसंदिश्यमनुःपुत्रंसमाधिना/जगामत्रिदिवंहृष्टोब्रह्मलोकमनुत्तमम्/प्रयातेत्रिदिवेतस्मिन्निक्ष्वाकुरमितप्रभः/जनयिष्येकथंपुत्रानितिचिन्तापरोऽभवत्/कर्मभिर्बहुरूपैश्चतैस्तैर्मनुसुतःसुतान्/जनयामासधर्मात्माशतंदेवसुतोपमान्/तेषामवरजस्तातसर्वेषांरघुनन्दन/मूढश्चाकृतिविद्यश्चनशुश्रूषतिपूर्वजान्/नामतस्यचदण्डेतिपिताचक्रेऽल्पतेजसः/अवश्यंदण्डपतनंशरीरेऽस्यभविष्यति/सपश्यमानस्तंदोषंघोरंपुत्रस्यराघव/विन्ध्यशैवलयोर्मध्येराज्यंप्रादादरिंदम/सदण्डस्तत्रराजाभूद्रम्येपर्वतरोधसि/पुरंचाप्रतिमंरामन्यवेशयदनुत्तमम्/पुरस्यचाकरोन्नाममधुमन्तमितिप्रभो/पुरोहितंचोशनसंवरयामाससुव्रतम्/एवंसराजातद्राज्यंकारयत्सपुरोहितः/प्रहृष्टमनुजाकीर्णंदेवराज्यंयथादिवि/एतदाख्यायरामायमहर्षिःकुम्भसंभवः/अस्यामेवापरंवाक्यंकथायामुपचक्रमे/ततःसदण्डःकाकुत्स्थबहुवर्षगणायुतम्/अकरोत्तत्रमन्दात्माराज्यंनिहतकण्टकम्/अथकालेतुकस्मिंश्चिद्राजाभार्गवमाश्रमम्/रमणीयमुपाक्रामच्चैत्रेमासिमनोरमे/तत्रभार्गवकन्यांसरूपेणाप्रतिमांभुवि/विचरन्तींवनोद्देशेदण्डोऽपश्यदनुत्तमाम्/सदृष्ट्वातांसुदुर्मेधाअनङ्गशरपीडितः/अभिगम्यसुसंविग्नःकन्यांवचनमब्रवीत्/कुतस्त्वमसिसुश्रोणिकस्यवासिसुताशुभे/पीडितोऽहमनङ्गेनपृच्छामित्वांसुमध्यमे/तस्यत्वेवंब्रुवाणस्यमोहोन्मत्तस्यकामिनः/भार्गवीप्रत्युवाचेदंवचःसानुनयंनृपम्/भार्गवस्यसुतांविद्धिदेवस्याक्लिष्टकर्मणः/अरजांनामराजेन्द्रज्येष्ठामाश्रमवासिनीम्/गुरुःपितामेराजेन्द्रत्वंचशिष्योमहात्मनः/व्यसनंसुमहत्क्रुद्धःसतेदद्यान्महातपाः/यदिवात्रमयाकार्यंधर्मदृष्टेनसत्पथा/वरयस्वनृपश्रेष्ठपितरंमेमहाद्युतिम्/अन्यथातुफलंतुभ्यंभवेद्घोराभिसंहितम्/क्रोधेनहिपितामेऽसौत्रैलोक्यमपिनिर्दहेत्/एवंब्रुवाणामरजांदण्डःकामशरार्दितः/प्रत्युवाचमदोन्मत्तःशिरस्याधायसोऽञ्जलिम्/प्रसादंकुरुसुश्रोणिनकालंक्षेप्तुमर्हसि/त्वत्कृतेहिममप्राणाविदीर्यन्तेशुभानने/त्वांप्राप्यहिवधोवापिपापंवापिसुदारुणम्/भक्तंभजस्वमांभीरुभजमानंसुविह्वलम्/एवमुक्त्वातुतांकन्यांदोर्भ्यांगृह्यबलाद्बली/विस्फुरन्तींयथाकामंमैथुनायोपचक्रमे/तमनर्थंमहाघोरंदण्डःकृत्वासुदारुणम्/नगरंप्रययौचाशुमधुमन्तमनुत्तमम्/अरजापिरुदन्तीसाआश्रमस्याविदूरतः/प्रतीक्षतेसुसंत्रस्तापितरंदेवसंनिभम्/समुहूर्तादुपश्रुत्यदेवर्षिरमितप्रभः/स्वमाश्रमंशिष्यवृतःक्षुधार्तःसंन्यवर्तत/सोऽपश्यदरजांदीनांरजसासमभिप्लुताम्/ज्योत्स्नामिवारुणग्रस्तांप्रत्यूषेनविराजतीम्/तस्यरोषःसमभवत्क्षुधार्तस्यविशेषतः/निर्दहन्निवलोकांस्त्रीञ्शिष्यांश्चेदमुवाचह/पश्यध्वंविपरीतस्यदण्डस्याविदितात्मनः/विपत्तिंघोरसंकाशांक्रुद्धामग्निशिखामिव/क्षयोऽस्यदुर्मतेःप्राप्तःसानुगस्यदुरात्मनः/यःप्रदीप्तांहुताशस्यशिखांवैस्प्रष्टुमिच्छति/यस्मात्सकृतवान्पापमीदृशंघोरदर्शनम्/तस्मात्प्राप्स्यतिदुर्मेधाःफलंपापस्यकर्मणः/सप्तरात्रेणराजासौसभृत्यबलवाहनः/पापकर्मसमाचारोवधंप्राप्स्यतिदुर्मतिः/समन्ताद्योजनशतंविषयंचास्यदुर्मतेः/धक्ष्यतेपांसुवर्षेणमहतापाकशासनः/सर्वसत्त्वानियानीहस्थावराणिचराणिच/महतापांसुवर्षेणनाशंयास्यन्तिसर्वशः/दण्डस्यविषयोयावत्तावत्सर्वसमुच्छ्रयः/पांसुभुतइवालक्ष्यःसप्तरात्राद्भविष्यति/इत्युक्त्वाक्रोधसंतपस्तमाश्रमनिवासिनम्/जनंजनपदान्तेषुस्थीयतामितिचाब्रवीत्/श्रुत्वातूशसनोवाक्यंसआश्रमावसथोजनः/निष्क्रान्तोविषयात्तस्यस्थानंचक्रेऽथबाह्यतः/सतथोक्त्वामुनिजनमरजामिदमब्रवीत्/इहैववसदुर्मेधेआश्रमेसुसमाहिता/इदंयोजनपर्यन्तंसरःसुरुचिरप्रभम्/अरजेविज्वराभुङ्क्ष्वकालश्चात्रप्रतीक्ष्यताम्/त्वत्समीपेतुयेसत्त्वावासमेष्यन्तितांनिशाम्/अवध्याःपांसुवर्षेणतेभविष्यन्तिनित्यदा/इत्युक्त्वाभार्गवोवासमन्यत्रसमुपाक्रमत्/सप्ताहाद्भस्मसाद्भूतंयथोक्तंब्रह्मवादिना/तस्यासौदण्डविषयोविन्ध्यशैवलसानुषु/शप्तोब्रह्मर्षिणातेनपुरावैधर्मकेकृते/ततःप्रभृतिकाकुत्स्थदण्डकारण्यमुच्यते/तपस्विनःस्थितायत्रजनस्थानमथोऽभवत्/एतत्तेसर्वमाख्यातंयन्मांपृच्छसिराघव/संध्यामुपासितुंवीरसमयोह्यतिवर्तते/एतेमहर्षयःसर्वेपूर्णकुम्भाःसमन्ततः/कृतोदकोनरव्याघ्रआदित्यंपर्युपासते/सतैरृषिभिरभ्यस्तःसहितैर्ब्रह्मसत्तमैः/रविरस्तंगतोरामगच्छोदकमुपस्पृश/ऋषेर्वचनमाज्ञायरामःसंध्यामुपासितुम्/उपाक्रामत्सरःपुण्यमप्सरोभिर्निषेवितम्/तत्रोदकमुपस्पृष्श्यसंध्यामन्वास्यपश्चिमाम्/आश्रमंप्राविशद्रामःकुम्भयोनेर्महात्मनः/अस्यागस्त्योबहुगुणंफलमूलंतथौषधीः/शाकानिचपवित्राणिभोजनार्थमकल्पयत्/सभुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्/प्रीतश्चपरितुष्टश्चतांरात्रिंसमुपावसत्/प्रभातेकाल्यमुत्थायकृत्वाह्निकमरिंदमः/ऋषिंसमभिचक्रामगमनायरघूत्तमः/अभिवाद्याब्रवीद्रामोमहर्षिंकुम्भसंभवम्/आपृच्छेत्वांगमिष्यामिमामनुज्ञातुमर्हसि/धन्योऽस्म्यनुगृहीतोऽस्मिदर्शनेनमहात्मनः/द्रष्टुंचैवागमिष्यामिपावनार्थमिहात्मनः/तथावदतिकाकुत्स्थेवाक्यमद्भुतदर्शनम्/उवाचपरमप्रीतोधर्मनेत्रस्तपोधनः/अत्यद्भुतमिदंवाक्यंतवरामशुभाक्षरम्/पावनःसर्वलोकानांत्वमेवरघुनन्दन/मुहूर्तमपिरामत्वांयेनुपश्यन्तिकेचन/पाविताःस्वर्गभूतास्तेपूज्यन्तेदिविदैवतैः/येचत्वांघोरचक्षुर्भिरीक्षन्तेप्राणिनोभुवि/हतास्तेयमदण्डेनसद्योनिरयगामिनः/गच्छचारिष्टमव्यग्रःपन्थानमकुतोभयम्/प्रशाधिराज्यंधर्मेणगतिर्हिजगतोभवान्/एवमुक्तस्तुमुनिनाप्राञ्जलिःप्र्पग्रहोनृपः/अभ्यवादयतप्राज्ञस्तमृषिंपुण्यशीलिनम्/अभिवाद्यमुनिश्रेष्ठंतांश्चसर्वांस्तपोधनान्/अध्यारोहत्तदव्यग्रःपुष्पकंहेमभूषितम्/तंप्रयान्तंमुनिगणाआशीर्वादैःसमन्ततः/अपूजयन्महेन्द्राभंसहस्राक्षमिवामराः/स्वस्थःसददृशेरामःपुष्पकेहेमभूषिते/शशीमेघसमीपस्थोयथाजलधरागमे/ततोऽर्धदिवसेप्राप्तेपूज्यमानस्ततस्ततः/अयोध्यांप्राप्यकाकुत्स्थोविमानादवरोहत/ततोविसृज्यरुचिरंपुष्पकंकामगामिनम्/कक्ष्यान्तरविनिक्षिप्तंद्वाःस्थंरामोऽब्रवीद्वचः/लक्ष्मणंभरतंचैवगत्वातौलघुविक्रमौ/ममागमनमाख्यायशब्दापयचमांचिरम्/तच्छ्रुत्वाभाषितंतस्यरामस्याक्लिष्टकर्मणः/द्वाःस्थःकुमारावाहूयराघवायन्यवेदयत्/दृष्ट्वातुराघवःप्राप्तौप्रियौभरतलक्ष्मणौ/परिष्वज्यततोरामोवाक्यमेतदुवाचह/कृतंमयायथातथ्यंद्विजकार्यमनुत्तमम्/धर्मसेतुमतोभूयःकर्तुमिच्छामिराघवौ/युवाभ्यामात्मभूताभ्यांराजसूयमनुत्तमम्/सहितोयष्टुमिच्छामितत्रधर्मोहिशाश्वतः/इष्ट्वातुराजसूयेनमित्रःशत्रुनिबर्हणः/सुहुतेनसुयज्ञेनवरुणत्वमुपागमत्/सोमश्चराजसूयेनइष्ट्वाधर्मेणधर्मवित्/प्राप्तश्चसर्वलोकानांकीर्तिंस्थानंचशाश्वतम्/अस्मिन्नहनियच्छ्रेयश्चिन्त्यतांतन्मयासह/हितंचायतियुक्तंचप्रयतौवक्तुमर्हथ/श्रुतातुराघवस्यैतद्वाक्यंवाक्यविशारदः/भरतःप्राञ्जलिर्भूत्वावाक्यमेतदुवाचह/त्वयिधर्मःपरःसाधोत्वयिसर्वावसुंधरा/प्रतिष्ठितामहाबाहोयशश्चामितविक्रम/महीपालाश्चसर्वेत्वांप्रजापतिमिवामराः/निरीक्षन्तेमहात्मानोलोकनाथंयथावयम्/प्रजाश्चपितृवद्राजन्पश्यन्तित्वांमहाबल/पृथिव्यांगतिभूतोऽसिप्राणिनामपिराघव/सत्वमेवंविधंयज्ञमाहर्तासिकथंनृप/पृथिव्यांराजवंशानांविनाशोयत्रदृश्यते/पृथिव्यांयेचपुरुषाराजन्पौरुषमागताः/सर्वेषांभवितातत्रक्षयःसर्वान्तकोपमः/सत्वंपुरुषशार्दूलगुणैरतुलविक्रम/पृथिवींनार्हसेहन्तुंवशेहितववर्तते/भरतस्यतुतद्वाक्यंश्रुत्वामृतमयंयथा/प्रहर्षमतुलंलेभेरामःसत्यपराक्रमः/उवाचचशुभांवाणींकैकेय्यानन्दिवर्धनम्/प्रीतोऽस्मिपरितुष्टोऽस्मितवाद्यवचनेनहि/इदंवचनमक्लीबंत्वयाधर्मसमाहितम्/व्याहृतंपुरुषव्याघ्रपृथिव्याःपरिपालनम्/एषतस्मादभिप्रायाद्राजसूयात्क्रतूत्तमान्/निवर्तयामिधर्मज्ञतवसुव्याहृतेनवै/प्रजानांपालनंधर्मोराज्ञांयज्ञेनसंमितः/तस्माच्छृणोमितेवाक्यंसाधूक्तंसुसमाहितम्/तथोक्तवतिरामेतुभरतेचमहात्मनि/लक्ष्मणोऽपिशुभंवाक्यमुवाचरघुनन्दनम्/अश्वमेधोमहायज्ञःपावनःसर्वपाप्मनाम्/पावनस्तवदुर्धर्षोरोचतांक्रतुपुंगवः/श्रूयतेहिपुरावृत्तंवासवेसुमहात्मनि/ब्रह्महत्यावृतःशक्रोहयमेधेनपावितः/पुराकिलमहाबाहोदेवासुरसमागमे/वृत्रोनाममहानासीद्दैतेयोलोकसंमतः/विस्तीर्णायोजनशतमुच्छ्रितस्त्रिगुणंततः/अनुरागेणलोकांस्त्रीन्स्नेहात्पश्यतिसर्वतः/धर्मज्ञश्चकृतज्ञश्चबुद्ध्याचपरिनिष्ठितः/शशासपृथिवींसर्वांधर्मेणसुसमाहितः/तस्मिन्प्रशासतितदासर्वकामदुघामही/रसवन्तिप्रसूतानिमूलानिचफलानिच/अकृष्टपच्यापृथिवीसुसंपन्नामहात्मनः/सराज्यंतादृशंभुङ्क्तेस्फीतमद्भुतदर्शनम्/तस्यबुद्धिःसमुत्पन्नातपःकुर्यामनुत्तमम्/तपोहिपरमंश्रेयस्तपोहिपरमंसुखम्/सनिक्षिप्यसुतंज्येष्ठंपौरेषुपरमेश्वरम्/तपउग्रमुपातिष्ठत्तापयन्सर्वदेवताः/तपस्तप्यतिवृत्रेतुवासवःपरमार्तवत्/विष्णुंसमुपसंक्रम्यवाक्यमेतदुवाचह/तपस्यतामहाबाहोलोकावृत्रेणनिर्जिताः/बलवान्सहिधर्मात्मानैनंशक्ष्यामिबाधितुम्/यद्यसौतपआतिष्ठेद्भूयएवसुरेश्वर/यावल्लोकाधरिष्यन्तितावदस्यवशानुगाः/त्वंचैनंपरमोदारमुपेक्षसिमहाबल/क्षणंहिनभवेद्वृत्रःक्रुद्धेत्वयिसुरेश्वर/यदाहिप्रीतिसंयोगंत्वयाविष्णोसमागतः/तदाप्रभृतिलोकानांनाथत्वमुपलब्धवान्/सत्वंप्रसादंलोकानांकुरुष्वसुमहायशः/त्वत्कृतेनहिसर्वंस्यात्प्रशान्तमजरंजगत्/इमेहिसर्वेविष्णोत्वांनिरीक्षन्तेदिवौकसः/वृत्रघतेनमहताएषांसाह्यंकुरुष्वह/त्वयाहिनित्यशःसाह्यंकृतमेषांमहात्मनाम्/असह्यमिदमन्येषामगतीनांगतिर्भवान्/लक्ष्मणस्यतुतद्वाक्यंश्रुत्वाशत्रुनिबर्हणः/वृत्रघातमशेषेणकथयेत्याहलक्ष्मणम्/राघवेणैवमुक्तस्तुसुमित्रानन्दवर्धनः/भूयएवकथांदिव्यांकथयामासलक्ष्मणः/सहस्राक्षवचःश्रुत्वासर्वेषांचदिवौकसाम्/विष्णुर्देवानुवाचेदंसर्वानिन्द्रपुरोगमान्/पूर्वंसौहृदबद्धोऽस्मिवृत्रस्यसुमहात्मनः/तेनयुष्मत्प्रियार्थंवैनाहंहन्मिमहासुरम्/अवश्यंकरणीयंचभवतांसुखमुत्तमम्/तस्मादुपायमाख्यास्येयेनवृत्रंहनिष्यथ/त्रिधाभूतंकरिष्येऽहमात्मानंसुरसत्तमाः/तेनवृत्रंसहस्राक्षोहनिष्यतिनसंशयः/एकोऽंशोवासवंयातुद्वितीयोवज्रमेवतु/तृतीयोभूतलंशक्रस्ततोवृत्रंहनिष्यति/तथाब्रुवतिदेवेशेदेवावाक्यमथाब्रुवन्/एवमेतन्नसंदेहोयथावदसिदैत्यहन्/भद्रंतेऽस्तुगमिष्यामोवृत्रासुरवधैषिणः/भजस्वपरमोदारवासवंस्वेनतेजसा/ततःसर्वेमहात्मानःसहस्राक्षपुरोगमाः/तदरण्यमुपाक्रामन्यत्रवृत्रोमहासुरः/तेऽपश्यंस्तेजसाभूतंतपन्तमसुरोत्तमम्/पिबन्तमिवलोकांस्त्रीन्निर्दहन्तमिवाम्बरम्/दृष्ट्वैवचासुरश्रेष्ठंदेवास्त्रासमुपागमन्/कथमेनंवधिष्यामःकथंनस्यात्पराजयः/तेषांचिन्तयतांतत्रसहस्राक्षःपुरंदरः/वज्रंप्रगृह्यबाहुभ्यांप्रहिणोद्वृत्रमूर्धनि/कालाग्निनेवघोरेणदीप्तेनेवमहार्चिषा/प्रतप्तंवृत्रशिरसिजगत्त्रासमुपागमत्/असंभाव्यंवधंतस्यवृत्रस्यविबुधाधिपः/चिन्तयानोजगामाशुलोकस्यान्तंमहायशाः/तमिन्द्रंब्रह्महत्याशुगच्छन्तमनुगच्छति/अपतच्चास्यगात्रेषुतमिन्द्रंदुःखमाविशत्/हतारयःप्रनष्टेन्द्रादेवाःसाग्निपुरोगमाः/विष्णुंत्रिभुवणश्रेष्ठंमुहुर्मुहुरपूजयन्/त्वंगतिःपरमादेवपूर्वजोजगतःप्रभुः/रथार्थंसर्वभूतानांविष्णुत्वमुपजग्मिवान्/हतश्चायंत्वयावृत्रोब्रह्महत्याचवासवम्/बाधतेसुरशार्दूलमोक्षंतस्यविनिर्दिश/तेषांतद्वचनंश्रुत्वादेवानांविष्णुरब्रवीत्/मामेवयजतांशक्रःपावयिष्यामिवज्रिणम्/पुण्येनहयमेधेनमामिष्ट्वापाकशासनः/पुनरेष्यतिदेवानामिन्द्रत्वमकुतोभयः/एवंसंदिश्यदेवानांतांवाणीममृतोपमा/जगामविष्णुर्देवेशःस्तूयमानस्त्रिविष्टपम्/तथावृत्रवधंसर्वमखिलेनसलक्ष्मणः/कथयित्वानरश्रेष्ठःकथाशेषमुपाक्रमत्/ततोहतेमहावीर्येवृत्रेदेवभयंकरे/ब्रह्महत्यावृतःशक्रःसंज्ञांलेभेनवृत्रहा/सोऽन्तमाश्रित्यलोकानांनष्टसंज्ञोविचेतनः/कालंतत्रावसत्कंचिद्वेष्टमानोयथोरगः/अथनष्टेसहस्राक्षेउद्विग्नमभवज्जगत्/भूमिश्चध्वस्तसंकाशानिःस्नेहाशुष्ककानना/निःस्रोतसश्चाम्बुवाहाह्रदाश्चसरितस्तथा/संक्षोभश्चैवसत्त्वानामनावृष्टिकृतोऽभवत्/क्षीयमाणेतुलोकेऽस्मिन्संभ्रान्तमनसःसुराः/यदुक्तंविष्णुनापूर्वंतंयज्ञंसमुपानयन्/ततःसर्वेसुरगणाःसोपाध्यायाःसहर्षिभिः/तंदेशंसहिताजग्मुर्यत्रेन्द्रोभयमोहितः/तेतुदृष्ट्वासहस्राक्षंमोहितंब्रह्महत्यया/तंपुरस्कृत्यदेवेशमश्वमेधंप्रचक्रिरे/ततोऽश्वमेधःसुमहान्महेन्द्रस्यमहात्मनः/ववृधेब्रह्महत्यायाःपावनार्थंनरेश्वर/ततोयज्ञसमाप्तौतुब्रह्महत्यामहात्मनः/अभिगम्याब्रवीद्वाक्यंक्वमेस्थानंविधास्यथ/तेतामूचुस्ततोदेवास्तुष्टाःप्रीतिसमन्विताः/चतुर्धाविभजात्मानमात्मनैवदुरासदे/देवानांभाषितंश्रुत्वाब्रह्महत्यामहात्मनाम्/संनिधौस्थानमन्यत्रवरयामासदुर्वसा/एकेनांशेनवत्स्यामिपूर्णोदासुनदीषुवै/द्वितीयेनतुवृक्षेषुसत्यमेतद्ब्रवीमिवः/योऽयमंशस्तृतीयोमेस्त्रीषुयौवनशालिषु/त्रिरात्रंदर्पपर्णासुवसिष्येदर्पघातिनी/हन्तारोब्राह्मणान्येतुप्रेक्षापूर्वमदूषकान्/तांश्चतुर्थेनभागेनसंश्रयिष्येसुरर्षभाः/प्रत्यूचुस्तांततोदेवायथावदसिदुर्वसे/तथाभवतुतत्सर्वंसाधयस्वयथेप्सितम्/ततःप्रीत्यान्वितादेवाःसहस्राक्षंववन्दिरे/विज्वरःपूतपाप्माचवासवःसमपद्यत/प्रशान्तंचजगत्सर्वंसहस्राक्षेप्रतिष्ठते/यज्ञंचाद्भुतसंकाशंतदाशक्रोऽभ्यपूजयत्/ईदृशोह्यश्वमेधस्यप्रभावोरघुनन्दन/यजस्वसुमहाभागहयमेधेनपार्थिव/तच्छ्रुत्वालक्ष्मणेनोक्तंवाक्यंवाक्यविशारदः/प्रत्युवाचमहातेजाःप्रहसन्राघवोवचः/एवमेतन्नरश्रेष्ठयथावदसिलक्ष्मण/वृत्रघातमशेषेणवाजिमेधफलंचयत्/श्रूयतेहिपुरासौम्यकर्दमस्यप्रजापतेः/पुत्रोबाह्लीश्वरःश्रीमानिलोनामसुधार्मिकः/सराजापृथिवींसर्वांवशेकृत्वामहायशाः/राज्यंचैवनरव्याघ्रपुत्रवत्पर्यपालयत्/सुरैश्चपरमोदारैर्दैतेयैश्चमहासुरैः/नागराक्षसगन्धर्वैर्यक्षैश्चसुमहात्मभिः/पूज्यतेनित्यशःसौम्यभयार्तैरघुनन्दन/अबिभ्यंश्चत्रयोलोकाःसरोषस्यमहात्मनः/सराजातादृशोह्यासीद्धर्मेवीर्येचनिष्ठितः/बुद्ध्याचपरमोदारोबाह्लीकानांमहायशाः/सप्रचक्रेमहाबाहुर्मृगयांरुचिरेवने/चैत्रेमनोरमेमासिसभृत्यबलवाहनः/प्रजघ्नेसनृपोऽरण्येमृगाञ्शतसहस्रशः/हत्वैवतृप्तिर्नाभूच्चराज्ञस्तस्यमहात्मनः/नानामृगाणामयुतंवध्यमानंमहात्मना/यत्रजातोमहासेनस्तंदेशमुपचक्रमे/तस्मिंस्तुदेवदेवेशःशैलराजसुतांहरः/रमयामासदुर्धर्षैःसर्वैरनुचरैःसह/कृत्वास्त्रीभूतमात्मानमुमेशोगोपतिध्वजः/देव्याःप्रियचिकीर्षुःसतस्मिन्पर्वतनिर्झरे/येचतत्रवनोद्देशेसत्त्वाःपुरुषवादिनः/यच्चकिंचनतत्सर्वंनारीसंज्ञंबभूवह/एतस्मिन्नन्तरेराजासइलःकर्दमात्मजः/निघ्नन्मृगसहस्राणितंदेशमुपचक्रमे/सदृष्ट्वास्त्रीकृतंसर्वंसव्यालमृगपक्षिणम्/आत्मानंसानुगंचैवस्त्रीभूतंरघुनन्दन/तस्यदुःखंमहत्त्वासीद्दृष्ट्वात्मानंतथागतम्/उमापतेश्चतत्कर्मज्ञात्वात्रासमुपागमत्/ततोदेवंमहात्मानंशितिकण्ठंकपर्दिनम्/जगामशरणंराजासभृत्यबलवाहनः/ततःप्रहस्यवरदःसहदेव्यामहायशाः/प्रजापतिसुतंवाक्यमुवाचवरदःस्वयम्/उत्तिष्ठोत्तिष्ठराजर्षेकार्दमेयमहाबल/पुरुषत्वमृतेसौम्यवरंवरयसुव्रत/ततःसराजाशोकार्ताःप्रत्याख्यातोमहात्मना/नसजग्राहस्त्रीभूतोवरमन्यंसुरोत्तमात्/ततःशोकेनमहताशैलराजसुतांनृपः/प्रणिपत्यमहादेवींसर्वेणैवान्तरात्मना/ईशेवराणांवरदेलोकानामसिभामिनि/अमोघदर्शनेदेविभजेसौम्येनमोऽस्तुते/हृद्गतंतस्यराजर्षेर्विज्ञायहरसंनिधौ/प्रत्युवाचशुभंवाक्यंदेवीरुद्रस्यसंमता/अर्धस्यदेवोवरदोवरार्धस्यतथाह्यहम्/तस्मादर्धंगृहाणत्वंस्त्रीपुंसोर्यावदिच्छसि/तदद्भुततमंश्रुत्वादेव्यावरमनुत्तमम्/संप्रहृष्टमनाभूत्वाराजावाक्यमथाब्रवीत्/यदिदेविप्रसन्नामेरूपेणाप्रतिमाभुवि/मासंस्त्रीत्वमुपासित्वामासंस्यांपुरुषःपुनः/ईप्सितंतस्यविज्ञायदेवीसुरुचिरानना/प्रत्युवाचशुभंवाक्यमेवमेतद्भविष्यति/राजन्पुरुषभूतस्त्वंस्त्रीभावंनस्मरिष्यसि/स्त्रीभूतश्चापरंमासंनस्मरिष्यसिपौरुषम्/एवंसराजापुरुषोमामंभूत्वाथकार्दमिः/त्रैलोक्यसुन्दरीनारीमासमेकमिलाभवत्/तांकथामिलसंबद्धांरामेणसमुदीरिताम्/लक्ष्मणोभरतश्चैवश्रुत्वापरमविस्मितौ/तौरामंप्राञ्जलीभूत्वातस्यराज्ञोमहात्मनः/विस्तरंतस्यभावस्यतदापप्रच्छतुःपुनः/कथंसराजास्त्रीभूतोवर्तयामासदुर्गतिम्/पुरुषोवायदाभूतःकांवृत्तिंवर्तयत्यसौ/तयोस्तद्भाषितंश्रुत्वाकौतूहलसमन्वितम्/कथयामासकाकुत्ष्ठस्तस्यराज्ञोयथागतम्/तमेवप्रथमंमासंस्त्रीभूत्वालोकसुन्दरी/ताभिःपरिवृतास्त्रीभिर्येऽस्यपूर्वंपदानुगाः/तत्काननंविगाह्याशुविजह्रेलोकसुन्दरी/द्रुमगुल्मलताकीर्णंपद्भ्यांपद्मदलेक्षणा/वाहनानिचसर्वाणिसंत्यक्त्वावैसमन्ततः/पर्वताभोगविवरेतस्मिन्रेमेइलातदा/अथतस्मिन्वनोद्देशेपर्वतस्याविदूरतः/सरःसुरुचिरप्रख्यंनानापक्षिगणायुतम्/ददर्शसाइलातस्मिन्बुधंसोमसुतंतदा/ज्वलन्तंस्वेनवपुषापूर्णंसोममिवोदितम्/तपन्तंचतपस्तीव्रमम्भोमध्येदुरासदम्/यशक्सरंकामगमंतारुण्येपर्यवस्थितम्/सातंजलाशयंसर्वंक्षोभयामासविस्मिता/सहतैःपूरपुरुषैःस्त्रीभूतैरघुनन्दन/बुधस्तुतांनिरीक्ष्यैवकामबाणाभिपीडितः/नोपलेभेतदात्मानंचचालचतदाम्भसि/इलांनिरीक्षमाणःसत्रैलोक्याभ्यधिकांशुभाम्/चिन्तांसमभ्यतिक्रामत्कान्वियंदेवताधिका/नदेवीषुननागीषुनासुरीष्वप्सरःसुच/दृष्टपूर्वामयाकाचिद्रूपेणैतेनशोभिता/सदृशीयंममभवेद्यदिनान्यपरिग्रहा/इतिबुद्धिंसमास्थायजलात्स्थलमुपागमत्/सआश्रमंसमुपागम्यचतस्रःप्रमदास्ततः/शब्दापयतधर्मात्माताश्चैनंचववन्दिरे/सताःपप्रच्छधर्मात्मकस्यैषालोकसुन्दरी/किमर्थमागताचेहसत्यमाख्यातमाचिरम्/शुभंतुतस्यतद्वाक्यंमधुरंमधुराक्षरम्/श्रुत्वातुताःस्त्रियःसर्वाऊचुर्मधुरयागिरा/अस्माकमेषासुश्रोणीप्रभुत्वेवर्ततेसदा/अपतिःकाननान्तेषुसहास्माभिरटत्यसौ/तद्वाक्यमव्यक्तपदंतासांस्त्रीणांनिशम्यतु/विद्यामावर्तनींपुण्यामावर्तयतसद्विजः/सोऽर्थंविदित्वानिखिलंतस्यराज्ञोयथागतम्/सर्वाएवस्त्रियस्ताश्चबभाषेमुनिपुंगवः/अत्रकिंपुरुषाभद्राअवसञ्शैलरोधसि/वत्स्यथास्मिन्गिरौयूयमवकाशोविधीयताम्/मूलपुत्रफलैःसर्वावर्तयिष्यथनित्यदा/स्त्रियःकिम्पुरुषान्नामभर्तॄन्समुपलप्स्यथ/ताःश्रुत्वासोमपुत्रस्यवाचंकिंपुरुषीकृताः/उपासांचक्रिरेशैलंबह्व्यस्ताबहुधातदा/श्रुत्वाकिम्पुरुषोत्पत्तिंलक्ष्मणोभरतस्तदा/आश्चर्यमितिचाब्रूतामुभौरामंजनेश्वरम्/अथरामःकथामेतांभूयएवमहायशाः/कथयामासधर्मात्माप्रजापतिसुतस्यवै/सर्वास्ताविद्रुतादृष्ट्वाकिंनरीरृषिसत्तमः/उवाचरूपसंपन्नांतांस्त्रियंप्रहसन्निव/सोमस्याहंसुदयितःसुतःसुरुचिरानने/भजस्वमांवरारोहेभक्त्यास्निग्धेनचक्षुषा/तस्यतद्वचनंश्रुत्वाशून्येस्वजनवर्जिता/इलासुरुचिरप्रख्यंप्रत्युवाचमहाग्रहम्/अहंकामकरीसौम्यतवास्मिवशवर्तिनी/प्रशाधिमांसोमसुतयथेच्छसितथाकुरु/तस्यास्तदद्भुतप्रख्यंश्रुत्वाहर्षसमन्वितः/सवैकामीसहतयारेमेचन्द्रमसःसुतः/बुधस्यमाधवोमासस्तामिलांरुचिराननाम्/गतोरमयतोऽत्यर्थंक्षणवत्तस्यकामिनः/अथमासेतुसंपूर्णेपूर्णेन्दुसदृशाननः/प्रजापतिसुतःश्रीमाञ्शयनेप्रत्यबुध्यत/सोऽपश्यत्सोमजंतत्रतप्यन्तंसलिलाशये/ऊर्ध्वबाहुंनिरालम्बंतंराजाप्रत्यभाषत/भगवन्पर्वतंदुर्गंप्रविष्टोऽस्मिसहानुगः/नचपश्यामितत्सैन्यंक्वनुतेमामकागताः/तच्छ्रुत्वातस्यराजर्षेर्नष्टसंज्ञस्यभाषितम्/प्रत्युवाचशुभंवाक्यंसान्त्वयन्परयागिरा/अश्मवर्षेणमहताभृत्यास्तेविनिपातिताः/त्वंचाश्रमपदेसुप्तोवातवर्षभयार्दितः/समाश्वसिहिभद्रंतेनिर्भयोविगतज्वरः/फलमूलाशनोवीरवसचेहयथासुखम्/सराजातेनवाक्येनप्रत्याश्वस्तोमहायशाः/प्रत्युवाचशुभंवाक्यंदीनोभृत्यजनक्षयात्/त्यक्ष्याम्यहंस्वकंराज्यंनाहंभृत्यैर्विनाकृतः/वर्तयेयंक्षणंब्रह्मन्समनुज्ञातुमर्हसि/सुतोधर्मपरोब्रह्मञ्ज्येष्ठोमममहायशाः/शशबिन्दुरितिख्यातःसमेराज्यंप्रपत्स्यते/नहिशक्ष्याम्यहंगत्वाभृत्यदारान्सुखान्वितान्/प्रतिवक्तुंमहातेजःकिंचिदप्यशुभंवचः/तथाब्रुवतिराजेन्द्रेबुधःपरममद्भुतम्/सान्त्वपूर्वमथोवाचवासस्तइहरोचताम्/नसंतापस्त्वयाकार्यःकार्दमेयमहाबल/संवत्सरोषितस्येहकारयिष्यामितेहितम्/तस्यतद्वचनंश्रुत्वाबुधस्याक्लिष्टकर्मणः/वासायविदधेबुद्धिंयदुक्तंब्रह्मवादिना/मासंसस्त्रीतदाभूत्वारमयत्यनिशंशुभा/मासंपुरुषभावेनधर्मबुद्धिंचकारसः/ततःसनवमेमासिइलासोमसुतात्मजम्/जनयामाससुश्रोणीपुरूरवसमात्मजम्/जातमात्रंतुसुश्रोणीपितुर्हस्तेन्यवेशयत्/बुधस्यसमवर्णाभमिलापुत्रंमहाबलम्/बुधोऽपिपुरुषीभूतंसमाश्वास्यनराधिपम्/कथाभीरमयामासधर्मयुक्ताभिरात्मवान्/तथोक्तवतिरामेतुतस्यजन्मतदद्भुतम्/उवाचलक्ष्मणोभूयोभरतश्चमहायशाः/साप्रियासोमपुत्रस्यसंवत्सरमथोषिता/अकरोत्किंनरश्रेष्ठतत्त्वंशंसितुमर्हसि/तयोस्तद्वाक्यमाधुर्यंनिशम्यपरिपृच्छतोः/रामःपुनरुवाचेमांप्रजापतिसुतेकथाम्/पुरुषत्वंगतेशूरेबुधःपरमबुद्धिमान्/संवर्तंपरमोदारमाजुहावमहायशाः/च्यवनंभृगुपुत्रंचमुनिंचारिष्टनेमिनम्/प्रमोदनंमोदकरंततोदुर्वाससंमुनिम्/एतान्सर्वान्समानीयवाक्यज्ञस्तत्त्वदर्शिनः/उवाचसर्वान्सुहृदोधैर्येणसुसमाहितः/अयंराजामहाबाहुःकर्दमस्यइलःसुतः/जानीतैनंयथाभूतंश्रेयोह्यस्यविधीयताम्/तेषांसंवदतामेवतमाश्रममुपागमत्/कर्दमःसुमहातेजाद्विजैःसहमहात्मभिः/पुलस्त्यश्चक्रतुश्चैववषट्कारस्तथैवच/ओंकारश्चमहातेजास्तमाश्रममुपागमन्/तेसर्वेहृष्टमनसःपरस्परसमागमे/हितैषिणोबाह्लिपतेःपृथग्वाक्यमथाब्रुवन्/कर्दमस्त्वब्रवीद्वाक्यंसुतार्थंपरमंहितम्/द्विजाःशृणुतमद्वाक्यंयच्छ्रेयःपार्थिवस्यहि/नान्यंपश्यामिभैषज्यमन्तरेणवृषध्वजम्/नाश्वमेधात्परोयज्ञःप्रियश्चैवमहात्मनः/तस्माद्यजामहेसर्वेपार्थिवार्थेदुरासदम्/कर्दमेनैवमुक्तास्तुसर्वएवद्विजर्षभाः/रोचयन्तिस्मतंयज्ञंरुद्रस्याराधनंप्रति/संवर्तस्यतुराजर्षिःशिष्यःपरपुरंजयः/मरुत्तइतिविख्यतस्तंयज्ञंसमुपाहरत्/ततोयज्ञोमहानासीद्बुधाश्रमसमीपतः/रुद्रश्चपरमंतोषमाजगाममहायशाः/अथयज्ञसमाप्तौतुप्रीतःपरमयामुदा/उमापतिर्द्विजान्सर्वानुवाचेदमिलांप्रति/प्रीतोऽस्मिहयमेधेनभक्त्याचद्विजसत्तमाः/अस्यबाह्लिपतेश्चैवकिंकरोमिप्रियंशुभम्/तथावदतिदेवेशेद्विजास्तेसुसमाहिताः/प्रसादयन्तिदेवेशंयथास्यात्पुरुषस्त्विला/ततःप्रीतमनारुद्रःपुरुषत्वंददौपुनः/इलायैसुमहातेजादत्त्वाचान्तरधीयत/निवृत्तेहयमेधेतुगतेचादर्शनंहरे/यथागतंद्विजाःसर्वेअगच्छन्दीर्घदर्शिनः/राजातुबाह्लिमुत्सृज्यमध्यदेशेह्यनुत्तमम्/निवेशयामासपुरंप्रतिष्ठानंयशस्करम्/शशबिन्दुस्तुराजासीद्बाह्ल्यांपरपुरंजयः/प्रतिष्ठानइलोराजाप्रजापतिसुतोबली/सकालेप्राप्तवांल्लोकमिलोब्राह्ममनुत्तमम्/ऐलःपुरूरवाराजाप्रतिष्ठानमवाप्तवान्/ईदृशोह्यश्वमेधस्यप्रभावःपुरुषर्षभौ/स्त्रीभूतःपौरुषंलेभेयच्चान्यदपिदुर्लभम्/एतदाख्यायकाकुत्स्थोभ्रातृह्याममितप्रभः/लक्ष्मणंपुनारेवाहधर्मयुक्तमिदंवचः/वसिष्ठंवामदेवंचजाबालिमथकश्यपम्/द्विजांश्चसर्वप्रवरानश्वमेधपुरस्कृतान्/एतान्सर्वान्समाहूयमन्त्रयित्वाचलक्ष्मण/हयंलक्ष्मणसंपन्नंविमोक्ष्यामिसमाधिना/तद्वाक्यंराघवेणोक्तंश्रुत्वात्वरितविक्रमः/द्विजान्सर्वान्समाहूयदर्शयामासराघवम्/तेदृष्ट्वादेवसंकाशंकृतपादाभिवन्दनम्/राघवंसुदुराधर्षमाशीर्भिःसमपूजयन्/प्राञ्जलिस्तुततोभूत्वाराघवोद्विजसात्तमान्/उवाचधर्मसंयुक्तमश्वमेधाश्रितंवचः/सतेषांद्विजमुख्यानांवाक्यमद्भुतदर्शनम्/अश्वमेधाश्रितंश्रुत्वाभृशंप्रीतोऽभवत्तदा/विज्ञायतुमतंतेषांरामोलक्ष्मणमब्रवीत्/प्रेषयस्वमहाबाहोसुग्रीवायमहात्मने/शीघ्रंमहद्भिर्हरिभिर्बहिभिश्चतदाश्रयैः/सार्धमागच्छभद्रंतेअनुभोक्तुंमखोत्तमम्/विभीषणश्चरक्षोभिःकामगैर्बहुभिर्वृतः/अश्वमेधंमहाबाहुःप्राप्नोतुलघुविक्रमः/राजानश्चनरव्याघ्रयेमेप्रियचिकीर्षवः/सानुगाःक्षिप्रमायान्तुयज्ञभूमिमनुत्तमाम्/देशान्तरगतायेचद्विजाधर्मपरायणाः/निमन्त्रयस्वतान्सर्वानश्वमेधायलक्ष्मण/ऋषयश्चामहाबाहोआहूयन्तांतपोधनाः/देशान्तरगतायेचसदाराश्चमहर्षयः/यज्ञवाटश्चसुमहान्गोमत्यानैमिषेवने/आज्ञाप्यतांमहाबाहोतद्धिपुण्यमनुत्तमम्/शतंवाहसहस्राणांतण्डुलानांवपुष्मताम्/अयुतंतिलमुद्गस्यप्रयात्वग्रेमहाबल/सुवर्णकोट्योबहुलाहिरण्यस्यशतोत्तराः/अग्रतोभरतःकृत्वागच्छत्वग्रेमहामतिः/अन्तरापणवीथ्यश्चसर्वांश्चनटनर्तकान्/नैगमान्बालवृद्धांश्चद्विजांश्चसुसमाहितान्/कर्मान्तिकांश्चकुशलाञ्शिल्पिनश्चसुपण्डितान्/मातरश्चैवमेसर्वाःकुमारान्तःपुराणिच/काञ्चनींममपत्नींचदीक्षार्हांयज्ञकर्मणि/अग्रतोभरतःकृत्वागच्छत्वग्रेमहामतिः/तत्सर्वमखिलेनाशुप्रस्थाप्यभरताग्रजः/हयंलक्ष्मणसंपन्नंकृष्णसारंमुमोचह/ऋत्विग्भिर्लक्ष्मणंसार्धमश्वेचविनियुज्यसः/ततोऽभ्यगच्छत्काकुत्स्थःसहसैन्येननैमिषम्/यज्ञवाटंमहाबाहुर्दृष्ट्वापरममद्भुतम्/प्रहर्षमतुलंलेभेश्रीमानितिचसोऽब्रवीत्/नैमिषेवसतस्तस्यसर्वएवनराधिपाः/आजग्मुःसर्वराष्ट्रेभ्यस्तान्रामःप्रत्यपूजयत्/उपकार्यान्महार्हांश्चपार्थिवानांमहात्मनाम्/सानुगानांनरश्रेष्ठोव्यादिदेशमहाद्युतिः/अन्नपानानिवस्त्राणिसानुगानांमहात्मनाम्/भरतःसंददावाशुशत्रुघ्नसहितस्तदा/वानराश्चमहात्मानःसुग्रीवसहितास्तदा/विप्राणांप्रणताःसर्वेचक्रिरेपरिवेषणम्/विभीषणश्चरक्षोभिःस्रग्विभिर्बहुभिर्वृतः/ऋषीणामुग्रतपसांकिंकरःपर्युपस्थितः/एवंसुविहितोयज्ञोहयमेधोऽभ्यवर्तत/लक्ष्मणेनाभिगुप्ताचहयचर्याप्रवर्तिता/नान्यःशब्दोऽभवत्तत्रहयमेधेमहात्मनः/छन्दतोदेहिविस्रब्धोयावत्तुष्यन्तियाचकाः/तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत/नकश्चिन्मलिनस्तत्रदीनोवाप्यथवाकृशः/तस्मिन्यज्ञवरेराज्ञोहृष्टपुष्टजनावृते/येचतत्रमहात्मानोमुनयश्चिरजीविनः/नास्मरंस्तादृशंयज्ञंदानौघसमलंकृतम्/रजतानांसुवर्णानांरत्नानामथवाससाम्/अनिशंदीयमानानांनान्तःसमुपदृश्यते/नशक्रस्यनसोमस्ययमस्यवरुणस्यवा/ईदृशोदृष्टपूर्वोनएवमूचुस्तपोधनाः/सर्वत्रवानरास्तस्थुःसर्वत्रैवचराक्षसाः/वासोधनानिकामिभ्यःपूर्णहस्ताददुर्भृशम्/ईदृशोराजसिंहस्ययज्ञःसर्वगुणान्वितः/संवत्सरमथोसाग्रंवर्ततेनचहीयते/वर्तमानेतथाभूतेयज्ञेपरमकेऽद्भुते/सशिष्यआजगामाशुवाल्मीकिर्मुनिपुंगवः/सदृष्ट्वादिव्यसंकाशंयज्ञमद्भुतदर्शनम्/एकान्तेऋषिवाटानांचकारउटजाञ्शुभान्/सशिष्यावब्रवीद्धृष्टोयुवांगत्वासमाहितौ/कृत्स्नंरामायणंकाव्यंगायतांपरयामुदा/ऋषिवाटेषुपुण्येषुब्राह्मणावसथेषुच/रथ्यासुराजमार्गेषुपार्थिवानांगृहेषुच/रामस्यभवनद्वारियत्रकर्मचवर्तते/ऋत्विजामग्रतश्चैवतत्रगेयंविशेषतः/इमानिचफलान्यत्रस्वादूनिविविधानिच/जातानिपर्वताग्रेषुआस्वाद्यास्वाद्यगीयताम्/नयास्यथःश्रमंवत्सौभक्षयित्वाफलानिवै/मूलानिचसुमृष्टानिनगरात्परिहास्यथ/यदिशब्दापयेद्रामःश्रवणायमहीपतिः/ऋषीणामुपविष्टानांततोगेयंप्रवर्तताम्/दिवसेविंशतिःसर्गागेयावैपरयामुदा/प्रमाणैर्बहुभिस्तत्रयथोद्दिष्टंमयापुरा/लोभश्चापिनकर्तव्यःस्वल्पोऽपिधनकाङ्क्षया/किंधनेनाश्रमस्थानांफलमूलोपभोगिनाम्/यदिपृच्छेत्सकाकुत्स्थोयुवांकस्येतिदारकौ/वाल्मीकेरथशिष्यौहिब्रूतामेवंनराधिपम्/इमास्तन्त्रीःसुमधुराःस्थानंवापूर्वदर्शितम्/मूर्छयित्वासुमधुरंगायेतांविगतज्वरौ/आदिप्रभृतिगेयंस्यान्नचावज्ञायपार्थिवम्/पिताहिसर्वभूतानांराजाभवतिधर्मतः/तद्युवांहृष्टमनसौश्वःप्रभातेसमाधिना/गायेतांमधुरंगेयंतन्त्रीलयसमन्वितम्/इतिसंदिश्यबहुशोमुनिःप्राचेतसस्तदा/वाल्मीकिःपरमोदारस्तूष्णीमासीन्महायशाः/तामद्भुतांतौहृदयेकुमारौ॑निवेश्यवाणीमृषिभाषितांशुभाम्/समुत्सुकौतौसुखमूषतुर्निशां॑यथाश्विनौभार्गवनीतिसंस्कृतौ/तौरजन्यांप्रभातायांस्नातौहुतहुताशनौ/यथोक्तमृषिणापूर्वंतत्रतत्राभ्यगायताम्/तांसशुश्रावकाकुत्स्थःपूर्वचर्यांततस्ततः/अपूर्वांपाठ्यजातिंचगेयेनसमलंकृताम्/प्रमाणैर्बहुभिर्बद्धांतन्त्रीलयसमन्विताम्/बालाभ्यांराघवःश्रुत्वाकौतूहलपरोऽभवत्/अथकर्मान्तरेराजासमानीयमहामुनीन्/पार्थिवांश्चनरव्याघ्रःपण्डितान्नैगमांस्तथा/पौराणिकाञ्शब्दवितोयेचवृद्धाद्विजातयः/एतान्सर्वान्समानीयगातारौसमवेशयत्/हृष्टाऋषिगणास्तत्रपार्थिवाश्चमहौजसः/पिबन्तइवचक्षुर्भ्यांराजानंगायकौचतौ/परस्परमथोचुस्तेसर्वएवसमंततः/उभौरामस्यसदृशौबिम्बाद्बिम्बमिवोद्धृतौ/जटिलौयदिनस्यातांनवल्कलधरौयदि/विशेषंनाधिगच्छामोगायतोराघवस्यच/तेषांसंवदतामेवंश्रोतॄणांहर्षवर्धनम्/गेयंप्रचक्रतुस्तत्रतावुभौमुनिदारकौ/ततःप्रवृत्तंमधुरंगान्धर्वमतिमानुषम्/नचतृप्तिंययुःसर्वेश्रोतारोगेयसंपदा/प्रवृत्तमादितःपूर्वंसर्गान्नारददर्शनात्/ततःप्रभृतिसर्गांश्चयावद्विंशत्यगायताम्/ततोऽपराह्णसमयेराघवःसमभाषत/श्रुत्वाविंशतिसर्गांस्तान्भरतंभ्रातृवत्सलः/अष्टादशसहस्राणिसुवर्णस्यमहात्मनोः/ददस्वशीघ्रंकाकुत्स्थबालयोर्मावृथाश्रमः/दीयमानंसुवर्णंतन्नागृह्णीतांकुशीलवौ/ऊचतुश्चमहात्मानौकिमनेनेतिविस्मितौ/वन्येनफलमूलेननिरतुस्वोवनौकसौ/सुवर्णेनहिरण्येनकिंकरिष्यावहेवने/तथातयोःप्रब्रुवतोःकौतूहलसमन्विताः/श्रोतारश्चैवरामश्चसर्वएवसुविस्मिताः/तस्यचैवागमंरामःकाव्यस्यश्रोतुमुत्सुकः/पप्रच्छतौमहातेजास्तावुभौमुनिदारकौ/किंप्रमाणमिदंकाव्यंकाप्रतिष्ठामहात्मनः/कर्ताकाव्यस्यमहतःकोवासौमुनिपुंगवः/पृच्छन्तंराघवंवाक्यमूचतुर्मुनिदारकौ/वाल्मीकिर्भगवान्कर्तासंप्राप्तोयज्ञसंनिधिम्/येनेदंचरितंतुभ्यमशेषंसंप्रदर्शितम्/आदिप्रभृतिराजेन्द्रपञ्चसर्गशतानिच/प्रतिष्ठाजीवितंयावत्तावद्राजञ्शुभाशुभम्/यदिबुद्धिःकृताराजञ्श्रवणायमहारथ/कर्मान्तरेक्षणीहूतस्तच्छृणुष्वसहानुजः/बाढमित्यब्रवीद्रामस्तौचानुज्ञाप्यराघवम्/प्रहृष्टौजग्मतुर्वासंयत्रासौमुनिपुंगवः/रामोऽपिमुनिभिःसार्धंपार्थिवैश्चमहात्मभिः/श्रुत्वातद्गीतमाधुर्यंकर्मशालामुपागमत्/रामोबहून्यहान्येवतद्गीतंपरमाद्भुतम्/शुश्रावमुनिभिःसार्धंराजभिःसहवानरैः/तस्मिन्गीतेतुविज्ञायसीतापुत्रौकुशीलवौ/तस्याःपरिषदोमध्येरामोवचनमब्रवीत्/मद्वचोब्रूतगच्छध्वमितिभगवतोऽन्तिकम्/यदिशुद्धसमाचारायदिवावीतकल्मषा/करोत्विहात्मनःशुद्धिमनुमान्यमहामुनिम्/छन्दंमुनेस्तुविज्ञायसीतायाश्चमनोगतम्/प्रत्ययंदातुकामायास्ततःशंसतमेलघु/श्वःप्रभातेतुशपथंमैथिलीजनकात्मजा/करोतुपरिषन्मध्येशोधनार्थंममेहच/श्रुत्वातुराघवस्यैतद्वचःपरममद्भुतम्/दूताःसंप्रययुर्वाटंयत्रास्तेमुनिपुंगवः/तेप्रणम्यमहात्मानंज्वलन्तममितप्रभम्/ऊचुस्तेरामवाक्यानिमृदूनिमधुराणिच/तेषांतद्भाषितंश्रुत्वारामस्यचमनोगतम्/विज्ञायसुमहातेजामुनिर्वाक्यमथाब्रवीत्/एवंभवतुभद्रंवोयथातुष्यतिराघवः/तथाकरिष्यतेसीतादैवतंहिपतिःस्त्रियाः/तथोक्तामुनिनासर्वेरामदूतामहौजसः/प्रत्येत्यराघवंसर्वेमुनिवाक्यंबभाषिरे/ततःप्रहृष्टःकाकुत्स्थःश्रुत्वावाक्यंमहात्मनः/ऋषींस्तत्रसमेतांश्चराज्ञश्चैवाभ्यभाषत/भगवन्तःसशिष्यावैसानुगश्चनराधिपाः/पश्यन्तुसीताशपथंयश्चैवान्योऽभिकाङ्क्षते/तस्यतद्वचनंश्रुत्वाराघवस्यमहात्मनः/सर्वेषमृषिमुख्यानांसाधुवादोमहानभूत्/राजानश्चमहात्मानःप्रशंसन्तिस्मराघवम्/उपपन्नंनरश्रेष्ठत्वय्येवभुविनान्यतः/एवंविनिश्चयंकृत्वाश्वोभूतइतिराघवः/विसर्जयामासतदासर्वांस्ताञ्शत्रुसूदनः/तस्यांरजन्यांव्युष्टायांयज्ञवाटगतोनृपः/ऋषीन्सर्वान्महातेजाःशब्दापयतिराघवः/वसिष्ठोवामदेवश्चजाबालिरथकाश्यपः/विश्वामित्रोदीर्घतपादुर्वासाश्चमहातपाः/अगस्त्योऽथतथाशक्तिर्भार्गवश्चैववामनः/मार्कण्डेयश्चदीर्घायुर्मौद्गल्यश्चमहातपाः/भार्गवश्च्यवनश्चैवशतानन्दश्चधर्मवित्/भरद्वाजश्चतेजस्वीअग्निपुत्रश्चसुप्रभः/एतेचान्येचमुनयोबहवःसंशितव्रताः/राजानश्चनरव्याघ्राःसर्वएवसमागताः/राक्षसाश्चमहावीर्यावानराश्चमहाबलाः/समाजग्मुर्महात्मानःसर्वएवकुतूहलात्/क्षत्रियाश्चैववैश्याश्चशूद्राश्चैवसहस्रशः/सीताशपथवीक्षार्थंसर्वएवसमागताः/तथासमागतंसर्वमश्वभूतमिवाचलम्/श्रुत्वामुनिवरस्तूर्णंससीतःसमुपागमत्/तमृषिंपृष्ठतःसीतासान्वगच्छदवाङ्मुखी/कृताञ्जलिर्बाष्पगलाकृत्वारामंमनोगतम्/तांदृष्ट्वाश्रीमिवायान्तींब्रह्माणमनुगामिनीम्/वाल्मीकेःपृष्ठतःसीतांसाधुकारोमहानभूत्/ततोहलहलाशब्दःसर्वेषामेवमाबभौ/दुःखजेनविशालेनशोकेनाकुलितात्मनाम्/साधुसीतेतिकेचित्तुसाधुरामेतिचापरे/उभावेवतुतत्रान्येसाधुसाध्वितिचाब्रुवन्/ततोमध्यंजनौघानांप्रविश्यमुनिपुंगवः/सीतासहायोवाल्मीकिरितिहोवाचराघवम्/इयंदाशरथेसीतासुव्रताधर्मचारिणी/अपापातेपरित्यक्ताममाश्रमसमीपतः/लोकापवादभीतस्यतवराममहाव्रत/प्रत्ययंदास्यतेसीतातामनुज्ञातुमर्हसि/इमौचजानकीपुत्रावुभौचयमजातकौ/सुतौतवैवदुर्धर्षोसत्यमेतद्ब्रवीमिते/प्रचेतसोऽहंदशमःपुत्रोराघवनन्दन/नस्मराम्यनृतंवाक्यंतथेमौतवपुत्रकौ/बहुवर्षसहस्राणितपश्चर्यामयाकृता/तस्याःफलमुपाश्नीयामपापामैथिलीयथा/अहंपञ्चसुभूतेषुमनःषष्ठेषुराघव/विचिन्त्यसीतांशुद्धेतिन्यगृह्णांवननिर्झरे/इयंशुद्धसमाचाराअपापापतिदेवता/लोकापवादभीतस्यदास्यतिप्रत्ययंतव/वाल्मीकिनैवमुक्तस्तुराघवःप्रत्यभाषत/प्राञ्जलिर्जगतोमध्येदृष्ट्वातांदेववर्णिनीम्/एवमेतन्महाभागयथावदसिधर्मवित्/प्रत्ययोहिममब्रह्मंस्तववाक्यैरकल्मषैः/प्रत्ययोहिपुरादत्तोवैदेह्यासुरसंनिधौ/सेयंलोकभयाद्ब्रह्मन्नपापेत्यभिजानता/परित्यक्तामयासीतातद्भवान्क्षन्तुमर्हति/जानामिचेमौपुत्रौमेयमजातौकुशीलवौ/शुद्धायांजगतोमध्येमैथिल्यांप्रीतिरस्तुमे/अभिप्रायंतुविज्ञायरामस्यसुरसत्तमाः/पितामहंपुरस्कृत्यसर्वएवसमागताः/आदित्यावसवोरुद्राविश्वेदेशामरुद्गणाः/अश्विनावृषिगन्धर्वाअप्सराणांगणास्तथा/साध्याश्चदेवाःसर्वेतेसर्वेचपरमर्षयः/ततोवायुःशुभःपुण्योदिव्यगन्धोमनोरमः/तंजनौघंसुरश्रेष्ठोह्लादयामाससर्वतः/तदद्भुतमिवाचिन्त्यंनिरीक्षन्तेसमाहिताः/मानवाःसर्वराष्ट्रेभ्यःपूर्वंकृतयुगेयथा/सर्वान्समागतान्दृष्ट्वासीताकाषायवासिनी/अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवान्मुखी/यथाहंराघवादन्यंमनसापिनचिन्तये/तथामेमाधवीदेवीविवरंदातुमर्हति/तथाशपन्त्यांवैदेह्यांप्रादुरासीत्तदद्भुतम्/भूतलादुत्थितंदिव्यंसिंहासनमनुत्तमम्/ध्रियमाणंशिरोभिस्तन्नागैरमितविक्रमैः/दिव्यंदिव्येनवपुषासर्वरत्नविभूषितम्/तस्मिंस्तुधरणीदेवीबाहुभ्यांगृह्यमैथिलीम्/स्वागतेनाभिनन्द्यैनामासनेचोपवेषयत्/तामासनगतांदृष्ट्वाप्रविशन्तींरसातलम्/पुण्यवृष्टिरविच्छिन्नादिव्यासीतामवाकिरत्/साधुकारश्चसुमहान्देवानांसहसोत्थितः/साधुसाध्वितिवैसीतेयस्यास्तेशीलमीदृशम्/एवंबहुविधावाचोह्यन्तरिक्षगताःसुराः/व्याजह्रुर्हृष्टमनसोदृष्ट्वासीताप्रवेशनम्/यज्ञवाटगताश्चापिमुनयःसर्वएवते/राजानश्चनरव्याघ्राविस्मयान्नोपरेमिरे/अन्तरिक्षेचभूमौचसर्वेस्थावरजङ्गमाः/दानवाश्चमहाकायाःपातालेपन्नगाधिपाः/केचिद्विनेदुःसंहृष्टाःकेचिद्ध्यानपरायणाः/केचिद्रामंनिरीक्षन्तेकेचित्सीतामचेतनाः/सीताप्रवेशनंदृष्ट्वातेषामासीत्समागमः/तंमुहूर्तमिवात्यर्थंसर्वंसंमोहितंजगत्/तदावसानेयज्ञस्यरामःपरमदुर्मनाः/अपश्यमानोवैदेहींमेनेशून्यमिदंजगत्/शोकेनपरमायत्तोनशान्तिंमनसागमत्/विसृज्यपार्थिवान्सर्वानृक्षवानरराक्षसान्/जनौघंब्रह्ममुख्यानांवित्तपूर्णंव्यसर्जयत्/ततोविसृज्यतान्सर्वान्रामोराजीवलोचनः/हृदिकृत्वातदासीतामयोध्यांप्रविवेशसः/नसीतायाःपरांभार्यांवव्रेसरघुनन्दनः/यज्ञेयज्ञेचपत्न्यर्थंजानकीकाञ्चनीभवत्/दशवर्षसहस्राणिवाजिमेधमुपाकरोत्/वाजपेयान्दशगुणांस्तथाबहुसुवर्णकान्/अग्निष्टोमातिरात्राभ्यांगोसवैश्चमहाधनैः/ईजेक्रतुभिरन्यैश्चसश्रीमानाप्तदक्षिणैः/एवंसकालःसुमहान्राज्यस्थस्यमहात्मनः/धर्मेप्रयतमानस्यव्यतीयाद्राघवस्यतु/ऋक्षवानररक्षांसिस्थितारामस्यशासने/अनुरज्यन्तिराजानोअहन्यहनिराघवम्/कालेवर्षतिपर्जन्यःसुभिक्षंविमलादिशः/हृष्टपुष्टजनाकीर्णंपुरंजनपदस्तथा/नाकालेम्रियतेकश्चिन्नव्याधिःप्राणिनांतदा/नाधर्मश्चाभवत्कश्चिद्रामेराज्यंप्रशासति/अथदीर्घस्यकालस्यराममातायशस्विनी/पुत्रपौत्रैःपरिवृताकालधर्ममुपागमत्/अन्वियायसुमित्रापिकैकेयीचयशस्विनी/धर्मंकृत्वाबहुविधंत्रिदिवेपर्यवस्थिता/सर्वाःप्रतिष्ठिताःस्वर्गेराज्ञादशरथेनच/समागतामहाभागाःसहधर्मंचलेभिरे/तासांरामोमहादानंकालेकालेप्रयच्छति/मातॄणामविशेषेणब्राह्मणेषुतपस्विषु/पित्र्याणिबहुरत्नानियज्ञान्परमदुस्तरान्/चकाररामोधर्मात्मापितॄन्देवान्विवर्धयन्/कस्यचित्त्वथकालस्ययुधाजित्केकयोनृपः/स्वगुरुंप्रेषयामासराघवायमहात्मने/गार्ग्यमङ्गिरसःपुत्रंब्रह्मर्षिममितप्रभम्/दशचाश्वसहस्राणिप्रीतिदानमनुत्तमम्/कम्बलानिचरत्नानिचित्रवस्त्रमथोत्तमम्/रामायप्रददौराजाबहून्याभरणानिच/श्रुत्वातुराघवोगार्ग्यंमहर्षिंसमुपागतम्/मातुलस्याश्वपतिनःप्रियंदूतमुपागतम्/प्रत्युद्गम्यचकाकुत्स्थःक्रोशमात्रंसहानुगः/गार्ग्यंसंपूजयामासधनंतत्प्रतिगृह्यच/पृष्ट्वाचप्रीतिदंसर्वंकुशलंमातुलस्यच/उपविष्टंमहाभागंरामःप्रष्टुंप्रचक्रमे/किमाहमतुलोवाक्यंयदर्थंभगवानिह/प्राप्तोवाक्यविदांश्रेष्ठसाक्षादिवबृहस्पतिः/रामस्यभाषितंश्रुत्वाब्रह्मर्षिःकार्यविस्तरम्/वक्तुमद्भुतसंकाशंराघवायोपचक्रमे/मातुलस्तेमहाबाहोवाक्यमाहनरर्षभ/युधाजित्प्रीतिसंयुक्तंश्रूयतांयदिरोचते/अयंगन्धर्वविषयःफलमूलोपशोभितः/सिन्धोरुभयतःपार्श्वेदेशःपरमशोभनः/तंचरक्षन्तिगन्धर्वाःसायुधायुद्धकोविदाः/शैलूषस्यसुतावीरास्तिस्रःकोट्योमहाबलाः/तान्विनिर्जित्यकाकुत्स्थगन्धर्वविषयंशुभम्/निवेशयमहाबाहोद्वेपुरेसुसमाहितः/अन्यस्यनगतिस्तत्रदेशश्चायंसुशोभनः/रोचतांतेमहाबाहोनाहंत्वामनृतंवदे/तच्छ्रुत्वाराघवःप्रीतोमरर्षिर्मातुलस्यच/उवाचबाढमित्येवंभरतंचान्ववैक्षत/सोऽब्रवीद्राघवःप्रीतःप्राञ्जलिप्रग्रहोद्विजम्/इमौकुमारौतंदेशंब्रह्मर्षेविजयिष्यतः/भरतस्यात्मजौवीरौतक्षःपुष्कलएवच/मातुलेनसुगुप्तौतौधर्मेणचसमाहितौ/भरतंचाग्रतःकृत्वाकुमारौसबलानुगौ/निहत्यगन्धर्वसुतान्द्वेपुरेविभजिष्यतः/निवेश्यतेपुरवरेआत्माजौसंनिवेश्यच/आगमिष्यतिमेभूयःसकाशमतिधार्मिकः/ब्रह्मर्षिमेवमुक्त्वातुभरतंसबलानुगम्/आज्ञापयामासतदाकुमारौचाभ्यषेचयत्/नक्षत्रेणचसौम्येनपुरस्कृत्याङ्गिरःसुतम्/भरतःसहसैन्येनकुमाराभ्यांचनिर्ययौ/सासेनाशक्रयुक्तेवनरगान्निर्ययावथ/राघवानुगतादूरंदुराधर्षासुरासुरैः/मांसाशीनिचसत्त्वानिरक्षांसिसुमहान्तिच/अनुजग्मुश्चभरतंरुधिरस्यपिपासया/भूतग्रामाश्चबहवोमांसभक्षाःसुदारुणाः/गन्धर्वपुत्रमांसानिभोक्तुकामाःसहस्रशः/सिंहव्याघ्रसृगालानांखेचराणांचपक्षिणाम्/बहूनिवैसहस्राणिसेनायाययुरग्रतः/अध्यर्धमासमुषितापथिसेनानिरामया/हृष्टपुष्टजनाकीर्णाकेकयंसमुपागमत्710025/श्रुत्वासेनापतिंप्राप्तंभरतंकेकयाधिपः/युधाजिद्गार्ग्यसहितंपरांप्रीतिमुपागमत्71011/सनिर्ययौजनौघेनमहताकेकयाधिपः/त्वरमाणोऽभिचक्रामगन्धर्वान्देवरूपिणः/भरतश्चयुधाजिच्चसमेतौलघुविक्रमौ/गन्धर्वनगरंप्राप्तौसबलौसपदानुगौ/श्रुत्वातुभरतंप्राप्तंगन्धर्वास्तेसमागताः/योद्धुकामामहावीर्याविनदन्तःसमन्ततः/ततःसमभवद्युद्धंतुमुलंलोमहर्षणम्/सप्तरात्रंमहाभीमंनचान्यतरयोर्जयः/ततोरामानुजःक्रुद्धःकालस्यास्त्रंसुदारुणम्/संवर्तंनामभरतोगन्धर्वेष्वभ्ययोजयत्/तेबद्धाःकालपाशेनसंवर्तेनविदारिताः/क्षणेनाभिहतास्तिस्रस्तत्रकोट्योमहात्मना/तंघातंघोरसंकाशंनस्मरन्तिदिवौकसः/निमेषान्तरमात्रेणतादृशानांमहात्मनाम्/हतेषुतेषुवीरेषुभरतःकैकयीसुतः/निवेशयामासतदासमृद्धेद्वेपुरोत्तमे/तक्षंतक्षशिलायांतुपुष्करंपुष्करावतौ/गन्धर्वदेशोरुचिरोगान्धारविषयश्चसः/वर्षैःपञ्चभिराकीर्णोविषयैर्नागरैस्तथा/धनरत्नौघसंपूर्णोकाननैरुपशोभिते/अन्योन्यसंघर्षकृतेस्पर्धयागुणविस्तरे/उभेसुरुचिरप्रख्येव्यवहारैरकल्मषैः/उद्यानयानौघवृतेसुविभक्तान्तरापणे/उभेपुरवरेरम्येविस्तरैरुपशोभिते/गृहमुख्यैःसुरुचिरैर्विमानैःसमवर्णिभिः/शोभितेशोभनीयैश्चदेवायतनविस्तरैः/निवेश्यपञ्चभिर्वर्षैर्भरतोराघवानुजः/पुनरायान्महाबाहुरयोध्यांकैकयीसुतः/सोऽभिवाद्यमहात्मानंसाक्षाद्धर्ममिवापरम्/राघवंभरतःश्रीमान्ब्रह्माणमिववासवः/शशंसचयथावृत्तंगन्धर्ववधमुत्तमम्/निवेशनंचदेशस्यश्रुत्वाप्रीतोऽस्यराघवः710118/तच्छ्रुत्वाहर्षमापेदेराघवोभ्रातृभिःसह/वाक्यंचाद्भुतसंकाशंभ्रातॄन्प्रोवाचराघवः71021/इमौकुमारौसौमित्रेतवधर्मविशारदौ/अङ्गदश्चन्द्रकेतुश्चराज्यार्हौदृढधन्विनौ/इमौराज्येऽभिषेक्ष्यामिदेशःसाधुविधीयताम्/रमणीयोह्यसंबाधोरमेतांयत्रधन्विनौ/नराज्ञांयत्रपीदास्यान्नाश्रमाणांविनाशनम्/सदेशोदृश्यतांसौम्यनापराध्यामहेयथा/तथोक्तवतिरामेतुभरतःप्रत्युवाचह/अयंकारापथोदेशःसुरमण्योनिरामयः/निवेश्यतांतत्रपुरमङ्गदस्यमहात्मनः/चन्द्रकेतोश्चरुचिरंचन्द्रकान्तंनिरामयम्/तद्वाक्यंभरतेनोक्तंप्रतिजग्राहराघवः/तंचकृतावशेदेशमङ्गदस्यन्यवेशयत्/अङ्गदीयापुरीरम्याअङ्गदस्यनिवेशिता/रमणीयासुगुप्ताचरामेणाक्लिष्टकर्मणा/चन्द्रकेतुस्तुमल्लस्यमल्लभूम्यांनिवेशिता/चन्द्रकान्तेतिविख्यातादिव्यास्वर्गपुरीयथा/ततोरामःपरांप्रीतिंभरतोलक्ष्मणस्तथा/ययुर्युधिदुराधर्षाअभिषेकंचचक्रिरे/अभिषिच्यकुमारौद्वौप्रस्थाप्यसबलानुगौ/अङ्गदंपश्चिमाभूमिंचन्द्रकेतुमुदङ्मुखम्/अङ्गदंचापिसौमित्रिर्लक्ष्मणोऽनुजगामह/चन्द्रकेतोस्तुभरतःपार्ष्णिग्राहोबभूवह/लक्ष्मणस्त्वङ्गदीयायांसंवत्सरमथोषितः/पुत्रेस्थितेदुराधर्षेअयोध्यांपुनरागमत्/भरतोऽपितथैवोष्यसंवत्सरमथाधिकम्/अयोध्यांपुनरगम्यरामपादावुपागमत्/उभौसौमित्रिभरतौरामपादावनुव्रतौ/कालंगतमपिस्नेहान्नजज्ञातेऽतिधार्मिकौ/एवंवर्षसहस्राणिदशतेषांययुस्तदा/धर्मेप्रयतमानानांपौरकार्येषुनित्यदा/विहृत्यलाकंपरिपूर्णमानसाः॑श्रियावृताधर्मपथेपरेस्थिताः/त्रयःसमिद्धाइवदीप्ततेजसा॑हुताग्नयःसाधुमहाध्वरेत्रयः710217/कस्यचित्त्वथकालस्यरामेधर्मपथेस्थिते/कालस्तापसरूपेणराजद्वारमुपागमत्71031/सोऽब्रवील्लक्ष्मणंवाक्यंधृतिमन्तंयशस्विनम्/मांनिवेदयरामायसंप्राप्तंकार्यगौरवात्/दूतोह्यतिबलस्याहंमहर्षेरमितौजसः/रामंदिदृक्षुरायातःकार्येणहिमहाबल/तस्यतद्वचनंश्रुत्वासौमित्रिस्त्वरयान्वितः/न्यवेदयतरामायतापसस्यविवक्षितम्/जयस्वराजन्धर्मेणउभौलोकौमहाद्युते/दूतस्त्वांद्रष्टुमायातस्तपस्वीभास्करप्रभः/तद्वाक्यंलक्ष्मणेनोक्तंश्रुत्वारामउवाचह/प्रवेश्यतांमुनिस्तातमहौजास्तस्यवाक्यधृक्/सौमित्रिस्तुतथेत्युक्त्वाप्रावेशयततंमुनिम्/ज्वलन्तमिवतेजोभिःप्रदहन्तमिवांशुभिः/सोऽभिगम्यरघुश्रेष्ठंदीप्यमानंस्वतेजसा/ऋषिर्मधुरयावाचावर्धस्वेत्याहराघवम्/तस्मैरामोमहातेजाःपूजामर्घ्यपुरोगमाम्/ददौकुशलमव्यग्रंप्रष्टुंचैवोपचक्रमे/पृष्ठश्चकुशलंतेनरामेणवदतांवरः/आसनेकाञ्चनेदिव्येनिषसादमहायशाः/तमुवाचततोरामःस्वागतंतेमहामुने/प्रापयस्वचवाक्यानियतोदूतस्त्वमागतः/चोदितोराजसिंहेनमुनिर्वाक्यमुदीरयत्/द्वन्द्वमेतत्प्रवक्तव्यंनचचक्षुर्हतंवचः/यःशृणोतिनिरीक्षेद्वासवध्यस्तवराघव/भवेद्वैमुनिमुख्यस्यवचनंयद्यवेक्षसे/तथेतिचप्रतिज्ञायरामोलक्ष्मणमब्रवीत्/द्वारितिष्ठमहाबाहोप्रतिहारंविसर्जय/समेवध्यःखलुभवेत्कथांद्वन्द्वसमीरिताम्/ऋषेर्ममचसौमित्रेपश्येद्वाशृणुयाचयः/ततोनिक्षिप्यकाकुत्स्थोलक्ष्मणंद्वारसंग्रहे/तमुवाचमुनिंवाक्यंकथयस्वेतिराघवः/यत्तेमनीषितंवाक्यंयेनवासिसमाहितः/कथयस्वविशङ्कस्त्वंममापिहृदिवर्तते710317/शृणुराममहाबाहोयदर्थमहमाहतः/पितामहेनदेवेनप्रेषितोऽस्मिमहाबल71041/तवाहंपूर्वकेभावेपुत्रःपरपुरंजय/मायासंभावितोवीरकालःसर्वसमाहरः/पितामहश्चभगवानाहलोकपतिःप्रभुः/समयस्तेमहाबाहोस्वर्लोकान्परिरक्षितुम्/संक्षिप्यचपुरालोकान्माययास्वयमेवहि/महार्णवेशयानोऽप्सुमांत्वंपूर्वमजीजनः/भोगवन्तंततोनागमनन्तमुदकेशयम्/माययाजनयित्वात्वंद्वौचसत्त्वौमहाबलौ/मधुंचकैटभंचैवययोरस्थिचयैर्वृता/इयंपर्वतसंबाधामेदिनीचाभवन्मही/पद्मेदिव्यार्कसंकाशेनाभ्यामुत्पाद्यमामपि/प्राजापत्यंत्वयाकर्मसर्वंमयिनिवेशितम्/सोऽहंसंन्यस्तभारोहित्वामुपासेजगत्पतिम्/रक्षांविधत्स्वभूतेषुममतेजःकरोभवान्/ततस्त्वमपिदुर्धर्षस्तस्माद्भावात्सनातनात्/रक्षार्थंसर्वभूतानांविष्णुत्वमुपजग्मिवान्/अदित्यांवीर्यवान्पुत्रोभ्रातॄणांहर्षवर्धनः/समुत्पन्नेषुकृत्येषुलोकसाह्यायकल्पसे/सत्वंवित्रास्यमानासुप्रजासुजगतांवर/रावणस्यवधाकाङ्क्षीमानुषेषुमनोऽदधाः/दशवर्षसहस्राणिदशवर्षशतानिच/कृत्वावासस्यनियतिंस्वयमेवात्मनःपुरा/सत्वंमनोमयःपुत्रःपूर्णायुर्मानुषेष्विह/कालोनरवरश्रेष्ठसमीपमुपवर्तितुम्/यदिभूयोमहाराजप्रजाइच्छस्युपासितुम्/वसवावीरभद्रंतेएवमाहपितामहः/अथवाविजिगीषातेसुरलोकायराघव/सनाथाविष्णुनादेवाभवन्तुविगतज्वराः/श्रुत्वापितामहेनोक्तंवाक्यंकालसमीरितम्/राघवःप्रहसन्वाक्यंसर्वसंहारमब्रवीत्/श्रुतंमेदेवदेवस्यवाक्यंपरममद्भुतम्/प्रीतिर्हिमहतीजातातवागमनसंभवा/भद्रंतेऽस्तुगमिष्यामियतएवाहमागतः/हृद्गतोह्यसिसंप्राप्तोनमेऽस्त्यत्रविचारणा/मयाहिसर्वकृत्येषुदेवानांवशवर्तिनाम्/स्थातव्यंसर्वसंहारेयथाह्याहपितामहः710419/तथातयोःकथयतोर्दुर्वासाभगवानृषिः/रामस्यदर्शनाकाङ्क्षीराजद्वारमुपागमत्71051/सोऽभिगम्यचसौमित्रिमुवाचऋषिसत्तमः/रामंदर्शयमेशीघ्रंपुरामेऽर्थोऽतिवर्तते/मुनेस्तुभाषितंश्रुत्वालक्ष्मणःपरवीरहा/अभिवाद्यमहात्मानंवाक्यमेतदुवाचह/किंकार्यंब्रूहिभगवन्कोवार्थःकिंकरोम्यहम्/व्यग्रोहिराघवोब्रह्मन्मुहूर्तंवाप्रतीक्षताम्/तच्छ्रुत्वाऋषिशार्दूलःक्रोधेनकलुषीकृतः/उवाचलक्ष्मणंवाक्यंनिर्दहन्निवचक्षुषा/अस्मिन्क्षणेमांसौमित्रेरामायप्रतिवेदय/विषयंत्वांपुरंचैवशपिष्येराघवंतथा/भरतंचैवसौमित्रेयुष्माकंयाचसंततिः/नहिशक्ष्याम्यहंभूयोमन्युंधारयितुंहृदि/तच्छ्रुत्वाघोरसंकाशंवाक्यंतस्यमहात्मनः/चिन्तयामासमनसातस्यवाक्यस्यनिश्चयम्/एकस्यमरणंमेऽस्तुमाभूत्सर्वविनाशनम्/इतिबुद्ध्याविनिश्चित्यराघवायन्यवेदयत्/लक्ष्मणस्यवचःश्रुत्वारामःकालंविसृज्यच/निष्पत्यत्वरितंराजाअत्रेःपुत्रंददर्शह/सोऽभिवाद्यमहात्मानंज्वलन्तमिवतेजसा/किंकार्यमितिकाकुत्स्थःकृताञ्जलिरभाषत/तद्वाक्यंराघवेण्णोक्तंश्रुत्वामुनिवरःप्रभुः/प्रत्याहरामंदुर्वासाःश्रूयतांधर्मवत्सल/अद्यवर्षसहस्रस्यसमाप्तिर्ममराघव/सोऽहंभोजनमिच्छामियथासिद्धंतवानघ/तच्छ्रुत्वावचनंरामोहर्षेणमहतान्वितः/भोजनंमुनिमुख्याययथासिद्धमुपाहरत्/सतुभुक्त्वामुनिश्रेष्ठस्तदन्नममृतोपमम्/साधुरामेतिसंभाष्यस्वमाश्रममुपागमत्/तस्मिन्गतेमहातेजाराघवःप्रीतमानसः/संस्मृत्यकालवाक्यानिततोदुःखमुपेयिवान्/दुःखेनचसुसंतप्तःस्मृत्वातद्घोरदर्शनम्/अवान्मुखोदीनमनाव्याहर्तुंनशशाकह/ततोबुद्ध्याविनिश्चित्यकालवाक्यानिराघवः/नैतदस्तीतिचोक्त्वासतूष्णीमासीन्महायशाः710518/अवाङ्मुखमथोदीनंदृष्ट्वासोममिवाप्लुतम्/राघवंलक्ष्मणोवाक्यंहृष्टोमधुरमब्रवीत्71061/नसंतापंमहाबाहोमदर्थंकर्तुमर्हसि/पूर्वनिर्माणबद्धाहिकालस्यगतिरीदृशी/जहिमांसौम्यविस्रब्दःप्रतिज्ञांपरिपालय/हीनप्रतिज्ञाःकाकुत्स्थप्रयान्तिनरकंनराः/यदिप्रीतिर्महाराजयद्यनुग्राह्यतामयि/जहिमांनिर्विशङ्कस्त्वंधर्मंवर्धयराघव/लक्ष्मणेनतथोक्तस्तुरामःप्रचलितेन्द्रियः/मन्त्रिणःसमुपानीयतथैवचपुरोधसं/अब्रवीच्चयथावृत्तंतेषांमध्येनराधिपः/दुर्वासोऽभिगमंचैवप्रतिज्ञांतापसस्यच/तच्छ्रुत्वामन्त्रिणःसर्वेसोपाध्यायाःसमासत/वसिष्ठस्तुमहातेजावाक्यमेतदुवाचह/दृष्टमेतन्महाबाहोक्षयंतेलोमहर्षणम्/लक्ष्मणेनवियोगश्चतवराममहायशः/त्यजैनंबलवान्कालोमाप्रतिज्ञांवृथाकृथाः/विनष्टायांप्रतिज्ञायांधर्मोहिविलयंव्रजेत्/ततोधर्मेविनष्टेतुत्रैलोक्येसचराचरम्/सदेवर्षिगणंसर्वंविनश्येतनसंशयः/सत्वंपुरुषशार्दूलत्रैलोक्यस्याभिपालनम्/लक्ष्मणस्यवधेनाद्यजगत्स्वस्थंकुरुष्वह/तेषांतत्समवेतानांवाक्यंधर्मार्थसंहितम्/श्रुत्वापरिषदोमध्येरामोलक्ष्मणमब्रवीत्/विसर्जयेत्वांसौमित्रेमाभूद्धर्मविपर्ययः/त्यागोवधोवाविहितःसाधूनामुभयंसमम्/रामेणभाषितेवाक्येबाष्पव्याकुलितेक्षणः/लक्ष्मणस्त्वरितःप्रायात्स्वगृहंनविवेशह/सगत्वासरयूतीरमुपस्पृश्यकृताञ्जलिः/निगृह्यसर्वस्रोतांसिनिःश्वासंनमुमोचह/अनुच्छ्वसन्तंयुक्तंतंसशक्राःसाप्सरोगणाः/देवाःसर्षिगणाःसर्वेपुष्पैरवकिरंस्तदा/अदृश्यंसर्वमनुजैःसशरीरंमहाबलम्/प्रगृह्यलक्ष्मणंशक्रोदिवंसंप्रविवेशह/ततोविष्णोश्चतुर्भागमागतंसुरसत्तमाः/हृष्टाःप्रमुदिताःसर्वेऽपूजयनृषिभिःसह710618/विसृज्यलक्ष्मणंरामोदुःखशोकसमन्वितः/पुरोधसंमन्त्रिणश्चनैगमांश्चेदमब्रवीत्71071/अद्यराज्येऽभिषेक्ष्यामिभरतंधर्मवत्सलम्/अयोध्यायांपतिंवीरंततोयास्याम्यहंवनम्/प्रवेशयतसंभारान्माभूत्कालात्ययोयथा/अद्यैवाहंगमिष्यामिलक्ष्मणेनगतांगतिम्/तच्छ्रुत्वाराघवेणोक्तंसर्वाःप्रकृतयोभृशम्/मूर्धभिःप्रणताभूमौगतसत्त्वाइवाभवन्/भरतश्चविसंज्ञोऽभूच्छ्रुत्वारामस्यभाषितम्/राज्यंविगर्हयामासराघवंचेदमब्रवीत्/सत्येनहिशपेराजन्स्वर्गलोकेनचैवहि/नकामयेयथाराज्यंत्वांविनारघुनन्दन/इमौकुशीलवौराजन्नभिषिञ्चनराधिप/कोसलेषुकुशंवीरमुत्तरेषुतथालवम्/शत्रुघ्नस्यतुगच्छन्तुदूतास्त्वरितविक्रमाः/इदंगमनमस्माकंस्वर्गायाख्यान्तुमाचिरम्/तच्छ्रुत्वाभरतेनोक्तंदृष्ट्वाचापिह्यधोमुखान्/पौरान्दुःखेनसंतप्तान्वसिष्ठोवाक्यमब्रवीत्/वत्सरामइमाःपश्यधरणींप्रकृतीर्गताः/ज्ञात्वैषामीप्सितंकार्यंमाचैषांविप्रियंकृथाः/वसिष्ठस्यतुवाक्येनउत्थाप्यप्रकृतीजनम्/किंकरोमीतिकाकुत्स्थःसर्वान्वचनमब्रवीत्/ततःसर्वाःप्रकृतयोरामंवचनमब्रुवन्/गच्छन्तमनुगच्छामोयतोरामगमिष्यसि/एषानःपरमाप्रीतिरेषधर्मःपरोमतः/हृद्गतानःसदातुष्टिस्तवानुगमनेदृढा/पौरेषुयदितेप्रीतिर्यदिस्नेहोह्यनुत्तमः/सपुत्रदाराःकाकुत्स्थसमंगच्छामसत्पथम्/तपोवनंवादुर्गंवानदीमम्भोनिधिंतथा/वयंतेयदिनत्याज्याःसर्वान्नोनयईश्वर/सतेषांनिश्चयंज्ञात्वाकृतान्तंचनिरीक्ष्यच/पौराणांदृढभक्तिंचबाढमित्येवसोऽब्रवीत्/एवंविनिश्चयंकृत्वातस्मिन्नहनिराघवः/कोसलेषुकुशंवीरमुत्तरेषुतथालवम्/अभिषिञ्चन्महात्मानावुभावेवकुशीलवौ/रथानांतुसहस्राणित्रीणिनागायुतानिच/दशचाश्वसहस्राणिएकैकस्यधनंददौ/बहुरत्नौबहुधनौहृष्टपुष्टजनावृतौ/अभिषिच्यतुतौवीरौप्रस्थाप्यस्वपुरेतथा/दूतान्संप्रेषयामासशत्रुघ्नायमहात्मने710721/तेदूतारामवाक्येनचोदितालघुविक्रमाः/प्रजग्मुर्मधुरांशीघ्रंचक्रुर्वासंनचाध्वनि71081/ततस्त्रिभिरहोरात्रैःसंप्राप्यमधुरामथ/शत्रुघ्नाययथावृत्तमाचख्युःसर्वमेवतत्/लक्ष्मणस्यपरित्यागंप्रतिज्ञांराघवस्यच/पुत्रयोरभिषेकंचपौरानुगमनंतथा/कुशस्यनगरीरम्याविन्ध्यपर्वतरोधसि/कुशावतीतिनाम्नासाकृतारामेणधीमता/श्राविताचपुरीरम्याश्रावतीतिलवस्यच/अयोध्यांविजनांचैवभरतंराघवानुगम्/एवंसर्वंनिवेद्याशुशत्रुघ्नायमहात्मने/विरेमुस्तेततोदूतास्त्वरराजन्नितिब्रुवन्/श्रुत्वातंघोरसंकाशंकुलक्षयमुपस्थितम्/प्रकृतीस्तुसमानीयकाञ्चनंचपुरोहितम्/तेषांसर्वंयथावृत्तमाख्यायरघुनन्दनः/आत्मनश्चविपर्यासंभविष्यंभ्रातृभिःसह/ततःपुत्रद्वयंवीरःसोऽभ्यषिञ्चन्नराधिपः/सुबाहुर्मधुरांलेभेशत्रुघातीचवैदिशम्/द्विधाकृत्वातुतांसेनांमाधुरींपुत्रयोर्द्वयोः/धनधान्यसमायुक्तौस्थापयामासपार्थिवौ/ततोविसृज्यराजानंवैदिशेशत्रुघातिनम्/जगामत्वरितोऽयोध्यांरथेनैकेनराघवः/सददर्शमहात्मानंज्वलन्तमिवपावकम्/क्षौमसूक्ष्माम्बरधरंमुनिभिःसार्धमक्षयैः/सोऽभिवाद्यततोरामंप्राञ्जलिःप्रयतेन्द्रियः/उवाचवाक्यंधर्मज्ञोधर्ममेवानुचिन्तयन्/कृत्वाभिषेकंसुतयोर्युक्तंराघवयोर्धनैः/तवानुगमनेराजन्विद्धिमांकृतनिश्चयम्/नचान्यदत्रवक्तव्यंदुस्तरंतवशासनम्/त्यक्तुंनार्हसिमांवीरभक्तिमन्तंविशेषतः/तस्यतांबुद्धिमक्लीबांविज्ञायरघुनन्दनः/बाढमित्येवशत्रुघ्नंरामोवचनमब्रवीत्/तस्यवाक्यस्यवाक्यान्तेवानराःकामरूपिणः/ऋक्षराक्षससंघाश्चसमापेतुरनेकशः/देवपुत्राऋषिसुतागन्धर्वाणांसुतास्तथा/रामक्षयंविदित्वातेसर्वएवसमागताः/तेराममभिवाद्याहुःसर्वएवसमागताः/तवानुगमनेराजन्संप्राप्ताःस्ममहायशः/यदिरामविनास्माभिर्गच्छेस्त्वंपुरुषर्षभ/यमदण्डमिवोद्यम्यत्वयास्मविनिपातिताः/एवंतेषांवचःश्रुत्वाऋष्कवानररक्षसाम्/विभीषणमथोवाचमधुरंश्लक्ष्णयागिरा/यावत्प्रजाधरिष्यन्तितावत्त्वंवैविभीषण/राक्षसेन्द्रमहावीर्यलङ्कास्थःस्वंधरिष्यसि/प्रजाःसंरक्षधर्मेणनोत्तरंवक्तुमर्हसि/तमेवमुक्त्वाकाकुत्स्थोहनूमन्तमथाब्रवीत्/जीवितेकृतबुद्धिस्त्वंमाप्रतिज्ञांविलोपय/मत्कथाःप्रचरिष्यन्तियावल्लोकेहरीश्वर/तावत्त्वंधारयन्प्राणान्प्रतिज्ञामनुपालय/तथैवमुक्त्वाकाकुत्स्थःसर्वांस्तानृक्षवानरान्/मयासार्धंप्रयातेतितदातान्राघवोऽब्रवीत्710838/प्रभातायांतुशर्वर्यांपृथुवक्षामहायशाः/रामःकमलपत्राक्षःपुरोधसमथाब्रवीत्71091/अग्निहोत्रंव्रजत्वग्रेसर्पिर्ज्वलितपावकम्/वाजपेयातपत्रंचशोभयानंमहापथम्/ततोवसिष्ठस्तेजस्वीसर्वंनिरवशेषतः/चकारविधिवद्धर्म्यंमहाप्रास्थानिकंविधिम्/ततःक्षौमाम्बरधरोब्रह्मचावर्तयन्परम्/कुशान्गृहीत्वापाणिभ्यांप्रसज्यप्रययावथ/अव्याहरन्क्वचित्किंचिन्निश्चेष्टोनिःसुखःपथि/निर्जगामगृहात्तस्माद्दीप्यमानोयथांशुमान्/रामस्यपार्श्वेसव्येतुपद्माश्रीःसुसमाहिता/दक्षिणेह्रीर्विशालाक्षीव्यवसायस्तथाग्रतः/शरानानाविधाश्चापिधनुरायतविग्रहम्/अनुव्रजन्तिकाकुत्स्थंसर्वेपुरुषविग्रहाः/वेदाब्राह्मणरूपेणसावित्रीसर्वरक्षिणी/ओंकारोऽथवषट्कारःसर्वेराममनुव्रताः/ऋषयश्चमहात्मानःसर्वएवमहीसुराः/अन्वगच्छन्तकाकुत्स्थंस्वर्गद्वारमुपागतम्/तंयान्तमनुयान्तिस्मअन्तःपुरचराःस्त्रियः/सवृद्धबालदासीकाःसवर्षवरकिंकराः/सान्तःपुरश्चभरतःशत्रुघ्नसहितोययौ/रामव्रतमुपागम्यराघवंसमनुव्रताः/ततोविप्रामहात्मानःसाग्निहोत्राःसमाहिताः/सपुत्रदाराःकाकुत्स्थमन्वगच्छन्महामतिम्/मन्त्रिणोभृत्यवर्गाश्चसपुत्राःसहबान्धवाः/सानुगाराघवंसर्वेअन्वगच्छन्प्रहृष्टवत्/ततःसर्वाःप्रकृतयोहृष्टपुष्टजनावृताः/अनुजग्मुःप्रगच्छन्तंराघवंगुणरञ्जिताः/स्नातंप्रमुदितंसर्वंहृष्टपुष्पमनुत्तमम्/दृप्तंकिलिकिलाशब्दैःसर्वंराममनुव्रतम्/नतत्रकश्चिद्दीनोऽभूद्व्रीडितोवापिदुःखितः/हृष्टंप्रमुदितंसर्वंबभूवपरमाद्भुतम्/द्रष्टुकामोऽथनिर्याणंराज्ञोजानपदोजनः/संप्राप्तःसोऽपिदृष्ट्वैवसहसर्वैरनुव्रतः/ऋक्षवानररक्षांसिजनाश्चपुरवासिनः/अगछन्परयाभक्त्यापृष्ठतःसुसमाहिताः710919/अध्यर्धयोजनंगत्वानदींपश्चान्मुखाश्रिताम्/सरयूंपुण्यसलिलांददर्शरघुनन्दनः71101/अथतस्मिन्मुहूर्तेतुब्रह्मालोकपितामहः/सर्वैःपरिवृतोदेवैरृषिभिश्चमहात्मभिः/आययौयत्रकाकुत्स्थःस्वर्गायसमुपस्थितः/विमानशतकोटीभिर्दिव्याभिरभिसंवृतः/पपातपुष्पवृष्टिश्चवायुमुक्तामहौघवत्/तस्मिंस्तूर्यशताकीर्णेगन्धर्वाप्सरसंकुले/सरयूसलिलंरामःपद्भ्यांसमुपचक्रमे/ततःपितामहोवाणीमन्तरिक्षादभाषत/आगच्छविष्णोभद्रंतेदिष्ट्याप्राप्तोऽसिराघव/भ्रातृभिःसहदेवाभैःप्रविशस्वस्वकांतनुम्/वैष्णवींतांमहातेजस्तदाकाशंसनातनम्/त्वंहिलोकगतिर्देवनत्वांकेचित्प्रजानते/ऋतेमायांविशालाक्षतवपूर्वपरिग्रहाम्/त्वमचिन्त्यंमहद्भूतमक्षयंसर्वसंग्रहम्/यामिच्छसिमहातेजस्तांतनुंप्रविशस्वयम्/पितामहवचःश्रुत्वाविनिश्चित्यमहामतिः/विवेशवैष्णवंतेजःसशरीरःसहानुजः/ततोविष्णुगतंदेवंपूजयन्तिस्मदेवताः/साध्यामरुद्गणाश्चैवसेन्द्राःसाग्निपुरोगमाः/येचदिव्याऋषिगणागन्धर्वाप्सरसश्चयाः/सुपर्णनागयक्षाश्चदैत्यदानवराक्षसाः/सर्वंहृष्टंप्रमुदितंसर्वंपूर्णमनोरथम्/साधुसाध्वितितत्सर्वंत्रिदिवंगतकल्मषम्/अथविष्णुर्महातेजाःपितामहमुवाचह/एषांलोकाञ्जनौघानांदातुमर्हसिसुव्रत/इमेहिसर्वेस्नेहान्मामनुयातामनस्विनः/भक्ताभाजयितव्याश्चत्यक्तात्मानश्चमत्कृते/तच्छ्रुत्वाविष्णुवचनंब्रह्मालोकगुरुःप्रभुः/लोकान्सान्तानिकान्नामयास्यन्तीमेसमागताः/यच्चतिर्यग्गतंकिंचिद्राममेवानुचिन्तयत्/प्राणांस्त्यक्ष्यतिभक्त्यावैसंतानेतुनिवत्स्यति/सर्वैरेवगुणैर्युक्तेब्रह्मलोकादनन्तरे/वानराश्चस्वकांयोनिमृक्षाश्चैवतथाययुः/येभ्योविनिःसृतायेयेसुरादिभ्यःसुसंभवाः/ऋषिभ्योनागयक्षेभ्यस्तांस्तानेवप्रपेदिरे/तथोक्तवतिदेवेशेगोप्रतारमुपागताः/भेजिरेसरयूंसर्वेहर्षपूर्णाश्रुविक्लवाः/अवगाह्यजलंयोयःप्राणीह्यासीत्प्रहृष्टवत्/मानुषंदेहमुत्सृज्यविमानंसोऽध्यरोहत/तिर्यग्योनिगताश्चापिसंप्राप्ताःसरयूजलम्/दिव्यादिव्येनवपुषादेवादीप्ताइवाभवन्/गत्वातुसरयूतोयंस्थावराणिचराणिच/प्राप्यतत्तोयविक्लेदंदेवलोकमुपागमन्/देवानांयस्ययायोनिर्वानराऋष्कराक्षसाः/तामेवविविशुःसर्वेदेवान्निक्षिप्यचाम्भसि/तथास्वर्गगतंसर्वंकृत्वालोकगुरुर्दिवम्/जगामत्रिदशैःसार्धंहृष्टैर्हृष्टोमहामतिः711028/
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment